स्वरूप ! भवतो भवत्व् अयम् इति स्मित-स्निग्धयागिरैव रघुनाथम् उत्पुलकि-गात्रम् उल्लासयन् ।रहस्य् उपदिशन् निज-प्रणय-गूढ-मुद्रां स्वयंविराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥१॥
स्वरूप ! मम हृद्-व्रणं बत विवेद रूपः कथंलिलेख यद् अयं पठ त्वम् अपि ताल-पत्रेऽक्षरम् ।इति प्रणय-वेल्लितं विदधद् आशु रूपान्तरंविराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥२॥
स्वरूप ! परकीय-सत्-प्रवर-वस्तु-नाशेच्छतांदधज्-जन इह त्वया परिचितो न वेतीक्षयम् ।सनातनम् उदित्य विस्मित-मुखं महा-विस्मितंविराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥३॥
स्वरूप ! हरि-नाम यज् जगद् अघोषयं तेन किं न वाचयितुम् अप्य् अथाशकम् इमं शिवानन्दजम् ।इति स्व-पद-लेहनैः शिशुम् अचीकरन् यः कविंविराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥४॥
स्वरूप ! रस-रीतिर् अम्बुज-दृशां व्रजे भण्यतांघन-प्रणय-मानजा श्रुति-युगं ममोत्कण्ठते ।रमा यद् इह मानिनी तद् अपि लोकयेति ब्रुवन्विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥५॥
स्वरूप ! रस-मन्दिरं भवसि मन्-मुदाम् आस्पदंत्वम् अत्र पुरुषोत्तमे व्रज-भुवीव मे वर्तसे ।इति स्व-परिरम्भणैः पुलकिनं व्यधात् तं च योविराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥६॥
स्वरूप ! किम् अपीक्षितं क्व नु विभो निशि स्वप्नतःप्रभो कथय किं नु तन्-नव-युवा वराम्भोधरः ।व्यधात् किम् अयम् ईक्ष्यते किम् उ न हीत्य् अगात् तां दशांविराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥७॥
स्वरूप ! मम नेत्रयोः पुरत एव कृष्णो हसन्नुपैति न करग्रहं बत ददाति हा किं सखे ।इति स्खलति धावति श्वसिति घूर्णते यः सदा विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥८॥स्
वरूप-चरितामृतं किल महाप्रभोर् अष्टकंरहस्यतमम् अद्भुतं पठति यः कृती प्रत्यहम् ।स्वरूप-परिवारतां नयति तं शची-नन्दनोघन-प्रणय-माधुरीं स्व-पदयोः समात्वादयन् ॥९॥
इति श्री-विश्वनाथ-चक्रवर्ति-ठक्कुर-विरचित-स्तवामृत-लहर्यांश्री-महाप्रभोर् अष्टकंसम्पूर्णम्
॥।