प्रेम-सम्पुटिका

श्री-प्रेम-सम्पुटिका

श्री-विश्वनाथ-चक्रवर्तिना प्रणीता
प्रातः कदाचित् उररीकृत-चारु-रामा-
वेशो हरिः प्रियतमा-भवन-प्रघाने ।
गत्वारुणांशुक-तटेन पिधाय वक्त्रं
नीचीन-लोचन-युगः सहसावतस्थे ॥१॥

आराद् विकोक्य तम् अथो वृषभानु-पुत्री
प्रोवाच हन्त ललिते सखि पश्य केयम् ।
स्वस्यांशुभिर् हरि-मणि-मयतां निनाय
मत्-सद्म पद्म-वदनाद्भुत-भूषणाध्या ॥२॥

श्रुत्वा सखी-गिराम् अथो ललिता विशाखे
तं प्रोचतुर् द्रुतम् अवाप्य तद्-आभिमुख्यम् ।
का त्वं कृशोदरि कुतः किम् उ वाथ कृत्यं
ब्रूहीत्य् असौ प्रतिवचस् तु ददौ न किञ्चित् ॥३॥

श्री-राधिकाप्य् अथ वितर्क-पुरः-सरं तं
पप्रच्छ कौतुक-वशाद् उपगम्य सम्यक् ।
का त्वं स्वरूप-महसैव मनो हरन्ती
देवाङ्गनासि किम् अहो सुषमेव मूर्ता ॥४॥

तुष्णीं स्थितम् तद् अपि तं पुनर् आह भाविन्य्
आत्मानम् आशु कथयात्र यदि त्वम् आगाः ।
जानीहि नस् तव सखीः परमान्तरङ्गाः
किं शङ्कसे नत-मुखि त्रपसेऽथ किं वा ॥५॥

निश्वस्य कञ्चन विषादम् इवाभिनीय
वक्त्रं विवृत्य तम् अखण्डित-मौन-मुद्रम् ।
सा प्राह हन्त रुजं आवहसीति सत्यं
ज्ञातं न ताम् ऋत इहेदृशता तव स्यात् ॥६॥

तां ब्रूहि कञ्ज-मुखि विश्वसिहि प्रकाशं
मय्य् एव तत् प्रतिकृतौ च यथा यतेय ।
उद्गीर्ण एव सुहृद्-अन्तिक एति शान्तिं
यन् मानस-व्रण-विपाकज-तीव्र-दाहः ॥७॥

कान्तेन किं त्वम् असि सम्प्रति विप्रयुक्ता
तथैव वा विगुणतोदयतः प्रताप्ता ।
किं स्वागसस् तद्-अविसह्यतया बिभेषि
तत् किं नु कल्पितम् अहो पिशुनैर् न सत्यम् ॥८॥

किं वा विवोधरि मनः स-घृणं तवाभून्
मन्दे रतं क्वचन पुंसि वरे दुरापे ।
तत् त्वं कटूक्ति-पटुना बत मादृशीव
सन्तार्जते गुरु-जनेन ततोऽसि दूना ॥९॥

कच्चिन् नु तन्वि खर-वाक्-शर-बिद्ध-मर्मा
सौभाग्य-लेश-मदिरान्ध-धियः सपत्न्याः ।
सम्भाव्यते त्वयी न चैतद् अहो परा का
त्वत्तो वहत्व् अतुल-सौभग-चारु-चर्चा ॥१०॥

त्वं मोहिनि श्रुत-चरी किम् उ मोहनार्थं
शम्भोर् इवेन्दु-मुखि कस्य हठाद् उदेषि ।
किं चेक्षते यदि हरिस् त्वद्-अपाङ्ग-बिद्धस्
त्वां कौतुकम् भवति तद्-व्यतिमोहनाख्यम् ॥११॥

श्रुतोत्तरीय-परियन्त्रित-सर्व-गात्रं
रोमञ्चितं तम् उपलभ्य जगाद राधा ।
हा किं सखि त्वम् असि दैहिक-दुःख-दूना
वक्षोऽथ पृष्ठम् अथवा व्यथते शिरस् ते ॥१२॥

वात्सल्यतः पितृ-पदैर् बहु-मूल्यम् एव
प्रस्थापितं यद् अखिलामय-शातनाख्यम् ।
तैलं तद् अस्ति भवनान्तरतो विशाखे
शिघ्रं समानय तद् आपय सार्थकात्वम् ॥१३॥

तैलेन तेन किल मूर्तिमता मदीय-
स्नेहेन सुभ्रुवम् इमां स्वयम् एव साहम् ।
अभ्यञ्जयाम्य् अखिल-गात्रम् अपास्ततोदं
नैपुण्यतः सखि शिरो मृदु मार्दयामि ॥१४॥

नैरुज्य-कारि-वर-सौरभ-वस्तु-वृन्द-
प्रक्षेप-चारुतर-कोष्ण-पयोभिर् एनाम् ।
संस्नापयामि विगतारुषम् आस्य-पद्मम्
उल्लासयाम्य् अथ गिरापि विराजयामि ॥१५॥

वाचा मया मृदुलयातिहित-प्रवृत्त्या
स्नेहेन चानुपधिना परमादृतापि ।
नो वक्ति किञ्चिद् अधुनेव कटूकृतास्या
तिष्ठेद् इयम् कपटिनी यदि हन्त सख्यः ॥१६॥

अस्या रुजस् तद् अपरां करवै चिकित्सां
यं प्राप्य तन्व सुमनो निखिलेन्द्रियानाम् ।
व्याधिः प्रशाम्यति भवेद् अतिपुष्टिर् एषां
धन्वन्तरि-प्रहित-दिव्य-रसैर् इवाद्धा ॥१७॥

कुञ्जाधिराज-कर-कञ्ज-तलाभिमर्षम्
अस्या उरस्य् अतितरां यदि कारयामि ।
सेयं करिष्यति वदिष्यति शीत्करिष्यत्य्
अस्मांश् च हासयितुम् एष्यति काञ्चिद् आभाम् ॥१८॥

श्रुत्वा गिरं स पिहित-स्मित-हास्य-पद्मम्
उन्नीय रम्यतर-सव्य-कराङ्गुलीभिः ।
उत्सार्य किञ्चिद् अलकान् अवगुण्ठनं च
न्यञ्चत्तरं कियद् उदञ्चयति स-मूर्ध्नः ॥१९॥

किञ्चिज् जगाद रमणी रमणीय-कण्ठ-
सौस्वर्यम् एव रचयन् वचनं यद् एषः ।
सातच्-चकोर ललनेव पपौ चिराय
काञ्चिच् चमत्कृतिम् अवाप च सालि-पालिः ॥२०॥

देव्य् अस्मि नाक-वसतिः शृणु यस्य हेतोस्
त्वाम् आगमं सुवदने विधुरीकृतात्मा ।
कुत्रापि मे विविदिषास्ति विवक्षितेऽर्थे
सम्पादयिष्यति परा त्वद्-ऋते कुतस् ताम् ॥२१॥

नेवाभ्यधास् त्वम् अनृतं यद् उदेषि देवीत्य्
अस्माभिर् इत्थम् अधुनैव हि पर्यचेष्टाः ।
यन् मानुषीषु कतमास्ति भवत्-सदृक्षा
कान्त्यानयान् उपमया त्वम् इवेक्षषे त्वम् ॥२२॥

यत् त्वय्य् अहं सरल-धीर् वितथं वितर्क-
वैविध्यम् अप्य् अकरवं शरद्-अम्बुजास्ये ।
तत् पर्यहासिषम् इतोऽस्तु न मेऽपराधस्
त्वं स्निह्यसीह मयि यद्य् अभवं त्वदीया ॥२३॥

किं सङ्कुचिष्यसि सखि त्वम् अमूस् त्वदीयो
देवी जनोऽप्य् अहम् अभूवम् इति प्रतीहि ।
त्वत्-प्रेम-रूप-गुण-सिन्धु-कणानुभूतेर्
दासी भवाम्य् अहम् अपीति सदाभिमन्ये ॥२४॥

यद् वच्म्य् अहं तद् अवधेहि यतो विषादो
दुर्वार एष तम् अपाकुरु संशयं मे ।
नैवाधुनापि विरराम दरापि हृद्-भूस्
तापस् तदीय लपनामृत-सेकतोऽपि ॥२५॥

वृन्दावने ध्वनति यः सखि कृष्ण-वेणुस्
तद्-विक्रमः सुर-पुरे प्रबलत्वम् एति ।
साढ्वी-ततेर् अपि मनः-सघृनं यतोऽभूत्
कण्ठोपकण्ठ-मिलन-स्मरणेऽपि पत्युः ॥२६॥

श्लिष्ट्वैव मुञ्चति सुरः स-वितर्कम् आत्म-
कान्तां द्रुतं ज्वलदलात-निभाङ्ग-यष्टिम् ।
हालाहलं मुरलिका-निनदामृतं यत्
पीत्वैव सातनु-महा-ज्वर-मूर्च्छिताभूत् ॥२७॥

अस्मत्-पुरेऽस्मिन् नहि कापि जरत्य् अतः कास्
तर्जन्तु का नु निखिला अपि तुल्य-धर्मः ।
का वा हसेयुर् अपरा यद् इमाः सतीत्वं
विप्लावयन् मुरलिका-निनदो व्यजेष्ट ॥२८॥

एवं यदि प्रववृते प्रतिवासरं स
वेणु-ध्वनिः प्रभवितुं विबुधाङ्गनासु ।
तर्ह्य् एकदा हृदि मयैव विचारितं हा
कोऽयं कुतश् चरति वादयितस्य को वा ॥२९॥

इत्थं दिवः समवतीर्य भुवीह साधु
वंशी-वटेऽवसम् अहं कतिचिद् दिनानि ।
दृष्टो हरेर् अनुपमो विविधो विलासः
कान्ता-गणः प्रिय-सख्य्-अल्यपि पर्ययामि ॥३०॥

राधा स-नर्म-मधुराक्षरम् आह धन्ये
त्वं गण्यसे सुर-पुरे वर-चातुरी-भाक् ।
अन्या पुनर् बलवद् उत्कलिका कृपाणी
कुत्तन्द्रियैव सुमनस् त्वम् अपादपार्थम् ॥३१॥

मन्द-भ्रमद्-भ्रु-मधुर-स्मित-कान्ति-धारा
धौते विधाय रदन-च्छदने स चाह ।
राधे परं स्व-सदृशीं नहि विद्धि किं भोः
शक्येऽवलोकितुम् अपीह परेण पुंसा ॥३२॥

किं वा परेण पुरुषेण हरेर् विलासम्
एवान्वभू रहसि साधु यद्-अर्थम् आगः ।
तद् ब्रूहि किं तव विवक्षितम् अत्र मध्ये
नर्मा तनोमि यदि माम् अकरोः सखीं स्याम् ॥३३॥

नर्मातनुध्व सखि नर्मणि का जयेत् तां
प्राणस् त्व् अभूस् त्वम् अयि मे कियद् एव सख्यम् ।
त्वं मानुषी भवसि किं त्व् अमराङ्गणास् ता
मूर्ध्नैव ते गुण-कथा पुनतिर् नमन्ति ॥३४॥

नेयं स्तुतिस् तव न चापि तटस्थता मे
नापि ह्रियं भज वदाम्य् अनृतं न किञ्चित् ।
सिन्धोः सुतापि गिरिजापि न ते तुलायां
सौन्दर्य-सौभग-गुणैर् अधिरोढुम् ईष्टे ॥३५॥

प्रेम्ना पुनस् त्रि-जगद्-ऊर्ध्व-पदेऽपि काचित्
त्वत्-साम्य-साहस-धुरं मनसापि वोढुम् ।
शक्नोति नेत्य् अखिलम् एव मया श्रुतं तत्
कैलास-शृङ्गम् अनु हैमवती सभायाम् ॥३६॥

श्रुत्वा महान् अजनि मे मनसोऽभिलाषस्
तद्-दर्शनाय समपूरि स चापि किन्तु ।
तापस् तद्-अन्तर् इह यो रभसाद् अदीपि
तेनास्फुटन् न कठिनो हि ममान्तरात्मा ॥३७॥

कोऽसौ तम् आशु कथयेति मुहुस् तयोक्तो
वक्तुं शशाक न स बाष्प-निरुद्ध-कण्ठः ।
अश्रु-प्लुतेक्षणम् अथास्य-मुखं स्वयं सा
स्वेनाञ्चलेन मृदुलेन ममर्ज राधा ॥३८॥

स्थित्वा क्षणं धृतिम् अधाद् अथ ताम् उवाच
प्रेम्णा तवायम् अतुलोऽनुपधिर् बलीयान् ।
कृष्णेति कामिनि बभुव कथं दुनोति
स्वान् स्वांश् च विश्वसिति योऽत्यपदेऽप्य् अभिज्ञः ॥३९॥

सौन्दर्य-शौर्य-वर-सौभग-कीर्ति-लक्ष्मी
पूर्णोऽपि सर्व-गुण-रत्न-विभूषितोऽपि ।
प्रेम-विवेचकतमत्वम् असौ बिभर्ति
कामित्व-हेतुकम् असौ श्रयितुम् न योग्यः ॥४०॥

तस्मिन् दिने बहु विलास्य मुहुः प्रकाश्य
प्रेमा त्वया सरभसं रजनौ तु कुञ्जे ।
सङ्केतगां ऋजु-धियं भवतीं विधाय
काञ्चित् परं स रसयन् कपटी जहौ त्वाम् ॥४१॥

यत् त्वं तदा व्यलप एव सखीस् तुदन्ती
वल्लीः पतत्रि विततीर् अपि रोदयन्ती ।
सर्वं तदालि निभृतं मयकान्य-भासे
वंशी-वट-स्थितया वलिता रुषैव ॥४२॥

रासे तथैव विहरन्न् अपरा विहाय
प्रेम त्वयैव सहसा प्रकटीचकार ।
स्थित्वा क्षणं स भवतीम् अमुचद् वनान्तर्
एकाकिनीं रति-भर-श्रम-खिन्न-गात्रीम् ॥४३॥

तर्हि प्लुतं विलपितं गहना च मूर्च्छा
चेष्टाप्य् अतिभ्रम-मयी तव यद् यद् आसीत् ।
व्याप्यैव हा बहु-जनूंषि हृदि स्थितं मे
तत् कष्टम् अष्ट-विधयैव तनोः प्रकृत्या ॥४४॥

देवी-जनोऽस्मि हृदि मे क्व नु कष्टम् आसीत्
दैवाद् यशस्विनि बभूव भवद्-दिदृक्षा ।
माम् आगमय्य बत साकृत-कील-बिद्धम्
यस्यास्ति नैव सखि निर्गमनेऽप्य् उपायः ॥४५॥

सन्दानितं त्वयि मनो न दिवं प्रयातुं
स्थातुं च नात्र तिल-मात्रम् अपीत्थम् ईष्टे ।
उद्घूर्णते प्रतिपदं न पदं लभेत् त्वम्
अद्याभवम् त्वयि चरत्-प्रकटी-कृतात्मा ॥४६॥

कृष्णात् पुनर् बहु बिभेमि न धर्म-लोक-
लज्जेदयाध्वनि कदापि न पान्थतास्य ।
बाल्ये स्त्रियस् तरुणिमन्य् अचिराद् वृषस्य
वत्सस्य मध्यम् अनु यो व्यधितैव हिंसाम् ॥४७॥

गान्धर्विकाह सुभगे त्वयि कापि शक्तिर्
आकर्षिणी किल हराव् इव सन्ततास्ति ।
यन् निन्दसि प्रियतमं तद् अपि प्रकामं
यच् चित्तम् आत्मनि करोष्य् अनुरक्तम् एव ॥४८॥

त्वं मे सखी भवसि चेन् न दिवं प्रयासि
नित्य स्थितं व्रज-भुवीह मया करोषि ।
तत्-प्रेम-रत्न-वर-सम्पुटम् उद्घटय्य
त्वां दर्शयामि तद्-ऋते न समादधामि ॥४९॥

हन्ताधुनापि नहि विश्वसिषि प्रसीद
दासी भवामि किम् उ मां नु सखीं करोषि ।
त्वं शाधि साधु धिनु वा तुद वा गतिर् मे
राधे त्वम् एव शपथं करवाणि विष्णोः ॥५०॥

वक्तुं तदा प्रववृते वृषभानु-नन्दिन्य्
आकर्ण्य तां विविदिषाम् इह चेद् दधासि ।
प्रेमेय देवम् इदम् एव न चेदम् एतत्
यो वेद वेद-वित् असाव् अपि नैव वेद ॥५१॥

यो वेदयत् विविदिषुं सखी वेदनं यत्
या वेदना तद् अखिलं खलु वेदनैव ।
प्रेमा हि कोऽपि पर एव विवेचने सत्य्
अन्तर्दधात्य् अलम् असाव् अविवेचनेऽपि ॥५२॥

द्वाभ्यां यदा रहितम् एव मनः-स्वभाव-
सिंहासनोपरि विराजति रागि शुद्धम् ।
तेच्-चेष्टितैः प्रिय-सुखे सति यत् सुखं स्यात्
तच् च स्वभावम् अधिरूढम् अवेक्षयेत् तम् ॥५३॥

लोक-द्वयात् स्वजनतः परतः स्वतो वा
प्राण-प्रियाद् अपि सुमेरु-समा यदि स्युः ।
क्लेशास् तद् अप्य् अतिबली सहसा विजित्य
प्रेमैव तान् हरिर् इभान् इव पुष्टिम् एति ॥५४॥

स्निग्धाङ्गकान्तिर् अथ गर्व-धरोऽत्यभीतो
विश्रम्भवान् स्वपिति किं गणयेद् असौ तान् ।
कण्ठी-रवः शुन इवाभिभवन् स-रागस्
तेष्व् एव राजतितमां तमसीव दीपः ॥५५॥

लाम्पट्यतो नव-नवं विषयं प्रकुर्वन्न्
आस्वादयन्न् अतिमदोद्धुरतां दधानः ।
आह्लादयन्न् अमृत-रश्मिर् इव त्रिलोकीं
सन्तापयन् प्रलय-सूर्य इवावभाति ॥५६॥

एनं बिभर्ति सखि कः खलु गोपराज-
सूनुं विना त्रिभुवने तद्-उपर्य्-अधोऽपि ।
प्रेमाणम् एनम् अलम् एणदृशीर् न्व् अविन्दन्न्
अत्रैव गोष्ठ-भुवि कश्चन तारतम्यात् ॥५७॥

प्रेमा हि काम इव भाति बहिः कदाचित्
तेनामितं प्रियतमः सुखम् एव विन्देत् ।
प्रेमेव कुत्रचिद् अवक्ष्यत एव कामाः
कृष्णस् तु तत् परिचिनोति बलात् कलावान् ॥५८॥

कृष्णान्तिकं सखि नयाशु निकाम-तप्तां
माम् इत्य् उदाहरति किन्तु तदात्मजेन ।
कामेन तत् सुख-परं दधती स्वभावाद्
एव स्व-चित्तम् अयम् अत्र न कामिनी स्यात् ॥५९॥

प्रेमाम्बुधिर् गुण-मणी-खनिर् अस्य
शाठ्य-चापल्य-जैह्म्यम् अखिलं रमणीयम् एव ।
प्रेमाणम् एव किल कामम् इवाङ्गनासु
सन्दर्शयन् स्वम् उदकर्षयद् एव यस् ताः ॥६०॥

काव् आङ्गनाः शत-सहस्रम् अमुष्य काम-
पर्याप्तये मद-कलाः प्रभवन्तु यत् ताः ।
प्रेमा तद् अत्र रमणीष्व् अनुपाधिर् एव
प्रेमैक-वश्यतमता च मयान्व् अभावि ॥६१॥

तत्रापि मय्य् अतितराम् अनुरज्यतीति
लोक-प्रतीतिर् अपि न ह्य् अनृता कदापि ।
यत् प्रेम रेरुम् इव मे मनुते परासां
नो सर्षपैस् त्रि-चतुरैर् अपि तुल्यम् एषः ॥६२॥

प्रेमानुरूपम् अयि राज्यति यत् परासु
रागानुरूपम् इह दिव्यति नापराध्येत् ।
दैवात् व्यतिक्रमम् उपैति कदाचिद् अस्मान्
नासौ सुखी भवति तेन च मां दुनोति ॥६३॥

सङ्केतगम् अपि विधाय मद्-एक-तानो
मां नाजगाम यद् इहाभवद् अन्तरायः ।
रुद्धः कयाचिद् अनुरोध-वशात् स रेमे
मद्-दुःख-चिन्तन-दवार्दित एव रात्रिम् ॥६४॥

तेनैव मे हृदि महा-दवथुर् बभूव
मद्-वेश-भूषण-विलास परिच्छदादि ।
तन्-मोद-कृद् विफलताम् अगमत् किम् अद्येत्य्
आक्रन्दितं यद् अपि तर्हि तद् अन्वभूस् त्वम् ॥६५॥

प्रातस् तम् अत्यनुनयन्तम् अतर्जयं भोस्
तत्रैव गच्छ सुखम् आप्नुहि तत् पुनश् च ।
रोषः स तत् सुख-परः प्रिय-तोस्थ इवेत्व्
आलोचय व्रज-भुवोऽप्य् अनुराग-चर्याम् ॥६६॥

अद्योतयं मुहुर् अहं निज-कामम् एव
किं मां विहाय रमयस्य् अपरां शठेति ।
वाचा स चापि रति-चिह्न-जुष-स्व-मूर्त्या
व्याज्यैव कामं अथ मन्तुम् उरीचकार ॥६७॥

प्रेमा द्वयो रसिकयोर् अयि दीप एव
हृद्-वेश्म भासयति निश्चल एव भाति ।
द्वाराद् अयं वदनम् अस्तु बहिष्कृतश् चेत्
निर्वाति शीघ्रम् अथवा लघुतां उपैति ॥६८॥

अन्तः-स्थितस्य खलु तस्य रुचि-च्छटाक्षि-
वातायनाधर-गण्ड-ललाट-वक्षः ।
चारु प्रदीप्य तद्-अभिज्ञ-जनं स्व-भासो
विज्ञापयेद् अपि विलक्षणताम् उपेताः ॥६९॥

कान्तेन किन्तु बहु-वल्लभता-जुषा स्यात्
निष्क्रामितोऽपि स मुहुर् न हि याति शान्तिम् ।
मिथ्यैक-भाषण-पटुत्वम् अयि प्रथास्य
कामं दिशेत् यवनिकेव पिधाय तं द्राक् ॥७०॥

त्वय्य् एव मे प्रियतमेऽनुपमोऽनुरागः
स्वप्नेऽपि वस्तुम् अपरा किम् उ हृद्य् अपीष्टे ।
इत्थं हरिर् वदति मानवतीः सदान्या
मां खण्डितां तु रति-चिह्न-भृद् एव वक्ति ॥७१॥

मद्-वक्त्र-नेत्र-सुषमा-सम-माधुरीक-
सौन्दर्य-वर्णन-बलाद् विजिहीर्ष एव ।
प्राणास् त्वम् एव हि ममेति वदन् व्यनक्ति
न प्रेम तत् सद् अपि किं त्व् इह कामम् एव ॥७२॥

सन्तप्यते यदि पुनर् विरहाग्नि-पुञ्जैर्
उत्कण्ठया चुलुकितः स्व-गभीरमाब्धिः ।
प्रेम व्यनक्ति दयितापि गिरा यथैव
यत् ते सुजात चरणाम्बुरुहेति पद्ये ॥७३॥

तस्मिन् महा-विरसतातितमस्य् अपारे
न प्राण-वायुर् अपि सञ्चरितुं शशाक ।
प्रेम-प्रदीप-वर एत्य् अतिदीप्तिम् एव
स्नेहोऽनु यत् प्रचुरतां चिरम् आचिकाय ॥७४॥

रासे मयैव विजहार विहाय सर्वास्
तत्रापि मां यद् अमुचत् शृणु तस्य तत्त्वम् ।
प्रेमाम्बुधेर् व्रज-पुरन्दर-नन्दनस्य
माम् एव मन्तुर् अधिकां न कदापि मन्तुः ॥७५॥

अध्यास्य माम् अतुल-सौभग-दिव्य-रत्न-
सिंहासनं बहु-विलास-भरैर् विभूष्य ।
गच्छन् वनाद् वनम् अरीरमद् एव कान्ताम्
अन्यां पुनः स्मृति-पथेऽपि निनाय नायम् ॥७६॥

किञ्चिन् मयैव मनसैव विचारितम् तर्ह्य्
एतं महोत्सव-सुधाम्बुधिम् अत्यपारम् ।
नैवान्वभुन् मम सखी-ततिर् आवयोः सा
विश्लेष-संज्वर-धुता क्व नु किं करोति ॥७७॥

अत्रास्वहे यदि पुनः कतिचित् क्षणास् ता
आल्यो मिलन्ति रभसाद् अभितो भ्रमन्त्यः ।
इत्य् अभ्यधां प्रियतमाथ न पारयेऽहं
गन्तुं मुहूर्तम् इह विश्रमणं भजेव ॥७८॥

तन् मे मनो-गतम् इदम् सहसैव साधु
सर्वं विवेद स विदग्ध-शिरोमणित्वात् ।
चातुर्य-सम्पद्-अतुलो रसिकाग्रगण्यः
किञ्चित् सपद्य् अथ हृदैव पराममर्श ॥७९॥

एतां नयन्त्य् उपवने यदि बम्भ्रमीमि
सम्भाविताल्य्-अतिरुजा पुरु-बिद्ध-चित्ताम् ।
किं स्यात् सुखं यदि दधे स्थितिम् अत्र गोपाः
सर्वा मिलेयुर् अपि ताः कुटिल-भ्रुवो माम् ॥८०॥

एतं पुनश् चिरम् अनेकम् उपालभेरन्
भङ्गश् च साम्प्रतिक केलि-रसस्य भावी ।
सम्पत्स्यतेऽद्य नहि रास-विनोद-नृत्यं
तासु क्रुधा निज-निजं सदनं गतासु ॥८१॥

यत् प्रार्थितं स्व-कुतुकेन पुराणयैव
शक्नोषि किन्तु कुलजार्बुद-लक्ष-कोटीः ।
आलिङ्गितुं प्रियतम क्षणम् एकम् अन्व् इत्य्
आस्ते दिदृक्षितम् इदं मम पूरयेति ॥८२॥

तस्माद् इदं जहत् पल-मात्रम् एव
निर्दूषणां विनयिनीं प्रथमं विधाय ।
मन्तुं स्व-मूर्ध्न्य् अखिलम् एव दधाम् ऋणी स्याम्
ताः स्नेहयानि निखिला अपि सर्वथा स्याम् ॥८३॥

वैश्लेषिक-ज्वरम् अपारम् अतुल्यम् अस्याः
सन्दर्श्य विस्मय-महाब्धिषु मज्जितानाम् ।
स्व-प्रेम-गर्वम् अपि निर्धुनवान्यथैनान्
ताभिर् महाधिकतमाम् अनुभावयामि ॥८४॥

सम्भोग एष सकलाधिक एव विप्र-
लम्भोऽपि सर्व-शत-कोटि-गुणाधिकोऽस्तु ।
ताभ्यां शुचिः परम-पुष्टिम् उपैतु चास्यान्
ता ह्रेपवत्व् अलम् इमान् तु गुरूकरोतु ॥८५॥

कामी हरिर् भवति नो यद् असौ विहाय
प्रेमाधिका अपि रहो रमते तु तस्याम् ।
इत्थं वदन्त्य इह सम्प्रति या रुषास्या
आलीस् तुदन्ति बहु नाव् अपि दूषयन्ति ॥८६॥

ता एव कोटि-गुणिता विरहे त्व् अमुष्याः
प्रेमाग्नि बाडभ शिखाः परिचाययामि ।
याभिर् बलाद् उपगताद् अवलिह्यमानाः
स्व प्रेम दीप दहनायितम् एव विद्युः ॥८७॥

एवं च सेत्स्यतो मदीपितम् ऐक्यम् आसां
रासाख्य नाट्यम् अनुमण्डलतां गतानाम् ।
मध्ये मया सह रुचातु विराजमानाम्
एनां विलोक्य न भवेद् अपि काचिद् ईर्षा ॥८८॥

कष्टं कदापि सुख सम्पद् उदर्कम् एव
मित्राप मित्रम् अपि यच्छति तद्धितैषि ।
तीव्राञ्जनैर् यद् अपि मूर्च्छयन्ति स्व दृष्टि
मायत्यति दुय्तिमतीं कुरुते जनस् ताम् ॥८९॥

इत्यात्त युक्तिर् उरसा सरसं वहन् मां
गत्वा पदानि कतिचिन् मृदुल प्रदेशे ।
अत्रास्यतां क्षणम् अपीति निधाय तत्रै-
वास्ते स्म मे नयन गोचरतां जहन् सः ॥९०॥

दृष्ट्वाम् अमाति विकलत्वम् अपास्त धैर्यो
दातुं स्वदर्शन मियेष यदा तदैव ।
होप्यः सखीविततयश् च समेत्य ता मत्
सन्धुक्षणे समयतन्त नितान्त तप्ताः ॥९१॥

यच्चावधीत् पुनर् अरिष्ट बहाघवत्सान्
विश्वद्रुहः कपटिनीं अपि पूतनां ताम् ।
दोषो न चायम् अपि तूच्चरतैव विष्णु
शक्तिर् हरावजनि साधुजनावनीयम् ॥९२॥

नारायणेन सदृशस् तनयस् तवायम्
इत्याह यद् व्रज पुरन्दरम् एव गर्गः ।
तत् साक्षिभूतम् इह दैत्यवधादि कर्म
लोकोत्तरं समुदगाद् गिरिधारणादि ॥९३ ॥

किं च स्फुरत्ययि यथा मम चेतसीदं
तेनापि नापि कथितं मुनि पुङ्गवेन ।
नारायणोऽप्यघभिदो न हि सामयम् अस्य
रूपैर् गुणैर् मधुरिमादिभिर् एतुम् ईष्टे ॥९४॥

आकर्ण्य कर्म रमणीयतमः प्रियाया
वाचो हरिर् सरभसम् पुनर् अभ्यधत्त ।
प्रेमोक्थ एव खलु कक्षित लक्षणो यः
सोऽयं त्वद् आश्रयक एव मयाध्यबोधि ॥९५॥

दोषा अपि प्रियतमस्य गुण यतः स्युस्
तद् दत्त कष्ट शतम् अप्यमृतायते यत् ।
तद् दुःख-लेश कणिकापि यतो न सह्य
त्यक्त्वात्म देहम् अपि यं न विहातुम् इष्टे ॥९६॥

योऽसन्तम् अप्यनुपमं सहमानम् उच्चैः
प्रत्याययात्यनुपदं सहसा प्रियस्य ।
प्रेमा स एव तम् इमं दधति त्वम् एव
राधे श्रुत खलु मयैव तथैव दृष्ट ॥९७॥

प्रेमी हरिर् न हि भवेद् इति सत्यम् एव
तच् चेष्टितैर् अनुमिमे तम् इमे वदन्ति ।
प्राण मम त्वद् अनुताप दवाग्नि दग्धाः
सख्यस् तमात्र निखिला अपि यत् प्रमाणम् ॥९८॥

यच्च त्वयोक्तम् इदम् एव मनोगतं मत्
प्रेष्ठस्य तत् तु वयम् अत्र कथं प्रतीमः ।
नो तन् मुखात् त्वम् अशृणोर् न च तस्य सख्युस्
तौ वा जनुष्यभवतां क्व नु सत्य-वाचौ ॥९९॥

यर्ह्य् एव यद् यद् अयि मत् प्रियचेतसि स्यात्
तर्ह्य् एव तत् तद् अखिलं सहसैव वेद्मि ।
राधे विदूष्यसि किम् अच्युत योगशास्त्रं
शक्नोषि येन परकाय मनःअ प्रवेष्टुम् ॥१००॥

देवी जनोऽस्य विरताच्युत योगसिद्धि
व्यग्रस् तथा कथम् अहो बत मानुषी स्याम् ।
यद् पृच्छसीदम् अयि वक्तुम् अशेषम् ईशे
चेद् विश्वसिष्यपरथा तु कथा वृथैव ॥१०१॥

प्रत्यङ्गनेऽस्ति यदि युक्तिरति प्रभावः
किं वालि ते कथम् इदं न वयं प्रतीमः ।
नो चेद् प्रियस् तव गुणार्णव एव किन्तु
प्रेमी भवेद् अयम् इदं तु मतम् तवैव ॥१०२॥

प्रेष्ठः परो भवति तस्य मनो न बुध्य
इत्य् एव भात्यनुभाध्वनि हन्त यस्याः ।
सैवोच्यतां नु परकाय मनः प्रवेश
विद्यावतीति परिहास विदा त्वयाद्य ॥१०३॥

राधे तदा विलपितं किम् इति त्वयोच्चेर्
ज्ञात्वा हृदस्य सुखिनी कत्म एव नाभुः ।
सत्यं ब्रविष्य् अपि तु देव्य् अवधेहि कापि
शक्तिर् विवेकभिद् अभुत् तद् अदर्शनस्य ॥१०४॥

त्वं वेत्सि तन् मन इहस् तु न मे विवादो
गान्दर्विके तव मन स हि वेद नो वा ।
वेदेति किं भणसि भोः शृणु यद् रहस्यं
तत्त्वं त्वया यद् अभवं तरलीकृतैव ॥१०५॥

राधे जनोऽयम् अयि यत् तरलीकृतोऽभूत्
प्रेम्ना त्वयैव यद् अपृच्छम् इदं स्वधार्ष्ट्यम् ।
शुश्रूषते श्रवणम् अस्य यथा रहस्यं
वक्तुं तथार्हसि न गोपय किञ्चनापि ॥१०६॥

अन्योन्य चित्त विदुषो न परस्परात्मा
नित्य स्थितेर् इति नृषु प्रथितौ यदावाम् ।
तच्चोपचारिकम् अहो द्वितयत्वम् एव
नैकस्य सम्भवति कर्हिचिद् आत्मनो नौ ॥१०७॥

एकात्मनीह रस-पूर्णतमेऽत्यगाधे
एकासु-सङ्ग्रथितम् एव तनु-द्वयं नौ ।
कस्मिंश्चिद् एक-सरसीव चकासद् एक-
नालोत्थम् अब्ज-युगलं खलु नील-पीतम् ॥१०८॥

यत् स्नेह-पूर-भृत-भाजन-राजतैक-
वर्त्य् अमल-दीप-युगं चकास्ति ।
तच्-चेतरेतरतमोऽपनुदत् परोक्षम्
आनन्दयेद् अखिल-पार्श्वगताः सदालीः ॥१०९॥

यद्य् आपतेत् विरह-मारुत एतद्-आत्त-कम्पं
भवेद् युगपद् एव भजेच् च मूर्च्छाम् ।
व्यग्रा सदाल्य् अथ तद्-आवरणे यतेत
तत् सुस्थयेच् च सुख-सद्म-गतं विधाय ॥११०॥

सन्दर्शितं तद् इदम् अद्य रहस्य-रत्नं
स्व-स्वान्त-सम्पुट-वरं स्फुटम् उद्घटय्य ।
सन्देह सन्तम् असहारि तवास्तु भव्ये
हृद्य् एव धार्यम् अनिशं न बहिः प्रकाश्यम् ॥१११॥

कृष्णो जगाद सखी यद् यद् इदं त्वयोक्तं
तत् तत् स-युक्तिकम् अधारयम् एव सर्वम् ।
चेतस् तु मे शठम् अहो हठ वर्त्य वश्यं
तत् ते परीक्षितुम् इहेच्छति किं करोमि ॥११२॥

त्वं वर्तसेऽत्र स तु साम्प्रतम् आत्म तात
गेहे कदाचिद् अवनाय गवां वनेऽपि ।
आत्मैक्यमालि युवयोर् यद् इह प्रतीमस्
तत् किं परीक्षणम् ऋते समुपैति सिद्धिम् ॥११३॥

यैव स्मृतिः सुमुखि यस्य यथा यदा ते
सैवास्य चेद् भवति तर्हि तथा तदैव ।
प्रत्यक्षम् एव यदि तं कलयामि सम्प्रत्य्
अत्रैव वा सखी तदैव दधे प्रतीतम् ॥११४॥

दूरेऽथवा निकट एव सते प्रियः स्याद्
एहीह सत्वरम् इति स्मृत मात्र एव ।
आयाति चेत् तव समक्ष अयं तदा वाम्
आत्म्यैक्यम् इत्यवगमो धिनुयत् सदा माम् ॥११५॥

विघ्नः क्वचित् तु गुरु निघ्नतयापि दैवाद्
दैत्यागमाद् अपि कुतश्चन वापि हेतोः ।
अन्योन्यम् अप्यतनु वां स्मरतो यदि स्यान्
नो सङ्गतिस् तद् इह नास्तितमां विवादः ॥११६॥

यद्यप्य् अमुं गुरु-पुरे सखी सङ्कुचन्ती
नैवाह्वयस्य् अभिसरस्य् अत एव दूरम् ।
किं चैकदापि न तद् आगमम् ईहसे त्वं
स्वार्थं त्व् इदं नितरां मदिराक्षि विद्मः ॥११७॥

कृष्ण-प्रिये सखी तद् अप्य् अधुना ममानु-
रोधाद् अमुं स्मर स एतु सुखं तनोतु ।
नात्रास्ति ते गुरु-जनागमनावकाशो
मत्-संसयोत्थम् अपि खेदम् अपाकरोतु ॥११८॥

इत्य् अर्थिता सरभसं वृषभानु-कन्या
स-न्यायम् आह नय मा हसनीयतां माम् ।
ब्रूषे यथैव करवाणि तथैव नो चेत्
प्रेमैव धास्यति रुजं चिरम् आत्त-लज्जाः ॥११९॥

वृन्दारकेड्य भगवान् मद् अभूस्त देव
श्री भास्कर त्रिजगद् ईक्षण सौख्यदायिन् ।
मत् सर्व कामद कृपामय पद्मिनीश
सत्यानृताद्यखिल साक्षितया प्रतीत ॥१२०॥

गान्धर्विका गिरिधरौ भवतः सदैकात्-
मानाविनीयम् अनृत न यदि प्रथास्ति ।
सम्प्रत्यसौ गिरिधरोऽत्र तदाददानो
मन् नेत्रयोः परिचरं स्वमुदेऽभ्युदेति ॥१२१॥

उक्त्वेदम् एव वृषभानुसुतात्मा कान्तं
ध्यातुं समारभत मीलित नेत्र युग्म ।
स योगिनीव विनिरुद्ध हृशीकवृत्तिर्
आस्ते स्म यावद् अविखण्डित मौन मुद्रा ॥१२२॥

तावद् विहाय सहसैव हरिः स योषिद्
वेशं सखीह् स्वम् अखिलः परिचिन्वतीष् ताः ।
भ्रू संज्ञयैव विदधन् निक पक्षपाते
चुम्बन् प्रियां मुहुर् अवारितम् आलिलिङ्ग ॥१२३॥

रोमञ्चिताखिल तनुर् गलद् अश्रुसिक्ता
ध्यानागतं तममबुध्य बहिर् विलोक्य ।
आनन्द लीन हृदया खलु सत्यम् एव
योगीन्यराजत निरञ्जन दृष्टिर् एषा ॥१२४॥

संज्ञं क्षणाद् अलभताथ पटाञ्चलेन
वक्त्रं पिधाय सुदृग् आतनुते स्म लज्जाम् ।
तं प्राह सैव ललिता किम् अहो विलासिन्न्
आगा अलक्षिउतम् इह त्वम् अतीव चित्रम् ॥१२५॥

अन्तःपुरे कुलवधू कुलमात्र गम्ये
शक्तो न यत्र पवनोऽपि हठात् प्रवेष्टुम् ।
तत्रेति यस् तु वतभीः पुरुषः स एष
गण्योऽति साहसिक शेखर एक एव ॥१२६॥

तत्रापि मद्विधा सखीजन पालितायाः
साध्वीकुलाप्लवन कीर्ति सुरापगायाः ।
स्नात्वैव मित्र जयनाय कृतासनायास्
तं ध्यातुम् एव विनिमीलित लोचनायाः ॥१२७॥

अङ्गं बलात् स्पृशसि यद् वृषभानुपुत्र्या
दैवात् ततो दिनपतेर् अपि नो विभेषि ।
न त्वं किम् अत्र गणयिष्यसि लोकधर्मौ
लज्जा तु केयं इति तां न हि पर्यचैषीः ॥१२८॥

तन् माधवाद्य तव दिष्टम् अहं स्तुवे यद्
आर्या गृहे नहि नापि पतिः स कोपी ।
सख्य्प्ऽबला वयम् अहो करवाम किं ते
भद्रेन लम्पटवर त्वम् इतोऽवितोऽभूः ॥१२९॥

कृष्णोऽब्रवीत् कम् अपि नैव दधामि मन्तुं
गोशाला चत्वरम् अनुश्रित खेलनोऽहम् ।
दैवात् सम स्मरम् इमम् अथ सद्य एव
दैवेन केनचिद् इवागम् इतोऽप्युभूवम् ॥१३०॥

राधाभ्यधत्त ललिते क्व नु वर्ततेऽसौ
देवी प्रतीतिम् उपयाति विलोक्य नो वा ।
देवी तु दीव्यति दृशैव गतादिर् एतद्
धामान्तर् अत्र सुदमातनुते ततो नः ॥१३१॥

देवीति किं भणसि तं परिचाययात्रे
त्युक्त्वं सखीं हरिर् अथ ब्रुवद् अभ्रुवाणाम् ।
आं ज्ञातर अद्य ललिते खलु धूर्तता वो
व्यक्तेयतैव समयेन बभूव दिष्ट्या ॥१३२॥

काप्यत्र सिद्ध वनिता किम् उ खेचरी वा
देवी समेति तत एव गृहीत विद्या ।
मां अत्यवश्यम् इयम् आत्मवशे विधाय
दासीयती प्रतिदिनं प्रसभं प्रकृष्य ॥१३३॥

सैवाद्य मह्यम् अपि कञ्चन मन्त्रम् एकं
राढे ददातु भव भाविनि मे सहाया ।
शिष्यं त्वम् एव कुरु माम् अथवा प्रपन्नम्
उत्कण्ठितं रहसि कुत्रचनापि नीप्वा ॥१३४॥

वंश्य् एव राजतितमाम् अति सिद्धि विद्या
शाङ्कं तवानयति साधु सतीः पुरस्त्रीः ।
तां चापि चोरयसि यर्हि तदा गतिर् मे
का स्याद् अतो नहि तयापि तदार्थ-सिद्धिः ॥१३५॥

देवी ह्रिय तव गृहान्तर् इहास्ति लीना
त्वम् एव मन्त्रम् उपदेक्ष्यत्य् सकथं वा ।
उत्कण्ठसे तद् अपि चेत् प्रविश स्वयं भोः
सच् एत् दयेत भविता एव कार्यसिद्धिः ॥१३६॥

इत्यच्युते विशति वेश्म जगाद राधा
किं तत्त्वम् अत्र सखी मां वद संशयनम् ।
राधे न सङ्कुच चल प्रविशामि तस्याः
सख्यस् तवात्र हरिणा कलयामि सङ्गम् ॥१३७॥

आलीषु मन्द हसितामृत वर्षिणीषु
कृष्णोक्ति पाटवम् अथोदभिनत् तद् उप्तम् ।
हृद् वप्रम् अन्वधित तर्क तरुस् ततोऽस्या
ऋद्धः फलं बहु रसं निखिलावबोधम् ॥१३८॥

अन्तर्दधे बहिर् अगाद् अथवात्र देवी
तन् मार्गणाय तद् इतस् त्वरया प्रयामः ।
विद्यां त्वम् एव सखी ताम् उपदिश्य कृष्णम्
आनन्दयेति सहसा निरगुस् तद् आल्यः ॥१३९॥

तत् प्रेम सम्पुट गतैर् बहु केलि रत्नैस्
तौ मण्डितावजयतां रतिकान्त कोटीः
सन्तोऽपि यत् श्रवण कीर्तन चिन्तनाद्यैस्
तौ प्राप्तम् उन्नतमुदः सततं जयति ॥१४०॥

षट् शुन्य ऋत्ववनिभिर् गणिते तपस्ये
श्री-रूप वाङ् मधुरिमामृत पान पुष्टः ।
राधा गिरीन्द्रधरयोः सरसस् तटान्ते
तत् प्रेम सम्पुटम् अविन्दत कोऽप्य् काव्यम् ॥१४१॥

इति महा-महोपाध्याय-श्री-विश्वनाथ-चक्रवर्ति-विरचितः
प्रेम-सम्पुटः समाप्तः
—ओ)०(ओ—