प्रपन्न-जननी-वृति ज्वलति संसृतिर्-ज्वालया
यदीय-नयनोदितातुल-कृपातिवृष्टिर् द्रुतम् ।
विधूय दवथुं करोत्य् अमल-भक्ति-वाप्य्-औचितीं
स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥१॥
यद्-आस्य-कमलोदिता व्रज-भुवो महिम्नां ततिः
श्रुता बत विसर्जयेत् पति-कलत्र-पुत्रालयान् ।
कलिन्द-तनया-तटी वन-कुटीर-वासं नयेत्
स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥२॥
व्रजाम्बुज-दृशां कथं भवति भाव-भूमा कथम्
भवेद् अनुगतिः कथं किम् इह साधनं कोऽधिकृत् ।
इति स्फुटम् अवैति को यद्-उपदेश-भाग्यं विना
स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥३॥
तपस्वि-यति-कर्मिणां सदसि तार्किकानां तथा
प्रतिस्व-मत-वैदुषी-प्रकटनोढ-गर्व-श्रियाम् ।
विराजति रविर् यथा तमसि यः स्व-भक्त्य्-ओजसा
स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥४॥
किम् अद्य परिधास्यते किम् अथ भोज्यते राधया
समं मदन-मोहनो मदन-कोटि-निमज्जितः ।
इतीष्ट-वरिवस्यया नयति योऽष्ट-यामान् सदा
स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥५॥
मृदङ्ग-करतालिका-मधुर-कीर्तने नर्तयन्
जनान् सुकृतिनो नटन् स्वयम् अपि प्रमोदाम्बुधौ ।
निमज्जति दृग्-अम्बुभिःपुलक-सङ्कुलःस्नाति यः
स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥६॥
समं भगवतो जनैः प्रवर-भक्ति-शास्त्रोदितं
रसं सुरसयन् मुहुः परिजनांश् च यः स्वादयन् ।
स्व-शिष्य-शत-वेष्टितो जयति चक्रवर्त्य्-आख्यया
स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥७॥
स्थितिः सुर-सरित्-तटे मदन-मोहनो जीवनं
स्पृहा रसिक-सङ्गमे चतुरिमा जनोद्धारणे ।
घृणा विषयिषु क्षमा झटिति यस्य चानुव्रजे
स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥८॥
इदं प्रभु-वराष्टकं पठति यस् तदीयो जनस्
तद्-अङ्घ्रि-कमलेष्ट-धीः स खलु रङ्गवत् प्रेम-भाक् ।
विलास-भृत-मञ्जुल्य्-आल्य्-अतिकृपैक-पात्री-भवन्
निकुञ्ज-निलयाधिपाव् अचिरम् एव तौ सेवते ॥९॥
इति श्री-श्री-परम-गुरु-प्रभु-वराष्टकं सम्पूर्णम्
…