०५ श्री-नरोत्तमाष्टकम्

श्री-कृष्ण-नामामृत-वर्षि-वक्त्र-

चन्द्र-प्रभा-ध्वस्त-तमो-भराय ।

गौराङ्ग-देवानुचराय तस्मै

नमो नमः श्रील-नरोत्तमाय ॥१॥

सङ्कीर्तनानन्दज-मन्द-हास्य-

दन्त-द्युति-द्योतित-दिङ्-मुखाय ।

स्वेदाश्रु-धारा-स्नपिताय तस्मै

नमो नमः श्रील-नरोत्तमाय ॥२॥

मृदङ्ग-नाद-श्रुति-मात्र-चञ्चत्-

पदाम्बुजामन्द-मनोहराय ।

सद्यः समुद्यत्-पुलकाय तस्मै

नमो नमः श्रील-नरोत्तमाय ॥३॥

गन्धर्व-गर्व-क्षपण-स्वलास्य-

विस्मापिताशेष-कृति-व्रजाय ।

स्व-सृष्ट-गान-प्रथिताय तस्मै

नमो नमः श्रील-नरोत्तमाय ॥४॥

आनन्द-मूर्च्छावनिपात्-भात-

धूली-भरालङ्कृत-विग्रहाय ।

यद्-दर्शनं भाग्य-भरेण तस्मै

नमो नमः श्रील-नरोत्तमाय ॥५॥

स्थले स्थले यस्य कृपा-प्रपाभिः

कृष्णान्य-तृष्णा जन-संहतीनाम् ।

निर्मूलिता एव भवन्ति तस्मै

नमो नमः श्रील-नरोत्तमाय ॥६॥

यद्-भक्ति-निष्ठा पल-रेखिकेव

स्पर्शः पुनः स्पर्श-मणीव यस्य ।

प्रामाण्यम् एवं श्रुतिवद् यदीयं

तस्मै नमः श्रील-नरोत्तमाय ॥७॥

मूर्तैव भक्तिः किम् अयं किम् एष

वैराग्य-सारस् तनुमान् नृलोके ।

सम्भाव्यते यः कृतिभिः सदैव

तस्मै नमः श्रील-नरोत्तमाय ॥८॥

राजन्-मृदङ्ग-करताल-कलाभिरामं

गौराङ्ग-गान-मधु-पान-भराभिरामम् ।

श्रीमन्-नरोत्तम-पदाम्बुज-मञ्जु-नृत्यं

भृत्यं कृतार्थयतु मां फलितेष्ट-कृत्यम् ॥९॥