गदाधर यदा परः स किल कश्चनालोकितोमया श्रित-गयाध्वना मधुर-मूर्तिर् एकस् तदा ।नवाम्बुद इव ब्रुवन् धृत-नवाम्बुदो नेत्रयोर्लुठन् भुवि निरुद्ध-वाग् विजयते शची-नन्दनः ॥१॥
अलक्षित-चरीं हरीत्य् उदित-मात्रतः किं दशामसाव् अतिबुधाग्रणीर् अतुल-कम्प-सम्पादिकाम् ।व्रजन्न् अहह मोदते न पुनर् अत्र शास्त्रेष्व् इतिस्व-शिष्य-गण-वेष्टितो विजयते शची-नन्दनः ॥२॥
हा हा किम् इदम् उच्यते पठ पठात्र कृष्णं मुहुर्विना तम् इह साधुतां दधति किं बुधा धातवः ।प्रसिद्ध इह वर्ण-सङ्घटित-सम्यग्-आम्नायकःस्व-नाम्नि यद् इति ब्रुवन् विजयते शची-नन्दनः ॥३॥
नवाम्बुज-दले यद्-ईक्षण-सवर्णता-दीर्घतेसदा स्व-हृदि भाव्यतां सपदि साध्यतां तत्-पदम् ।स पाठयति विस्मितान् स्मित-मुखः स्व-शिष्यान् इतिप्रतिप्रकरणं प्रभुर् विजयते शची-नन्दनः ॥४॥
क्व यानि करवाणि किं क्व नु मया हरिर् लभ्यतांतम् उद्दिशतु कः सखे कथय कः प्रपद्येत माम् ।इति द्रवति घूर्णते कलित-भक्त-कण्ठः शुचास मूर्च्छयति मातरं विजयते शची-नन्दनः ॥५॥
स्मरार्बुद-दुरापया तनु-रुचि-च्छटा-च्छाययातमः कलि-तमः-कृतं निखिलम् एव निर्मूलयन् ।नृणां नयन-सौभगं दिविषदां मुखैस् तारयन्लसन्न् अधिधरः प्रभुर् विजयते शची-नन्दनः ॥६॥
अयं कनक-भूधरः प्रणय-रत्नम् उच्चैः किरन्कृपातुरतया व्रजन्न् अभवद् अत्र विश्वम्भरः ।यद् अक्षि पथ-सञ्चरत्-सुरधुनी-प्रवाहैर् निजंपरं च जगद् आर्द्रयन् विजयते शची-नन्दनः ॥७॥
गतोऽस्मि मधुरां मम प्रियतमा विशाखा सखीगता नु बत किं दशां वद कथं नु वेदानि ताम् ।इतीव स निजेच्छया व्रज-पतेः सुतः प्रापितस्तदीय-रस-चर्वणां विजयते शची-नन्दनः ॥८॥
इदं पठति योऽष्टकं गुण-निधे शचीनन्दन प्रभो तव पदाम्बुजे स्फुरद्-अमन्द-विश्रम्भवान् ।तम् उज्ज्वल-मतिं निज-प्रणय-रूप-वर्गानुगंविधाय निज-धामनि द्रुतम् उरीकुरुष्व स्वयम् ॥९॥
इति श्री-विश्वनाथ-चक्रवर्ति-ठक्कुर-विरचित-स्तवामृत-लहर्यांश्री-शचीनन्दन-विजयाष्टकंसम्पूर्णम्
॥।