राधा-कुण्डोत्पत्तिः

विश्वनाथ-चक्रवर्ति-ठक्कुरेण विरचितः

स्वकीयात्व-निरास-विचारः

तथा

परकीयात्व-निरूपणम्

इ।

स्वकीयात्व-निरास-विचारः

इह व्रजे केचन श्रीमन्-नन्दनन्दनेन सह श्री-वृषभानु-नन्दिन्या उद्वाहं वदन्तो विवदन्ते । तत्र त एव प्रष्टव्याः किं मथुरा-प्रस्थानात् पूर्वम् ? उत, मथुरातो द्वारकायाम् उषित्वा ततः कुरुक्षेत्र-मिलन-समये ? आहो स्वित्, तत आगत्य दन्तवक्र-वधानन्तरं पद्म-पुराणीय-गद्यानुसारेण पुनर् व्रजागमनोत्तर-काले ? किम् उत, लक्ष्मी-परम-व्योम-नाथः नित्य-सिद्ध एवेति ? तत्रापि किं पितृभ्यां श्री-कृष्णाय प्रथमत एवानन्य-पर्वैव दत्ता ? उताहो, आदौ अन्यस्मै दत्ता तद्-अनन्तरं यथा कथंचित् तद्-विवाहस्य मिथ्यात्वेन विख्यापनं श्रुत्वा पुनर् अनेनोद्वाहिता ? ॥१॥

नाद्यः, व्रज-राजस्य वैश्य-जातित्वाद् उपनीतस्यैव श्री-कृष्णस्य तद्-औचित्यात् । प्रकृते तु मथुरायाम् एव कंस-वधानन्तरम् एव श्रीमद्-वसुदेवेनैव तस्य संस्कृतत्वात् । न चादौ व्रजे संस्कृत-चर एव पुनः क्षत्रियत्वे संस्कृत इति वाच्यम् । श्री-भागवतादिषु कुत्रापि तथानुल्लेखात् न्याय-सिद्धत्वाच् च । तद् यथा –
गर्भाधानाद् अष्टमे जन्मतो वा
मौञ्जी-बन्धः शस्यते ब्राह्मणानाम् ।
राजन्यानां नवमे एकादशेऽब्दे
वैश्यानां च द्वादशे वेद-विद्भिर् ॥ इति ।
प्रस्तुते श्री-कृष्णस्यैकादश-वर्षारम्भ-मात्रं व्रजे स्थितिः सुप्रसिद्धा ॥२॥

नापि द्वितीयः । कुरुक्षेत्र-मिलनानन्तरं सर्वेषां व्रज-वासिनां च यथा-पूर्वं स-कुटुम्बानाम् एव स्व-स्व-स्थान-गमनाद् विशेषतस् तासां रहो मिलन-समये –
आहुश् च ते नलिन-नाभ पदारविन्दं
योगेश्वरैर् हृदि विचिन्त्यम् अगाध-बोधैः ।
संसार-कूप-पतितोत्तरणावलम्बं
गेहं जुषाम् अपि मनस्य् उदियात् सदा नः ॥ [भा।पु। १०.८२.४८]
इत्य् अस्य तद्-वचनस्य व्याख्याने श्री-कृष्ण-सन्दर्भ [१७०]-वैष्णव-तोषण्योः । ननु स्वयम् एव आगत्य मां कुतो नानुभवतस् तत्राहुः गेहं जुषां पर-गृहिणीनाम् अस्वतन्त्राणाम्१ इति व्याख्यानत्वात् तत्-प्रसङ्गस्यापि कर्तम् अयोग्यत्वात् ॥३॥

तृतीयं तु दुर्घट एव । पाद्मोत्तर-खण्डे श्री-कृष्णागमनानन्तरं गोप-नारीभिर् अनिशं क्रीडयामास केशवः [पद्मप् ६.२५२.२६] इत्य् अत्र गोप-पत्नीभिर् इत्य् उक्तत्वात्, बहु-प्रेम-रसेनात्र मास-द्वयम् उवास ह [पद्मप् ६.२५२.२७] इत्य् उक्त्वा समनन्तरं तस्मिन्न् एव गद्ये पुत्र-दार-सहितानां व्रज-वासिनां श्री-कृष्णेनान्तर्धापितत्वस्योक्तत्वाच् च । प्रमाणान्तरस्य तु कुत्राप्य् अदृष्टत्वात् । न चानिश-क्रीडा दाम्पत्यं विना न सिद्ध्यतीत्य् अन्यथानुपपत्त्या तद् अवश्यम् अङ्गीकर्तव्यम् इति वाच्यम् । तस्य हाटकेश्वरस्येवाविरत-सुरतस्यामतत्वाद् रसापहतत्वाच् च ॥४॥

ननु कृष्ण-सन्दर्भ-गोपाल-चम्पू-लोचन-रोचन्य्-आदिषु दन्तवक्र-वधात् पूर्व-लीलानाम् अवतार-लीलात्वेनोक्त्वा प्रत्याख्यानाद् एतद्-अनन्तर-लीलानाम् एव नित्यता स्थापितैव । सर्वासां व्रज-सुन्दरीणां सत्यत्व-मिथ्यात्वे तत्र निर्णीय मायिकीनां स्व-स्व-पति-गृह-गृहिणीत्वे स्थितित्व-विवरणात् सत्याभिः सह श्री-कृष्णस्य पुनर् उद्वाहस्याप्य् उक्तत्वात् केन वा को नाम नवीनः सन्देहः समुत्थापित इति सन्दिहानाः स्मो वयम् एव ।
अत्रोच्यते । श्री-कृष्ण-लीलानां श्रुति-स्मृति-पुराणागमनादिषु नित्यत्वेन प्रतिज्ञातानां सर्व-पूर्वाचार्य-जीवातु-रूपोपासनीयत्वेन संमतानां यद् अनादरं विधाय स्व-रचित-लीलानाम् एव नित्यतां ब्रूथ, तत्र श्री-भगवत्-सन्दर्भादिर् एव युष्मन्-निरसने जागरूको वर्तत एवालं तद्-विचार-विस्तारेण । अत्र सिद्धान्त-सारे तु विवृतम् ॥

भागवतामृत-धृत-गद्यानुसारिणश् चेद् भवन्तस् तर्हि तल्-लिखनम् उपक्रमोपसंहाराभ्यां विचार्य अनार्यं कथं वदथ ? तत्र तेन दन्तवक्रं निहत्य यमुनाम् उत्तीर्य श्रीमन्-नन्दादि-गोप-गणैः सह मिलित्वा गोप-नारीभिर् मास-द्वयं विहृत्य पुत्र-दार-सहिताः सर्व एव व्रज-वासिनोऽन्तर्धापिता एतावन्-मात्रं निर्णीतं नान्यद् अधिकं किञ्चिद् अपि । किं च यद्यपि स्व-स्व-पत्न्य्-आदिभिः सह व्रज-वासिनाम् अप्रकटे वासः पुराणानुयायी तेषां ग्रन्थ-कर्तॄणां निर्णयः कथम् अन्यैर् अन्यथा वक्तुं शक्यम् ?
उच्यते चेत् केन वा तत्-प्रमाणी-करणीयम् ? अपि च, यद्य् उद्वाह एव दुर्घटस् तदान्यैर् उपात्तोऽपि पूर्वोद्वाहस्य मायिकत्व-ख्यापनानन्तरं श्री-कृष्णेन सह पुनर् विवाहः शिष्टैः कथं मन्तव्यः ? लोके वेदे च तस्य दिधिषु-वादस्यातीव जुगुप्सित-तत्त्वम् अमूलकत्वं च स्पष्टम् एव ॥५॥

नापि चतुर्थः संगच्छते । प्रकटाप्रकटयोर् ऐक्य-रूपेण लोकवल् लीला-कैवल्येन च सर्वदा स्थितेः सर्वत्र निर्णयात् ।
ननु, ब्रह्म-संहितोक्त-श्री-कृष्णस्यादि-पुरुषत्वं तासां च लक्ष्मीत्वम् अतिविस्पष्टम् एव । तद्-अनुयायिनां गोलोकोपासकानाम् अस्माकं किम् एताभिर् अवतार-लीला विभीषिकाभिः ? न चाप्रकट-लीलां विना माधुर्यास्वाद एव न सम्भवेद् इति वाच्यम् । अप्रकटस्य सर्वेषां नयनागोचरस्य गोलोकत्वे एव स्थापितत्वात् ।
अत्र वदामः । यद्यपि रमादि-शब्दैस् तासाम् आदि-पुरुषत्वेन च श्री-कृष्णस्य च विख्यातस् तथापि ब्रह्मणोक्त-मन्त्र-चिन्तामणेर् उपासना-प्रकारे तु श्रीमन्-नन्द-नन्दनत्वे तासां च गोपीत्वे पञ्चरात्र-गौतमीय-क्रम-दीपिकादिषु च निश्चितत्वात् तथा वक्तुम् अशक्यम् एव । न च व्यासोक्त-लीलाभिर् विना पञ्चरात्रादिषु कोऽपि मन्त्र उक्तोऽस्ति । पूतना-स्तन-पातारम् इत्य् आरभ्य तत्र लीला-विशिष्टस्यैव श्री-कृष्णस्य सर्वत्रोपास्यत्वेन निर्दिष्टत्वात् । लोकवल्-लीला-कैवल्यस्यैव समीहितत्वं सर्वत्र तद्-भिन्नोपासना नास्त्य् एव चेत् तथापि प्रौढिर् ब्रह्मेव कञ्चन निर्लीलम् उपास्यतां नाम न तत्र विवादः । निर्विशेषे स्वीकृते उपासनाया असिद्धिः सर्वत्राचार्यैर् निर्णीतैव ।
+

किं च, प्रथम-निष्पन्नो विवाहः सर्वस्मिन्न् एव व्रजे विख्यातः विदग्ध-माधवादौ उक्तः । कथं सोऽन्यथा कर्तुं शक्यः ? न च शारीरकादौ सर्वं प्रपञ्च-जातस्य मिथ्यात्वं प्रतिपाद्यत एव । तद्वद् अस्यापि मिथ्या-भूताभिर् गोपीभिर् गोपैः कर-ग्रहणस्य मिथ्यात्वं निज-ग्रन्थेषु निर्णीतम् इति वाच्यम् । शारीरक-मतानुसारिभिर् अतथात्वे नित्यं रटद्भिर् अपि निष्पन्नो व्यवहारो ब्राह्मणादीनां यथा प्रवृत्तम् अन्यथा कर्तुम् अशक्यत्वात् चेत् तैर् एव सिद्धः प्राकृतो व्यवहारो भ्रमत्वेनाप्य् उद्घुष्यमाणोऽपि असिद्धः कर्तुम् अशक्यः प्रकृते गोप-सुन्दरी-सम्बन्धित-लीलालीर् अन्यैर् मिथ्यात्वे निश्चीयैकस्मिन्न् एव ग्रामे प्रथमानन्तर-द्वितीयोद्वाहः कथं निर्वाहणीयः तथापि यदि कथंचित् तद् वक्तव्यम् एवेति निर्वध एव यौष्माकस् तर्हि प्रथमोद्वाहवादिभ्यः प्राचीनेभ्यो जार-वादित्वे गालि-प्रदाय स्वयं द्विर् विवाहं वदन् विधिषु वादित्वम् अपि स्वस्व्योरीकरणीयम् अवश्यम् एवेत्य् अलं विचार-विलसितेनेति । पुनर्-भूर् दिधिषू रूढा द्विस् तस्या दिधिषुः पतिर् इत्य् अमरः ।
किं च, यदि कृष्ण-प्रेयसीनां मायिकत्व-सत्यत्वाभ्यां सर्वथा अभिन्नाकाराच् च सर्वदा स्वरूप-द्वय-स्वीकारः तदा व्रजे यावन्तो व्रज-वासिनस् तेषां श्री-वृषभानु-कीर्तिदा-प्रभृतीनां तासां पितॄणाम् अप्य् अन्यथानुपपत्त्या स्वरूप-द्वयं स्वीकर्तव्यम् एव । नो चेत् कृष्ण-सन्दर्भ-गोपाल-चम्पूक्तः सिद्धान्तो व्याकुप्येत । तत्र तु – मन्-निर्वर्तिताः स्व-स्व-पति-गृहम् अनुवर्तन्ताम् । परास् तु कृष्ण-मात्र-पति-सम्मति-परायणाः स्व-स्व-पितृ-गृहम् [गो।च। १.३३.३०३] इति देव्या वचनेन समाहितत्वात् ।
यदि च नाम-रूपादिनैक्येन ता युगपद् एव पति-गृह-पितृ-गृहादिषु प्रहितास् तर्हि सुतरां स्व-स्व-पति-गृह-गृहिणीनां भार्याः पुत्र-प्रयोजना इति न्यायेन गृहादि-सौष्ठव-पोषाय च अपत्योत्पत्तिर् अवश्यं भाविनी । तस्यां वसत्यां जात-कर्मारभ्य सर्व-क्रिया-कलापम् उभय-कुल-वृद्धादिं विना नैव निष्पद्यते इति तेऽपि स्वयम् एव स्वीकृता एव । एवं च याः स्व-स्व-पितृ-गृहं गतवत्यस् ताभिः सह श्री-कृष्णस्य विवाहोत्सवो भावीति भवद्-आशयः । तत्र तस्य विवाहोत्सवे सर्व एव व्रज-वासि-जनाः श्रीमद्-व्रज-राजेनावश्यम् एव निमन्त्रणीयास् तथा सति तत्-पर्वणि स्त्री-प्रधानत्वात् जटिलाभारुण्डाद्याः पुरन्ध्र्यः स्व-स्व-वधूभी राधा-चन्द्रावल्य्-आदिभिः सहावश्यम् आमन्त्र्य एव ।
अत्रैवं सन्देहः प्रस्तुते तस्मिन्न् उत्सवे स्व-स्व-पार्श्व-वर्तिन्यो राधाद्याः कृष्णेनोद्वाह्यमाना अपि तास् तास् ताभिः श्वश्र्व्-आदिभिः पुनर् निमन्त्रतैर् अभिमन्यु-प्रभृतिभिः श्री-वृषभाण्व्-आदिभिस् तासां पितृभिस् ताभिश् च दृश्यन्ते न वा । दृश्यन्ते चेत् कीदृशी बोधः समपद्यत किम् एता मद्-वधू-वर्गेभ्यो मद्-दारेभ्योऽस्मद्-बालिकाभ्योऽस्मभ्यो पृथग् एव इति निश्चयात्मक उत परिचेतुम् अशक्यतया सन्देह-रूपः ? आहो स्वित् योगमाया-बलेनैवाननुसन्धानावयवः । नाद्यः, तथा सति यद्यपि वयं सत्या एता मायिक्य इति पितृ-गृह-गतवतीनां भवद्-अभिमतः, तथापि प्राचीन-संस्कार-बलात् पतिभ्योऽभिमन्वादिभ्यः सङ्कोच-सम्पत्त्या पुनर् विवाहस्यानभिमतत्वात् । पति-गृह-स्थितानां तु तथा-बोधाभावात् स्व-समानाकार-रूप-गुणादिमतीनां दर्शनेन विचिकित्सापत्त्या महा-जुगुप्सा । एवं श्वश्र्व्-आदिभिः पतिभिः पितृभिश् च युगपद् दर्शनेन जुगुप्सैवम् अस्य तेन तु प्रकृत-विवाह-कर्मणि प्रवर्त्यते इति विसंष्टुलत्वाच् च । न चैता मदीयाभ्योऽभिन्ना इत्य् आकारक एव बोध इति प्रौढीरास्माकीति भ्रमाद् इति वाच्यः ।
तासां नाम-रूप-गुणादीनां सर्वथा अभेदेनैव प्रतीयमानात् । नापि द्वितीयः द्वयोर् अपि नामादिभिर् ईषद् अप्य् अनन्यतया श्वश्रू-प्रभृतीनां स्वयम् एव स्वेषां (स्वासां) वा अपरिचय इति वक्तुम् अप्य् अयोग्यत्वात् । नापि तृतीयः तस्याः प्रकृत-लीला-सम्पादिकात्व-प्रसिद्धेः । प्रकृतं तु वर-कन्ययोर् दर्शन-पूर्वक-विशिष्ट-ज्ञानात् तत्-तन्-मङ्गल-सम्पादनानन्तरं आप्त-वर्गैस् ताभ्यां यौतुकादि-समर्पणं न त्व् अन्यत् । सर्वथा तु मिथः सन्दर्शनम् एव लोक-वेद-रीत्यासु निष्पन्नम् । तस्मिंश् च सति श्री-कृष्णस्यैतेषां दर्शनेन लज्जा-भयोत्पत्तिः । तथा तेन सहोद्वाहे प्रवर्तितानां गोपीनां श्वश्रूपत्यादि-दृष्ट्याभयादिना प्रकृते पुनर् विवाहेऽननुमतिः । गोवर्धनाभिमन्यु-प्रभृतीनाम् इन्द्र-जाल-सदृश-तद्-दर्शनात् श्री-कृष्णेन सह विरोधोद्भवः पित्राद्या वृषभाण्व्-आदयस् तु मद्-औरस्यो भवन्त्य् एता एता न भवन्तीति वा कथं वा प्रतियन्तु कथं वा पुनः पूर्व-जा-मातॄणां समक्षम् एव निरपेक्षतया ताः सम्प्रददतु । न च सर्वं समाधात्री पौर्णमासीति विवृतम् एवेति वाच्यम् । श्री-शङ्कराचार्याद्याः सहस्रशः प्रपञ्चस्य मिथ्यात्वं व्याख्याय श्रुतिर् अपि तद्-उपोद्वलकत्वेन दर्शयित्वापि ब्राह्मणादि-कर्तृक-विवाहादि-कर्मणां मिथ्यात्वं लोके दृढीकृत्य तेषां स्त्र्य्-आदि येभ्यः केभ्य एव दाययितुं न समर्था बभूवुर् इति पूर्वम् एवोक्तत्वात् ।
अत्र तु कृष्ण-कर्तृक-चरित्राणां लीलात्वेन प्रसिद्धानां दिव्यत्व-नित्यत्वयोः प्रतिष्ठितानां न जाने मायिकत्व-कल्पनया किं साधनीयं वादिभिर् इत्य् अलम् अनुलापेनेति । अपि च श्रीमद्-वेद-व्यास एकस्यैव ऋग्वेदस्य चतुर्धा विभागं विधाय यथादिकारि-शाखाः सहस्रं विभज्यापि स्त्री-शूद्रादीनां तत्रानधिकारात् कथं निस्तारः स्याद् इति भारतम् अप्य् उपदिश्य मोक्षाधिकारिणां तत्-सिद्ध्य्-अर्थं ब्रह्म-मीमांसाम् अप्य् अध्याय-चतुष्टयेन प्रदर्श्य पुनर् अपि द्वन्द्व-धर्मेष्व् अभिरतान् जनान् वीक्ष्य तद्-उपकारार्थं यथाधिकारि विचार्यार्यैव वर्तनीयं तत्त्वानार्य-चर्ययेति पुराणानि प्रकाशितानि । तथापि चित्तस्याप्रसाद एव समुपसीदति मनस् तु तत्-प्रसादः यदैव श्रीमन्-नारदोपदेशात् श्रीमद्-भागवतं वर्णितवान् तदैव सर्वतो भावेन मनः प्रसत्तिम् उपलभ्य भगवत्-स्वरूपम् अप्य् उपलेभे । अत एवार्वाचीनैर् भव्य-बुभूषुभिस् तच्-चित्ताप्रसादाभ्याम् अन्वय-व्यतिरेकाभ्यां निश्चित्य शास्त्रान्तरेषु तत्-संमतेष्व् एव मनोऽभिनिवेशनीयम् इति प्रमाण-चूडामणित्वेन श्रीमद्-भागवतम् एव सतां सम्मतं तत्रापि श्री-कृष्ण-लीला-प्रधानत्वेन दशम-स्कन्ध एव तद्-धृदयम् । तत्रापि तनू प्राण इव सर्व-लीलातोऽपि मुख्यतम-रास-लीला-वर्णन-पञ्च अध्यायाः अतस् तत्-सर्व-स्वरुपस् त एव विचारणीयाः ।
तत्र शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्योऽपास्य [भा।पु। १०.२९.६] इत्य् आदि । तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः [भा।पु। १०.२९.११] इत्य् आदि श्री-शुक-वाक्यम् । मातरः पितरः पुत्राः [भा।पु। १०.२९.२०] इत्य् आदि, तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः [भा।पु। १०.२९.२२] इत्य् आदि, भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया [भा।पु। १०.२९.२४] इत्य् आदि, पतिः स्त्रीभिर् न हातव्यो लोकेप्सुभिर् अपातकी [भा।पु। १०.२९.२५] इत्य् आदि, जुगुप्सितं च सर्वत्र औपपत्यं कुल-स्त्रियाः [भा।पु। १०.२९.२६] इति कृष्ण-वाक्यानि । यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग [भा।पु। १०.२९.३२] इत्य् आदि, कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् नित्य-प्रिये पति-सुतादिभिर् आर्तिदैः किम्? [भा।पु। १०.२९.३३] इत्य् आदि, का स्त्र्य् अङ्ग ते कल-पदायत-मूर्च्छितेन सम्मोहिता ऽर्यपदवीं न चलेत् त्रिलोक्याम् [भा।पु। १०.२९.४०] इत्य् आदि तासां वचनानि च प्रथमेऽध्याये ।
पति-सुतान्वय-भार्तृ-बान्धवान् अतिविलङ्घ्य तेऽन्त्य् अच्युतागताः [भा।पु। १०.३१.१६] इत्य् आदि च तृतीयेऽध्याये ।
एवं मद्-अर्थोज्झित-लोक-वेद-स्वानां हि वो मय्य् अनुवृत्तये ऽबलाः [भा।पु। १०.३२.२१] इत्य् आदि,
न पारये ऽहं निरवद्य-संयुजां
स्व-साधु-कृत्यं विबुधायुषापि वः ।
या माभजन् दुर्जर-गेह-शृङ्खलाः
संवृश्च्य तद् वः [भा।पु। १०.३२.२२] इत्य् आदि श्री-कृष्ण-वाक्यानि चतुर्थेऽध्याये ।
कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः ।
रेमे स भगवांस् ताभिर् [भा।पु। १०.३३.२०] इत्य् आदि श्री-शुक-वाक्यम् ।
स कथं धर्म-सेतूनां वक्ता कर्ताभिरक्षिता ।
प्रतीपम् आचरद् ब्रह्मन् पर-दाराभिमर्शनम् ॥

आप्त-कामो यदु-पतिः कृतवान् वै जुगुप्सितम् ।
किम्-अभिप्राय एतन् नः शंशयं छिन्धि सु-व्रत ॥ [भा।पु। १०.३३.२६, २८] इत्य् आदि श्री-राजर्षि-प्रश्ने,
धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा ॥ [भा।पु। १०.३३.२९]
गोपीनां तत्-पतीनां च सर्वेषाम् एव देहिनाम् यो ऽन्तश् चरति [भा।पु। १०.३३.३५] इत्य् आदि, मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः [भा।पु। १०.३३.३७] इति श्री-शुक-वाक्यानि च पञ्चमेऽध्याये ।
अत्रोऽत्रैवं विचार्यते । यद्-वर्णनान्तरम् एव श्रीमद्-वेद-व्यासस्य चित्त-प्रसत्तिर् अजनिष्ट तन्-मध्य-वर्तिन-हृदयान्तः-पञ्च-प्राणा इव या पञ्चाध्यायी तत्र तादृश-महा-राजर्षि-श्रीमत्-परीक्षित्-प्रश्नानुरूप-श्रीमन्-मुनीन्द्रेण भ्रमवत् स्वरूपानुभविना सर्वज्ञेन राज-सन्देह-निरसन-पूर्वकेन भगवतस् तेजीयस्त्वान् न दोष इत्य् उक्त्वानीश्वरान् प्रति यथा रुद्रोऽब्धिजं विषम् इति दृष्टान्तेन भयं प्रदर्श्य पुनर् अपि निरहङ्कारि-मात्राणां कुशलाकुशलाचरणाभ्याम् अप्य् अर्थानर्थौ न स्तः किम् उत सर्व-जीव-निकायानाम् ईशितुस् तयोर् अन्वयः । सम्बन्धोऽपीत्य् अभिधाय, यत्-पाद-पङ्कज-परागस्य नितरां सेवया तृप्ता भक्ति-योग-प्रभावेनैव खण्डिताखिल-बन्धा जीवन्मुक्ताः स्वच्छन्दाचारिणो, नैव नह्यमाना स्तद् आचरणैर् न बध्यमाना भवन्ति ।
तस्य स्वेच्छया प्रकटीकृत-तादृश-लीला-मय-वपुषो बन्धाशङ्कापि कुत इत्य् उक्त्वा गोपीनां तत्-पतीनां च सर्वेषाम् अपि देहिनाम् अन्तर्यामितया प्रवर्तक-रूपेण स्थित एवाप्रकट-प्रकाशे गोकुल-युव-राजतया तेषां पालकः सन् यो विहरति अधुनापि तथा कुर्वन्न् एवास्ते स एष एव कृपया प्रकटो भूत्वात्राननुगृह्यताद् वशीः क्रीणः करोति तथैव विराजते । या लीलाः श्रुत्वावश्यम् एव सर्व एव तद्-एकोपासनो भवेद् एवेति विहितः । तद्-अन्यत्वेन कैश्चित् कल्पनानन्तरम् आपाद्य् विपाद्यन्ते यद्य् अविद्यापद-पतितास् ते निषिद्धाचार-परा इत्य् अप्य् अनेनैव सूचितः सर्वान्ते तु तासाम् अभिसारादौ पत्य्-आदीनां योग-मायया समाधानं व्याहृत्य यद्यपि ताः श्री-कृष्णं विहाय निज-गृहम् अनाजिगमिषवस् तथाइ ते नानुमोदिताः पुनर् अनया रीत्यैव मिलनस्याश्वासं प्रापिताः सत्यो रात्र्य्-अन्ते केवलं लोक-भीत्यैव स्व-स्व-वासं शय्या-निलयं गतवत्य एतावान् एव सिद्धान्तितः अभ्यासेनैष एव दृढीकृतः । न तु मतान्तरस्य लेशोऽप्य् उद्भावितः चेद् इतोऽप्य् अन्यथा किंचिद् अभविष्यत् सर्वज्ञेन तेन कुतो नोत्थापयिष्यत । न च मतान्तरस्यात्यन्त-गोप्यत्वात् तत् तत् प्रकाशितवान् शुक इति स्वप्नेऽपि प्रलपनीयं महा-सभायां सर्वत्र विहित-व्याहारस्यैव शास्त्रे लोक-व्यवहार-सिद्धत्वात् । न त्व् अविहितस्य प्रकृते तु पौनःपुन्येनैतस्यैव तेन विहितत्वात् । अतस् तादृश-राजर्षि-महा-सदसि निषीदतां ब्रह्मर्षि-देवर्षि-प्रभृतीनां श्रीमन्-नारद-परशुराम-वेद-व्यासाद्य्-अवताराणां च समक्षं द्वयोः प्रश्नोत्तराभ्यां य एव निष्कर्षः परमोत्कर्षम् अवाप स एव सर्वार्वाचीन-जीवानां जीवातुर् इति विदुषां परामर्शः । तद् अन्यथा कल्पनायां श्रीमन्-मुनीन्द्रस्य ब्रह्मरातस्यासर्वज्ञता । श्री-कृष्णस्य पाप-हारित्वेऽपि पाप-कारिता विदग्ध-माधवादि-प्रकाशकानाम् अप्य् अविदग्धता इत्य् आद्या बहव एव दोषा आपन्तन्तीत्य् अलं तत्-संलापेनैव संक्षेपः ।
किं चास्याम् उज्ज्वलोपासनायां केचनार्वाचीनाः प्राचीनानां श्री-शुकदेव-वेदव्यास-पराशरादीनां विदग्ध-माधवादि-प्रकाशकानां च मतं विमतत्वेन मन्यमानाः केवलं स्व-कल्पिताख्यायिकायां स्वकीयाख्यानं विख्याप्य निक्षिप्तानि सन्देह-महोदधौ हृदयान्य् अपरिपक्व-हृदयानाम् अतोऽत्रैवं विचार्यते तत् किं तद्-आख्यातुः स्वाभिमतम् उतान्यदीय-हार्दं तत्-सौहार्दम् ?
–ओ)०(ओ–

****

इइ।

परकीयात्व-निरूपणम्

श्री-राधा-कृष्णाभ्यां नमः ।
श्री-कृष्ण-लीला-पाथोधि-निमज्जित-मनो-द्विपान् ।
वन्दे तद्-विपरीतांस् तु नैव विन्दतु मे मनः ॥१॥

श्रीमज्-जीव-पद-द्वन्द्वं वन्दे यैर् आशयो निजः ।
लघुत्वम् अत्रेत्य् [उ।नी। १.२१] एतस्य व्याख्यान्ते ख्यापितः खलु ॥२॥

स यथा –
स्वेच्छया लिखितं किंचित् किंचिद् अत्र परेच्छया ।
यत् पूर्वापर-सम्बद्धं तत् पूर्वम् अपरं परम् ॥ इति ।३॥

रागेणैवार्पितात्मान [उ।नी। ३.१७] इत्य् अत्र व्याख्यया तथा ।
पत्नी-भावाभिमानात्मेत्य् [उ।नी। १४.४८] अत्रापि च तथा तया ॥४॥

महा-भावस्य सद्-भावाभावयोर् हेतु-युक्तितः ।
निश्चित्य लक्षणे तस्य विवृत्याभ्यासता मुहुः ॥५॥

रसस्य तु परीपाकः परम-क्रम-लीलया ।
भवेद् व्यास-शुकादीनां भवेद् अत्रावेश-दर्शनात् ॥६॥

विदग्ध-माधवादीनां कर्तॄणां चात्र निर्भरम् ।
वर्णने चित्त-संरम्भात् तथाद्योपान्तम् एव हि ॥७॥

अस्या निर्वहणाद् एवेत्य् उज्ज्वलस्य विवेचनम् ।
समृद्धिमत आख्याने सप्त-पत्री-लिपेः परम् ॥८॥

स्वान्तस्य सर्व-संरम्भः कर्वान्ते दर्शितो यतः ।
अतः परेच्छा-लिखने विचारः क्रियते मया ।
येन पूर्वापरालोके लोक्यते तद्-विगीतता ॥९॥

अथ सोऽयं ग्रन्थ-कृन्-महा-कारुणिको रसिक-मण्डलाखण्डलः श्री-कृष्ण-चैतन्य-स्वयं-भगवता हृदि प्रवर्तनापरवश्यतया स्व-सुहृद्-वर्ग-हृदयानन्दनाय विशेषतोऽर्वाचीन-जगज्-जनानाम् अनायासेनैव वाङ्-मनसयोः कृतार्थी-भाव-भावनया च पूर्वस्मिन् ग्रन्थे संक्षेपतो वर्णितम् अपि श्री-कृष्णैकालम्बनत्वेनैव शृङ्गार-रसं विवृतवान् । तत्र तावन् नायक-शिरोरत्नस्य यथा कथंचित् परिशीलयितुर् मनो-नयनादेः समाकर्षकस्य श्री-कृष्णस्य मुख्य-नायकत्वे धीरोदात्त-धीर-ललित-धीर-शान्त-धीरोद्धतैः सह पूर्णतम-पूर्णतर-पूर्णैस् त्रिभिर् गुणितैर् द्वादश । पत्य्-उपपतिभ्यां गुणने चतुर्विंशतिः । पुनश् चानुकूल-दक्षिण-शठ-धृष्टैश् चतुर्भिर् गुणने षण्णवति-प्रभेदा निरूपिताः । निरूप्य च केषांचिद् बहिर्मुखानां कदाचिद् अत्र दोष-दृष्टिर् उत्पद्येतेति परमोत्कर्षो रसस्यात्रैवोपपत्य एव न तु पत्याव् इति भरत-वचने दृढीकृतः । धीरोदात्तादयो द्वादशामृत-सिन्धाव् उदाहृताः ।
रुक्मिणं युधि विजित्य [उ।नी। १.१२] इत्य् आदिना रुक्मिण्य्-आद्नीआं पतिर् इति पतिर् उदाहृतः । कात्यायनि महामाये [भा।पु। १०.२२.४] इत्य् आदिना तास्व् एव कीयतीनां तु पति-भावो हराव् अभूद् [उ।नी। १.१४] इति दुर्गा-व्रत-परासु पतिभाववतीनां कासांचिद् अपि तथात्वे गौणतया दर्शितः । अन्ये च शठ-धृष्टाद्या अप्य् उदाहृताः ।
ततश् च नायिकानां कन्या-स्वकीया-परकीया भेदतस् तिसृणां मध्ये स्वकीया-परकीययोर् मध्या-मुग्धा-प्रगल्भा इति भेदैः षट् । पुनश् च धीरा-अधीर-अधीराधीराभिर् द्वादश । कन्या केवलं मुग्धाथ स्वीया परोढा चेति त्रिधा इति पञ्चदश प्रभेदाः । पुनर् अभिसारिकेत्य् आद्य् अवस्थाष्टकेन विंशत्य्-उत्तरं शतम् । अग्रत उत्तम-मध्यम-कनिष्ठा इति त्रिविधैः षष्ठ्य्-उत्तर-शत-त्रयी नायिका-भेदानाम् इति निर्णीय स्वीयोदाहरणं मुख्यतया रुक्मिण्य्-आदिषु गौणतया दुर्गा-व्रत-परासु कासुचित् कन्यास्व् अपि दर्शितम् । परकीयोदाहृतिर् व्रजे श्री-राधिकादिषु धन्यादिष्व् अपि दर्शिता ततश् च नीरसानां निरसनाय –
बहु वार्यते खलु यत्र प्रच्छन्न-कामुकत्वं च ।
या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः ॥ [उ।नी। १.२०]
इति भरत-मुनि-संमत्या –
वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम् ॥ [उ।नी। ३.२०]
इति रुद्र-संमत्या [शृ।ति। २.३०],
यत्र निषेध-विशेषः सुदुर्लभत्वं च यन् मृगाक्षीणाम् ।
तत्रैव नागराणां निर्भरम् आसज्जते हृदयम् ॥ [उ।नी। ३.२१]
इति संहिता-संमत्या ।
अनन्य-शरणा स्वीया धनाहार्या पराङ्गना ।
अस्यास् तु केवलं प्रेम तेनैषा रागिणां मता ॥ [शृ।ति। १.६१]
इति शृङ्गार-तिलक-संमत्या च परोढोपपत्योर् एव सकल-सहृदय-साक्षिको रस-निर्यासास्वादो दृश्यते ततश् च तयोर् एव नायकोत्तमत्वम् एव निर्धारितम् । तत्राप्य् अर्वाचीन-साहित्य-दर्पण-कारादिभिर् यद् अत्र दोषो आसज्यते तत्र कारणम् अधर्म-स्पर्श एव तत्-परिहारार्थम् आह लघुत्वम् इति अत्रोपपत्तौ कैश्चिद् यल् लघुत्वम् उक्तम् एतत्-प्राकृत-नायक एव, तत्रैवोपपत्यस्य वैधर्म्यात् । तस्य च जनकत्वात् तस्य च नरक-पातित्वात् पर्यवसाने दुःख-मात्रोपादानत्वेन लघुत्वम् । तथा तच्-चेष्टितस्य काव्य-नाट्य-गतत्वेनोपादेयतया स्वादेन यद् अधर्म-कृतः स्थानं सूचकस्यापि तद् भवेत् इति न्यायाच् चर्वण-दशायां सभ्यानाम् अपि ताद्रूप्यापत्तेश् च विधर्म-स्पर्शात् । न तु कृष्णे धर्माधर्म-नियन्तृ-चूडामणीन्द्रे धर्माधर्मादि-समस्त-वस्तु-सृष्टि-स्थिति-संहार-कारक-भ्रू-विजृम्भ-मात्रस्यादिपुरुषस्याप्य् अंशिनि स्वयं भगवति श्री-लीला-पुरुषोत्तमे नर-वपुषि । तथैव तदीय-शक्ति-समुदाय-मुख्यतमायां ह्लादिनी-महा-शक्तौ श्री-गोपिका-रूपायां च न सम्भवेद् एव । तदा तच्-चरितास्वादकानाम् अपि विक्रीडितं व्रज-वधूभिर् [भा।पु। १०.३३.४२] इति, तद् वाग्-विसर्गो जनताघ-विप्लवो [भा।पु। १२.१२.५२], तद् एव सत्यं तद् उहैव मङ्गलम् [भा।पु। १२.१२.४९] इत्य् आदिभिः सर्वोत्तमत्व-महा-फल-श्रवणाच् च । प्रत्युत तत्रैव नायकोत्तमत्वं प्रसञ्जितम् इति । अत एव ग्रन्थ-कृतैव नाटक-चन्द्रिकायां (१०) –
यत्-परोढोपपत्योस् तु गौणत्वं कथितं बुधैः ।
तत् तु कृष्णं च गोपीश् च विनेति प्रतिपादितम् ॥

अलङ्कार-कौस्तुभ-कृद्भिर् अपि – अप्राकृते परोढ-रमणी-रतिर् एव सर्वोत्तमतया भूयसी श्रूयते । न तस्याम् अनौचित्य-प्रवर्तितत्वम् अलौकिकं तु सिद्धेर् भूषणम् एव न तु दूषणम् इति न्यायात् तर्कागोचरत्वाच् च इति । तस्मान् न कृष्णेऽयं दोषः किम्-अर्थं नोक्तम् ? रस-निर्यासास्वादनार्थं तेषां सभ्यतया तद्-विषयक एव स्व-कर्तृको रस-निर्यासास्वादस् तद्-अर्थम् । यदि कृष्णेऽपि तैर् लघुत्वम् उक्तं स्यात् तर्हि तेषां रस-निर्यासास्वादो निर्विषय एव स्याद् इति भावः ।
यद् वा, कथं-भूते रस-निर्यासास्वादार्थं ह्य् अयं च लोक-गत-स्व-भक्त-जनान् रस-निर्यासम् आस्वादयितुम् अवतारिणि । स्वादेश् चौरादिकाद् धेतुम् अण्ण्य्-अन्ताद् घ्यञ् । तस्य तु स्वकर्तृको रस-निर्यासास्वादः प्रकट-लीलायाम् अप्रकट-लीलायाम् च सदैव वर्तत एव । ता एव जन्मादि-लीलाः प्रपञ्च-जनेषु कृपया दर्शिताश् चेत् प्रकटास् ता एव चक्षुर्भिस् तिरोधापिताश् चेद् अप्रकटा उच्यते न तु प्रकटाप्रकटयोर् लीलयोः स्वरूपतः किंचिद् वैलक्षण्यम् अस्तीति । यद् उक्तं भागवतामृते –
अनादिम् एव जन्मादि-लीलाम् एव तथाद्भुतम् ।
हेतुना केनचित् कृष्णः प्रादुष्कुर्यात् कदाचन ॥ [ल्भाग् १.५.३८७] इति ।
तथा च श्री-वैष्णव-तोषण्याम् अपि दन्तवक्र-वधानन्तरं रामेण सार्धं मथुरां प्रणीते [भा।पु। ११.१२.१०] इति, तास् ताः क्षपाः प्रेष्ठ-तमेन नीता [भा।पु। ११.१२.११] इति, नद्यः प्रविष्टा इव नाम-रूपे [भा।पु। ११.१२.१२] इत्य् अन्तेन व्याख्यानेन । तद् यथा – अत्र विगाढ-भावेन तीव्राधयः सत्यो मत्तोऽन्यं निज-सख्य्-आदिकम् अपि न सुखाय ददृशुः । ततश् चाधुना तु सुखाय पश्यन्तीति वियोगो नास्तीत्य् अर्थः । हे उद्धव ! भवद्-द्वारा तासु सन्देशानुसारेण श्री-वृन्दावनस्यैवाप्रकट-प्रकाश-विशेष-प्रवेशात् तासां नित्यं मत्-प्राप्तेर् इति भावः । ननु पूर्वोक्तानुसारेण गोलोकाख्ये वृन्दावनस्य प्रकाश-विशेषः । तस्मिन्न् अस्ति प्रकट-लीला सदृश्य् एवाप्रकट-लीला । तर्हि कथम् उभयोर् एकत्र समावेश उच्यते प्रकट-लीलायाः अप्रकट-प्रकाशस्य चाभेदेनैवाप्रकट-लीला-प्रकाशौ प्रतिपन्नाव् इति दृशय्ते तद्-अनन्तर-पद्येन
ता नाविदन् मय्य् अनुषङ्ग-बद्ध-
धियः स्वम् आत्मानम् अदस् तथेदम् ।
यथा समाधौ मुनयो ऽब्धि-तोये
नद्यः प्रविष्टा इव नाम-रूपे ॥ [भा।पु। ११.१२.१२]
अस्यार्थः । तास् तथाभूत-विरहोत्कण्ठातिशयेनाभिव्यक्त-दुर्धर-महा-भावाः सत्यः । अथ कदाचित् तद्-दर्शनार्थं गते मयि लब्धो योऽनुषङ्गो महा-मोदनाख्य-व्यतिकारी पुनः पुनः संयोगस् तेन बद्धा धीर् यासां तासां तथा-भूताः सत्यः । स्वं ममतास्पदम् आत्मानम् अहङ्कारास्पदं चादः प्रकट-लीलानुगतत्वेनाभिमतं यथा स्यात् तथा नाविदन्, किन्तु द्वयोर् ऐक्येनैवाविदुर् इत्य् अर्थः ।
प्रकट-प्रकाशस्य तल्-लीलायाश् चाभेद्नैवाप्रकटनद्धयम् अजानन्न् इति विवक्षितम् । ततश् च नाम-रूपं च तस्मिंस् तन्-नाम-रूपात्मनि प्रकट-प्रकाश-विशेष-प्रविष्टा इव न तु प्रविष्टा वस्त्व्-अभेदाद् इत्य् अर्थः । तत्र प्रकटाप्रकट-लीला-गतयोर् नाम-रूपयोर् अभेदे दृष्टान्तः—यथा समाधौ मुनयोऽब्धि-तोये इत्य् आदि श्री-कृष्ण-सन्दर्भे अष्ट-पञ्चाशद्-अधिक-शततमे२ वाक्ये–अहं हि सर्व-भूतानाम् आदिर् अन्तो ऽन्तरं बहिः [भा।पु। १०.८२.४५] इत्य् आदि द्वाभ्याम् । यथाहम् अहङ्कारो३ भूतादिः सर्वेषां भूतानां खादीनाम् आद्यन्तादि-रूपः । अहङ्कारान्तर्गतान्य् एव खादीनीत्य् अर्थः । यथा च खादीनि भूतानि भौतिकानां शराव-सैन्धवादीनाम् आद्य्-अन्तादि-रूपाणि, खादीनाम् अन्तर्गतान्य् एव तानीत्य् अर्थः । एवम् एतानि४ प्रकट-लीलायाम् अनुभूयमानानि युष्माकं ममतास्पदानि भूतानि परमार्थ-सत्य-वस्तूनि श्री-वृन्दावनादीनि भूतेष्व्३ अप्रकट-लीला-गतेषु परमार्थ-सत्य-वस्तुषु तेषु वर्तन्ते। युष्माकं प्रकट-लीलाभिमान्य्-अहन्तास्पदेनात्मना५ ततो व्याप्तः । एवम् इदन्ताहन्तास्पदं यद् उभयं तच् च पुनः परे प्रकटम् दृश्यमानेऽपि६ तस्यां वृन्दाटव्यां विहरमाणेऽक्षरे नित्यम् एव युष्मत्-सङ्गिनि मय्य् आश्रय-रूपे आभाति७ विराजमानं पश्यतेति । तस्मात् प्रकाश-भेदाद् एव तत्-तद्-वस्त्व्-आदि-भेद-व्यपदेशो विरह-संयोग-व्यवस्था चेतीदम् अत्रापि व्यक्तम् इति दिक् ।
तस्माद् अस्माद् वृन्दावनाद् अप्रकट-प्रकाशस्य सर्वात्मत्वैक-रूप्ये सत्य् एव तेषां व्रज-वासिनां तत्र वासः सम्भवेद् इति यथा-रीत्या प्रकटे श्री-कृष्णस्य तत् पित्रादीनाम् अन्येषां स-परिवाराणां गोपादीनां च यत्-प्रकारक-स्थानं तथैवाप्रकट-प्रकाशेऽपीति प्रकरणार्थः सिद्धः ।
लघुत्वम् अत्र [उ।नी। १.२१] इत्य् अत्र केचनैवं व्याचक्षते । तद् यथा तत्राशङ्क्य समादधाति लघुत्वम् इति । पद्येन अत्र चाशङ्कानुवादो लघुत्वम् अत्र यत् प्रोक्तम् इति । अयम् अर्थः—ननु,
शृङ्गो हि मन्मथोद्भेदस् तद्-आगमन-हेतुकः ।
उत्तम-प्रकृति-प्रायो रसः शृङ्गार इष्यते ॥

इत्य् अनर्वाचीन-निरुक्तौ उत्तम-प्रकृति-प्रायः इत्य् उक्ते कज्जलं शुचि-पर्याये रसेऽस्मिन्न् अधर्म-मयम् औपपत्यम् अङ्गत्वाय नोचितः । जारः पाप-पतिः समौ इति त्रिकाण्ड-शेषादि-दर्शनेन नामापि तस्य निन्दा-गर्भम् एव लभ्यते । नाट्यालङ्कार-शास्त्रयोस् तु तस्य न्यक्-कारश् च श्रूयते । यद् उक्तं तत्-तन्-मतं सङ्गृह्य साहित्य-दर्पणे [३.२६३-४]–उपनायक-संस्थायां इत्य् आदि-पद्येन शृङ्गारेऽअनौचित्यं इत्य् अन्तेन च । यत् तु कुत्राप्य् औपपत्य-वर्णनं दृश्यते, तत् खलु नेष्टा यद् अङ्गिनि रसे कविभिः परोढा इति दर्शयिष्यमाण-वृद्ध-मत-प्रामाण्येनाङ्गिनि रसे तु न स्यात्, किन्त्व् अङ्गे रसे सोपहासम् एवेति गम्यते । तत्-पक्षं पुष्णता श्री-भगवता च –
अस्वर्ग्यम् अयशस्यं च कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र औपपत्यं कुल-स्त्रियाः ॥ [भा।पु। १०.२९.२६]
इत्य् अनेन जुगुप्सितत्व-पर्यन्ता दोषा उक्ताः । श्री-व्रज-देवीभिर् अपि – निःस्वं त्यजन्ति गणिका जारा भुक्त्वा रतां स्त्रियम् [भा।पु। १०.४७.७-८] इत्य् अनेन तथैवानुमतम् । श्री-परीक्षितेनापीत्थम् आक्षिप्तं आप्त-कामो यदु-पतिः कृतवान् वै जुगुप्सितम् इति । तद् एवम् अत्र च लघुत्वं क्षुद्रत्वं जुगुप्स्तिमत्वम् इति यावद् व्याख्येयम् । अतो मुनिना भरतेनापि रत्नावली-नाटिकावद् ययाति-चरितवच् च दाम्पत्यम् एव सपत्नादि-कृत-वार्यमाणत्वादिना दाम्पत्य एव रतिः प्रशस्ता स्याद् इत्य् एव मतम्, नौपपत्ये प्रशस्ता स्याद् इति । कथं तर्हि तद्-वक्येनैवौपपत्य-रतिः प्रशस्यते?
तत्र समाधानम् । तत् तु प्राकृत-नायक अवर-नायक इत्य् अर्थः । कृष्णे त्व् अलघुत्वे हेतुः – रस-निर्यासेति । रस-निर्यासो रस-सारः । मधुर-रस-विशेष इत्य् अर्थः । एतद् उक्तं भवति । अत्रावतार-समय एवौपपत्य-रतिः प्रयायिता । तद् एतद् दर्शके प्राचां मतेऽपि आशंसया रस-विधेर् अवतारितानाम् इति तस्यैव तासाम् अपि तद्-अर्थम् रसास्वादार्थम् एव तासाम् अवतार इति निर्देक्ष्यते । तस्य तासां चेत्य् आद्य्-अनन्तरं श्रीमद्-उद्धव-वाक्ये ब्रह्म-संहिता-वाक्ये च तेन तासां नित्य-सम्बन्धापत्तेः परकीयात्वं न सङ्गच्छते ।
तद्-असङ्गतेश् चावतारे तथात्व-प्रतीतिर् मायिक्य् एव । तथा च स्वयम् एव ललित-माधवे दर्शितम् एव पौर्णमासी-गार्ग्योः संवादे –
गार्गी :णुणं गोअड्ढणादि-गोएहिं चन्दाअली-पहुदीणं उब्बाहो बि माआए णिब्बाहिदो ।
पौर्णमासी : अथ किम् । पतिं-मन्यानां बल्लवानां ममता-मात्रावशेषा तासु दारता। यद् एभिः प्रेक्षणम् अपि तासां सुदुर्घटम् । इति ।
तद् एव कृष्णेन तासां दाम्पत्ये सत्ये सति परकीयात्वे च मायिके सति नश्यत्य् एवान्ततो मायिक-मन्त्रतस् त्व् अनाशेऽनादित्वे च सति नित्यम् एव स्यात् तद्-रूपत्वे सति रसाभासः स्याद् इत्य् अतोऽवतार-समयस्यापर-भागे व्यक्तीभवत्य् एव दाम्पत्यम् ।
स८ एष पर्यवसान-सिद्धान्तश् च ललित-माधव-प्रक्रिययात्र निर्वाहयिष्यति । यतो बहु-वर्णित-विरह-व्यवर्तनाय नित्य-संयोग-मय-सिद्धान्तम् उक्त्वापि क्रम-लीला-रसस् तु तत्र न सिध्यतीत्य् अपरितुष्य सङ्क्षिप्तादि-चतुर्षु फल-रूपेण विप्रलम्भान्तराप्रतिघात्यस्य समृद्धिम् अत उद्वाह पर्याप्तस्योदाहरण-रूपतया प्रमाणीकरिष्यतीत्य् आदि । किन्तु९ न लघुत्वम् उक्तम्, किन्तु न महत्त्वम् एवेत्य् आह—न कृष्ण इति । तत्र हेतुम् आह—रस-निर्यासेति ।
अत्रोच्यते यद् ग्रन्थ-कृतां परौढौपपत्योर् निर्दोषत्वे प्रत्युत रसावहत्वे च दर्शित-प्रमाणेषु केवल-साहित्य-दर्पणीय-मतम् आश्रित्याप्रामाण्यम् अभिव्यज्य पापाद्य्-आशङ्कया एव रसाभासत्वम् अङ्गीकृत्यान्यथा कल्पते तद् असङ्गतम् एव । श्रीमद्-ग्रन्थ-कृद्भिर् भरतादीनां मतम् आश्रयद्भिः साहित्य-दर्पणीय-मतस्य परित्यक्तवान् । तथा च तदीय-प्रतिज्ञा-वचनं नाटक-चन्द्रिकायां
नातीव-सङ्गतत्वाद् भरत-मुनेर् मत-विरोधाच् च ।
साहित्य-दर्पणीया न गृहीता प्रक्रिया-प्रायः ॥ इति [ना।च। २] ।
ननु सर्व एव ग्रन्थस् तल्-लिखित एव । अस्माकं तु पापावहत्वाद् यथा कथञ्चित् तद्-दूषण एव पुरुषार्थं इति चेत्, तर्हि श्री-कृष्णेन बाल्ये पूतनाया हननं, पौगण्डे वत्सस्य, कैशोरे वृषस्य, देवकी-भ्रातॄणां स्व-मातुलानां शिशुपाल-दन्तवक्रयोः पैतृ-स्वस्रेययोर् अपि च श्री-भागवत-शास्त्र-प्रसिद्धम् एव । भारते च मिथ्या-भाषण-युधिष्ठिर-पक्षपात-सर्वदा छलाश्रयित्व-द्रोणाचार्य-वध-कारित्व-स्व-प्रतिज्ञा-त्यागित्वादि-श्रूयमाणानि दोषमयान्य् एव पाप-दायिनीति सिद्ध्यन्ति तत्-कर्माणि । न च तेषां पूतनादीनाम् असुरत्वे तत्-तद्-धननं न दोषावहं किन्तु लोक-हितार्थं गो-ब्राह्मण-बालकादीनां रक्षणाय भक्त-वात्सल्यत्वेन च गुणावहम् इति वाच्यं वृषासुर-वधे इन्द्रस्य सर्वैर् देवर्षिभिः प्रोत्साहितस्यापि महा-विपत्तेर् अतिप्रसिद्धेः । यदि च देवत्वेऽपि महेन्द्रस्य विष्णुना मोहितस्यापि ईदृश्य् अवस्था तदा श्री-कृष्णस्य नर-लीलत्वे ततोऽप्य् अधिक-दोषापत्तेश् च ।
ननु, कैर् वा तव वचसा तथा मन्तव्यं यतः श्री-व्यासअ-शुक-देवादिभिः कैर् अपि तच्-चरितानि नोट्टङ्कितानि, प्रत्युत तच्-छ्रवणेनापि य एतत्-पूतना-मोक्षम् इत्य् आदिना फल-प्रापकत्वेन स्तुतानि एवं चेद् इष्टापत्तिर् आस्माकीनैव । किं चानया पुराणागम-प्रसिद्ध्या औपपत्य-लीलया किम् अपराद्धं ? न च तत्र प्रमाणम् अस्तीति वक्तुं शक्यम् । विक्रीडितं व्रज-वधूभिर् इदं च विष्णोर् [भा।पु। १०.३३.४२] इत्य् अनेन प्रेम-भक्ति-प्राप्ति-वक्तृ-श्रोत्रोर् अपि श्रवणात् ।
ननु, यद्यप्य् एवं, तथापि उत्तम-प्रकृति-प्रायो रसः शृङ्गार इष्यते इति निरुक्तेः, उज्ज्वल-शुचि-पर्यायेऽस्मिन् रसेऽधर्म-मयस्यौपपत्यस्यानौचित्यात्, जारः पाप-पतिः समौ इति त्रिकाण्ड-शेषात् तस्य न्यक्-कारस्य श्रुतेः । अस्वर्ग्यम् अयशस्यं च [भा।पु। १०.२९.२६] इत्य् आदि भगवद्-वाक्यात् । निःस्वं त्यजन्ति गणिका जारा भुक्त्वा रतां स्त्रियम् [भा।पु। १०.४७.७-८] इति व्रज-सुन्दरी-वचनात् । आप्त-कामो यदु-पतिः कृतवान् वै जुगुप्सितम् इति परीक्षिद्-उक्तेश् च लघुत्वं क्षुद्रत्वं जुगुप्सितं पापम् इत्य् आदि निश्चयात् विशेषतस् तद्-अवतारावसर एव मायिक्या एव रस-स्वादार्थम् औपपत्य-रीतेः प्रयायितत्वाच् च ।
शम-प्रकृतिका वयम् औपपत्य-प्रसङ्गम् अपि श्रोतुं न शक्नुम इति चेत्, तर्हि युष्मन्-मते शान्त-रस एव रसोऽन्ये जुगुप्साधर्मादि-मूलका एवेति न श्रोतव्याः शृङ्गारस् तु नैवास्वादनीयो भवतीति । नखाङ्का श्यामे [उ।नी। १.४१] इति पद्ये धृष्ट-नायकस्य श्री-कृष्णस्याङ्गे ताभिः कृतान् नखाङ्कान् न सोढवता भवता मूलार्थम् आच्छाद्य कत्यमयात्र रसेस्वस्यौदासीन्यम् एव व्यक्तीकृतम् । सा यथा यद्यपि तच्-छ्री-विग्रहे क्षत-रूपा स्वेन सम्भवन्ति । यत् ते सुजात इति दृष्ट्या तास् तान् नार्पयन्ति च किन्तु सुकोमल-मुद्रया नखादिना स्पृशन्ति मात्रं तथापि ये तद्-आभा सावर्णा उदयन्ते ते च प्रतिनायिकाभिस् तादृशतया मन्यन्ते । तद्-अनुसारेण कविभिर् वर्ण्यते इति ज्ञेयम् इत्य् एषा न चौपपत्य-परोढयोः श्री-कृष्ण-व्रज-सुन्दरीष्व् असद्-भाव-प्रमाणस्येति कदाप्य् आशङ्कनीयम् । लौकिकवल् लीला-कैवल्यं स्वीकृत्य श्री-कृष्णेन स्वस्मिन् मयि औपपत्ये सति युष्माकं स्व-स्व-पति-त्यागाद् वैधर्म्ये सति चास्वर्ग्यादि स्याद् इति भयं प्रदर्श्य तासां भाव-परीक्षणेन तन्-निर्धारितात् । एवं जारा भुक्त्वा रतां स्त्रियम् इत्य् अनेन यथा जारा अन्या रतास् त्यजन्ति तथा वयम् अपि तत्र रता अन्ततो जारेण तेन त्यक्ता इव तस्यैव फलितार्थत्वात् । एवं परीक्षितापि पर-दाराभिमर्शनम् इत्य् आद्य् उक्त्वा तयोर् एव निश्चितत्वात् । श्री-शुकदेवेनापि धर्म-व्यतिक्रमो दृष्टः इत्य् आदिना पर-दाराभिमर्शनम् एवाङ्गीकृत्य तेजीयस्त्वाद्यादि-दृष्टान्तेन तथावधारणात् । हरि-वंश-विष्णु-पुराणादिष्व् एवम् एव वर्णनाच् च अस्तु नाम तर्हि निर्दोषत्वेऽधर्म-पापाद्य्-अनावहत्वे प्रमाणं ब्रूहीति ब्रूषे शृणु परीक्षित्-प्रश्नानन्तरं श्री-शुकदेवेन धर्म-व्यतिक्रमो दृष्टः इत्य् आरभ्य—
कुशलाचरितेनैषाम् इह स्वार्थो न विद्यते ।
विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥

किम् उताखिल-सत्त्वानां तिर्यङ्-मर्त्य-दिवौकसाम् ।
ईशितश् चेशितव्यानां कुशलाकुशलान्वयः ॥

तद्-अन्ते यत्-पाद-पराग इत्य् आदिना भक्तानां स्वैराचारत्वम् उक्त्वा कैमुत्यं प्रदर्श्य अध्यायान्ते विक्रीडितं व्रज-वधूभिर् इत्य् अनेन वक्तृ-श्रोत्रोर् उभयोर् अपि यथा कथञ्चित् कथन-श्रवणाभ्याम् एव हृद्-रोग-रूप-कामादौ सत्य् एव परस्याः प्रेम-लक्षणाया भक्तेर् लाभ इति कैमुत्येन यदीयं विक्रीडितम् ईदृश-प्रभावं न तत्र दोष-स्पर्श-गन्धोऽपि कृतज्ञ-सुधिभिर् अभिधेयः । प्रत्युतं तच्-छ्रवणानन्तरं सर्वैर् अपि तत्-परैर् भवितव्यम् इति विधिश् चोक्तः ।
किं च, तादृश-राज-सभायां परीक्षित् प्रश्नानन्तरं श्रीमन्-मुनीन्द्रेण तत्-समक्षं ग्रहर्क्ष्य-तारा-निकरायमाणानां श्रीमद्-व्यास-नारदादीनां साक्षात् सिद्धान्त-सुधा-रस-पूरेण तत्-सदसि चकोरान् सरसीकृत्य यन् निरधारि । तथैव श्री-कृष्ण-सन्दर्भे गोपीनां तत्-पतीनां च इति पद्य-व्याख्यानेन स्वारसिकी लीला-प्रसङ्गे च यत् सुनिश्चितम् तत्राप्य् अर्वाचीना विप्रतिपद्यन्ते केवलं बलेनैव स्व-मौढ्यस्य ततोऽप्रतिपत्तये च आः किं चान्यैः प्रमाणैः श्रीमज्-जीव-गोस्वामि-चरणैः सर्वं वैमत्यं निराकृतं श्री-भक्ति-सन्दर्भे [३२०], यथा—
कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।
आवेश्य तद्-अघं हित्वा बहवस् तद्-गतिं गताः ॥ [भा।पु। ७.१.२९]
यथा विहितया भक्त्य ईश्वरे मन आविश्य तद्-गतिं गच्छन्ति तथैवाविहितेनापि कामादिना बहवो गता इत्य् अर्थः । तद्-अघं तेषु कामादिषु मध्ये यद् द्वेष-भययोर् अघं भवति तद् धित्वैव भयस्यापि द्वेष-संवलितत्वाद् अघोत्पादकत्वं ज्ञेयम् ।
अत्र केचित् कामेऽप्य् अघं मन्यन्ते । तत्रेदं विचार्यते—भगवति केवलं काम एव पापावहः किं वा पति-भाव-युक्तः, अथवा उपपति-भाव-युक्त इति । स एव केवल इति चेत् स किं द्वेषादि-गणपतित्वात् तद्वत् स्वरूपेणैव । परम-शुद्धे भगवति यद्-अधर-पानादिकं यच् च कामुकत्वाद्य्-आरोपणं तेनातिक्रमेण वा पाप-श्रवणेन वा । नाद्येन—उक्तं पुरस्ताद् एतत् ते चैद्यः [भा।पु। १०.२९.१३] इत्य् अत्र द्वेषादेर् न्यक्कृतत्वात् तस्य च स्तुतत्वात् । अतः प्रिया इति स्नेहवत् कामस्यापि प्रीत्यात्मकेन तद्वद् एव न दोषः । तादृशीनां कामो हि प्रेमैक-रूपः । यत् ते सुजात [भा।पु। १०.३१.१९] इत्य् आदिना आनुकूल्य एव तात्पर्य-दर्शनात् । सैरिन्ध्र्यास् तु भावो रिरंसा-प्रायत्वेन श्री-गोपीनाम् इव केवल-तत्-सुख-तात्पर्याभावात् तद्-अपेक्षयैव निन्द्यते न तु स्वरूपतः । सानङ्ग-तप्त-कुचयोः [भा।पु। १०.४८.६] इत्य् आदौ अनन्त-चरणेन रुजो मृजन्ति इति परिरभ्य कान्तम् आनन्द-मूर्तिम् इति कार्य-द्वारा तत्-स्तुतैः । तत्रापि सहोष्यताम् [भा।पु। १०.४८.८]१० इत्य् आदि तद् एव तस्य काम-द्वेषादि-गणान्तः-पातित्वं परिकॢप्त्य तेन पापावहत्वं परिहृतम् इत्य् अन्तम् ।
अथ कामुकत्वाद्य्-आरोपणाद्य्-अधर-पानादि-रूपस् तत्र व्यवहारोऽपि नातिक्रमे हेतुः । यतो लोकवत् तु लीला-कैवल्यम् इति न्यायेन लीला तत्र स्वभावत एव सिद्धा । तत्र च११ श्री-भूर्-लीलादीभिस् तस्य तादृश-लीला-रस-मोह-स्वाभाविकं भगवत्ताद्य्-अननुसन्धानम् अपि कामुकत्वादि-मननम् अपि च तद्-अभिरुचितम् एव च । न च प्राकृत-वामा-जने दोषः प्रसञ्जनीयः । तद्-योग्यं तादृशं भावं स्वरूप-शक्ति-विग्रहं च प्राप्यैव तद्-इच्छयैव तत्-प्राप्तेः।
अथ पाप-श्रवणेन च न पापावहोऽसौ कामः । तद्-अश्रवणाद् एव । अतः पति-भाव-युक्ते च तत्र सुतरां न दोषः, प्रत्युत स्तुतिः श्रूयते ।
सम्पर्यचरन् तं भक्त्या पाद-संवाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ [भा।पु। १०.९.२७]
इति महानुभाव-मुनीनाम् अपि तद्-भावः श्रूयते । यथा श्री-माध्वाचार्य-धृतं कौर्म-वचनम्—
अग्नि-पुत्रा महात्मानस् तपसा स्त्रीत्वम् आपिरे ।
भर्तारं च जगद्-योनिं वासुदेवम् अजं विभुम् ॥ इति ।
अत एव वन्दितं पति-पुत्र-सुहृद्-भ्रातृम् इत्य् आदिना । अथोपपति-भावेन न च पापावहोऽसौ यत् पत्य्-अपत्य-सुहृदाम् अनु [भा।पु। १०.२९.१९] इत्य् आदिना ताभिर् एवोत्तरितत्वात् । गोपीनां च [भा।पु। १०.३३.३५] इत्य् आदिना श्री-शुकदेवेन च ।१२ महानुभाव-मुनीनाम् अपि तद्-भावो दृश्यते । यथा पाद्मोत्तर-खण्ड-वचनम्—
पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छत् सुविग्रहम् ॥

ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूतास् तु गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ [पद्मप् ६.२४५.१६४]
अतः पुरुषेष्व् अपि स्त्री-भावेनोद्भवाद् भगवद्-विषयत्वान् न प्राकृत१३-कामः किन्तु साक्षान् मन्मथ-मन्मथः [भा।पु। १०.३२.२] इति श्रवणात् । आगमादौ तस्य कामत्वेनोपासनाच् च भगवतैवोद्भावितोऽप्राकृत-काम एवासौ इति ज्ञेयम् । श्रीमद्-उद्धवादीनां परम् अपि श्री-गोपी-सदृश-भाव-लिप्सा१४ श्रूयते— एताः परं तनु-भृतो भुवि गोप-वध्वः [भा।पु। १०.४७.५१] इत्य् आदौ । किं बहुना श्रुतीनाम् अपि तद्-भावो बृहद्-वामने प्रसिद्धः । यतस् तत्र श्रुतयोऽपि नित्य-सिद्ध-गोपिका-भावाभिलाषिण्यः सत्यस् तन्त्रेणैव१५ तद्-गणान्तःपातिन्यो बभूवुर् इति प्रसिद्धिः । एतत् प्रसिद्धि-सूचकम् एवैतद् उक्त ताभिः—निभृत-मरुन्-मनो-ऽक्ष- दृढ-योग-युज [भा।पु। १०.८७.२३] इत्य् आदि विस्पष्टश् चायम् अर्थः।
तद् ब्रह्माख्यं तत्त्वं शास्त्र-दृष्ट्या प्रयास-बाहुल्येन मुनय उपासते तद्-अरयोऽपि यस्य स्मरणात् तद्-उपासनं विनैव ययुः । तथा स्त्रियः श्री-गोप-सुभ्रुवस् ते तव श्री-नन्दनन्दन-रूपस्य उरुगेन्द्र-देह-तुल्यौ यौ भुज-दण्डौ तव विषक्त-धियः सत्यस् तवैवाङ्घ्रि-सरोज-सुधास् तदीय-स्पर्श-विशेष-जात-प्रेम-माधुर्याणि ययुः । वयं श्रुतयोऽपि सम-दृशस् तुल्य-भावाः सत्यः समास् तादृश-गोपिकात्व-प्राप्त्या तत्-साम्यम् आप्तास् ता एवाङ्घ्रि-रजो-सुधां यातवत्य इत्य् अर्थः ।
अर्थ-वशाद् विभक्ति-विपरिणामः । अङ्घ्रीति सादरोक्तिः । अत्र तद्-अरयोऽपि ययुः स्मरणाद् इत्य् अनेन भाव-मार्गस्य झटित्य् अर्थ-साधनत्वं दर्शितम् । सम-दृश इत्य् अनेन रागानुगाया एव तत्र साधकतमत्वं दर्शितम् । अन्यथा सर्व-साधन-साध्य-विदुष्यः श्रुतयोऽन्यत्रैव प्रवर्तेरन् ।१६ श्रुत्य्-अनुभव-सिद्धा तासाम् आनुगत्येनैव निरवायीति प्रकरणार्थश् च ।
ननु तव सिद्धान्ताः फलितार्था अभविष्यन्न् एव । यद्य् औपपत्य-परोढत्वयोः सत्यत्वम् अभविष्यन् । वयं तद् एवम् अन्याम् अन्याम् अन्वहे तस्मान् मूल एव कुठारः । पतिश् चोपपतिश् चेति [उ।नी। १.१०] इत्य् आरभ्य सर्वस्मिन्न् एव उज्ज्वल-नीलमणौ मुहुर् मायिकत्वेनैव पुर-वनितानां द्वितीयश् च व्रज-वनितानां द्वितीयत्वं तु यद्यप्य् आसाम् अवतारावसर एव प्रत्यायितं न तु सर्वदेत्य् आदि । रागेणोल्लङ्हयन्न् इत्य् अत्र स्वजन-प्रेम-वशावतार-लीलावेशेन नित्य-लीलाम् अननुसन्धानस्य तासां च लीला-शक्तिर् माययैव रस-विशेष-परिपोषाय तासु परकीयात्वं प्रत्यापयय्य तत्रौपपत्यायितवतीति सङ्केतीकृतेत्य् अत्र यत् कस्यचित् कवेः पद्यम् उदाहृतं खलु तादृग् औपपत्य-प्रत्यायनायोत्प्रेक्षाम् इति ।
लघुत्वम् अत्र [उ।नी। १.२१] इत्य् अत्र एतद् उक्तं भवति । असाव् अवतार-समये तथा प्रतीतिर् मायिक्य् एव॥। श्री-कृष्णेन तासाम् दाम्पत्ये सति परकीयात्वे च मायिकत्वे च सति नश्यत्य् एव ततो मायिकम् ।
कन्यकाश् च परोढाश् च [उ।नी। ३.१९] इति सोऽयं चावतार-लीला-दृष्ट्यैव व्यवहारो न वस्तुनः। नासूयन्न् इति । तस्य श्री-कृष्णस्य नासूयन्न् इति । तस्य कृष्णस्य माययापि स्वे स्वे दारा विवाह-समयत एव माया-रचितास् तान्१७ इत्य् आदि । पतिं-मन्यान् प्रति माया प्रतिमाया प्रकटयामास ।
गोपैर् व्यूढा [उ।नी। ३.३७] इत्य् अपूर्ववद् भ्रमानुवाद एव । शक्तिम् एवादृत्य तद्-उपयुक्तां लीला-शक्तिम् एवादृत्य तद्-द्वारावतारितानां नित्य-प्रेयसीनाम् एव तासां पर-दारत्व-भ्रमेण यथा-रसस्य विधिः प्रकार-विशेषः प्रेयसीनाम् एव तासां पर-दारत्व-भ्रमेण यथा रसस्य विस्मार्य प्रकटीकृतानाम् इत्य् अर्थः । तद्-आशंसया हेतुः रसिकेति, तस्माल् लीला-शक्ति-प्रेरिततया कृतं तासां परोढात्व-प्रत्यायनं पर-सङ्गत्य-भावश् चेत्य् आदि । समृद्दिमद्-उदाहरणे तवात्र परिमृग्यत [ल।मा। ८.१०, उ।नी। १५.२०८] इत्य् अत्र सर्वे ज्ञात-श्री-कृष्ण-विषयकाशक्त्यानन्तरं यदि तासाम् अन्य-भर्तृकात्वं वृतो मिथ्यात्वेन व्यक्तं स्यात् तदैव जुगुप्सा-व्यवस्थापयनवत् धार्मिकस्य श्री-व्रज-राजस्य सभायाम् अपि धार्मिक-रीत्या स्थापयितव्या । ततः योग-मायाम् उपाश्रित इति, नासूयन् खलु इत्य् आदि-न्यायेन यस्या मायाया सोऽयं प्रपञ्चः सैव समाधात्री । निजेश्वर-लीला-कौतुकात् तत्-तत्-कल्पितवती मध्ये चासूयापरिहारार्थं समाहितवतीति गम्यते इत्य् आदि । कृष्ण-सन्दर्भ-गोपाल-चम्पूम् अनु सैव विवेचितं बहुशः ।
स्वरूप-सिद्धानां भगवद्-दाराणाम् अपर-कर्तृक-बलात्कार-परिहारार्थ-तत्-तद्-आकारतया ये स्व-दारास् तान् स्वे इत्य् आदि । एतद्-उदितम् उपलक्षणं, तद् एव तासां पतिं-मन्येष्व् एवाह—शयनादिष्व् एव च स्वरूप-सिद्धा आवव्रिरे अन्येषु चान्यदा एवेति गम्यते तावद् एव युक्तं तासु च मय्य् आदर-क्षणोत्कण्ठा-वर्धनैक-प्रयोजनत्वान् न स्या इत्य् आदि । चम्पूम् अनु च पौर्णमास्याकारिताया यशोदा-नन्दिन्याः सिंह-वाहिन्या वचः पूर्वत एव तावद् उभय-विधात्र नापूर्वतया मन्तव्याः । पूर्वासां सजातीयता हि द्वितीया मयैव निर्मिताः । संज्ञायाश् च यावत् रत्यास् तन्-माय-कल्पितावच् च । अग्रे श्री-व्रज-राजं प्रति तथा वर्णयितव्यत्वान् नायं श्रियोऽङ्ग इत्य् अत्र पूर्वोक्त-माया-मात्र-प्रतीतान् यथात्वम् एव द्रढयतीति ।
अथ नित्य-प्रिया इति नित्य-प्रियाणां मायां विना कथम् उपपतिः स्यात् ? नेष्टा यद् अङ्गिनि इति नित्य-प्रेयसीनां तासां यथा रसस्य विधिर् इत्य् अत्र बहुत्र । समृद्धिमत्-प्रघट्टक-गद्य-पद्य-मयं बहुशो निर्णीतम् । तद् अन्ते च यथा—अथ कंसवधात् प्राचीनानां लीलानां सद्यस्तनतां मत्वा यद् उपासनं क्रियते । तत् खलु
एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे ।
निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः ॥

इत्य् आदि-रीत्यावतार-लीलावत् पूर्वावतातार-लीलावत् पूर्वम् अतीतानाम् अपि तां तां निज-लीलां भक्त-भक्ति-विशेषानुरोधेन तदा तदा करोतीत्य् एव मन्तव्यम् । त्वं भक्ति-योग-परिभावित इत्य् आदेः ।
तत्र बाल्य-लीलोपासना ग्रहिला अपि दृश्यन्ते । किन्तु श्रुतेक्षित-पथत्वेनैव ता द्रष्टव्या न तु स्व-मनोरथ-मान-कल्पितत्वेनेति गम्यते । तत्र स्वेच्छया रचिताया अपि सम्भोग-लीलायाः सम्पन्नत्वम् एव सम्मतं न तु समृद्धिमत्त्वम्, महा-प्रवास-संस्कारानन्तर-भावित्वाभावात् । अत एव कासांचित् लीलानां प्रकट-प्रकाश-गत-तुल्यानां तत्-तन्-मन्त्र-पालक-सम्प्रदायाविच्छिन्न-परम्परानुरोधेन नित्या स्थितिर् एव गम्यते न तु सर्वासाम् अपि प्रकट-लीलानां कालिय-ह्रद-प्रवेश-लीलानां महा-दुःख-मयत्वेन कासांचिद् अन्यासाम् अपि मुहुर् आगत-भय-व्याकुलीकृतत्वेन प्राकृत-मिश्रत्वेन विरोधात् । योग एव भवेद् एष विचित्रः कोऽपि मादनः । ते योग एवेति सुखेदानाम् एव तासाम् उपादानेन सहस्र-धी-सखोल्लेखनेन च प्रत्याख्यानात् प्रत्यायितानां नित्यत्वे चित्र-तुल्यता प्राप्त्या लीलात्व-हानाच् चेति इत्य् आदि नेष्टा यद् अङ्गिनि इत्य् अत्र समृद्धिमत्-प्रघट्टके कृष्ण-सन्दर्भे गोपाल-चम्पूम् अनु च विवृतं तत्-तद्-व्याख्यानां सारो यथा नेष्टेत्य् अत्र तद् उक्तं साहित्य-दर्पण-कारेण परोढां वर्जयित्वेत्य् आदि । तद् एतच् च गोकुलम्बुज-दृशां कुलम् अन्तरेणेति तास् तु स्तुता इत्य् अर्थः । आशंसयेति तादृश-क्रम-लीला-साध्यत्वेन रस-विशेषास्वादनाय सर्व-शक्तितां सर्वेश्वरताम् अप्य् अनादृत्य तद्-उपयुक्त-लीलां प्रवर्तिताः । स्व-स्व-पति-गृहम् अनुवर्तताः परास् तु कृष्ण-मात्र-पति-परायणा स्व-स्व-पितृ-गृहम् इत्य् आदि ।
अत्रेदं विचार्यते—श्रुति-स्मृति-श्री-भागवतानां ख्याततया श्रीमन्-मध्वाचार्य-श्री-रामानुजाचार्य-श्री-वल्लभाचार्य-चरणैर् विवृतानां श्री-भगवल्-लीलानां मायिकत्वं कियद्-दिन-स्थायित्वं यत् पौनःपुन्येन शत-वृत्तितया कण्ठ-रवेणैवाचाते । तत्रैवं पृच्छामः तत् किम् ऐन्द्रजालिक-कार्यत्वाद् इन्द्रजालवन् मायिकं किं वा अज्ञान-कल्पित-शुक्ति-रजतवद् बहिरङ्गायाः मायाख्यायाः शक्तेः कार्यम् । अथवा, लीला-शक्ति-कृतं सर्वम् ।
नाद्यम्, ऐन्द्रजालिकस्य नयनादेः पृथक्त्वेन सावधानतया स्थितस्यान्यदीय-व्यामोहनार्थम् एव तत्-तत्-कृतेः प्रकटम् अभूत्, न तु स्वस्य तद्-आविष्टत्वं प्रकृते तु नायिकानायकयोर् उभयोर् उभयोर् अपि तत्र तत्राविष्टता भवतैव सुप्रथितैव । नापि द्वितीयं यत्र यत्र श्री-कृष्ण-लीला तत्र तत्र माया-सम्बन्धाभावात् । माया परैत्य् अभिमुखे च विलज्जमानेति [भा।पु। २.५.१३] द्वितीय-स्कन्ध-सिद्धान्तित्वात् । वैष्णव-तोषिण्यां यशोदा-मोहन-रासादि-लीलायां तथैव समाहितत्वात् । श्री-भगवत्-सन्दर्भे च श्रिया युक्त इत्य् अस्य व्याख्यानेऽन्तरङ्ग-बहिरङ्ग-शक्त्योर् अवतारणानन्तरं पूर्वस्यां भगवति विभुत्य् आदि विस्मृति-हेतु-मातृ-भावादि प्रेमानन्द-विशेष इत्य् उक्तत्वात् । न च तस्यास् तस्मिन् भावे तथा विस्मृति-हेतुत्वम् इति वाच्यम् । विभुत्वादि मातृ-भावादि इति द्वयोर् अप्य् आदि-शब्द-ग्रहणात् सर्वेष्व् एव रसेषु तथा विस्मृति-प्रेमानन्द-मयैर् आवश्यकत्वाच् च ।
नापि तृतीयं लीला-शक्तेः स्वरूप-शक्तित्वात् । स्वरूप-शक्ति-प्रकाशितत्वस्य नित्यत्वस्य च मिथो हेतुमत्त्वा ज्ञेयेति भगवत्-सन्दर्भे न विद्यते यस्य च [भा।पु। ८.३.८, भ।स। ४९] इति गजेन्द्र-मोक्षणीये पद्ये व्याख्यानत्वात् ।
ननु कासांचिद् एव लीलानां मायिकत्वं वयं मन्यामहे न तु सर्वासाम् एव । परोढौपपत्योस् तु कण्ठ-रवेणैव वदामोऽन्यासां कालिय-दमनादि कासांचित् प्रच्छन्नतया भक्त-हृदय-व्याकुलीकरत्व-प्राकृत-मिश्रत्वादि-दोष-दर्शनात् अवतार-लीलाया असार्वदिकत्वात् कादाचित्कत्वाच् चेत् तथात्वे पर्यवसानं स्यात् । अस्तु नाम अप्रकटे भोग-नाम्नि नित्ये धाम्नि स्वारसिकी मन्त्रमयी भेदाभेदाभ्यां नित्यत्वेन नित्य-स्थित्वेन नित्य-लीला विरादान्त एव ताभ्याम् इव सर्वाभीष्ट-सिद्धिर् भविष्यत्य् एवेत्य् अलम् अनयावतार-लीलया । सत्यं सत्यं एवं चेत् तर्हि स्थाली-पुलाक-न्यायेन सर्वासाम् एव लीलानाम् असत्यत्वम् एव कथं न स्यात् ? भोः! स्याद् एव यतः कंस-वधात् प्राचीनानाम् इति व्याख्याम् तत् प्रत्याख्यानात् लीलात्व-हानाच् चेत्य् उक्तत्वाच् च ।
किं च एका नित्या अपरा अवतार-लीलात्वेनोक्ता । अतो नित्यानुयोगितया अनित्यत्वम् उक्तम् एवेति परामृश्य साधुभिः भोगो नित्य-स्थिति-लीलायानुसंहरते कदाप्य् अनेन पद्म-पुराणीय-वचनेन लीला-मात्रस्यैव तथात्वं कृष्ण-सन्दर्भे दर्शितम् एवेति किं पिष्ट-पेषणया ?
ननु, धन्याः स्थ भोः धन्याः, यतः श्री-कृष्ण-सम्बन्धि-लीला-जातं कदाचित् सत्यत्वेन कदाचिद् असत्यत्वेन कदाचिन् नित्यत्वेन च व्याहरथ । तत्रापि कदाचित् कासांचित् कदाचित् सर्वासाम् एवेति भवद्-आशय एवास्माभिर् दुर्बोधः । न च परोढोपपतित्वं भवद्-असम्मतं प्रत्युत परमाभीष्टत्वेनैव मुहुः स्थापितत्वात् नित्य-लोकेऽपि तयोः स्थितिश् च भवतैव स्थापिते सति वद कथं मायिकत्वं वक्तुं शक्यते ।
ननु परोढौपपत्योर् नामापि मया अशीलीलत्वापर-पर्यायत्वाच् च नोच्चार्यते । यथोक्तं पतिश् चोपपतिर् [उ।नी। १.१०] इति व्याख्यायां पतिः पुरः वनितानां द्वितीयस् तु व्रज-वनितानाम् इति । द्वितीयस् त्व् अवतारावसर एव इत्य् आदिना द्वितीय-शब्देनैवोक्तं, न तूपपति-शब्देन उपसंहितं च । अथ प्रोषित-भर्तृका इत्य् अत्र हि यस्य नामाप्य् अश्लीलतया नोच्चार्यते इत्य् आदिना श्री-कृष्ण-सन्दर्भे [१७७] तु मत्-कामा रमणं जारम् [भा।पु। ११.१२.१३] इत्य् अस्य व्याख्यातव्यं तद् एवम् एवोक्तम्— तम् एव परमात्मानं जार-बुद्ध्यापि इति जार-बुद्ध्या सहेति१८ या जार-वादिनः कल्पना सा त्व् असत्यैव अनर्हत्वादिना । तथात्व पूर्वापराननुसन्धायिनम् अत्रेत्य् अत्र धर्म-व्यतिक्रमो दृष्ट इत्य् अभ्युपगमवानङ्गीकृत्येऽपि तासां राजानूदित-बहिर्मुख-मत-तत्-पर-दारत्वे परितोषम् अप्राप्य तद् अपि खण्डयन् सिद्धान्तान्तरम् आह—गोपीनाम् इत्य् आदिभिर् आक्रष्टुं चेति । तत् कथं मया नित्य-लीलायां तस्य स्थित्र् वक्तव्या ? उक्तं चेद् उपन्यस्यतां पूर्वापराननुसन्धायिन् ! शृणु सावहिततया भक्ति-सन्दर्भे रागानुगा-प्रकरणे कामाद् द्वेषाद् इत्य् अस्य व्याख्यायां परकीयोपपत्योर् निर्दूषणत्वे यथा भवता स्थापितं तत् सर्वं पूर्वम् एव दर्शितं विशेषतस् तत्रैवान्ते–श्रीमद्-उद्धवादीनां परम् अपि श्री-गोपी-सदृश-भाव-लिप्सा१९ श्रूयते— एताः परं तनु-भृतो भुवि गोप-वध्वः [भा।पु। १०.४७.५१] इत्य् आदौ । किं बहुना श्रुतीनाम् अपि तद्-भावो बृहद्-वामने प्रसिद्धः ।
किं बहुना, श्रुतीनाम् अपि तद्-भावो बृहद्-वामने प्रसिद्धः यतस् तत्र श्रुतयोऽपि तद्-गणान्तः-पातिनो बभूवुर् नित्य-सिद्ध-गोपिका-भावाभिलाषिण्यः सत्य इति प्रसिद्धिर् इत्य् आदि तथैव श्रुतिभिर् अपि श्री-कृष्ण-नित्य-धाम्नि ता दृष्टा इति । बृहद्-वामने प्रसिद्धम् इति तत्-प्रघट्टकश् च कृष्ण-सन्दर्भे, यथा—
आनन्द-रूपम् इति यद् विदन्ति हि पुराविदः ।
तद्-रूपं दर्श्यास्माकं यदि देयो वरो हि नः ॥

श्रुत्वैतद् दर्शयामास स्व-लोकं प्रकृतेः परम् ।
केवलानुभवानन्द-मात्रम् अक्षरम् अव्ययम् ॥

यत्र वृन्दावनं नाम वनं काम-दुघैर् द्रुमैः ।
मनोरम-निकुञ्जाढ्यं सर्वर्तु-सुख-संयुतम् ॥

यत्र गोवर्धनो नाम सुनिर्झर-दरी-युतः ।
रत्न-धातु-मयः श्रीमान् सुपक्षि-गण-सङ्कुलः ॥

यत्र निर्मल-पानीया कालिन्दी सरिता वरा ।
रत्न-बद्धोभय-तटा हंस-पद्मादि-सङ्कुला ॥

शश्वद्-रास-रसोन्मत्तं यत्र गोपी-कदम्बकम् ।
तत्-कदम्बक-मध्यस्थः किशोराकृतिर् अच्युतः ॥ इति ।
न च ता गोपानां पत्न्यो न भवन्ति, किन्त् गोप-जाति-स्त्रिय इति वाच्यम् । अग्रे वेदानां,
यथा त्वल्-लोक-वासिन्यः काम-तन्त्रेण गोपिकाः ।
भजन्ति रमणं मत्वा चिकीर्षाजनिनस् तथा ॥

इति प्रार्थनानन्तरं भगवता प्रार्थनानुरूप-वर-दानात् । यथा, जार-भावेन सुस्नेहं सुदृढं सर्वतोऽधिकम् इत्य् आदि । गोविन्द-वृन्दावन-नाम्नि बृहद्-गौतमीये श्री-कृष्णस्य श्री-मुख-वाक्यस्य श्री-कृष्ण-सन्दर्भे प्रमाणितत्वात् । तद् यथा—इदं वृन्दावनम् इत्य् आरभ्य—
अत्र या गोप-पत्न्याश्२० च निवसन्ति ममालये ।
योगिन्यस् ता मया नित्यं इति म वात्र व्याख्यान्तरावकाश-लेशोऽपि ।
पत्युर् नो यज्ञ-संयोगे इति पाणिन्य्-अनुशासनात् पत्नी तत्-कर्तृक-यज्ञस्य फल-भोक्त्रीति सिद्धान्त-कौमुदी-निरुक्तेश् च ।
ननु सर्वम् एतद् आस्वीकुर्महे, यदाप्रकट-प्रकटयोर् ऐक्य-रूपेणैव तत्-तल्-लीयाया नित्य-स्थितेर् एवास्मद्-वचनम् एव प्राश्यामो नान्यथा तद् अपि श्रुत्वा न विस्मरत, यथा श्री-कृष्ण-सन्दर्भे एक-सप्तत्य्-उत्तर-शततमे वाक्ये तद् एवं स्वारसिकी अप्रकट-लीला दर्शिता । अथाप्रकट-लीले द्वे अप्य् अर्थ-विशेषेणाह—
गोपीनां तत्-पतीनां च सर्वेषाम् एव देहिनाम् ।
यो ऽन्तश् चरति सो ऽध्यक्षः क्रीडनेनेह देह-भाक् ॥ [भा।पु। १०.३३.३५]
अत अन्तः-स्थितं२१ यथा स्यात् तथा गोपीनां तत्-पतीनां तत्-पतिं-मन्यानां क्रीडन-देह-भाक् सन् तेषाम् एव गोकुल-युवराजतया अध्यक्षश् च सन् यश् चरति क्रीडति स एव प्रकट-लीला-गतोऽपि भूत्वा सर्वेषां विश्व-वर्तिनां देहिनाम् अपि क्रीडन-देह-भाक् सन् तेषां पालकत्वेनाध्यक्षोऽपि सन् चरति । तस्माद् अनादित एव ताभिः क्रीडा-शालित्वात् सिद्धाव् अत्र छक्ति-रूपाणां तासां सङ्ग एव स्तुत२२ एव पर-दार-दोषोऽपि नास्ति ।
एतत्-पद्य-व्याख्यानं गोपाल-चम्पू-मध्ये च अन्तरङ्गान् प्रति त्व् अयम् अर्थः—
गोपीनां काश्चिद् व्यूढाः काश्चिद् अव्यूढा इति द्विधात्र प्रसिद्धा२३ वस्तुतस् तु नित्य-सिद्धानां सर्वतः श्रेयसीनां प्रेयसीनाम् अन्यासाम् अपि नाना-भाव-समृद्धानां कुमारी-तरुणी-वृद्धानां, तथा यथा-सम्भवं तासां२४ तद्-उपलक्षिततया कुमार-ततीनां२५ सर्वेषाम् अपि तद्-एक-जीवानां जीवानां२६ यानि तत्-तद्-उपचितता-विस्ताराय२७ तदीय-क्रीडा-साधन-देहानि, तद्-आयत्तः२८ सन्न् अन्तः-शब्दाभिहिते महिते जगन्-नेत्राद् अन्तर्हिते सदाभवे स्व-वैभवे यश् चरति क्रीडति । स एष एवाध्यक्षः कदाचिज् जगत्-प्रत्यक्षः सन् क्रीडति । तस्मान् निज-प्रेयसीभिः समम् अनादित एव मिथुनतेति कथनाद् औपपत्यं नोपपत्त्य्-अर्हम्, किन्तु परम-व्योमाधिप-लक्ष्मी-नारायणवद् दाम्पत्यम् एव तद्-अर्हं भवतीति ।
किं च सर्वैर् ज्ञात-श्री-कृष्ण-विषयक-शक्त्य्-अनन्तरं यदि तासाम् अन्य-भर्तृकात्वं व्रजे मिथ्यात्वेन व्यक्तं स्यात् तदैव जुगुप्सा-व्यत्ययेन रसः सम्पद्यते, तस्माद् व्रज-सभायाम् अपि नव्यम् इत्य् आदिना तद्-दुर्वादस्य पौर्णमासी-देव्योर् द्वारा यत् समाधानं विहितं तद् अपि महान् अविहितम् एव विप्रादि-साक्षिक-श्रीमन्-नन्दादि-बन्धु-वर्ग-समाधान-पूर्वकं पितृभिर् अन्य-गोपेभ्यो वितीर्णत्वात् यदि चोभयम् उभयम् अर्पितयोऽनुगानां श्श्रीमन्-नन्दादीनां समक्षम् एव तद्-उद्वाहो निष्पन्नः तर्हि पुनर् अन्य-कर्तृक-वचनाद् इव तत् सर्वं तैर् एव कथं मिथ्येति प्रतीयताम् । न च भ्रान्ता कर्ता प्रत्यक्षीकृत-पदार्थः पदार्थान्तरत्वेन ब्रह्मणापि ग्राहयितुं न शक्यः । कृत-निश्चयस्य तस्य स्वस्मिन् प्रामाण्य-निश्चयान् च यथा कथञ्चिद् देव्या वचनेन समाधातव्यम् । तथापि पुनर् उद्धाहय सर्वथा तद्-असम्मतिर् एव भावयित्वा वा देव्या स्व-कल्पित-गोपीनां दर्शनया सर्वेषाम् एव भ्रान्ति-दूरीकरणाय ताभिः सह श्री-कृष्णेन विवाहे श्री-व्रज-राजस्य सम्मतिः स्याद् एवेति वक्तुं युज्यते । स्वयम् एव निष्पादित-पूर्व-व्यवहारस्य मायाया वचनाद् एवाप्रमाणीकर्तुं अशक्यत्वात् । न च कृष्णेन परमेश्वरत्वात् तद्-दोषाणाम् अग्रहणात् स्त्री-रत्नानि स्वीकृतान्य् एवेति वाच्यम् । पूर्वावतारे नैव दाशरथिना जानक्याः कृत-परीक्षाया अपि रजक-मुखाद् दुर्वाद-श्रवण-मात्राद् इव परित्यागात् ।
ननु, तद्-अवतारस् तथैव मर्यादा-परत्वम् एव तस्यासीत् । अस्य दुर्लील-शेखरता तन्-मर्येव सर्वास् लीलासु प्रसिद्धैव । सत्यम् । श्री-कृष्णस्य मर्यादा-परता परता स्वयम् एव न कैश्चिद् दृष्टा, अपि मुहुः स्थाप्यते चेत् स्वयम् एवेदानीं पुनर् दुर्लीलताङ्गीक्रियते । इष्टापतिर् अस्माकीनैव । एतावता कष्ट-कल्पनेन न किम् अपि प्रयोजनम् । यथा-स्थितम् एवास्तु तत् सर्वम् इत्य् अलं विस्तरेणेति दिक् ।
यत् तु मुन्य्-आदिना सत्यत्वे व्यक्तीकृतास् ता गोप्यः स्वरूपेण रमणं प्रापुर् माया-कल्पिता गोप्यस् तु स्व-स्व-पतिम् इत्य् एव श्री-भगवत्-संमतम् । दृश्यते च संज्ञा-छायादिवत् कल्पनायाम् एव व्यक्तत्वम् एव परिणामः सर्वत्र इत्य् उक्तम् । तेन स्वस्य कारुण्यम् एव व्यक्तीकृतम् । पूर्वं यदा यदा तासां व्रत-लोप-प्रसङ्ग-प्राप्त आसीत् तदा तदैव मायैव समादधात् । अनेन सर्वास्व् एव श्री-कृष्णेन भवन्-मते परिणीतासु सतीषु पूर्व-वोढारो गोप-संज्ञा-गृहस्थ-नाशात् किं कुर्युर् इति परामृश्यानुकम्पया मायिक्यो गोप्यस् तेषां भार्यात्वे भगवन्-मत-ज्ञेन भवता निर्दिष्टत्वात् । न च तासां वोढारो गोपाः यथा कथञ्चित् प्रवलायाम् एव मायिकी गोपीस् तेभ्यः समर्प्य प्रतारिताः । अन्ततोऽप्रकट-मयीम् आगमन-काले ते सर्व एव व्यापादिता इति वाच्यम् । श्री-भागवतामृत-धृत-पद्म-पुराणीय-गद्येषु—अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्र-दार-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूप-धरा विमानम् आरूढा परम-वैकुण्ठ-लोकम् अवापुर् [पद्मप् ६.२५२.२८] इत्य् उक्तेः सर्वेषाम् एवाविशेषेण व्रज-वासि-पुत्र-दारादि-साहित्येनैव तद्-आरोहणस्य सम्मतत्वात् ।
किं चात्रैव सन्दिहानाः स्मः । एकस्मिन्न् एव ग्रामे द्वयोर् अपि सार्वदिक-स्थितौ सत्यां मातर-पितरादीनां श्वश्र्व्-आदीनां वा कीदृशो व्यवहारः समजनि । द्वयोर् नाम-रूपादेर् भेदाभावात् पतिभिः सह सङ्गे सति अपत्यादेर् अवश्यं भावित्वात् । तत्-तद्-व्यवहार-निर्वाहणाय पित्रादीनां सत्यत्वे मायिकत्वे च युगपद् विद्यमानतायाः आवश्यकत्वात् एतैर् यादृशं सरसावहत्वं निर्व्यूढतैर् एतद् विचार्यते न वेति । न चापत्यादिर् न भावी लक्ष्म्या इवेति वाच्यं लक्ष्मीर् एव सीतात्वेनावतीर्णो विप्रादि-साज्ञिकतया मातृ-पितृभ्यां वितीर्णा सती प्रजाः सुतेऽस्मैव एवं पार्वत्यापि प्रत्युत लोकवल् लीला-कैवल्यात् तद्-अभावेऽमाल-रूपता लोक-शास्त्र-प्रसिद्धा इति बहव एव पल्लक्षाः सतीत्य् अवनेर् अनुलोक्त-संज्ञा च्छाया-दृष्टान्तश् चात्र न सङ्गच्छते । छायाया अपि सूर्यान्यदीयेत् सम्भोगाभोगाभावात् भवता तु तत्-तन्-नाम-रूपतया सर्वथा अभिन्नास् ता गोपेभ्यो वितीर्णा इत्य् एतद्-अंशस्य ततोऽपि वैलक्षण्यात् अनेन रावण-रुद्ध-सीतापि व्याख्याता । ये च ललित-माधवीय-प्रक्रियां समृद्धिमति मूलोदाहरण-दृष्टम् अदृष्टं विधाय तद्-उदाहरणत्वे सख्यस् ता मिलिता इति स्वाभिमतत्वेन उक्ता वाचा युक्ते विलासः सोऽप्य् अविचारतयैव यत उज्ज्वल-नीलमणौ ग्रन्थे क्रीडा-शयानुसारिण्यां टीकायां व्याख्यातं, यथा—
दुर्लभालोकयोर् यूनोः पारतन्त्र्याद् वियुक्तयोः ।
उपभोगातिरेको यः कीर्त्यते स समृद्धिमान् ॥ [उ।नी। १५.२०६]
अस्यार्थः—वियुक्तयोर् विरहिण्योर् यूनोर् नायिका-नायकयोर् एव पारतन्त्र्याद् धेतोर् एव दुर्लभा लोकयोर् य उपभोगस् तस्यातिरेक आधिक्यं स समृद्धिमान् सम्भोगः कीर्त्यते सम्पन्नादि-सम्भोगे दुर्लभे भोगे दुर्लभालोकत्वस्य द्वयोः पारतन्त्र्यं न कारणं किन्तु एकस्या नायिकाया एव, तस्या हि श्वश्रू-पतिंमन्य-पित्रादीनाम् अधीनत्वं तैर् वार्यमाणत्वं न तु नायकस्य श्री-कृष्णस्य तस्य हि स्व-पित्रादीनाम् अधीनत्वेऽपि न तैः स्त्री-प्रसङ्गे वार्यमाणत्वं, नायिकायाः श्वश्रू-पतिंमन्यादिभिश् च वार्यमाणत्वेऽपि न तेषाम् अधीनत्वम् । अत्र तु दग्धं हन्त दधानया [उ।नी। १५.२०७] इति, तवात्र परिमृग्यता [उ।नी। १५.२०८] इत्य् उदाहरण-द्वये द्वयोर् एव राधा-कृष्णयोर् ललित-माधवोक्त-कथानुसारेण रुक्मिण्या अधीनत्वं वार्यमाणत्वं च । एवं चाधीनत्वे वार्यमाणत्व-हेतुके दौर्लभ्ये सत्य् उपभोगाधिक्यं युक्ति-सिद्धम् एव । तद्-आधिक्यं ललित-माधव-कथायाम् एव द्रष्टव्यम् । पारतन्त्र्यापदोपादानाद् वियुक्तयोः पारतन्त्र्य-राहित्यादर्शनात् प्रत्युत पारतन्त्र्य-परम-बाधित्वम् एव तत्-कथायाम् एव दृष्टम् । यत्र दत्त-शपथापि नव-वृन्दापि रहस्यं वक्तुं न प्रभवतीति । पारतन्त्र्यादि-हेतोः वियुक्तयोर् इत्य् अर्थोऽपि नात्र घटते । वियुक्तयोर् इति वियोगोऽयं सुदूर-प्रवास-भवोऽवश्यं व्याख्येय एव । स च सुदूर-प्रवासो मथुरागमन-रूप एक एव । तत्र पारतन्त्र्याद् इति कारणोपादानम् अव्यावृत्तिकम् अकिञ्चित्करम् इवेति ।
किं चायं समृद्धिमान् सम्भोगो लक्षणोदाहरण-दृष्ट्या ललित-माधवयोक्त-कथा-क्रमेण प्रकट-लीलायाम् एव तत्रापि सकृद् एव भवति । नित्यत्वं त्व् अस्य प्राक् प्रदर्शितम् एव । एवं च सुदूर-प्रवासान्ते दाम्पत्ये सत्य-पारतन्त्र्ये एवं समृद्धिमान् संक्षिप्त-सङ्कीर्ण-सम्पन्ना एव औपपत्ये इति व्याख्या प्रसिद्धिर् नैव ग्रन्थ-कृद्-आशय-स्पर्शिनीति बुद्ध्यते । पारतन्त्र्याभाव एव दाम्पत्य एव समृद्धिमान् इति यदि तेषाम् आशयस् तर्हि सख्यस् ता मिलिता इति स्पष्टम् एव पारतन्त्र्याभाव-दाम्पत्य-रूपक-पद्यम् अनुदाहार्यं—दग्धं हन्त इति, तवात्र परिमृग्यता इत्य् औपपत्य-पारतन्त्र्य-मयं पद्य-द्वयं कथम् उदाहरणत्वेनोपन्यस्तम् ।
तदा हि विवाह-प्रसङ्ग एव नास्ति, सूर्य-दत्ता सत्राजितः कन्यैवाहम् इत्य् अभिमानवत्याः श्री-राधायाः श्री-कृष्णे पूर्ववद् औपपत्य-भावे एव । पारतन्त्र्यस्य तु तदानीं परमावधिः स्पष्ट एवेति क्रियानपह्नवो विधेयः ।
ननु सख्यस् ता इत्य् आदौ किम् अतः परं कर्तव्यम् अत्रास्ति मे इति वृन्दावनैश्वर्य-वाक्येन पारतन्त्र्याभाव-मये दाम्पत्ये एवानन्द-विशेष एवावसीयते । मैवं, तत्रैव तद्-अनन्तरम् अपि तया पुनश् चोक्तं—
या ते लीला-रस-परिमलोद्गारि-वन्यापरीता
धन्या क्षौणी विलसति वृता माथुरी माधुरीभिः ।
तत्रास्माभिश् चटुल-पशुपी-भाव-मुग्धान्तराभिः
संवीतस् त्वं कलय वदनोल्लासि-वेणुर् विहारम् ॥ [ल।मा। १०.३८]
इत्य् अनेन गोप-पत्नीभिश् चटुलाभिस् त्वम् अपि अभिसारार्थं वेणु-वादन-परः सन् विहारं कुरु त्वेत्य् एव प्रार्थनायाः सौमानात् तादृग् एवापत्ये द्वारकायां मनोऽनुरक्तता जाता । ततश् च श्री-कृष्णेनापि तथास्त्व् इति वरो दत्तः ।
ननु कथं ग्रन्थ-कृद्भिः नव-वृन्दावने व्रज-सुन्दरीणां विवाहो वर्णितः ? यदि च वर्णितः तर्हि कदाचित् कल्पे दन्तवक्र-वधानन्तरं तत्रानुक्तोऽपि तासां विवाहोऽस्मद्-युक्त्याभ्युपगन्तव्य एव स्यात् । सत्यं द्वारकायां तासां विवाहो न निष्प्रमाणिक एव । यद् उक्तं पद्म-पुराणीय-द्वात्रिंशद्-अध्याय-कार्त्तिक-माहात्म्ये कैशोरे गोप-कन्यास् ता यौवने राज-कन्यकाः इति । स्कान्द-प्रभास-खण्डे च गोप्य्-आदि-माहात्म्ये—षोडशैव सहस्राणि गोप्यस् ताः समागताः इति । अतः पूर्णतमस्य वृन्दावन-नाथस्यैव द्वारका-नाथो यथा पूर्ण-रूपा रुक्मिण्यायास् तासां विवाहः समुचित एव । न तु पूर्णतम-धाम्नि व्रज-भूमौ वर्णयितुं शक्यः । समर्थायाः एव रतेः सम्ञ्जसस्त्वापत्तेश् चटुल-पशुपी-भाव-मुग्धेत्य् आदि प्रार्थना-प्रातिकूल्याच् च । विशेषश् च उज्ज्वलस्य नवीन-टीकायां द्रष्टव्य इति दिक् ।
तस्माद् ग्रन्थ-कृताम् अनुसारिणां तेषाम् अपि अयम् एवाशयो लक्ष्यते । सर्व-दृग्-ऐश्वर्यः श्रुतयोऽपि नित्ये धाम्नि गोप-पत्नी-परिवृतं रास-विलासिनं श्री-कृष्णं दृष्ट्वैव तासाम् अनुगता भूत्वैवापुर् इति तैर् एव निर्धारितत्वात् ।
ननु, स्मृतम् एतत् सर्वम् । किन्तु कंस-वधात् प्राचीनानां लीलानां का गतिः कल्पनीया ? तद् उच्यताम् । उच्यते, तद्-अर्थम् अपि प्रमाणान्तराणि नान्वेषणीयानि किन्तु भवत्-प्रमाणित न विद्यते यस्य च इत्य् आदि पद्ये यस्य श्री-कृष्णस्य त्रैकालिकीनां सर्वासाम् एव लीला-मात्राणाम् अविशेषेण अप्राकृतत्वे स्वरूप-शक्ति-प्रकाशितत्वे श्री-भगवत्-तत्त्व-तद्-धाम्नां च परिकराणां च प्रकाशानन्त्यात् जन्म-कर्म-लक्षणायास् तस्यास् तथानन्त्ये अनन्त-ब्रह्माण्ड-गतत्वेन सर्वदा विराजमानत्वे मनसाप्य् अगोचरे स्वरूपानन्द-विलास-मात्रत्वे सति नित्यत्वं प्रमाणं दर्शयामि । तस्माद् अयम् अर्थ इत्य् आरभ्य यस्य तु सर्वदा स्वरूपस्थत्वात् मनसाप्य् अगोचरत्वात् प्राकृतत्वानि जन्मादीनि न विद्यन्ते तथापि यस् तानी अच्छति प्राप्नोति तस्मै नम इत्य् उत्तर-श्लोकस्थेनान्वय इत्य् आदि ।
ननु, प्राप्नोतीत्य् उक्ते कदाचित्कत्वम् अप्य् उपगम्यते तत्राह अनु कालं नित्यम् एव प्राप्नोति कदाचिद् अपि न त्यजति इत्य् अर्थः । स्वरूप-शक्ति-प्रकाशितत्वस्य नित्यत्वस्य च मिथो हेतु-हेतुमत्ता ज्ञेया ।
ननु कथं जन्म-कर्मणोर् नित्यत्वं ते हि क्रिये क्रियात्वं च प्रति निजारम्भ-परिसमाप्त्याम् एव सिद्ध्यतीति ते विना स्वरूप-हान्यापत्तेः, नैष दोषः । भगवति सदैवाकारानन्त्यात् प्रकाशानन्त्यात् जन्म-कर्म-लक्षण-लीलानन्त्यात् । अनन्त-प्रपञ्चानन्त-वैकुण्ठ-गत-तत्-तल्-लीला-कर्मणोर् अथ सा यावत् समाप्यन्ते वा तावद् एवान्यत्र प्रारब्धा भवन्तीत्य् एवं श्री-भगवति विच्छेदाभावात् नित्ये एव ते जन्म-कर्मणी वर्तते तत्र ते क्वचित् किञ्चिद् वैलक्षण्येनारभ्येते क्वचिद् ऐक्य-रूपेणेति ज्ञेयम् ।
(पगे ६७ तो ७३)
[भ।स। ४९]
विशेषेण भेदाद् विशिष्टैक्याच् च एक एवाकारः प्रकाश-भेदेन पृथक्-क्रियास्पदं भवतीति चित्रं बतैतद् एकेन वपुषेत्य् आदौ प्रतिपादितम् । क्रिया-भेदात् तत्-तत्-क्रियात्मकेषु प्रकाश-भेदैर् अप्य् अभिमान-भेदश् च । तथा सत्य् एकत्रैवात्र लीला-क्रम-जनित-रसोद्बोधश् च जायते ।
ननु कथं ते एव जन्म-कर्मणी वर्तेते इत्य् उक्तम् । पृथग्-आरब्धत्वात् । अन्ये एव ते उच्यते काल-भेदेनोदितानाम् अपि समान-रूपाणां क्रियाणाम् एकत्वम्, यथा शङ्कर-शारीरके द्विर् गो-शब्दोऽयम् उच्चारितो न तु द्वौ गो-शब्दौ इति प्रतीति-निर्णीतं शब्दैकत्वं तथापि द्विः पाकः कृतोऽनेनेति । द्विधा-पाकः कृतोऽनेनेति प्रतीत्या भविष्यति अतो जन्म-कर्मणोर् अपि नित्यता-युक्तैव । अत एवागमादाव् अपि भूत-पूर्व-लीलोपासना-विधानं युक्तम् । तथा चोक्तं माध्व-भाष्ये—परमात्म-सम्बन्धित्वेन नित्यत्वात् त्रिविक्रमादाव् अप्य् उपसंहार्यत्वम् इति । अनुमतं चैतच् छ्रुत्वा यद् गतं यद् भवच् च भविष्यच् च इत्य् अनयैव । उपसंहार्यत्वम् उपासनायाम् उपादेयत्वम् इत्य् अर्थः । तत् तस्य जन्मन अप्राकृतत्वात् तस्माद् विलक्षणत्वं प्राकृत-जन्मानुकरणत्वेनाविर्भाव-मात्रत्वम्, क्वचित् तद्-अनुकरणेन वा । अजायमानो बहुधैव जायते इति श्रुतेः । तथा देवक्यां देव-रूपिण्यां विस्नुः सर्व-गुहाशयः [भा।पु। १०.३.८], सत्यं विधातुं निज-भृत्य [भा।पु। ७.८.१७] इत्य् आदि च । तथा कर्मणो वैलक्षण्यं स्वरूपानन्द-विलास-मात्रत्वम् । तद् यथा लोकवत् तु लीला-कैवल्यम् [व्स् २.१.३३] इत्य् आदि ।
ननु, एतत् सर्वं भवत्-प्रमाणितम् एव भवत्-प्रमाणं किन्तु ललित-माधवोक्त-पौर्णमासी-गार्ग्योः संवादोदित-भाविकत्वस्य को वा प्रतीकारः । ततोऽप्य् अधिकं सर्वोपमर्दक-विदग्ध-माधवे पौर्णमासी-नान्दीमुख्याः संवादे अभिमन्युना विवाहस्य मिथ्यात्वम् एव निश्चित्य एतत्-पक्षस्य मूलोत्खात एव कृतोऽस्ति । तथाप्य् उपायश् चिन्तनीयः । नो चेद् वर्णित-चर्येति सा लीला मायिकत्वे पर्यवस्यति एव ग्रन्थ-कृद्भिस् तथात्वे स्वस्याभिमतस्य निश्चितत्वात् । अत्र ब्रूमः—श्रीमद्-ग्रन्थ-कृद्भिस् तत्र—णूणं गोअणादि गो एहि चन्दाअली प्यहुदीणं उब्बाहो मायाए निच्चाहिदो इत्य् एवोक्तम् ।
ननु, भ्रमादि-शब्देन मिथ्यार्पितं वा न च माया-शब्दस्य बहिरङ्गायाः शक्तेर् एव वाचकत्वेति वाच्यं श्री-भगवत्-सन्दर्भे [४९] न विद्यते यस्य च [भा।पु। ८.३.८] इति पद्य-व्याख्यानं मायायाः स्वरूप-शक्तित्वे प्रमाणितत्वात् । तद् यथा—
स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः ।
अतो मायामयं विष्णुं प्रवदन्ति सनातनम् ॥ इति श्रुतेः२९ ।
आत्म-माया तद्-इच्छा स्यात् इति संहितातः ।
त्रिगुणात्मिकाथ ज्ञानं च विष्णु-शक्तिस् तथैव च ।
माया-शब्देन भण्यते शब्द-तत्त्वार्थ-वेदिभिः ॥ इति शब्द-महोदधिः३० ।
माया वायुनं ज्ञानम् इति निर्घण्टोर् इत्य् आदि । ततश् च दुर्घट-घटना-पटीयस्या योग-मायया उद्वाह-निर्वाहस् तया
देवक्यां देवकी-रूपिण्यां विष्णुः सर्व-गुहाशयः ।
आविरासीद् यथा प्राच्यां दिश्य् उदुराज-पुष्कलः ॥ इतिवद् बोधव्यः ।
प्रस्तुते च जगन्-निस्ताराय श्री-कृष्णस्य यशो विस्ताराय च लीला-ग्रन्थस् तादृशैर् महा-कारुणिकैर् वर्णितः । सा चेत् अपरामर्शान् मायात्वे कल्प्यते तर्हि तेषु विप्रलिप्सुतां लीलायाम् असत्यतां च समारोप्य ऐहिकामुष्मिकं कल्याणं स्वस्य साधनीयम् एव वादिभिः । ततः स्वरूप-शक्ति-प्रकाशितत्वात् सर्वास् ता लीला नित्या एवेति सर्वं सुस्थम् ।
किं च, विदग्ध-माधव-स्थ-पौर्णमासी-नान्दीमुख्योः संवादे—नान्दि- भअवदि, जसोदा धत्तीए मुहुराए अप्पणो णत्तिणी राहिआ गोउल-मज्झे आणिअ जडिला-पुत्तस्स अहिमण्णुणो हत्थे उब्बाहिदा त्ति, णाणूणं तु मणिर्च्चिसि संबुत्ता । जं एसा गोउल मज्जे आणीदा३१ [वि।मा। १.२७] इत्य् आदेर् एव पाठः ।
नन्व् अस्य इतोऽप्य् अधिकस् तथैव ग्रन्थ-कृतां श्री-हस्त-लिखित-पुस्तकेषु दृष्टत्वात् । अद्यापि तानि पुस्तकानि श्रीमन्-मदन-गोपाल-गोविन्द-देव-राधा-दामोदराणां पुस्तकागारेषु अन्यत्रापि विराजन्ते । तस्मात्—उब्बाहिदा त्ति । इतः परन्तु मणिर्च्चिताबि अदीसन् पौर्णतस्यैव हेतोः नान्दी कधं बिअ पौर्ण विहस्य तद्-वचनार्थं योग-मायया मिथ्यैव प्रत्यायितं तद्-विधानाम् उद्वाहादिकं नित्य-प्रेयस्य एव खलु ताः कृष्णस्य नान्दी सहर्षम् इत्य् एतत्-पर्यन्तं केनचित् स्वाभिमत-प्रतिपादयिषयान् प्रक्षिप्य मिथ्यैव प्रत्यायितम् इति । तेन प्रक्षिप्त-पाठेन न शङ्का पङ्किला विधातव्या स्वधीः सुधीभिर् इत्य् एव धेयम् ।
परं च यद्य् अयम् एव पाठः प्राचीन-पुस्तक-स्थोऽभविष्यत् तदा ललित-माधवीय चंदाअली प्यदुदीण उब्बाहो मायाए णिच्चाहिदो इत्य् एव सर्वत्र स्व-ग्रन्थेषु तैः प्रमाणितम् । अमुम् अपि विदग्ध-माधव-प्रसङ्गम् अत्यन्त-सुस्पष्टं मिथ्या-वाचकत्वे तेऽवश्यं प्रामापयिष्यत् इत्य् अपि परामृश्यं यद् आहुः यदि स्वयं श्री-कृष्णेन सा लीला अवतारावसर एव दिनानि कतिचित् कस्मैचिद् आस्वाद-विशेषाय सर्वज्ञता सर्व-शक्तितां सर्वेश्वरताम् अपि अनादृत्य तद्-उपयुक्तां लीला-शक्तिम् एवावतारितानां नित्य-प्रेयसीनां तासां पर-दारत्व-भ्रमेण यथा रसस्य विधिः प्रकार-विशेषः सम्भवति तथा नित्य-लीला विस्मार्य प्रकटीकृतानाम् इत्य् आदि, तत्रापि एतद् उक्तं भवति यद्यपि निर्विघ्नेऽपि सम्भोगे रसता भवत्य् एव तथापि न विना विप्रलम्भेन सम्भोगः पुष्टिम् अश्नुते [उ।नी। १५.३] इति भरत-न्यायेनापेक्षित-विप्रलम्भश् च तल्-लीला-वैचित्र्यम् उद्वहन् भवति वैचित्री च जाया-पत्न्योर् इतः परं नास्ति । अज् जाया-पत्योर् एव सतोर् लीला-शक्त्या जन्मान्तर-वशाद् विस्मृत-तद्-भावयोर् मिथ्यैवान्यत्र प्रत्यायित-जाया-विवाहयोर् या प्रतिकृति-कल्पनाद्यावचिते पतिं-मन्ये लोक-धर्म-मर्यादां समुल्लङ्घयन् केन रागेण रहसि परस्पर-मिलितयोर् निरन्तर-शङ्कया जात-दौर्लभ्ययोः कदाचिज् जाते पत्युस् तु दूर-प्रवासे मिलन-युक्तिम् असम्भावयतोस् ततो जातेऽपि कथम् अपि सम्भोगे लीला-शक्त्यैव व्यञ्जित-दाम्पत्ययोः परम-सुख-चमत्कार इति च । कृष्ण-सन्दर्भे च न च दाम्पत्ये प्रकटे बहु वार्यते इत्य् आदि भरताद्य्-अनुसृत-निवारणाद्य्-अभावाद् रस-निष्पत्तिर् न स्याद् इति वाच्यम्। तस्य निवारणं खलु भयेन तावत् सर्वातिशय-सामर्थ्यात् किन्तु लज्जयैव । लज्जा च कुल-कुमाराणां स्व-स्त्री-सम्बन्धानुमिताव् अपि जायते । किम् उत परम-लज्जादि-गुण-निधानस्य व्रजे नव-वयः शीलताम् एवाव्यञ्जतस् तस्येति । किन्तु बहु-पत्नीकत्वे मात्रादिभिर् मिथस् ताभिर् अपि सङ्गस्यानभीष्टत्वात् स्वत एव निवारणं प्रच्छन्न-कामुकत्वं च स्याद् इत्य् आदि ।
अत्र वदामः—आदौ नेष्टा यद् अङ्गिनि इत्य् अस्यार्थो ग्रन्थ-कृद्-अभिमतो, यथा शृङ्गार-रसे पापादि-श्रवणाशङ्कया परोढा नेष्टा तद् गोकुलाम्बुज-दृशां कुलं विना ज्ञातव्या । कुतः ? रसिक-मण्डल-शेखरेण कंसारिणा अवतारितानां प्रकटीकृतानां केन हेतुना अत्र रसे यो विधिः प्रवर्तना तस्य आ सम्यक् स्तुत्या हेतुना प्रकटाप्रकटयोर् लीलायाः स्थितित्वे ऐकरूप्यं पूर्वम् उक्तम् एव । अयम् अर्थः पूर्वं कोऽपि संसाराद् उत्तितीर्षुर् इमं शृङ्गार-रसं नास्वादयत सम्प्रति तु एतत्-सम्बन्धात् याः श्रुत्वा तत्-परो भवेद् इति विधिश् च शुकदेवेनापि जीव-मात्र-प्रतिविहितत्व-निकृत-कृत्या भोश् चरितार्थाः प्रकृतं शृणुत । यस्य लीला क्रम-साध्या प्रेम-रस-विशेषस्यास्वादनाय नित्य-सिद्धानि सर्वज्ञतादीन्य् अनादृत्य विस्म्य च प्रेयस्योऽवतारिताः स्वयं च तथा सन्न् एवावतीर्णः स एव निर्यासत्वेन मुहुर् निर्दिष्टः तथैव तत्-परिपोष इत्य् अपि निर्धारितः ।
किं च, लीला-वैचित्र्यं च जायापत्योर् इव सतोर् लीला-जन्मान्तर-वशाद् विस्मृत-तत्-तद्-भावयोर् मिथ्यैवान्यत्र प्रत्यायित-जाया-विवाहयोर् धर्म-निर्वाहोत्तरं महा-प्रवासानन्तर-समृद्धिमति सम्भोगे च जाते सति लीला-शक्त्यैव वा श्री-कृष्ण-सन्दर्भोक्त आकाशादि-वाण्यासून्यादिना देव्या व्यञ्जित-दाम्पत्ययोः पुनर् व्रजे विवाहे निष्पण्णे परम-सुख-चमत्कार इति च निरनायि । त एव पुनः लीला-शक्ति-प्रेरितोऽपि मिथ्यात्वेन प्रतीत इत्य् एव मुच्यते ।
तत्रैवं प्रष्टव्याः स्थः । तस्य स्वस्य वा नित्य-दाम्पत्यादीनां विस्मृतिः किं लीला-शक्ति-निष्पाद्या, जीववद् अज्ञान-कल्पिता अविद्या कार्य-रूपा वा ? अथवा स्वेच्छयैवरस-निर्यासास्वादनायाङ्गीकृता ?
नाद्यः पक्षः, लीला-शक्तेः स्वरूप-शक्तित्वात् स्वरूप-शक्ति-प्रकाशितत्वस्य हेतु-मत्तेति सन्दर्भोक्तं पूर्वम् एव लिखितत्वात् । तत्-कृत-विस्मृतेर् न कदाप्य् अनित्यतेति सिद्धान्तितत्वात्। किं च प्रीति-सन्दर्भोक्त-भगवतो विभुत्वादि-विस्मृति-हेतुर् मातृ-भाव-प्रेमानन्द-वृत्ति-विशेषः, अत एव गोपी-जनाविद्या-कला-प्रेरक इति गोपाल-तापनी-श्रुताव् इति पूर्वम् एव प्रकाशितं च मातृ-भावादि-तत्-कृतं सत्यं स्याद् अत्रापि कृष्णे तासाम् उपपति-भावः । तासु श्री-कृष्णस्य परकीयाभावश् च सत्यो न भवति मायिकम् इति कथं वक्तुं शक्यम् इति तैर् अपरामृश्यम् ।
नापि द्वितीयः । ईश्वरे अविद्ययाज्ञानकादिकस्य सम्बन्धस्य शङ्कर-शारीरकादाव् अप्य् अनुक्तत्वात् । तत्रापि स्वयं भगवति तत्रापि वैष्णवैः तथा वक्तुम् अनर्हत्वात् ।
नापि तृतीयेऽपि भवद्-अभिमत-सिद्धिः, यतोऽन्यासु सर्वासु एव लीला स्वरुच्या रसस्य सारांशस्य स्वादनाय अर्थात् स्वयम् आस्वादयितुं विशेषतोऽर्वाचीन-भक्तान् तस्यास्वादनायाः पात्रीकर्तुम् उरीकृत्यायास् तस्याः कदाप्य् अरुच्यासम्पृक्तायाः श्री-भगवत इच्छा-शक्त्यैव निष्पादितायाः पूर्वोक्त-युक्तेर् एव मायात्वे सात्वतैर् गिरां गोचरीकर्तुम् अयोग्यत्वात् । न च ब्रह्म-मोहन-कालीन-लीलावेशवद् अयम् अपि वाच्यः । तत्रापि ब्रह्मणाधिकृत-भक्तत्वे ऐश्वर्य-प्रधानत्वात् । यथा-परिकर-प्रसङ्गं श्री-भगवतोऽपि तद्-अनुरूपस्यैश्वर्यादेर् एवावश्यक-भावित्वात् प्रस्तुते तु माधुर्याविष्टयोः सर्वथा ततो निष्क्रान्तेर् अनर्हत्वात् । उत एवायं लीलावेशः प्रेमाधीन एव । तथात्वे विनिगमकेऽप्रकटे किं प्रेमाभाव एव यतस् तत्रानावेशः अवतार-लीलायाम् एव स्याद् इति । अतोऽत्र लीला-वेश-शब्देन भवता तद्-अज्ञानम् एवोच्यते । तेन विस्मृत-तत्-तद्-भावतेति तत्-कृताध्यासेन स्वरूपास्फूर्तिः । यथा जीवस्य देहावेशाद् अहं सुखी दुःखी कृशः स्थूलश् चास्मि इति विपर्यासस् तथा प्रकृते परस्परान्यदीयत्व-भावनाद् गुरु-जनाद् गुरु-जन-कृत-वारणादिना कदाचित् समयेऽनवाधाभीष्टतया नाना-क्लेश-भाक्त्वं, अत एव स्वप्नवत् यथावसरम् अतो दूरीभविष्यत्य् एवेति भवद्-अभिप्रायो बुद्ध्येते । परं तु जीवस्य स्वतोऽज्ञान-ध्वंसः कुत्रापि न प्रथितः श्रवण-मनन-निदिध्यासनादिना, अथ च महा-वाक्यानाम् उपदेशेन च यदा तत्त्वम् अस्य् आदिना, सोऽहम् अस्मीति स्वरूप-स्फूर्त्या अज्ञान-ध्वंसः स्यात् तदैवात्यन्तिक-दुःख-हानिः सुखावाप्तिश् च जायते एषैव मोक्षत्वेन भण्यते । न कश्चिद् उपदेष्टा न च श्रवण-मननादिश् च तत् केनोपायेन ततोऽज्ञान-बन्धान् मुक्ता इति चिन्तयमानोऽस्मि । न च द्वौ वक्तारौ उपदेश-ग्रन्थश् च मया विख्यापिना एवेति वाच्यं तेषाम् अर्वाग्-भवत्वात् तत्र प्रमाणाभावाच् च तद्-उपयोगिताया अभावात् । नहि मायावादिनां मतेऽपि यद्यपि सर्वेषां व्यवहार-मार्गाणाम् एवासत्यत्वं, तथापि ब्राह्मणादीनां यस्य यत्र यादृशो व्यवहार-समुचितो निर्व्यूढोऽस्ति तम् अन्यथा कृत्वा यस्य कस्यचित् स्त्र्य्-आदि येन केनचित् गृहीतं गृह्यते वा तस्मात् तादृशेभ्योऽप्य् अयं विलक्षणो नवीन एव पन्थाः । न वायं न वा नित्य-लीलायां दाम्पत्यम् एव अवतार-लीलायाम् अपि दन्तवक्र-वधानन्तरं तद् एवेति वाच्यम् । प्रकटाप्रकटयोर् अपि परकीयत्वेन पूर्व-प्रमाणितानां सन्दर्भस्य व्याख्यानानाम् एव जात-रूपकत्वात् गोपीनां तत्-पतीनां चेत्य् अत्र । अत्र या गोप-पत्न्यश् चेत्य् अत्र च नहि भवद्-अभिमते उद्वाहे किञ्चिद् अपि प्रमाणम् अस्ति चेद् आर्षं तत् स्याद् भवता किं नोत्थापितं स्यात् प्रत्युत दन्तवक्र-वधानन्तरागमन-प्रसङ्गे पद्म-पुराणीय-पद्येषु भवत्-प्रमाणितेषु परकीयत्वस्यैव निश्चयो निष्पद्यते तद् यथा—
कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समावृते ।
गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥

रम्य-केलि-सुखेनैव गोप-वेष-धरो हरिः ।
बद्ध-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ [पद्मप् ६.२५२.१९-२७] इति ।
गोपानां नारीभिर् इत्य् एव वाक्यस्यावश्यं निर्वचनीयत्वात् । तृतीय-स्कन्धे शुकदेव-वचने देवहूतिर् नृप-वधूर् इतिवत् इति व्याचक्षानेन तेन स्वेनैव कृष्ण-वध्व इति स्व-प्रमाणितं प्रत्याख्यातम् । पुनर् गोप-नारीभिर् अनिशम् इत्य् अत्र तेषां पत्नीभिर् इति दृष्टं विधाय अनिश-क्रीडा-दाम्पत्य-हेतुत्वेन गम्यमानतयोक्ता । अनया तु न त्व् अन्यत् प्रमाणम् अस्तीति ज्ञापितं एवं च द्युत-क्रीडा भगवता कृता गोप-गणैः सह। पणावहास-रूपेण जिता गोप्यो धनानि च । गोपैर् आनीय तत्रैव कृष्णाय विनिवेदिता इत्य् आदि वाराहीय-पद्यं चम्पू-स्थं, गोपानां भार्यात्वेनासुखत्वापत्तौ च प्रमाणतायां निष्पण्णम् ।
ननु भवद्-अभिमते दाम्पत्ये साधकतायाम् इति यतः पण-हेतुको योऽवगतो हासस् तेन रूपेण जितानां न तु वैरेण, ग्लह-जितानाम् अन्यदीयानां पत्नीनां विवाह-जेतृभिः कुत्रापि केनाप्य् अदृष्टाश्रुतत्वात् । चेद् एवम् अभविष्यत् तदा ते गोपादयः सर्वे एव तदीया कर्म-करा अभविष्यन् प्रकृते न तथेति विचार्यम् ।
न च दाम्पत्ये प्रकटे बहु वार्यते इत्य् आदि भरतानुसृत-निवारणाभावाद् रस-निष्पत्तिश् च न स्यात् इत्य् आदिना किन्तु बहु-पत्नीकत्वे मात्रादिभिर् मिथस् ताभिर् अपि सतत-सङ्गस्यानभीष्टत्वात् स्वत एव निवारणं प्रच्छन्न-कामुक्त्वं च स्याद् इत्य् अन्तेन भरत-मतानुसारिणां प्राचां वाचम् अवधीरितम् उदीरिता चैषैव निवारणा । तत्र मात्रादिभिः प्रेयसीभिश् च कर्त्रीभिर् इत्य् एकाधिकरणक-निवारणं न्याय-प्राप्तम् एक-वासनाकं स्यान् न वेति त एव प्रष्टव्याः ।
ननु, अयुक्तं कथं कथं प्रायः स्तुत्यं मात्रादिभिर् इत्य् आदि-ग्रहणात् पित्रापितृव्यैस् तत्-पत्नीभिर् मातृ-स्वस्रादिभिश् च कार्श्याद्यांशकया वात्सल्येन सपत्नीभिस् तु सापत्न्येनेति विवेचनीयम् । सत्यम् एवम् अपि मातर-पितराभिर् वात्सल्य-रस-निमग्नैर् अत्र निवारणे यादृशो रसस्य परितोषः स तु भक्ति-रसामृत-सिन्धु-वेदिभी रसिकैर् एव विवेचनीयः । अथ च श्री-कृष्णस्य लज्जालुतया निवृत्ति-परत्वं मात्रादीनां तन्-निवारण-रसत्वं च तद् अन्यैः कैश्चिद् अपि कुत्रापि श्री-भागवते भक्ति-शास्त्रादिषु च नाद्याप्य् उपलब्धम् इत्य् अलम् अनुलापेन ।
ननु, स वो हि स्वामी भवति इति गोपाल-तापन्यां, आर्य-पुत्रोऽधुनास् ते इति दशम-स्कन्धे, गोपीनां पतिर् एव वा इति बृहद्-गौतमीये चेति प्रमाणानि सन्त्य् एव । तत् कथम् न सन्तीत्य् उच्यते ? सत्यं गोपाल-तापन्यां उत्तरार्धे एकधा व्रज-स्त्रिय इत्य् आरभ्योपक्रमोपसंहाराभ्यां प्रच्छन्न-कामताया एव निश्चयात् स्वामी भवतीत्य् अस्य उपभोक्तृत्व-लक्षण ऐश्वर्यवत्त्वे एव सङ्गच्छते । कृष्ण एव युष्माकं रूप-यौवनादीनाम् उपभोक्तृत्वे स्वामी, न तु वोढार इत्य् एव मुनेर् आशयात् । न च दन्तवक्र-वधानन्तरं कुत्रचिद् वर्णित-विवाह-परम् इदम् इति वाच्यम् । मुनिना लुट् विहाय वर्तमान-प्रयुक्तत्वात् । न वा नित्य-दाम्पत्यं मनसि विधाय तथोक्तम् इत्य् अपि वक्तव्यम्, दाम्पत्ये प्रमाणाभावात् । पूर्व-युक्त्य्-उक्तिभ्यश् च तैर् एव परोढौपपत्ययोर् एव नित्येऽवतारे च निश्चितत्वात् ।
आर्य-पुत्र इत्य् अत्रापि व्रज-राजस्य आर्यत्वे सारल्येनैवास्माकी विपत्तिर् इति सारल्य-वाचित्वे एव तथोक्तिः सङ्गता भवति । न च भावि दाम्पत्य-सूचकम् एतद् इति वक्तुं शक्यम् । स्व-कृत इह विसृष्टाः पत्य्-पत्यान्य-लोका इत्य् आदिना तत्-प्रकरणे सुखयैव स्पष्टीकृतत्वात् भाविनि प्रमानान्ताभावात् च ।
गोपीनां पतिर् एव वा इत्य् अस्याप्य् अर्थः । पतित्वे उपपतित्वे च वाच्ये पति-शब्दस्य प्रयुक्तत्वे एव सङ्घटते । देवेषूपदेवेषु पूज्येयुर् देवाः पूज्या इतिवत् । अन्यथा गोपी इत्य् अस्य डाप्-पुं-योगाद् आख्यायाम् इति पाणिनि-स्मरणात् पुंयोगाद् एव प्रत्ययो जातोऽस्ति । तथा सति विरुद्ध-मत्-कृद्-दोषो दुर्निवार एव स्यात् । स तु जुगुप्सा-पर्यवसायी । न च जातौ डाप इति वाच्यं जातिर् इति सिद्धे एतत्-सूत्रस्य विशेषत्वे पर्यवसानात् गोविन्द-वृन्दावन-नाम्नि बृहद्-गौतमीये श्री-कृष्णेन श्री-मुखेनैव अत्र या गोप-पत्न्यश् च इत्य् आदिना तासां गोपानाम् पत्नीत्वेन सुनिश्चितत्वात् । तद्-आज्ञा-हेलनान् निरय-पात-भीतेश् च सर्वथान्यथा वक्तुम् अनर्हत्वात् । विशेषतः सिद्धान्त-कौमुदी-भाषा-वृत्तिः सङ्क्षिप्त-सार-मुग्ध-बोधादि-पुंयोगाद् इत्य् अस्योदाहरणत्वेन गोपी-पदस्यैव गृहीतत्वाच् च एवं गौतमीये गोपाल-स्तव-राजे गोप-नारीभिर् आवृतम् इत्य् अत्र क्वचिद् गोपाङ्गना-वस्त्र-हारिणाम् इत्य् आद्य् अन्यत्र च पत्नीत्वे एवोक्तत्वाच् च तस्मात् परम-धीरेषु तादृशेषु अज्ञैर् एव स्वकीयापक्षपातीति दोष आसज्जते । भक्ति-सन्दर्भे रागानुगा-प्रकरणे भगवत्-सन्दर्भे श्री-कृष्ण-सन्दर्भे गोपाल-चम्पू-मध्ये च परकीयात्वम् एव प्रकटाप्रकटयोर् अपि मुहुर् मुहुस् तैर् एव सुनिश्चितत्वात् । दन्तवक्र-वधानन्तर-प्रसङ्गे श्री-दशम-टिप्पण्याम् प्रकटाप्रकटयोर् ऐक्येनैव सुप्रथितत्वाच् च । अत एव उज्ज्वल-नीलमणि-टीकायां लघुत्वम् अत्र यत् प्रोक्तम् इत्य् अत्र यत् स्वेच्छा-परेच्छा-लिखनयोः पूर्वापर-सम्बन्धत्वासम्बन्धत्वेष्व् आशयः प्रकटीकृतः सोऽप्य् उपलक्षणत्वे सर्वेष्व् एव ग्रन्थेषु बोद्धव्यः । अतः पूर्वापर-सम्बन्धानि व्याख्यानानि तदीय-स्वेच्छा-कृतानि अन्यानि तु परेच्छा-कृतानीत्य् अवधेयम् । अस्माभिस् तूभयथा निर्दोषत्वे एव प्राचीन-सम्मतत्वे च गृहीतव्यानीत्य् अप्य् अवधेयम् इति । तत्र कारिका पूर्वं लिखितैव श्री-गोपाल-चम्पूम् अनु च ग्रन्थान्ते कारिका, यथा—
प्रायः सर्वा हरेर् लीलाः क्रमशः सूचिता मया ।
यथा स्वं लब्ध-रुचिभिर् आस्वाद्यन्तां महात्मभिः ॥

उज्ज्वल-व्याख्यानानि, यथ रागेणैवार्पितात्मान इत्य् अत्र अन्यत्र–अन्तरङ्गेण रागेणैवार्पितात्मानो, न तु बहिरङ्गेण विवाह-प्रक्रियात्मकेन धर्मेण । तद् एवं मिथुनी-भावे तासां रतिम् उक्त्वा श्री-कृष्णस्याप्य् आह—धर्मेण विवाहात्मकेनैवास्वीकृता तु स्वीकृत इत्य् अर्थ३२ इति ।
रति-प्रकरणे—
साधारणी निगदिता समञ्जसासौ समर्था च ।
कुब्जादिषु महिषीषु च गोकुल-देवीष्ण्ड् च क्रमतः ॥ [उ।नी। १४.४३] इत्य् अत्र ।
तथा हि—समर्था खलु सैव स्यात् या लोक-धर्मं चातिक्रम्य परम-काष्ठाम् आपन्ना पुष्टिम् आप्नोति । तद् उक्तं परकीया-लक्षणे–रागेणैवार्पितात्मानो लोक-युग्मानपेक्षिणा [उ।नी। ३.१७] इति । वक्ष्यते च–इयम् एव रतिः प्रौढा महाभाव-दशां व्रजेत् [उ।नी। १४.५८] इति। अथ यान्या रतिः समञ्जसाख्या सा खलु लोक-धर्मापेक्षया तथोच्यते च । अत एव नातिसमर्था । तत एव च निवारणादिना३३ भावान्तिमां सीमां न प्रपद्यत इति भावः ।
समञ्जसा-लक्षणे—
पत्नी-भावाभिमानात्मा गुणादि-श्रवणादिजा ।
क्वचिद् भेदित-सम्भोग-तृष्णा सान्द्रा समञ्जसा ॥ [उ।नी। १४.४८]
पत्नी-भावेति लोक-धर्मापेक्षिता दर्शिता । पत्नी-भावाभिमान एवात्मैवत्मा यस्या इति तद्-अभिमानस्य तिरस्कारे समर्थाया इव स्थित्य्-अभावश् च व्यक्त इत्य् आदि । गुणादि-श्रवणादिजेति तत्-प्रादुर्भूतेत्य् एवार्थः । न तूत्पद्यमानेति जनी प्रादुर्भावे इति धातु-पाठात् ।
महा-भावत्वं—
अनुरागः स्व-संवेद्य-दशां प्राप्य प्रकाशितः ।
यावद्-आश्रय-वृत्तिश् चेद् भाव इत्य् अभिधीयते ॥ [उ।नी। १४.१५४]
एतद्-व्याख्यायाम्—अयं भावः—रागः खलु
दुःखम् अप्य् अधिकं चित्ते सुखत्वेनैव रज्यते ।
यतस् तु प्रणयोत्कर्षात् स राग इति कीर्त्यते ॥ [उ।नी। १४.१२६]
इत्य् उक्त-लक्षणः । दुःखस्य च पराकाष्ठा कुल-वधूनां स्वयम् अपि परम-सुमर्यादादीनां स्वजनार्य-पथाभ्यां भ्रंश एव नाग्न्यादि न च मरणं ततश् च तत्-तत्-कारितया प्रतीतोऽपि श्री-कृष्ण-सम्बन्धः सुखाय कल्पते चेत् तर्ह्य् एव रागस्य परमेयत्ताततश् च ताम् आश्रित्यैव प्रवृत्तोऽनुरागो भावाय कल्पते । सा चारम्भत एव व्रज-देवीष्व् एव दृश्यते । पट्ट-महिषीषु तु सम्भावयितुम् अपि न शक्यते । आरम्भत एव इति व्यञ्जयितुं नव-राग-हिङ्गुल-भरैर् [उ।नी। १५.१५५] इत्य् अत्र नव-शब्दो दास्यते । तद् एवम् एव ता एवोद्दिश्योद्धवः स-चमत्कारम् आह—या दुस्त्यजम् आर्य-पथं स्वजनं च हित्वा इति । ईदृशोक्त्या च यद्यपि तासां त्यागो न सम्भवति तथापि कृत इति कुलाङ्गनात्वं परम-मर्यादात्वं च दर्शितम् ।
तस्मात् समर्थाख्यैव रतिर् अनुराग-दशाम् आरूढा सती महा-भाव-दशाम् आप्नोईत्य् एतानि । अनेन महा-भाव-स्वरूपेयम् इति ग्रन्थ-कृता हार्दम् एव स्व-हार्दं विधाय व्याख्यानं ज्ञापितम् । श्री-राधिकात्र रस आलम्बन-रूपा सा चेद् ईदृशत्वेन निश्चित्योपास्या स्यात् तर्ह्य् एव रसः सालम्बः । नो चेद् आलम्बन-वैरूप्याद् वैरस्याद् अन्येषां मूलोत्खात एव ।
किं च गोपाऌअ-चम्पू-मध्ये च सर्वत्रैव परकीयात्वस्यैव वर्णनं विशेषतः षड्विंशतितमे पूरणे रासम् आरभ्य त्रिंशत्-पूरण-पर्यन्तम् अशेषतया तस्यैव श्री-भागवत-रीत्या विस्तारतस् तद् एवास्तीति । विशेषतः समृद्धिमत्-प्रघट्टके सप्त-पत्री-लिपेः शेषे तु अतीव सुव्यक्ततया सर्वोपमर्दकः समग्र-ग्रन्थस्य निर्गलितार्थः स्वाशय-सारः सिद्ध-लेखः कृतोऽस्ति । यथा—परम-रस-परिपाकस् तु क्रम-लीलायाम् एव क्रमते । श्री-भागवतादि-प्रकाशक-प्राचीन-भक्तानां विदग्ध-माधवादि-प्रकाशक-तादृश-ग्रन्थ-कृतां चात्रैवावेश-दर्शनात् । अत्रैव ग्रन्थे अस्या एव निर्वाहणाद् इति । तस्मात् ये रागानुगीयानुगामिनो बुभूषन्ति तैर् अन्तरङ्ग-व्याख्यानुगतैर् भवितव्यम् । तैः सहैवालापः समुचितो नो चेद् अन्यैर् अलं संलापेन । माधव-महोत्सव-नाम-स्व-कृत-ग्रन्थे, दान-केलि-कौमुद्य्-अनुसारिणि उपक्रमोपसंहार-परकीयात्वेनैव सर्वं वर्णितम् । दिग्-दर्शनं, यथा—
काभिश्चित् पटु जटिलां विकृष्यमाणां
नर्दतीं दधि-घृत-कर्दमेषु राधा ।
श्वश्रूं सा महसि निशाम्य नम्र-वक्त्रा
स्मेरत्वं जन-हस-बिम्बम् आशु दध्रे ॥ [मा।म। ४.८३]
इत्य् आद्या बहव एव । तस्मात् सर्वथा तेषाम् आशय एष एव ज्ञातव्यो नान्यः कदाचिद् अपीत्य् अलं विस्तरेणेति दिक् । ग्रन्थ-सङ्ख्या ७०० ॥ श्रीर् अस्तु ॥

॥ समाप्तोऽयं ग्रन्थः ॥

नोतेस्

[←१]
कृष्णस् रेअद्स्- नन्व् अधुनैवागत्य मुहुर् मां साक्षाद् एवानुभवथ, तत्राह—गेहं जुषां पर-गृहिणीनाम् अस्वाधीनानाम् इत्य् अर्थः।
[←२]
ओउर् एदितिओन् इस् पर। १६८।
[←३]
ह्द्स् हस् ओन्ल्य् यथाहङ्कारो।
[←४]
फ़्रोम् प्रकट तो भूतेषू इस् नोत् फ़ोउन्द् इन् ह्द्स्, सेएमिन्ग्ल्य् अ चोप्यिस्त् एर्रोर्।
[←५]
तेxत् मिस्सिन्ग् हेरे- अहन्तास्पदम् आत्मा चाप्रकट-लीलाभिमान्य् अहन्तास्पदेनात्मना (कृष्णस्)
[←६]
कृष्णस् हस् प्रकटम् अत्र दृश्यमानेऽपि
[←७]
आभातं
[←८]
थिस् सेच्तिओन् अप्पेअर्स् तो बे अ चोन्तिनुअतिओन् ओफ़् थे क़ुओते, बुत् इस् नोत् फ़ोउन्द् इन् थे जीव गोस्वामिन् चोम्मेन्तर्य् अत् उन् १.२१।
[←९]
फ़्रोम् हेरे जीवऽस् चोम्मेन्तर्य् इस् तकेन् उप् अगैन्, wइथ् स्लिघ्त् वरिअतिओन्- तस्मिंस् तु न लघुत्वम् युक्तम् किन्तु महत्त्वम् एवेत्य् अह न कृष्ण इति
[←१०]
थे फ़ोल्लोwइन्ग् तेxत् फ़्रोम् भक्ति-सन्दर्भ हस् बेएन् स्किप्पेद्—सहोष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया रमस्व [भा।पु। १०.४८.८] इत्य् आदि-लक्षणं सौभाग्यम् अयाचत इति । अतः—
किम् अनेन कृतं पुण्यम् अवधूतेन भिक्षुणा ।
श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ [भा।पु। १०.८०.२५]
इति श्रीदाम-विप्रम् उद्दिश्य पुरजन-वचनवद् एव तथोक्तिः । ननु कामुकी सा किम् इति श्लाघ्यते । तत्राह दुराराध्यम् इति । यो मनो-ग्राह्यं प्राकृतम् एव विषयं वृणीते कामयत असाव् एव कुमनीषी । सा तु भगवन्तकेव कामयत इति परम-सुमनीषिण्य् एवेति भावः ।
[←११]
थे फ़ोल्लोwइन्ग् तेxत् फ़्रोम् भक्ति-सन्दर्भ हस् बेएन् द्रोप्पेद्- तादृश-लीलायाः श्री-वैकुण्ठादिषु नित्य-सिद्धत्वेन स्वतन्त्र-लीला-विनोदस्य तस्याभिरुचि-तत्त्वेनैवावगम्यते । तथा तत्-प्रेयसी-जनानाम् अपि तत्-स्वरूप-शक्ति-विग्रहत्वेन परम्-शुद्ध-रूपत्वात् ततो न्यानताभावाच् च तद्-अधर-पानादिकम् अपि नानुरूपं पूर्व-युक्त्या तद्-अभिरुचितम् एव च ।
[←१२]
थे फ़ोल्लोwइन्ग् सेग्मेन्त् इस् स्किप्पेद्- श्री-शुक-वचनेन च–
न पारयेऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः [भा।पु। १०.३२.२२]
इत्य् अत्र निरवद्य-संयुजाम् इत्य् अनेन स्वयं श्री-भगवता च । तादृशानाम् अन्येषाम् अपि तद्-भावो दृश्यते ।
[←१३]
थे फ़ोल्लोwइन्ग् इस् मिस्सिन्ग् हेरे, पेर्हप्स् स्च्रिबल् एर्रोर्- काम-देवोद्भावितः प्राकृतः कामोऽसौ
[←१४]
फ़्रोम् परम् तो लिप्सा, भक्त्स् रेअद्स् परम-भक्तानाम् अपि च तच्-छ्लाघा।
[←१५]
भक्तिस् – तद्-रूपेणैव।
[←१६]
भक्तिस् ३२० चोन्च्लुदेस्- तथा स्मरण-पर-युग्म-द्वयेऽस्मिन् स्व-स्व-युग्मे प्रथमस्य मुख्यत्वं द्वितीयस्य गौणत्वं दर्शितम् । उभयत्राप्य् अपि-शब्द-साहित्येनोत्तरत्र पाठाद् एकार्थता-प्राप्तेः । अतः स्त्रिय इति नित्याः श्री-गोपिका एव ता ज्ञेयाः । तथैव श्रुतिभिर् इति श्री-कृष्ण-नित्य-धाम्नि ता दृष्टा इति बृहद्-वामन एव प्रसिद्धम् । तद् एवं साधु व्याख्यातम् कामाद् द्वेषात् इत्य् आदौ तद्-अघं हित्वा इत्य् अत्र तेषु मध्ये द्वेष-भययोर् यद्-अघम् इत्य् आदि ।
[←१७]
अत् उ।नी। ३.३३।
[←१८]
थे ह्द्स् एदितिओन् रेपेअत्स् जार-बुद्ध्यापीति।
[←१९]
फ़्रोम् परम् तो लिप्सा, भक्त्स् रेअद्स् परम-भक्तानाम् अपि च तच्-छ्लाघा।
[←२०]
जीव रेअद्स् कन्याः wहेरेवेर् थिस् वेर्से अप्पेअर्स्।
[←२१]
अप्रकटं (फ़्रोम् कृ।स। १७१) इस् मिस्सिन्ग् अफ़्तेर् थिस्।
[←२२]
क्रीडा-शालित्वेन स्वीकृतत्वात् तच्-छक्ति-रूपाणां तासां सङ्गमे वस्तुत
[←२३]
लोक-मात्र-प्रसिद्धानां
[←२४]
ओरिगिनल् हस् पतीनां अफ़्तेर् तासाम्।
[←२५]
ओरिगिनल् हस् किं बहुना अफ़्तेर् ततीनाम्।
[←२६]
व्रज-जीवानां
[←२७]
उपचितताचित-
[←२८]
तद्-आसक्तः
[←२९]
इति चतुर्वेद-शिखाद्या श्रुतिश् च
[←३०]
त्रिकाण्ड-शेषे
[←३१]
थे चुर्रेन्त् विदग्ध-माधव एदितिओन् रेअद्स् अस् फ़ोल्लोwस्- भअवदि, जसोआ धत्तीए मुहुराए अप्पणो णत्तिणी राहिआ गोउल-मज्झे आणिअ जडिला-पुत्तस्स अहिमण्णुणो हत्थे उब्बाहिदा त्ति, तादिसं जेब्ब असमञ्जसं आपडिदम् । जं कण्हादो अण्णेन पुरिसेण तादिसीणं कर-प्फंसणं तदो कधं तुमं तुमं णिच्चिन्दा बिअ दीससि ? [भगवति । यशोदा-धात्र्या मुखरया आत्मनो नप्त्री राधा गोकुल-मध्ये आनीय जटिला-पुत्रस्य अभिमन्योर् हस्ते उद्वाहितास्ति । तादृशम् एवासमञ्जसं आपतितं यस्मात् कृष्णाद् अन्येन पुरुषेण तादृशीनां कर-स्पर्शनं तदा कथं त्वं निशिन्ता इव दृश्यसे ?]
[←३२]
थिस् इस् उन्देर् उ।नी। ३.१३ इन् थे निर्नय सगर् एदितिओन्।
[←३३]
नोत् इन् उ।नी।