श्री अनुराग-वल्लि
ओफ़् श्रील विश्वनाथ चक्रवर्ती ठाकुर
देहार्बुदानि भगवान्! युगपत् प्रयच्छ
वक्त्रार्बुदानि च पुनः प्रतिदेहम् एव
जिह्वार्बुदानि कृपया प्रतिवक्त्रम् एव
नृत्यन्तु तेषु तव नाथ! गुणार्बुदानि (१)
किम् आत्मना यत्र न देह-कोट्यो
देहेन किंयत्र न वक्त्र-कोट्यः
वक्त्रेण किं यत्र न कोटि-जिह्वाः
किं जिह्वया यत्र न नाम-कोट्यः (२)
आत्मास्तु नित्यं शत-देह-वर्ती
देहस् तु नाथास्तु सहस्र-वक्त्रः
वक्त्रं सदा राजतु लक्ष-जिह्वं
गृह्णातु जिह्वा तव नाम-कोटिम् (३)
यदा यदा माधव! यत्र यत्र
गायन्ति ये ये तव नाम-लीलाः
तत्रैव कर्णायुत-धार्यमाणास्
तास् ते सुधा नित्यम् अहं धयानि (४)
कर्णायुतस्यैव भवन्तु लक्ष-
कोट्यो रस-ज्ञा भगवंस् तदैव
येनैव लीलाः शृणवानि नित्यं
तेनैव गायानि ततः सुखं मे (५)
कर्णायुतस्येक्षण-कोटिर् अस्या
हृत्-कोटिर् अस्या रसनार्बुदं स्तात्
श्रुत्वैव दृष्ट्वा तव रूप-सिन्धुम्
आलिङ्ग्य माधुर्यम् अहो! धयानि (६)
नेत्रार्बुदस्यैव भवन्तु कर्ण-
नासा-रसज्ञा-हृदयार्बुदं वा
सौन्दर्य-सौस्वर्य-सुगन्ध-पूर-
माधुर्य-संश्लेष-रसानुभूत्यै (७)
त्वत्-पार्श्व-गत्यै पद-कोटिर् अस्तु
सेवां विधातुं मम हस्त-कोटिः
तां शिक्षितुं स्ताद् अपि बुद्धि-कोटिर्
एतान् वरान् मे भगवन्! प्रयच्छ (८)