श्रीमन्-महप्रभोर्-
अष्ट-कालीय-लीला-स्मरण-मङ्गल-स्तोत्रम्
इ।
अत्त्रिबुतेद् तो विश्वनाथ चक्रवर्ती ठाकुर
श्री गौराङ्ग-महाप्रभोश्-चरणयोर् या केश-शेषादिभिः
सेवागम्यतया स्व-भक्त-विहिता सान्यैर्-यया लभ्यते ।
तं तन्-मानसिकीम् स्मृतिं प्रथयितुं भाव्यां सदा सत्तमैर्
नौमी प्रात्यहिकं तदीय-चरितं श्रीमन्-नवद्वीप-जाम् ॥१॥
रात्र्य्-अन्ते शयनोत्थितः सुर-सरित् स्नातो बभौ यः प्रगे
पूर्वाह्ने स्व-गणैर्-लसत्य् उपवने तैर् भाति मध्याह्निके ।
यः पूर्याम् अपराह्नके निज-गृहे सायं गृहे ऽथाङ्गने
श्रीवासस्य निशा-मुखे निशि वासन् गौरः स नो रक्षतु ॥२॥
रात्र्य्-अन्ते पिक-कुक्कुटादि-निनदं श्रुत्वा स्व-तल्पोत्थितः
श्री-विष्णुप्रियया समं रस-कथाम् सम्भाश्य सन्तोष्य तां ।
गत्वा ऽन्यत्र दरासनोपरि वसन् स्वद्भिः सुधौताननो
यो मात्रादिभिर् ईक्षितो ऽति-मुदितस् तं गौरम् अध्येम्य् अहं ॥३॥
प्रातः स्वः-सरिति स्व-पार्षद-वृतः स्नात्वा प्रसूनादिभिस्
तां सम्पूज्य गृहीत-चारु-वासनः स्रक्-चन्दनालङ्कृतः ।
कृत्वा विष्णु-समर्चनादि स-गणो भुक्त्वान्नम् आचम्य च
द्वित्रं चान्य-गृहे सुखं स्वपिति यस् तं गौरम् अध्येम्य् अहं ॥४॥
पूर्वाह्ने शयनोत्थितः सु-पयसा प्रक्षाल्य वक्त्राम्बुजं
भक्तैः श्री-हरि-नाम कीर्तन-परैः सार्धं स्वयं कीर्तयन् ।
भक्तानां भवने ऽपि च स्व-भवने क्रीडन् नृणाम् वर्धयत्य्
आनन्दं पुर-वासिनां य उरुधा तं गौरम् अध्येम्य् अहं ॥५॥
मध्याह्ने सह-तैः स्व-पार्षद-गणैः सङ्कीर्तयद्-ईदृशं
साद्वैतेन्दु-गदाधरः किल सह श्रीलावधूत प्रभुः ।
आरामे मृदु-मरुतैः शिशिरितैर् भृङ्ग-द्विजैर्-नादिते
स्वं वृन्दा-विपिनं स्मरन् भ्रमति यस् तं गौरम् अध्येम्य् अहं ॥६॥
यः श्रीमान् अपराह्नके सह-गनैस् तैस् तादृशैः प्रेमवांस्
तादृक्षु स्वयम् अप्य् अलं त्रि-जगताम् शर्माणि विस्तारयन् ।
आरामात् तत एति पौर-जनता चक्षुश्-चकोरोडुपो
मात्रा द्वारि मुदेक्षितो निज-गृहम् तं गौरम् अध्येम्य् अहं ॥७॥
यस् त्रि-स्रोतसि सायम् आप्त-निवहैः स्नात्वा प्रदीपालिभिः
पुष्पाद्यैश् च समर्चितः कलित-सत् पत्ताम्बरः स्रग्-धरः ।
विष्णोस् तत्-समयार्चनं च कृतवान् दीपालिभिस् तैः समं
भुक्त्वान्नानि सुवीटिकाम् अपि तथा तं गौरम् अध्येम्य् अहं ॥८॥
यः श्रीवास-गृहे प्रदोष-समये ह्य् अद्वैत-चन्द्रादिभिः
सर्वैर् भक्त-गनैः समं हरि-कथा-पीयूषम् आस्वादयन् ।
प्रेमानन्द-समाकुलश् च चल-धीः सङ्कीर्तने लम्पतः
कर्तुं कीर्तनम् ऊर्ध्वम् उद्यम-परस् तं गौरम् अध्येम्य् अहं ॥९॥
श्रीवासाङ्गन आवृतो निज-गनैः सार्धं प्रभुभ्यां नटन्न्
उच्चैस् ताल-मृदङ्ग-वादन-परैर् गायद्भिर् उल्लासयन् ।
भ्राम्यन् श्रील-गदाधरेण सहितो नक्तं विभात्य् अद्भुतं
स्वागारे शयनालये स्वपिति यस् तं गौरम् अध्येम्य् अहं ॥१०॥
श्री-गौराङ्ग-विधोः स्व-धामनि नवद्वीपे ऽष्ट-कालोद्भवां
भाव्यां भव्य-जनेन गोकुल-विधोर् लीला-स्मृतेर् आदितः ।
लीलां द्योतयद् एतद् अत्र दशकं प्रीत्यान्वितो यः पठेत्
तं प्रीणाति सदैव यः करुणया तं गौरम् अध्येम्य् अहम् ॥११॥
इइ।
उन्क्नोwन् औथोर्, थोउघ् सोमेतिमेस् अत्त्रिबुतेद् तो रुप गोस्wअमि।
श्री गौराङ्ग-महाप्रभोश्-चरणयोर् या केश-शेषादिभिः
सेवागम्यतया स्व-भक्त-विहिता सान्यैर्-यया लभ्यते ।
तं तन्-मानसिकीम् स्मृतिं प्रथयितुं भाव्यां सदा सत्तमैर्
नौमी प्रात्यहिकं तदीय-चरितं श्रीमन्-नवद्वीप-जाम् ॥१॥
रात्र्य्-अन्ते शयनोत्थितः सुर-सरित् स्नातो बभौ यः प्रगे
पूर्वाह्ने स्व-गणैर्-लसत्य् उपवने तैर् भाति मध्याह्निके ।
यः पूर्याम् अपराह्नके निज-गृहे सायं गृहे ऽथाङ्गने
श्रीवासस्य निशा-मुखे निशि वासन् गौरः स नो रक्षतु ॥२॥
प्रगे श्रीवासस्य दिव्ज-कुल-रवैर् निष्कुट-वरे
श्रुति-ध्वान-प्रख्यैः सपद गत-निद्रं पुलकितम् ।
हरेः पार्श्वे राधास्थितिम् अनुभवन्तं नयन-जैर्
जलैः संसिक्ताङ्गं वर-कनक-गौरं भज मनः ॥३॥
प्रभाते प्रक्षाल्य स्व-वदन-विधुं केशव-कथां
गृहालिन्दे प्रेमाकुलित-हृदयं यः प्रिय-जनैः ।
ब्रुवन्न् आस्ते राधा-रस-कलन-फुल्लो वर-तनुर्
भज त्वं तं गौरं निरवधि मनः प्रेम-वलितम् ॥४॥
हरि-वन-गति-लीलां व्याकुली-भूत-गोष्ठां
स्मृति-विषय-गतां यः कारयामास साक्षात् ।
तद्-अनुकरण-कारी भक्त-वृन्दस्य मध्ये
तम् अहम् अनुभजामि श्रील-गौराङ्ग-चन्द्रम् ॥५॥
सहालि-श्री-राधा-सहित-हरि-लीलां बहु-विधां
स्मरन् मध्याह्नीयां पुलकित-तनुर् गद्गद-वचाः ।
ब्रुवन् व्यक्तं तां च स्वजन-गण-मध्येऽनुकुरुते
शचीसूनुर् यस् तं भज मम मनस् त्वं बत सदा ॥६॥
परावृत्तिं गोष्ठे व्रज-नृपति-सूनोर् विपिनतो
महानन्दाम्भोधेः सपदि जनयित्रीं स्व-हृदये ।
स्मरन् श्री-गौराङ्गो नटति वलते निःश्वसिति च
क्षणं मुह्यन् सर्वान् विवशयति यस् तं भज मनः ॥७॥
सायन्तनीं कृष्ण-मनोज्ञ-लीलां
स्नानाशनाद्यां हि मुहुर् विचिन्त्य ।
स्व-भक्त-मध्येऽनुकरोति नित्यं
तां यो मनस् त्वं भज गौरचन्द्रम् ॥८॥
समुक्तण्ठासन्नाकलित-हरि-वार्ता बत यथा-
भिसृत्यासौ राधा हरिम् अपि निकुञ्जे गतवती ।
तथात्मानं मत्वा कटि-निहित-पाणिर् विशति च
स्खलन् गच्छन् गौरो नटति धृत-कम्पाश्रु-पुलकः ॥९॥
श्री-श्रीवास-गृहे मुदा परिवृतो भक्तैः स्व-नामावलीं
गायद्भिर् गलद्-अश्रु-कम्प-पुलको गौरो नटित्वा प्रभुः ।
पुष्पाराम-गते सुरत्न-शयने ज्योत्स्ना-युतायां निशि
विश्रान्तः स शचीसुतः कृत-फलाहारो निषेव्यो मम ॥१०॥