प्रातः श्री-तुलसी-नतिः स्व-करतस् तत्-पिण्डिका-लेपनं
तत्-साम्मुख्यम् अथ स्थितिं स्मृतिर् अथ स्व-स्वामिनोः पादयोः ।
तत्-सेवार्थ-बहु-प्रसून-चयनं नित्यं स्वयं यस्य तं
श्री-राधा-रमणं मुदा गुरु-वरं वन्दे निपत्यावनौ ॥१॥
मध्याह्ने तु निजेश-पाद-कमल-ध्यानार्चनान्नार्पण-
प्रादक्षिणानति-स्तुति-प्रणयिता नृत्यं सतां सङ्गतिः ।
श्रीमद्-भागवतार्थ-सीधु-मधुरास्वादः सदा यस्य तं
श्री-राधा-रमणं मुदा गुरु-वरं वन्दे निपत्यावनौ ॥२॥
प्रक्षाल्याङ्घ्रि-युगं नति-स्तुति-जयं कर्तुं मनोऽत्युत्सुकं
सायं गोष्ठम् उपागतं वन-भुवो द्रष्टुं निज-स्वामिनम् ।
प्रेमानन्द-भरेण नेत्र-पुटयोर् धारा चिराद् यस्य तं
श्री-राधा-रमणं मुदा गुरु-वरं वन्दे निपत्यावनौ ॥३॥
रात्रौ श्री-जयदेव-पद्य-पठनं तद्-गीत-गानं रसा-
स्वादो भक्त-जनैः कदाचिद् अभितः सङ्कीर्तने नर्तनम् ।
राधा-कृष्ण-विलास-केल्य्-अनुभवाद् उन्निद्रता यस्य तं
श्री-राधा-रमणं मुदा गुरु-वरं वन्दे निपत्यावनौ ॥४॥
निन्देत्य्-अक्षरयोर् द्वयं परिचयं प्राप्तं न यत्-कर्णयोः
साधूनां स्तुतिम् एव यः स्व-रसनाम् आस्वादयत्य् अन्वहम् ।
विश्वास्यं जगद् एव यस्य न पुनः कुत्रापि दोष-ग्रहः
श्री-राधा-रमणं मुदा गुरु-वरं वन्दे निपत्यावनौ ॥५॥
यः कोऽप्य् अस्तु पदाब्जयोर् निपतितो यः स्वीकरोत्य् एव तं
शीघ्रं स्वीय-कृपा-बलेन कुरुते भक्तौ तु मत्वास्पदम् ।
नित्यं भक्ति-रहस्य-शिक्षण-विधिर् यस्य स्व-भृत्येषु तं
श्री-राधा-रमणं मुदा गुरु-वरं वन्दे निपत्यावनौ ॥६॥
सर्वाङ्गैर् नत-भृत्य-मूर्ध्नि कृपया स्व-पादार्पणं
स्मित्वा चारु कृपावलोक-सुधया तन्-मानसोदासनम् ।
तत्-प्रेमोदय-हेतवे स्व-पदयोः सेवोपदेशः स्वयं
श्री-राधा-रमणं मुदा गुरु-वरं वन्दे निपत्यावनौ ॥७॥
राधे ! कृष्ण ! इति प्लुत-स्वर-युतं नामामृतं नाथयोर्
जिह्वाग्रे नटयन् निरन्तरम् अहो नो वेत्ति वस्तु क्वचित् ।
यत् किञ्चिद् व्यवहार-साधकम् अपि प्रेम्नैव मग्नोऽस्ति यः
श्री-राधा-रमणं मुदा गुरु-वरं वन्दे निपत्यावनौ ॥८॥
त्वत्-पादाम्बुज-सीधु-सूचकतया पद्याष्टकं सर्वथा
यातं यत्-परमाणुतां प्रभु-वर प्रोद्यत्-कृपा-वारिधे ।
मच्-चेतो-भ्रमरोऽवलम्बा तद् इदं प्राप्याविलम्बं भवत्-
सङ्गं मञ्जु-निकुञ्ज-धाम्नि जुषतां तत्-स्वामिनोः सौरभम् ॥९॥
इति श्री-गुरु-चरण-स्मरणाष्टकं सम्पूर्णं
…