यः कृष्ण-चैतन्य-कृपैक-वित्तस्
तत्-प्रेम-हेमाभरणाढ्य-चित्तः ।
निपत्य भूमौ सततं नमामस्
तं लोकनाथं प्रभुम् आश्रयामः ॥१॥
यो लब्ध-वृन्दावन-नित्य-वासः
परिस्फुरत्-कृष्ण-विलास-रासः ।
स्वाचार-चर्य-सतताविरामस्
तं लोकनाथं प्रभुम् आश्रयामः ॥२॥
सदोल्लसद्-भागवतानुरक्त्या
यः कृष्ण-राधा-श्रवणादि-भक्त्या ।
अयातयामीकृत-सर्व-यामस्
तं लोकनाथं प्रभुम् आश्रयामः ॥३॥
वृन्दावनाधीश-पदाब्ज-सेवा-
स्वादेऽनुमज्जन्ति न हन्त के वा ।
यस् तेष्व् अपि श्लाघातमोऽभिरामस्
तं लोकनाथं प्रभुम् आश्रयामः ॥४॥
यः कृष्ण-लीला-रस एव लोकान्
अनुन्मुखान् वीक्ष्य बिभर्ति शोकान् ।
स्वयं तद्-आस्वादन-मात्र-कामस्
तं लोकनाथं प्रभुम् आश्रयामः ॥५॥
कृपा-बलं यस्य विवेद कश्चित्
नरोत्तमो नाम महान् विपश्चित् ।
यस्य प्रथीयान् विषयोपरामस्
तं लोकनाथं प्रभुम् आश्रयामः ॥६॥
रागानुगा-वर्त्मनि यत्-प्रसादाद्
विशन्त्याविज्ञा अपि निर्विषादाः ।
जने कृतागस्य् अपि यस् त्व् अवामस्
तं लोकनाथं प्रभुम् आश्रयामः ॥७॥
यद्-दास-दासानुदास-दासाः
वय्हं भवामः फलिताभिलाषाः ।
यदीयतायां सहसा विशामस्
तं लोकनाथं प्रभुम् आश्रयामः ॥८॥
श्री-लोकनाथाष्टकम् अत्युदारं
भक्त्या पठेद् यः पुरुषार्थ-सारम् ।
स मञ्जुलाली-पदवीं प्रपद्य
श्री-राधिकां सेवत एव सद्यः ॥९॥
सोऽयं श्री-लोकनाथः स्फुरतु पुरु-कृपा-रश्मिभिः स्वैः समुद्यन्
उद्धृत्योद्धृत्य यो नः प्रचुरतम-तमः कूपतो दीपिताभिः ।
दृग्भिः स्व-प्रेम-वीथ्या दिशम् अदिशद् अहो यां श्रिता दिव्य-लीला-
रत्नाढ्यं विन्दमाना वयम् अपि निभृतं श्रील-गोवर्धनं स्मः ॥१०॥
॥ इति श्री-श्री-लोकनाथ-प्रभु-वराष्टकं सम्पूर्णम् ॥
॥।