सङ्कल्प-कल्प-द्रुमः

विस्तारः (द्रष्टुं नोद्यम्)

Text entered by Jagadananda Das.

This edition has all the verses, but is missing the commentaries to verses 2.148-164 (pages 192-200) and 3.13-21 (282-285), 29-37 (290-293). The original GGM version was based on (b) below. Subsequently, we got the Puridas edition, for which our (b) = his gha. Our (a) manuscript does not seem to have been used by Puridas, but most of its readings match his ka and kha manuscripts.

(a) śrī-vṛndāvana-śodha-saṁsthāyāṁ rakṣitaḥ pāṇḍulipiḥ, saṅkhyā 3048.

(b) śrī-dhāma-vṛndāvana-stha-śrī-devakīnandanākhya-yantre śrī-nitya-svarūpa-brahmacāriṇā mudritaḥ prakāśitaś ca | śrī-caitanyābdā 422 (1907).

(P) (ed) Puri Das Mahaśaya. Kalkata 1951. This is refered to whenever his chosen reading does not match ours.

Puri Das’s (ka) and (kha) are Barāhanagara Śrī-Gaurāṅga-grantha-mandira’s MSS 271 and 710. (ga) is Baṅgīya Sāhitya Pariṣad MS 22.

सङ्कल्प-कल्प-द्रुमः

श्री-राधा-दामोदराभ्यां नमः1

(१)

विश्वास-प्रस्तुतिः

श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त व्रज-वल्लभ पाहि माम् ॥१॥2

मूलम्

श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त व्रज-वल्लभ पाहि माम् ॥१॥2

गौराङ्ग-सुन्दरं वन्दे नित्यानन्द-विभूषितम् ।
यत्-कृपा-लवम् आदाय बोधिनी वर्ण्यते मया ॥

तद् एवम् आरम्भ-सम्भवद्-अन्तर्-महसा सहसा विलिख्य, तद् इदम् उल्लिख्यते । किम् इदम्? मदिष्टदेवस्य, मदन्विष्टदयाशिष्टतद्भक्त-समुदयस्य च क्रमतः स्मरणम् आविर्भूतम् । किं वा, केवलस्य मदिष्ट-देवस्य; किं वा, तद्विशिष्टस्य । आम् आं, तन्त्रतस् तत् त्रयम् अपि स्वतन्त्रतया लभ्यते ।

तत्र प्रथमं तावत् प्रथमतः प्रथयामि । अत्र श्री पदम् अन्यद् अन्यद् अपि किञ्चिद् अनुष्टुप्छन्दःपरच्छन्दतया पूर्वत्र च परपरत्र च यत्र न दत्तं, तत्र च सन्धातव्यम् ।

यथा, हे श्री-कृष्ण-नाम्नातिधन्य! सर्व-मूर्धन्य! हे श्री-कृष्ण-चैतन्य! सर्व-शर्मद-कीर्तन्य! हे महित-श्री-सनातन-सहित-श्री-रूप-नामधेय, मन्-मूर्धन्य् आधेय! हे श्री-गोपाल-भट्टाख्या-प्रवृद्ध-भट्टारकता-समृद्ध! हे श्री-रघुनाथ-दास! नाम-धामतयातिप्रसिद्ध-परम-भक्ति-भराविद्ध! हे तेषाम् एवाप्त-व्रजतासिद्ध-वर्णन-सत्-कर्ण-गर्भाभरण-श्री-भूगर्भादि-सञ्ज्ञाधिकरण! हे श्री-वल्लभ! प्राग्-भवीय-दुर्लभ-सुकृत-सन्धीयमान-मदीय-शरण-पितृ-चरण!

किं वा, हे श्री-रघुनाथस्याप्तान् व्रजत्य् अनुव्रजतीति तत्तया सर्व-वल्लभ! श्री-वल्लभ! मां पाहि! निज-चरण-च्छायया मत्-प्रतिपालकताम् आयाहि । यथा कंसारातेर् आशु सुख-विलासं शंसन्ती, सहायतया च लसन्ती च प्रिय-सखीयते, न तद्वद् अन्यो धन्योऽपि जनः सम्भवति।

अथ द्वितीयम् अपि प्रतीयमानं निर्मामि- श्री-कृष्ण इति । श्रीर् अत्र राधा । एषा हि श्रीप्रधानतया साधयिष्यमाणतायां निराबाधा । तद्-अनन्तर-कृष्ण-शब्दश् चात्र शब्द-ब्रह्म-गूध-पर-ब्रह्म नन्द-नन्दन-वाचकतायां रूढः । तेन, तेन, हे श्री-राधाख्य-स्वरूप-शक्ति-युक्त-कृष्ण !

कृष्णेत्य् अर्थश् च निर्व्यूधः—कृष्ण इति ।3

कृषिर् भू-वाचकः शब्दो णश् च निर्वृतिवाचकः । तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥

इति प्रमाण-ज्ञात-चरः कृष्ण-शब्दस् त्व् अत्र योग-पुरस्कृत-रूढितया तत्-परः । भूर् इति भाव-क्विबन्तता-करः । स चायं भाव-शब्दवद् धात्व्-अर्थ-मात्रता-धरः । धात्व्-अर्थश् चात्राकर्षणम्, तद् एव स्फुटम् आप्ततयाप्त-मनसाम् आकर्षणम् । ततश् च भिन्न-पदार्थतयावगतयोर् दयितयोर् इव तयोर् ऐक्यं योग एवेति तद्-युक्त आनन्दः सर्वाकर्षकानन्द इत्य् अर्थ एवामन्दः ।

परं ब्रह्म इति, नराकृति परं ब्रह्म [बृहत्-सहस्र-नाम-स्तोत्र, ब्रह्माण्ड-पुराण] इति हि प्रसिद्धिः । योग-पुरस्कृत-रूढतोपगूधतयापि श्री-नन्दनन्दनम् एव वक्ति तच्-छब्द-शक्तिर् इति व्यक्ति-सिद्धिश् च । तद् एतद् अभिधीयते चाभिधीयते इति । तस्माद् एव तदीय-स्वभाव-विशेष-भावनार्थम् एव पुनर्-उक्तिर् इयं युक्तिं युनक्ति ।

चैतन्य इति । “हे सर्व-प्रकाशक! सद्-रूपतया सर्वाश्रय-स्वरूप!” तद्-रूपता च विपश्चिद्भिर् अवगता, सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कर्मणे [गो।ता।उ। १.१] इति तापनीय-नान्दीनि-शमनात् । त्वय्य् एव नित्य-सुखबोध-तनौ [भा।पु। १०.१४.२] इति श्री-भागवतीय-ब्रह्म-स्तवे निगमनाच् च ।

स-सनातन-रूपक इति, “हे सनातनेन सदातनेन स्व-स्वरूपम् अनुभवद्भिर् अपि सुनिरूपण-रूपेण सह वर्तमान! तेन स्व-भक्ति-वित्त-चित्तम् अनुवर्तमान!”

गोपाल-रघुनाथाप्त-व्रज-वल्लभ इति, “गोपालेषु ये रघवो लघवो, ये च नाथा मुख्या इति विख्यातगाथास्, तैर् आप्तस्य व्रजस्य बल्लव-तल्लज-व्रजस्य वल्लभ!” किं वा, “गोपालानां लघुर् इष्टः, स च नाथश् च यस्, तस्य सम्बोधनं त्रिष्व् इष्टेऽल्पे लघुर् इति नानार्थ-वर्ग-लब्ध-बोधनम् । आप्त-व्रज-वल्लभ इति “आप्त-व्रजानां स्वजन-समूहानां वल्लभ! परेषाम् अलभ्य-सत्-प्रभ!”

अथ तृतीयम् अपि सम्भृतीकरवाणि—हे श्री-कृष्ण इति । श्रीर् अत्र च परम-प्रेयसीषु श्रेयसी राधा, ततस् “तद्-युक्ततया मधुर-लीलायाम् असङ्कीर्ण! हे कृष्ण-चैतन्याख्य-भक्तावतार! तादात्म्यापन्नतयावतीर्ण! हे सनातन-रूपाभ्यां परमानुरक्त-सुभक्ताभ्यां सह विद्यमान! हे गोपाल-रघुनाथाभ्यां तत्-तन्-नामाभ्याम् अपि सुभक्ताभ्याम् आप्तः प्राप्तो यो व्रजस्, तस्य वल्लभतया सर्व-विद्यमान! मां पाहि, मत्-पालकतां याहीति ॥१॥ (अत्र गोपाल-चम्प्वाः प्रथम-चतुः-परिच्छेदाः टीका-रूपेण अदीयन्त)।

विश्वास-प्रस्तुतिः

नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ।
अनादि-जन्म-सिद्धानां गोपीनां पतिर् एव4 यः ॥२॥

मूलम्

नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ।
अनादि-जन्म-सिद्धानां गोपीनां पतिर् एव4 यः ॥२॥

स्वेष्टं परिचाययति—नन्द-नन्दनेति । कोऽसौ ? इत्य् अत आह—नन्द-नन्दनो यशोदा-गर्भ-सिन्धु-समुत्थ-सुधांशुः, न तु देवकी-गर्भ-प्रादुर्भूतो वासुदेवः । यशोदा-गर्भ-समुत्थो नन्द-नन्दनस् तु तन्त्रैः परम-रहसि रक्षितः, दृश्यते च लोकेऽनर्घं रत्नं बहिरङ्ग-लोक-लोचनान्तराले रक्ष्यते, सुदृढ-पेटिकाभ्यन्तरे परम-यत्नेन । भो एतादृक्-परम-गोप्यत्वे को हेतुर् इति वाच्यं न, यतोऽसौ नन्द-नन्दनः, यः सर्वान् नन्दयति स नन्दः । स्व-हृदय-प्रकोष्ठ-निहितानन्द-रत्न-जातं विकीर्य निरानन्दान्, अत एव दरिद्रान्, दुर्भगान् सुखयति गोप-राजो बहु-कोटीश्वर-श्रेष्ठि-पतिवत् । एतादृशं महा-समृद्धं गोप-राजं बहु-गणितानन्दाधीशम् अपि यः स्व-कोषात् उद्धृत्य परिक्षणम् आनन्द-प्रदानेनानन्दयति अनुमेयं तस्य यशोदा-सुतस्यानन्द-वैभवम् ।

सर्वतः समृद्धस्य तस्य तत्त्वेन गुप्तेनैव भवितव्यम् अन्यथास्मत्-परिपालकस्य तस्य बहुभिः सह परिचये जातेऽस्माकं हानिर् भविष्यतीतीर्ष्या-कलुषाशयेनेव तान्त्रिकाः प्रतिग्रहीतारस् तं परम-रहसि रक्षितवन्तः । दान-शौण्डोऽसौ कथं सुष्ठु मन्येत, प्रतिग्रहीतॄणां दुष्टाशयम् इत्य् आह—त्रैलोक्यानन्द-वर्धनः । नन्दनन्दनः प्रतिक्षणं त्रिलोक-वासिभ्यो नवान् नवान् आनन्दान् दत्त्वा पुनर् अपि तान् वर्धयति, न तु केवलम् अन्तरङ्गेभ्यो दत्तवान् । यथा परम-सुहृत्-पित्र्-आदिः धन-शाली प्रियेभ्यः पुत्र-प्रेयस्य्-आदिभ्यः शत-सङ्ख्यकं सहस्रादि-सङ्ख्यकं वा रजतादिक-पारितोषिकत्वेन दत्त्वा, पुनस् तत्-कुसीदेन वाणिज्यादि-व्यवहारेण च वर्धयतीति लोक-व्यवहारो द्रष्टव्यः ।

ननु नन्द-नन्दनस् ते प्रेयसी-प्रेम-विवर्जित-हृदयः, अत एव उदासीनः, उदासीनः खलु धनाग्रहं न प्रकाशयति, वितरति धनानि यथेच्छम् इति लोक-व्यवहारे दृश्यते, नहि नहि असौ विदग्ध-शिरोमणिर् अनादि-सिद्धानां राधिकादीनां जन्म-सिद्धानां साधन-बलेन गोपी-देहं गतानां, अन्यासां च पतिः कान्तः दण्डकारण्य-वासिनो मुनयः साधन-सिद्ध-गोप्य इति ज्ञेयम् । अनादित्वं प्राग्-अभावाप्रतियोगित्वम् ॥२॥

नवीन-नीरद-श्यामं तं राजीव-विलोचनम् ।
वल्लवी-नन्दनं वन्दे कृष्णं गोपाल-रूपिनम् ॥३॥

[युग्मम्] पितृ-मातृ-परिचिते पुरुषे प्रामाणिकानाम् आस्था न दृश्यतेऽतो मातरम् अपि परिचाययति—नवीनेति । असौ वल्लवी-नन्दनः, वल्लव-शब्दस्य गोप-जातौ शक्तिः, तेन वल्लवी गोपी श्री-यशोदा वात्सल्य-रस-सुरधनी, सामान्य-वाची शब्दः क्वचिद् विशेष-परो भवति, श्रीमतो नन्दस्य धर्म-पत्नी, तस्य नन्दनः पुत्रः ।

ननु विशिष्ट-रूपवति नायके युवतीनाम् अनुरागः सञ्चरति, श्रुतं चास्माभिः—कन्या वरयते रूपम् इति । नन्द-नन्दनः कृष्ण-वर्णः, कृष्ण-वर्णे हि पुरुषे रूप-गर्वितानां प्रेमिकाणां नायिकानाम् आदरः प्रायो न भवति । नहि नहि ! मदीयो नन्द-नन्दनः कृष्णस् तु नवीन-नीरद-श्यामः, अन्येषां नीरदानां हि नीर-वर्षणावसाने श्यामः पाण्डुर् भवति, मद्-इष्टस्य नीरद-स्थानीयस्य अविच्छेदेन कारुण्य-वारि-वर्षणेऽपि वर्णः श्यामः पाण्डुर् न भवति, अत एवोक्तं कविना नवीन-नीरद-श्याम इति । नवीनोऽपूर्वः, अपूर्व-रूप-शालीत्य् अर्थः ।

नन्व् अपरानुरागाकर्षण-सुदक्षम् अस्य नयन-सौभगं, त्वया तु न वर्णितं, कथं वयं मानस-हंसं प्रहरि-शून्ये तत्र निवेशयिष्यामः ? नहि नहि ! भवद्भिः निःसन्देहं तत्र न स्थाप्यतां, यतोऽसौ राजीव-विलोचनः । अस्य लोचने राजीवाद् विशिष्टे, राजीवं तु दिनात्यये मलिनं, वर्षासु छिन्न-भिन्नं च भवति । किं च, रासु शब्देषु लक्षणया तद्-आश्रयाकाशे जीवो जीवन्तं यस्य तत्, अर्थात् मृतं मृतस्य किं नाम सौन्दर्यं दृश्यते च, राजीवं जीवनाद् बहिर् एव । अत उक्तं राजीव-विलोचनः । न्यक्-कृत-कमल-नयन इत्य् अर्थः ।

ननु सौन्दर्य-वैदग्ध्य-गुणवत्त्वेऽपि दुर्बले कस्यास्था भवेत् ? नहि नहि ! असौ सार्वभौमश् चक्रवर्ती च । गां दिशं पालयन्ति ये ते गोपाला ब्रह्मानन्तादयः, त एव रूपाणि मूर्तयः विद्यन्ते यत्र इति अनुयोगित्वं तस्य स्वामित्वेन, तद्-आज्ञा-वर्तिनः तत्-प्रतिनिधय एव, ते राज-भृत्यस् तु राज-मूर्तयस् तच्-छक्ति-धरत्वात् । गोपाल-रूपित्वं च श्रुति-प्रसिद्धं, गोपाल-रूपिणम् इत्य् अनेनैव चरम-तत्त्वस्य नराकृतित्वं सूचितम् । तथा-भूतं तम् अहं वन्दे पूर्व-श्लोकेनान्वयः ।

विश्वास-प्रस्तुतिः

द्वाभ्यां तु युग्मकं प्रोक्तं त्रिभिः श्लोकैर् विशेषकम् ।
कलापकं चतुर्भिः स्यात् तद्-ऊर्ध्वं कुलकं स्मृतम् ॥३॥

मूलम्

द्वाभ्यां तु युग्मकं प्रोक्तं त्रिभिः श्लोकैर् विशेषकम् ।
कलापकं चतुर्भिः स्यात् तद्-ऊर्ध्वं कुलकं स्मृतम् ॥३॥

विश्वास-प्रस्तुतिः

वृन्दारण्ये जरन् जीवः कश्चित् प्राह मनः प्रति ।
म्रियसे साम्प्रतं5 मूढ गूढाम् एतां सुधां पिब ॥४॥

मूलम्

वृन्दारण्ये जरन् जीवः कश्चित् प्राह मनः प्रति ।
म्रियसे साम्प्रतं5 मूढ गूढाम् एतां सुधां पिब ॥४॥

इदानीं प्रकृतम् आरभते—वृन्दारण्य इति । वृन्दा-नाम्नी वन-देवी राधा-कृष्ण-विलास-सहचरी तयाध्युषितम् अरण्यं राधा-कृष्ण-रास-रङ्ग-भूमिः, तस्मिन् बहु-कालावस्थानात् जरन्, अर्थात् परिणत-बुद्धिः निष्कर्ष-ग्रहण-पटुः । अरण्ये अपर-पुरुष-दर्शनाभावात् कम् उपदिशेत् हितम् ? ज्ञात-तत्त्वस्यानुपदेशात् ज्ञानिनो गौरवापलापोऽपि भवति । उक्तं च भागवते—सरस्वती ज्ञान-खले यथा सती [भा।पु। १०.२.१९] इति गौरवापलाप-भीतस् तथा-भूतः कश्चिज् जीवः अरण्यं परित्यज्य देशान्तरं गत्वा स्वाभीष्टं साधयितुम् असमर्थ इति सूचितम् । बहु-विचिन्त्योपदेश-पात्रम् उपलभ्य कथयति—अहह मत्-सन्निधाने वराकोऽयं सङ्कल्पस् तिष्ठति । अयं हि नित्यं माम् आश्रितः, मां विना अन्यन् न जानाति, तस्यैवोपकारो भवतु इति तदाह—मनः प्रति । मनस् तु सङ्कल्प-विकल्पात्मकम् अन्तः-करणम् ।

आहूयोपदिशति—म्रियसे इति । रे चञ्चल ! रे स्व-मार्ग-कण्टक-दायिन् मूर्ख ! तुभ्यं तु मया प्राग् एवैषा सुधा दत्ता, कथं हत-भाग्येन छन्न-मतिना त्वयैषा न पीता ? मरिष्यस्य् एव, त्वत्-साहचर्याद् अहम् अपि । श्रुता न पुराण-वार्ता ? प्राकृत-सुधार्थम् अपि देवासुरैः बहु क्लिष्टं, त्वं तु मत्तोऽनायासेनैवाप्राकृतां तां प्राप्तवान् ।

गूढाम् इति । अहं हि श्रीमतो बलवतो गरुडाद् अपि क्लेशं समनुभूय सन्तप्त-सुधांशु-मयात् कस्माच्चित् मनसः सुगुप्ताम् एताम् आहृतवान्, इदानीं त्वद्-अपराधम् अहं क्षमे । अतो विलम्बं मा कुरु, पिब ! सुधासौ सुधी-ज्ञेयातः कविना विशेषेण न कथितं, जानाति नित्य-सहचरः श्रोता ॥४॥

विश्वास-प्रस्तुतिः

तां पिबन्न् एव हे स्वान्त स्वं च गोकुल-सङ्गतम् ।
सेवां च वाञ्छितां काञ्चिद् भाव-भेदेन भावय ॥५॥

मूलम्

तां पिबन्न् एव हे स्वान्त स्वं च गोकुल-सङ्गतम् ।
सेवां च वाञ्छितां काञ्चिद् भाव-भेदेन भावय ॥५॥

ननु पानेनैवालं भविष्यति किं ? न यथा आसव-सेवी पानानन्तरं सुमधुर-सङ्गीत-सेवनं मधुर-रस-भावनां च करोति, तथा त्वम् अपि मत्ततां मादकोपयोगि-भोगेन यथेष्टं वर्धय आसव-सेविवत् । अरे रे ! तदा ते भुक्ति-मुक्ती कर-तल-गत एवेति विद्धि । भो महोदय ! किम् अहं करिष्याम्य् अस्थिर-मतिर् मनसा पृष्टः प्राह तां पिबन्न् इति । भावना-मात्रेणैवेष्ट-सिद्धिस् तव केनापि काय-कृत-व्यापारेण विनापि, यथा भोगी विचित्रासनासीनः सन् आत्मानं भोगिनं भावयति, तथा त्वम् अप्य् आत्मानं गोकुल-रूप-परार्ध्यासनासन्नं भोगिनं भावय । भाव-भेदेन वाञ्छितां सेवाम् उपासनां च भावय ॥५॥

विश्वास-प्रस्तुतिः

मङ्गलः सर्व-लोकानां गोप-क्षौणीभृद्-अङ्गजः ।
भव्यं पल्लवयन् पायाद् वल्लवी-जन-वल्लभः ॥६॥

मूलम्

मङ्गलः सर्व-लोकानां गोप-क्षौणीभृद्-अङ्गजः ।
भव्यं पल्लवयन् पायाद् वल्लवी-जन-वल्लभः ॥६॥

ननु मम तेन किं भविष्यति ? इत्य् अत आह—मङ्गलेति । असौ गोप-क्षौणी-भृद्-अङ्गजः गोप-राजात्मजो मङ्गलः । केषां ? इत्य् अत आह—सर्व-लोकानाम् । ये तु लोचनवन्तो हिताहित-दर्शन-पटवः, तेषाम् एव सर्वेषां मङ्गलः, न त्व् अरसिकानां जड-मतीनाम् । वल्लवीनां गोपीनां प्रेयसीनां तद्-अनुगतानां च वल्लभः । भव्यं मङ्गलं पल्लवयन् वितन्वन् पायात् अव्यात् ॥६॥

विश्वास-प्रस्तुतिः

अहो बकीत्य्-आदि-कीर्तिः कृष्णस् तु भगवान् स्वयम् ।
अस्ति यस् तस्य पित्रादितया चित्राय कॢप्तवान् ॥७॥

मूलम्

अहो बकीत्य्-आदि-कीर्तिः कृष्णस् तु भगवान् स्वयम् ।
अस्ति यस् तस्य पित्रादितया चित्राय कॢप्तवान् ॥७॥

इदानीं नन्द-नन्दनस्य कीर्तिं प्रदर्शयति—अहो बकी [भा।पु। ३.२.२३]6 इति । यः पूतनाम् अपि अमृतं प्रददौ, या जिघांसयापि अमृतं लभते स्म, किम् उत सद्-इच्छया । यासौ काल-कूटं दत्त्वापि अमृतं लभते स्म, किम् उत सुखाद्यं दत्त्वा । अतस् त्वां विना अन्यं कं दयालुं व्रजेम ? तस्यैव स्वयं भगवत्त्वम् इत्य् आह—कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] । नन्व् असौ उच्छृङ्खल उत स्थिरः कथं विद्यां ? नहि नहि—श्री-कृष्णो नन्द-यशोदयोर् वात्सल्य-ममता-शृङ्खलया दृढं बद्धः पलायितुम् अक्षमः इत्य् आह—अस्ति य इत्य्-आदि ॥७॥

विश्वास-प्रस्तुतिः

स्तुतस् तद् भूरि-भाग्येति तथा चेत्थं सताम् इति ।
नेमं विरिञ्च इत्य् एवं नायं श्रिय इति व्रजः ॥८॥

मूलम्

स्तुतस् तद् भूरि-भाग्येति तथा चेत्थं सताम् इति ।
नेमं विरिञ्च इत्य् एवं नायं श्रिय इति व्रजः ॥८॥

अस्य वास-स्थल-महत्त्वं प्रदर्शयति—तद् भूरि-भाग्यं [भा।पु। १०.१४.३४]7 इति । ब्रह्मापि गोकुल-वासि-पद-रजः-साग्रहं प्रार्थयते, किम् उतान्ये ? तथा च, इत्थं सतां [भा।पु। १०.१२.११]8 इति तत्-सहचराणाम् अपि गोपालानां महत्त्वं प्रदर्शयति । गर्भ-धारिण्या यशोदाया भाग्यं प्रदर्शयति—नेमं विरिञ्च [भा।पु। १०.९.२०]9 इति । गोपीनां भाग्यम् आह—नायं श्रिय [भा।पु। १०.४७.६०]10 इति ॥८॥

विश्वास-प्रस्तुतिः

यस् तं को वाश्रयेन् नात्र क्षिताव् इन्द्रियवान् नरः ।
तस्माद् भ्रातर् निज-त्रातः स्वान्त स्वान्तस् तम् आश्रय ॥९॥

मूलम्

यस् तं को वाश्रयेन् नात्र क्षिताव् इन्द्रियवान् नरः ।
तस्माद् भ्रातर् निज-त्रातः स्वान्त स्वान्तस् तम् आश्रय ॥९॥

[त्रिभिः कुलकम्] गुणवत्तमोऽसाव् एव त्राता । यदि ते स्व-त्राणेच्छा, तर्हि तम् आश्रय । सर्वे तम् एवाश्रयन्ते । भ्रातर् इति स्नेह-सूचकं सम्बोधनम् । इति कुलकम् ॥९॥

विश्वास-प्रस्तुतिः

उपदेशं देश-रूपं मम मानय मानस ।
सुधा-धारा-धरः सोऽयं कल्पः स्यात् कल्प-भूरुहः ॥१०॥

मूलम्

उपदेशं देश-रूपं मम मानय मानस ।
सुधा-धारा-धरः सोऽयं कल्पः स्यात् कल्प-भूरुहः ॥१०॥

उपदेशम् इति । देश-रूपं देश-काल-पात्रोपयुक्तम् उपदेशं मानय शृणु इत्य् अर्थः । वक्तृ-कटूक्ति-भिन्न-सम्मानं स्नेहेन सम्बोधयति—मानस इति, परमान्तरङ्ग इत्य् अर्थः । भङ्ग्या त्वं हंस-रूपोऽसीति कथितवान्, हंसा हि मानस-चारित्वान् मानसा भवितुम् अर्हन्ति, अतो हंस-रूपी त्वम् अपि असद् हित्वा सद्-ग्रहण-पटुः । असौ सुधा-धारा-धरः सुधा-वर्षी मेघो भवति । तथात्वे वर्षणावसानेऽसारत्वं सङ्घटत इत्य् अतः पुनर् आह—कल्प-भूरुहः कल्पः कल्प-वृक्ष-सदृशः कल्प-भूरुहो हि धाराधरवत्, न क्षण-स्थायिनो भवन्ति ॥१०॥

विश्वास-प्रस्तुतिः

मूलं जन्मादि-लीलास्य स्कन्धः स्यान् नित्य-लीलता ।
शाखास् तत्-तद्-ऋतु-श्लोकाः फलं प्रेममयी स्थितिः ॥११॥

मूलम्

मूलं जन्मादि-लीलास्य स्कन्धः स्यान् नित्य-लीलता ।
शाखास् तत्-तद्-ऋतु-श्लोकाः फलं प्रेममयी स्थितिः ॥११॥

भूरुहत्वं प्रपञ्चयति—मूलं जन्मादीति, अस्य भूरुहः मूलं जन्मादि-लीला, स्कन्धः नित्य-लीलता राधा-कृष्ण-विहारः, तत्-तद्-ऋतु-श्लोकाः शाखाः, प्रेम-मयी स्थितिर् अस्तित्वं च फलं भवति, ग्रन्थस्य अभिधेयम् अभिहितम् अनेन श्लोकेन ॥११॥

—ओ)०(ओ—

जन्मादि-लीला

अथ महा-कुलकेन जन्मादि-लीला ॥

विश्वास-प्रस्तुतिः

यस् तन्त्र-मन्त्रयोर् गुप्तम् उक्तः श्री-नन्दनन्दनः ।
तद्-रूपतां निजां व्याञ्जीत् कुतश्चित् कुतुकाद् भुवि ॥१२॥

मूलम्

यस् तन्त्र-मन्त्रयोर् गुप्तम् उक्तः श्री-नन्दनन्दनः ।
तद्-रूपतां निजां व्याञ्जीत् कुतश्चित् कुतुकाद् भुवि ॥१२॥

इदानीं जन्मादि-लीलां प्रपञ्चयति—यस् तन्त्र-मन्त्रयोर् इति । यो नन्दनन्दनस् तन्त्र-मन्त्रयोर् गुप्तः, तन्त्रेषु शास्त्रेषु लुक्कायितः, मन्त्राद् बीज-नामात्मकान् मन्त्रात् मुक्तः साधक-हृदि स्फुरन्-मूर्तिर् भवति । तन्त्रश् च मन्त्रश् च तयोर् मुक्तः, उभयत्र षष्ठी सम्बन्ध-विवक्षया भृग्व्-अग्नि-पतनवत् समासः । भुवि निजां तद्-रूपतां नन्दात्मजतां व्याञ्जीत् प्रकटयामास । हेतुम् आह—कुतश्चित् कुतुकाद् इति, कौतूहल-विशेष-स्फुरणात् ॥१२॥

विश्वास-प्रस्तुतिः

“यः प्राग्” इति हि पद्याभ्यां नन्दात्मजतया स्वतः ।
वासुदेवतया कार्य-वशाद् गर्गेण निश्चितः ॥१३॥

मूलम्

“यः प्राग्” इति हि पद्याभ्यां नन्दात्मजतया स्वतः ।
वासुदेवतया कार्य-वशाद् गर्गेण निश्चितः ॥१३॥

जन्म-मूलं द्रढयति—यः प्राग् इति । हे नन्द तवायं नवीनात्मजः क्वचिद् वसुदेवात् त्वन्-मित्राज् जात [भा।पु। १०.८.१४]11 इति । गर्ग-वाक्यस्यायम् आशयः—स्वरूपतस् तु नन्दस्यैव पुत्रः । यथा कश्चिन् मायावी किम् अप्य् उद्दिश्य माया-बलेन कस्यचित् पुत्रादिर् भवति, तद्वत् कृष्णो देवकी-गर्भे वसुदेवतः प्रादुर्भूत इति ज्ञेयम् ॥१३॥

विश्वास-प्रस्तुतिः

यः श्री-नन्द-यशोदान्तर्-हृदि स्फूर्तिं गतस् ततः ।
उद्यंश् चक्रे दुग्ध-सिन्धोर् इन्दोर् जन्म-विडम्बनम् ॥१४॥

मूलम्

यः श्री-नन्द-यशोदान्तर्-हृदि स्फूर्तिं गतस् ततः ।
उद्यंश् चक्रे दुग्ध-सिन्धोर् इन्दोर् जन्म-विडम्बनम् ॥१४॥

यः श्रीति । अन्तर् हृदि मनसि, न तु प्राकृतार्भकवत् रेतो-जठरयोः, स्फूर्तिं गत इत्य् अनेन नन्दात्मजत्वस्य प्राग्-अभाव-प्रतियोगित्वं निराकृतम् । तद् एव द्रढयति चन्द्रत्वम् आरोप्य कृष्णे—उद्यन्न् इति । यथा पूर्व-सिद्धश् चन्द्रमा क्षीरोद-मथनात् प्रादुर्भूतः । विडम्बनम् अनुकरणम् ॥१४॥

विश्वास-प्रस्तुतिः

यः सर्व-र्द्धि-व्रजं नन्द-व्रजं स्वं जन्म-मात्रतः ।
रमाणां जायमानानाम् आरामं धाम निर्ममे ॥१५॥

मूलम्

यः सर्व-र्द्धि-व्रजं नन्द-व्रजं स्वं जन्म-मात्रतः ।
रमाणां जायमानानाम् आरामं धाम निर्ममे ॥१५॥

इदानीं तद्-धाम्नः प्रमोद-कानन-मण्डितत्वं वर्णयति । यः जन्म-मात्रतः प्रादुर्भाव-क्षणत एव, नन्द-व्रजः नन्दाध्युषितो व्रजः, मथुरा-सन्निहित-जनपदः । तस्मिन् जनपदे नन्दादीनां गोपानां गोष्ठम् आसीत्, तेनाद्यापि असौ जनपदो व्रज इति नाम्ना ख्यातः । व्रज-शब्दो गोष्ठ-वाच्य् अपि—गोष्ठाऽध्व-निवहा व्रजाः इत्य् अमरः । तं स्वीयं सर्व-र्द्धि-व्रजं सर्व-सम्पत्ति-युक्तं निर्ममे ।

तथा रमाणां श्री-राधायाः तत्-सखीनाम् अन्यासां तत्-प्रेयसीनाम् अपि जायमानानाम् आरामं क्रीडा-स्थानं धाम वेश्म निर्ममे निर्मितवान् इत्य् अनेन प्रेयसीनां जन्म तु कृष्ण-जन्मतः पश्चाद् एव इति ज्ञेयम् । हेत्व्-अर्थे पञ्चम्यां –तस्

राज-पुत्रे नव-यौवनोन्मुखे सति अनादिष्टा अपि किङ्करास् तद्-विलास-हर्म्यं रम्योद्यानं च निर्मिमते, तथा कृष्णे ब्रह्माण्ड-राज-चक्रवर्तिनि प्रादुर्भूते लोक-पाला व्रज-भुवं सम्पत्तिभिः केलि-कुञ्जैः फल-पुष्प-पुरैः पादपैर् लताभिश् च अत्यर्थं भूषितां चक्रुः ॥१६॥

विश्वास-प्रस्तुतिः

यः स्व-माधुर्य-पीयूषं सर्वत्र12 परिवेशयन् ।
जिगाय मोहिनी-रूपं क्षीर-नीरधि-तीरगम् ॥१६॥

मूलम्

यः स्व-माधुर्य-पीयूषं सर्वत्र12 परिवेशयन् ।
जिगाय मोहिनी-रूपं क्षीर-नीरधि-तीरगम् ॥१६॥

यः स्व-माधुर्य इति । यः स्व-माधुर्यम् एव पीयूषं सर्वत्र परिवेशयन् विभजन् क्षीर-नीरधि-तीरगं दुग्ध-समुद्र-तटस्थं मोहिनी-रूपं मायिनी-मूर्तिं जिगाय जितवान् ॥१६॥

विश्वास-प्रस्तुतिः

यः कृपां जन्मना व्यञ्जन् पूतनाम् अपि पूतताम् ।
नीतां धात्री-गतिं स्फीतां चाकार्षीन् नूतनार्भकः ॥१७॥13 यः कोमल-पदाग्रेण शकटं तद् विशङ्कटम् ।
स्व-ज्योत्स्नावरणं मत्वा चिक्षेपाक्षेपवान् इव ॥१८॥

मूलम्

यः कृपां जन्मना व्यञ्जन् पूतनाम् अपि पूतताम् ।
नीतां धात्री-गतिं स्फीतां चाकार्षीन् नूतनार्भकः ॥१७॥13 यः कोमल-पदाग्रेण शकटं तद् विशङ्कटम् ।
स्व-ज्योत्स्नावरणं मत्वा चिक्षेपाक्षेपवान् इव ॥१८॥

यः कोमालेति । यः कोमल-पदाग्रेण मृदु-चरणाग्रेण स्व-ज्योत्स्नावरणं मत्वा अनेन शकटेन मम ज्योतिर् आव्रियते इति मत्वा, आक्षेपवान् इव विशङ्कटम् अतिबृहत् शकटं वृष-वाह्यमानं पदा चिक्षेप दूरं प्रापयामास इति ॥१८॥

विश्वास-प्रस्तुतिः

यः पूजित-पद-क्षेप-कूजित-स्मित-रोचिषाम् ।
शोभया लोभयामास बालिकाः कुल-पालिकाः ॥१९॥

मूलम्

यः पूजित-पद-क्षेप-कूजित-स्मित-रोचिषाम् ।
शोभया लोभयामास बालिकाः कुल-पालिकाः ॥१९॥

यः पूजित इति । यः पूजित-पद-क्षेपो मनोहर-चरण-चालनं, कूजितं कण्ठ-ध्वनिः, स्मितम् इषद्-धास्यं, रोचिः कान्तिः, एतेषां शोभया लावण्येन कुल-पालिकाः कुलं पालयन्ति याः, ता बालिकाः कन्यकाः कुलवतीर् लोभयामास । कृष्णस्य पूजित-पद-क्षेपादि-शोभया जातानुरागास् ता अभवन् इत्य् अर्थः ॥१९॥

विश्वास-प्रस्तुतिः

यः स्व-नामाद्यम् आसाद्य गर्गाद् वर्गान् निजान् अनु ।
हर्षं ववर्ष न्यग् जल्पन्न् ओम् इत्थं सोमजिन्-मुखः ॥२०॥

मूलम्

यः स्व-नामाद्यम् आसाद्य गर्गाद् वर्गान् निजान् अनु ।
हर्षं ववर्ष न्यग् जल्पन्न् ओम् इत्थं सोमजिन्-मुखः ॥२०॥

यः स्व-नामाद्यम् इति । यः श्री-कृष्णः गर्गात् यदु-पुरोहितात् स्व-नामाद्यं स्व-नाम-कारणम् आसाद्य श्रुत्वा अनु पश्चात् सोमजिन्-मुखः मुख-शोभया चन्द्रम् अपि जयति चन्द्रजिद्-वदनः सन्, “ओम् इत्थम्” इति न्यग् जल्पन् भङ्ग्या कथयन् निजान् वर्गान् आत्मीयान् हर्षं ववर्ष ॥२०॥

विश्वास-प्रस्तुतिः

यस् तृणावर्तम् आसाद्य सद्यः संवर्त-वर्तनम् ।
संवर्तयंस् तम् आनिन्ये विपरीत-परीतताम् ॥२१॥

मूलम्

यस् तृणावर्तम् आसाद्य सद्यः संवर्त-वर्तनम् ।
संवर्तयंस् तम् आनिन्ये विपरीत-परीतताम् ॥२१॥

यस् तृणावर्त इति । यः संवर्त-वर्तनं “घूर्णी” इति ख्यातिं गच्छन्तं तृणावर्तं कञ्चिद् असुरं संवर्तयन् भ्रामयन् कण्ठे गृहीत्वा बलात् परावर्त्य विपरीत-परीततां ऊर्ध्व-मुखत्वेन शयानताम् आनिन्ये आनीतवान् ॥२१॥

विश्वास-प्रस्तुतिः

यः श्री-रामं निजारामं सङ्गच्छन्न् अच्छ-खेलया ।
बालान् आनन्दयन् नन्द-राज-केशरि-नन्दनः ॥२२॥

मूलम्

यः श्री-रामं निजारामं सङ्गच्छन्न् अच्छ-खेलया ।
बालान् आनन्दयन् नन्द-राज-केशरि-नन्दनः ॥२२॥

यः श्री-रामम् इति । यः निजारामं निज-विश्रामालय-स्वरूपं श्री-रामं श्री-बलदेवं सङ्गच्छन् संव्रजन् नन्द-राज-केशरि-नन्दनः नन्द एव राज-केशरी राज-सिंहः, तस्य नन्दनः पुत्रः बालान् निज-सहचरान् अच्छ-खेलया मनोरम-क्रीडया आनन्दयत् प्रमोदितवान् ॥२२॥

विश्वास-प्रस्तुतिः

यः पुण्ड्रं रोचनारुच्यं कञ्चुकं काञ्चन-प्रभम् ।
दधन् मातुस् तत् तदासीद् उत्सङ्गासी यद् आजनि ॥२३॥

मूलम्

यः पुण्ड्रं रोचनारुच्यं कञ्चुकं काञ्चन-प्रभम् ।
दधन् मातुस् तत् तदासीद् उत्सङ्गासी यद् आजनि ॥२३॥

यः पुण्ड्रम् इति । नन्दनन्दनः यदा मातुर् उत्सङ्गासी क्रोड-शायी अजनि, तदा रोचनारुच्यं पुण्ड्रं गोरोचन-निर्मितं तिलकं काञ्चन-प्रभं सुवर्ण-वर्णं कञ्चुकं च अङ्गावरणं दधत् आसीत् ॥२२॥

विश्वास-प्रस्तुतिः

यः कुर्वन् कर्दम-क्रीडां निर्व्याजम् अनया धृतः ।
द्वयोः सुखेन दुःखेन स्निग्धान् दिग्धान् विनिर्ममे ॥२४॥

मूलम्

यः कुर्वन् कर्दम-क्रीडां निर्व्याजम् अनया धृतः ।
द्वयोः सुखेन दुःखेन स्निग्धान् दिग्धान् विनिर्ममे ॥२४॥

यः कुर्वन्न् इति । यः कर्दम-क्रीडां कर्दमेषु पङ्केषु क्रीडां वितन्वन् अनया यशोदया धृतः । निर्व्याजं निश्छलं, “अरे चपल ! कथं पङ्के क्रीडसि ?” इत्य् उक्त्वा बलाद् गृहीतः सन् द्वयोः कर्दम-क्रीडा-धृत्योः आत्मीयान् अयं जनन्या धृतः । सुचञ्चल इति सुखेन हेतुना स्निग्धान् स्नेह-पूर्णान् दुःखेन च दिग्धान् । अहह ! दिव्य-लावण्यवान् कर्दम-लिप्त इति दुःखेन व्यथितान् विनिर्ममे कृतवान् इति ॥२३॥

विश्वास-प्रस्तुतिः

यः समं सहजातेन रिङ्गन्न् अङ्गण-कर्दमे ।
किञ्चित् कातर-धीः पश्यन् मातरं द्रुतम् ईयिवान्14 ॥२५॥

मूलम्

यः समं सहजातेन रिङ्गन्न् अङ्गण-कर्दमे ।
किञ्चित् कातर-धीः पश्यन् मातरं द्रुतम् ईयिवान्14 ॥२५॥

यः सहजातेण बलदेवेन गो-मुत्र-गोमय-दिग्धे चत्वरे अङ्गन-कर्दमे रिङ्गन् क्रीदन् किञ्चित् अपरिचितं सत्त्वं पश्यन् अवलोकयन् भीतः सन् मातरं यशोदां द्रुतम् इयिवान् गतवान्, इ-धातोः क्व नु स्वभावोक्तिर् अत्र ॥२४॥

विश्वास-प्रस्तुतिः

यस् तयालिङ्गितः सास्र-स्मितं स्तन्यम् अनन्य-धीः ।
अपायि सुष्ठु चाप्यायि स्मितं बिभ्रद् उदैक्षि च ॥२६॥

मूलम्

यस् तयालिङ्गितः सास्र-स्मितं स्तन्यम् अनन्य-धीः ।
अपायि सुष्ठु चाप्यायि स्मितं बिभ्रद् उदैक्षि च ॥२६॥

यस् तया यशोदया आलिङ्गितः सन् सास्र-स्मितं अश्रु-हास्य-सहितं यथा स्यात्, तथा अनन्य-धीः अनन्यासक्तश् च सन् स्तन्यं स्तन-दुग्धं अपायि पयितः, आप्यायि प्रीणितश् च । ततः स्मितं बिभ्रत् ईषद् हसन् उदैक्षि दृष्टश् च ॥२६॥

विश्वास-प्रस्तुतिः

यस् तदा मातुर् आनिन्ये सर्वं विस्मृति-विस्मृतम् ।
वदन्न् इव स15सम्मुग्ध-बाल-सिंहावलोकनः ॥२७॥

मूलम्

यस् तदा मातुर् आनिन्ये सर्वं विस्मृति-विस्मृतम् ।
वदन्न् इव स15सम्मुग्ध-बाल-सिंहावलोकनः ॥२७॥

तदा बाल्यावस्थायां यः वदन्न् इव बाल्य-मञ्जु-ध्वनिं कुर्वन् मातुर् जनन्याः सर्वं व्यापारं विस्मृति-विस्मृतम् अत्यन्त-विस्मृतिम् आनिन्ये । असौ किम्-भूतः ? बाल-सिंहावलोकनः सुसम्मुग्धस्य चाञ्चल्य-गाम्भीर्यवत्त्वेन अतिमनोहरस्य बाल-सिंहस्य अवलोकनवत् अवलोकनं यस्य इति । अल्प-वपुर् अपि तीव्र-तेजो-व्यञ्जक-नयनो बाल-सिंहो भवति ॥२७॥

विश्वास-प्रस्तुतिः

यस् तदा मृत्तिकां भक्षन्न् अलक्ष्यम् अनया धृतः ।
दयया किं भयाद् अस्यास् त्रातः स्राग् योग-मायया ॥२८॥

मूलम्

यस् तदा मृत्तिकां भक्षन्न् अलक्ष्यम् अनया धृतः ।
दयया किं भयाद् अस्यास् त्रातः स्राग् योग-मायया ॥२८॥

यस् तद् एति । यस् तदा बाल्ये मृत्तिकां भक्षन् बाल-स्वभावात्, अनया कौतुकावेशेन यशोदया धृतः, “अरे रे दुर्विनीत-पुत्र ! मद्-गृहे किं नवनीतादिकं नास्ति यत् त्वया मृत्तिका भक्ष्यते ?” इति विचिन्त्य अलक्ष्यं यथा स्यात् तथा धृतः । सुतरां भीतः, “माता मे किं विधास्यति ?” इत्य् अस्याः स्व-मातुर् भयात् स्व-प्रभुं कातरं दृष्ट्वा योगमायया निज-शक्त्या स्राग् झटिति दयया, “किं नहि नह्य् अयं मे सेवावसरः ?” इति श्रद्धया विचिन्त्य त्रातो रक्षितः, मुख-गह्वरे मृद्-भक्षण-चिह्नम् अपलाप्य वैपरीत्येन जगत् तत्र तस्यै प्रदर्शितम् इति भावः ॥२८॥

विश्वास-प्रस्तुतिः

यः श्री-रामान्वयी कामान् ननाट सह-पाटवम्16
वृद्धानां सुखम् ऋद्धानां कुर्वाणस् ताल-पालनम् ॥२९॥

मूलम्

यः श्री-रामान्वयी कामान् ननाट सह-पाटवम्16
वृद्धानां सुखम् ऋद्धानां कुर्वाणस् ताल-पालनम् ॥२९॥

श्री-रामेन श्री-बलदेवेन अन्वयः संयोगः श्री-रामान्वयः, तद् विद्यते यस्य स श्री-रामान्वयी, अस्त्य् अर्थ इन् । बलदेव-संयुक्तः सुखम् ऋद्धानां मूल्यवत् खाद्य-प्रदानोत्सुकानां वृद्धानां गोपानां गोपीनां च ताल-पालनं कुर्वाणः तालानुयायी भवन् सह-पाटवं पाटवेन नैपुण्येन सह वर्तमानं यथा स्यात्, तथा सह-पाटवं । सहः सो वा इति विकल्पात्, सहो न स इति कामं पर्याप्तं ननाट ननर्त ॥२९॥

विश्वास-प्रस्तुतिः

यः क्रीणन् कर-विभ्रष्ट-मूल्यत्वेऽप्य् अमितं फलम् ।
फलान्य् अनन्य-लभ्यानि ददे विक्रीणतीं प्रति ॥३०॥

मूलम्

यः क्रीणन् कर-विभ्रष्ट-मूल्यत्वेऽप्य् अमितं फलम् ।
फलान्य् अनन्य-लभ्यानि ददे विक्रीणतीं प्रति ॥३०॥

यः कर-विभ्रष्ट-मूल्येन धान्येन अमितं प्रचुरं फलं क्रीणन् विक्रीणतीं प्रति अनन्य-लभ्यानि फलानि ददे दत्तवान्, स्वयं प्राकृतानि फलानि क्रीत्वा धान्येन तस्यै बहु-मूल्यानि रत्नानि पारितोषिकत्वेन ददौ, एतादृग् दयालुः पर-मर्म-ग्रही को ह्य् अस्ति जगति ? इति भावः ॥३०॥

विश्वास-प्रस्तुतिः

यस् तर्णकान् पुरा मुञ्चन्न् अञ्चन् बाल-बलान्वितः ।
दोहानुकरणं कुर्वन् सुख-दोहाय कॢप्तवान् ॥३१॥

मूलम्

यस् तर्णकान् पुरा मुञ्चन्न् अञ्चन् बाल-बलान्वितः ।
दोहानुकरणं कुर्वन् सुख-दोहाय कॢप्तवान् ॥३१॥

यः पुरा अग्रे तर्णकान् वत्सान् मुञ्चन् बन्धनात् शिथिलयन् बाल-बलान्वितः बालैः सह-चरैः बलेन अग्रजेन बलदेवेन च अन्वितः संयुक्तो दोहानुकरणं कुर्वन् सुख-दोहाय कॢप्तवान् सर्वेषां सुखम् उत्पादितवान् इत्य् अर्थः ॥३१॥

विश्वास-प्रस्तुतिः

यः कर्षन्न् अपि वत्सस्य पुच्छं सङ्कर्षणान्वितः ।
तेन कर्षं व्रजन् भ्रातृ-भार्याभिः पर्यहस्यत ॥३२॥

मूलम्

यः कर्षन्न् अपि वत्सस्य पुच्छं सङ्कर्षणान्वितः ।
तेन कर्षं व्रजन् भ्रातृ-भार्याभिः पर्यहस्यत ॥३२॥

यः सङ्कर्षणान्वितः सङ्कर्षणेन बलदेवेन अन्वितो युक्तः सन् वत्सस्य पुच्छं लाङ्गुलं कर्षन् पुनस् तेन वत्सेनापि कर्षम् आकर्षणं व्रजन् प्राप्नुवन् भ्रातृ-भार्याभिर् उपहास-चतुराभिः पर्यहस्यत, “देवर! त्वद्-अर्थं गोपराजेन रथाश्वादि-यानं न क्रेयम्” इति भावः ॥३१॥

विश्वास-प्रस्तुतिः

यः कुर्वन्न् अपि गव्यानां चौर्यं भव्याय दिद्युते ।
यस्य ताभिर् विवादश् च सुख-संवाद-सिद्धये ॥३३॥

मूलम्

यः कुर्वन्न् अपि गव्यानां चौर्यं भव्याय दिद्युते ।
यस्य ताभिर् विवादश् च सुख-संवाद-सिद्धये ॥३३॥

यो गव्यानां नवनीतादीनां चौर्यं कुर्वन्न् अपि भव्याय दिद्युते साधुवद् अदृश्यत इत्य् अर्थः । कृष्णेन तासां गोपीनां नवनीतादिके हृतेऽपि गोपानां गोपीनां च परं सुखम् अजायत । तर्हि कथं कृष्णेन तासां गोपीनां नवनीतादि-चौर्यार्थं विवादोऽभूत् ? इत्य् आह—ताभिर् गोपीभिर् यस्य कृष्णस्य विवादः कलहः सुख-संवाद-सिद्धये सुखेन आह्लादेन सह संवादो वादानुवादः, तस्य सिद्धये सम्पादनाय अभूत् । तासां तु कृष्णेन साकं वादानुवादे प्रबल-लालसा आसीत्, नवनीतादि-चौर्य-जन्य-विवादेन तु लालसा फलवती बभूव इति ज्ञेयं ॥३३॥

विश्वास-प्रस्तुतिः

यः स्वं दामोदरं शृण्वन् सामोद-व्रीडम् अञ्चति ।
प्रसू-शिक्षामय-स्नेहाद् बाल्य17स्वेहान्तराद् अपि ॥३४॥

मूलम्

यः स्वं दामोदरं शृण्वन् सामोद-व्रीडम् अञ्चति ।
प्रसू-शिक्षामय-स्नेहाद् बाल्य17स्वेहान्तराद् अपि ॥३४॥

यः सुख-प्रदात् बाल्य-स्वेहान्तरात् बाल्योचित-स्व-चेष्टान्तराद् अपि प्रसू-शिक्षा-मय-स्नेहात् जनन्य्-उपदेश-मय-स्नेहात् “यथा कर्म तथा फलम्” इत्य् अनुयायि-बन्धनात्मक-स्नेहात् स्वम् आत्मनं दामोदरं शृण्वन्, “भो दामोदर ! क्व गच्छसि? पुनः स्तेयं करिष्यसि?” इति उपहसितः सन् सामोद-व्रीडं आमोदेन आह्लादेन व्रीडया लज्जया च सह वर्तमानं यथा स्यात्, तथा आञ्चति गच्छति ॥३४॥

विश्वास-प्रस्तुतिः

यः सुष्ठु खेलयाविष्टः स्व-मात्रा प्रणयान् मुहुः ।
कृष्ण कृष्णारविन्दाक्षेत्य्18 आहूतोऽप्य् आशु नाययौ ॥३५॥

मूलम्

यः सुष्ठु खेलयाविष्टः स्व-मात्रा प्रणयान् मुहुः ।
कृष्ण कृष्णारविन्दाक्षेत्य्18 आहूतोऽप्य् आशु नाययौ ॥३५॥

यः खेलया बाल्य-क्रीडया सुष्ठु नितराम् आविष्टो निहित-चित्तः सन् स्व-मात्रा यशोदया प्रणयात् स्नेह-भरेण मुहुर् वारं वारं, “कृष्ण ! कृष्ण ! अरविन्दाक्ष !” इति स्नेह-पूर्ण-नामभिर् आहूतोऽपि आशु झटिति क्रीडा-सुखं परित्यज्य न आययौ आगवान् ॥३४॥

विश्वास-प्रस्तुतिः

यः श्री-वृन्दावनं प्राञ्चन् भ्रात्रा सह वनास्पदम् ।
हासयन् भासयामास19 मातरौ यातरौ मिथः ॥३६॥

मूलम्

यः श्री-वृन्दावनं प्राञ्चन् भ्रात्रा सह वनास्पदम् ।
हासयन् भासयामास19 मातरौ यातरौ मिथः ॥३६॥

यो वनास्पदं वन-स्थानं, श्री-वृन्दावनस्य गोष्ठ-बाहुल्यवत्त्वेऽपि वन-बाहुल्यं ज्ञेयम् । भ्रात्रा बलदेवेन सह प्राञ्चन् पर्यटन्, मिथः परस्परं यातरौ भ्रातृ-पत्न्यौ, रोहिणी-यशोदे इति ज्ञेयं, मातरौ हासयन् हास्यं कारयन्, “सखि ! अनयोः तुल्य-सत्त्वयोर् निरन्तर-भ्रमणेनापि क्षुत्-पिपासोद्रेको न भवति किं ?” इति स-हास्यं वर्णयन्त्यौ भासयामास द्योतयामास ॥३६॥

विश्वास-प्रस्तुतिः

यः श्री-वृन्दावने लब्धे प्रारब्ध-क्रीडम् अन्वभूत् ।
राम-दामादिभिः सख्यं तत्-प्रख्यं भ्रमरादिभिः ॥३७॥

मूलम्

यः श्री-वृन्दावने लब्धे प्रारब्ध-क्रीडम् अन्वभूत् ।
राम-दामादिभिः सख्यं तत्-प्रख्यं भ्रमरादिभिः ॥३७॥

यः श्री-वृन्दावने सर्व-सम्पत्ति-सुशोभिते वृन्दाधिष्ठित-वने लब्धे गते सति, रामो बलदेवः दामा श्रीदामा, ते आदी अग्रण्यौ येषां तैः सखिभिः, तत्-प्रख्यं तत्- तुल्यं भ्रमरादिभिश् च भ्रमरा आदौ येषाम् इति तैः । आदि-पदात् पशवः पक्षिणश् च । प्रारब्ध-क्रीडं प्रारब्धा क्रीडा यत्र इति तत् सख्यं अन्वभूत् अनुभूतवान् ॥३७॥

विश्वास-प्रस्तुतिः

यः श्री-रामेण तत्रापि वीक्ष्य प्रीतिम् अगात् पराम् ।
वृन्दावनं गोवर्धनं यमुना-पुलिनानि च20 ॥३८॥

मूलम्

यः श्री-रामेण तत्रापि वीक्ष्य प्रीतिम् अगात् पराम् ।
वृन्दावनं गोवर्धनं यमुना-पुलिनानि च20 ॥३८॥

यः श्री-रामेण श्री-बलदेवेन सह तत्र क्रीडा-स्थाने वृन्दावनं रम्यं काननं, गोवर्धनं तन्-नाम्ना ख्यातम् अद्रिं, यमुना-पुलिनानि यमुनां तस्याः पुलिनानि सैकतान्य् अपि वीक्ष्य आग्रहेण दृष्ट्वा परां परमां प्रीतिम् अपि अगात् गतवान् । “अहो! एतादृशी रमणीयता श्री-वैकुण्ठे श्री-कैलासादिष्व् अपि नास्ति” इति विचिन्तयन् प्रीतिमान् बभूव । “एतत् परित्यज्य क्वास्माभिर् विहर्तव्यम् ?” इति भावः ॥३८॥

विश्वास-प्रस्तुतिः

यः प्राप्त-मध्य-कौमारः पित्रा सार्धं वनं व्रजन् ।
पृच्छन् नामानि धामानि पश्यन् मुदम् अवाप्तवान् ॥३९॥

मूलम्

यः प्राप्त-मध्य-कौमारः पित्रा सार्धं वनं व्रजन् ।
पृच्छन् नामानि धामानि पश्यन् मुदम् अवाप्तवान् ॥३९॥

प्राप्त-मध्य-कौमारः प्राप्तं मध्य-कौमारं येन । असौ प्राप्त-मध्य-कौमारः चतुः-पञ्च-वर्ष-वयस्कः सन् पित्रा नन्देन सार्धं वनं व्रजन् गच्छन् नामानि, “पितः, अस्य वृक्षस्य किं नाम ? अस्य पशोः पक्षिणश् च किं नाम ? कुत्र वा तिष्ठत्य् अयम्?” एवं-प्रकारेण पृच्छन्, धामानि लता-कुञ्ज-रूपाणि च भवनानि पश्यन् मुदं हर्षम् अवाप्तवान् गतवान् ॥३८॥

विश्वास-प्रस्तुतिः

यः क्रीडन् शिशुर् अव्रीडम् अग्रजेन व्रजेन्द्रजः ।
जल्पाजल्पि मिथश् चक्रे हस्ताहस्ति पदापदि ॥४०॥

मूलम्

यः क्रीडन् शिशुर् अव्रीडम् अग्रजेन व्रजेन्द्रजः ।
जल्पाजल्पि मिथश् चक्रे हस्ताहस्ति पदापदि ॥४०॥

यो व्रजेन्द्रजः, व्रजेन्द्रो नन्दः, तस्माज् जायते यः, स व्रजेन्द्रजः । शिशुर् बालकः अग्रजेन श्री-बलदेवेन अव्रीडम् असङ्कोचम्, “अयं मम अग्रजो मान्यं । कथं माननीयेन अनेन साकं विश्रम्भं क्रीडितव्यं मया ?” इति मनसि न गणयित्वा, जल्पाजल्पि जल्पेन जल्पेन यद् युद्धं प्रवृत्तं, तत् जल्पाजल्पि । हस्ताहस्ति हस्ताभ्यां हस्ताभ्यां यद् युद्धं प्रवृत्तं, तत् हस्ताहस्ति । पदापदि पद्भ्यां पद्भ्यां यद् युद्धं प्रवृत्तं, तत् पदापदि क्रीडन् मुदं हर्षम् अवाप्तवान् इति पूर्वेनान्वयः ॥४०॥

विश्वास-प्रस्तुतिः

यश् चारयन् निजान् वत्सान् वत्सकं नाम दानवम् ।
बकं बकवद्-आकारं दारयन् मुक्तम् आर्दयत् ॥४१॥

मूलम्

यश् चारयन् निजान् वत्सान् वत्सकं नाम दानवम् ।
बकं बकवद्-आकारं दारयन् मुक्तम् आर्दयत् ॥४१॥

यो निजान् वत्सान् तर्णकान् चारयन् पालयन् वर्स-रूपेण वत्स-दले समायातम् असद् अभिलाषं वत्सकं नाम दानवं, तथा बकवद्-आकारं बकम् अपि दारयन्, ईषिका-दारणवत् इति ज्ञेयं, मुक्तिं सायुज्यम् आर्दयत् प्रापयत् ॥४१॥

विश्वास-प्रस्तुतिः

यः स्वैर् विहरणं चक्रे मेषी-हरण-सञ्ज्ञितम् ।
व्योमं च व्योमतां निन्ये कुर्वन्तं प्रतिलोमताम् ॥४२॥

मूलम्

यः स्वैर् विहरणं चक्रे मेषी-हरण-सञ्ज्ञितम् ।
व्योमं च व्योमतां निन्ये कुर्वन्तं प्रतिलोमताम् ॥४२॥

यो मेषी-हरण-सञ्ज्ञितं मेषी-हरणं सञ्ज्ञा आख्या यस्य इति, तद्-ग्राम्य-जन-प्रसिद्धं विहरणं क्रीडां चक्रे, तदा प्रतिलोमतां प्रतिकुलतां कुर्वन्तम् आचरन्तं व्योमं तन्-नाम्ना ख्यातम् असुर-विशेषं व्योमतां शून्यतां निन्ये, अर्थात् मृत्यु-कवलं प्रापयामास इति भावः ॥४२॥

विश्वास-प्रस्तुतिः

यः कुर्वंस् तम् अघं खण्डं विधेर् अघम् अतः परम् ।
निन्ये स्व-ज्योतिषि प्राञ्चं तद्-अर्वाग् भक्ति-तेजसि ॥४३॥

मूलम्

यः कुर्वंस् तम् अघं खण्डं विधेर् अघम् अतः परम् ।
निन्ये स्व-ज्योतिषि प्राञ्चं तद्-अर्वाग् भक्ति-तेजसि ॥४३॥

योऽघाख्यम् असुरं सर्पाकारं खण्डं भिन्नं कुर्वन् । अतः परं विधेः स्रष्टूर् अघं पापं मायाम् खण्डं कुर्वन्, अर्थात् भिन्दन् । पूर्वोक्तं अघासुरं स्व-ज्योतिषि स्वाङ्ग-तेजसि, तद्-अर्वाक् तत्-पश्चात् प्राञ्चं प्रवीणं, अर्थात् श्री-ब्रह्माणं, भक्ति-तेजसि भक्ति-प्रभावे निन्ये प्रापितवान्, निपुणवत् यथा-योगं स्थापयामास इति भावः ॥४३॥

विश्वास-प्रस्तुतिः

यः कौमारम् अतिक्रम्य रम्य-पौगण्ड-मण्डनः ।
चक्रे गोपालतां गच्छन् लोक-पालक-पालताम् ॥४४॥

मूलम्

यः कौमारम् अतिक्रम्य रम्य-पौगण्ड-मण्डनः ।
चक्रे गोपालतां गच्छन् लोक-पालक-पालताम् ॥४४॥

यः कौमारं पञ्चमाब्दं, यथाह श्रीधर-स्वामी—

कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । कैशोरम् आपञ्चदशात् तद्-ऊर्ध्वं यौवनं स्मृतं ॥

अतिक्रम्य अतीत्य रम्य-पौगण्ड-मण्डनः रम्यं सुन्दरं पौगण्डस्य तद्-आख्यस्य वयसो मण्डनं शोभा यस्मिन् तथा-भूतः सन्, वत्स-पालतां विहाय गोपालतां गच्छन् लोक-पालक-पालतां लोक-पालका देवाः, तान् पालयति योऽसौ लोक-पालक-पालस् तस्य भावः, लोक-पाल-पालकता ताः, चक्रे कृतवान् ॥४४॥

विश्वास-प्रस्तुतिः

यः काल-कूट-निष्पिष्ट-चेतनान् व्रज-केतनान् ।
चेतयामास कृपया लोचनामृत-वृष्टिभिः ॥४५॥

मूलम्

यः काल-कूट-निष्पिष्ट-चेतनान् व्रज-केतनान् ।
चेतयामास कृपया लोचनामृत-वृष्टिभिः ॥४५॥

यः काल-कूट-निष्पिष्ट-चेतनान् काल-कूटेन हला-हलेन काल-कूटं हला-हलम् इत्य् अमरः, निष्पिष्टानि अपहृतानि चेतानि सञ्ज्ञा येषां इति तान् व्रज-केतनान् व्रज-वासिनो लोचनामृत-वृष्टिभिर् अवलोकन-कारुण्य-वारि-सर्षणैः कृपया चेतयामास ॥४५॥

विश्वास-प्रस्तुतिः

यः कालियम् अपि व्यक्तं निजाङ्घ्रि-युग-मुद्रया ।
व्यञ्जन् ममेति शरणागतान् अन्यान् अरञ्जयत् ॥४६॥

मूलम्

यः कालियम् अपि व्यक्तं निजाङ्घ्रि-युग-मुद्रया ।
व्यञ्जन् ममेति शरणागतान् अन्यान् अरञ्जयत् ॥४६॥

यः कालियं गभीर-जल-सञ्चारिणम् अपि सर्पं व्यक्तं लोक-लोचन-विषयतां प्रापयन्, निजस्य अङ्घ्रि-युगं चरण-युगलं, तस्य मुद्रया अङ्कनेन “अयं मम दासः” इति व्यञ्जन् विज्ञापयन्, अन्यान् शरणागतान् अरञ्जयत् तेषां मनस् तोषयामास । कालियोऽनिष्टम् आचर्यापि प्रभु-पाद-लाञ्छिततां प्राप, “अहो प्रभोर् एतादृशी महानुभावता” इति भक्ताश् चिन्तयामासुः ॥४६॥

विश्वास-प्रस्तुतिः

यः शुकेन व्रज-प्रेमास्पदत्वेनेत्थम् ईरितः ।
कृष्णेऽर्पितात्म-सुहृद्21 इत्य्-आदि प्रोच्य प्रशोच्य च ॥४७॥
आबाल-वृद्ध-वनिताः सर्वेऽङ्ग पशु-वृत्तयः ।
निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः ॥४८॥22

मूलम्

यः शुकेन व्रज-प्रेमास्पदत्वेनेत्थम् ईरितः ।
कृष्णेऽर्पितात्म-सुहृद्21 इत्य्-आदि प्रोच्य प्रशोच्य च ॥४७॥
आबाल-वृद्ध-वनिताः सर्वेऽङ्ग पशु-वृत्तयः ।
निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः ॥४८॥22

[महा-कुलकान्तर् युग्मकम्]

यः शुकेन कृष्णेऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा इति दशम-स्कन्ध-स्थ-षोडशाध्याये दशम-श्लोकेन प्रशोच्य शोकं प्रकाश्य प्रोच्य कथित्वा आबाल-वृद्ध-वनितास् तत्रैव स्कन्धेऽध्याये पञ्च-दश-श्लोकेन व्रज-प्रेमास्पदत्वेन इत्थम् एवं-प्रकरेण ईरितः कथितः ॥४७-४८॥

विश्वास-प्रस्तुतिः

यस् तस्मिन् सम्भ्रमे रोधान् निष्क्रान्ता23 व्रज-कन्यकाः ।
मेने ताः प्रथमं पश्यन् स्वं कृतार्थं कृताव् इह ॥४९॥

मूलम्

यस् तस्मिन् सम्भ्रमे रोधान् निष्क्रान्ता23 व्रज-कन्यकाः ।
मेने ताः प्रथमं पश्यन् स्वं कृतार्थं कृताव् इह ॥४९॥

तस्मिन् सम्भ्रमे कृष्णानुसन्धान-जनित-संवेगे रोधात् अन्तः-पुरात् व्रज-कन्यका अवरोध-वासिन्यो निष्क्रान्ता लज्जां गुरु-जन-साध्वसं च, त्यक्त्वा इति शेषः । विपत्-पाते सति मर्यादा-भङ्गो भवति इति ज्ञेयम् । यः परम-गहनाशयः श्री-कृष्णस् ता असूर्यम्पश्याः प्रथमम् आदौ पश्यन् स-कटाक्षम् इति भावः । इह कृतौ कालिय-ह्रद-प्रवेश-लीलायां स्वं कृतार्थं मेने गणयामास । एकेन साधनेन फल-द्वयम् आपादितं तेन चतूर-चूडामणिना कृष्णेन इति भावः ॥४९॥

विश्वास-प्रस्तुतिः

यस् तदा दहनं गोष्ठ-प्रेम्नाकृष्ट-विवेचनः ।
प्रेम्नस् तस्य परीक्षार्थम् इव द्राग् अपिबत् प्रभुः ॥५०॥

मूलम्

यस् तदा दहनं गोष्ठ-प्रेम्नाकृष्ट-विवेचनः ।
प्रेम्नस् तस्य परीक्षार्थम् इव द्राग् अपिबत् प्रभुः ॥५०॥

यः श्री-कृष्णो गोष्ठ-प्रेम्ना गोष्ठानां लक्षणया गोष्ठ-वासिनां प्रेम्ना अनुरागेन आकृष्ट-विवेचनः आकृष्टम् अधिकृतं विवेचनं प्रज्ञा यस्य सः, व्रज-वासिनाम् उपकारार्थं सदैव स्फुरति बुद्धिर् यस्य तथा-भूतः स इति ज्ञेयं, तस्य असमोर्ध्वस्य प्रेम्नोऽनुरागस्य परीक्षार्थम् इव आदौ दहनम् अग्निम् उत्पाद्य पश्चात् अपिबत्, माभूद् विक्लिवानाम् एतेषाम् इतः कष्टम् इति विचार्य इति शेषः । ननु कुतोऽस्य गोपाल-वालस्य एतद् योग्यत्वं ? नहि नहि असौ प्रभूः अचिन्तनीय-शक्तिर् इति ॥५०॥

विश्वास-प्रस्तुतिः

यः स्पर्शाद् अमृतीकुर्वन् विषं विषधरं च तम् ।
स्वाश्रितान् अमृतीकर्तुं कृती कैमुत्यम् ऐक्षयत् ॥५१॥

मूलम्

यः स्पर्शाद् अमृतीकुर्वन् विषं विषधरं च तम् ।
स्वाश्रितान् अमृतीकर्तुं कृती कैमुत्यम् ऐक्षयत् ॥५१॥

यः श्री-कृष्णो विषं गरलं विषधरं सर्पं च कालियं स्पर्शात् पादाम्बुज-स्पर्शात् लोचनामृत-स्पर्शाच् च अमृती-कुर्वन्न् अमृतं करोति इति । अभूत-तद्-भावे च्वि शतृ च । स्वाश्रितान् अमृती-कर्तुं सालोक्यादीन् प्रापयितुं कृती कुशलः कैमुत्यम् ऐक्षयत् अदर्शयत् ईक्षा-ञास्-तात्-घी-दिप् । ये तु विष-धराः पर-द्रोहिनः तान् अपि अमृतान् करोति, ये तु तत् पदारविन्दैक-जीवनाः तेषां किम् उत वक्तव्यम् इति भावः ॥५०॥

विश्वास-प्रस्तुतिः

यस् तु भाण्डीरम् आसाद्य मल्ल-ताण्डवम् आचरन् ।
सुभद्र-मण्डलीभद्र-भद्रवर्धन-गोभटाः ॥५२॥
यक्षेन्द्र-भट इत्य् अस्मात् एवं कॢप्त-सङ्गैः कुमारकः ।
स-वयोभिः सुखं लेभे यत्र काश्चित् कुमारिकाः ॥५३॥

मूलम्

यस् तु भाण्डीरम् आसाद्य मल्ल-ताण्डवम् आचरन् ।
सुभद्र-मण्डलीभद्र-भद्रवर्धन-गोभटाः ॥५२॥
यक्षेन्द्र-भट इत्य् अस्मात् एवं कॢप्त-सङ्गैः कुमारकः ।
स-वयोभिः सुखं लेभे यत्र काश्चित् कुमारिकाः ॥५३॥

यस् तु श्री-कृष्णो भाण्डीरम् आसाद्य भाण्डीर-नामकं वनं गत्वा। असौ किम्-भूतः ? कुमारकः अकृत-दारः, सुभद्र-मण्डलीभद्र-भद्रवर्धन-गोभट-यक्षेन्द्र इति नामभिः ख्यातैः, एवम् अन्ये बहु-सहचरा आसन् इति ज्ञेयं । कॢप्त-सङ्गैः कॢप्तः प्रसिद्धः सङ्गः साहित्यं येषां, कृष्णेन तैः स-वयोभिः समानं वयो येषां तैः, तुल्य-हायनैः मल्ल-ताण्डवं मल्ल-नृत्यं अर्थात् मल्ल-क्रीडाम् आचरन् । यत्र क्रीडा-भूमौ काश्चित् कुमारिका निम्नोल्लिखिताः ॥५१-५२॥

विश्वास-प्रस्तुतिः

गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका ।
राधानुराधा सोमाभा तारका दशमी तथा24 ॥५४॥
कौतुकाय गता यासु मल्ली मल्लीति नर्म-कृत् ।
मध्वाज्य-निभम् आस्वाद्य याभिः कॢप्तं स्म माद्यति ॥५५॥

मूलम्

गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका ।
राधानुराधा सोमाभा तारका दशमी तथा24 ॥५४॥
कौतुकाय गता यासु मल्ली मल्लीति नर्म-कृत् ।
मध्वाज्य-निभम् आस्वाद्य याभिः कॢप्तं स्म माद्यति ॥५५॥

कास् ताः ? इत्य् आह—गोपालीति । गोपाली, पालिका, धन्या, विशाखा, ध्यान-निष्ठिका, राधा, अनुराधा, सोमाभा, तारका, दशमी । एता दश समीपं कौतुकाय गताः, यासु मल्ली मल्ली इति नर्म-कृत्, “अहं मल्लः, तथा सुन्दरि ! त्वम् अपि मल्ली भव । मल्ली-मल्ल्योर् आवयोर् युद्धं भवतु” एवं-प्रकारेण कौतुकं कृतवान् कुतुकीति भावः । मध्वाज्य-निभम् इति याभिर् गोपीभिः कॢप्तं मध्वाज्य-निभं मधु-घृत-संयुक्त-खाद्य-सदृशं नर्म-वचनम् आस्वाद्य अनुभूय, अर्थात् परमादरेण श्रुत्वा माद्यति स्म मत्तो बभूव, “को नाम युवतीनां कौतुक-करं वचनं श्रुत्वा न माद्यति ?” इति भावः । पूर्ववन् महा-कुलकान्तश् चतुर्भिर् अन्वयः ॥५४-५५॥

विश्वास-प्रस्तुतिः

यः काम्ये काम्यके गत्वा सरः सागर-सन्निभम् ।
लङ्का-कल्पाकृताकल्पं नित्यं दीव्यति सङ्गिभिः ॥५६॥

मूलम्

यः काम्ये काम्यके गत्वा सरः सागर-सन्निभम् ।
लङ्का-कल्पाकृताकल्पं नित्यं दीव्यति सङ्गिभिः ॥५६॥

यः काम्य इति । यः श्री-कृष्णः काम्ये मनोहरे काम्यके काम्यकाख्ये वने सागर-सन्निभं सरः अतिप्रशस्तं जल-परिपूर्णं सरोवरं गत्वा सङ्गिभिः लङ्क-कल्प-कृता-कल्पं लङ्का-व्यवहार-सदृशः कृतः आकल्पः वेशो यस्यां क्रीडायां, तद् यथा स्यात् तथा नित्यं दीव्यति क्रीडति, कदाचित् सेतु-बन्धनं, कदाचित् लङ्का-दाहं, कदाचित् नाग-पाश-बन्धनं च अभिनीतवान् परम-कुतुकीति ॥५६॥

विश्वास-प्रस्तुतिः

यः कैशोरं ततः सज्जन् वसन्तम् इव षट्पदः ।
लोलयन्न् आत्मनश् चित्तं लोलयामास पद्मिनीः ॥५७॥

मूलम्

यः कैशोरं ततः सज्जन् वसन्तम् इव षट्पदः ।
लोलयन्न् आत्मनश् चित्तं लोलयामास पद्मिनीः ॥५७॥

यः कैशोरम् इति । ततः तद्-अनन्तरं यः षट्पदो भ्रमरो वसन्तम् इव कैशोरं सज्जन् गच्छन् आत्मनश् चित्तं लोलयन् चापलयन्, अर्थात् अस्थिर-मतिः सन्न् इत्य् अर्थः, पद्मीनीः तद्-आख्याः सुन्दरीः, भ्रमर-पक्षे कमलिनीः, लोलयामास, ता अपि अस्थिरा अकरोद् इत्य् अर्थः। यथा चञ्चलो भ्रमरः पद्मिनीश् चालयति, तद्वद् इति ज्ञेयं ॥५७॥

विश्वास-प्रस्तुतिः

यस् ता व्रज-रमा नित्य-प्रेयसीः कुतुकात्मना ।
लीला-शक्त्यान्यथा-भानं नीता गुप्तम् अरञ्जयत् ॥५८॥

मूलम्

यस् ता व्रज-रमा नित्य-प्रेयसीः कुतुकात्मना ।
लीला-शक्त्यान्यथा-भानं नीता गुप्तम् अरञ्जयत् ॥५८॥

यस् ता इति । यो नित्य-प्रेयसीः व्रज-रमा व्रज-लक्ष्मीः महा-लक्ष्मीः चिर-सिद्ध-प्रणयिनीः कुतुकात्मना कौतुक-स्वभावेन लीला-शक्त्या मायया अन्यथा-भानं पर-भार्यात्वं नीता प्रापिता । गुप्तं रहसि अरञ्जयत् रमयामास । गुप्ते हि रस-पोषणं भवतितराम् इति रस-शास्त्र-सम्मतिर् इति ॥५८॥

विश्वास-प्रस्तुतिः

यः श्री-रामेण धेनूनां रक्षायां धेनुकासुरम् ।
निघ्नन् विघ्नम् अपाकार्षीद् अकार्षीद् अभयं दिवि ॥५९॥

मूलम्

यः श्री-रामेण धेनूनां रक्षायां धेनुकासुरम् ।
निघ्नन् विघ्नम् अपाकार्षीद् अकार्षीद् अभयं दिवि ॥५९॥

यः श्री-रामेणेति । यो धेनूनां रक्षायां नियुक्तः सन् श्री-रामेण श्री-बलदेवेन धेनुकासुरं खराकारं ताल-वन-वासिनं स-परिवारं कञ्चिद् असुरं निघ्नन् विनाशयन् विघ्नं ताल-फल-भक्षणे अपाकार्षीत् दूरीचकार, दिवि स्वर्गे च अभयम् अकार्षीत् कृतवान्, स्वर्ग-वासिनो देवास् तु धेनुकासुरात् त्रस्ता आसन्, पूर्वोक्तासुरस्य वधे तेऽभयं-गता इति भावः ॥५९॥

विश्वास-प्रस्तुतिः

यश् चक्रे धेनुम् आदाय सायं व्रजम् उपागतः ।
पूर्व-रागं किशोरीणाम् अपूर्वं व्यतिवीक्षया ॥६०॥

मूलम्

यश् चक्रे धेनुम् आदाय सायं व्रजम् उपागतः ।
पूर्व-रागं किशोरीणाम् अपूर्वं व्यतिवीक्षया ॥६०॥

यश् चक्र इति । यः श्री-कृष्णः धेनुम् आदाय सायं दिनान्ते व्रजम् उपागतः सन् किशोरीणां नवानुरागवतीनां मुग्धानां व्यतिवीक्षया परस्पर-कटाक्षपातेन अपूर्वम् अनन्य-साधारणं पूर्व-रागं चक्रे कृतवान्—

श्रवणाद् दर्शणाद् वापि मिथः संरूढ-रागयोः । दशा-विशेषो यः प्राप्तः पूर्व-रागः स उच्यते ॥ इति साहित्य-दर्पणे [३.२१७] ॥६०॥

विश्वास-प्रस्तुतिः

यः पूर्वं लज्जया दूत-काम-लेखाद्य्-उपायताम् ।
विजहन् निज-नेत्रान्तं निन्ये नूतन-दूतताम् ॥६१॥

मूलम्

यः पूर्वं लज्जया दूत-काम-लेखाद्य्-उपायताम् ।
विजहन् निज-नेत्रान्तं निन्ये नूतन-दूतताम् ॥६१॥

यः पूर्वम् इति । यः श्री-कृष्णः पूर्वं लज्जया ह्रिया दूत-काम-लेखाद्य्-उपायतां विजहन् त्यजन् । यथा अनुरागी दूतं प्रस्थापयति, कम-लेखां च प्रेरयति, तथा न, किन्तु निज-नेत्रान्तं निज-नेत्र-कटाक्षं नूतन-दूततां निन्ये प्रापयामास ॥६१॥

विश्वास-प्रस्तुतिः

यस् तासु स्फुटम् आसज्य विरज्य लघु सर्वतः ।
तद्-अङ्ग-सङ्ग-भिक्षार्थं वेणु-शिक्षाम् असाधयत् ॥६२॥

मूलम्

यस् तासु स्फुटम् आसज्य विरज्य लघु सर्वतः ।
तद्-अङ्ग-सङ्ग-भिक्षार्थं वेणु-शिक्षाम् असाधयत् ॥६२॥

यः श्री-कृष्णस् तासु नव-व्रजाङ्गनासु आसज्य आसक्तो भूत्वा सर्वतः लघु क्रमशो विरज्य विरक्तो भूत्वा, तद्-अङ्ग-सङ्ग-भिक्षार्थं तासाम् अङ्ग-सङ्गः तस्य भिक्षार्थं लाभार्थं तासां मनो-हरणार्थम् इति यावत् वेणु-शिक्षाम् असाधयत् वेणु-वादनम् अभ्यस्तवान् इति भावः ॥६२॥

विश्वास-प्रस्तुतिः

यश् चेतनाचेतनालिं कर्षन्न् अप्य् आशु वेणुना ।
ताः क्रष्टुं सुष्ठु नाशक्नोद् यतस् ता लज्जया सिताः ॥६३॥

मूलम्

यश् चेतनाचेतनालिं कर्षन्न् अप्य् आशु वेणुना ।
ताः क्रष्टुं सुष्ठु नाशक्नोद् यतस् ता लज्जया सिताः ॥६३॥

यः श्री-कृष्णः वेणुना वंश्या चेतनाचेतनालिं स-चेतनाचेतन-भूत-वर्गम् आशु शीघ्रं कर्षन् स्वाभिमुखीकुर्वन्न् अपि, ता व्रज-कामिनीः व्रज-सुन्दरीः क्रष्टुं स्वाभिमुखीकर्तुं सुष्ठू न अशक्नोत्, यतस् ताः किशोर्यः लज्जया सिता बद्धाः ॥६३॥

विश्वास-प्रस्तुतिः

यः श्री-भाण्डीर-नामानं बटं शश्वद् अटन्न् अधात् ।
नाना-क्रीडां स-नीडानाम् अदभ्रं बिभ्रद् उत्सवम् ॥६४॥

मूलम्

यः श्री-भाण्डीर-नामानं बटं शश्वद् अटन्न् अधात् ।
नाना-क्रीडां स-नीडानाम् अदभ्रं बिभ्रद् उत्सवम् ॥६४॥

यः श्री-भाण्डीरेति । यः श्री-भाण्डीर-नामानं बटं शश्वत् सर्वदा अटन् भ्रमन् स-नीडानां पक्षीनाम् अदभ्रं अत्यर्थम् उत्सवं बिभ्रत् नाना-क्रीडां विविध-बाल्य-लीलाम् अधात् कृतवान् इति ॥६४॥

विश्वास-प्रस्तुतिः

यः श्रीदाम्ना सुदाम्ना च भद्रसेनार्जुनादिभिः ।
खेलाद् दम्भ-बलाच् चक्रे तत्-प्रलम्ब-प्रलम्भनम् ॥६५॥

मूलम्

यः श्रीदाम्ना सुदाम्ना च भद्रसेनार्जुनादिभिः ।
खेलाद् दम्भ-बलाच् चक्रे तत्-प्रलम्ब-प्रलम्भनम् ॥६५॥

यः श्री-दाम्नेति । यः श्रीदाम्ना तद्-आख्येन सहचरेण, सुदाम्ना भद्रसेनार्जुनादिभिश् च दम्भ-बलात् बल-प्रधानात् खेलात् तुल्य-बल-क्रीडन-विशेषाद् इति यावत्, तत्-प्रलम्ब-प्रलम्भनं प्रसिद्धस्य तद्-आख्यस्यासुरस्य प्रलम्भनं प्रवञ्चनं, चक्रे कृतवान् इति शेषः ॥६५॥

विश्वास-प्रस्तुतिः

यः प्रलम्बं लम्बमानं जीवनाद् बल-तेजसा ।
विधाय विदधे तीव्रां25 नव-शक्तिं दवीयसीम् ॥६६॥

मूलम्

यः प्रलम्बं लम्बमानं जीवनाद् बल-तेजसा ।
विधाय विदधे तीव्रां25 नव-शक्तिं दवीयसीम् ॥६६॥

यः प्रलम्बम् इति । यः श्री-कृष्णः लम्बमानं दीर्घाकारं प्रलम्बं तद्-आख्यम् असुरं बल-तेजसा बलस्य बलदेवस्य तेजसा वीर्येण जीवनाद् विधाय विमुच्य, दवीयसीं वर्धिष्ठां तीव्रां नव-शक्तिं विदधे सञ्चितवान् इत्य् अर्थः ॥६६॥

विश्वास-प्रस्तुतिः

यः कानने सुदीर्घाहे निदाघे कृत-केलिकः ।
अपराह्णे प्रेयसीनाम् आनन्दं विदधे यथा ॥६७॥

मूलम्

यः कानने सुदीर्घाहे निदाघे कृत-केलिकः ।
अपराह्णे प्रेयसीनाम् आनन्दं विदधे यथा ॥६७॥

यः कानन इति । यः श्री-कृष्णः कानने वने सुदीर्घाहे निदाघे सुदीर्घम् अहर् यस्मिन् तस्मिन् निदाघे ग्रीष्मे, ग्रीष्मे हि दिन-मान-वृद्धिर् भवति, कृत-केलिकः क्रीडा-परो बभूव। अपराह्णे प्रेयसीनां स्व-कान्तानाम् आनन्दम् आह्लादं विदधे जनयामास इति ॥६७॥

विश्वास-प्रस्तुतिः

गोपीनां परमानन्द आसीद् गोविन्द-दर्शने ।
क्षणं युग-शतम् इव यासां येन विनाभवत् ॥६८॥26

मूलम्

गोपीनां परमानन्द आसीद् गोविन्द-दर्शने ।
क्षणं युग-शतम् इव यासां येन विनाभवत् ॥६८॥26

[पूर्ववद् युग्मकम्]

गोपीनाम् इति । सायाह्ने गोविन्द-दर्शने सति गोपीनां परमानन्द आसीत्, यासां गोपीनां येन कृष्णेन विना क्षणं युग-शतम् इव अभवत् ॥६८॥

विश्वास-प्रस्तुतिः

यः सदा दृष्टि-कृद् वृष्टि-वर्षा-रूप-निशा-क्षये ।
शरदं प्रातर् आसाद्य प्रियाणाम् अहृतान्धताम् ॥७९॥

मूलम्

यः सदा दृष्टि-कृद् वृष्टि-वर्षा-रूप-निशा-क्षये ।
शरदं प्रातर् आसाद्य प्रियाणाम् अहृतान्धताम् ॥७९॥

यः सदा दृष्टीति । यः सदा सर्वदा दृष्टि-कृद् वृष्टि-वर्षा-रूप-निशा-क्षये दृष्टि-हृद् या वृष्टि-वर्षा सा एव निशा तस्याः क्षये अवसाने शरदम् एव प्रातरासाद्य प्रियाणां प्रेयसीनाम् अन्धताम् दर्शनासामर्थ्यं अहृत हृ टी तन, कृष्ण-दर्शनोत्सवो भवति इति ज्ञेयं ॥६९॥

विश्वास-प्रस्तुतिः

यः श्री-गोवर्धन-प्रेम स्व-प्रेम-धन-जीविषु ।
स्व-गोत्रेष्व् अपि सञ्चार्यान्यान् अप्य् आर्यान् अशिक्षयत् ॥७०॥

मूलम्

यः श्री-गोवर्धन-प्रेम स्व-प्रेम-धन-जीविषु ।
स्व-गोत्रेष्व् अपि सञ्चार्यान्यान् अप्य् आर्यान् अशिक्षयत् ॥७०॥

यः श्री-गोवर्धन-प्रेम इति । यः श्री-कृष्णः स्व-प्रेम-धन-जीविषु स्वस्मिन् श्री-कृष्णे प्रेमा अनुरागः, स एव धनं, तेन जीवन्ति ये, तेषु, कृष्णानुराग-मत्रम् आश्रित्य प्राणान् धारयत्सु इति भावः । स्व-गोत्रेषु स्व-वंशोद्भवेषु गोवर्धने प्रेम अनुरागं सञ्चार्य, “अयं गोवर्धनो हरि-दास-वर्यः । एतस्मिन् श्रद्धा विधेया ।” एवं-प्रकारेण इति ज्ञेयं । अन्यान् अपि आर्यान् भद्रान् अशिक्षयद् इति ॥७०॥

विश्वास-प्रस्तुतिः

यः श्री-गोवर्धनं बिभ्रच् छक्रं विभ्रष्ट-गर्वताम् ।
निन्ये गोष्ठं यद् उन्निन्ये श्रेष्ठं स्व-प्रेष्ठ-जातिषु ॥७१॥

मूलम्

यः श्री-गोवर्धनं बिभ्रच् छक्रं विभ्रष्ट-गर्वताम् ।
निन्ये गोष्ठं यद् उन्निन्ये श्रेष्ठं स्व-प्रेष्ठ-जातिषु ॥७१॥

यः श्री-गोवर्धम् इति । यः श्री-कृष्णः श्री-गोवर्धनं बिभ्रत्, करेण इति ज्ञेयं, शक्रम् इन्द्रं विभ्रष्ट-गर्वतां विभ्रष्टः पातितो गर्वः, “अहम् ईश्वरः” इत्य्-आकारस् त्व् अहङ्कारो येन स विभ्रष्ट-गर्वः, तस्य भावः, तां निन्ये प्रापयामास । किं च, गोष्ठं गोष्ठ-वासिनं स्व-प्रेष्ठ-जातिषु स्वस्य प्रेष्ठ-जातयः प्रणयास्पद-सत्त्वानि, तेषु श्रेष्ठम् उन्निन्ये, कृतवान् इति शेषः ॥७१॥

विश्वास-प्रस्तुतिः

श्री-गोविन्दतां विन्दन्न् अविन्दद् विश्व-नन्दिताम् ।
यन् मिथः शत्रु-जन्तूनां मैत्र्या व्यधित शम्भुताम् ॥७२॥

मूलम्

श्री-गोविन्दतां विन्दन्न् अविन्दद् विश्व-नन्दिताम् ।
यन् मिथः शत्रु-जन्तूनां मैत्र्या व्यधित शम्भुताम् ॥७२॥

यः श्री-गोविन्द इति । यः श्री-गोविन्दतां सुरभि-देव्या अभिषिक्तः सन् गोविन्द इति आख्यां विन्दन् गच्छन् विश्व-नन्दितां जगद्-आह्लाकताम् अविन्दत्, यद् यस्मात् शत्रु-जन्तूनाम् अहि-नकुलादीनाम् अपि मिथः परस्परं मैत्र्या मित्र-भावेन शम्भुतां सुखवत्ताम् व्यधित, वि धा टि तन् ॥७२॥

विश्वास-प्रस्तुतिः

यः पाशि-लोकाद् आनीय पितरं मातृ-जीवनम् ।
अजीवयद् व्रजं सर्वं तं विना गत-जीवनम् ॥७३॥

मूलम्

यः पाशि-लोकाद् आनीय पितरं मातृ-जीवनम् ।
अजीवयद् व्रजं सर्वं तं विना गत-जीवनम् ॥७३॥

यः श्री-कृष्णः । पाशि-लोकात् पाशी वरुणः, तस्य लोकात् भूवनात् मातृ-जीवनं मातुर् जीवनं यं विना माता अनुमृता भविष्यत्य् एव, एतादृशं पितरम् आनीय, तं नन्दं विना गत-जीवनं मातृ-प्रायं सर्वं व्रजम् अजीवयत्, जीव ञान्तात् टी दि ॥७३॥

विश्वास-प्रस्तुतिः

यः स्वानां व्रज-लोकानां हृदोकास् तान् विशोकयन् ।
तेषां स्वस्य च गोलोकं नित्य-लोकम् अलोकयत् ॥७४॥

मूलम्

यः स्वानां व्रज-लोकानां हृदोकास् तान् विशोकयन् ।
तेषां स्वस्य च गोलोकं नित्य-लोकम् अलोकयत् ॥७४॥

यः स्वानाम् इति । स्वानाम् आत्मीयानां व्रज-लोकानां हृदोकाः हृद् ओकः स्थानं यस्य स तान् व्रज-वासिनो विशोकयन् शोक-रहितान् कुर्वन् तेषां व्रज-वासिनां स्वस्य नित्य-लोकं गोलक यद् धाम वर्वर्ति सर्वोपरि आलोकयत् प्रादर्शयद् इति ॥७४॥

विश्वास-प्रस्तुतिः

यश् चित्त-वाससी नीत्वा कुमारीणां परं ददे ।
न पूर्वं येन ता बद्धाः सम्बद्धा नित्यम् आत्मनि ॥७५॥

मूलम्

यश् चित्त-वाससी नीत्वा कुमारीणां परं ददे ।
न पूर्वं येन ता बद्धाः सम्बद्धा नित्यम् आत्मनि ॥७५॥

यश् चित्त-वाससीति । यः श्री-कृष्णः कुमारीणाम् अपरिगृहीतानाम् चित्त-वाससी चित्तं च वासो वस्त्रं च, ते नीत्वा वरम् अभीष्टं परं ददे । येन श्री-कृष्णेन ताः पूर्वं बद्धा न इति काकु । इदानीं तत्त्वम् आह—अपि तु ता आत्मनि नित्यं सम्बद्धा ग्रथिता इति ॥७५॥

विश्वास-प्रस्तुतिः

यः स्व-वंशिकया मोह-बाधितां राधिकाम् अनु ।
पूर्णाः पुलिन्द्य इत्य्-आदि-वृत्तं वृत्तं विनिर्ममे ॥७६॥

मूलम्

यः स्व-वंशिकया मोह-बाधितां राधिकाम् अनु ।
पूर्णाः पुलिन्द्य इत्य्-आदि-वृत्तं वृत्तं विनिर्ममे ॥७६॥

यः स्व-वंशिकयेति । यः श्री-कृष्णः स्व-वंशिकया स्व-हस्त-मुरल्या राधिकां वृषभानु-नन्दिनीं मोह-बाधितां, “सखि ! किम् एतत् प्राणान् धारयितुं, न पारयेऽहम् [भा।पु। १०.३२.२२]27 इत्य्-आद्य्-आकारो मोहः बुद्धि-विभ्रंशः, तेन बाधितां नितरां पीडितां कृत्वा, अनु पश्चात् पुलिन्द्य अपि कृष्ण-प्रेमा-योग्या म्लेच्छ-जातीय-युवतयोऽपि कृष्ण-चरणाम्बुज-स्पृष्ट-तृण-लग्न-कुङ्कुमैः स्तन-युगं मुख-मण्डं च रञ्जयन्त्यो धन्याः, अहम् अधन्या इत्य् अर्थेन पूर्णाः पुलिन्द्य [भा।पु। १०.२१.१७]28 इत्य्-आदि-वृत्तं वृत्तान्त-संवलितं श्लोकं विनिर्ममे चकार, “अहो कृष्ण-वंशी-ध्वनि-प्राबल्यं परम-गभीराम् अपि चञ्चलयति” इति ॥७६॥

विश्वास-प्रस्तुतिः

यः सखीन् अखिलाग्रीयान् ग्रीष्मान्तः-प्रेम-सम्पदा ।
सम्मदाद् आजुहावामून् क्रमाद् एवं मुदां प्रदः ॥७७॥

मूलम्

यः सखीन् अखिलाग्रीयान् ग्रीष्मान्तः-प्रेम-सम्पदा ।
सम्मदाद् आजुहावामून् क्रमाद् एवं मुदां प्रदः ॥७७॥

यः सखीन् इति । यः श्री-कृष्णः अखिलाग्रीयान् अखिलेषु कृष्णाभीष्ट-कर्मसु अग्रीयान् अहम्-पूर्विकया गमन-शीलान् सखीन् ग्रीष्मान्तः-प्रेम-सम्पदा ग्रीष्मस्य निदाघस्य अभ्यन्तरे या प्रेम्नः सम्पत्, तया हेतौ तृतीया सम्मदाद् अनुरागात् मुदां प्रदः हर्स-प्रद सन् एवं क्रमात् अमून् आजुहाव इति ॥७७॥

विश्वास-प्रस्तुतिः

हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन ।
विशाल वृषभौजस्विन् देवप्रस्थ वरूथप29 ॥७८॥

मूलम्

हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन ।
विशाल वृषभौजस्विन् देवप्रस्थ वरूथप29 ॥७८॥

हे स्तोक-कृष्ण इति । हे स्तोक कृष्णेत्य्-आदि इति ॥७८॥

विश्वास-प्रस्तुतिः

एवम् आहूय भूयस् तान् नर्म-सुनृत-गीर्-वृतम् ।
आह वृन्दावन-स्थानां स्थावराणां वरां गतिम् ॥७९॥

मूलम्

एवम् आहूय भूयस् तान् नर्म-सुनृत-गीर्-वृतम् ।
आह वृन्दावन-स्थानां स्थावराणां वरां गतिम् ॥७९॥

[पूर्ववत् त्रिभिः]

एवम् आहूयेति । एवं-प्रकारेण तान् सखीन् आहूय सम्बोध्य नर्म-सुनृत-गीर्-वृतं नर्मनः कौतुकोक्त्या या सुनृता गीर् भाषा, तया वृतं यथा स्यात् तथा वृन्डवन-स्थानं स्थावराणाम् अचराणाम् वरां रमनीयां गतिं प्रकारम् आह ॥७९॥

विश्वास-प्रस्तुतिः

यस् तासां यज्ञ-पत्नीनां महिम-स्नेह-वृद्धये ।
बुभुक्षां सखिभिर् व्यञ्जन्न् अन्न-भिक्षां विनिर्ममे ॥८०॥

मूलम्

यस् तासां यज्ञ-पत्नीनां महिम-स्नेह-वृद्धये ।
बुभुक्षां सखिभिर् व्यञ्जन्न् अन्न-भिक्षां विनिर्ममे ॥८०॥

यस् तासाम् इति । यः श्री-कृष्णस् तासाम् अतिभाग्यवतीनां श्रीमद्-भागवत-प्रसिद्धानां यज्ञ-पत्नीनाम् ऋषि-भार्याणां महिम-स्नेह-वृद्धये महिमा महत्त्वं स्नेहश् च तयोर् वृद्धये उन्नत्यै बुभुक्षां भोजनेच्छां व्यञ्जन् प्रकाटयन् सखिभिर् अन्न-भिक्षां विनिर्ममे कृतवान् इति ॥८०॥

विश्वास-प्रस्तुतिः

यस् तत्राशोक-वन्यायां धन्यायां सखिभिः सह ।
क्रीडन् निर्वर्णितस् ताभिः श्यामम् इत्य्-आदि30 वर्णितः ॥८१॥

मूलम्

यस् तत्राशोक-वन्यायां धन्यायां सखिभिः सह ।
क्रीडन् निर्वर्णितस् ताभिः श्यामम् इत्य्-आदि30 वर्णितः ॥८१॥

यस् तत्राशोक इति । यस् तत्र धन्यायां प्रसंसार्हायाम् अशोक-वन्यायाम् अशोक-कानने सखिभिः सहचरैः क्रीडन् निर्वर्णितः, यतः ताभिर् यज्ञ-पत्नीभिः श्यामं हिरण्य-परिधिम् [भा।पु। १०.२३.२२] इत्य्-आद्य्-आकारेण वर्णित इति ॥८१॥

विश्वास-प्रस्तुतिः

यः सदा नर्म-शर्मार्थी मधुमङ्गल-नामिनम् ।
नर्म-मन्त्रिणम् आसज्य भोज्यन् मित्राण्य् अरञ्जयत् ॥८२॥

मूलम्

यः सदा नर्म-शर्मार्थी मधुमङ्गल-नामिनम् ।
नर्म-मन्त्रिणम् आसज्य भोज्यन् मित्राण्य् अरञ्जयत् ॥८२॥

यः सदा नर्मेति । यः श्री-कृष्णः सदा नर्म-शर्मार्थी नर्म कौतुकम् एव शर्म सुखं, तस्य अर्थी याचकः, सन् मधुमङ्गल-नामिनं मधुमङ्गल-नाम विद्यते यस्य स, तं अस्त्य् अर्थे इन्, नर्म-मन्त्रिणं कौतुक-सचिवम् आसज्य भुञ्जन् मित्राणि सखीन् अरञ्जयत् तर्पितवान् इति ॥८२॥

विश्वास-प्रस्तुतिः

यः स्व-जीवन-जीवानां चातकीनाम् इवाम्बुदः ।
स्व-जीवनेन तादात्म्यम् अकरोद् व्रज-सुभ्रुवाम् ॥८३॥

मूलम्

यः स्व-जीवन-जीवानां चातकीनाम् इवाम्बुदः ।
स्व-जीवनेन तादात्म्यम् अकरोद् व्रज-सुभ्रुवाम् ॥८३॥

यः स्व-जीवन-जीवानाम् इति । चातकीनां मेघाम्बूपरि पक्षि-विशेषाणाम् अम्बुदो मेघ इव स्व-जीवन-जीवानाम् स्वस्य कृष्णस्य जीवनेन “अन्यत्र जलेन” जीवो यासां तासां व्रज-सुभ्रुवां व्रज-सुन्दरीणां स्व-जीवनेन स्वात्मना तादात्म्यं स्वत्त्वैक्यम् अकरोत् कृतवान् नायक-नायिकयोर् एक-प्राणताभूद् इति ज्ञेयं ॥८३॥

विश्वास-प्रस्तुतिः

यः परेषां ह्रेपणतां शक्ति-सङ्ख्याल्पतां विदन् ।
गुप्तागण्य-स्व-कान्तासु वंशी-दूतीम् अमन्यत ॥८४॥

मूलम्

यः परेषां ह्रेपणतां शक्ति-सङ्ख्याल्पतां विदन् ।
गुप्तागण्य-स्व-कान्तासु वंशी-दूतीम् अमन्यत ॥८४॥

यः परेषाम् इति । यः श्री-कृष्णः परेषां अन्येषां जन्तूनां दौत्य-कार्ये चिन्त्यमानानां प्राणिनां ह्रेपणतां लज्जा-जनकतां विदन्, “अपर-दूत-प्रेषणे तासां लज्जया भवितव्यम् इति तासां परम्-गहनाशयानां चित्त-द्रवी-करणे अन्यस्य प्राकृत-दूतस्य का शक्तिः ? असङ्ख्येयाश् च मत्-प्रेयस्यः तत्-परिमिता दूता अपि कथं सम्भवेयुः ?” इत्य् आशयवान् शक्तिश् च सङ्ख्या च तयोर् अल्पतां विदन् जानन् । गुप्तागण्य-स्व-कान्तासु गुप्ता परम-रहसि वर्तमाना अगण्या अपरिमेया याः स्व-कान्ताः पर-परिणीता अपि स्वस्य कान्ता वल्लभाः, तासु वशीकृताम् दौत्य-कर्मणि सुदक्षां वायौ विहरण-शीलाम् अन्यैः सर्वथालक्ष्याम् वंशी-दुतीम् अमन्यत, “इयम् एव मत्-कर्म-साधन-निपूणा मत्-सङ्गिनी परम-रमणीया गोपी-मनो-हर्म्यं पश्यतु, कृतार्था भवतु, यत इयं मत्-सेविका इत्य् आशयेन तां वंशी-दूतीम् एव प्रैरिरद् (?) इति ॥८४॥

विश्वास-प्रस्तुतिः

यश् चिराद् एव मुरली-शिक्षायां वीक्ष्य पूर्णताम् ।
तयासाद्य-प्रियास् तूर्णं पूर्णं मेने स्वम् अञ्जसा ॥८५॥

मूलम्

यश् चिराद् एव मुरली-शिक्षायां वीक्ष्य पूर्णताम् ।
तयासाद्य-प्रियास् तूर्णं पूर्णं मेने स्वम् अञ्जसा ॥८५॥

यः श्री-कृष्णः चिराद् एव बहु-कालेन बह्व्-आयासेन मुरली-शिक्षायां पूर्णतां सफलतां वीक्ष्य, तया मुरल्या करणेन प्रिया गोपीस् तूर्णम् आसाद्य स्वम् आत्मनं अञ्जसा सुखेन पूर्णं मेने गणितवान् इति ॥८५॥

विश्वास-प्रस्तुतिः

यस् त्याग-व्याज-भृन् नर्म व्याजहार प्रियाः प्रति ।
प्रतिनर्म प्रिया-वृन्दाद् विन्दन् शर्मान्व् अविन्दत ॥८६॥

मूलम्

यस् त्याग-व्याज-भृन् नर्म व्याजहार प्रियाः प्रति ।
प्रतिनर्म प्रिया-वृन्दाद् विन्दन् शर्मान्व् अविन्दत ॥८६॥

यस् त्याग इति । यः श्री-कृष्णः प्रियाः प्रति रासारम्भे वंशी-रवाकृष्ट-गोपीः प्रति त्याग-व्याज-भृत्, “हे कुल-नार्यः ! यूयं कथम् एतस्मिन् निर्जने कानने रात्रा आयाताः ? युष्मान् न दृष्ट्वा पत्य्-आदयो युष्माकम् अवश्यं चिन्तिता भविष्यन्ति । किं च, पर-पुरुष-संसर्ग ऐहिक-पारत्रिकामङ्गल-जनकः” इत्य्-आद्य्-आकारेण त्याग-व्याज-भृत् छलेन त्याग-सूचक-वचन-प्रयोक्त्या कुतुकी । प्रिया-वृन्दात् प्रेयसी-वर्गात् प्रतिनर्म प्रत्युत्तर-नर्म-वचनं विन्दन् श्रुत्वा, अनु पश्चात् शर्म अविन्दत अन्वभवद् इति ॥८६॥

विश्वास-प्रस्तुतिः

यः सदा योग-मायाख्यां शक्तिम् आसक्तितः श्रितः ।
पौर्णमासीति नामासीद् व्रजे यासीत् तपस्विनी ॥८७॥

मूलम्

यः सदा योग-मायाख्यां शक्तिम् आसक्तितः श्रितः ।
पौर्णमासीति नामासीद् व्रजे यासीत् तपस्विनी ॥८७॥

यः सदेति । यः श्री-कृष्णो योगमायाख्यां शक्तिम् आसक्तितः अनुराग-सञ्चाराद् धेतोः श्रितः अधिकृतवान् या योगमाया पौर्णमासीति नामासीत्, या व्रजे यमुना-तीरे तपस्विनी तपश्-चरण-शीला च आसीत्, व्रज-वासिनः सर्वे “काचित् वृद्धा तपस्वीनी” इति यां मन्यन्ते स्म इति ॥८७॥

विश्वास-प्रस्तुतिः

यस् तया दिव्यया शक्त्याऽनन्तधानन्त-सुभ्रुवाम् ।
बिभ्रद् विलास-नर्मादि शर्मालभत सर्वदा ॥८८॥

मूलम्

यस् तया दिव्यया शक्त्याऽनन्तधानन्त-सुभ्रुवाम् ।
बिभ्रद् विलास-नर्मादि शर्मालभत सर्वदा ॥८८॥

यः श्री-कृष्णः तया योगमायया दिव्यया अचिन्त्य-स्वरूपया शक्त्या स्व-निष्ठ-कार्योत्पादिकया वृत्त्या अनन्त-सुभ्रुवाम् असङ्ख्य-व्रज-सुन्दरीणां विलास-नर्मादि विलासो विभ्रमः, नर्म कौतुक-वचनं, आदौ यस्य तत् तथा-भूतं शर्म सुखं अनन्तधा अनन्त-प्रकारेण, धाच् प्रकारे, बिभ्रत् जनयन् स्वयम् अपि सर्वदा शर्म सुखम् अलभत प्राप्तवान् । अहो असौ विलासी ! ॥८८॥

विश्वास-प्रस्तुतिः

यः कृत्वा रास-खेलायां मुदं द्वन्द्वं पुनर् मुदम् ।
खेलेयम् इति तद् व्यञ्जन्न् अमुमुदद् अमूः प्रियाः ॥८९॥

मूलम्

यः कृत्वा रास-खेलायां मुदं द्वन्द्वं पुनर् मुदम् ।
खेलेयम् इति तद् व्यञ्जन्न् अमुमुदद् अमूः प्रियाः ॥८९॥

यः श्री-कृष्णः रास-खेलायां रास-क्रीडायाम् मुदं हर्षं कृत्वा अनुभूय द्वन्द्वं युगलं मुदं यथा स्यात्, तथा । खेलेयम् इति कान्ताभ्यो व्यञ्जन् अमूः प्रिया अमुमुदत् । मुद् ञ्यन्तात् टी तन् इति ॥८९॥

विश्वास-प्रस्तुतिः

यस् त्यजन्न् अपि ताः सर्वाः पर्वातनुत कुत्रचित् ।
अप्य् एण-पत्नीत्य्-आद्यं31 यत् तत्र कर्णामृतं मतम् ॥९०। अपि यः श्री-कृष्णस् ताः सर्वाः कान्ताः त्यजन् विहाय कुत्रचित् रहसि पर्व आनन्दोत्सवं श्री-राधिकया सह इति ज्ञेयम् अतनुत कृतवान् । तत्र रास-संरम्भ-स्थले अप्य् एण-पत्नीत्य्-आद्यं वियोग-कातराभिर् गोपीभिः यद् उक्तं, तत् कर्णामृतं कर्णयोः पीयूषं मतं तस्य इति ॥९०॥

मूलम्

यस् त्यजन्न् अपि ताः सर्वाः पर्वातनुत कुत्रचित् ।
अप्य् एण-पत्नीत्य्-आद्यं31 यत् तत्र कर्णामृतं मतम् ॥९०। अपि यः श्री-कृष्णस् ताः सर्वाः कान्ताः त्यजन् विहाय कुत्रचित् रहसि पर्व आनन्दोत्सवं श्री-राधिकया सह इति ज्ञेयम् अतनुत कृतवान् । तत्र रास-संरम्भ-स्थले अप्य् एण-पत्नीत्य्-आद्यं वियोग-कातराभिर् गोपीभिः यद् उक्तं, तत् कर्णामृतं कर्णयोः पीयूषं मतं तस्य इति ॥९०॥

विश्वास-प्रस्तुतिः

यस् तासां जयतीत्य्32 अस्मै आदि विलापाद् व्यग्रतां गतः ।
तासाम् आविरभूद्33 एवं सुधीभिर् अधिवर्णितः ॥९१॥

मूलम्

यस् तासां जयतीत्य्32 अस्मै आदि विलापाद् व्यग्रतां गतः ।
तासाम् आविरभूद्33 एवं सुधीभिर् अधिवर्णितः ॥९१॥

यः श्री-कृष्णः तासां गोपीनां जयति तेऽधिकम् इत्य्-आदि-विलाप-वचनं श्रुत्वा व्यग्रतां कातरतां गतः, “इमाः क्लिष्टा माभूवन्” इति विचिन्त्य, तासाम् आविरभूत् शौरिर् इत्य्-आकारेण सुधीभिः शुक-देवैः, सुधीभिर् इत्य् अत्र गौरवे बहु-वचनम् अधिवर्णित इति ॥९१॥

विश्वास-प्रस्तुतिः

यस् तासां स्तन-काश्मीर-शस्त-वस्त्रासनं गतः ।
रराज तारका-राज-राजत्-पुलिन-धामनि ॥९२॥

मूलम्

यस् तासां स्तन-काश्मीर-शस्त-वस्त्रासनं गतः ।
रराज तारका-राज-राजत्-पुलिन-धामनि ॥९२॥

यः श्री-कृष्णः तासां गोपीनां स्तन-काश्मीरैः स्तन-लग्न-कुङ्कुमैः शस्तं सुख-करं यद् वस्त्र-रूपं आसनं तत्र गतः उपविष्टः, तारका-राजेन चन्द्रेण राजत् दीप्तिमत् यत् पुलिनम् एव धाम, तत्र रराज ॥९२॥

विश्वास-प्रस्तुतिः

यः प्रहेलिकया तासां स्व-पराजयम् आमृशन् ।
न पारयेऽहम्34 इत्य्-आदि-रीत्या स्वं मतवान् ऋणी ॥९३॥

मूलम्

यः प्रहेलिकया तासां स्व-पराजयम् आमृशन् ।
न पारयेऽहम्34 इत्य्-आदि-रीत्या स्वं मतवान् ऋणी ॥९३॥

यः श्री-कृष्णः तासां प्रहेलिकया वाक्-कौशलेन स्व-पराजयम् आमृशन् पर्यालोचयन्, न पारयेऽहम् [भा।पु। १०.३२.२०] इति श्रीमद्-भागवतोक्त-श्लोकेन “अहं ऋणी” इति स्वं मतवान् ॥९३॥

विश्वास-प्रस्तुतिः

यः श्यामः स्वर्ण-गौरीभिः परां शोभां ययौ यथा ।
तत्रातिशुशुभे राजन् भगवान् इति35 सत्-प्रथा ॥९४॥

मूलम्

यः श्यामः स्वर्ण-गौरीभिः परां शोभां ययौ यथा ।
तत्रातिशुशुभे राजन् भगवान् इति35 सत्-प्रथा ॥९४॥

यः श्यामः श्री-कृष्णः स्वर्ण-गौरीभिः गोपीभिः यथा परां शोभां ययौ गतवान्, हे राजन् ! भगवान् तत्र अतिशुशुभे, इति यद् भागवत-वचनं तथा सुयुक्तम् इति भावः ॥९४॥

विश्वास-प्रस्तुतिः

यस् तासां स्व-विहारेण श्रान्तानां मुख-पङ्कजम् ।
प्रामृजत् करुणः प्रेम्ना शन्तमेनाङ्ग-पाणिना36 ॥९५॥

मूलम्

यस् तासां स्व-विहारेण श्रान्तानां मुख-पङ्कजम् ।
प्रामृजत् करुणः प्रेम्ना शन्तमेनाङ्ग-पाणिना36 ॥९५॥

यः श्री-कृष्णः स्व-विहारेण स्वेन श्री-कृष्णेन विहारः क्रीडा, तेन हेतुना श्रान्तानां श्रम-युक्तानां घर्माक्त-कलेवराणाम् इति यावत् मुख-पङ्कजं वदन-कमलं दृष्ट्वा करुणः दया-शीलः प्रेम्ना अनुरागेण शन्तमेन सुख-मयेन पाणिना हस्तेन प्रामृजत् मार्ष्टि स्म ॥९५॥

विश्वास-प्रस्तुतिः

यः क्रीडन् वारि-वनयोर् चिक्रीड इव ताः पुनः ।
अनुनीय विनिर्णीय स्व-सङ्गं निलयं गतः ॥९६॥

मूलम्

यः क्रीडन् वारि-वनयोर् चिक्रीड इव ताः पुनः ।
अनुनीय विनिर्णीय स्व-सङ्गं निलयं गतः ॥९६॥

यः श्री-कृष्णः वारि-वनयोः वारि जलं वनं काननं, तयोः क्रीडन् । पुनश् चिक्रीड, ताः पुनर् अनुनीय अनुनयं कृत्वा स्व-सङ्गं विनिर्णीय निलयं गेहं गत इति ॥९६॥

विश्वास-प्रस्तुतिः

यस् तीर्थ-व्याजम् अव्राजीद् व्रजेन वनम् आम्बिकम् ।
यत्राशेषेण वेशेन च्छलयामास चाबलाः ॥९७॥

मूलम्

यस् तीर्थ-व्याजम् अव्राजीद् व्रजेन वनम् आम्बिकम् ।
यत्राशेषेण वेशेन च्छलयामास चाबलाः ॥९७॥

यः श्री-कृष्णः तीर्थ-व्याजं तीर्थ-गमन-च्छलं यथा स्यात् तथा व्रजेन व्रज-वासिना आम्बिकं अम्बिका-देव्य्-अधिष्ठितं वनं अव्राजीत् गतवान्, यत्र आम्बिके वने अशेषण नाना-रूपेण वेशेन आकल्पेन अबला गोपीश् छलयामास वञ्चिताश् चकार इति ॥९७॥

विश्वास-प्रस्तुतिः

यः सर्व-जीवनं जीवं वितरन् पितरं प्रति ।
पदा सर्पन् स्पृशन् सर्पं मुनेः शापाद् अपाकरोत् ॥९८॥

मूलम्

यः सर्व-जीवनं जीवं वितरन् पितरं प्रति ।
पदा सर्पन् स्पृशन् सर्पं मुनेः शापाद् अपाकरोत् ॥९८॥

यः श्री-कृष्णः पितरं श्री-नन्दं प्रति सर्व-जीवनं सर्वेषां जीवन-स्वरूपं जीवं नन्द-प्राणान् वितरन् ददत् पदा सर्पन् गच्छन् मुनेः शापात् सर्पं अपाकरोत्, सर्प-देहात् तं मोचयामास ॥९८॥

विश्वास-प्रस्तुतिः

यः सुदर्शनतां निन्ये महा-सर्पं कुदर्शनम् ।
कारुण्य-कारुः कं चारिं न चकारापि दारुणम् ॥१९९॥

मूलम्

यः सुदर्शनतां निन्ये महा-सर्पं कुदर्शनम् ।
कारुण्य-कारुः कं चारिं न चकारापि दारुणम् ॥१९९॥

यः श्री-कृष्णः कुदर्शनं कुत्सिताकारं महा-सर्पं सुदर्शनतां सुवेशतां निन्ये प्रापयमास कारुण्य-कारुर् अपि दया-परिपूर्णोऽपि कं च अरिं प्रति दारुणं न चकार कृतवान्, अपि तु कृतवान्, अर्थात् अन्तरा अन्तरा घोर-कर्मणि अपि प्रवृत्त इति ज्ञेयम् ॥९९॥

विश्वास-प्रस्तुतिः

यः पूर्वं निर्ममे होरी-पर्वं यक्षस्य धर्षणम्37
अन्तर्यामिवत् तं मन्ये तादृग्-ग्रामीण-पर्वसु ॥१००॥

मूलम्

यः पूर्वं निर्ममे होरी-पर्वं यक्षस्य धर्षणम्37
अन्तर्यामिवत् तं मन्ये तादृग्-ग्रामीण-पर्वसु ॥१००॥

यः श्री-कृष्णः पूर्वं यक्षस्य शङ्खचूडस्य धर्षणं विनाश-हेतुं होरी-पर्वं फाल्गुण-पौर्णमासी प्रसिद्धं पर्व-विशेषं निर्ममे विहितवान्, तादृग्-ग्रामीण-पर्वसु ग्राम-प्रसिद्धेषु पर्वसु अहं तं अन्तर्यामिवत् मन्ये गणयामि, अन्यथा शङ्खचूडस्य दुष्प्रवृत्तिं कथं ज्ञातवान् ? इति ॥१००॥

विश्वास-प्रस्तुतिः

यः प्रातर्-आदि-जाः क्रीडाः कुर्वंस् तासु स्फुरन्न् अपि ।
श्लोकानां युग्म-सङ्घेन श्लोकितस् ताभिर् अन्वहम् ॥१०१॥

मूलम्

यः प्रातर्-आदि-जाः क्रीडाः कुर्वंस् तासु स्फुरन्न् अपि ।
श्लोकानां युग्म-सङ्घेन श्लोकितस् ताभिर् अन्वहम् ॥१०१॥

यः श्री-कृष्णः प्रातरादिजाः प्रभातम् आरभ्य याः क्रीडाः कुर्वन् आचरन् तासु गोपीषु, अर्थात् तासां हृदयेषु, स्फुरन् श्लोकानां युग्म-सङ्घेन प्रत्येकं श्लोक-युगेन ताभिः गोपीभिः अन्वहं प्रत्यहं श्लोकितः श्लोकाभ्यां वर्णित इति ॥१०१॥

विश्वास-प्रस्तुतिः

यः श्री-गोवर्धने रास-वर्धनेच्छा-विवर्धने ।
सङ्गम्य प्रेयसी-सङ्घं नर्म-सङ्गर-रङ्गवान् ॥१०२॥

मूलम्

यः श्री-गोवर्धने रास-वर्धनेच्छा-विवर्धने ।
सङ्गम्य प्रेयसी-सङ्घं नर्म-सङ्गर-रङ्गवान् ॥१०२॥

यः श्री-कृष्णः रास-वर्धनेच्छा-विवर्धने रासस्य श्रीमद्-भागवत-प्रसिद्ध-बहु-नर्तकी-युक्त-क्रीडा-विशेष-रूपस्य वर्धने या इच्छा, तस्या विवर्धने वर्धन-जनके श्री-गोवर्धने प्रेयसी-सङ्घं कान्ता-वर्गं सङ्गम्य आनीय नर्म-सङ्गर-रङ्गवान् नर्म-सङ्गरः कौतुक-युद्धं तत्र रङ्गवान् क्रीडितवान् इति ॥१०२॥

विश्वास-प्रस्तुतिः

गोष्ठ-प्रकोष्ठतः क्रुष्टं श्रुत्वारिष्ट-कृतं कटु ।
तत्र सङ्गत्य संयत्य तं निहत्य मुदं गतः ॥१०३॥

मूलम्

गोष्ठ-प्रकोष्ठतः क्रुष्टं श्रुत्वारिष्ट-कृतं कटु ।
तत्र सङ्गत्य संयत्य तं निहत्य मुदं गतः ॥१०३॥

गोष्ठ-प्रकोष्ठतः गोष्ठ-प्रदेशतः अरिष्ट-कृतं अरिष्ट-नाम्ना केनचिद् असुरेण कृतं कटु कर्ण-विदारकं क्रुष्टं शब्दं श्रुत्वा, तत्र तद्-असुर-समीपं सङ्गत्य गत्वा, संयत्य पराभूय, निहत्य मुदं हर्षं गतः, हृष्टोऽभूत् ॥१०३॥

विश्वास-प्रस्तुतिः

पुनः शीघ्रं गिरिं गच्छन् सङ्गिनीभिः सभङ्गिभिः ।
रासम् उल्लासयामास भासयामास चाखिलम् ॥१०४॥

मूलम्

पुनः शीघ्रं गिरिं गच्छन् सङ्गिनीभिः सभङ्गिभिः ।
रासम् उल्लासयामास भासयामास चाखिलम् ॥१०४॥

[पूर्ववत् त्रिभिः]

यः श्री-कृष्णः पुनः शीघ्रं झटिति गिरिं गोवर्धनं गच्छन् गत्वा सभङ्गिभिः, भङ्ग्या सह वर्तन्ते याः, ताभिः सङ्गिनीभिः सहचरीभिः रासं रस-युक्त-क्रीडां उल्लासयमास प्रवर्तयामास अखिलं कृत्स्नं च भासयामास स्व-कान्त्या प्रकाशयामास । पूर्ववत् त्रिभिः ॥१०४॥

विश्वास-प्रस्तुतिः

यः कुण्डं पुण्डरीकाक्षस् तन् निर्माय सुनर्म-कृत् ।
श्री-राधिकां धन्यम् अन्यत् कारयामास सार-भृत् ॥१०५॥

मूलम्

यः कुण्डं पुण्डरीकाक्षस् तन् निर्माय सुनर्म-कृत् ।
श्री-राधिकां धन्यम् अन्यत् कारयामास सार-भृत् ॥१०५॥

पुण्डरीकाक्षः पुण्डरीकवत् श्वेत-कमलवत् अक्षिणी नेत्रे यस्य स पुण्डरीकाक्षः, पर-मर्म-दर्शन-निपुण इत्य् अर्थः । सुनर्म-कृत् परम-कुतुकी । तत् प्रसिद्धं कुण्डं निर्माय, अद्यापि व्रजे श्याम-कुण्डस्य प्रसिद्धिर् अस्ति । “अयि राधिके ! पश्य कीदृग् कुण्डं लोक-पावनं मया निर्मितं” इत्य् आकारेण नर्म-कृत् इति ज्ञेयं । अनु सार-भृत् सारं स्थायि वस्तु अर्थात् हितं बिभर्ति । असौ श्री-राधिकां अन्यत् धन्यं प्रशस्यं कुण्डं कारयमास, श्री-राधिकापि प्रतियोगितया अन्यत् अन्य-रूपं कुण्डं कृतवती ॥१०५॥

विश्वास-प्रस्तुतिः

यः कंसेनेशितं38 गोष्ठ-क्लेशिनं वाजि-वेशिनम् ।
केशिने39 केशिनं चक्रे यमस्य प्रतिवेशिनम् ॥१०६॥

मूलम्

यः कंसेनेशितं38 गोष्ठ-क्लेशिनं वाजि-वेशिनम् ।
केशिने39 केशिनं चक्रे यमस्य प्रतिवेशिनम् ॥१०६॥

यः श्री-कृष्णः कंसेन मथुराधीशेन ईशितं प्रेरितं गोष्ठ-क्लेशिनं, येन दुरात्मना असुरेण गोष्ठ-स्थाः सर्वे प्रपीडिता बभूवुः इत्य् अर्थः । वाजि-वेशिनं अश्व-रूप-धारिणं केशिनं तद्-आख्यं असुरं वेशिनं, वेशः प्रवेशः विद्यते यस्य स वेशी, तं प्रविशन्तम् इति भावः । यमस्य अन्तकस्य प्रतिवेशिनं तं नरक-वासिनं चक्रे कृतवान् ॥१०६॥

विश्वास-प्रस्तुतिः

यः पित्र्-आद्य्-अनुरागेण चित्राभः सर्व-विस्मृतिः ।
कंसं ध्वंसकम् अप्य् आर्च्छीन् न हन्तुं गन्तु-कामताम् ॥१०७॥

मूलम्

यः पित्र्-आद्य्-अनुरागेण चित्राभः सर्व-विस्मृतिः ।
कंसं ध्वंसकम् अप्य् आर्च्छीन् न हन्तुं गन्तु-कामताम् ॥१०७॥

यः श्री-कृष्णः पित्र्-आद्य्-अनुरागेण पित्र्-आदीनां नन्दादीनाम् अनुरागः, तेन चित्राभः चित्रवत् आभा यस्य सः चित्राभः, त्यक्त-सर्व-चेष्टः इत्य् अर्थः । अत एव सर्व-विस्मृतिः, सर्वेषां विस्मृतिर् यस्य सः । स्व-कर्तव्य-प्रतिपालने तस्य विस्मृतिर् जाता इति भावः। तद् आह—कंस एव ध्वंसकः सर्व-भूत-द्रोही, तं हन्तुं गन्तु-कामतां, सम्-तुं-मन इति चतुमो म-लोपः, न आर्च्छीत् । अहो ! व्रज-वासिनां तत्रानुरागः ॥१०७॥

विश्वास-प्रस्तुतिः

यः स्निग्ध-स्मितया दृष्ट्या वाचा पीयूष-कल्पया ।
चरित्रेणानवद्येन श्री-निकेतेन चात्मना ॥१०८॥
इमं लोकम् अमुं चाभिरमयन् सुतरां व्रजम् ।
रेमे क्षणदया दत्त-क्षण-स्त्री-क्षण-सौहृदः ॥१०९॥

मूलम्

यः स्निग्ध-स्मितया दृष्ट्या वाचा पीयूष-कल्पया ।
चरित्रेणानवद्येन श्री-निकेतेन चात्मना ॥१०८॥
इमं लोकम् अमुं चाभिरमयन् सुतरां व्रजम् ।
रेमे क्षणदया दत्त-क्षण-स्त्री-क्षण-सौहृदः ॥१०९॥

[पूर्ववद् युग्मकम्]

यः स्निग्द-स्मिततया इति । यः श्री-कृष्णः स्निग्ध-स्मिततया, स्निग्धं रुचिरं स्मितं ईषद् हासं यस्यां तया दृष्ट्या पीयूष-कल्पया सुधा-तुल्यया वाचा वाक्येन, तद्-वाक्य-श्रवणेन सुधास्वादो भवति इति भावः । अनवद्येन मनोज्ञेन चरित्रेण शीलेन श्री-निकेतेन श्रियाः लक्ष्म्या निकेतः वासो यत्र तथा-भूतेन आत्मना शरीरेण, आत्मा यत्न-धृतिर् बुद्धिः स्वभावो ब्रह्म वर्म च इत्य् अमरः ।

इमं लोकं प्रत्यक्ष-लोकं अमुं लोकं दिव्य-लोकं सुतरां कौमुत्येन व्रजम् अपि रमयन् असौ दत्त-क्षण-स्त्री-क्षण-सौहृदः दत्तः क्षण उत्सवः याभिः, ताः स्त्रियः, तासां क्षने सौहृदं यस्य सः । क्षणदया रात्रौ, क्षणम् उत्सवः ददाति या सा क्षणदा रात्रिः, त्रियामा क्षणदा क्षपा इत्य् अमरः । तया रेमे क्रीडितवान् । पूर्ववत् युग्मकं ॥१०८-१०९॥

विश्वास-प्रस्तुतिः

यस् तथा सह गोपीभिश् चिक्रीड व्रजराजजः ।
यथाब्द-कोटि-प्रतिमः क्षणस् तेन विनाभवत् ॥११०॥40

मूलम्

यस् तथा सह गोपीभिश् चिक्रीड व्रजराजजः ।
यथाब्द-कोटि-प्रतिमः क्षणस् तेन विनाभवत् ॥११०॥40

व्रज-राजजः व्रज-राजः श्री-नन्दः, तस्मात् जायते यः स व्रजराजजः । गोपीभिः प्रेमवतीभिः [इति] ज्ञेयं तथा चिक्रीड यथा तेन श्री-कृष्णेन विना तासां क्षणोऽपि कालः अब्द-कोटि-प्रतिमः अब्द-कोटिः वर्ष-कोटिः प्रतिमा प्रति-रूपं तथा-भूतो अभवत्, क्षणोऽपि कालः तेन विना तासां दुर्याप्य इति भावः ॥११०॥

विश्वास-प्रस्तुतिः

यः कान्ता-मुख-चन्द्राणां भासा भासिनि दिग्-गणे ।
राग-सागर-निर्मग्नश् चलितुं नापि च क्षमः ॥१११॥

मूलम्

यः कान्ता-मुख-चन्द्राणां भासा भासिनि दिग्-गणे ।
राग-सागर-निर्मग्नश् चलितुं नापि च क्षमः ॥१११॥

कान्ता-मुख-चन्द्राणां, प्रेयसीनाम् मुखानि एव चन्द्रः, तेषां भासा दीप्त्या, भाश् छविः द्युति-दीप्तय इत्य् अमरः । भासिनि दीप्ति-विशिष्टे इति पतञ्जलि-सूत्रं । राग एव सागरः, परम-गम्भीरत्वात् सागरोपमा । तत्र निर्मग्नः चलितुम् अपि क्षमो न बभूव, प्रेमाकृष्ट सन् व्रजं परित्यज्य अन्यत्र कुत्रापि न ययौ । रात्रौ यथा गभीर-जल-पतितो मत्त-हस्ती कथञ्चित् तत उत्थितोऽपि चन्द्रिका-जालैः पथि भ्रान्तो भवति इति ध्वनिः ॥१११॥

विश्वास-प्रस्तुतिः

किञ्चित् तद्-व्यक्ति-वातालि-लज्जा-वीचि-विचालितः ।
कंस-घात-मिषापात-निजेच्छाभासम् आगतः ॥११२॥

मूलम्

किञ्चित् तद्-व्यक्ति-वातालि-लज्जा-वीचि-विचालितः ।
कंस-घात-मिषापात-निजेच्छाभासम् आगतः ॥११२॥

यः श्री-कृष्णः किञ्चित् तद्-व्यक्ति-वातालि-लज्जा-वीचि-विचालितः, किञ्चित् तस्य गूढ-भावस्य, गोपीभिः सह इति ज्ञेयं, व्यक्तिः प्रचारः, सा एव वातालिः वायु-पङ्क्तिः, तस्या हेतोर् या लज्जा सा एव वीचिः तरङ्गः, वीचिस् तरङ्ग ऊर्मिर् वा इत्य् अमरः, तया विचालितः । “अहह ! रागी आदौ राग-सागर-निमग्नः, पश्चात् लज्जा-वीचि-विचालितः । अहो सहिष्णुता !” श्री-कृष्णस्य ततः कंस-घात एव मिषापाति-निजेच्छा-भासम् आगतः समागमः कंसस्य घात एव मिषं छलं, तस्य आपतः, तेन हेतुना यो निजेच्छाभासः, तं आगतः प्राप्तवान् । कंस-घातेच्छाया आभासत्वं हि स्वेष्ट-साधनताया अभावात् ॥११२॥

विश्वास-प्रस्तुतिः

तटस्थताम् अटन्न् उरीचक्रे मधुपुरी-गतिम् ॥११३॥

मूलम्

तटस्थताम् अटन्न् उरीचक्रे मधुपुरी-गतिम् ॥११३॥

आः किं वाच्या व्रजे याच्या प्राणि-मात्रे तनोः स्थितिः ॥११४॥

[पूर्ववत् त्रिभिः]

तटस्थतां उदासीनतां, न तु अन्तरेण अटन् गतः मधुपुरी-गतिं मथुरा-गमनं उरीचक्रे स्वीचक्रे, स्वीचकारेत्य् अर्थः ॥११३॥ श्री-कृष्णस्य मथुरा-गमन-काले प्राणि-मात्रे देह-धारिषु सर्वेषु तनोः शरीरस्य स्थितिः रक्षा याच्या प्रार्थनिया । आः किं वाच्या कथनीया अभूद् इति शेषः, श्री-कृष्णस्य मथुरा-प्रयाण-काले घोरेण दुःखेन प्राणान् धारयितुम् असमर्थ-प्राया अभवन् सर्वे, कृष्ण-वियोग-दुःखितानां प्राण-रक्षणे साधवः प्रार्थयन्ते स्म । “भो नारायण ! दयस्व, अन्यथा महती विपद् इति व्रज-वासिनां सङ्कट-वर्णनां किं कुर्याम् ?” ॥११४॥

यः स्वांस् तत्-तद्-गुणः सर्वान् अलं हातुं न ते च यम् ।
आस्तां व्रजे प्रेम-शूरा दूराद् एव तथा कथा ॥११५॥

यः स्वान् स्वकीयान् सर्वान् तत्-तद्-गुणः, तस्य श्री-कृष्णस्य गुणः । हातुम् त्यक्तुं अलं समर्थो न बभूव, ते च स्वे यं तद्-गुणं हातुं अलं समर्था न बभूवुः । व्रजे प्रेम-शूरः आस्ताम्, अन्तराङ्गतमे केवलं व्रजे तस्य असाधारणः प्रेमा एवं न दूराद् एव तथा कथा, सर्वत्र तस्य प्रेमा गत इति भावः ॥११५॥

यः पृथ्व्या प्रथम-स्कन्धे धर्माग्रे वर्णितान् गुणान् ।41

नित्यम् आप्तस् तथात्रापि वर्ण्यः सन्न् अवकर्ण्यताम् ॥११६॥

यः श्री-कृष्णः पृथ्व्या प्रथम-स्कन्धे श्रीमद्-भागवते धर्माग्रे वर्णितान् कथितान् गुणान् नित्यं सर्वदा आप्तः प्राप्तवान् । तथात्रापि हे सन् वर्ण्यः कथन-योग्यः, अवकर्ण्यतां साग्रहं श्रूयताम् इति ॥११६॥

सर्वानन्द-प्रदानन्द-कन्दस् तत्-तद्-गुणावलिः ।
सर्व-पर्वद-माहात्म्याद् वरः सर्वत ईश्वरः ॥११७॥

तत्-तद्-गुणावलिः तस्य श्री-कृष्णस्य सा गुणानां भक्त-वात्सल्यादीनाम् आवलिः पङ्क्तिः, वीथ्य्-अलिर् आवलिः पङ्क्तिः इत्य् अमरः, सर्वानन्द-प्रदानन्द-कन्दः, सर्वेषाम् आनन्दानां सुखानां प्रदा ये आनन्दाः, तेषां अपि कन्दः मूलं । किं च, असौ सर्वतः सर्वेभ्यः वरः श्रेष्ठः ईश्वरः । तद्-धेतुम् आह—सर्व-पर्वद-माहात्म्यात् सर्वं क्षणं पर्वदं उत्सवदं यन् माहात्म्यं, तस्मात् ॥११७॥

सर्वदा वृद्धि-भाग् ऋद्धिः सर्वाराधन-भू-धनम् ।
स्वरूप-रूप-साद्गुण्य-पुण्य-कृत्-कर्म-शर्मदः ॥११८॥

यस्य ऋद्धिः ऐश्वर्यं सर्वदा वृद्धि-भाग्, भज-धातोः विण्, उत्तरोत्तर-वृद्धि-शीला। इदानीं धनम् आह—सर्वाराधन-भू-धनं, सर्वैः देवादिभिः आराधनं सेवा, तद् एव भूः । स्वरूपं द्विभुजत्वादि, रूपं नवीन-नीरद-श्यामं, साद्-गुण्यं श्रेष्ठत्वं काय-वाग्-गुणानाम् इति एतैः यत् पुण्य-कृत् शुभादृष्ट-जनकं कर्म, तत्-स्मरणादि-रूपम् इति भावः । तद् एव शर्म सुखं, तद् ददाति ॥११८॥

विश्वास-प्रस्तुतिः

दृष्टिः प्रति सुधा-वृष्टि-प्रभ-सुन्दरता-प्रभा ।
वर्णानां स्यन्द-दिङ्-मात्र-कर्णानन्द-कर-स्वरः ॥११९॥

मूलम्

दृष्टिः प्रति सुधा-वृष्टि-प्रभ-सुन्दरता-प्रभा ।
वर्णानां स्यन्द-दिङ्-मात्र-कर्णानन्द-कर-स्वरः ॥११९॥

यस्य श्री-कृष्णस्य सर्वान् प्रति दृष्टिः सुधा-वृष्टि-प्रभ-सुन्दरता-प्रभा, सुधा-वृष्टि-प्रभा सुधा-वर्षण-तुल्या या सुन्दरता, तया युक्ता प्रभा यस्याः सा, तथा-भूता भवति। इदानीम् स्वरं वर्णयति—यस्य स्वरं वर्णानां क-कारादीनां स्यन्द-मात्रेण उच्चारण-मात्रेण कर्णानन्द-करः श्रवण-सुख-जनकः ॥११९॥

विश्वास-प्रस्तुतिः

अश्वासानाम् अपि श्वास-कारि-सौरभ-गौरवः ।
अधर-स्पृष्ट-नीरादि-सृष्ट-श्री-रसना-रसः ॥१२०॥

मूलम्

अश्वासानाम् अपि श्वास-कारि-सौरभ-गौरवः ।
अधर-स्पृष्ट-नीरादि-सृष्ट-श्री-रसना-रसः ॥१२०॥

यस्य श्री-कृष्णस्य सौरभ-गौरवं सौगन्ध्य-माहात्म्यं अश्वासानां श्वास-रहितानाम्, अर्थात् परम् अवसन्नानाम् इति भावः, श्वास-कारि उज्जीवकं सर्वेषां जीवन-स्वरूपं । किं च, असौ कृष्णः अधर-स्पृष्ट-नीरादि-सृष्ट-श्री-रसना-रसः, अधरेण स्पृष्टं यत् नीरादि जलादि, तेन सृष्टः श्रियाः कमलाया रसनाया जिह्वाया रस औत्सुक्यं येन तथा-भूतः। कमलापि तद्-अधर-चुम्बने नित्यं लालसावतीति ज्ञेयं ॥१२०॥

विश्वास-प्रस्तुतिः

स्व-स्पर्शि-स्पर्शन-स्पर्शाद् विश्व-तापापयापनः ।
जगतः शुचिता-धाम नाम-धाम-स्मृतीडितः ॥१२१॥

मूलम्

स्व-स्पर्शि-स्पर्शन-स्पर्शाद् विश्व-तापापयापनः ।
जगतः शुचिता-धाम नाम-धाम-स्मृतीडितः ॥१२१॥

यः श्री-कृष्णं स्व-स्पर्शि-स्पर्शन-स्पर्शात् स्वस्य श्री-कृष्णस्य स्पर्शः विद्यते यस्य स स्व-स्पर्शी, अस्त्य् अर्थ इन्, तस्य स्पर्शनं विद्यते यस्य स स्व-स्पर्शि-स्पर्शनः, तस्य स्पर्शात् सङ्गात् विश्वस्य निखिलस्य तापापयापनः ताप-क्षय-कारकः । पुनः किम्-भूतः ? जगतः अखिलस्य शुचिता पवित्रता, तस्या धाम आश्रय-स्थलं, नाम-धाम नाम्ना सह धाम नाम-धाम, तस्य स्मृत्या ईडितः स्तुतः, तस्य नाम-धाम्नोः स्मरणेन सर्वापच्-छन्तिर् भवति इति भावः ॥१२१॥

विश्वास-प्रस्तुतिः

अनन्त-सच्चिदानन्द-ज्योतिर्-द्योति-कलेवरः ।
वपुर्-अंशुकयोर् अंशु-सम्पद् विष्णु-रमा-जयी ॥१२२॥

मूलम्

अनन्त-सच्चिदानन्द-ज्योतिर्-द्योति-कलेवरः ।
वपुर्-अंशुकयोर् अंशु-सम्पद् विष्णु-रमा-जयी ॥१२२॥

यः श्री-कृष्णः अनन्त-सच्चिदानन्द-ज्योतिर्-द्योति-कलेवरः अनन्तेन अनवच्छिन्नेन सच्चिदानन्देन ज्योतिषा कान्त्या द्योति दीप्तिमत् कलेवरं गात्रं यस्य तथा-भूतो भवति इति शेषः । वपुः शरीरं अंशुकं पीताम्बरं, तयोः अंशुर् एव सम्पत् ऋद्धिः, तया विष्णुः वैकुण्ठ-पतिः, रमा तत्-पत्नी कमला, एतयोः जयी ॥१२२॥

विश्वास-प्रस्तुतिः

जगद्-भूषण-शोभा-भृद्-विभूषण-विभूषणः ।
तूर्णं यथा-रुचि-व्यापि-रुचि-वीर्य-गुणाकृतिः ॥१२३॥

मूलम्

जगद्-भूषण-शोभा-भृद्-विभूषण-विभूषणः ।
तूर्णं यथा-रुचि-व्यापि-रुचि-वीर्य-गुणाकृतिः ॥१२३॥

जगद्-भूषण-शोभा-भृद्-विभूषण-विभूषणः, जगतः भूषण-शोभा बिभर्ति यद् विभूषणं अलङ्कारः, तस्य विभूषणः भूषित-कारकः । पुनः किम्-भूतः ? तूर्णं यथा-रुचि-व्यापि-रुचि-वीर्य-गुणा-कृतिः, तूर्णं झटिति यथा-रुचि रुचिम् अनतिक्रम्य इति यथाभिलाषं व्याप्नोति, रुचिः कान्तिः, वीर्यं पराक्रमः, गुणः दयालुता, आकृतिः गात्र-सङ्गठनं यस्य एतादृक् सः, रुचि-वीर्य-गुणाकृति-प्रकाशक इति भावः ॥१२३॥

विश्वास-प्रस्तुतिः

लक्ष्मी-दृक्-पक्ष्म42विष्कम्भि-लक्ष्म-लक्षित-विग्रहः ।
शङ्ख-चक्रादि-चिह्न-श्री-दुर्निह्नव-निज-स्थितिः ॥१२४॥

मूलम्

लक्ष्मी-दृक्-पक्ष्म42विष्कम्भि-लक्ष्म-लक्षित-विग्रहः ।
शङ्ख-चक्रादि-चिह्न-श्री-दुर्निह्नव-निज-स्थितिः ॥१२४॥

लक्ष्मीः कमला, तस्याः दृशोः नयनयोः पक्ष्मणां नेत्रावरकाग्र-लोम्नां विष्कम्भि अवरोधकं लक्ष्म चिह्नं, तेन लक्षितः विग्रहः शरीरं यस्य सः । पुनः किम्-भूतः? शङ्ख-चक्रादि-चिह्न-श्री-दुर्निह्नव-निज-स्थितिः—शङ्ख-चक्रादीनि चिह्नानि, तेषां श्रियः ताभिः दुर्निह्नवाः दुर्गोप्या निजस्य स्वस्य स्थितिर् यस्य सः । शङ्ख-चक्रादि-चिह्नैः अभिज्ञा भक्तास् तं सुष्ठु अवगच्छन्ति इति भावः ॥१२४॥

विश्वास-प्रस्तुतिः

जेतुं स्वम् अप्य् अविश्रान्तं शश्वद्-वल्गु43-बलावलिः ।
किशोरता-मनः-सार-चोरता-विश्व-मोहनः ॥१२५॥

मूलम्

जेतुं स्वम् अप्य् अविश्रान्तं शश्वद्-वल्गु43-बलावलिः ।
किशोरता-मनः-सार-चोरता-विश्व-मोहनः ॥१२५॥

पुनः कीदृक् ? स्वम् अपि आत्मानम् अपि निरन्तरं जेतुं पराभवितुम् शश्वद् वल्गु-बलावलिः, शश्वत् नित्यं वल्गुः रमनीया बलानाम् आवलिः पङ्क्तिः यस्य सः । किशोरतेति पुनः किम्-भूतः ? किशोरता-मनः-सारः चोरता-विश्व-मोहनः, किशोरतया पौगण्डातिक्रान्त-वयसा । यद् उक्तं श्रीधर-स्वामिना,

कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । कैशोरम् आपञ्चदशात् तद्-ऊर्ध्वं यौवनं स्मृतं ॥

कान्तानाम् मनसः सारस्य लज्जा-धैर्यादिकस्य या चोरता, तया विश्व-मोहनः जगन्-मनो-रञ्जकः । “आश्चर्यं तस्य महत्त्वं ! चौरत्वेऽपि जगच्-चित्ताकर्षकत्वम्” इति भावः ॥१२५॥

विश्वास-प्रस्तुतिः

विलास-हास-लीलास्य-कृत-लास्य-कला-जयः ।
विकार-रहिताकारः स्फुरत्-प्रेम-विकारवान् ॥१२६॥

मूलम्

विलास-हास-लीलास्य-कृत-लास्य-कला-जयः ।
विकार-रहिताकारः स्फुरत्-प्रेम-विकारवान् ॥१२६॥

पुनः कीदृग् इति ? विलास-हास्य-लीलास्य-कृत-लास्य-कला-जयः—विलास आमोदः, हासः लीलया युक्तम् आस्यं लीलास्यं, माधुर्यातिशय-सम्पन्नं मुख-मण्डलं, तैः कृतः लास्य-कलायाः रास-क्रीडाया जयो येन स । पुनः कीदृक् ? विकार-रहितः प्राकृत-काम-विकृत्या रहित आकारः काय-चेष्टो यस्य सः अथ च स्फुरतः अजस्रं निःसरतः प्रेम्नः विकारः विकृतिः स्फुरत्-प्रेम-विकारः स विद्यते यस्य सः, अप्राकृत-प्रेम-मसृण-मर्मासौ इति भावः ॥१२६॥

विश्वास-प्रस्तुतिः

पुरापि नव इत्य् एवं पुराणादि-विनिश्चितः ।
अनूतन-तनूः44 श्रीमान् सदा नूतनवत् तनुः ॥१२७॥

मूलम्

पुरापि नव इत्य् एवं पुराणादि-विनिश्चितः ।
अनूतन-तनूः44 श्रीमान् सदा नूतनवत् तनुः ॥१२७॥

यः श्री-कृष्णः पुरा अति-पूर्व-काले । पुराणाद् इति पुराण-श्रुति-स्मृत्य्-आदिभिः विनिश्चितः विशेषेण वर्णितोऽपि, न प्राचीनः । अपि तु नव एव किशोर एव । किं च, असौ श्रीमान् अनूतन-तनुः अनादि-सिद्ध-विग्रहः, अथ च सदा सर्वस्मिन् काले नूतनवत्-तनुः, प्राकृत-जनाङ्गवत् तद्-अङ्गं न विकारवत् इति भावः ॥१२७॥

विश्वास-प्रस्तुतिः

सर्वेषां मनसः कर्तुं प्रमनस्तां स्फुरन्-मनाः ।
वैदग्धी-दिग्ध-सद्-बुद्धि45-चातुरी-प्रचुरी-करः ॥१२८॥

मूलम्

सर्वेषां मनसः कर्तुं प्रमनस्तां स्फुरन्-मनाः ।
वैदग्धी-दिग्ध-सद्-बुद्धि45-चातुरी-प्रचुरी-करः ॥१२८॥

सर्वेषां जन्तूनाम् मनसः अन्तः-करणस्य प्रमनस्त्वं, प्रकृष्टं मनो यस्य स प्रमनाः, तस्य भावः प्रमनस्त्वं, तत् कर्तुं साधयितुं स्फूरन्-मनाः, चञ्चलं मनो यस्य सः, अर्थात् असौ सर्वान् स्वाभि-मुखं आनेतुं यतते इति भावः । किं च, असौ वैदग्धी-दिग्ध-सद्-विद्धि-चातुरी-प्रचुरी-करः—वैदग्धी रसिकता, तया दिग्धा युक्ता या सद्-बुद्धिः, चातुरी कौशलं च, तयोः प्राचुर्य-कारकः सः । असौ नायकतम इति भावः ॥१२८॥

विश्वास-प्रस्तुतिः

विश्वेषां बुद्धि-कृद् बुद्धिः सिद्धीनाम् अपि सिद्धि-कृत् ।
दक्षता-लक्ष-शिक्षा-कृद्-दक्षताभिर् विलक्षणः ॥१२९॥

मूलम्

विश्वेषां बुद्धि-कृद् बुद्धिः सिद्धीनाम् अपि सिद्धि-कृत् ।
दक्षता-लक्ष-शिक्षा-कृद्-दक्षताभिर् विलक्षणः ॥१२९॥

यस्य बुद्धिः विश्वेषां बुद्धि-कृत् बुद्धि-जननी । अपि च, असौ सिद्धीनां विभूतीनां सिद्धिकृत् सिद्धि-जनकः । पुनः किम्-भूतः ? दक्षतायाः सर्व-विषयक-नैपुण्यस्य लक्ष-शिक्षा लक्ष-प्रकारा शिक्षा, तां कुर्वन्ति या दक्षता निपुणता, ताभिर् विलक्षणः, अप्रतिम इत्य् अर्थः ॥१२९॥

विश्वास-प्रस्तुतिः

तुच्छोपकारिता-बिन्दु-सिन्धु-कारी कृतज्ञतः ।
सुदृढ-व्रतता-व्रात-त्रात-शश्वद्-अनुव्रतः ॥१३०॥

मूलम्

तुच्छोपकारिता-बिन्दु-सिन्धु-कारी कृतज्ञतः ।
सुदृढ-व्रतता-व्रात-त्रात-शश्वद्-अनुव्रतः ॥१३०॥

असौ श्री-कृष्णः तुच्छोपकारिता-बिन्दु-सिन्धुकारी—तुच्छा या उपकारिता, तस्याः बिन्दुः लवः, तम् अपि सिन्धुं समुद्रं करोति, अल्पम् अपि उपकारम् असौ बहु मन्यते [इत्य् अर्थः] । तद् धेतुम् आह—कृतज्ञतः, उपकार-स्मरण-परत्वात् । सुदृढ-व्रतेति—सुदृढायाः व्रतताया कर्तव्य-निष्ठताया व्रातः समूहः, तेन त्रातः रक्षितः शश्वद् नित्यं अनुव्रतः अनुगतः, अर्थात् शरणागतः, येन असौ दृढ-प्रतिज्ञः । कदापि शरणागतं न मुञ्चति केनाप्य् उपायेन तम् उद्धरति इति भावः ॥१३०॥

विश्वास-प्रस्तुतिः

निज-मर्यादया बद्ध-श्रुति-मर्याद-चेष्टितः ।
चेष्टितं तावद् आस्तां तद्-दृष्ट-मात्रस् तथा-गुणः ॥१३१॥

मूलम्

निज-मर्यादया बद्ध-श्रुति-मर्याद-चेष्टितः ।
चेष्टितं तावद् आस्तां तद्-दृष्ट-मात्रस् तथा-गुणः ॥१३१॥

निज-मर्यादया निज-सामर्थ्येन बद्ध-श्रुति-मर्याद-चेष्टितः बद्धं श्रुतेः मर्यादायां चेष्टितं यस्य सः, भवति इति शेषः । तस्य प्रभावम् आह—तस्य चेष्टितं तावद् आस्तां तद्-दृष्टि-मात्रस् तथा-गुनः, तस्य भ्रू-भङ्ग्या सर्वे स्व-मार्गे तिष्ठन्ति इति भावः ॥१३१॥

विश्वास-प्रस्तुतिः

यज्ञज्ञः काल-देशादि-प्रज्ञः सर्वज्ञ-शेखरः ।
सर्वज्ञताम् अवज्ञाय प्रज्ञता-तर्किताखिलः ॥१३२॥

मूलम्

यज्ञज्ञः काल-देशादि-प्रज्ञः सर्वज्ञ-शेखरः ।
सर्वज्ञताम् अवज्ञाय प्रज्ञता-तर्किताखिलः ॥१३२॥

यः यज्ञज्ञः, यज्ञं जानाति इति यज्ञज्ञः, अर्थाद् असौ यज्ञ-फल-दाता । काल-देशादि-प्रज्ञः—कालस्य देशस्य आदि-पदात् आकाशादीनां च प्रज्ञः, साक्षित्वेन नित्य-दृक् इत्य् अर्थः । पुनः किम्-भूतः ? सर्वज्ञ-शेखरः सर्वज्ञेषु अन्तर्याम्य्-आदिषु शेखरः चूडामणिः । सर्वज्ञताम् अवज्ञाय सर्वज्ञता-नाम्नीं शक्तिं अवज्ञाय प्रज्ञता-तर्किताखिलः सर्वज्ञता-शक्तिः दूरे तिष्ठतु प्रज्ञतया स्व-निष्ठया वृत्त्या तर्कितं ज्ञातं अखिलं सद् असत् कृस्नं येन, स तथा-भूतो भवति ॥१३२॥

विश्वास-प्रस्तुतिः

धीरता-स्थिरता-शोभि-वीरता-निरतान्तरः ।
क्षान्त्या दान्त्या च शान्त्या च सह कान्त्या स्वयं वृतः ॥१३३॥

मूलम्

धीरता-स्थिरता-शोभि-वीरता-निरतान्तरः ।
क्षान्त्या दान्त्या च शान्त्या च सह कान्त्या स्वयं वृतः ॥१३३॥

पुनः कीदृग् ? धीरता-स्थिरता-शोभि-धीरता-निरतान्तरः—धीरता विवेकित्वं, स्थिरता मनः-काययोः धैर्यं, ताभ्यां शोभिनी या वीरता उत्साह-शीलता, तया निरतं व्याप्तं अन्तरं यस्य सः । पुनः कीदृक् ? क्षान्त्या क्षमा-गुणेन, दन्त्या दम-गुणेन, शान्त्या शम-गुणेन, कान्त्या दीप्त्या सह स्वयं वृतः, शालीनता-परिपूर्णोऽयं भावः ॥१३३॥

विश्वास-प्रस्तुतिः

धर्म-दान-निदान-श्रीः शूर-46सुरत-मानसः ।
मान्य-सामान्य-वर्धिष्णु-मान्यता-क्रियता-प्रियः47 ॥१३४॥

मूलम्

धर्म-दान-निदान-श्रीः शूर-46सुरत-मानसः ।
मान्य-सामान्य-वर्धिष्णु-मान्यता-क्रियता-प्रियः47 ॥१३४॥

धर्मश् च दानं च, तयोर् निदानं, श्रीः सम्पत्तिर् यस्य स भवति । पुनः कीदृक् ? शूर-सुरत-मानसः शूरेषु वीरेषु सुरतः विशेषण-लिप्तः मानसः यस्य स भवति । पुनः किम्-भूतः ? मान्य-सामान्यानां सम्बन्धे या वर्धिष्णुर् मान्यता, तस्यां क्रिया यस्य, स मान्य-सामान्य-वर्धिष्णु-मान्यता-क्रियः, तस्य यो भावः मान्य-सामान्य-वर्धिष्णु-क्रियता । तस्यां प्रियः कुशल इति ॥१३४॥

विश्वास-प्रस्तुतिः

अक्षीण-विनयः सुष्ठु लज्जितः कूट-वर्जितः ।
कीर्ति-प्रताप-पूर्तिभ्यां कृत-सल्-लोक-मूर्तिकः ॥१३५॥

मूलम्

अक्षीण-विनयः सुष्ठु लज्जितः कूट-वर्जितः ।
कीर्ति-प्रताप-पूर्तिभ्यां कृत-सल्-लोक-मूर्तिकः ॥१३५॥

पुनस् तं विशिनष्टि—अक्षीण-विनयः । अक्षीणः अव्याहतः विनयः यस्य स तथा-भूतो भवति । सुष्ठु-लज्जितः सुष्ठु नितरां लज्जितः ह्री-मण्डितः । कुट-वर्जितः कूटेन कैतवेन वर्जितः, सरल इत्य् अर्थः । पुनः कीदृक् इति ? कीर्तिश् च कीर्ति-प्रताप-पूर्ती ताभ्यां कृत-सल्-लोक-मूर्तिकः कृता सल्-लोकानां साधूनाम् मूर्तिर् येन स तथा-भूतो भवति । तस्य बह्व्यः सत्-कीर्तयः सन्ति इति भावः ॥१३५॥

विश्वास-प्रस्तुतिः

साधूनां माधुरी-दानान् नित्यं साधु-समाश्रयः ।
द्विषां च मुक्ति-कृन् मुक्ति-भाग्-आकर्षि-गुणाम्बुधिः ॥१३६॥

मूलम्

साधूनां माधुरी-दानान् नित्यं साधु-समाश्रयः ।
द्विषां च मुक्ति-कृन् मुक्ति-भाग्-आकर्षि-गुणाम्बुधिः ॥१३६॥

साधूनां शान्त-चित्तानां माधुरी-दानात्, स्व-निष्ठ-सौन्दर्य-प्रदानात् इत्य् अर्थः । सम्प्रदाने सम्बन्ध-विवक्षया षष्ठी । नित्यं सदा साधु-समाश्रयः साधूनां समाश्रयो भवति, अर्थात् साधवः तं समाश्रयन्ते । किं च, द्विषां शत्रूणां मुक्तिकृत् । मुक्तिर् एव भागो द्रव्यं, तस्मात् आकर्षिणः ये गुणाः, तेषां अम्बुधिः समुद्रः ॥१३६॥

विश्वास-प्रस्तुतिः

नाना-भाषालि-सम्भाषो देव48-पर्यन्त-देवनः ।
प्रत्यग्-वादिन्य् अपि प्रीतिः49 सत्यता-स्फुरद् ईरितः ॥१३७॥

मूलम्

नाना-भाषालि-सम्भाषो देव48-पर्यन्त-देवनः ।
प्रत्यग्-वादिन्य् अपि प्रीतिः49 सत्यता-स्फुरद् ईरितः ॥१३७॥

नाना-भाषाः संस्कृतादयः, ता एव आलयः सख्यः, ताभिः सम्भाषा यस्य स ताथा-भूतो भवति । पुनः कीदृक् ? देव-पर्यन्त-देवनः देवैर् अपि दीव्यत्य् असौ नायक इति भावः । अस्य प्रत्यग्-वादिनि विरुद्ध-वादिनि अपि प्रीतिः अनुरागः, किं पुनः औदासीन्यं विद्वेषो वा। पुनः कीदृक् ? सत्यतया स्फुरत् सुस्पष्टं ईरितं वचनं यस्य स तथा-भूतो भवति ॥१३७॥

विश्वास-प्रस्तुतिः

वावदूक-50सुधी-मूक-स्थिति-कारि-सुधी-धरः ।
दृष्ट-मात्रतया सर्व-बुधतां51 बुधता-गुरुः ॥१३८॥

मूलम्

वावदूक-50सुधी-मूक-स्थिति-कारि-सुधी-धरः ।
दृष्ट-मात्रतया सर्व-बुधतां51 बुधता-गुरुः ॥१३८॥

असौ श्री-कृष्णः वावदूक-सुधी-मूक-स्थिति-कारि-सुधी-धरः—वावदूकानां वाचालानां सुधियां पण्डितानां मूकवत् स्थितं कारयति । या सुधीः सुबुद्धिः, तां धारयति यः स भवतीति शेषः । दृष्ट-मात्रतया दृष्टि-विषयी-भूतत्व-मात्रेण सर्व-बुधतानां सर्वज्ञ-समूहानां बुधतायाः पाण्डित्यस्य गुरुः आचार्यः ॥१३८॥

विश्वास-प्रस्तुतिः

योग्यानाम् अपि योग्याशी52 रङ्काङाम् अपि शङ्करः ।
शरणागत-रक्षायाः शरणं शर्म-कर्मठः ॥१३९॥

मूलम्

योग्यानाम् अपि योग्याशी52 रङ्काङाम् अपि शङ्करः ।
शरणागत-रक्षायाः शरणं शर्म-कर्मठः ॥१३९॥

योग्यानाम् गुणास्पदानाम् सम्बन्धे योग्याशीः यथोपयुक्त-वर-दान-कर्ता । इदानीं दुर्गत-दयालुतां दर्शयति—रङ्कानाम् दरिद्रानाम् अपि शङ्करः मनोऽभीष्ट-पूरकः । किं च, शरणागत-रक्षायाः सम्बन्धे शरणं, तं विना अन्यत् शरणं नास्ति इति भावः। पुनः कीदृक् ? शर्म-कर्मठः कल्याण-कर्म-कुशल इति भावः ॥१३९॥

विश्वास-प्रस्तुतिः

न च भक्तिं विनासक्ति53-बिन्दुः सिन्धुवद् अन्तरः ।
समः सर्वत्र भक्तानां भक्त इत्य् अप्य् असौ समः ॥१४०॥

मूलम्

न च भक्तिं विनासक्ति53-बिन्दुः सिन्धुवद् अन्तरः ।
समः सर्वत्र भक्तानां भक्त इत्य् अप्य् असौ समः ॥१४०॥

न च भक्तिम् इति । अनुरागं विना तस्य आसक्ति-बिन्दुः लव-परिमिता अपि आसक्तिः स्नेहः कस्यापि सम्बन्धे न च भवति । किं च, असौ सिन्धुवद् अन्तरः समुद्रवत् गभीराशयः,

वज्राद् अपि कठोराणि मृदूनि कुसुमाद् अपि । लोकोत्तराणां चेतांसि को नु विज्ञातुम् अर्हति ॥

समः सर्वत्रेति । भक्तानाम् अनुगतानाम् सम्बन्धे सर्वत्र कुटिल-वर्जितः उदारः इत्य् अर्थः । तस्य श्री-कृष्णस्य भक्तः इति अपि समः, तथा उदारः ॥१४०॥

विश्वास-प्रस्तुतिः

भक्तानां भक्ततानन्दी प्रेम-स्थेम-वशीकृतः ।
तत्-तद्-रूप-गुण-क्रीडा-कृत-स्वावधि-विस्मयः ॥१४१॥

मूलम्

भक्तानां भक्ततानन्दी प्रेम-स्थेम-वशीकृतः ।
तत्-तद्-रूप-गुण-क्रीडा-कृत-स्वावधि-विस्मयः ॥१४१॥

किं च, भक्तानाम् भक्ततानन्दी भक्ततया साधनेन आनन्दी आनन्दयति आत्मानां यः सः, सद्-आनन्दोऽपि भक्त्या आत्मानम् आनन्दयति इति भावः । किं च, प्रेम-स्थेम-वशीकृतः, प्रेम-स्थेम्ना प्रेम-गौरवेण वशीकृतः । तत्-तद्-रूप-गुण इति तत्-तद्-रूपेण अत्याश्चर्य-स्वरूपेण रूपेण वर्णाकृति-सौन्दर्येण गुणेन, क्रीडया च कृतः स्वावधि-विस्मयः येन सः, भवति इति शेषः । असौ स्वकीयं रूपादिकं दृष्ट्वा स्वयम् अपि विस्मितो भवतीति भावः ॥१४१॥

विश्वास-प्रस्तुतिः

स्नेहाभिषेकाद् विश्वेषां प्राज्य-साम्राज्य-पूजितः ।
सर्वत्र स्नेह-पीयूष-वर्षि-नित्य-नवाम्बुदः ॥१४२॥

मूलम्

स्नेहाभिषेकाद् विश्वेषां प्राज्य-साम्राज्य-पूजितः ।
सर्वत्र स्नेह-पीयूष-वर्षि-नित्य-नवाम्बुदः ॥१४२॥

विश्वेषां चराचरानां स्नेहाभिषेकात् स्नेहेन योऽभिषेकः अभिषेचनं, तस्मात् ज्ञापकत्व-हेतोः प्राजा-साम्राज्य-पूजितः प्राज्यं यथेष्टं साम्राज्यं, तत्र पूजितः इति अनुमितिः । इयां स्नेहाभिषेक-विशेष-हेतुका । किं च, सर्वत्र स्नेह एव पीयूषं, तद् वर्षति स्नेह-पीयूष-वर्षी । स च नित्यश् च नवश् च अम्बुदो मेघश् चेति स्नेह-पीयूष-वर्षिनित्य्-नवाम्बुदः । तद्-रूपः स भवति । एतेन तस्यापुर्व-मेघत्वं सूचितं ॥१४२॥

विश्वास-प्रस्तुतिः

गोष्ठ-वृन्दाटवी-शंसि-वंशी-गान-मधून्मदः ।
निज-प्रियावली-भाग्य-स्पृहि-विष्णु-प्रियार्चितः ॥१४३॥

मूलम्

गोष्ठ-वृन्दाटवी-शंसि-वंशी-गान-मधून्मदः ।
निज-प्रियावली-भाग्य-स्पृहि-विष्णु-प्रियार्चितः ॥१४३॥

गोष्ठं च वृन्दाटवी च गोष्ठ-वृन्दाटव्यौ । तयोः संसिनी या वंशी, तस्या गानम् एव मधु, तेन उन्मदः मत्तता-युक्तः, निज-प्रियानां गोपीनां आवली पङ्क्तिः, तस्या भाग्यं स्पृहयति या [विष्णु-प्रिया] कमला, तया अर्चितः ॥१४३॥

विश्वास-प्रस्तुतिः

किं बहूक्तेन सूक्तेन सूक्तेन श्रूयताम् इदम् ।
कृष्ण एव हि कृष्णः स्यात् कृष्णः स्यात् कृष्ण एव हि ॥१४४॥

मूलम्

किं बहूक्तेन सूक्तेन सूक्तेन श्रूयताम् इदम् ।
कृष्ण एव हि कृष्णः स्यात् कृष्णः स्यात् कृष्ण एव हि ॥१४४॥

[पूर्ववद् एकोनत्रिंशभिः]

सूक्तेन शोभनैः-पण्डितैर् उक्तेन सूक्तेन वर्णणेन बहुना किम् भवेत् ? इदं सर्वस्वं श्रूयतां मत्तः—कृष्णः कृष्ण एव, इत्य्-आदि कुत्रापि अन्यत्र कृष्णस्योपमा नास्ति इति भावः ॥१४४॥

विश्वास-प्रस्तुतिः

यस् तादृग् गुणवान् गोष्ठं नात्यन्तं त्यक्तुम् अर्हति ।
तादृग्-गुणान्वयि-प्रेम्ना तस्य बद्धश् च तद् यथा ॥१४५॥

मूलम्

यस् तादृग् गुणवान् गोष्ठं नात्यन्तं त्यक्तुम् अर्हति ।
तादृग्-गुणान्वयि-प्रेम्ना तस्य बद्धश् च तद् यथा ॥१४५॥

यः श्री-कृष्णः तादृग् गुणवान् असाधरण-गुण-मण्डितोऽपि गोष्ठं व्रजं त्यक्तुं अत्यन्तं न अर्हति, न समर्थो भवति । तद्-धेतुम् आह—तस्य व्रजस्य, व्रज-वासिनाम् इत्य् अर्थः, तादृग्-गुणान्वयि-प्रेम्ना कृष्ण-बन्धनाकूल-गुण-युक्तानुरागेण बद्धः, यथा तद् गोष्ठं श्री-कृष्णेन बद्धं ॥१४५॥

विश्वास-प्रस्तुतिः

दुस्त्यजश् चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम्54
यः सज्जन् कालिय-क्रोडं व्रजं सज्जन्तम् आत्मनि ॥१४६॥
नन्द ते तनयेऽस्मासु तस्याप्य् औत्पत्तिकः कथम्?55
विमृशन्न् उन्ममज्ज द्राग् वर्षन् हर्षं जगत्य् अपि ॥१४७॥

मूलम्

दुस्त्यजश् चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम्54
यः सज्जन् कालिय-क्रोडं व्रजं सज्जन्तम् आत्मनि ॥१४६॥
नन्द ते तनयेऽस्मासु तस्याप्य् औत्पत्तिकः कथम्?55
विमृशन्न् उन्ममज्ज द्राग् वर्षन् हर्षं जगत्य् अपि ॥१४७॥

[पूर्ववद् एव युग्मकम्]

दुस्त्यज इति दशम-स्कन्ध-श्लोकः । यः श्री-कृष्णः कालिय-क्रोडं सज्जन् निमग्नः सन् आत्मनि व्रजं नन्दादीन् सज्जन्तं विमृशन् विचारयन्, “मम कालिय-सङ्गतिं वीक्ष्य व्रज-वासिनः सर्वे नितरां दुःक-पीडिताः” इति वितर्क्य द्राक् झटिति जगति चराचरे हर्षं वर्षन् उन्ममज्ज, कालिय-शिरसि ननर्त इति यावत् ॥१४७॥

विश्वास-प्रस्तुतिः

यः शक्रे वक्रतां पश्यन् प्रेम्णा यन् व्रज-वश्यताम् ।
हृद्यार्थं तम् इमं विद्वान् अत्र व्यानग् यथार्थताम् ॥१४८॥

मूलम्

यः शक्रे वक्रतां पश्यन् प्रेम्णा यन् व्रज-वश्यताम् ।
हृद्यार्थं तम् इमं विद्वान् अत्र व्यानग् यथार्थताम् ॥१४८॥

यः श्री-कृष्णः शक्रे इन्द्रे वक्रताम् कुटिलताम् पश्यन् गणयन् प्रेम्णा व्रज-वश्यताम् यन् गच्छन्, व्रजाकृष्ट-चेता सन् इति भावः । विद्वान् हिताहित-विवेकवान् यथार्थतः तम् इमं हृद्यार्थं हृदय-ग्राह्यार्थं व्यानग् कथितवान् ॥१४८॥

विश्वास-प्रस्तुतिः

तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥१४९॥56

मूलम्

तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥१४९॥56

[पूर्ववद् एव युग्मकम्]

मच्-छरणं मद् आश्रितं गोष्ठं व्रजं स्वात्म-योगेन, स्व-शक्त्या गोपाये रक्षामि, सोऽयं मे आहितः अङ्गीकृतः व्रतो निष्ठा, “सर्व-दुःखेभ्यो व्रज-वासिनो रक्षिष्यामि” इति भावः ॥१४९॥

विश्वास-प्रस्तुतिः

यः सङ्कल्पं व्यधाद् एवं किं च भूधर-धारणम् ।
सप्त तत्राप्य् अहो-रात्रांस् तन्-मात्रङ्गीकृति-स्थितिः ॥१५०॥

मूलम्

यः सङ्कल्पं व्यधाद् एवं किं च भूधर-धारणम् ।
सप्त तत्राप्य् अहो-रात्रांस् तन्-मात्रङ्गीकृति-स्थितिः ॥१५०॥

यः श्री-कृष्ण एवं सङ्कल्प्य भूधर-धारणं गोवर्धन-धारणं व्यधात् कृतवान् । तत्रापि सप्त अहो-रात्रान् व्याप्य तन्-मात्रस्य गोवर्धन-पर्वत-मात्रस्य अङ्गीकृतौ स्थितिर् यस्य सः ॥१५०॥

विश्वास-प्रस्तुतिः

किं च यः सखि-वत्सेषु लुञ्चितेषु विरिञ्चिना ।
ससर्जान्यांस् तद्-आकारान् परं स्वेन परेण57 न ॥१५१॥

मूलम्

किं च यः सखि-वत्सेषु लुञ्चितेषु विरिञ्चिना ।
ससर्जान्यांस् तद्-आकारान् परं स्वेन परेण57 न ॥१५१॥

किं च, यः श्री-कृष्णः सखि-वत्सेषु विरिञ्चिना चतुर्मुखेन लुञ्चितेषु अपहृतेषु स्वेन समवायेन तद्-आकारान् अन्यान् ससर्ज, न परेण ॥१५१॥

विश्वास-प्रस्तुतिः

तथाप्य् अनिर्वृतिं गच्छंस् तान् आयच्छद् विरिञ्चितः ।
स्व-प्रेमाधिक-तत्-प्रेम-वशताम् आसदद् यतः ॥१५२॥

मूलम्

तथाप्य् अनिर्वृतिं गच्छंस् तान् आयच्छद् विरिञ्चितः ।
स्व-प्रेमाधिक-तत्-प्रेम-वशताम् आसदद् यतः ॥१५२॥

[पूर्ववद् एव युग्मकम्]

तथापि आत्मना सर्व-रूपतां गच्छत्य् अपि अनिर्वृतिं अशान्तिं गच्छन् विरिञ्चितः तान् सखि-वत्सान् आयच्छत् गृहीतवान् । तद् धेतुम् आह—यतः स्व-प्रेम्नः तान् प्रति स्व-निष्ठः यः प्रेमा, तस्मात् अधिकः तत्-प्रेमा, तेषां सखि-वत्सानां कृष्णं प्रति प्रेमा, तेन वशताम् अधीनताम् आसदत् अगच्छत् । सखि-वत्स-निष्ठः प्रेमा कृष्ण-निष्ठ-प्रेम्नः अधिक इति हेतोः श्री-कृष्णस् तत्-प्रेम-सुखम् अनुभवितुं तान् पुनर् आनयत् ब्रह्मतः ॥१५२॥

विश्वास-प्रस्तुतिः

यस् तान् स्वस्मिन् बक-ग्रस्ते ग्रस्तेहा-प्राणता-मितान् ।
स्व-मात्र-प्राण-पात्राङ्गान् विदन् भिन्दन्न्58 अपि स्थितः ॥१५३॥

मूलम्

यस् तान् स्वस्मिन् बक-ग्रस्ते ग्रस्तेहा-प्राणता-मितान् ।
स्व-मात्र-प्राण-पात्राङ्गान् विदन् भिन्दन्न्58 अपि स्थितः ॥१५३॥

यः श्री-कृष्णः स्वस्मिन् बक-ग्रास्ते सति, तान् ग्रस्तेहा-प्राणता-मितान् ग्रस्ता ईहा प्रानाश् च येषां इति, तस्य भावः ग्रस्तेहा-प्राणता, तया मितान् लक्षितान् स्व-मात्र-प्राण-पात्राङ्गान् स्व-मात्रं श्री-कृष्ण-मात्रं प्राण-पात्रम् यस्य तथा-भूतं अङ्गं येषां तथा-भूतान् विन्दन् जानन्, “अहह अलं क्लेशेन एषां वराकानाम्” इति विचिन्त्य भिन्दन् चञ्चु-पुटम् अपि स्थितः ॥१५३॥

विश्वास-प्रस्तुतिः

यस् तेष्व् अघ-निगीर्णेषु स्वयं कीर्णेहतां व्रजन् ।
तद्-गलान्तर् विशन्न् आत्म-निर्विशेषान् विवेद तान् ॥१५४॥

मूलम्

यस् तेष्व् अघ-निगीर्णेषु स्वयं कीर्णेहतां व्रजन् ।
तद्-गलान्तर् विशन्न् आत्म-निर्विशेषान् विवेद तान् ॥१५४॥

यः सखिषु अघ-निगीर्णेषु अघेन सर्पाकारासुरेन निगीर्णेषु गिलितेषु, स्वयम् अपि सखीन् दुर्गतान् दृष्ट्वा कीर्णेहतां विक्षिप्त-चेष्टतां व्रजन्, तेषां दुःखेन स्वयम् अपि क्षणं मुग्धः सन् तद्-गलान्तर् विशन् सर्प-मुख-गह्वरे दुर्गतैः सखिभिः मिलितः, तान् आत्म-निर्विशेषान् आत्मना निर्विशेषान् विशेष-रहितान् विवेद ज्ञातवान् । “सखि-वर्ग ! युष्माकं या गतिः, ममापि सा भवतु” इति भावः ॥१५४॥

विश्वास-प्रस्तुतिः

यस् तत्राप्य् अद्भुतं प्रेम श्रीमन्-नन्द-यशोदयोः ।
दम्पत्योर् नितराम् आसीद् गोप-गोपीष्व्59 इति स्मरन् ॥१५५॥
सदापि वेदवद् वेद तद् अशेष-विदां वरः ।
यद् एव शुकदेवाद्या वाद्याभं जगुर् उच्चकैः ॥१५६॥

मूलम्

यस् तत्राप्य् अद्भुतं प्रेम श्रीमन्-नन्द-यशोदयोः ।
दम्पत्योर् नितराम् आसीद् गोप-गोपीष्व्59 इति स्मरन् ॥१५५॥
सदापि वेदवद् वेद तद् अशेष-विदां वरः ।
यद् एव शुकदेवाद्या वाद्याभं जगुर् उच्चकैः ॥१५६॥

[पूर्ववद् युग्मकम्]

यः श्री-कृष्णः श्रीमन्-नन्द-यशोदयोः तत्र श्री-कृष्णे अर्थात् स्वस्मिन् अद्भूतं यत् प्रेम आसीत्, दम्पत्योर् नितराम् आसीत् गोप-गोपीषु इति श्रीमद्-भागवते दशम-स्कन्धे अष्टमाध्याये शुक-पठितं श्लोकं स्मरन् अशेष-विदां वरः निखिल-तत्त्वज्ञः सदापि वेदवत् तत् प्रेम वेद शुकदेवाद्या यत् प्रेम वाद्याभं दुन्दूभि-नादवत् उच्चकैः जगुः भूयो भूयः स्पष्टं वर्णितवन्त इति भावः ॥१५५-१५६॥

विश्वास-प्रस्तुतिः

यः स्वीयाम् ऋणितां व्यक्तां त्यक्तां कर्तुम् अशक्नुवन् ।
न पारयेऽहम्60 इत्य्-आद्यं प्रतिजज्ञे प्रियाः प्रति ॥१५७॥

मूलम्

यः स्वीयाम् ऋणितां व्यक्तां त्यक्तां कर्तुम् अशक्नुवन् ।
न पारयेऽहम्60 इत्य्-आद्यं प्रतिजज्ञे प्रियाः प्रति ॥१५७॥

यः श्री-कृष्णः व्यक्तां चराचर-प्रकटितां स्वीयां ऋणितां अधम-र्णतां त्यक्ताम् हीनां कर्तुम् अशक्नुवन् असमर्थः सन् न पारयेऽहम् [भा।पु। १०.३२.२२] इति श्री-भागवत-दशम-स्कन्धे द्वात्रिंशाद्याये पठितं श्लोकं अपि पठित्वा प्रियाः प्रति प्रतिजज्ञे प्रतिज्ञातवान्, “हे गोप्यः ! भवतां अदेय-दायित्वात् अहं ऋणी एव” ॥१५७॥

विश्वास-प्रस्तुतिः

यः कंसाद्यान् दन्तवक्र-प्राप्तान्61 सान्तान्62 विनिर्ममे ।
तद् विना व्रजम् आगन्तुं शान्तिः स्यान् नेत्य् अचिन्तयत् ॥१५८॥

मूलम्

यः कंसाद्यान् दन्तवक्र-प्राप्तान्61 सान्तान्62 विनिर्ममे ।
तद् विना व्रजम् आगन्तुं शान्तिः स्यान् नेत्य् अचिन्तयत् ॥१५८॥

यः श्री-कृष्णः दन्तवक्र-प्राप्तान् दन्त-वक्रेण प्राप्तान् युक्तान् कंसाद्यान् सान्तान् अन्तेन मृत्युना सह वर्तमानान् विनिर्मने कृतवान्, तद् विना दुष्टासुरानां वधं विना व्रजम् आगन्तुम् शान्तिर् न स्यात् इत्य् अचिन्तयत्, अन्यथासुरैः पुनः पुनः व्रजम् आक्रान्तं भविष्यति इति भावः ॥१५८॥

विश्वास-प्रस्तुतिः

यस् तन्-मध्ये समुत्कण्ठाम् अकुण्ठां63 शमयन्न् इव ।
स्वस्थान् कर्तुं व्रजान्तः-स्थान् मुहुः सान्त्वनम् आदधे ॥१५९॥

मूलम्

यस् तन्-मध्ये समुत्कण्ठाम् अकुण्ठां63 शमयन्न् इव ।
स्वस्थान् कर्तुं व्रजान्तः-स्थान् मुहुः सान्त्वनम् आदधे ॥१५९॥

यः श्री-कृष्णः तन्-मध्ये स्व-कर्तृक-कंसाद्य्-असुर-विनाशोपलक्षित-विरह-काले अकुण्ठाम् अव्याहतां समुत्कण्थाम् उद्विग्नतां शमयन् इव व्रजान्तः-स्थान् स्वस्थान् शान्तान् कर्तुं मुहुः सान्त्वनं प्रबोधम् आदधे कृतवान् इति ॥१५९॥

विश्वास-प्रस्तुतिः

यः स्व-प्रस्थान-समये “शरीर-स्था इमा नहि ।
भवेयुर्” इति सञ्जज्ञे प्रतिजज्ञे64 निजागतिम् ॥१६०॥

मूलम्

यः स्व-प्रस्थान-समये “शरीर-स्था इमा नहि ।
भवेयुर्” इति सञ्जज्ञे प्रतिजज्ञे64 निजागतिम् ॥१६०॥

यः श्री-कृष्णः स्व-प्रस्थान-समये स्वस्य मथुरा-प्रस्थान-काले “इमा व्रज-वासिन्यः शरीरस्था नहि भवेयुः” इति सञ्जज्ञे निर्धारितवान् । इति हेतोः इमाः प्रियाः गोपीः प्रति “अहं झटित्य् आयास्यामि” इत्य् आकारेण निजां आगतिं प्रतिजज्ञे ॥१६०॥

विश्वास-प्रस्तुतिः

यस् तत्र शुकदेवेन द्राघितः श्लाघितः65 स्तुतः ।
उभयेषां प्रेम-साम्यं व्यञ्जता व्यञ्जितास्पदः ॥१६१॥

मूलम्

यस् तत्र शुकदेवेन द्राघितः श्लाघितः65 स्तुतः ।
उभयेषां प्रेम-साम्यं व्यञ्जता व्यञ्जितास्पदः ॥१६१॥

यः श्री-कृष्णः तत्र श्री-कृष्ण-प्रयाण-समये उभयेषां कृष्ण-गोपीनाम् प्रेम-साम्यं सम-परिमाणताम् व्यञ्जता प्रकटयता शुकदेवेन द्राघितः शक्ति-मत्त्वेन परिचायितः, श्लाघितः श्लाघावत्त्वेन कथितः स्तुतः । व्यञ्जितास्पदः सर्व-माननीय-पदाभिषिक्तः ॥१६१॥

विश्वास-प्रस्तुतिः

तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः ।
सान्त्वयामास सप्रेमैर् आयस्य इति द्योतकैः ॥१६२॥66

मूलम्

तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः ।
सान्त्वयामास सप्रेमैर् आयस्य इति द्योतकैः ॥१६२॥66

[पूर्ववद् युग्मकम्]

“तप्यतीः सन्तप्यमानाः, आयास्ये “शीघ्रम् आगमिष्यामि” इति दूत-वाक्यैः” इति श्रीधर-स्वमि-चरणैः ॥१६२॥

विश्वास-प्रस्तुतिः

यः कंस-घ्नः शशंसेदं हरि-वंशेऽप्य् अनूदितम् ।
निश्वासा यस्य वेदाः स्युस् तद् एतत् कथम् अन्यथा? ।१६३॥

मूलम्

यः कंस-घ्नः शशंसेदं हरि-वंशेऽप्य् अनूदितम् ।
निश्वासा यस्य वेदाः स्युस् तद् एतत् कथम् अन्यथा? ।१६३॥

यः कंसघ्न इदं शशंस कथितवान् पूर्वोक्तम् इति भावः । हरि-वंशेऽप्य् अनूदितं यस्य निःश्वासा वेदाः स्युः, तस्य व्रजे पुनः प्रत्यागमनं कथम् अन्यथा भवेत् ? ॥१६३॥

विश्वास-प्रस्तुतिः

अहं स एव गो-मध्ये गोपैः सह वनेचरः ।
प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥१६४॥67

मूलम्

अहं स एव गो-मध्ये गोपैः सह वनेचरः ।
प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥१६४॥67

[पूर्ववद् युग्मकम्]

पुनर् हरि-वंश-वाक्यं प्रदर्शयति—अहं स एवेति । स एवाहं गो-मध्ये गोपैः गोपालैः सह वनेचरः वन-विहारी, अत एव प्रीतिमान् आह्लादितः सन् यथा कामचारी गजः तथा स्वच्छन्दं विचरिष्यामि ॥१६४॥

विश्वास-प्रस्तुतिः

यः कंसे लम्भित-ध्वंसे स्वं विनातिविलम्बितम् ।
कुर्वन्तं पितरं प्रोचे “शोचेः कथम् इतः पितः ?” ॥१६५॥

मूलम्

यः कंसे लम्भित-ध्वंसे स्वं विनातिविलम्बितम् ।
कुर्वन्तं पितरं प्रोचे “शोचेः कथम् इतः पितः ?” ॥१६५॥

यः श्री-कृष्णः कंसे उग्रसेन-सुते मथुराधीशे लम्बित-ध्वंसे मृत्यु-मुखं प्रापिते सति स्वम् आत्मानं, अर्थात् श्री-कृष्णं, विना अतिविलम्बितं कुर्वन्तं, “कृष्णं विना वयं कथं व्रजं यास्यामः?” इति विविच्य पितरं नन्दं प्रोचे कथितवान्, “हे पितः इतः हेतोः कथं शोचेः ?” ॥१६५॥

विश्वास-प्रस्तुतिः

यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥१६६॥68

मूलम्

यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥१६६॥68

श्री-भागवते दशम-स्कन्धे पञ्च-चत्वारिंशाधाये यात युयम् इति श्लोकः । “हे तात ! यूयं व्रजं यात गच्छत, वयं च स्नेह-दुखितान् मद्-विरहोत्थ-स्नेह-कातरान् ज्ञातीन् वो यूष्मान् पुनः द्रष्टुम् एष्यामः गमिष्यामः । “कदा ?” तद् आह—सुहृदां यदूनां सुखं विधाय शत्रु-मारणादिनेति भावः ॥१६६॥

विश्वास-प्रस्तुतिः

“स्नेहेन दुःखितान्” इत्य् एतत् प्रोच्य स्नेह-वस्तुनि ।
अतृप्तिं व्यानग् अत्रापि “द्रष्टुम्” इत्य् एव दर्शनम् ॥१६७॥

मूलम्

“स्नेहेन दुःखितान्” इत्य् एतत् प्रोच्य स्नेह-वस्तुनि ।
अतृप्तिं व्यानग् अत्रापि “द्रष्टुम्” इत्य् एव दर्शनम् ॥१६७॥

स्नेहेन दुःखीतान् कातरान् इति एतत् पूर्वोक्तं प्रोच्य स्नेह-वस्तुनि स्नेह एव वस्तु तद्-विषये अतृप्तिं व्यानक् गतवान् । वक्तुस् त्व् एवम् आशयः, “एष्यामि”-मात्र-कथने एषां मत्-पित्रादीनाम् नितरां स्नेह-कातराणां चित्त-शान्तिर् न भविष्यति, अतः पुनः “द्रष्टुम्” इति कथितवान् ॥१६७॥

विश्वास-प्रस्तुतिः

पुरुषार्थतयावोचद् भावि-कालतयापि च ।
अतृप्तेर्69 भाविकालस्य चानन्त्यात् तदनन्तकम् ॥१६८॥

मूलम्

पुरुषार्थतयावोचद् भावि-कालतयापि च ।
अतृप्तेर्69 भाविकालस्य चानन्त्यात् तदनन्तकम् ॥१६८॥

पूर्व-श्लोक-पठितं दर्शनं पुरुषार्थतया विधेयतया भावि-कालतया च भविष्यत्-काल-निष्ठतया च अवोचत् श्री-कृष्णः कथितवान् । तच् च कृष्ण-कर्तृक-नन्दादि-दर्शनं अनन्तकं अनवच्छिन्नं तत्र हेतु आह—अतृप्तेः दर्शनस्य तृप्ताभाव-श्रवणात्, भविष्यत्-कालस्य आनन्त्याच् च ॥१६८॥

विश्वास-प्रस्तुतिः

तातज्ञातिपदाभ्यां च तद् युक्तम् इदम् उक्तवान् ।
सुहृदां सुखम् इत्य् आख्यास्यते यद्वत् तथा नहि ॥१६९॥

मूलम्

तातज्ञातिपदाभ्यां च तद् युक्तम् इदम् उक्तवान् ।
सुहृदां सुखम् इत्य् आख्यास्यते यद्वत् तथा नहि ॥१६९॥

तात-ज्ञातीति श्री-कृष्णः तद् तात-ज्ञाति इति पदाभ्यां युक्तं उचितम् उक्तवान् नन्दन् तु पितृत्वेन सम्बोधितवान् वसुदेवादीन् सुहृत्-पदेनोल्लिखितवान् तद् आशयं विवृणोमि सुहृदां सुखम् इति यद्वत् सुहृदां सुखम् इति आख्यास्यते तथा नन्दानीनां नहि भवति अर्थात् नन्दन् तु कृष्णः तातं ज्ञातिं मेने वसुदेवादीन् सुहृदो मेने, यस्य सुख-मात्रम् इच्छति स सुहृद् इति भावः ॥१६९॥

विश्वास-प्रस्तुतिः

सुहृच्छब्देनोपकार्योपकारित्वं प्रतीयते ।
सुखं च सुहृदां गम्यम् उपकार-मयं परम् ॥१७०॥

मूलम्

सुहृच्छब्देनोपकार्योपकारित्वं प्रतीयते ।
सुखं च सुहृदां गम्यम् उपकार-मयं परम् ॥१७०॥

उपकार्यश् च उपकारी च तौ उपकार्योपकारिणौ, तयोर् भावः उपकार्योपकारित्वं, प्रतीयतेऽवधार्यते । किं च, शोभनं हृदयं यस्य स सुहृत्, तस्मात् उपकार-मयं परं सुखं सुहृदाम् वसुदेवादीनां गम्यम् अवधारनीयं सुधीभिः ॥१७०॥

विश्वास-प्रस्तुतिः

विधायेति च पूर्वस्य कालस्य च्छिन्न-रूपता ।
तस्मात् तेषां शत्रु-वधः सुखं यत् तत् समाप्स्यति ॥१७१॥

मूलम्

विधायेति च पूर्वस्य कालस्य च्छिन्न-रूपता ।
तस्मात् तेषां शत्रु-वधः सुखं यत् तत् समाप्स्यति ॥१७१॥

विधायेति चेति यत् तु यात यूयम् इति श्लोके विधाय इति पदम् असि इत्य् अत्र क्ताच् प्रत्ययोगात् पूर्व-कलो गम्यते स च पूर्व-कालः पर-काल-क्रिताच्छिन्नो भवति भुक्त्वा व्रजतीतिवत्, तद् एवाहा पूर्वस्य कालस्य छिन्न्येत्यादिना, तस्माद्धेतोः पूर्व-काल-निष्ठ-क्रिया-साध्य-शत्रु-वध-जनितं सुखं यत्, तत् अवस्यं समाप्स्यति च्छिन्नः भवति इत्य् आह—तस्मत् तेषां शत्रु-वधेत्यादिना ॥१७१॥

विश्वास-प्रस्तुतिः

ज्ञातीनां स्नेह-शीलानां तत् तु वो नसमाप्स्यति ।
इति प्रोच्येदम् अव्याञ्जीत् तेषां धैर्यप्रदं70 परम् ॥१७२॥

मूलम्

ज्ञातीनां स्नेह-शीलानां तत् तु वो नसमाप्स्यति ।
इति प्रोच्येदम् अव्याञ्जीत् तेषां धैर्यप्रदं70 परम् ॥१७२॥

ज्ञातीनां स्नेह-श्लिलनाम् इति स्नेहशीलानाम् अकृत्रिम-मित्रानां ज्ञातीनां वः युष्माकं तत् मद् दर्शन-जनित-सुखन्तु न कदाचित् न समाप्स्यति छिन्नं न भवति तेषां नन्दादीनाम् परः धैर्य-प्रदः चित्तस्वास्थ्य-कारकः इति द्रष्टुं, विधाय इति पद-द्वय-निहितार्थं प्रोच्य इदं पुनर् आगमनं व्याज्ञीत् प्रकटितवान् ॥१७२॥

विश्वास-प्रस्तुतिः

मागधादिवधान्तस्थं71 स्वस्थता धाम यद् भवेत्
जरासन्धादिशत्रूणां प्रतिबन्धान् उपेक्ष्य च ।
यद्य् एष्याम्य् अनुसन्धानं कुर्युस् तत्रापि ते द्विषः ॥१७३॥

मूलम्

मागधादिवधान्तस्थं71 स्वस्थता धाम यद् भवेत्
जरासन्धादिशत्रूणां प्रतिबन्धान् उपेक्ष्य च ।
यद्य् एष्याम्य् अनुसन्धानं कुर्युस् तत्रापि ते द्विषः ॥१७३॥

मागधादि-वधान्तस्थेति हे पितः मागधादि-वधास्न्ते जरासन्धादि-प्रवल-वीर वधान्ते स्वस्थता निश्चिन्तता तस्या धाम अगारं भवेद् व्रजम् इति शेषः । जरासन्धादि-शत्रुणां मगध-पति-जरासन्ध-शिशुपाल-प्रभृति-दुर्जय-वीराणां प्रति बन्धान् विघान् तैः करिष्यमानान् इति भावः उपेक्ष्य अविगणय यदि व्रजम् एषामि, तर्हि ते प्रवला द्विषः शत्रवः तत्र व्रजेऽपि निश्चितं मम अनुसन्धानं कुर्युः तदा सुखमये व्रजे महान् सम्भ्रमो भविष्यति ॥१७३॥

विश्वास-प्रस्तुतिः

स्वेषाम् एव प्रतिज्ञाय व्रजागमनम् ईश्वरः ।
न यूयम् अत्रायातेति व्यज्य व्याञ्जीद् इदं पुनः॥१७४॥

मूलम्

स्वेषाम् एव प्रतिज्ञाय व्रजागमनम् ईश्वरः ।
न यूयम् अत्रायातेति व्यज्य व्याञ्जीद् इदं पुनः॥१७४॥

येषाम् एवेति ईश्वरः सर्व-नियन्ता स्वेषां आत्मीयानाम् एव अग्रे पुनर् व्रजागमनं प्रतिज्ञाय यूयं व्रज-वासिनः अत्र माथुरायां न आयात आगच्छत इति व्यज्य कथयित्वा इदं वक्यामाणं पुनः व्याञ्जीत् कथितवान् ॥१७४॥

विश्वास-प्रस्तुतिः

यदि वात्र भवन्तः स्युर् गमागम-विधायिनः ।
तथाप्य् अच्छिन्न-मत्-स्नेहं ज्ञात्वा हन्युर् व्रजं द्विषः ॥१७५॥

मूलम्

यदि वात्र भवन्तः स्युर् गमागम-विधायिनः ।
तथाप्य् अच्छिन्न-मत्-स्नेहं ज्ञात्वा हन्युर् व्रजं द्विषः ॥१७५॥

किं तत् ? तद् आह—यदि वात्र भवन्त इति । यदि भवन्तः अत्र मथुरायाम् आगम-विधायिनः स्युः, अर्थात् पुनर् अत्रागमिष्यन्ति भवन्तः, तदा ते द्विषः शत्रवः तथा पूर्ववत् अच्छिन्न-मत्-स्नेहं, अद्यापि व्रज-वासि-गोपानां श्री-कृष्णेऽविच्छिन्ना प्रीतिः इति अपि निश्चितं ज्ञात्वा व्रजं हन्युः, पुनः पुनः व्रजं पीडयिष्यन्ति ते दुष्टा इत्य् अर्थः ॥१७५॥

विश्वास-प्रस्तुतिः

तस्मात् तावद् धीर-भावं विधत्त व्रज-संसदि ।
मां च युष्मत्-प्रियं नित्यं लालनं च समाप्स्यथ ॥१७६॥

मूलम्

तस्मात् तावद् धीर-भावं विधत्त व्रज-संसदि ।
मां च युष्मत्-प्रियं नित्यं लालनं च समाप्स्यथ ॥१७६॥

[पूर्ववन् नवभिः]

तस्माद् हेतोः व्रज-संसदि, व्रज एव संसद् वास-स्थली, तस्यां, न त्व् अन्यत्र धीर-भावं धैर्यं विधत्त कुरुत, युष्मत्-प्रियं मां च नित्यं शश्वत् लालनं च समाप्स्यथ, “कियत्-कालं प्रतीक्षन्ताम् भवन्तः, ततः चिर-सुखं भविष्यति” इति भावः ॥१७६॥

यः सङ्गत्य गुरोर् गेहात् प्रतत्य स्व-व्रज-स्मृतिम् ।

विश्वास-प्रस्तुतिः

प्राहिणोद् उद्धवं वक्तुं सुनिश्चितम् इदं यथा ॥१७७॥

मूलम्

प्राहिणोद् उद्धवं वक्तुं सुनिश्चितम् इदं यथा ॥१७७॥

यः श्री-कृष्णः गुरोः आचार्यात् सङ्गत्य, अर्थात् विद्याम् आदाय तस्य गेहात् प्रत्यागत्य स्व-व्रज-स्मृतिं परमान्तरङ्ग-नन्द-गोष्ठ-स्मारणं प्रतत्य स्व-चित्ते प्रसार्य इदं वक्ष्यमानं सुनिश्चितं वक्तुं उद्धवं प्राहिनोत् प्रेरयामास ॥१७७॥

विश्वास-प्रस्तुतिः

हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥१७८॥72

मूलम्

हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥१७८॥72

रङ्ग-मध्ये सभा-मध्ये सर्व-सात्वताम् प्रतीपं शत्रुं कंसं हत्वा युष्मान् यद् आह,

यात यूयं व्रजं तता वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भा।पु। १०.४५.२३] इति ।

यद् आह कृष्णः समागत्य तत् सत्यं करिष्यतीति ॥१७८॥

विश्वास-प्रस्तुतिः

आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः ।
प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥१७९॥73

मूलम्

आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः ।
प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥१७९॥73

[पूर्ववद् त्रिभिः]

आगमिष्यत्य् अदीर्घेण पित्रोर् युवयोर् इति स्वामि-पादाः ॥१७९॥

विश्वास-प्रस्तुतिः

यः सास्रम् उद्धवं सास्रः पतिस् तासां स्वयं रहः ।
असङ्कोचम् अवोचेत्थं प्रेष्ठम् एकान्तिनं क्वचित् ॥१८०॥

मूलम्

यः सास्रम् उद्धवं सास्रः पतिस् तासां स्वयं रहः ।
असङ्कोचम् अवोचेत्थं प्रेष्ठम् एकान्तिनं क्वचित् ॥१८०॥

सास्रः अस्रेण प्रेमाश्रुना सह वर्तमानः [प्रेमाश्रुना युक्तः सन्] तासां गोपीनां पतिः यः श्री-कृष्णः स्वयं रहः निर्जने प्रेष्ठं प्रियतमं नर्म-सुहृदं एकान्तिनं कृष्ण-मात्र-प्राणं सास्रं नयन-जल-युक्तम् उद्धवम् असङ्कोचं स-विश्राम्भं, “अनेन परम-सुहृदा मम रहस्यं अन्यत्र व्यक्तं न भविष्यति” इति विज्ञाय इत्थम् अवोचत् ॥१८०॥

विश्वास-प्रस्तुतिः

गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः74 ॥१८१॥

मूलम्

गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः74 ॥१८१॥

प्रपन्नार्ति-हरः शरणागत-पीडा-हारकः हरिः श्री-कृष्णः पाणिना स्वकीयेन उद्धवस्य पाणिं गृहीत्वा धृत्वा, बन्धुत्वं द्रढयन्न् इत्य् अर्थः, तम् उद्धवम् आहेति पूर्वार्धेनान्वयः ।

तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् । गृहीत्वा पाणिना पानिं प्रपन्नार्ति-हरो हरिः ॥

इति दशम-स्कन्धस्य षट्-चत्वारिंशाधाये द्वितीयः श्लोकः ॥१८१॥

विश्वास-प्रस्तुतिः

गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह ।
गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय75 ॥१८२॥

मूलम्

गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह ।
गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय75 ॥१८२॥

हे उद्धव ! हे सौम्य ! प्रसन्न-मुख ! सौम्येति पदेन दूतस्य कार्य-साधकत्वं सूचयति वक्ता । व्रजं नन्द-गोष्ठं गच्छ व्रज । तत्र किं कर्तव्यम् ? इत्य् अत आह—पित्रोः नन्द-यशोदयोः मद्-विरह-कतरयोः प्रीतिं चित्त-स्वास्थ्यम् आवह कुरु । अन्यद् अतिरहस्यं शृणु । किम् ? इत्य् अत आह—गोपीनाम् मत्-कान्तानाम् मद्-वियोगाधिं मम वियोगेन जनितः य आधिः मानसी-व्यथा, तत् मत्-सन्देशैः आश्वास-भर-परिपूर्ण-वार्ताभिर् विमोचय दूरीकुरु ॥१८२॥

विश्वास-प्रस्तुतिः

ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः ।
माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः ।
ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम्76 ॥१८३॥

मूलम्

ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः ।
माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः ।
ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम्76 ॥१८३॥

गोपीनां सन्देशे कारणम् आह—ता मन्-मनस्केति । मयि सङ्कल्पात्मकं मनो यासां ताः, अहम् एव प्राणा यासां ताः, मद्-अर्थे त्यक्ता दैहिकाः पति-पुत्रादयो याभिः ताः । ततः किम्? अत आह—ये त्यक्त-लोक-धर्मा इति । मन्-निमित्तं त्यक्तौ लोक-धर्मौ इहामुत्र-सुखे तत्-साधनानि च यैः, तान् बिभर्मि पोषयामि संवर्धयामि सुखयामीत्य् अर्थः इति श्रीधर-स्वामि-पादाः ॥१८३॥

विश्वास-प्रस्तुतिः

मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुल-स्त्रियः ।
स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥१८४॥
धारयन्त्य् अतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन ।
प्रत्यागमन-सन्देशैर् वल्लव्यो मे मद्-आत्मिकाः77 ॥१८५॥

मूलम्

मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुल-स्त्रियः ।
स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥१८४॥
धारयन्त्य् अतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन ।
प्रत्यागमन-सन्देशैर् वल्लव्यो मे मद्-आत्मिकाः77 ॥१८५॥

[पूर्ववत् षड्भिः]

तासां वियोगाधिं दर्शयति द्वयेन—मयि ता इति । विरहेण यद् औत्कण्ठ्यं, तेन विह्वलाः परवशाः ॥१८४॥ गोकुलान् निर्गमन-समये “शीघ्रम् आगमिष्यामि” इति ये प्रत्यागमन-सन्देशाः, तैः । मे मदीया वल्लव्यो गोप्यः मद्-आत्मिका इति । “तासाम् आत्मा यदि स्व-देहे, तर्हि विरह-तापेन दह्येतैव । तस्य मयि वर्तमानत्वात् कथञ्चिज् जीवन्ति” इति भावः । इति श्रीधर-स्वामि-पादाः ॥१८५॥

विश्वास-प्रस्तुतिः

यस् तथा प्रोच्य यत् प्रत्याययत् तच् च विलोच्यताम् ।
यद् विलोचन-मात्रेण भ्रमस् ते श्वभ्रतां व्रजेत् ॥१८६॥

मूलम्

यस् तथा प्रोच्य यत् प्रत्याययत् तच् च विलोच्यताम् ।
यद् विलोचन-मात्रेण भ्रमस् ते श्वभ्रतां व्रजेत् ॥१८६॥

यः श्री-कृष्णः तथा तेन प्रकारेण व्रज-वासिनः गोपीश् च सान्त्वयित्वा यत् प्रत्याययत् विश्वसितम् अकारयत्, यद् विलोच्यताम् प्रेक्षया विचार्यताम्, यस्य विलोचन-मात्रेण प्रेक्षा-पूर्वक-विचार-मात्रेण ते भ्रमः श्वभ्रतां शून्यतां व्रजेत् ॥१८६॥

विश्वास-प्रस्तुतिः

माम् एवेत्य्78 आदिना तासाम् अन्तः-पतिर् अहं परम् ।
बहिर्-व्यवहृतिर् लोक-दृष्टेति स्पष्टम् आतनोत् ॥१८७॥

मूलम्

माम् एवेत्य्78 आदिना तासाम् अन्तः-पतिर् अहं परम् ।
बहिर्-व्यवहृतिर् लोक-दृष्टेति स्पष्टम् आतनोत् ॥१८७॥

यः श्री-कृष्णः माम् एव दयितं प्रेष्ठम् इति दशम-स्कन्ध षट्-चत्वारिंशाध्याये चतुर्थ-श्लोकेन तासां गोपीनाम् अहम् अन्तः अन्तरस्य परं पतिः बहिर्-व्यवहृतिः अन्य-पतिवत्ता लोक-दृष्टा, लोक-व्यवहार-रक्षार्थम् इति भावः, इति गूढं स्पष्टम् आतनोत् स्फुटीकृतवान् ॥१८७॥

विश्वास-प्रस्तुतिः

यत् पित्रोर्79 इत्य् उरीचक्रे पितृत्वं वल्लवेन्द्रयोः ।
तस्माद् वल्लव-मानित्वम् आत्मानश् च व्यजिज्ञपत् ॥१८८॥

मूलम्

यत् पित्रोर्79 इत्य् उरीचक्रे पितृत्वं वल्लवेन्द्रयोः ।
तस्माद् वल्लव-मानित्वम् आत्मानश् च व्यजिज्ञपत् ॥१८८॥

यः श्री-कृष्णः दशम-स्कन्धीय-षट्चत्वारिंशाध्याय तृतीय-श्लोकस्थित पित्रोर् इति पदेन वल्लवेन्द्रयोः, वल्लवी च वल्लवेन्द्रश् च, तौ पितरौ, तयोर् भावं पितृत्वं उरीचक्रे स्वीकृतवान्, तस्मात् ज्ञापक-व्यवहारात् आत्मनो वल्लव-मानित्वं आत्मानं वल्लवं मन्यते यः, स वल्लव-मानी, तस्य भावः वल्लवमानित्वं, अर्थात् गोप-जातित्वं व्यजिज्ञपत् प्रचारयामास ॥१८८॥

विश्वास-प्रस्तुतिः

तत्र चाह न इत्य् एतद् बहु-वाचि-पदाद् इदम् ।
मयि जाते तयोः पुत्रे रामे त्वयि च पुत्रता ॥१८९॥

मूलम्

तत्र चाह न इत्य् एतद् बहु-वाचि-पदाद् इदम् ।
मयि जाते तयोः पुत्रे रामे त्वयि च पुत्रता ॥१८९॥

तत्र प्रसङ्गेऽसौ श्री-कृष्णः नः80 इति आह । एतद् बहु-वाचि-पदाद् इदं मर्म प्रकटितवान् । किं तत् ? तद् आह—मयि तयोः यशोदा-नन्दयोः पुत्रे जाते, कैमुत्येन रामे बलदेवे, त्वयि उद्धवे च तयोः पुत्रता जाता । त्वं बलदेवोऽपि तयोः इत्य् अर्थः ॥१८९॥

विश्वास-प्रस्तुतिः

ततश् च ताः प्रति प्राख्यद् वल्लव्यो म इति स्फुटम् ।
यद् अमूषु स्व-दारत्वं81 व्यानञ्ज स्वयम् अञ्जसा ॥१९०॥

मूलम्

ततश् च ताः प्रति प्राख्यद् वल्लव्यो म इति स्फुटम् ।
यद् अमूषु स्व-दारत्वं81 व्यानञ्ज स्वयम् अञ्जसा ॥१९०॥

ततः तद्-अन्तरं श्री-कृष्णः ता गोपीः प्रति वल्लव्यो गोप्यः मे मम सत्त्वास्पदी-भूता इति स्फुटं प्राख्यत् कथितवान्, यद् अमूष्व् इति असौ स्वयम् अमूषु गोपीषु स्व-दारत्वं स्व-पत्नीत्वं अञ्जसा यथार्थतः व्यानञ्ज प्रचारितवान् ॥१९०॥

विश्वास-प्रस्तुतिः

मद्-दारत्वं च तासां ताः सदा यस्मान् मद्-आत्मिकाः ।
मद्-आत्मकत्वम् आशु स्याद् अभेदाच् छक्ति-तद्वतोः ॥१९१॥

मूलम्

मद्-दारत्वं च तासां ताः सदा यस्मान् मद्-आत्मिकाः ।
मद्-आत्मकत्वम् आशु स्याद् अभेदाच् छक्ति-तद्वतोः ॥१९१॥

“मद्-दारत्वं च” इति तत्र दशम-स्कन्धीय-षट्चत्वारिंशाध्याये षष्ठ-श्लोके मद्-आत्मिका इति पदेन तासां गोपीनां सदा नित्यं मद्-दारत्वं च व्यनञ्ज । गोप्योऽपि सदा आत्मनः कृष्ण-भार्यात्वं मन्यन्ते इति भावः । श्री-कृष्ण-गोप्योर् अभेदं प्रतिपादयति—मद्-आत्मकत्वम् इति । अहम् एव आत्मा स्वरूपं यासां ताः, मद्-आत्मनः ततः । स्वार्थे कः । श्री-कृष्णस्यायम् आशयः—यद् गोपीनां मत्तः पृथक् सत्तं नास्ति, अतोऽसौ मद्-आत्मिका इति कथितवान् । तच् च मद्-आत्मकं शक्ति-तद्वतोः शक्ति-शक्तिमतोः अभेदात् तन्त्र-सिद्धाद् आशु स्यात् । सुगमम् । गोप्यस् तु श्री-कृष्ण-शक्तय एवेति फलितम् ॥१९१॥

विश्वास-प्रस्तुतिः

इति व्यञ्जन् मन्-मनस्का82 इत्य् उक्तं नात्यपैक्ष्यत83
न चान्यवद् इहापेक्ष्यम् अन्यद् इत्य् अप्य् अमन्यत ॥१९२॥

मूलम्

इति व्यञ्जन् मन्-मनस्का82 इत्य् उक्तं नात्यपैक्ष्यत83
न चान्यवद् इहापेक्ष्यम् अन्यद् इत्य् अप्य् अमन्यत ॥१९२॥

इति मद्-आत्मिकत्वं व्यञ्जन् अमन्यत इति अन्वयः । मन्-मनस्का इत्य् उक्तं, न अत्यपेक्षित मद्-आत्मिकात्वेनैव मन्-मनस्कत्वं दण्डापूपिक-न्यायेन आपादितम् इति भावः । न च अन्यवत् प्राकृत-लोकवत् अन्यद् विवाहादिकम् अपेक्ष्यम् इत्य् अमन्यत ॥१९२॥

विश्वास-प्रस्तुतिः

धारयन्तीति84 च प्रोच्य प्रत्यागमनम् उद्दिशन् ।
वल्लव्यो म85 इति प्राख्यत् तस्माद् एव न्यजीगमत् ॥१९३॥

मूलम्

धारयन्तीति84 च प्रोच्य प्रत्यागमनम् उद्दिशन् ।
वल्लव्यो म85 इति प्राख्यत् तस्माद् एव न्यजीगमत् ॥१९३॥

तत्रैव धारयन्ति इति प्रोच्य प्रत्यागमनं पुनर् व्रजे उद्दिशन् स्वाभिप्रायं स्फुटी-कुर्वन्, वल्लव्यो मे इति पुनः प्राख्यत् कथितवान् । तस्माद् एव हेतोः न्यजीगमत्, प्रत्यागमनं व्यजिज्ञपत् ॥१९३॥

विश्वास-प्रस्तुतिः

गमनं मम तज् जज्ञे स्वाम् अवश्यं कृतिं प्रति ।
आगम्य स्वीयतां तासां पूरयिष्याम्य् अदूरतः ॥१९४॥

मूलम्

गमनं मम तज् जज्ञे स्वाम् अवश्यं कृतिं प्रति ।
आगम्य स्वीयतां तासां पूरयिष्याम्य् अदूरतः ॥१९४॥

[पूर्ववद् नवभिः]

स्वां कृतिं कर्तव्यं प्रति मम अवश्यं तद् गमनं जज्ञे जातं । अदूरतः शीघ्रं आगम्य प्रत्यागत्य तासां गोपीनां स्वीयतां स्वकीयतां पूरयिष्यामि ॥१९४॥

विश्वास-प्रस्तुतिः

यस् तासु बहुधा ज्ञानं निदिश्यापि मुधा विदन् ।
साक्षाद् आत्मीय-सम्प्राप्तिं86 साक्षाद् एव निदिष्टवान् ॥१९५॥

मूलम्

यस् तासु बहुधा ज्ञानं निदिश्यापि मुधा विदन् ।
साक्षाद् आत्मीय-सम्प्राप्तिं86 साक्षाद् एव निदिष्टवान् ॥१९५॥

यः श्री-कृष्णः तासु स्व-प्रेयसीषु गोपीषु बहुषु बहु-प्रकारं,

भवतीनां वियोगो मे नहि सर्वात्मना क्वचित् । यथा भूतानि भूतेषु खं वाय्व्-अग्निर् जलं मही ॥ [भा।पु। १०.४७.२९]

इत्य्-आदि-रूपेण उद्धव-मुख-निःसारितेन श्लोक-पुञ्जेन ज्ञानं निर्दिश्यापि मुधा वृथा विदन् ज्ञात्वा साक्षाद् आत्मीय-सम्प्राप्तिं, न तु रूपान्तरावच्छेदेनेति भावः, साक्षाद् एव स्पष्टं निर्दिष्टवान् ताभ्यः गोपीभ्यः ॥१९५॥

विश्वास-प्रस्तुतिः

मय्य् आवेश्य मनः कृष्णे विमुक्ताशेस-वृत्ति यत् ।
अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥१९६॥87

मूलम्

मय्य् आवेश्य मनः कृष्णे विमुक्ताशेस-वृत्ति यत् ।
अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥१९६॥87

किं निर्देश-वचनं ? तद् आह—दशम-स्कन्धीय-वाक्यं सप्तचत्वारिंशाध्याये मय्य् आवेश्य मन [भा।पु। १०.४७.३६] इति विमुक्ता परिहृता अशेष-वृत्तयः विषयाकारा यस्मात्, तथा-भूतं मनः कृष्णे सर्वथा मयि भगवति आवेश्य नित्यं माम् अनुस्मरन्त्यो यूयम् अचिरात् शीघ्रम् उपैष्यथ प्राप्स्यथ ॥१९६॥

विश्वास-प्रस्तुतिः

या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः ।
अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥१९७॥88

मूलम्

या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः ।
अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥१९७॥88

[पूर्ववद् त्रिभिः]

अपैष्यथ इति माधुर्य-मात्रम् इति चेत्, अत आह—या मयेति । हे कल्याण्यः ! स्व-भर्तृभिः प्रतिबद्धा या वने क्रीडता मया सह अलब्ध-क्रीडास् तास् तदैव मा माम् आपुः । श्रीधर-स्वामि-पादाः ॥१९७॥

विश्वास-प्रस्तुतिः

यस् तदा सन्दिशन् सन्दीपितम् एतद् विनिर्ममे ।
तद् एतच् छृणु मच्-चित्त गुप्त-वित्तं मनुष्व च ॥१९८॥

मूलम्

यस् तदा सन्दिशन् सन्दीपितम् एतद् विनिर्ममे ।
तद् एतच् छृणु मच्-चित्त गुप्त-वित्तं मनुष्व च ॥१९८॥

यः श्री-कृष्णः तदा तस्मिन् समये सन्दिशन् उपदेशं कुर्वन् एतत् सन्दीपितं प्रचारं विनिर्ममे कृतवान् । हे मच्-चित्त ! एतत् गुप्त-वित्तं गुप्त-धनं शृणुष्व, तद्-अर्थकं वाक्यम् इति भावः, श्रुत्वा मनुष्व विचार्यतां मनसि गृह्यताम् इति ॥१९८॥

विश्वास-प्रस्तुतिः

वृत्तीर् यद् अन्या निर्मुच्य मय्य् आमुच्य मनः स्थिताः ।
माम् आप्स्यथ द्रुतं तस्मान् मम नात्र स्वतन्त्रता ॥१९९॥

मूलम्

वृत्तीर् यद् अन्या निर्मुच्य मय्य् आमुच्य मनः स्थिताः ।
माम् आप्स्यथ द्रुतं तस्मान् मम नात्र स्वतन्त्रता ॥१९९॥

किं तत् ? इत्य् आह—वृत्तिर् यद् अन्येति । अन्या विषयाकारा वृत्तीः निर्मुच्य परित्यज्य, अर्थात् तद्-भिन्न-सङ्कल्पं हित्वा, मयि भगवति मन आमुच्य निवेश्य स्थिताः, दृढ-सङ्कल्पा यूयं । तस्माद् धेतोः द्रुतं माम् आप्स्यथ, अत्र स्मरण-प्रतिदान-विधये स्वतन्त्रता अन्यथा कर्तुं क्षमता नास्ति, मम भगवतोऽपि ॥१९९॥

विश्वास-प्रस्तुतिः

मयीत्य्89 अनेन प्राप्तेऽपि कृष्णे कृष्ण-पदं ब्रुवन् ।
अन्य-रूपं मन्यमानान् हन्यमानान् व्यधात् प्रभुः ॥२००॥

मूलम्

मयीत्य्89 अनेन प्राप्तेऽपि कृष्णे कृष्ण-पदं ब्रुवन् ।
अन्य-रूपं मन्यमानान् हन्यमानान् व्यधात् प्रभुः ॥२००॥

मयि इति अनेन कथनेन कृष्णे प्राप्तेऽपि पुनः दशम-स्कन्धे सप्तचत्वारिंशाध्याये षट्-त्रिंशत्-श्लोके कृष्ण-पदं ब्रुवन् कथयन् अन्य-रूपं इष्टस्य अन्य-रूपान् मन्यमानान् विचार्य स्व-मतं स्थापयतः हन्यमामान् व्यधात् निग्रह-स्थानं प्रापयत् इत्य् अर्थः । कः ? इत्य् आकाङ्क्षायाम् आह—प्रभुः सर्व-कर्म-समर्थ इति । कृष्ण इति पुनः-कथनात् नन्द-नन्दनत्वेनैव गोपीनाम् इष्ट-प्राप्तिर् इति फलितार्थः ॥२००॥

विश्वास-प्रस्तुतिः

मयीत्य् एवं माम् इति च प्रोच्य माम् इत्य् अवोचत ।
तच् चावृत्त्या दृढीकृत्य मतं परि दृढीकृतम् ॥२०१॥

मूलम्

मयीत्य् एवं माम् इति च प्रोच्य माम् इत्य् अवोचत ।
तच् चावृत्त्या दृढीकृत्य मतं परि दृढीकृतम् ॥२०१॥

तत्रैव श्लोके मयि इत्य् एवं माम् इति च प्रोच्य कथयित्वा, पुनर् माम् उपैष्यथ इत्य् अत्र माम् इति पदम् उल्लिखितवान्, अस्मच्-छब्दस्य एक-वार-पठने नेष्ट-सिद्धाव् अपि अस्मच्-छब्दस्य पुनर्-आवृत्त्याः फलितम् आह—तच् चावृत्त्येति । पुनः पुनः कथनेन मतं दृढी-कृतम् इति ॥२०१॥

विश्वास-प्रस्तुतिः

कृष्ण इति पदं लब्धे मयीत्य् अस्य विशेषणे ।
मां-द्वयेऽप्य् उपलब्धा सा तद्-विशेषणता स्वतः ॥२०२॥
मयि कृष्णेऽत्र मां कृष्णं मां कृष्णम् इति सिध्यति ।
कल्याण्य इति सम्बोध्य प्रबोध्यं कृतवान् इदम् ॥२०३॥

मूलम्

कृष्ण इति पदं लब्धे मयीत्य् अस्य विशेषणे ।
मां-द्वयेऽप्य् उपलब्धा सा तद्-विशेषणता स्वतः ॥२०२॥
मयि कृष्णेऽत्र मां कृष्णं मां कृष्णम् इति सिध्यति ।
कल्याण्य इति सम्बोध्य प्रबोध्यं कृतवान् इदम् ॥२०३॥

कृष्णे इति पदे विशिष्ये वर्तमाने, मयि इति पदं तस्य विशेषणं । मां-द्वयस्यापि अभेद-नैवोपलब्धे ॥२०२॥ कल्याण्य इति पदेन तासां गोपीनां कृष्ण-प्राप्ति-रूप-सौभाग्य-भाक्त्वं सूचितम् इति ॥२०३॥

विश्वास-प्रस्तुतिः

न तासाम् इव मत्-प्राप्तिर् देहं वः परम् ईहते ।
इत्य् एवम् अन्यद् अप्य् अत्र मन्यमानं मनः कुरु ॥२०४॥

मूलम्

न तासाम् इव मत्-प्राप्तिर् देहं वः परम् ईहते ।
इत्य् एवम् अन्यद् अप्य् अत्र मन्यमानं मनः कुरु ॥२०४॥

[पूर्ववद् पञ्चभिः]

तासां अन्तर्-गृह-गत-रुद्ध-गोपीनाम् इव युस्माकं मत्-प्राप्तिः, मरणान्त-लभ्या न इत्य् अर्थः । मत्-प्राप्तिर् [वो] युष्माकं देहं परम् ईहतेऽपेक्षते, जीवन्तीभिर् गोपीभिः कृष्णो लभ्य इति फलितार्थः । हे श्रोतः ! इत्य् एवम्, अत्र विषये मनः अन्यद् अपि मन्यमानं कुरु, अन्यद् रहस्यं शृणु इत्य् अर्थः ॥२०४॥

विश्वास-प्रस्तुतिः

यः श्री-रामेण सन्दिश्य प्रियासु निज-हृद्-गतम् ।
यथावद् व्यञ्जयामास श्री-पराशर-गीर् यथा ॥२०५॥

मूलम्

यः श्री-रामेण सन्दिश्य प्रियासु निज-हृद्-गतम् ।
यथावद् व्यञ्जयामास श्री-पराशर-गीर् यथा ॥२०५॥

यः श्री-कृष्णः श्री-रामेण बलदेवेन प्रियासु गोपीषु निज-हृद्-गतं स्वाभिप्रायं सन्दिश्य यथा व्यञ्जयामास व्यज्ञापयत्, तद्-विषये श्री-पराशर-गीः पराशर-वाक्यं श्री-विष्णु-पुराणे ॥२०५॥

विश्वास-प्रस्तुतिः

सन्देशैः साम-मधुरैः प्रेम-गर्भैर् अगर्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥२०६॥90

मूलम्

सन्देशैः साम-मधुरैः प्रेम-गर्भैर् अगर्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥२०६॥90

[पूर्ववद् युग्मकम्]

तथा च विष्णु-पुराण-श्लोकः—गोप्यः कृष्ण-प्रेयस्य रामेण श्री-बलदेवेन अतिमनोहरैः कर्ण-मानस-रसायनैः, साम-मधुरैः साम्ना सान्त्वना-मयेन शान्त्या मधुरैः रोचकैः, प्रेम-गर्भैः अनुराग-व्यञ्जकैः, अगर्वितैः दृप्तता-रहितैः, सन्देशैः वाचिकैः आश्वासिताः सान्त्विताः । अहो सद्-आशयत्वं तस्य ! ॥२०६॥

विश्वास-प्रस्तुतिः

यः कुरुक्षेत्र-यात्राया व्याजान् मात्रादिकान् चिरात् ।
संसज्यामून् विसृज्यान्यान् सहवास-मुदं दधे ॥२०७॥

मूलम्

यः कुरुक्षेत्र-यात्राया व्याजान् मात्रादिकान् चिरात् ।
संसज्यामून् विसृज्यान्यान् सहवास-मुदं दधे ॥२०७॥

सूर्य-ग्रहण-योगे यः श्री-कृष्णः कुरुक्षेत्र-यात्राया व्याजात् छलेन मात्रादिकान् यशोदा-नन्दादीन् चिरात् संसज्य अन्यान् बहिरङ्गान् विसृज्य सहवास-मुदं दधे कृतवान् ॥२०७॥

विश्वास-प्रस्तुतिः

यः सुरघ्नान् व्रजे गन्तुं विघ्नान् हन्तुं व्रजेशितुः ।
व्रजे गमनम् आचर्य द्वारका-गतिम् आददे ॥२०८॥

मूलम्

यः सुरघ्नान् व्रजे गन्तुं विघ्नान् हन्तुं व्रजेशितुः ।
व्रजे गमनम् आचर्य द्वारका-गतिम् आददे ॥२०८॥

यः श्री-कृष्णः व्रजे गन्तुं विघ्नान् सुरघ्नान् असुरान् हन्तुं व्रजेशितुः श्री-नन्दस्य व्रजे गमनम् आचर्य उपदिश्य द्वारका-गतिम् आददे स्वीकृतवान् ॥२०८॥

विश्वास-प्रस्तुतिः

यः क्रामद्भिः सुदीर्घेण सुष्ठु क्रष्टुं व्रजं प्रति ।
आमुक्तः पाश-सङ्काश-मनसा व्रज-वासिभिः ॥२०९॥

मूलम्

यः क्रामद्भिः सुदीर्घेण सुष्ठु क्रष्टुं व्रजं प्रति ।
आमुक्तः पाश-सङ्काश-मनसा व्रज-वासिभिः ॥२०९॥

यः श्री-कृष्णः सुदीर्घेण कालेन क्रामद्भिः, अर्थात् बहु-कालं कृच्छ्रेण अतिव्याप्य व्रज-वासिभिः श्री-नन्दादिभिः व्रजं प्रति सुष्ठु पुनर् वियोगाभाववत्त्वेन क्रष्टुं बलाद् आनेतुं पाश-सङ्काश-मनसा रज्जु-तुल्य-प्रेम-युक्त-मनसा आमुक्तः आकृष्ट इति ॥२०९॥

विश्वास-प्रस्तुतिः

यः प्रकाशं महाराज-सम्पदं दधद् ईक्षितः ।
व्रजाय व्रज-राजाद् येनाहूतः पूर्ववद् गिरा ॥२१०॥

मूलम्

यः प्रकाशं महाराज-सम्पदं दधद् ईक्षितः ।
व्रजाय व्रज-राजाद् येनाहूतः पूर्ववद् गिरा ॥२१०॥

यः श्री-कृष्णः प्रकाशं स्पष्टं महाराज-सम्पदं छत्र-चामरादि दधत् धारयन् ईक्षितः सर्वैर् इति शेषः । ततः व्रज-राजाद् येन नन्दादिना व्रजाय व्रजं गन्तुं गिरा वाक्येन आहुतः प्रार्थितः ॥२१०॥

विश्वास-प्रस्तुतिः

यस् तेषां सुष्ठु निर्निन्ये यन् मनः-स्वागति-स्पृहिः91
तेनान्तः-कर्षणं प्राप्तः कर्षम् अन्येन नार्हति ॥२११॥

मूलम्

यस् तेषां सुष्ठु निर्निन्ये यन् मनः-स्वागति-स्पृहिः91
तेनान्तः-कर्षणं प्राप्तः कर्षम् अन्येन नार्हति ॥२११॥

तेषां व्रज-वासिनां मनः-स्वागत-स्पृहिः स्व-व्रजागमन-काङ्क्षि इति सुष्ठु सम्यक् निर्निन्ये, तेन तथा-भूतेन प्रेम-मसृणेन मनसा अन्तः मर्मणि कर्षणं यः प्राप्तः, असौ गम्भीराशयः अन्येन व्रज-वासिनोऽभिन्नेन कर्षण-साधनेन कर्षं न अर्हति ॥२११॥

विश्वास-प्रस्तुतिः

यः स्वीय-सहितस् तेषां स्वीय-कामान् अपूरयत् ।
कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसाम् ॥२१२॥92

मूलम्

यः स्वीय-सहितस् तेषां स्वीय-कामान् अपूरयत् ।
कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसाम् ॥२१२॥92

यः श्री-कृष्णः स्वीयैः अन्तरङ्गैः सहितः कमल-पत्राक्षे पुण्डरीक-लोचने कृष्णे नन्द-पुत्रे सन्न्यस्ताखिल-राधसां समर्पित-समग्र-वासनानां तेषां व्रज-वासिनां स्वीय-कामान् सञ्चित-मनोरथान् अपूरयत् परिपूरितवान् ॥२१२॥

विश्वास-प्रस्तुतिः

आगमिष्यत्य् अदीर्घेणेत्य्93 आशा-लब्धं यद् ईप्सितम् ।
तद् अर्थम् एव तान् अर्थान् ये स्वीचक्रुः परान् अपि ॥२१३॥

मूलम्

आगमिष्यत्य् अदीर्घेणेत्य्93 आशा-लब्धं यद् ईप्सितम् ।
तद् अर्थम् एव तान् अर्थान् ये स्वीचक्रुः परान् अपि ॥२१३॥

[पूर्ववद् युग्मकम्]

आगमिष्यत्य् अदीर्घेण इत्य्-आदि-रूपेण उद्धव-मुखोच्चारितेन श्री-कृष्ण-वाक्येन या आशा तया लब्धं यद् ईप्सितं अभिलषितं, तद् अर्थम् एव, एतान् अर्थान् श्री-कृष्ण-व्रजागमनादि-रूपान् परान् अन्यान् अपि ये स्वीचक्रुः तेषां सन्तोषार्थम् एव ॥२१३॥

विश्वास-प्रस्तुतिः

यः स्वागमन-मर्यादां प्रेयसीषु निजां व्यधात् ।
दन्तवक्रान्त-शत्रूणां मारणं सर्व-तारणम् ॥२१४॥

मूलम्

यः स्वागमन-मर्यादां प्रेयसीषु निजां व्यधात् ।
दन्तवक्रान्त-शत्रूणां मारणं सर्व-तारणम् ॥२१४॥

यः प्रेयसीषु गोपीषु दन्तवक्र-प्रभृति-प्रबल-वीर-रिपूनां सर्व-तारणं सर्वेषां भूतानां तारणं भयेभ्यः रक्षणं, मारणम् एव निजां स्वागमन-मर्यादां व्रजे प्रत्यागमिष्याम्य् एव इति प्रेयसीभ्यः कथितवान् कृष्णः ॥२१४॥

विश्वास-प्रस्तुतिः

अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया ।
गतांश् चिरायितान् शत्रु-पक्ष-क्षपण-चेतसः ॥२१५॥94 “चिरायितान् विलम्बितान् । अत्र हेतुः—शत्रुणां पक्षस्य क्षपणे चेतो येषां तान्” इति श्रीधर-स्वामि-पादाः । दशम-स्कन्धे द्वाशीतितमेऽध्यये एकचत्वारिंश-श्लोकः ॥२१५॥

मूलम्

अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया ।
गतांश् चिरायितान् शत्रु-पक्ष-क्षपण-चेतसः ॥२१५॥94 “चिरायितान् विलम्बितान् । अत्र हेतुः—शत्रुणां पक्षस्य क्षपणे चेतो येषां तान्” इति श्रीधर-स्वामि-पादाः । दशम-स्कन्धे द्वाशीतितमेऽध्यये एकचत्वारिंश-श्लोकः ॥२१५॥

विश्वास-प्रस्तुतिः

मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥२१६॥95

मूलम्

मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥२१६॥95

“अपि च, अतिभद्रम् इदं यद् उत भवतीनां मद्-वियोगेन मत्-प्रेमातिशयो जात इत्य् आह—मयीति । मयि भक्ति-मात्रम् एव तावद् अमृतत्वाय कल्पत इति । यद् उत भवतीनां मत्-स्नेह आसीत्, तद् दिष्ट्या अतिभद्रं । कुतः ? मद्-आपनो मत्-प्रापण इति ।” इति श्रीधर-स्वामि-पादाः । दशम-स्कन्धे द्व्यशीतितमेऽध्याये चतुश्चत्वारिंश-श्लोकः ॥२१६॥

विश्वास-प्रस्तुतिः

यस् तात्कालिक-शान्त्य्-अर्थे तथापि ज्ञानम् आदिशत् ।
आहूश् चेत्य्96-आदिके पद्ये प्रार्थितस् ताभिर् अन्यथा ॥२१७॥

मूलम्

यस् तात्कालिक-शान्त्य्-अर्थे तथापि ज्ञानम् आदिशत् ।
आहूश् चेत्य्96-आदिके पद्ये प्रार्थितस् ताभिर् अन्यथा ॥२१७॥

यः स्नेहवत्त्वेऽपि तात्-कालिक-शान्त्य्-अर्थे आपात-धैर्यार्थं तासां ज्ञानं मयि भक्तिर् हि इत्य्-आदि-रूपम् आदिशत् । किन्तु ताभिः गोपीभिः प्रेयसीभिः आहुश् च ते नलिन-नाभ [भा।पु। १०.८२.४८] इति तत्रैव-स्कन्धे अध्याये च अष्ट-चत्वारिंश-श्लोके अन्यथा तत्-प्रेयसीत्वम् एव प्रार्थितं । तत्र पद्ये नलिन-नाभ इति अनुराग-व्यञ्जक-शब्द-दर्शनात् ॥२१७॥

विश्वास-प्रस्तुतिः

तत्राङ्घ्रि-स्मृति-याच्ञा तु लक्ष्यम् एव विनिर्ममे ।
तत्-प्रत्यागति-तात्पर्या सा तु पर्यवसाय्यते ॥२१८॥

मूलम्

तत्राङ्घ्रि-स्मृति-याच्ञा तु लक्ष्यम् एव विनिर्ममे ।
तत्-प्रत्यागति-तात्पर्या सा तु पर्यवसाय्यते ॥२१८॥

तत्र कुरुक्षेत्रे आहुश् च ते नलिन-नाभ पदारविन्दम् इति पद्ये अङ्घ्रि-प्रार्थना या याच्ञा तु तासां लक्ष्यं उद्देश्यं विनिर्ममे तत्-प्रत्यागति-तात्पर्या श्री-कृष्ण-व्रज-प्रत्यागमनार्थिका पर्यवसाय्यते अवशेष-गम्या भवति ॥२१८॥

विश्वास-प्रस्तुतिः

मयि ताः प्रेयसाम्97 इत्य्-आद्य्-उक्तं तेन स्वयं यतः ।
तस्मात् तच्-चिन्तनाशक्त्या व्यक्त्या तद्-दर्शनार्थिता ॥२१९॥

मूलम्

मयि ताः प्रेयसाम्97 इत्य्-आद्य्-उक्तं तेन स्वयं यतः ।
तस्मात् तच्-चिन्तनाशक्त्या व्यक्त्या तद्-दर्शनार्थिता ॥२१९॥

मयि ताः प्रेयसां प्रेष्ठे इति दशम-स्कन्धीय-षट्चत्वारिंशाध्याये पञ्चम-श्लोकेन यतः तेन श्री-कृष्णेन गोकुल-स्त्री-विरह-जन्य-कातरता उक्ता, तस्मात् हेतोः तच्-चिन्तनाशक्त्या तस्य चिन्तनेन या आशक्तिः अनुरागः, सा तच्-चिन्तनाशक्तिः, तस्या हेतोः तद्-दर्शणार्थिता, तस्य श्री-कृष्णस्यापि दर्शनार्थिता गोपी-दर्शन-लालसा व्यक्ता प्रचारिता ॥२१९॥

विश्वास-प्रस्तुतिः

तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः ।98
इत्य् अनेन मुनिः प्रोच्य तासां वाञ्छित-पूरणम् ॥२२०॥

मूलम्

तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः ।98
इत्य् अनेन मुनिः प्रोच्य तासां वाञ्छित-पूरणम् ॥२२०॥

स गुरुर् गतिः भगवान् गोपीनाम् अनुगृह्य इति दशम-स्कन्धे त्र्यशीतितमाध्याये प्रथम-श्लोकार्धेन तासां वाञ्छित-पूरणं प्रोच्य ॥२२०॥

विश्वास-प्रस्तुतिः

मयि भक्तिर् हीति कृष्ण-प्रोक्तम् एव न्यजीगमत् ।
मय्य् आवेश्य मनः कृष्ण इत्य्99-आद्य् अपि च तद्-वचः ॥२२१॥

मूलम्

मयि भक्तिर् हीति कृष्ण-प्रोक्तम् एव न्यजीगमत् ।
मय्य् आवेश्य मनः कृष्ण इत्य्99-आद्य् अपि च तद्-वचः ॥२२१॥

[पूर्ववद् त्रिभिः]

मयि भक्तिर् हि भूतानाम् [भा।पु। १०.८२.४४] इति दशम-स्कन्धे द्वाशीतितमेऽध्याये चतुश्चत्वारिंश-श्लोकं श्री-कृष्ण-प्रोक्तम् एव न्यजीगमत् व्याजिज्ञपत् पूर्वेनान्वयः । मय्य् आवेश्य मनः कृष्णे [भा।पु। १०.४७.३६] इत्य्-आद्य् अपि तद्-वचः श्री-कृष्ण-वाक्यं न्यजीगमत्, व्यजिज्ञपत् शुकदेवः ॥२२१॥

विश्वास-प्रस्तुतिः

यः पृथिव्या गुण-स्तोमे सत्येनादाव् अभिष्टुतः ।
सत्यं विधातुं सत्यं तन् नाव्रजेत् किं व्रजे बत ॥२२२॥

मूलम्

यः पृथिव्या गुण-स्तोमे सत्येनादाव् अभिष्टुतः ।
सत्यं विधातुं सत्यं तन् नाव्रजेत् किं व्रजे बत ॥२२२॥

यः श्री-कृष्णः तस्य गुण-स्तोमे गुण-राशौ वर्तमानेऽपि पृथिव्या धरया गर्भ-स्तुति-प्रकरणे सत्येन सत्य-गुणम् आदाय अभिष्टुतः100 । अतः सत्यं सत्य-वाक्यं स-फलं विधातुं व्रजे किं ना व्रजेत् बत ? आश्चर्यं ! तेन प्रत्यागतम् एव । अन्यथा तस्य सत्य-व्रततत्वं न स्यात् ॥२२२॥

विश्वास-प्रस्तुतिः

सम्भावना ममैवेयम् इति नात्र विचार्यताम् ।
व्रजस्थानां व्रज-प्राण-वर्यस्याप्य् अवधार्यताम् ॥२२३॥

मूलम्

सम्भावना ममैवेयम् इति नात्र विचार्यताम् ।
व्रजस्थानां व्रज-प्राण-वर्यस्याप्य् अवधार्यताम् ॥२२३॥

सम्भावना निश्चितिः श्री-कृष्णस्य व्रज-प्रत्यागतौ इति न अत्र विचार्यतां व्रज-वासिनां, प्रार्थकानां व्रज-प्राण-वर्यस्य श्री-कृष्णस्य प्रार्थ्यस्य अपि अवधार्यतां निर्णीयताम् मर्म इति शेषः ॥२२३॥

विश्वास-प्रस्तुतिः

श्रीमद्-व्रजाधिराजस्य कृष्ण-कान्ता-गणस्य च ।
उद्धवं प्रति गीर् ईदृग् दृश्यतां दशमादिषु ॥२२४॥

मूलम्

श्रीमद्-व्रजाधिराजस्य कृष्ण-कान्ता-गणस्य च ।
उद्धवं प्रति गीर् ईदृग् दृश्यतां दशमादिषु ॥२२४॥

[युग्मकम्]

श्रीमद्-व्रजाधिराजस्य श्री-नन्दस्य कृष्ण-कान्ता-गणस्य गोपी-वर्गस्य च सम्बन्धे उद्धवं प्रति श्री-कृष्णस्य या ईदृक् गीः प्रेम-गर्भिता दशमादिषु श्रीमद्-भागवते दशम-स्कन्धे आदि-पदेन विष्णु-पुराणे हरि-वंशे च दृश्यतां ॥२२४॥

विश्वास-प्रस्तुतिः

यस् तु यर्ह्य् अम्बुजाक्षेति101 स्तुवद्भिर् द्वारका-जनैः ।
कदाचिद् व्रजम् आगाद् इत्य् अभ्यधायि कदाचन ॥२२५॥

मूलम्

यस् तु यर्ह्य् अम्बुजाक्षेति101 स्तुवद्भिर् द्वारका-जनैः ।
कदाचिद् व्रजम् आगाद् इत्य् अभ्यधायि कदाचन ॥२२५॥

यस् तु यर्ह्य् अम्बुजाक्ष इति श्रीमद्-भागवतेन द्वारका-वासि-कृत-श्री-कृष्ण-स्तुत्यापि श्री-कृष्णस्य व्रजे प्रत्यागमनं सूचितं । यथाह प्रथम-स्कन्धे एकादशे नवमः श्लोकः—

यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया । तत्राब्द-कोटि-प्रतिमः क्षणो भवेद् रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥ [भा।पु। १.११.९]

अत्र मधून् इति पदेन मथुरा-मण्डल-वासि-व्रज-स्थानाम् अपि उपलब्धिः ॥२२५॥

विश्वास-प्रस्तुतिः

यस् तथा श्रूयते पाद्मोत्तर-खण्डाद् अपि स्फुटम् ।
अदाद् व्रजाय स्व-प्राप्ति-मङ्गलं नित्यम् इत्य् अपि ॥२२६॥

मूलम्

यस् तथा श्रूयते पाद्मोत्तर-खण्डाद् अपि स्फुटम् ।
अदाद् व्रजाय स्व-प्राप्ति-मङ्गलं नित्यम् इत्य् अपि ॥२२६॥

पाद्मोत्तर-खण्डात्102 ग्रन्थात् अपि स्फुटं स्पष्टतः तथा व्रज-प्रत्यागमनं श्रूयते । यः श्री-कृष्णः व्रजाय स्व-प्राप्ति-मङ्गलं श्री-कृष्ण-प्राप्ति-रूपं परमं मङ्गलं नित्यम् अपि पुनर्-विरहाभाववत्त्वेन अदात् दत्तवान् ॥२२६॥

विश्वास-प्रस्तुतिः

दत्त्वा तत् कृत-कृत्यः सन् प्रादुर्भावान्तरं गतः ।
जगाम द्वारकाम् इत्य् अप्य् अश्रावीत्य् अपि युक्तिमत् ॥२२७॥

मूलम्

दत्त्वा तत् कृत-कृत्यः सन् प्रादुर्भावान्तरं गतः ।
जगाम द्वारकाम् इत्य् अप्य् अश्रावीत्य् अपि युक्तिमत् ॥२२७॥

व्रज-वासिभ्यः स्व-प्राप्ति-रूपं परम-मङ्गलं दत्त्वा कृत्य-कृत्यः कृतार्थः सन् प्रादुर्भावान्तरं मूर्त्य्-अन्तरं गतः सन् द्वारकां जगाम इत्य् अपि युक्तिमत् वाक्यम् अश्रावि श्रुतम् अस्माभिर् इति ॥२२७॥

विश्वास-प्रस्तुतिः

आगमिष्यत्य् अदीर्घेणेत्य् उद्धवाद् बुद्धम् अन्यथा ।
यथा न स्यात् तथा भाव्यं103 कथान्या वितथा मता ॥२२८॥

मूलम्

आगमिष्यत्य् अदीर्घेणेत्य् उद्धवाद् बुद्धम् अन्यथा ।
यथा न स्यात् तथा भाव्यं103 कथान्या वितथा मता ॥२२८॥

आगमिष्यत्य् अदीर्घेन इति उद्धवात् बुद्धं ज्ञातं तज्-ज्ञानं यथान्यथा न स्यात्, तथा सुधीभिर् भाव्यम् । अन्या तद्-विरुद्धा कथा वितथा वृथा ॥२२८॥

विश्वास-प्रस्तुतिः

यस् त्यजन्न् अपि गाम् आख्यत् तम् उद्धवकम् उत्सुकः ।
रामेण सार्धम् इत्य्-आद्यं तासां कामित-लम्भनम् ॥२२९॥

मूलम्

यस् त्यजन्न् अपि गाम् आख्यत् तम् उद्धवकम् उत्सुकः ।
रामेण सार्धम् इत्य्-आद्यं तासां कामित-लम्भनम् ॥२२९॥

यः श्री-कृष्णो गां पृथिवीं त्यजन्, द्वारका-लीला-पर्यवसान-समये इति ज्ञेयं, उत्सुकः परम-कुतुकी सन् तं नर्म-सखं उद्धवम् आख्यत् कथितवान् । यथाहैकादश-स्कन्धे द्वादशाध्याये उद्धवं प्रति श्री-कृष्ण-वाक्यं—

सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्-पथः । व्याधः कुब्जा व्रजे गोप्यो यज्ञ-पत्न्यस् तथापरे ॥ [भा।पु। ११.१२.६]

रामेण सार्धम् इति एकादश-स्कन्धे दशमः श्लोकः, यथा—

रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्य् अनुरक्त-चित्ताः । विगाढ-भावेन न मे वियोग- तीव्राधयोऽन्यं ददृशुः सुखाय ॥ [भा।पु। ११.१२.१०]

इत्य्-आद्यात् श्लोकात् गोपीनां तासां कामित-लम्भनं कामितस्य अभीष्टस्य श्री-कृष्णस्य लम्भनं पुनः प्राप्तिः प्रतीयते ॥२२९॥

विश्वास-प्रस्तुतिः

रामेणेति104 द्वयेनाह वियुक्तेर् यद् व्यतीतताम् ।
तेन नास्ति वियुक्तिः सा तदानीम् इति भाव्यते ॥२३०॥

मूलम्

रामेणेति104 द्वयेनाह वियुक्तेर् यद् व्यतीतताम् ।
तेन नास्ति वियुक्तिः सा तदानीम् इति भाव्यते ॥२३०॥

कथं ? तद् आह—रामेणेति । रामेण इति पूर्व-धृते श्लोके, तद् अनु,

तास् ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावन-गोचरेण । क्षणार्धवत् ताः पुनर् अङ्ग तासां हीना मया कल्प-समा बभूवुः ॥ [भा।पु। ११.१२.११] इति ।

एतयोर् अग्रिमे श्लोके ददृशुर् [भा।पु। ११.१२.१०] इति अत्र सुखानुभवा-भावस्य पुर्व-काल-वर्तित्वात् द्वीतीय-श्लोक-निष्ठस्य बभूवुर् इति पदस्य च अतीत-काल-वर्तित्वाच् च वियोगाभाव एव प्रतीयत इति भवः ॥२३०॥

विश्वास-प्रस्तुतिः

मयि ताः प्रेयसां प्रेष्ठ105 इति प्राक्तन-वाग्-द्वये ।
वियुक्तेर् वर्तमानत्वं दृष्ट्वा निष्टङ्क्यताम् इदम् ॥२३१॥

मूलम्

मयि ताः प्रेयसां प्रेष्ठ105 इति प्राक्तन-वाग्-द्वये ।
वियुक्तेर् वर्तमानत्वं दृष्ट्वा निष्टङ्क्यताम् इदम् ॥२३१॥

दशम-स्कन्धे उद्धवं प्रति श्री-कृष्णस्य प्राक्तन-वाग्-द्वये पूर्व-कथित-श्लोक-द्वये वियुक्तेः वियोगस्य वर्तमानत्वं दृष्ट्वा, इदानीं द्वारका-लिला-पर्यवसान-काले उद्धवं प्रति श्री-कृष्णस्य या उक्तिर् अस्ति एकादश-स्कन्धे, तया तु सम्यक् सूक्ष्म-धिया विचार्य, इदं निष्टङ्क्यतां तर्क्यताम् इति ॥२३१॥

विश्वास-प्रस्तुतिः

स्वेन तासां पुनः सङ्गे यद् वृत्तं प्रथमेऽहनि ।
तदप्य् अतीत-रीत्याह प्रीत्या समदधद् उद्धवम् ॥२३२॥

मूलम्

स्वेन तासां पुनः सङ्गे यद् वृत्तं प्रथमेऽहनि ।
तदप्य् अतीत-रीत्याह प्रीत्या समदधद् उद्धवम् ॥२३२॥

स्वेन तासाम् इति प्रथमेऽहनि ताभिः पुनः सङ्गे यद् वृत्तं प्रीत्याह—ता नाविदन् इति श्लोकेन ॥२३२॥

विश्वास-प्रस्तुतिः

ता नाविदन्न्106 इति प्रोचे यत्र तासां तद्107-आत्मताम् ।
बभूव स महाभावः सर्वासां परतः परः ॥२३३॥

मूलम्

ता नाविदन्न्106 इति प्रोचे यत्र तासां तद्107-आत्मताम् ।
बभूव स महाभावः सर्वासां परतः परः ॥२३३॥

यत्र श्री-कृष्ण-दर्शन-कालो तासां गोपीनाम् नाम-रूप-त्याग-रूपां मद्-आत्मतां तान् नाविदन्न् इति श्लोकेन प्रोवाच । स नाम-रूप-त्यागः सर्वासां गोपीनां परतः परं, श्रेष्ठाद् अपि श्रेष्ठः महा-भावः बभूव इति ॥२३३॥

विश्वास-प्रस्तुतिः

ततश् च नाम-रूपात्मन्य् उद्भूते स्वीय-वैभवे ।
प्रविष्टा इव न स्पष्टं प्रविष्टा गत्य्-अभावतः ॥२३४॥

मूलम्

ततश् च नाम-रूपात्मन्य् उद्भूते स्वीय-वैभवे ।
प्रविष्टा इव न स्पष्टं प्रविष्टा गत्य्-अभावतः ॥२३४॥

नाम-रूपात्मनि नाम-रूप-स्वरूपे स्वीय-वैभवे स्वकीय-ब्रह्म-शक्तौ उद्भूते सम्मुखम् आगते ता गोप्यः प्रविष्टा इव, दर्पण-प्रवेषवत् इति भावः, न तु स्पष्टं प्रविष्टाः । कुतः ? तद् आह—गत्य्-अभावतः तासां तत्र गति-शक्तेर् अभावात् ॥२३४॥

विश्वास-प्रस्तुतिः

दृष्टान्त-युगलं तत् तु नाविदन्न् इति केवले ।
अवेदनं नदी-पक्षेऽप्य् अब्ध्य्-अन्य-रसता-हतिः ॥२३५॥

मूलम्

दृष्टान्त-युगलं तत् तु नाविदन्न् इति केवले ।
अवेदनं नदी-पक्षेऽप्य् अब्ध्य्-अन्य-रसता-हतिः ॥२३५॥

मुनि-नदी-रूपं दृष्टान्त-युगलं अविदन्न् इति तासाम् अवेदित्वांशे केवले पदं लभत इति। अवेदनं विवृणोति—अवेदनम् इति । नदी-पक्षे अब्ध्य्-अन्य-रसता-हतिः स्व-रस-परित्याग-पुरःसर-समुद्र-रस-ग्रहणं अवेदनं भवति ॥२३५॥

विश्वास-प्रस्तुतिः

समाधाव् इति दृष्टान्तस्याङ्ग-रूपतयेरितम् ।
दार्ष्टान्तिकस्यानुषङ्गं स्याद् अङ्गं तद्-भिदा द्वयोः ॥२३६॥

मूलम्

समाधाव् इति दृष्टान्तस्याङ्ग-रूपतयेरितम् ।
दार्ष्टान्तिकस्यानुषङ्गं स्याद् अङ्गं तद्-भिदा द्वयोः ॥२३६॥

दृष्टान्तस्य समाधौ इति अङ्ग-रूपतया ईरितं कथितं । दार्ष्टान्तिकस्य अनुषङ्गः अङ्गं स्यात्, तस्मात् द्वयोः दृष्टान्त-दार्ष्टान्तिकयोः भिदा भेद इति ॥२३६॥

विश्वास-प्रस्तुतिः

मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः ।
ब्रह्म मां परमं प्रापुर्108 इति पद्ये तु तत्परे ॥२३७॥

मूलम्

मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः ।
ब्रह्म मां परमं प्रापुर्108 इति पद्ये तु तत्परे ॥२३७॥

एकादश-स्कन्धे द्वादशाध्याये त्रयोदश-श्लोकस्य शेषः—सङ्गाच् छत-सहस्रशः इति । “एवं ता अबलाः केवलं मत्-कामा अङ्ग-रूप-विदः, स्वरूपं तु न जानान्ति । तथापि सत्-सङ्गात् जारं ब्रह्म जार-बुद्धि-वेद्यम् अपि ब्रह्म स्वरूपम् एव मां परमं प्रापुर् इत्य् अर्थः” इति श्रीधर-स्वामि-पादाः । इति पद्ये तु तत्-परे अर्थात् ता नाविदान्न् इति इत्य् अस्मात् परवर्तिनि ॥२३७॥

विश्वास-प्रस्तुतिः

पच्यन्तां विविधाः पाका109 इतीवात्रार्थिकः क्रमः ।
ता ब्रह्म प्रापुर् इत्य् एवं ता इत्य् अस्यात्र चान्वयः ॥२३८॥
पच्यन्ताम् विविधाः पाकाः सूपान्ताः पायसादयः । संयावापूप-शष्कुल्यः सर्व-दोहश् च गृह्यताम् ॥ [भा।पु। १०.२४.२६]

मूलम्

पच्यन्तां विविधाः पाका109 इतीवात्रार्थिकः क्रमः ।
ता ब्रह्म प्रापुर् इत्य् एवं ता इत्य् अस्यात्र चान्वयः ॥२३८॥
पच्यन्ताम् विविधाः पाकाः सूपान्ताः पायसादयः । संयावापूप-शष्कुल्यः सर्व-दोहश् च गृह्यताम् ॥ [भा।पु। १०.२४.२६]

इति गोवर्धन-यागस्थ-भागवतीय-श्लोके दोहस्यास्तिमत्त्वेऽपि अर्थ-वशाद् आदि-स्थितत्वं ग्रहनीयं । तथा अत्र, मत्-काम इति श्लोके, आर्थिकः क्रमः, तान् नाविदन् इति श्लोके स्थितस्य ता इति पदं प्रापुर् इति क्रियायाः कतृत्वेन अन्वेति इति ॥२३८॥

विश्वास-प्रस्तुतिः

कीदृग् ब्रह्मेति बोधाय यत् प्राह परमं पदम् ।
तत्राप्य् आकाङ्क्षयावादीन् माम् इति स्वं पुनः प्रभुः ॥२३९॥

मूलम्

कीदृग् ब्रह्मेति बोधाय यत् प्राह परमं पदम् ।
तत्राप्य् आकाङ्क्षयावादीन् माम् इति स्वं पुनः प्रभुः ॥२३९॥

सुगमम् ॥२३९॥

विश्वास-प्रस्तुतिः

मयि भक्तिर् हीति वाक्याद् आह प्राग् एतद् एव हि ।
धारयन्त्य् अतिकृच्छ्रेणेत्य् उक्त्या व्यानग् इदं पुरा ॥२४०॥

मूलम्

मयि भक्तिर् हीति वाक्याद् आह प्राग् एतद् एव हि ।
धारयन्त्य् अतिकृच्छ्रेणेत्य् उक्त्या व्यानग् इदं पुरा ॥२४०॥

मयि भक्तिर् हीति इति प्राक् पूर्वस्मिन् आह—धारयन्त्य् अतिकृच्छ्रेन इति । पुरा अग्रे इदं व्यानक्, अञ्जु-धातोः ग्या दिप ॥२४०॥

विश्वास-प्रस्तुतिः

प्राण-त्यागेन मत्-प्राप्तिर् नान्यवत् तासु मन्-मता ।
मत्-कामा इति पूर्वार्धे चाख्यत् प्राप्ति-विभक्तताम् ॥२४१॥

मूलम्

प्राण-त्यागेन मत्-प्राप्तिर् नान्यवत् तासु मन्-मता ।
मत्-कामा इति पूर्वार्धे चाख्यत् प्राप्ति-विभक्तताम् ॥२४१॥

गोपीनां प्राण-त्यागेणापि परम-कान्त-श्री-कृष्ण-प्राप्तिः सम्भवेद् इत्य् अत आह—प्राण-त्यागेनेति । अन्यवत् अन्य-साधकवत् प्राण-त्यागेन प्राण-परिहारेण मत्-प्राप्तिः मत्-सान्निध्य-लाभः । तासु मत्-कान्तासु गोपीषु न मन्-मता, तत्र विषये मम सम्मतिर् नास्ति इति भावः । तद्-धेतुम् आह—मत्-कामा इति पूर्वार्धे स्थितेन पदेन प्राप्ति-विभक्ततां प्राप्ति-वैलक्षण्यं आख्यत् कथितवान् श्री-कृष्ण इति ॥२४१॥

विश्वास-प्रस्तुतिः

अस्वरूप-विदः सत्यः प्रापुर् जार-धियेत्य् अवक् ।
नित्य-तत्-प्रेयसी-रूप-स्वरूपं हि तदीयकम् ॥२४२॥

मूलम्

अस्वरूप-विदः सत्यः प्रापुर् जार-धियेत्य् अवक् ।
नित्य-तत्-प्रेयसी-रूप-स्वरूपं हि तदीयकम् ॥२४२॥

अस्वरूप-विदः स्वरूपानभिज्ञाः सत्यः गोप्यः कृष्णं प्रापुर् इति अवक् कथितवान्, हि यतः, तदीयकं अर्थात् गोपीनां नित्य-तत्-प्रेयसी-रूप-स्वरूपं नित्य-कृष्ण-कान्ता-रूप-स्वरूपम् इति ॥२४२॥

विश्वास-प्रस्तुतिः

यत् पूर्वं भावयन् भावं भाविनीनाम् अमूदृशाम् ।
मत्-कामा इति निःक्षिप्य जारत्वेऽस्थैर्यम्110 आक्षिपत् ॥२४३॥

मूलम्

यत् पूर्वं भावयन् भावं भाविनीनाम् अमूदृशाम् ।
मत्-कामा इति निःक्षिप्य जारत्वेऽस्थैर्यम्110 आक्षिपत् ॥२४३॥

यः श्री-कृष्णः अमुदृशां भाविनीनां रमणीनां भावं तद्-एक-प्राणतां भावयन् उद्धवं प्रदर्शयन् मत्-कामा इति पदेन स्वस्मिन् तासां जारत्वे अस्थैर्यं आक्षिपत् प्राहिणोत् ॥२४३॥

विश्वास-प्रस्तुतिः

मयि कामः सदा यासां ता मत्-कामा इतीरिताः ।
कामश् च रमणत्वेन स्पृहात्र प्रतिपद्यते ॥२४४॥

मूलम्

मयि कामः सदा यासां ता मत्-कामा इतीरिताः ।
कामश् च रमणत्वेन स्पृहात्र प्रतिपद्यते ॥२४४॥

मयि कामः सदा सर्वस्मिन् काले यासां गोपीनाम् मयि कामः अभिलाषः, ता गोप्यः मत्-कामा इति ईरिताः रमणत्वेन हेतूनां गोपीनां या स्पृहा वाञ्छा अस्ति, अत्र सैव कामः प्रति-पद्यते कामत्वेन लभ्यते ॥२४४॥

विश्वास-प्रस्तुतिः

अस्मिन्न् अपि बतेत्य्-आदि111 श्री-राधा-गीर् अलिं प्रति ।
विविच्यतां ततः सर्वम् अन्यद् अन्यद् विविच्यताम् ॥२४५॥

मूलम्

अस्मिन्न् अपि बतेत्य्-आदि111 श्री-राधा-गीर् अलिं प्रति ।
विविच्यतां ततः सर्वम् अन्यद् अन्यद् विविच्यताम् ॥२४५॥

अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास् ते [भा।पु। १०.४७.२१] इति श्रीमद्-भागवते दशम-स्कन्धे सप्तचत्वारींशाध्याये एकविंशतितमे श्लोके उद्धवं प्रति श्री-राधाया या गीर् भारती सा विविच्यतां विचार्यतां । ततः तद्-अनन्तरं अन्यद् अन्यद् विविच्यताम् इति ॥२४५॥

विश्वास-प्रस्तुतिः

अत्रार्य-पुत्र-शब्दः स्यात् पत्याव् एव प्रसिद्धि-भाक् ।
तथापि स्वेषु कैङ्कर्यं दैन्यात् कन्यावद् ईरितम् ॥२४६॥

मूलम्

अत्रार्य-पुत्र-शब्दः स्यात् पत्याव् एव प्रसिद्धि-भाक् ।
तथापि स्वेषु कैङ्कर्यं दैन्यात् कन्यावद् ईरितम् ॥२४६॥

अत्र श्लोके आर्य-पुत्र-शब्दः पत्यौ भर्तरि एव प्रसिद्धि-भाक् । तथापि पत्नीत्वेऽपि स्वेषु कैङ्कर्यं दास्यं यद् अङ्गीकृतं, तद् दैन्यात् विरह-तप्त-हृदयोत्थाद् इति । तत् तु कैङ्कर्यं कन्यावत् वस्त्र-हरण-कल्पे कन्याभिर् यथा दास्यं प्रार्थितं, तथात्रापि श्रीमतीभिर् इरितं ॥२४६॥

विश्वास-प्रस्तुतिः

सङ्कॢप्ता पतिता ताभिः पुनर् इत्थम् उदीरितम् ।
श्यामसुन्दर ते दास्य इति112 यद्वत् तथेह च ॥२४७॥

मूलम्

सङ्कॢप्ता पतिता ताभिः पुनर् इत्थम् उदीरितम् ।
श्यामसुन्दर ते दास्य इति112 यद्वत् तथेह च ॥२४७॥

कन्यानां प्रार्थनं प्रपञ्चयति—सङ्कॢप्तेति । ताभिः कन्याभिः पतिता नन्दनन्दनस्य सङ्कॢप्ता प्रसिद्धिं प्रापिता, नन्द-गोप-सुतं देवि पतिं मे कुरुते नमः [भा।पु। १०.२२.४] इति वाक्येन । पुनः, श्याम-सुन्दर ! ते दास्यः [भा।पु। १०.२२.१५] इत्य् अनेन । इदं दास्यं यद्वद् ईरितं, तथा इहापि उद्धव-समीपे श्री-राधिकयापि भणितं ॥२४७॥

विश्वास-प्रस्तुतिः

आर्य-पुत्रः कदास्माकं किङ्करीणां तु मूर्धनि ।
भुजं धास्यत्य् एवम् आसां तत्-पत्नी-पद-कामता ॥२४८॥113

मूलम्

आर्य-पुत्रः कदास्माकं किङ्करीणां तु मूर्धनि ।
भुजं धास्यत्य् एवम् आसां तत्-पत्नी-पद-कामता ॥२४८॥113

आसां गोपीनां तत्-पत्नी-पद-कामता श्री-कृष्ण-पत्नी-पदाभिलासः सनातनः ॥२४८॥

विश्वास-प्रस्तुतिः

तत्-कामता हि सिद्धा चेत् तेन तद्-दानम् अव्ययम् ।
ये यथा मां प्रपद्यन्ते114 इति यद्वत्115 प्रतिश्रवः ॥२४९॥

मूलम्

तत्-कामता हि सिद्धा चेत् तेन तद्-दानम् अव्ययम् ।
ये यथा मां प्रपद्यन्ते114 इति यद्वत्115 प्रतिश्रवः ॥२४९॥

चेद् तासां गोपीनां तत्-कामता श्री-कृष्ण-पत्नी-कामता आर्य-पुत्र-शब्देन दृढ-सिद्धा । तेन हेतुना तद्-दानम् ताभ्यः तद् दानं स्वात्म-दानम् अव्ययं नित्य-सिद्धं ज्ञेयम्। ननु सत्य् अपि तासां तादृग्-अभिमाने, श्री-कृष्णस्य कथम् अनीति-सम्मतिः ? इत्य् अत आह—ये यथा माम् इति । यद् यस्मात् तत् प्रतिश्रवः तस्य प्रतिज्ञाऽस्ति, तद् यथा श्री-मुख-वाक्यं, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहं [गीता ४.११] इति ॥२४९॥

विश्वास-प्रस्तुतिः

वल्लव्यो मे मद्-आत्मिका इति116 यत् प्रोक्तम् आत्मना ।
सर्वेषां वचसां ऊर्ध्वं तद् आस्तां सर्व-मूर्धनि ॥२५०॥

मूलम्

वल्लव्यो मे मद्-आत्मिका इति116 यत् प्रोक्तम् आत्मना ।
सर्वेषां वचसां ऊर्ध्वं तद् आस्तां सर्व-मूर्धनि ॥२५०॥

वल्लव्यो मे मद्-आत्मिका आत्मना श्री-कृष्णेण यत् प्रोक्तं तत् प्रोक्तं सर्वेषां वचसाम् ऊर्ध्वं सर्व-मूर्धनि सर्व-सिद्धान्त-शिरसि आस्तां, राज-चक्र-वर्तिवद् इति शेषः ॥२५०॥

विश्वास-प्रस्तुतिः

यन् मत्-कामा117 इति प्रोचे तासां प्राप्तिस् तथा स्वयम् ।
तन् मया साधु तत् प्रोक्तं तासां कामित-लम्भनम् ॥२५१॥

मूलम्

यन् मत्-कामा117 इति प्रोचे तासां प्राप्तिस् तथा स्वयम् ।
तन् मया साधु तत् प्रोक्तं तासां कामित-लम्भनम् ॥२५१॥

यत् श्री-कृष्णेन प्रोक्तं, तेन हेतुना तासां गोपीनां स्व-प्राप्तिः स्वयं कथिता । तस्मान् मया साधु तत्-कामित-लम्भनं प्रोक्तं ॥२५१॥

विश्वास-प्रस्तुतिः

मत्-कामा इति पद्यस्य तुर्यांशे त्व् इदम् उच्यते ।
पराश् च सङ्गतस् तासां प्रापुः शत-सहस्रशः118 ॥२५२॥

मूलम्

मत्-कामा इति पद्यस्य तुर्यांशे त्व् इदम् उच्यते ।
पराश् च सङ्गतस् तासां प्रापुः शत-सहस्रशः118 ॥२५२॥

[पूर्ववद् एकविंशत्या]

मत्-काम इति पद्यस्यार्धे इति तासां नित्य-सिद्धानां सङ्गतः साहचर्यात् परा अन्या साधन-सिद्धा गोप्यः शत-सहस्रशः तं श्री-कृष्णं प्रापुः, तथैवेति शेषः ॥२५२॥

विश्वास-प्रस्तुतिः

यः श्री-गर्ग-वचः पूर्णं तूर्णं चक्रे स्वयं द्वयम् ।
एष वः श्रेय आधस्यद्119 य एतस्मिन् महेति120 दिक् ॥२५३॥

मूलम्

यः श्री-गर्ग-वचः पूर्णं तूर्णं चक्रे स्वयं द्वयम् ।
एष वः श्रेय आधस्यद्119 य एतस्मिन् महेति120 दिक् ॥२५३॥

यः श्री-गर्ग-वच इति यः स्वयं श्री-गर्ग-वचः द्वयं तूर्णं झटिति पुर्णं चक्रे कृतवान् । किं तद् गर्ग-वचनम् ? इति विवृणोति—“एष वः श्रेय आधस्यत्” इत्य् अनेन नन्दादीन् प्रति तस्य मङ्गल-कारित्वं सूचितं गर्गाचार्येण । “य एतस्मिन् महाभागाः प्रीतिम्” इत्य्-आदिना एतत् प्रीति-करिणां विघ्न-शून्यत्वम् अपि तेनाचार्येण सूचितं ॥२५३॥

विश्वास-प्रस्तुतिः

नाशाद् विघ्नस्य कंसादेः पत्य्-आभासादिजस्य च ।
सदा स्वम् अददाद् यस्माद् व्रजे कान्ता-व्रजेष्व् अपि ॥२५४॥

मूलम्

नाशाद् विघ्नस्य कंसादेः पत्य्-आभासादिजस्य च ।
सदा स्वम् अददाद् यस्माद् व्रजे कान्ता-व्रजेष्व् अपि ॥२५४॥

[पूर्ववद् युग्मकम्]

नाशाद् विघ्नस्येति नन्दादीनाम् अन्तरायस्य कंसस्य नाशात् पत्याभासादिजस्य, स्वस्य जारत्व-प्रवाद-रूप-विघ्नस्य च उक्त-प्रकारेण विनाशात् पूर्णं चक्रे इति पूर्वेणान्वयः । पत्य्-आभासादिजस्य विघ्नस्य विनाश-हेतुम् आह—सदेति । यस्मात् हेतोः श्री-कृष्णः व्र्जे कान्ता-व्रजेषु गोपीषु अपि सदा चिरं व्याप्य स्वम् आत्मानम् अददात् दत्तवान् ॥२५४॥

विश्वास-प्रस्तुतिः

यः प्रादाद् व्रज-वासिभ्यः पूर्व-रीत्या निजां गतिम् ।
वृन्दावन-स्थां गोलोक-नाम्नीं यां प्राग् अलोकयत् ॥२५५॥

मूलम्

यः प्रादाद् व्रज-वासिभ्यः पूर्व-रीत्या निजां गतिम् ।
वृन्दावन-स्थां गोलोक-नाम्नीं यां प्राग् अलोकयत् ॥२५५॥

यः श्री-कृष्णः व्रज-वासिभ्यः पूर्व-प्रकारेण वृन्दावन-स्थां गोलोक-नाम्नीं निजां गतीं प्रादात्, यां प्राक् अग्रे आलोकयत् प्रादर्शयत्, तथा हि श्री-भागवते दशम-स्कन्धेऽष्टाविंशाध्याये—

इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ [भा।पु। १०.२८.१४] इत्य्-आदिना ॥२५५॥

विश्वास-प्रस्तुतिः

यां श्री-बृहद्-गौतमीये प्राह वृन्दावनं प्रति ।
सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥२५६॥
आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे ।
तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषाम् ॥२५७॥121

मूलम्

यां श्री-बृहद्-गौतमीये प्राह वृन्दावनं प्रति ।
सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥२५६॥
आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे ।
तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषाम् ॥२५७॥121

श्री-बृहद्-गौतमीये वृन्दावनं यां गतिं प्राह कथितवान्, अहं श्री-कृष्णः सर्व-देवमयः सन् क्वचिद् अपि वनं वृन्दावनं न त्यजामि, सर्वदा तत्र तिष्ठामि इति ॥२५६॥

अत्र वृन्दावने मे युगे युगे आविर्भावः प्रकाशः, तिरोभावः अप्रकाशश् च भवेत् । इदं रम्यं तेजोमयं अप्राकृतं वनं चर्म-चक्षुषाम् अज्ञानाम् अदृश्यं दर्शनानर्ह्यम् इति ॥२५७॥

विश्वास-प्रस्तुतिः

तद् एतद् विस्तराद् ब्रह्म-संहितायां निरूपितम् ।
गोलोक-नाम्ना122 तन्-मध्ये गोकुलाख्यं हरेः पदम् ॥२५८॥

मूलम्

तद् एतद् विस्तराद् ब्रह्म-संहितायां निरूपितम् ।
गोलोक-नाम्ना122 तन्-मध्ये गोकुलाख्यं हरेः पदम् ॥२५८॥

तत् तस्मात् एतद् वृन्दावनं ब्रह्म-संहितायां विस्तरात् बाहुल्येन निरूपितं वर्णितं स-सिद्धान्तम् इति शेषः । तन्-मध्ये गोलोक-नामा गोकुलाख्यं हरेः श्री-कृष्णस्य पदं स्थानं भवति । पदं व्यवसिति-त्राण-स्थान-लक्ष्याङ्घ्रि-वस्तुषु इत्य् अमरः ॥२५८॥

विश्वास-प्रस्तुतिः

न त्यजामीति यत् तत् तु द्विधाभिप्रायकं मतम् ।
विरहेऽपि व्रजे स्फूर्त्या पूर्त्या शीघ्रागतेर् अपि ॥२५९॥

मूलम्

न त्यजामीति यत् तत् तु द्विधाभिप्रायकं मतम् ।
विरहेऽपि व्रजे स्फूर्त्या पूर्त्या शीघ्रागतेर् अपि ॥२५९॥

[पूर्ववच् चतुर्भिः]

न त्यजामीति यद् उक्तं तद् द्विधाभिप्रायकं मतं, अभिप्राय-द्वैविध्येन उक्तम् । कथं ? तद् आह—विरहेऽपीति । विरहे अप्रकटावस्थायाम् अपि व्रजे स्फूर्त्या सदा सर्वथा स्थित्या हेतोः, प्रोष्य शीघ्रागतेः पूर्त्या, व्रजे विरह-दुःख-निराकरणेन परम-सुख-पूरणात् च हेतोः द्विधाभिप्रायकं ॥२५९॥

विश्वास-प्रस्तुतिः

यः स्व-पुर्योर् अपि स्थैर्यं याति नित्यं यथाह च ।
मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥२६०॥
द्वारकां हरिणा त्यक्तां समुद्रोत्प्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् ॥२६१॥
स्मृत्वाशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलः ।
नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ॥२६२॥123

मूलम्

यः स्व-पुर्योर् अपि स्थैर्यं याति नित्यं यथाह च ।
मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥२६०॥
द्वारकां हरिणा त्यक्तां समुद्रोत्प्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् ॥२६१॥
स्मृत्वाशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलः ।
नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ॥२६२॥123

[पूर्ववत् त्रिभिः]

यः श्री-कृष्णः स्व-पूर्योः मथुरा-द्वारकायोः अपि नित्यं स्थैर्यं याति, तयोः पूर्योः हरिः नित्यं स्थिरम् इति भावः । यथाह दशम-स्कन्धे—मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः इत्य्-आदि श्लोक-द्वयम् । हे महाराज ! हरिणा श्री-कृष्णेन त्यक्तां द्वारकां स्व-राजधानीं, तत्र श्रीमद्-भगवद्-आलयं श्री-कृष्ण-मन्दिरं विना समुद्रः तत्-क्षणात् अप्लावयत् ग्रस्ताम् अकरोत् । एकादश-स्कन्धे एकत्रिंशाध्याये त्रयोविंशः श्लोकः ॥२६१॥

श्रीमद्-भगवद्=आलयस्याप्लावितत्वे हेतुः—स्मृत्वेति । तद्-आलयं अशेषाशुभ-हरं सर्वामङ्गल-क्षय-कारणं, सर्व-मङ्गल-मङ्गलं सर्वेषां मङ्गलानाम् अपि मङ्गलं कुशल-स्वरूपम् इति स्मृत्वा हृदि विचार्य, पूर्वेणान्वयः । तस्याति-प्रियत्वं प्रदर्शयति नित्यम् इति अत्र स्वकीय आलये भगवान् मधुसूदनः नित्यं सदा सन्निहितः विराजते श्लोक-युगम् एकादश-स्कन्धे एकत्रिंशध्याये वर्तते ॥२६२॥

विश्वास-प्रस्तुतिः

यस् तस्माद् उभयत्रापि राजतीति शुकेन च ।
जयतीत्य्-आदि-वाक्येन124 वर्णितः क्षितिपं प्रति ॥२६३॥

मूलम्

यस् तस्माद् उभयत्रापि राजतीति शुकेन च ।
जयतीत्य्-आदि-वाक्येन124 वर्णितः क्षितिपं प्रति ॥२६३॥

यः श्री-कृष्णः उभयत्र मथुरायां द्वारकायां च राजति तिष्ठति इति उभय-निष्ठत्वं क्षितिपं परीक्षितं प्रति

जयति जन-निवासो देवकी-जन्म-वादो यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् । स्थिर-चर-वृजिन-घ्नः सुस्मित- श्री-मुखेन व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ [भा।पु। १०.९०.४८]

इति दशम-स्कन्धीय-नवतितमाध्याये ऽष्टचत्वारिंश-श्लोकेन प्रतिपादितं । अत्र यदुवर-परिषत् इति पदेन द्वारका-निष्ठत्वं, स्थिर-चिरवृजिनघ्नः सुस्मित-श्री-मुखेन व्रज-पुर-वनितानां वर्धयन् कामदेवम् इति श्लोकार्धेन द्वारका-वासित्वेऽपि तस्य व्रज-निष्ठत्वं प्रतीयते, वर्धयन्न् इत्य् अत्र शतृ-प्रत्यय-योगात् इति भावः ॥२६३॥

विश्वास-प्रस्तुतिः

यश् चम्पू-युगल-प्रान्तम् ईदृक् सिद्धान्तम् ईरितम् ।
जीवान्तर्यामितां प्राप्तस् तूर्णं पूर्णम् अचीकरत् ॥२६४॥

मूलम्

यश् चम्पू-युगल-प्रान्तम् ईदृक् सिद्धान्तम् ईरितम् ।
जीवान्तर्यामितां प्राप्तस् तूर्णं पूर्णम् अचीकरत् ॥२६४॥

गोपाल-चम्पु-ग्रन्थ-युगले यः श्री-कृष्णः जीवान्तर्यामितां ग्रन्थ-कर्तुः बुद्धि-चालकतं प्राप्तः सन् तूर्णं इदृक् ईरितं सिद्धान्तं झटिति पूर्णं समाप्तम् अचीकरत् कारितवान् ॥२६४॥

विश्वास-प्रस्तुतिः

स तु हरिर् अधिवर्त्म दन्तवक्रं
युधि शमयन् व्रज-वासम् आससाद ।
तम् अभिययुर् अमी व्रजेश-मुख्याः
शशिनम् इव क्षुधिताश् चकोर-वाराः ॥२६५॥

मूलम्

स तु हरिर् अधिवर्त्म दन्तवक्रं
युधि शमयन् व्रज-वासम् आससाद ।
तम् अभिययुर् अमी व्रजेश-मुख्याः
शशिनम् इव क्षुधिताश् चकोर-वाराः ॥२६५॥

[आदिम् आरभ्य महा-कुलकम्]

स तु हरिः श्री-कृष्णः अधिवर्त्म वर्त्मनि मार्गे दन्तवक्रं दुर्दान्तं वीर-विशेषं युधि युद्धे शमयन् पञ्चत्वं प्रापयन् व्रज-वासम् आससाद प्राप्तवान् । क्षुधिताः चक्रोर-वाराः चन्द्र-सुधा-पायि-पक्षि-समूहाः शशिनम् इव व्रजेश-मुख्यः नन्द प्रभृतयः तं श्री-कृष्णम् अभिययुः सम्मुखं गतवन्तः, श्री-कृष्णं परिवेष्ट्य व्रज-वासिनः तन्मुख-माधुरीं पिबन्त आसन्न् इति भावः ॥२६५॥

विश्वास-प्रस्तुतिः

स च जनक-मुखान् निरीक्ष्य
शुष्कान् स्व-दृग्-अमृतेन सिञ्चति स्म ।
पुलक-कुल-मिषाद् यथाङ्कुराणां
ततिम् अदधुर् बत तेऽपि गोप-वृक्षाः ॥२६६॥

मूलम्

स च जनक-मुखान् निरीक्ष्य
शुष्कान् स्व-दृग्-अमृतेन सिञ्चति स्म ।
पुलक-कुल-मिषाद् यथाङ्कुराणां
ततिम् अदधुर् बत तेऽपि गोप-वृक्षाः ॥२६६॥

स श्री-कृष्णः जनक-मुखान् नन्द-प्रभृतीन् शुष्कान् निरीक्ष्य स्व-दृग्-अमृतेन स्व-लोचन-पीयूषेन सिञ्चति स्म । बत विस्मये । तेऽपि गोप-वृक्षाः, गोपा एव वृक्षा गोप-वृक्षाः, स्वयं प्रतिकर्तुम् अन्यत्र गन्तुम् अक्षमास् तेऽतो वृक्षत्वम् आरोपिता इति भावः । इदानीं हर्षोद्गमात् पुलक-कुल-मिषात् पुलक-समूह-च्छलात् अङ्कुराणां ततिं समूहम् अदधुः धृतवन्तः ॥२६६॥

विश्वास-प्रस्तुतिः

अथ हरि-हरिणी-दृशश् च तर्हि
स्फुरणम् इव प्रतिपद्य पूर्व-तुल्यम् ।
नयन-गततयान्यथा च मत्वा
मुहुर् अगमन् भ्रमम् अभ्रमं च तत्र ॥२६७॥

मूलम्

अथ हरि-हरिणी-दृशश् च तर्हि
स्फुरणम् इव प्रतिपद्य पूर्व-तुल्यम् ।
नयन-गततयान्यथा च मत्वा
मुहुर् अगमन् भ्रमम् अभ्रमं च तत्र ॥२६७॥

अथ अनन्तरं हरिः श्री-कृष्णः हरिणी-दृशो गोप्यश् च तर्हि तदा पूर्व-तुल्यम् विरह-तुल्यम् इव स्फुरणं प्रतिपद्य विज्ञाय, योगेऽपि निश्चिते नयन-गततया दर्शन-विषयी-भूततया अन्यथा च वैपरीत्येनापि मत्वा तत्र दृश्य-विषये मुहुः भ्रमम् अप्रमाम् अभ्रमं च प्रमां च अगमन् अव्रजन् । “अयं श्री-कृष्णः किं ?” “अपरः को वा ?” “नहि, अयं श्री-कृष्णः ! वयं विरहे जगत् तन्-मयं पश्यामः ।” “पुनः सोऽयं श्री-कृष्णः” इत्य्-आकारा गोपीनां भ्रान्तिर् अभ्रान्तिः संशयश् च जाताः । श्री-कृष्णस्यापि तादृक् यथा, “इयं सा नु मत्-प्रेयसी” इत्य्-आदि-रूपा ॥२६७॥

विश्वास-प्रस्तुतिः

व्रजम् अथ विशतः स-रत्नम् आरात्रिकम्
अनु लब्धवतश् च तस्य लोकः ।
कुसुम-कुल-सहोदरं वितन्वन्
जय-जय-घोषम् उवाच भद्र-वाचम् ॥२६८॥

मूलम्

व्रजम् अथ विशतः स-रत्नम् आरात्रिकम्
अनु लब्धवतश् च तस्य लोकः ।
कुसुम-कुल-सहोदरं वितन्वन्
जय-जय-घोषम् उवाच भद्र-वाचम् ॥२६८॥

अथ गोष्ठं विशतः प्रवेशः कुर्वतः अनु पश्चात् स-रत्नं स्वर्ण-पात्र-स्थितं आरात्रिकं नीराजनं लब्धवतः नीराजनेन सत्-कृतस्य तस्य श्री-कृष्णस्य लोकः व्रज-वासि-वर्गः कुसुम-कुल-सहोदरं पुष्प-समूह-वर्षण-सहितं जय-जय-घोषं जय जय इति उत्कर्ष-द्योतकं शब्दं वितन्वन् भद्र-वाचं कुशल-प्रश्नम् उवाच कथितवान् ॥२६८॥

विश्वास-प्रस्तुतिः

व्रजम् अथ सुखयन् विनीत-वाचा
क्रमम् अनु लब्ध-तदीय-सङ्गमश् च ।
द्रुत-गति जननीं सुखेन सेक्तुं
गृहम् अदसीयम् इयाय कृष्ण-चन्द्रः ॥२६९॥

मूलम्

व्रजम् अथ सुखयन् विनीत-वाचा
क्रमम् अनु लब्ध-तदीय-सङ्गमश् च ।
द्रुत-गति जननीं सुखेन सेक्तुं
गृहम् अदसीयम् इयाय कृष्ण-चन्द्रः ॥२६९॥

अथ अनन्तरं विनीत-वाचा सौशील्य-पूर्णेन वाक्येन सुखयन् सर्वेषां सुखं जनयन् अनु क्रमं यथा-रीति लब्ध-तदीय-सङ्गमो लब्धः तदीयानां सङ्गमः प्रेमालिङ्गनं येन स तथा-भूतः सन् कृष्ण-चन्द्रः द्रुत-गति शीघ्रं पद-विक्षेपेण जननीं यशोदां सुखेन सेक्तुं अदसीयं यशोदाधिष्ठितं गृहं मन्दिरम् इयाय गतवान् ॥२६९॥

विश्वास-प्रस्तुतिः

चिरम् अपि विरचय्य शर्म तस्यास्
तद्-अनुमतिं प्रतिलभ्य तत्-तनूजः ।
सह सखि-निकरेण दिव्य-शय्यां सुखम्
अधिशय्य निशा-विराम-दृष्टः ॥२७०॥

मूलम्

चिरम् अपि विरचय्य शर्म तस्यास्
तद्-अनुमतिं प्रतिलभ्य तत्-तनूजः ।
सह सखि-निकरेण दिव्य-शय्यां सुखम्
अधिशय्य निशा-विराम-दृष्टः ॥२७०॥

तस्या यशोदाया चिरं, सदातनं पुनर्-विरहाभावाद् इति ज्ञेयं, शर्म सुखं, शर्म-शात-सुखानि च इत्य् अमरः, विरचय्य निर्माय तत्-तनुजः तत्-पुत्रः श्री-कृष्णः तद्-अनुमतिं तस्या अनुज्ञां प्रतिलभ्य सखि-निकरेण बन्धु-वर्गेण सह दिव्य-शय्यां दुग्ध-फेण-सदृशीं शय्याम् अधिशय्य निश-विराम-दृष्टः निशाया रात्र्या विरामः शेषः, तस्य दृष्टं, तद् अस्य इति अर्शसादिभ्यः अः [पा। ५.२.१२७] ॥२७०॥

विश्वास-प्रस्तुतिः

पुनर् अपि निज-वृन्द-सौख्य-वृन्दं
विदधद् उदित्य स नित्य-चित्र-मित्रः ।
निज-मुख-कमलं विकास्य नेत्र-
भ्रमर-मधूत्सवम् आततान तत्र ॥२७१॥

मूलम्

पुनर् अपि निज-वृन्द-सौख्य-वृन्दं
विदधद् उदित्य स नित्य-चित्र-मित्रः ।
निज-मुख-कमलं विकास्य नेत्र-
भ्रमर-मधूत्सवम् आततान तत्र ॥२७१॥

[युग्मकम्]

पुनर् अपि निशावसाने स नित्य-चरित्र-मित्रः सनातनापूर्व-मित्रः उदित्य शय्याया उत्थाय निज-वृन्द-सौख्य-वृन्दं निज-वृन्दानां स्वकीय-परिकरानां सौख्य-वृन्दं सुख-जनक-कर्म-समूहं विदधत् कुर्वन् निज-मुख-कमलं स्वकीय-मुख-चन्द्रं विकाश्य नु तत्र विकाशे नेत्र-भ्रमर-मधुत्सवं नेत्राणि एव भ्रमरा अलयः, तेषां वसन्तोत्सवम् आततान, स इति शेषः ॥२७१॥

विश्वास-प्रस्तुतिः

अहर् अहर् इदम् एव तत्र पूर्व-
प्रति नव-भावम् अवाप केवलं न ।
जन-समुदितिर् अप्य् अदृष्ट-पूर्वां
वपुर्-अनुकान्तिम् इयाय शश्वद् एव ॥२७२॥

मूलम्

अहर् अहर् इदम् एव तत्र पूर्व-
प्रति नव-भावम् अवाप केवलं न ।
जन-समुदितिर् अप्य् अदृष्ट-पूर्वां
वपुर्-अनुकान्तिम् इयाय शश्वद् एव ॥२७२॥

तत्र श्री-कृष्ण-समागमे जन-समुदितिः जन-समूहः अहरहः प्रतिदिनं पूर्वं प्रति-नव-भावं प्रवास-प्रत्यागति-निमित्तक-नुतनानुरागं केवलं न अवाप प्राप्तवान्, अपि तु अदृष्ट-पूर्वां नवीनां वपुर्-अनुकान्तिं शरीर-लावण्यं शश्वद् एव चिरम् एव इयाय गतवान् ॥२७२॥

विश्वास-प्रस्तुतिः

दिवस-कतिपये तदातियाते125
पशुपति-पालकता-द्ईप्त-तादृग्-इच्छुः ।
निज-रथ-तरसा निनाय गोष्ठं
सह-जननी-कबलं तम् उद्धवं च ॥२७३॥

मूलम्

दिवस-कतिपये तदातियाते125
पशुपति-पालकता-द्ईप्त-तादृग्-इच्छुः ।
निज-रथ-तरसा निनाय गोष्ठं
सह-जननी-कबलं तम् उद्धवं च ॥२७३॥

तदा तस्मिन् काले पशुपति-पालक-दीप्तता-दृग्-इच्छुः पशुपतीनां गोपालानां पालकः श्री-नन्दः, तस्य दीप्तता परिपूर्णता, तस्या दृग् दर्शनं, तस्या इच्छुः अभिलाषी सन्, निज-रथ-तरसा स्वकीय-रथ-वेगेन सह-जननी-कबलं जनन्या रोहिन्याः सह वर्तते यः स सह-जननी । कः ? स चासौ बलश् चेति सह-जननी-कबलः । तं उद्धवं च । गोष्ठं नन्द-व्रजं निनाय प्रापितवान् ॥२७३॥

विश्वास-प्रस्तुतिः

अघरिपु-सुदृशां धवाभिमानिष्व्
अकृत तनु-प्रतिमाः पुरा तु माया ।
स-रभसम् अधुना स्म ता विभज्य
प्रकृत-तनूस् तनुते प्रेमास्पदानि ॥२७४॥

मूलम्

अघरिपु-सुदृशां धवाभिमानिष्व्
अकृत तनु-प्रतिमाः पुरा तु माया ।
स-रभसम् अधुना स्म ता विभज्य
प्रकृत-तनूस् तनुते प्रेमास्पदानि ॥२७४॥

माया योगमाया अघरिपु-सुदृशां श्री-कृष्ण-कान्तानाम् धवाभिमानिषु भर्त्र्-अभिमानिषु प्रतिमाः तनु-प्रति-रूपाणि यथा अकृत कृतवती,

नासूयन् खलु कृष्णाय मोहितास् तस्य मायया । मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [भा।पु। १०.३३.३७] इति रास-पञ्चाध्यायस्य श्रीमद्-भागवत-श्लोकः ।

अधुना स-रभसं सत्वरं ता प्रेमास्पदानि अप्रकृतास् तनूः विभज्य यथार्थ-ज्ञानास्पदानि प्रकृत-तनूः यथार्थ-शरीराणि तनुते स्म निर्मितवती ॥२७४॥

विश्वास-प्रस्तुतिः

अथ गतवति मूर्ति-भेद-रीत्या
यदु-पुरम् अत्र च राजमान-धाम्नि ।
व्रज-भव-जन-मात्र-दृश्य-रूपे
मतिर् उदियात् तव चित्त गोप-कृष्णे ॥२७५॥

मूलम्

अथ गतवति मूर्ति-भेद-रीत्या
यदु-पुरम् अत्र च राजमान-धाम्नि ।
व्रज-भव-जन-मात्र-दृश्य-रूपे
मतिर् उदियात् तव चित्त गोप-कृष्णे ॥२७५॥

अथ अनन्तरं मूर्ति-भेद-रीत्या मूर्त्य्-अन्तरेण यदु-पुरं द्वारका-नगरीं गतवति, अत्र च व्रजेऽपि राजमान-धाम्नि राजमानं दीप्तिमत् धाम तेजः यस्य स तस्मिन्, व्रज-भव-जन-दृश्य-मात्र-रूपे व्रज-भव-जन-मात्रेण व्रज-वासि-जन-मात्रेण दृश्यं रूपं यस्य स । तस्मिन् गोप-कृष्णे गोपाल-वेश-धारिणि कृष्णे श्री-नन्द-नन्दने, हे चित्त ! मम सङ्कल्प ! तव मतिर् बुद्धिर् उदियात् स्फूर्तिं गच्छतु ॥२७५॥

इति जन्मादि-लीला

॥१॥

[२]

नित्य-लीला

विश्वास-प्रस्तुतिः

प्रकटतर-विकास-भाजि वृन्दावन
इह भाति किम् अप्य् अदृश्य-धाम ।
व्रज-जन-सहितः स यत्र कृष्णः
सुख-विहृतिं विदधद् विभाति नित्यम् ॥१॥

मूलम्

प्रकटतर-विकास-भाजि वृन्दावन
इह भाति किम् अप्य् अदृश्य-धाम ।
व्रज-जन-सहितः स यत्र कृष्णः
सुख-विहृतिं विदधद् विभाति नित्यम् ॥१॥

प्रकटतर-विकाश-भाजि प्रकटतरः विकाशः स्फुटतरा दीप्तिः तं भजते यत् तस्मिन्, ढात् भज-वह-सहो विण् इति विन् । इह वृन्दावनेऽदृश्य-धाम सर्व-लोकागोचरं निवास-स्थानं किम् अपि अनिर्वचरीयम् अस्ति । यत्र स कृष्णः व्रज-जन-सहितः व्रज-वासि-परिवेष्टितः सुख-विहृतिं सुख-विहारं विदधत् कुर्वन् नित्यं चिरं विभाति विलसतीति ॥१॥

विश्वास-प्रस्तुतिः

परिलसति पयः-समुद्र-सीमा-
व्रज-युव-राज-समाज-लोक एषः ।
अमुम् अनु चतुरस्रम् अत्र वन्या गिरि-
सरिद्-अञ्चित-चारुतातिधन्या ॥२॥

मूलम्

परिलसति पयः-समुद्र-सीमा-
व्रज-युव-राज-समाज-लोक एषः ।
अमुम् अनु चतुरस्रम् अत्र वन्या गिरि-
सरिद्-अञ्चित-चारुतातिधन्या ॥२॥

पयः-समुद्र-सीमः पयः-समुद्रः क्षीराब्धिः एष सर्व-सुधी-सुनिश्चितः सीमा यस्य स व्रज-युवराज-समाज-लोकः व्रज-युवराजस्य श्री-कृष्णस्य, तस्य समाजस्य परिवारस्य च लोकः परिलसति । अमुम् अनु मध्ये चतुरस्रं चतुर्-भुज-क्षेत्रम् अस्ति, अत्र चतुरस्रे क्षेत्रे वन्या वन-समूहः विद्यते, या गिरि-सरिद्-अञ्चित-चारुता गिरिः पर्वतः, सरिद्-अञ्चितं नदी-प्रवाहः, ताभ्यां हेतुभ्यां चारुता यस्यां सा इति हेतोः अतिधन्या ॥२॥

विश्वास-प्रस्तुतिः

गिरि-समुदितिर् अत्र सुष्ठु गोवर्-
धन-वलिता परिभाति चित्र-तुल्या ।
विलसति यमुनादिका-नदीनां
ततिर् अपि मानस-गङ्गयानुषक्ता ॥३॥

मूलम्

गिरि-समुदितिर् अत्र सुष्ठु गोवर्-
धन-वलिता परिभाति चित्र-तुल्या ।
विलसति यमुनादिका-नदीनां
ततिर् अपि मानस-गङ्गयानुषक्ता ॥३॥

गिरि-समुदितिः पर्वत-समूहः । अत्र गोवर्धन-वलिता गोवर्धन-युक्ता सती गोवर्धन-मुख्या इति फलितार्थः । चित्र-तुल्या, आलिखिता इव स्थिर-सौन्दर्यवत्त्वाद् इति भावः, परिभाति । मानस-गङ्गया तन्-नाम्ना नद्या युक्ता यमुनादिका-नदीनां ततिः समुहोऽपि विलसति विराजते तत्र ॥३॥

विश्वास-प्रस्तुतिः

अभिरुचि-दद-रत्न-चित्र-मित्रं
भुवनम् इदं परिभाति यत्र वृक्षाः ।
तद्-अनुकृति-परा रुचा समृद्ध्या
हरि-रति-दायितया च ये विभाताः ॥४॥

मूलम्

अभिरुचि-दद-रत्न-चित्र-मित्रं
भुवनम् इदं परिभाति यत्र वृक्षाः ।
तद्-अनुकृति-परा रुचा समृद्ध्या
हरि-रति-दायितया च ये विभाताः ॥४॥

इदं यत्र इदं अभिरुचि-दद-रत्न-चित्र-मित्रं अभिरुचि-ददं रत्नं चिन्तामणि-नामकं, तेन चित्रं आश्चर्य-करं मित्रं सर्वेषां मनोरथ-पूरकं भुवनं भवनं परिभाति । यत्र मन्दिर-प्राङ्गणे वृक्षाः पादपाः रुचा कान्त्या तद्-अनुकृति-पराः मन्दिर-सौष्ठव-धारिणः तिष्ठन्ति । ये च वृक्षा हरि-रति-दायितया श्री-कृष्ण-चित्त-रञ्जकत्वेन समृद्ध्या ऐश्वर्येण च विभाताः प्रकाश-शालिनः भवन्ति ॥४॥

विश्वास-प्रस्तुतिः

विलसति चतुरस्र-धाम्नि घस्र-
क्षितिपति-बिम्ब-महः सहस्र-पत्रम् ।
उपवनम् अधिपत्रम् अत्र कृष्ण
प्रियतम-दार-विहार-सार-वारः ॥५॥

मूलम्

विलसति चतुरस्र-धाम्नि घस्र-
क्षितिपति-बिम्ब-महः सहस्र-पत्रम् ।
उपवनम् अधिपत्रम् अत्र कृष्ण
प्रियतम-दार-विहार-सार-वारः ॥५॥

चतुरस्र-धाम्नि चतुर्-बाहु-क्षेत्रे घस्र-क्षिति-पति-बिम्ब-महः सहस्र-पत्रं घस्र-क्षिति-पतिः दिनपतिः, अर्थात् सूर्यः, तस्य बिम्बवत् महस् तेजो यस्य तत् तथा-भूतं सहस्र-पत्रं कमलं विद्यते, अधि-पत्रं पत्रेषु तस्य कमलस्य इति भावः उपवनम् आरामः विद्यते, अत्र उपवने कृष्ण-प्रियतम-दार-विहार-सारः कृष्णस्य प्रियतमा दाराः प्रेयस्यः, तासां विहाराणां सार-वारः सार-समूहः विराजते ॥५॥

विश्वास-प्रस्तुतिः

इह कमल-दल-द्वयालि-मध्य-
स्थिति-पथि-वृन्दम् अतिस्फुटं विभाति ।
अपर-पर-गताव् अचाक्षुषाणि
श्रुति-विहितान्य् अयनानि यत् तु जेतृ ॥६॥

मूलम्

इह कमल-दल-द्वयालि-मध्य-
स्थिति-पथि-वृन्दम् अतिस्फुटं विभाति ।
अपर-पर-गताव् अचाक्षुषाणि
श्रुति-विहितान्य् अयनानि यत् तु जेतृ ॥६॥

इह कमले कमल-दल-द्वयालि-मध्य-स्थिति-पथि-वृन्दं नलिन-पत्रग-समूहस्य मध्ये स्थितिर् यस्य तथा-भूतं पथि-वृन्दं सरणि-कदम्बकं विभाति । यत् तु पथि-वृन्दं श्रुति-विहितानि वेदैः प्रतिपादितानि अपर-पर-गतौ धूम-यान-देव-यान-गमन-विषये अचाक्षुषाणि अगोचराणि अयनानि वर्त्मानि जेतृ जय-शीलं भवति ॥६॥

विश्वास-प्रस्तुतिः

चिन्तामणि126-कमलस्य तस्य चाग्रा
वलि-वलय-प्रतिसन्धि-लब्ध-सन्धि ।
सुरभि-गण-वृता सुधाभ-दुग्धा
सुरभि-ततिः श्रयते शुभंयु-गोष्ठम् ॥७॥

मूलम्

चिन्तामणि126-कमलस्य तस्य चाग्रा
वलि-वलय-प्रतिसन्धि-लब्ध-सन्धि ।
सुरभि-गण-वृता सुधाभ-दुग्धा
सुरभि-ततिः श्रयते शुभंयु-गोष्ठम् ॥७॥

चिन्ता-मणि-कमलस्य अग्रावालि-वलय-प्रति-सन्धि-लब्ध-सन्धि अग्रावलिर् एव वलयं, तस्य प्रति-सन्धि-लब्ध-सन्धि मेलन-स्थान-लब्ध-सन्निवेशं शुभंयु मङ्गल-मयं गोष्ठं सुरभि-गण-वृता देव-धेनु-समूह-पूजिता सुरभि-ततिः नन्द-व्रज स्थित-धेन्व्-आवलिः श्रयते । सा सुरभि-ततिः सुधाभ-दुग्धा अमृत-तुल्य-दुग्ध-दायिनी ॥७॥

विश्वास-प्रस्तुतिः

अथ दल-वलयस्य मध्य-भागं127 प्रतिलसति व्रजराज-राजधानी ।
परिविधद्128 अभितः समस्त-गोप-
प्रकर-गृहावलिर् अत्र यत्र भाति ॥८॥

मूलम्

अथ दल-वलयस्य मध्य-भागं127 प्रतिलसति व्रजराज-राजधानी ।
परिविधद्128 अभितः समस्त-गोप-
प्रकर-गृहावलिर् अत्र यत्र भाति ॥८॥

दल-वलयस्य सहस्र-दल-कमल-दल-निर्मितं वलयं, तस्य मध्य-भागं परिविधत् व्याप्नुवत् व्रज-राज-राजधानी परिलसति । अत्र यत्र नाना-प्रकरेण विलसत् समस्त-गोप-प्रकर-गृहावलिः समस्त-गोप-स्तवकस्य गृहावलिः हर्म्य-श्रेणी भाति प्रकशते ॥८॥

विश्वास-प्रस्तुतिः

रुचि-लसद्-अवरोध-मध्य-भागं
स-परिषद्-अन्तिम-षष्ठ-भाग-पुष्टम् ।
व्रज-नृप-भवनं तु तत्र चान्तर्
दिनकरवद् विदधाति रश्मि-सृष्टिम् ॥९॥

मूलम्

रुचि-लसद्-अवरोध-मध्य-भागं
स-परिषद्-अन्तिम-षष्ठ-भाग-पुष्टम् ।
व्रज-नृप-भवनं तु तत्र चान्तर्
दिनकरवद् विदधाति रश्मि-सृष्टिम् ॥९॥

तत्र व्रज-राज-धान्यां अन्तिम-षष्ठ-भाग-पुष्टं अन्तिमेन शेष-स्थितेन भागेन प्रकोष्ठेण पुष्टं शोभावत्त्वेन उन्नीतं रुचि-लसद्-अवरोध-मध्य-भागं रुचि-लसन् कान्त्या विराजमानः अवरोधं अन्तः-पुरं मध्य-भागे यस्य, तत् व्रज-नृप-भवनं अन्तर् केन्द्रे विराजमानं सत् दिनकर-करवत् सूर्य-किरणवत् रश्मि-सृष्टिं विदधाति करोति ॥९॥

विश्वास-प्रस्तुतिः

यद् अपि मणिमयं तद् एक-रूपं
तद् अपि सद् अद्भुत-मध्य-मध्य-भागम् ।
यदि बहु-विधं ऊहितुं समीहा
स्मर मम मानस गोप-चम्पू-युग्मम् ॥१०॥

मूलम्

यद् अपि मणिमयं तद् एक-रूपं
तद् अपि सद् अद्भुत-मध्य-मध्य-भागम् ।
यदि बहु-विधं ऊहितुं समीहा
स्मर मम मानस गोप-चम्पू-युग्मम् ॥१०॥

यद् अपि मणिमयं तद् भवनम् एक-रूपं सौन्दर्येण सर्वत्र विशिष्टं, तद् अपि तथापि सद् अभूत-मध्य-मध्य-भागः, सच् च तद् अद्भूतं चेति सद्-अद्भूतः, तथा-भूतः मध्य-मध्य-भागो यस्य तत् व्रज-नृप-भवनं भवति । हे मम मानस ! यदि बहु-विधं बहुधा स-विशेषम् ऊहितुं ज्ञातुं समीहा सम्यक्-चेष्टा भवेत्, तदा गोपाल-चम्पु-युग्मं पूर्वोत्तर-भाग-सम्पूर्णं मत्-कृत-ग्रन्थं स्मर चिन्तय ॥१०॥

विश्वास-प्रस्तुतिः

इह सहचर-तारकालि-पुष्टः
स्वक-परिचारि-चकोर-वार-जुष्टः ।
स्मितम् अनुयश इत्य् अनुद्य कौमुद्य्
अवतरतीत्य् उदितात् कवेः सुतुष्टः ॥११॥

मूलम्

इह सहचर-तारकालि-पुष्टः
स्वक-परिचारि-चकोर-वार-जुष्टः ।
स्मितम् अनुयश इत्य् अनुद्य कौमुद्य्
अवतरतीत्य् उदितात् कवेः सुतुष्टः ॥११॥

इह श्री-नन्द-भवने स कृष्ण-चन्द्रः किम्-भूतः ? तद् आह—सहचर-तारकालि-पुष्टः, सहचरा वयस्या एव तारकालिः नक्षत्र-वीथिः, तया पुष्टः परिवर्धितः, स्वक-परिचारि-चकोर-वार-जुष्टः स्वका ये परिचारिनः, त एव चकोर-वाराः चन्द्र-सुधा-पायि-पक्षि-विशेष-समूहाः, तैः जुष्टः सेवितः, यशः कीर्तिम् अनु स्मितम् ईषद् धास्यं अनुद्य अवतार्य कौमुदी ज्योत्स्ना अवतरति आपतति इति कवेः विचक्षणस्य भावुकस्य उदिताद् वर्णनात् सुतुष्टः परम आप्यायितः ॥११॥

विश्वास-प्रस्तुतिः

व्रज-कुल-कुमुदावली-मुदां यः
सतत-महा-महः-कृद्-विधाव् अतन्द्रः ।
पितृ-मुख-सदसि प्रियावलीनां
महसि च नन्दति गोप-कृष्ण-चन्द्रः ॥१२॥

मूलम्

व्रज-कुल-कुमुदावली-मुदां यः
सतत-महा-महः-कृद्-विधाव् अतन्द्रः ।
पितृ-मुख-सदसि प्रियावलीनां
महसि च नन्दति गोप-कृष्ण-चन्द्रः ॥१२॥

यः गोप-कृष्ण-चन्द्रः व्रज-कुल-कुमुदावली-मुदां व्रज-कुलं व्रज-वासि-समूह एव कुमुदावली कुमुद-वीथिः, तस्या मुदां हर्षाणां विधौ विधाने अतन्द्रः अनलसः महा-महः-कृत्, महोत्सव-कृद् भवति । अपि च पितृ-मुख-सदसि श्री-नन्दादि-गुरु-जन-सभायां प्रियावलीनां महसि उत्सवे नन्दति सुखेन क्रीडति ॥१२॥

विश्वास-प्रस्तुतिः

सुरपति-मणि-मानिताङ्गि-सङ्घः
पट-पटुता-कृत-हेम-रङ्ग-भङ्गः ।
गुण-गण-भृत-भारती-समाजः
स जयति गोकुल-राज-वंश-राजः ॥१३॥

मूलम्

सुरपति-मणि-मानिताङ्गि-सङ्घः
पट-पटुता-कृत-हेम-रङ्ग-भङ्गः ।
गुण-गण-भृत-भारती-समाजः
स जयति गोकुल-राज-वंश-राजः ॥१३॥

[त्रिभिः कुलकम्] सुरपति-मणि-मानिताङ्ग-सङ्घः, सुरपति-मणिना मानितः पूजितः अङ्ग-सङ्घः अवयव-समूहः यस्य सः । पट-पटुता-हेम-रङ्ग-भङ्गः, पटस्य पीताम्बरस्य पटुतया वैलक्षण्येन कृतः हेम्नः सुवर्णस्य रङ्ग-भङ्गः गर्व-भङ्गः येन सः । गुण-गण-भृत-भारती-समाजः गुण-गणैः भक्त-वात्सल्यादि-गुणैः भृतः परिपूरितः भारत्याः सरस्वत्याः समाजः, अर्थात् विद्वत्-समाजः, येन स गोकुल-राज-वंश-राजः गोकुल-राजस्य वंशः, तस्मिन् राजते यः श्री-कृष्णः, स जयति ॥१३॥

विश्वास-प्रस्तुतिः

इह हरि-विहृतीर् अतीत-रीत्या
शृणु कथयामि सदापि नातिभिन्नाः ।
यद् अनृतम् अपि पूर्व-रीति-चेतः
प्रविशति नाद्यतनं तथा यथार्थम् ॥१४॥

मूलम्

इह हरि-विहृतीर् अतीत-रीत्या
शृणु कथयामि सदापि नातिभिन्नाः ।
यद् अनृतम् अपि पूर्व-रीति-चेतः
प्रविशति नाद्यतनं तथा यथार्थम् ॥१४॥

इह नन्द-व्रजे सदापि अतीत-रीत्या हरि-विहृतीः श्री-कृष्णस्य विहारान् कथयामि शृणु । ता विहृतीः प्रकट-विहारात् अति-भिन्ना न, पूर्व-रीति-चेतः योगमाया-भावितान्तः-करणं अनृतम् अपि परकीयात्वं प्रविशति, यतः अद्यतनं सम्प्रति प्राप्तं नित्य-दाम्पत्यं यथार्थम् अपि तथा प्रेमापादकं न भवतीति भावः ॥१४॥

विश्वास-प्रस्तुतिः

इह च यद् उदितं हरेश् चरित्रं
तद् अखिलम् एव दिग् एव तस्य गम्या ।
प्रतिलवम् अपि चित्रम् अस्य तत् तत्
क इव सुधीर् अवसानम् आददीत? ॥१५॥

मूलम्

इह च यद् उदितं हरेश् चरित्रं
तद् अखिलम् एव दिग् एव तस्य गम्या ।
प्रतिलवम् अपि चित्रम् अस्य तत् तत्
क इव सुधीर् अवसानम् आददीत? ॥१५॥

इह रे मानस ! त्वत्-समीपे हरेश् चरित्रं यद् उदितं वर्णितं, तद् अखिलं तत् सर्वं तस्य श्री-कृष्णस्य सम्बन्धे दिग् एव दिग्-दर्शनम् एव, अनन्तत्वात् कथयितुम् अशक्यम् इति भावः । तस्य लीला गम्या अन्तरेण सुधीभिर् भाव्या इति शेषः । अस्य हरेः चरित्रस्य प्रति प्रति-लेश-लवं चित्रम् आश्चर्यं । तस्मात् क इव सुधीः पण्डितः अवसानं तृप्तिम् आददीत ? न कोऽपीत्य् अर्थः ॥१५॥

विश्वास-प्रस्तुतिः

अथ निशि रहसागतान्तरायां
बलजम् इते स्तव-वाद्य-विद्य-लोके ।
व्रज-भवन-जनः सहैव जाग्रन्
मनसि हरिं दधद् आगतं ननन्द ॥१६॥

मूलम्

अथ निशि रहसागतान्तरायां
बलजम् इते स्तव-वाद्य-विद्य-लोके ।
व्रज-भवन-जनः सहैव जाग्रन्
मनसि हरिं दधद् आगतं ननन्द ॥१६॥

निशि रात्रौ रहसागतान्तरायां रहसि निर्जने आगतं अन्तरं यस्याः, तस्यां सत्यां प्रभात इत्य् अर्थः, स्तव-वाद्य-विद्य-लोके स्तव-वादायोर् विद्या यस्मिन्, स चासौ लोकश् चेति, तस्मिन् बलजं सिंह-द्वारं इते गते व्रज-भवन-जनः व्रज-वासि-जनः सहैव जाग्रत् सुत-मागधानां गीत-वाद्य-ध्वनिना इति भावः, मनसि आगतं हरिं दधन् ननन्द आह्लादितो बभूव ॥१६॥

विश्वास-प्रस्तुतिः

स-मथन-निनदं स-गीत-नादं
स-सुरभि-दोह-रवं स-गोप-वादम् ।
अमृत-मथन-युक् पयोधि-तुल्यं
व्रज-कुलम् उल्लसितं दिधिन्व कृष्णम् ॥१७॥

मूलम्

स-मथन-निनदं स-गीत-नादं
स-सुरभि-दोह-रवं स-गोप-वादम् ।
अमृत-मथन-युक् पयोधि-तुल्यं
व्रज-कुलम् उल्लसितं दिधिन्व कृष्णम् ॥१७॥

स-मथन-निनदं दधि-मथनोद्भूत-निनादेन घर्घर इत्य् आकारेण सह वर्तते यत् तत्, स-गीत-नादं गोपाङ्गनानां श्रमापहारक-प्रमोद-सूचक-सुस्वर-गीत-नादेन सह वर्तते यत् तत्, स-सुरभि-दोह-रवं सुरभीनां कामधेनूनां दोहस्य रवेण ध्वनिना वर्तते यत् तत्, स-गोप-वादं गोपानां अपवादः वादानुवादः, तेन सह वर्तमानं यत् तत्, अमृत-मथन-युक्-पयोधि-तुल्यं अमृत-मथने युज्यते यः पयोधिः क्षीराब्धिः, तेन तुल्यं व्रज-कुलं नन्द-गोष्ठं कृष्णं युवराज-नन्द-पुत्रं उल्लसितं दिधिन्व चकार इति ॥१७॥

विश्वास-प्रस्तुतिः

व्रज-पति-मिथुनं तदाथ पुत्र-
प्रमद-मद-श्लथित-प्रदान-सेतु ।
तनय-जय129-विरुत्-ततिं पठद्भ्यः
प्रचुरतरं विततार वार-वारम् ॥१८॥

मूलम्

व्रज-पति-मिथुनं तदाथ पुत्र-
प्रमद-मद-श्लथित-प्रदान-सेतु ।
तनय-जय129-विरुत्-ततिं पठद्भ्यः
प्रचुरतरं विततार वार-वारम् ॥१८॥

अथ तदा व्रज-पति-मिथुनं नन्दः यशोदा च, स्त्री-पुंसौ मिथुनं द्वन्द्वम् इत्य् अमरः, पुत्र-प्रमद-श्लथित-प्रदान-सेतु पुत्रस्य श्री-कृष्णस्य प्रमदः हर्षं वन्दि-मागध-वाद्य-गीत-श्रवणात् जात इति ज्ञेयं, तस्मात् हेतोर् जातः मद उत्काऋषाभिमानः, तेन हेतुना श्लथितः शैथल्यं गतः, प्रदानस्य वितरणस्य सेतुः मर्यादा यस्यां क्रियायां यथा स्यात् तथा तनयस्य श्री-कृष्णस्य जय-विरुत्-ततिं जय-सूचक-गद्य-पद्य-मयीं राज-स्तुतिं पठद्भ्यः प्रचुरतरं मणि-माणिक्यादि वार-वारं विततार ददौ ॥१८॥

विश्वास-प्रस्तुतिः

इह लसति हरेर् विलास-गेह-
प्रततिर् उदार-सुदार-सार-वारा ।
शयन-सुख-मयी निकुञ्ज-वीथिः
क्वचन च तादृशतां गता विभाति ॥१९॥

मूलम्

इह लसति हरेर् विलास-गेह-
प्रततिर् उदार-सुदार-सार-वारा ।
शयन-सुख-मयी निकुञ्ज-वीथिः
क्वचन च तादृशतां गता विभाति ॥१९॥

इह नित्यनन्द-व्रजे उदार-सुदार-सार-वारा उदाराणां सरलानां सुदाराणां श्री-कृष्ण-पत्नीनां सार-वारः सार-समूहः यस्यां सा । हरेः श्री-कृष्णस्य विलास-गेह-प्रततिः श्रेणी लसति राजति । क्वचन बाह्य-प्रदेशे शयन-सुखमयी कुसुम-शय्या-शालिनी इति ज्ञेयं तादृशतां उदार-सुदार-सारत्वं गता निकुञ्ज-वीथिः, निकुञ्ज-कुञ्जौ वा क्लीब इत्य् अमरः, निकुञ्जस्य लता-गृहस्य वीथीः पङ्क्तिः च विभाति प्रकाशते ॥१९॥

विश्वास-प्रस्तुतिः

निज-निज-शयनं गतं तम्
आलिङ्गन-वलितं विदधुर् विधु-सुतन्वः ।
रजनि-विरमणं यथा यथासीद्
अघटत दोर्-द्रढिमा तथा तथासाम् ॥२०॥

मूलम्

निज-निज-शयनं गतं तम्
आलिङ्गन-वलितं विदधुर् विधु-सुतन्वः ।
रजनि-विरमणं यथा यथासीद्
अघटत दोर्-द्रढिमा तथा तथासाम् ॥२०॥

विधु-सुतन्वः विधुवत् चन्द्रवत् तनूर् मुखं यासां ताः व्रज-सुन्दर्यः, निज-निज-शयनं गतं प्रेयसी-शय्या-समुपस्थितं तं श्री-कृष्णम् आलिङ्गन-वलितं आलिङ्गन-बद्धं विदधुः कृतवत्यः । रजनि-विरमनं रात्रि-क्षयः यथा यथा आसीत्, “अहो सुखावसानम् अस्माकं झटिति भविष्यति” इत्य् आशयेण, तथा तथा आसां कान्तानां दोर्-द्रढिमा भुज-युगालिङ्गन-दृढत्वम् अघटत ॥२०॥

विश्वास-प्रस्तुतिः

इह परम-रमा विभाति राधा
सद्-उडु-गणे गगने यथेन्दु-मूर्तिः ।
तद् इयम् अधिकया गिरा सभाज्या
तद्-अनुगतिं दधतां पराः सपत्न्यः ॥२१॥

मूलम्

इह परम-रमा विभाति राधा
सद्-उडु-गणे गगने यथेन्दु-मूर्तिः ।
तद् इयम् अधिकया गिरा सभाज्या
तद्-अनुगतिं दधतां पराः सपत्न्यः ॥२१॥

सद्-उडु-गणे सन्तः वर्तमाना उडु-गणा नक्ष्त्र-समूहा यत्र, तस्मिन् गगने आकाशे यथा इन्दु-मुर्तिः चन्द्र-मूर्तिः, तथा इह नन्द-पुरे परम-रमा महा-लक्ष्मी राधा विभाति । तस्मात् इयं राधा अधिकया गिरा रूप-गुणादि-वैशिष्ट्य-विधायिन्या वाण्या सभाज्या श्लाघ्या । किं च, पराः सपत्न्य अन्याः राधा-भिन्नाः कृष्ण-प्रेयस्यः तद्-अनुगतिं तस्यां श्री-राधाया अनुगतिं छन्दोऽनुवर्तनं दधतां कुर्वन्ति ॥२१॥

विश्वास-प्रस्तुतिः

व्रज-सुकृत-विलास-सार-रत्ना-
कर-वृषभानु-सुजात-शात-लक्ष्मीः ।
अघरिपु-रमणी-रमासु मुख्या
स्वयम् अनुराग-विहार-हारि-मूर्तिः ॥२२॥

मूलम्

व्रज-सुकृत-विलास-सार-रत्ना-
कर-वृषभानु-सुजात-शात-लक्ष्मीः ।
अघरिपु-रमणी-रमासु मुख्या
स्वयम् अनुराग-विहार-हारि-मूर्तिः ॥२२॥

सा राधा व्रजस्य गोष्ठस्य सुकृतानि शुभादृष्टानि, तेषां विलास-सारः । स एव रत्नाकरः समुद्रः । स एष वृषाभानुः, तन्-नाम्ना गोप-विशेषः । तस्मात् सुजाता सुखेन प्रादुर्भूता शात-लक्ष्मीः भवति । पुनः किम्-भूता ? अघस्य सर्पाकृत्य्-असुर-विशेषस्य रिपुः हन्ता श्री-कृष्णः, तस्य रमणी-रमाः रमण्य एव रमा लक्ष्म्यः, तासु मुख्या श्रेष्ठा भवति । पुनः किम्-भूता ? स्वयम् अनुराग-विहार-हारि-मूर्तिः, स्वयम् अनुरागः निर्हेतुकानुरागः, तेन विहारे सुख-विलासे हारिणी मनोरञ्जिका मुर्तिर् यस्याः सा भवति ॥२२॥

विश्वास-प्रस्तुतिः

दयित-घन-तडिद्-विलासि-वर्णा
प्रियतम-वर्ण-स130वर्ण-शस्त-वस्त्रा ।
हरि-मणि-तरलादि-दिव्य-दीव्यन्
मणिमय-भूषण-भूषणाङ्ग-भङ्गिः ॥२३॥

मूलम्

दयित-घन-तडिद्-विलासि-वर्णा
प्रियतम-वर्ण-स130वर्ण-शस्त-वस्त्रा ।
हरि-मणि-तरलादि-दिव्य-दीव्यन्
मणिमय-भूषण-भूषणाङ्ग-भङ्गिः ॥२३॥

सा राधा दयित-घन-तडिद्-विलासि-वर्णा, दयितः श्री-कृष्ण एव घनः मेघः, तस्मिन् तडिद्वत् विलासी वर्णः यस्याः, सा भवति प्रियतम-वर्ण-सवर्ण-शस्त-वस्त्रा, प्रियतमस्य श्री-कृष्णस्य वर्णेन स-वर्णं सदृशं शस्तं सुख-करं वस्त्रं यस्याः, सा भवति हरि-मणि-तरलादि-दिव्य-दीव्यन्-मणिमय-भूषण-भूषणाङ्ग-भङ्गिः हरि-मणिः इन्द्र-नीलमणिः, तेन निर्मितं तरलादि, तरलो हार-मध्यग इत्य् अमरः, तेन दिव्य-दिव्यन्ति दिव्यात् स्वर्ग-जाताद् द्रव्याद् अपि दीव्यन्ति विलसन्ति मणिमयानि भूषणानि अलङ्कृताः, तेषां भूषणं अङ्ग-भङ्गि, वपुषो गठनं यस्याः सा भवति ॥२३॥

विश्वास-प्रस्तुतिः

उपमिति-पदवीं स्वम् एव यान्ती
सुपरिमित-व्यतिशोभिताङ्ग-सङ्घा ।
प्रति-ककुभ-शुभङ्कर-प्रथाभिः
सहज-विलक्षणाङ्कित-श्रीः ॥२४॥

मूलम्

उपमिति-पदवीं स्वम् एव यान्ती
सुपरिमित-व्यतिशोभिताङ्ग-सङ्घा ।
प्रति-ककुभ-शुभङ्कर-प्रथाभिः
सहज-विलक्षणाङ्कित-श्रीः ॥२४॥

सा राधा स्वम् एव उपमिति-पदवीं यान्ती गच्छन्ती, तस्या उपमानं कोऽपि नास्तीति भावः । पुनः किम्-भूता ? सुपरिमित-व्यतिशोभिताङ्ग-सङ्घा—सुपरिमित्या व्यतिशोभितः नितरां शोभितः अङ्ग-सङ्घः अवयव-समुदायो यस्याः सा भवति । पुनः किम्-भूता ? प्रति-ककुभ-शुभङ्कर-प्रथाभिः—प्रतिदिशं शुभङ्करीभिः प्रथाभिः कीर्तिभिः हेतुभिः सहज-विलक्षण-लक्षणाङ्कित-श्रीः—सहज-विलक्षणैः निसर्ग-विशिष्टैः लक्षणैः चिह्नैः अङ्किता श्रीः शोभा यस्याः, सा तथा-भूता ॥२४॥

विश्वास-प्रस्तुतिः

शशि-कमल-रुचां पदापि जेत्री
निज-नख-कान्तिभिर् उज्ज्वलेन तेन ।
अवयव-कुलम् अन्यद्131 अन्यद् अस्तु
प्रति-नव-रोचिर् उपात्त-कान्त-चित्तम् ॥२५॥

मूलम्

शशि-कमल-रुचां पदापि जेत्री
निज-नख-कान्तिभिर् उज्ज्वलेन तेन ।
अवयव-कुलम् अन्यद्131 अन्यद् अस्तु
प्रति-नव-रोचिर् उपात्त-कान्त-चित्तम् ॥२५॥

सा राधा उज्ज्वलेन तेन सर्व-शास्त्र-प्रसिद्धेन पदापि चरणेनापि निज-नख-कान्तिभिः निज-नख-किरणैः शशि-कमल-रुचां सुधांशु-सरोरुह-शोभानां जेत्री जय-शीला भवति । किं च, प्रतिनव-रोचिषा प्रतिक्षणं नवम् एव प्रतीयमानया रोचिषा अङ्ग-ज्योतिषा उपात्तं अधीनीकृतं कान्तस्य श्री-कृष्णस्य चित्तं येन तथा-भूतं अवयव-कुलं अन्यद् अन्यद् अस्तु ॥२५॥

विश्वास-प्रस्तुतिः

सुकुसुम-सुकुमारतावतारस्
त्रिजगति सौरभ-सौरभाकर-श्रीः ।
ऋत-मित-मधुर-प्रियार्थ-रीति
प्रवलित-वर्णन-रीति-लब्ध-वर्णा ॥२६॥

मूलम्

सुकुसुम-सुकुमारतावतारस्
त्रिजगति सौरभ-सौरभाकर-श्रीः ।
ऋत-मित-मधुर-प्रियार्थ-रीति
प्रवलित-वर्णन-रीति-लब्ध-वर्णा ॥२६॥

सा राधा सुकुसुम-सुकुमारतावतारः सुकुसुमेभ्यः शोभनेभ्यः पुष्पेभ्योऽपि या सुकुमारता, तस्या अवतारो भवति । त्रिजगति सौरभस्य मलयजादि-रूपस्य सौरभं, तस्य आकरः श्रीः शोभा यस्याः सा । पुनः किम्-भूता ? ऋता सत्या मिता अल्पाक्षरा मधुरा माधुर्य-गुण-युक्ता प्रिया प्रीति-दायिनी च या अर्थ-रीतिः अर्थ-प्रचारः, तया प्रवलितं युक्तं यद् वर्णनम्, तस्य रीतौ नये लब्ध-वर्णा विचक्षणा भवति । लब्ध-वर्णो विचक्षणः इत्य् अमरः ॥२६॥

विश्वास-प्रस्तुतिः

सुमति-मति-गुरुः समस्त-विद्या-
सकल-कला-वलितातिनम्र-चित्ता ।
ह्रियम् अनु विनयं नयं समज्ञाम्
अपि दधती स्वजनादि-शर्म-दात्री ॥२७॥

मूलम्

सुमति-मति-गुरुः समस्त-विद्या-
सकल-कला-वलितातिनम्र-चित्ता ।
ह्रियम् अनु विनयं नयं समज्ञाम्
अपि दधती स्वजनादि-शर्म-दात्री ॥२७॥

सुमतीनां सुबुद्धीनां मतिः हिताहित-विवेकः, तस्या गुरुः उपदेष्ट्री । पुनः किम्-भूता ? समस्त-विद्या-सकल-कला-वलितातिनम्र-चित्ता—समस्ता समग्रा विद्या चतुर्दश-परिमिता, सकला अशेषा कला चतुःषष्टि-परिमिता नृत्य-गीतादि-रूपा, ताभ्यां आवलितं विभूषितं अति-नम्रं चित्तं यस्यां सा भवति । ह्रियं लज्जां अनु अनुगतं विनयं नयं नीतिं समज्ञां कीर्तिं, यशः कीर्तिः समज्ञा चेत्य् अमरः, दधती धारयन्ती सती स्वजनादीनां अन्तरङ्गादीनां, आदि-पदात् अनुगतानाम् अपि, शर्म सुखं, तस्य दात्री भवति ॥२७॥

विश्वास-प्रस्तुतिः

निखिलग-करुणादिकैर् गुणैस्
तं स्व-दयितम् एव तुलां सदापि धर्त्री ।
गुरु-निकर-दयास्पदातिभक्तिः
स्थिर-चर-हार्द-सुखामृताभिषिक्ता ॥२८॥

मूलम्

निखिलग-करुणादिकैर् गुणैस्
तं स्व-दयितम् एव तुलां सदापि धर्त्री ।
गुरु-निकर-दयास्पदातिभक्तिः
स्थिर-चर-हार्द-सुखामृताभिषिक्ता ॥२८॥

निखिलं समस्तं, निखिलं कृत्स्नं समस्तम्132 इत्य् अमरः, गच्छन्ति ये करुणादिका दया-दाक्षिण्यादि-रूपा गुणाः, तैः करणैः सदापि स्व-दयितं श्री-नन्द-नन्दनम् एव, न त्व् अन्यं, तुलां प्रतियोगिनं धर्त्री कुर्वन्ती भवति गुरु-निकरस्य पित्र्-आदि-वर्गस्य दयायाः स्नेहस्य आस्पदं भक्तिः यस्यां सा भवति । पुनः किम्-भूता ? स्थिर-चराणां स्थावर-जङ्गमानां हार्दं प्रीतिः, तस्मात् हेतोः यत् सुखम् एव अमृतं सुधा, तेन अभिषिक्ता ॥२८॥

विश्वास-प्रस्तुतिः

प्रिय-पद-नख-कान्ति-लेश-निर्मञ्-
छन-पर-चित्त-दशा-वशानुवेलम् ।
भ्रमरम् अपि तदीय-दूत-बुद्ध्या
प्रणयज-चित्र-गिरा विचित्रयन्ती ॥२९॥

मूलम्

प्रिय-पद-नख-कान्ति-लेश-निर्मञ्-
छन-पर-चित्त-दशा-वशानुवेलम् ।
भ्रमरम् अपि तदीय-दूत-बुद्ध्या
प्रणयज-चित्र-गिरा विचित्रयन्ती ॥२९॥

अनुवेलं निरन्तरं प्रिय-पद-नख-कान्ति-लेश-निर्मञ्छन-परचित्त-दशावशा प्रियस्य श्री-कृष्णस्य पदयोर् नखानां ये कान्ति-लेशाः कान्ति-कणाः, तेषां यत् निर्मञ्छनं मार्जनं, तस्मिन् परा नियुक्ता या चित्तस्य दशा अवस्था, तया वशा अधीनतां गता भवति । या तदीय-दूत-बुद्ध्या श्री-कृष्ण-प्रेरित-दूतोऽयं इति ज्ञात्वा भ्रमरम् अपि प्रणयज-चित्र-गिरा प्रणयजा या चित्रा रस-शालिनी वर्ण-सौष्ठव-शालिनी गीः, तया विचित्रयन्ती योग्यत्व-कारुणिकत्वादि-गुणारोपणेन विचित्रं विशिष्टं कुर्वन्ती भवति ॥२९॥

विश्वास-प्रस्तुतिः

मरुद् अपि चलति स्वभावतश् चेत्
क्वचिद् अनुकूलतया निजाभिसारे ।
नव-विधम् अपि तत्र भक्त-भावं
विनिदधती प्रिय-भक्त-चित्त-सक्ता ॥३०॥

मूलम्

मरुद् अपि चलति स्वभावतश् चेत्
क्वचिद् अनुकूलतया निजाभिसारे ।
नव-विधम् अपि तत्र भक्त-भावं
विनिदधती प्रिय-भक्त-चित्त-सक्ता ॥३०॥

क्वचित् निजाभिसारे प्रेष्ठ-सङ्गम-प्रयाणे चेत् मरुत् वायुः स्वभावतः निसर्गतः अनुकूलतया सुख-स्पर्शतया चलति मन्दं मन्दं वहति, तदा तत्र मरुति नवविधम् अपि भक्त-भावं,

श्रवनं कीर्तनं विष्णोः स्मरणं पाद-सेवनं । अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥ [भा।पु। ७.५.१८]

इति विनिदधती कुर्वन्ती भवति । तद्-हेतुम् आह—प्रियेति । यतः सा प्रिय-भक्त-चित्त-सक्ता प्रियस्य श्री-कृष्णस्य ये भक्ता सेवकाः, तेषां चित्तेषु सक्ता अभिनिविष्टा इति ॥३०॥

विश्वास-प्रस्तुतिः

बहिर्-अनुमिति-दूर-भाव-पूर-
स्व-चरित133चारुतया सदा वसन्ती ।
रचयति रहसि प्रिया-जने सा
स्व-दयितम् अन्व् अपि नर्म-केलि-शर्म ॥३१॥

मूलम्

बहिर्-अनुमिति-दूर-भाव-पूर-
स्व-चरित133चारुतया सदा वसन्ती ।
रचयति रहसि प्रिया-जने सा
स्व-दयितम् अन्व् अपि नर्म-केलि-शर्म ॥३१॥

[नवभिः]

सा राधा बहिर्-अनुमितिः बहिः-स्थित-जन-कर्तृका या अनुमितिः अनुभूति-विशेषः, तस्या दूर-भावस्य पूराणि साकल्येन व्यञ्जकानि स्व-चरितानि तेषां चारुतया सौन्दर्येण विशेषणे तृतीया सदा प्रिया-जने सखी-जने रहसि एकान्ते गुरु-जन-सञ्चार-रहिते स्व-दयितं स्व-कान्तं श्री-कृष्णं अन्व् अपि निरीक्ष्य, कटाक्षेण इति भावः, नर्म-केलि-शर्म कौतुक-भर-सरस-भाषित-सुखं रचयति ॥३१॥

विश्वास-प्रस्तुतिः

भ्रुकुटि-नयन-भङ्गि-सङ्गि134 कुत्राप्य्
अतिविनय-प्रथि चाटु कुत्रचिच् च ।
वशयति दयितं हरिं प्रिया सा
किम् इदम् इति प्रथनाय नाहम् ईशे ॥३२॥

मूलम्

भ्रुकुटि-नयन-भङ्गि-सङ्गि134 कुत्राप्य्
अतिविनय-प्रथि चाटु कुत्रचिच् च ।
वशयति दयितं हरिं प्रिया सा
किम् इदम् इति प्रथनाय नाहम् ईशे ॥३२॥

कुत्रापि तस्या भ्रूकुटि कुटिलयोर् नयनयोः सङ्गः विद्यते यस्याः, इति सा भङ्गिः । यत्र क्रियायां कुत्रचित् च अतिविनय-प्रथि अतिनम्रता-ख्यापकं चाटु प्रिय-वाक्यं, यत्र क्रियायां चाटुः, चटुः प्रिय-प्रायम् इति हेम-चन्द्रः । सा प्रिया राधा दयितं हरिं श्रि-कृष्णं किम् इदं केन प्रकारेण वशयति इति प्रथनाय ख्यापनाय अहं न ईशे न पारये ॥३२॥

विश्वास-प्रस्तुतिः

हरिर् अपि शुशुभे स याभिर् उच्चैर्
अनुगति-मादितया सुगान-धाम्नि ।
प्रणय-ऋणि-दशाम्135 अवाप यासां
प्रथतमा खलु तासु सैव सैव136 ॥३३॥

मूलम्

हरिर् अपि शुशुभे स याभिर् उच्चैर्
अनुगति-मादितया सुगान-धाम्नि ।
प्रणय-ऋणि-दशाम्135 अवाप यासां
प्रथतमा खलु तासु सैव सैव136 ॥३३॥

सुगान-धाम्नि रास-मण्डले अनुगति-मादितया, यावत्यो गोप्यः तावन्तः कृष्णाः, एवं-प्रकारेण या अनुगतिः गोपीनाम् अनुगमनं, तया माद्यति अनुगति-मादी, तस्य भावः अनुगति-मादिता, तयेत्य् अत्र विशेषणे तृतीया । हरिः श्री-कृष्णोऽपि याभिः गोपीभिः सह उच्चैः अत्यर्थं शुशुभे, यासां गोपीनां प्रणय-ऋणितां तासां प्रानस्यस्य अपरिमेयत्वात् अधमर्णत्वं अवाप । सर्वासां तासाम् ईदृक्-महत्त्वं, यथा—न पारयेऽयं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः [भा।पु। १०.३२.२१] इत्य्-आदि श्रीमद्-भागवत-श्लोके वर्णितं, तासु खलु सैव सैव, सैव प्रथतमा सर्वाग्रगण्या ॥३३॥

विश्वास-प्रस्तुतिः

शृणु गुणम् अपरं कृपा-विलासं
वृषरविजाम् अनु रास-केलि-नक्तम् ।
मुररिपुर् अमुकां निनाय दूरं
निज-नयनं बुबुधे मुदा तु नेयम् ॥३४॥

मूलम्

शृणु गुणम् अपरं कृपा-विलासं
वृषरविजाम् अनु रास-केलि-नक्तम् ।
मुररिपुर् अमुकां निनाय दूरं
निज-नयनं बुबुधे मुदा तु नेयम् ॥३४॥

रे मम मानस ! वृषरविजां श्री-राधाम् अनु अपरं कृपा-विलासं शृणु, यथा अन्याः परित्यज्य यया सह श्री-कृष्णस्य कृपया परमादरेण विलासं सुख-सम्भोगः । किं तत्? इत्य् आह—रास-केलि-नक्तम् इति । रास-केलि-नक्तं रास-क्रीडा-रात्रौ मधुरिपुः श्री-कृष्णः अमुकां श्री-राधां दूरं निनाय, तदा तु इयं मुदा हर्षातिरेकेण निज-नयनं निज-प्रापणम् अपि न बुबुधे ज्ञातवती ॥३४॥

विश्वास-प्रस्तुतिः

तद् अपि तद्-असहिष्णवः सपत्न्यः
किम् अपि जजल्पुर् अमूर् अमूं विनिन्द्य ।
इयम् अपि तु मुरारि-मेलनाय
स्वयम् उपपत्तिम् अदाद् अमूषु सुष्ठु ॥३५॥

मूलम्

तद् अपि तद्-असहिष्णवः सपत्न्यः
किम् अपि जजल्पुर् अमूर् अमूं विनिन्द्य ।
इयम् अपि तु मुरारि-मेलनाय
स्वयम् उपपत्तिम् अदाद् अमूषु सुष्ठु ॥३५॥

[युग्मकम्]

तथापि तद्-असहिष्णवः, मत्सरतां गताः सपत्न्यः चन्द्रावल्य्-आदयः अमूं श्री-राधां विनिन्द्य किम् अपि जजल्पुः कथितवत्यः, तस्या अमूनि नः क्षोभम्137 [भा।पु। १०.३०.३०] इति रास-पञ्चाध्याय-श्लोकेन चन्द्रावल्य्-आदीनां मत्सरता गम्यते । इयं श्री-राधा तु चन्द्रावल्य्-आदीषु मुरारि-मेलनाय पुनः श्री-कृष्ण-संयोगाय स्वयं अमूषु सुष्ठु उपपत्तिं गोपी-गीतं इति गान-प्रथाम्138 अदात् दत्तवती ॥३५॥

विश्वास-प्रस्तुतिः

गुण-कुलम् अपरं किम् अङ्ग वर्ण्यं
हरि-रति-वारिधि-भङ्ग-सङ्घ-रूपम् ।
अयि शृणु हृदय139 प्रगे च तस्याश्
चरितम् इदं मृदु तत्-प्रियस्य चाथ ॥३६॥

मूलम्

गुण-कुलम् अपरं किम् अङ्ग वर्ण्यं
हरि-रति-वारिधि-भङ्ग-सङ्घ-रूपम् ।
अयि शृणु हृदय139 प्रगे च तस्याश्
चरितम् इदं मृदु तत्-प्रियस्य चाथ ॥३६॥

अङ्ग भो मानस ! हरि-रति-वारिधि-भङ्ग-सङ्घ-रूपं—हरौ श्री-कृष्णे रतिः अनुरागः, सा एव वारिधिः समुद्रः, तस्य भङ्ग-सङ्घ-रूपं तरङ्ग-निकर-रूपं, भङ्गस् तरङ्ग उर्मिर् वा इत्य् अमरः । अपरं गुण-कुलं गुण-कदम्बकं मया किं वर्ण्यं? वर्णयितुं न शक्यम् इति भावः । तथापि अयि हृदय प्रगे प्रातः तस्याः श्री-राधायाह् मृदु मनोज्ञं तत्-प्रियस्य तस्याः श्री-राधायाः प्रियस्य श्री-कृष्णस्य च इदं वक्ष्यमानं चरितं शृणु ॥३६॥

विश्वास-प्रस्तुतिः

अनुमितम् अकरोद् यदाल्प-कल्पं
रजनि-विभावम्140 इयं तदा तु कान्तम् ।
अकुरुत भुज-पाश-बद्धम् अस्र-
स्नपित-निभं कुरुते स्म वर्ष्म चास्य ॥३७॥

मूलम्

अनुमितम् अकरोद् यदाल्प-कल्पं
रजनि-विभावम्140 इयं तदा तु कान्तम् ।
अकुरुत भुज-पाश-बद्धम् अस्र-
स्नपित-निभं कुरुते स्म वर्ष्म चास्य ॥३७॥

इयं श्रीमती राधा यदा रजनि-विभावं रात्रि-सञ्चारं अल्प-कल्पं अल्प-परिमितं अनुमितम् अकरोत् कृतवती, तदा तु कान्तं वल्लभं श्री-कृष्णं भुज-पाश-बद्धं “अहो सुख-निशा प्रभाता भविष्यति झटिति” इति विविच्य इति भावः । भुज-पाशाभ्यां हस्त-रज्जुभ्यां बद्धम् अकुरुत । “सुख-विरामो मा भूद् अवयोः” इत्य् आशयेन । अथ अस्य श्री-कृष्णस्य वर्ष्म शरीरं अस्र-स्नपितं अस्रैः अश्रुभिः स्नपितं कुरुते स्म ॥३७॥

विश्वास-प्रस्तुतिः

अथ बहु-विनयं दधन् मुरारिर्
नयन-पयांस्य् अपसारयन् अमुष्याः ।
स्व-नयन-सलिलेन सार्द्रम्141 अङ्गं
निजम् अकरोद् इदमीयम् अप्य् अभीक्ष्णम् ॥३८॥

मूलम्

अथ बहु-विनयं दधन् मुरारिर्
नयन-पयांस्य् अपसारयन् अमुष्याः ।
स्व-नयन-सलिलेन सार्द्रम्141 अङ्गं
निजम् अकरोद् इदमीयम् अप्य् अभीक्ष्णम् ॥३८॥

अथ अनन्तरं मुरारिः श्री-कृष्णः बहु विनयं दधत् कुर्वन् अमुष्याः नयन-पयांसि नेत्र-नीराणि अपसारयन् दूरीकुर्वन् स्व-नयन-सलिलेन निज-नयन-जलेन निजं स्वकीयं अङ्गं इदमीयं अपि श्री-राधिकाया अपि अङ्गं अभीक्ष्णं वारं वारं सार्द्रं सिक्तम् अकरोत् कृतवान् इति ॥३८॥

विश्वास-प्रस्तुतिः

तद्-अनु च ललिता-विशाखिके द्वे
समवयसाव् अनयोर् उपेत्य पार्श्वम् ।
अहिमकर-हिमर्तु-रश्मि-तुल्यात्
खर-वचनात् पटु लुम्पतः स्म जाड्यम् ॥३९॥

मूलम्

तद्-अनु च ललिता-विशाखिके द्वे
समवयसाव् अनयोर् उपेत्य पार्श्वम् ।
अहिमकर-हिमर्तु-रश्मि-तुल्यात्
खर-वचनात् पटु लुम्पतः स्म जाड्यम् ॥३९॥

तद्-अनु तद्-अनन्तरं ललिता-विशाखिके द्वे समवयसौ सख्यौ अनयोः पार्श्वं उपेत्य गत्वा अहिमकर-हिमर्तु-रश्मि-तुल्यात् हिम-र्तौ सूर्य-किरणवत् खर-वचनात् मर्म-स्पर्शि-वाक्यात् अनयोः जाड्यं जडतां पटु सुष्ठु लुम्पतः स्म अपसारितं कृतवत्यौ इति ॥३९॥

विश्वास-प्रस्तुतिः

ह्रियम् इयम् अबला तदा तु याता
दयित-तनोर् उपगूहनं विसृज्य ।
स्वपनम् इव गता क्षणं निरीहा
पुनर् इव जागरणं भयाद् ददम्भ ॥४०॥

मूलम्

ह्रियम् इयम् अबला तदा तु याता
दयित-तनोर् उपगूहनं विसृज्य ।
स्वपनम् इव गता क्षणं निरीहा
पुनर् इव जागरणं भयाद् ददम्भ ॥४०॥

इयं अबला श्री-राधिका तदा तस्मिन् काले ह्रियं लज्जां याता गता सती, दयित-तनोः श्री-कृष्ण-शरीरस्य उपगूहनं आलिङ्गनं विसृज्य निरीहा निश्चेष्टा सती, क्षण-कालं स्वपनं निद्रां गता इव पुनः जागरणम् इव भयात् ददम्भ छलाद् अभिनीतवती इति ॥४०॥

विश्वास-प्रस्तुतिः

अहर् उदित-निभं पराश् च याता
हरि-दयिता हरि-मातरं भवेयुः ।
इति तद्-उदित-सम्भ्रमाद् अयासीद्
अहर्-उदयानुग-कर्म-धर्म-धाम ॥४१॥

मूलम्

अहर् उदित-निभं पराश् च याता
हरि-दयिता हरि-मातरं भवेयुः ।
इति तद्-उदित-सम्भ्रमाद् अयासीद्
अहर्-उदयानुग-कर्म-धर्म-धाम ॥४१॥

अहः उदित-निभं उदित-प्रायः दृष्ट्वा अन्याश् च हरि-दयिताः कृष्ण-कान्ता हरि-मातरं यशोदां याता भवेयुः, अर्थात् यशोदा-समीपं गता इत्य् एवं-प्रकारेण तद्-उदित-सम्भ्रमात् सखी-वचन-जनित-सम्भ्रमात् अहर्-उदयानुग-कर्म-धर्म-धाम सूर्योदयोचित-कर्म साधन-गृहं, अर्थात् स्नानागारं, अयासीत् गतवती इति ॥४१॥

विश्वास-प्रस्तुतिः

रजनि-विलसित-प्रसङ्गि-वासः
कुलम् अजहात् तद् इयं यद् एव हृद्यम् ।
अपरम् अकुरुताङ्ग-सङ्गि यत्
घनयितुम्142 इष्टम् अहो बली तु दिष्टः ॥४२॥

मूलम्

रजनि-विलसित-प्रसङ्गि-वासः
कुलम् अजहात् तद् इयं यद् एव हृद्यम् ।
अपरम् अकुरुताङ्ग-सङ्गि यत्
घनयितुम्142 इष्टम् अहो बली तु दिष्टः ॥४२॥

इयं श्री-राधिका तद् रजनि-विलसित-प्रसङ्गि-वासः कुलं रात्रि-विलास-संसर्ग-वस्त्र-समूहं अजहात् त्यक्तवती, यद् वस्त्र-कुलं हृद्यं हृदय-रोचकं भवति । अपरं यद् वस्त्रं अङ्ग-सङ्गि अकुरुत तत् हृष्टं घनयितुं, सम्पादयितुम् इति भावः, दिष्टः । कालः अहो बली बलवान् भवति ! ॥४२॥

विश्वास-प्रस्तुतिः

पद-कर-वदनं मुहुः पुनाना
यद् इह जलं विससर्ज शुभ्र-पात्रे ।
भुवम् अपि तद् इदं भुवः-स्वर्-आदीन्य्
अपि भुवनानि सदा पुनद् विभाति ॥४३॥

मूलम्

पद-कर-वदनं मुहुः पुनाना
यद् इह जलं विससर्ज शुभ्र-पात्रे ।
भुवम् अपि तद् इदं भुवः-स्वर्-आदीन्य्
अपि भुवनानि सदा पुनद् विभाति ॥४३॥

सा श्री-राधिका मुहुः वारं वारं पद-कर-वदनं चरण-हस्त-मुखं इत्य् अर्थः, वारं प्राण्य्-अङ्गत्वात् समाहारः, पुनाना पवित्रं विदधती शुभ्र-पात्रे रजत-पात्रे यत् जलं विससर्ज, तज् जलं भूर्-भुवः-स्वर्-आदीनि भूवनानि सर्वदा पुनत् पवित्रानि कुर्वद् विभाति ॥४३॥

विश्वास-प्रस्तुतिः

अकुरुत न परं बहिः-स्निहं सा
हरि-दयिता मुहुर् अन्तर-स्निहं च ।
हरि-वपुर्-उपयुक्त-तैल-शेषं
विनिदधती खलु या तुलां सिषेवे ॥४४॥

मूलम्

अकुरुत न परं बहिः-स्निहं सा
हरि-दयिता मुहुर् अन्तर-स्निहं च ।
हरि-वपुर्-उपयुक्त-तैल-शेषं
विनिदधती खलु या तुलां सिषेवे ॥४४॥

सा हरि-दयिता बहिः-स्निहं बाह्य-स्नेहं परं अत्यर्थं स्नेहं न अकुरुत, तथा मुहुः वारं वारं अन्तर-स्निहं च न अकुरुत, या श्री-राधिका हरि-वपुषः श्री-कृष्ण-शरीरस्य उपयुक्त-तैल-शेषं उपयुक्तं परिमितं यत् तैलं, तस्य शेषां अवशिष्टं विनिदधती सज्जयन्ती तुलां कृष्ण-सादृश्यं सिषेवे प्राप्तवतीति ॥४४॥

विश्वास-प्रस्तुतिः

सुरभिभिर् अथ मर्दनानि कृत्वा-
स्नपयद् अमूम् उदकेन तादृशेन ।
सहज-सुरभिता ततस् तद्-अङ्गाद्
उदयम् इता विजिता दिशश् चकार ॥४५॥

मूलम्

सुरभिभिर् अथ मर्दनानि कृत्वा-
स्नपयद् अमूम् उदकेन तादृशेन ।
सहज-सुरभिता ततस् तद्-अङ्गाद्
उदयम् इता विजिता दिशश् चकार ॥४५॥

[युग्मकम्]

अथ सुरभिभिः चन्दनादिभिः मर्दनानि कृत्वा अमूं श्रि-राधिकां तादृशेन सौरभ-युक्त-जलेन अस्नपयत् । ततः तद्-अनन्तरं सहज-सुरभिता स्वाभाविकी सुरभिता तद्-अङ्गात् उदयम् इता उन्नतिं गता दिशो विजिताः चकार ॥४५॥

विश्वास-प्रस्तुतिः

तनुम् अनु ववसे वरांशुकं सा
तद् अपि तनुश् छविम् उज्जगार तस्याः ।
घन-तति-पिहितेऽपि सूर्य-बिम्बे
दिशि दिशि राजति तस्य रश्मि-सङ्घः ॥४६॥

मूलम्

तनुम् अनु ववसे वरांशुकं सा
तद् अपि तनुश् छविम् उज्जगार तस्याः ।
घन-तति-पिहितेऽपि सूर्य-बिम्बे
दिशि दिशि राजति तस्य रश्मि-सङ्घः ॥४६॥

सा श्री-राधिका तनुम् अनु शरीरम् अनु वरांशुकं उत्कृष्ट-चेलं ववसे आच्छादितवती, तद् अपि तथापि तस्याः श्री-राधिकायाः तनुः शरीरं छविं कान्तिं उज्जगार । सूर्य-बिम्बे सूर्य-मण्डले घन-तति-पिहिते सति मेघ-पङ्क्त्य्-आच्छादिते सति दिशि दिशि तस्य रश्मि-सङ्घः राजति ॥४६॥

विश्वास-प्रस्तुतिः

अथवा,
हरि-रतिर् अतिगुप्यते तया सा
तद् अपि च तच्-छविर् ईक्ष्यते बहिश् च ।
विविध-मणि-विभूषणं वराक्ष्याः
सुखयति ताः स्व-सखीर् इतीदम् इत्थम् ।
इह च हरि-गुण-स्मृति-प्रदीप्तं
पुलक-मुखं सुख-भूषणं किम् ईडे ॥४७॥143

मूलम्

अथवा,
हरि-रतिर् अतिगुप्यते तया सा
तद् अपि च तच्-छविर् ईक्ष्यते बहिश् च ।
विविध-मणि-विभूषणं वराक्ष्याः
सुखयति ताः स्व-सखीर् इतीदम् इत्थम् ।
इह च हरि-गुण-स्मृति-प्रदीप्तं
पुलक-मुखं सुख-भूषणं किम् ईडे ॥४७॥143

तया श्री-राधिकया सा हरि-रतिः कृष्णानुरागः अतिगुप्यते, तद् अपि तथापि तच्-छविः कृष्ण-कान्तिः बहिर् ईक्ष्यते । वराक्ष्याः प्रशस्त-नेत्रायाः इदं विविध-मणि-विभूषणं नाना-मणि-निर्मितालङ्कारः ताः स्व-सखीः ललितादीः इथं एवं-प्रकारेण सुखयति सा ॥४७॥

विश्वास-प्रस्तुतिः

व्रज-नृप-मिथुनस्य चाङ्घ्रि-तीर्थं
व्रज-नृपतेस् तनयस्य च प्रपीय ।
जप-विधि-विहित-द्वि-वर्ण-मन्त्रा
हरि-जननीम् अवलोकितुं प्रतस्थे ॥४८॥

मूलम्

व्रज-नृप-मिथुनस्य चाङ्घ्रि-तीर्थं
व्रज-नृपतेस् तनयस्य च प्रपीय ।
जप-विधि-विहित-द्वि-वर्ण-मन्त्रा
हरि-जननीम् अवलोकितुं प्रतस्थे ॥४८॥

व्रज-नृप-मिथुनस्य नन्द-यशोदयोः अङ्घ्रि-तीर्थं पादोदकं व्रज-नृपतेस् तनयस्य श्री-कृष्णस्य च अङ्ग्रि-तीर्थं प्रपीय जप-विधि-विहित-द्वि-वर्ण-मन्त्रा अर्थात् “कृष्ण कृष्ण” इति द्वि-वर्णात्मक-मन्त्र-जपं कृत्वा, हरि-जननीं यशोदां अवलोकितुं द्रष्टुं प्रतस्थे प्रस्थितवती इति ॥४८॥

विश्वास-प्रस्तुतिः

अथ हरि-जननीं प्रति प्रयाताप्य्
अभिमुखम् एति न सा सखी-वृतापि ।
अपि तु कुटिल-वर्त्मनानुगम्य
प्रणमति तत्-पदयोर् निधाय भालम् ॥४९॥

मूलम्

अथ हरि-जननीं प्रति प्रयाताप्य्
अभिमुखम् एति न सा सखी-वृतापि ।
अपि तु कुटिल-वर्त्मनानुगम्य
प्रणमति तत्-पदयोर् निधाय भालम् ॥४९॥

अथ अन्तन्तरं सा श्री-राधिका हरि-जननीं यशोदां प्रति प्रयाता प्रस्थिता अपि सखी-वृता सखिभिः परिवेष्टितापि अभिमुखं न एति । अपि तु कुटिल-वर्त्मना वक्र-मार्गेन अनुगम्य गत्वा तत्-पदयोः श्री-यशोदयोः भालं ललाटं निधाय प्रणमति ॥४९॥

विश्वास-प्रस्तुतिः

अथ हरि-जननी स्वयं कराभ्यां
शिरसि समुन्नमिते स-यत्नम् अस्याः ।
परिमलम् उपलभ्य सास्रम् एनां
पिहित-तनुं परिरभ्य नन्दति स्म ॥५०॥

मूलम्

अथ हरि-जननी स्वयं कराभ्यां
शिरसि समुन्नमिते स-यत्नम् अस्याः ।
परिमलम् उपलभ्य सास्रम् एनां
पिहित-तनुं परिरभ्य नन्दति स्म ॥५०॥

अथ अनन्तरं हरि-जननी यशोदा स-यत्नं साग्रहं कराभ्यां हस्ताभ्यां अस्याः श्री-राधिकायाः शिरसि मस्तके उन्नमिते उत्तोलिते परिमलं उपलभ्य अर्थात् आघ्राय सास्रं स-जलं यथा स्यात् तथा पिहित-तनुं आच्छादित-तनुं परिरभ्य आलिङ्ग्य नन्दति स्म ॥५०॥

विश्वास-प्रस्तुतिः

तद्-अनु तद्-उपदेशतः समस्तां
गुरु-वनिताम् अवनम्य रम्य-चित्ता ।
पृथग् उपविशती समस्त-दृष्टीर्
अहरत चन्द्र-मुखी चकोर-तुल्याः ॥५१॥

मूलम्

तद्-अनु तद्-उपदेशतः समस्तां
गुरु-वनिताम् अवनम्य रम्य-चित्ता ।
पृथग् उपविशती समस्त-दृष्टीर्
अहरत चन्द्र-मुखी चकोर-तुल्याः ॥५१॥

तद्-अनु पश्चात् तद्-उपदेशतः श्री-यशोदाज्ञ-वशतः समस्तां समग्रां गुरु-वनितां गुर्व्-अङ्गनां सा रम्य-चित्ता चन्द्र-मुखी चन्द्रानना अवनम्य प्रणम्य पृथक् उपविशती आसीना सती चकोर-तुल्याः समस्त-दृष्टीः सकल-जन-नयनानि अहरत हृतवती ॥५१॥

विश्वास-प्रस्तुतिः

यद् अपि मुहुर् इयं सदानुभूता
तदपि तदा मिलती प्रतिस्वम् आर्द्रम् ।
रजनि-विरहिता चकार वर्षाजनिर्
इव घर्म-कनीयसी समस्तम् ॥५२॥

मूलम्

यद् अपि मुहुर् इयं सदानुभूता
तदपि तदा मिलती प्रतिस्वम् आर्द्रम् ।
रजनि-विरहिता चकार वर्षाजनिर्
इव घर्म-कनीयसी समस्तम् ॥५२॥

यद् अपि यद्यपि इयं श्री-राधा सर्वदा अनुभूता, तद् अपि तथापि रजनि-विरहिता सती तदा मिलती प्रतिस्वं आर्द्रं चकार, यथा घर्म-कणीयसी ग्रीष्मार्ता वर्षाजनिः मण्डुक्यादिः वर्षागमे समस्तं आर्द्रं करोति ॥५२॥

विश्वास-प्रस्तुतिः

इति सति चरिते हरि-प्रियाया
हरि-चरित्रं शृणु चित्त वर्णयामि ।
गृह-गत-विभवे सुवर्णिते स्याद्
गृहपति-वर्णनम् आशु सौख्य-दायि ॥५३॥

मूलम्

इति सति चरिते हरि-प्रियाया
हरि-चरित्रं शृणु चित्त वर्णयामि ।
गृह-गत-विभवे सुवर्णिते स्याद्
गृहपति-वर्णनम् आशु सौख्य-दायि ॥५३॥

हरि-प्रियायाः श्री-राधायाः चरिते इति सति हरि-चरित्रं श्री-कृष्ण-चरितं वर्णयामि । हे चित्त! शृणु, गृह-गत-विभवे गृह-निष्ठैश्वर्ये सुवर्णिते सुकथिते गृह-पति-वर्णनं गृह-स्वामि-वर्णनं सौख्य-दायि सुख-समूह-प्रदायकम् आशु झटिति स्यात् ॥५३॥

विश्वास-प्रस्तुतिः

हरि-दयिततमा यदाशु तल्पाद्
दिन-मुख-कृत्य-कृते कृतेऽयासीत् ।
हरिर् अपि स तदा तद्-अर्थम् आत्म-
प्रिय-सख-दास-गणेन सेव्यते स्म ॥५४॥

मूलम्

हरि-दयिततमा यदाशु तल्पाद्
दिन-मुख-कृत्य-कृते कृतेऽयासीत् ।
हरिर् अपि स तदा तद्-अर्थम् आत्म-
प्रिय-सख-दास-गणेन सेव्यते स्म ॥५४॥

यदा यस्मिन् काले हरि-दयिततमा श्री-कृष्ण-प्रियतमा श्री-राधा दिन-मुख-कृत्य-कृते तल्पात् शयनात् प्रातः-कृत्य-करणाय आशु अयासीत् गतवती, तदा तस्मिन् काले हरिर् अपि श्री-कृष्णोऽपि तद्-अर्थं प्रातः-कृत्य-समापनार्थं आत्म-प्रिय-सख-दास-गणेन निज-प्रिय-मित्र-सेवक-समूहेन सेव्यते स्म ॥५४॥

विश्वास-प्रस्तुतिः

स रजनि-वसनं ससर्ज तच् च
स्फुटम् इव सूचयति स्म गूढ-वृत्तम् ।
इह च तद् इदम् अन्तरङ्गम् इत्थं
पिशुनम् इतीव तदा स्मितं सुहृद्भिः ॥५५॥

मूलम्

स रजनि-वसनं ससर्ज तच् च
स्फुटम् इव सूचयति स्म गूढ-वृत्तम् ।
इह च तद् इदम् अन्तरङ्गम् इत्थं
पिशुनम् इतीव तदा स्मितं सुहृद्भिः ॥५५॥

स श्री-कृष्णः रजनि-वसनं रात्रि-वस्त्रं ससर्ज तत्याज । तच् च रजनि-वसनं गूढ-वृत्तं गुप्त-व्यवहारं रति-चिह्नम् इति भावः स्पष्टम् इव सूचयति स्म । इह अस्मिन् विषये तद् इदं रजनि-वसनं इत्थं अन्तरङ्गं सत् पिशुनं सूचकं बभूव इतीव हेतोः सुहृद्भिः तदा तस्मिन् काले स्मितं ईषत् हसितं ॥५५॥

विश्वास-प्रस्तुतिः

मुख-कर-चरणं हरेः सुधौतं
कमल-वनानि जिगाय तच् च पश्य ।
व्रजम् अनु कमलालयापि यस्य
श्रयति रजः पदयोर् यथात्र वन्दी ॥५६॥

मूलम्

मुख-कर-चरणं हरेः सुधौतं
कमल-वनानि जिगाय तच् च पश्य ।
व्रजम् अनु कमलालयापि यस्य
श्रयति रजः पदयोर् यथात्र वन्दी ॥५६॥

हरेः श्री-कृष्णस्य सुधौतं सुपरिस्कृतं मुख-कर-चरणं कमल-वनानि जिगाय जितवत् तच् च पश्य, व्रजे कमलालया लक्ष्मीर् अपि यस्य श्री-कृष्णस्य पदयोः रजः तथा श्रयति यथा अत्र व्रजे वन्दी स्तव-पाठ-कारकः ॥५६॥

विश्वास-प्रस्तुतिः

बहु-विधम् अपि तैलम् इष्ट-गन्धं
धृतम् अभितः स विदग्धता-निदिग्धः ।
सुरभितम् इह राधया तु देव्या
स्वयम् उररीकुरुते स्म कृष्ण-चन्द्रः ॥५७॥

मूलम्

बहु-विधम् अपि तैलम् इष्ट-गन्धं
धृतम् अभितः स विदग्धता-निदिग्धः ।
सुरभितम् इह राधया तु देव्या
स्वयम् उररीकुरुते स्म कृष्ण-चन्द्रः ॥५७॥

बहु-विधं बहु-प्रकारं इष्ट-गन्धं मनोहर-गन्ध-तैलं अभितः समस्तात् धृतं रक्षितं तु किन्तु राधया देव्या सुरभितं सुवासितं तैलं विदग्धता-निदिग्धः रसिकता-युक्तं स कृष्ण-चन्द्रः स्वयं उररी-कुरुते स्म स्वीचकार ॥५७॥

विश्वास-प्रस्तुतिः

तद् अघजिति सुतैलम् आददाने
समजनि पूषितता न तत् तु चित्रम् ।
प्रथमम् अपि स तन् मुदाभिजिघ्रन्न्
अगमद् अमूदृशतां तद् एव चित्रम् ॥५८॥

मूलम्

तद् अघजिति सुतैलम् आददाने
समजनि पूषितता न तत् तु चित्रम् ।
प्रथमम् अपि स तन् मुदाभिजिघ्रन्न्
अगमद् अमूदृशतां तद् एव चित्रम् ॥५८॥

अघजिति श्री-कृष्णे तत् सुतैलं सुगन्धि-तैलं आददाने मर्दयति सति पूषितता पुष्टता समजनि जाता, तत् तु चित्रं आश्चर्यं न, यतः स मुदा हर्षेण प्रथमम् अपि अभिजिघ्रन् अमूदृशतां पुष्टतां अगमत्, तद् एव आश्चर्यम् इति ॥५८॥

स शुचि-सुरभिणा जलेन सिक्तं
स्व-वपुर् अकारयद् ईदृशं विधातुम् ।
अहह शृणु मनस् तद् एव तत् तद्
गुण-महसा समभूद् अतीव-सान्द्रम् ॥५९॥

स श्री-कृष्णः स्व-वपुः निज-शरीरं सुरभिना सुगन्धिना जलेन ईदृशं सौरभ-युक्तं विधातुं कर्तुं सिक्तं अकारयत् । अहह आश्चर्यं ! मनः ! तद् एव शृणु गुण-महसा गुण-सम्भारेण तद् वपुः अतीव सान्द्रं निविडं समभूत् इति ॥५९॥

विश्वास-प्रस्तुतिः

हरि-तनुम् अनु मार्जनं विधित्सन्
मृदुर् इयम् इत्य् अधिगत्य कम्पते स्म ।
जल-गुरु-वसनं विसर्जयंस् तद्
द्वयम् अपरं स दधत्144 प्रफुल्लति स्म ॥६०॥

मूलम्

हरि-तनुम् अनु मार्जनं विधित्सन्
मृदुर् इयम् इत्य् अधिगत्य कम्पते स्म ।
जल-गुरु-वसनं विसर्जयंस् तद्
द्वयम् अपरं स दधत्144 प्रफुल्लति स्म ॥६०॥

हरि-तनुम् अनु श्री-कृष्ण-शरीरे मार्जनं मर्दनं विधित्सन् सेवकः “इयं तनुः वपुः मृदुः” इति अधिगत्य ज्ञात्वा कम्पते स्म । जल-गुरु-वसनं जल-सिक्त-वस्त्र-द्वयं विसर्जयन् परित्यज्य अपरं द्वयं दधत् धारयन् प्रफुल्लति स्म ॥६०॥

विश्वास-प्रस्तुतिः

कनक-निभ-पट-द्वयं पटीयान्
परिदधद् अम्बुद-रोचिर् उप्त-केशः ।
स-तिलक-लघु-भूषणः स्व-कान्त्या
त्रिजगति कान्तिदया सखीन् दिधिन्व ॥६१॥

मूलम्

कनक-निभ-पट-द्वयं पटीयान्
परिदधद् अम्बुद-रोचिर् उप्त-केशः ।
स-तिलक-लघु-भूषणः स्व-कान्त्या
त्रिजगति कान्तिदया सखीन् दिधिन्व ॥६१॥

पटीयान् कुशलः अम्बुद-रोचिः मेघ-श्यामः श्री-कृष्णः कनक-निभ-पट-द्वयं सुवर्ण-वर्ण-वस्त्र-युगलं परिदधत् धारयन् उप्त-केशः बद्ध-चूडः स-तिलक-लघु-भूषणः तिलकेन सहितं लघु मनोरमं भूषणं यस्य तथा-भूतश् च सन् त्रिजगति कान्तिदया शोभा-दायिन्या स्व-कान्त्या सखीन् दिधिन्व प्रीणयामास ॥६१॥

विश्वास-प्रस्तुतिः

हरिर् अथ कनकासने निविश्य
व्यरचयद् आचमनं यथा निदिष्टम् ।
परिदधद् उपवीतम् अन्यद् आसीज्
जपम् अनु सन्दधद् अप्य् अदीपि तत्र ॥६२॥

मूलम्

हरिर् अथ कनकासने निविश्य
व्यरचयद् आचमनं यथा निदिष्टम् ।
परिदधद् उपवीतम् अन्यद् आसीज्
जपम् अनु सन्दधद् अप्य् अदीपि तत्र ॥६२॥

अथ हरिः श्री-कृष्णः कनकासने निविश्य यथा-निदिष्टं यथा-विधि आचमनं व्यरचयत् कृतवान् । अन्यद् उपवीतं नवीनं यज्ञ-सूत्रं परिदधत् । जपम् अनु जपं कृत्वा तत्र आह्निकालये अदीपि दीप्तवान् इति ॥६२॥

विश्वास-प्रस्तुतिः

यदु-पुरम् अनु यत् प्रधान-भावं
हरिर् अकरोज् जनकेऽपि विद्यमाने ।
तद्-उचितम् उचितं तु नात्र यस्मात्
पितृ-सुतता-गत-तारतम्यम् अस्ति ॥६३॥

मूलम्

यदु-पुरम् अनु यत् प्रधान-भावं
हरिर् अकरोज् जनकेऽपि विद्यमाने ।
तद्-उचितम् उचितं तु नात्र यस्मात्
पितृ-सुतता-गत-तारतम्यम् अस्ति ॥६३॥

यदु-पुरम् अनु द्वारकायां हरिः श्री-कृष्णः जनके वसुदेवे यत् यादृक् प्रधान-भावं सन्ध्या-वन्दनादि अकरोत् । तत् तादृक् उचितं कर्तव्यं सन्ध्या-वन्दनादि अत्र व्रजे न उचितं भवति इति शेषः, यस्मात् पितृ-सुतता-गत-तारतम्यं यदु-पुर-व्रजयोः पितृ-पुत्रता-निष्ठ-पार्थक्यम् अस्ति ॥६३॥

विश्वास-प्रस्तुतिः

व्रज-पति-मिथुनं145 सदापि बाल्यं
हरिम् अनुचिन्तयद् एवम् आह नित्यम् ।
वयम् इह146 सुकृतानि यानि कुर्मः
प्रतिनिधयस् तव तत्र न स्वतन्त्राः ॥६४॥

मूलम्

व्रज-पति-मिथुनं145 सदापि बाल्यं
हरिम् अनुचिन्तयद् एवम् आह नित्यम् ।
वयम् इह146 सुकृतानि यानि कुर्मः
प्रतिनिधयस् तव तत्र न स्वतन्त्राः ॥६४॥

व्रज-पति-मिथुनं नन्द-यशोदे सर्वदा हरिम् अनु श्री-कृष्णे बाल्यं चिन्तयत् नित्यं प्रतिदिनं एवम् आह—“वयम् अपि यानि सुकृतानि शुभानि कुर्मः, तत्र शुभानुष्ठाने वयं तव प्रतिनिधय एव, न स्वतन्त्राः स्वाधीनाः” इति ॥६४॥

विश्वास-प्रस्तुतिः

इति हरिर् इह नातिधर्म-कर्माण्य्
उषसि करोति पितुः प्रमोदकारी ।
अपि तु तद्-अनुमोदनानुकूलां
भविक-कृतिं विदधाति मातुर् अग्रे ॥६५॥

मूलम्

इति हरिर् इह नातिधर्म-कर्माण्य्
उषसि करोति पितुः प्रमोदकारी ।
अपि तु तद्-अनुमोदनानुकूलां
भविक-कृतिं विदधाति मातुर् अग्रे ॥६५॥

इति हेतोः इह व्रजे हरिः श्री-कृष्णः पितुः नन्दस्य प्रमोद-कारी हर्षदायी सन् उषसि प्रभाते अतिधर्म-कारी अतिरिक्त-धर्मानुष्ठयी न भवति, अपि तु मातुः यशोदाया अग्रे तद्-अनुमोदनानुकूलां पित्र्-अभिप्रायानुयायिनीं भविक-कृतिं धर्माचरणं विदधाति ॥६५॥

विश्वास-प्रस्तुतिः

हरिर् अथ चलति स्म मातृ-पार्श्वं
सह सखिभिर् ध्वनयन् भूषणानि ।
स तद् अवकलयन् वधू-निकायः
सपदि ससार रहस्य-पाक-धाम ॥६६॥

मूलम्

हरिर् अथ चलति स्म मातृ-पार्श्वं
सह सखिभिर् ध्वनयन् भूषणानि ।
स तद् अवकलयन् वधू-निकायः
सपदि ससार रहस्य-पाक-धाम ॥६६॥

हरिः श्री-कृष्णः भूषणानि अलङ्कारान् ध्वनयन् सखिभिः सह मातृ-पार्श्वं चलति स्म। स वधू-निकायः वधू-समूहः रहस्य-पाक-धाम गुप्त-रन्धालयं सपदि झटिति ससार जगाम ॥६६॥

विश्वास-प्रस्तुतिः

अथ हरि-जननी हरिं निरीक्ष्य
व्रज-महिलाभिर् इयाय तस्य पार्श्वम् ।
सुतम् अनुगमनं व्यलोकि धेनोः
समम् अनया नतरां गवां परासाम् ॥६७॥

मूलम्

अथ हरि-जननी हरिं निरीक्ष्य
व्रज-महिलाभिर् इयाय तस्य पार्श्वम् ।
सुतम् अनुगमनं व्यलोकि धेनोः
समम् अनया नतरां गवां परासाम् ॥६७॥

अथ हरि-जननी यशोदा हरिं निरीक्ष्य दृष्ट्वा व्रज-महिलाभिः व्रजाङ्गनाभिः सह तस्य श्री-कृष्णस्य पार्श्वं इयाय गतवती । धेनोः सुतम् अनु गमनं व्यलोकि परासां अन्यासां गवां अनया यशोदया समं नतराम् इति ॥६७॥

विश्वास-प्रस्तुतिः

पदम् अनु पतनं भवेन् न तस्याः
सविध-जुषा हरिणा द्रुतं मिलन्त्याः ।
इति हरिर् अवनम्य दूर-देशाच्
चिरम् इव तद्वद् अतिष्ठद् इष्ट-भक्तिः147 ॥६८॥

मूलम्

पदम् अनु पतनं भवेन् न तस्याः
सविध-जुषा हरिणा द्रुतं मिलन्त्याः ।
इति हरिर् अवनम्य दूर-देशाच्
चिरम् इव तद्वद् अतिष्ठद् इष्ट-भक्तिः147 ॥६८॥

सविध-जुषा समीप-वर्तिना हरिणा श्री-कृष्णेन सह द्रुतं मिलन्त्यास् तस्याः यशोदायाः पदम् अनु पतनं पद-विक्षेपः न भवेत् । इति हेतोः हरिः श्री-कृष्णः दूर-देशाद् अवनम्य इष्ट-भक्तिः इष्टायां यशोदायां भक्तिर् यस्य तथा-भूतः सन् तद्वत् प्रणतावस्थायां अतिष्ठत् स्थितवान् ॥६८॥

विश्वास-प्रस्तुतिः

द्रुतम् अथ जननी तम् एत्य पुत्रं
द्रुतम् उदनीनयद्148 आग्रहं दधाना ।
तद्-अनु च सुचिरं प्रसज्य मूर्ध्नि
स्रवद्-उदकाक्षि-युगं तम् आलुलोके ॥६९॥

मूलम्

द्रुतम् अथ जननी तम् एत्य पुत्रं
द्रुतम् उदनीनयद्148 आग्रहं दधाना ।
तद्-अनु च सुचिरं प्रसज्य मूर्ध्नि
स्रवद्-उदकाक्षि-युगं तम् आलुलोके ॥६९॥

अथ अनन्तरं जननी तं पुत्रं श्री-कृष्णं एत्य आग्रहं दधाना उदनीनयत् उत्थापयामास । तद्-अनु तद्-अनन्तरं मूर्ध्नि सुचिरं प्रसज्य आघ्राय स्रवद्-उदकाक्षि-युगं सजल-नयन-युगं तं श्री-कृष्णम् आलुलोके दृष्टवतीति ॥६९॥

विश्वास-प्रस्तुतिः

हरिर् अवकलयन् स-रोहिणीका
व्रज-महिला जननी-समान-भावाः ।
तद्-अनुगुणक-भक्ति-भाग् अमूषां
नमन-कृद् अस्र-जलेन सिच्यते स्म ॥७०॥

मूलम्

हरिर् अवकलयन् स-रोहिणीका
व्रज-महिला जननी-समान-भावाः ।
तद्-अनुगुणक-भक्ति-भाग् अमूषां
नमन-कृद् अस्र-जलेन सिच्यते स्म ॥७०॥

हरिः श्री-कृष्णः सरोहिणीकाः रोहिणी-सहिता जननी-समान-भावाः यशोदा-तुल्य-भाव-धारिणीर् व्रज-महिलाः व्रजाङ्गनाः अवकलयन् दृष्ट्वा, तद्-अनुगुणक-भक्ति-भाक् तद्-उचित-भक्ति-युक्तः अमूषां व्रजाङ्गनानां नमन-कृत्, अर्थात् प्रणनाम । अस्र-जलेन तासां नयन-जलेन सिच्यते स्म सिक्तोऽभूद् इति ॥७०॥

विश्वास-प्रस्तुतिः

अथ बल-वलिताः परे सखायः
सह-मधुमङ्गलकाः समागतास् ते ।
यद् अजितम् अभजंस् तद् अह्नि चित्रं
विधुम् अनुषज्य शुभ-ग्रहा विरेजुः ॥७१॥

मूलम्

अथ बल-वलिताः परे सखायः
सह-मधुमङ्गलकाः समागतास् ते ।
यद् अजितम् अभजंस् तद् अह्नि चित्रं
विधुम् अनुषज्य शुभ-ग्रहा विरेजुः ॥७१॥

अथ अनन्तरं बल-वलिता बलदेव-विराजिता सह-मधुमङ्गलका मधुमङ्गल-सुशोभिता ते सखायः सुहृदः [समागताः] यद् अजितं श्री-कृष्णं अभजन् तद् अह्नि दिन-माने चित्रं आश्चर्यं विधुं चन्द्रं अनुषज्य परिवेष्ट्य शुभ-ग्रहा विरेजुः इति ॥७१॥

विश्वास-प्रस्तुतिः

अथ पुनर् उपवेशम् आगतास् ते
हरि-बल-मातृ-मुखाः सुखाद् अशेषाः ।
हरि-बल-वलिता यथा-स्वम् आसन्न्
अधि विविधासनम् उद्यद्-अस्र-नेत्राः ॥७२॥

मूलम्

अथ पुनर् उपवेशम् आगतास् ते
हरि-बल-मातृ-मुखाः सुखाद् अशेषाः ।
हरि-बल-वलिता यथा-स्वम् आसन्न्
अधि विविधासनम् उद्यद्-अस्र-नेत्राः ॥७२॥

हरि-बल-मातृ-मुखाः यशोदा-रोहिणी-प्रभृतयः अशेषा महिलाः सुखाद् उपवेशम् आगताः प्राप्ताः । हरि-बल-वलिताः कृष्ण-बलराम-शोभिताः मधुमङ्गलादयः यथा-स्वं प्रत्येकं अधि विविधासनं विविधासने उपविश्य उद्यद्-अस्र-नेत्रा प्रेमाश्रु-युक्ता अभवन्न् इति ॥७२॥

विश्वास-प्रस्तुतिः

अथ पुरु-गुरु-दार-लम्भिताशीर्
बटु-सहिताः प्रतिपद्य विप्र-भार्याः ।
वलयित-सकलः स-राम-कृष्णः
प्रणमन-सङ्गतम् उन्नमन्149 दिधिन्व ॥७३॥

मूलम्

अथ पुरु-गुरु-दार-लम्भिताशीर्
बटु-सहिताः प्रतिपद्य विप्र-भार्याः ।
वलयित-सकलः स-राम-कृष्णः
प्रणमन-सङ्गतम् उन्नमन्149 दिधिन्व ॥७३॥

अथ अनन्तरं पुरु-गुरु-दार-लम्भिताशीः पुरु-गुर-दाराः बहुल-गुर्व्-अङ्गनाः, ताभ्यः लम्भिताः प्राप्ता आशीः येन, तथा-भूतः । वलयित-सकलः बन्धु-वर्ग-वेष्टितः स-राम-कृष्णः प्रणमन-सङ्गतं अर्थात् यथा-विधि नमन् प्रणिपत्य दिधिन्व प्रीणयामास इति ॥७३॥

विश्वास-प्रस्तुतिः

द्विज-कुल-महिला बटु-प्रधाना
दिन-दिनम् आशिषम् अद्भुतां ददानाः ।
तद्-उदयम् अपि शश्वद् ईक्षमाणा
विदधति साक्षत-लाज-पुष्प-वृष्टिम् ॥७४॥

मूलम्

द्विज-कुल-महिला बटु-प्रधाना
दिन-दिनम् आशिषम् अद्भुतां ददानाः ।
तद्-उदयम् अपि शश्वद् ईक्षमाणा
विदधति साक्षत-लाज-पुष्प-वृष्टिम् ॥७४॥

बटु-प्रधाना मधुमङ्गल-प्रधाना द्विज-कुल-महिला ब्राह्मण-महिला-वर्गः दिन-दिनं प्रतिदिनं अद्भूतां आशिषं ददानाः, तद्-उदयं तस्य श्री-कृष्णस्य उदयं ऐश्वर्यं शश्वन् नित्यं ईक्षमाणा साक्षत-लाज-पुष्प-वृष्टिं विदधति कुर्वन्ति ॥७४॥

विश्वास-प्रस्तुतिः

हरिर् अथ कपिलाः स-नव्य-वत्सा
रजत-खुर-प्रकराः सुवर्ण-शृङ्गीः ।
विविध-मणि-भूषणाः समर्च्य
द्विज-बटु-साद् अकरोद् विधान-युक्तम् ॥७५॥

मूलम्

हरिर् अथ कपिलाः स-नव्य-वत्सा
रजत-खुर-प्रकराः सुवर्ण-शृङ्गीः ।
विविध-मणि-भूषणाः समर्च्य
द्विज-बटु-साद् अकरोद् विधान-युक्तम् ॥७५॥

अथ हरिः श्री-कृष्णः स-नव्य-वत्सा नव-वत्स-संयुक्ताः कपिलाः तज्-जातीया धेनूः रजत-खुर-प्रकाराः रौप्य-निर्मित-खुर-युक्ताः सुवर्ण-शृङ्गीः स्वर्ण-घटित-शृङ्गीः विविध-मणि-भूषणाः नाना-माणि-निर्मितालङ्काराः विधाय समर्च्य पूजयित्वा विधान-युक्तं यथा-शास्त्रं द्विज-बटु-साद् अकरोत्, अर्थात् ब्राह्मण-कुमारेभ्यः ददौ इति ॥७५॥

विश्वास-प्रस्तुतिः

धृत-मणि-नवकं सुवर्ण-पात्रं
घृत-परिपूरित-भूरि-कान्ति-मध्यम् ।
परिचित-मुख-बिम्ब-बिम्बम् ईशस्
तिथि-गणकाय दिदेश देश-रूपम् ॥७६॥

मूलम्

धृत-मणि-नवकं सुवर्ण-पात्रं
घृत-परिपूरित-भूरि-कान्ति-मध्यम् ।
परिचित-मुख-बिम्ब-बिम्बम् ईशस्
तिथि-गणकाय दिदेश देश-रूपम् ॥७६॥

धृत-मणि-नवकं नव-मणि-संयुक्तं घृत-परिपूरणेन भूरि-कान्तिः प्रचुर-शोभा मध्ये यस्य तत्, परिचित-मुख-बिम्ब-बिम्बं परिचितानां बिम्बः प्रति-बिम्बो यत्र तत्, सुवर्ण-पात्रं तिथि-गणकाय दैवज्ञाय देश-रूपं दिदेश दत्तवान् ॥७६॥

विश्वास-प्रस्तुतिः

द्विज-कुलज-सतीर् बटूंश् च कृष्णः
प्रणमन150-पूर्वकम् ईप्सयाभिवन्द्य151
मधुरतर-गिरा विसृज्य धाम्ने
निज-जननी-रुचि-मङ्गलं पुपोष ॥७७॥

मूलम्

द्विज-कुलज-सतीर् बटूंश् च कृष्णः
प्रणमन150-पूर्वकम् ईप्सयाभिवन्द्य151
मधुरतर-गिरा विसृज्य धाम्ने
निज-जननी-रुचि-मङ्गलं पुपोष ॥७७॥

कृष्णः द्विज-कुलज-सतीः विप्र-भार्याः बटून् ब्राह्मण-कुमारान् प्रणमन-पूर्वकं ईप्सया अभिवन्द्य वाञ्छित-वस्तूनि प्रदाय इत्य् अर्थः, मधुरतर-गिरा सुश्राव्यतर-वाक्येन धाम्ने स्व-स्व-गृहाय विसृज्य निज-जननी-रुचि-मङ्गलं यशोदाभिलाष-रूपं मङ्गलं कल्याणं पुपोष इति ॥७७॥

विश्वास-प्रस्तुतिः

जनयितृ-जननी-स्वसॄः पितृव्या-
दिक-वनिताश् च वधू-सुता-विमिश्राः ।
अनुनय-विनय-प्रणाम-पूजा-
दिभिर् उपवेशतया हरिर् दिधिन्व ॥७८॥

मूलम्

जनयितृ-जननी-स्वसॄः पितृव्या-
दिक-वनिताश् च वधू-सुता-विमिश्राः ।
अनुनय-विनय-प्रणाम-पूजा-
दिभिर् उपवेशतया हरिर् दिधिन्व ॥७८॥

जनयितृ-जननी मातृ-माता स्वसॄः भगिनीः वधू-सुता-विमिश्रा पुत्र-वधू-कन्या-युक्ता पितृव्यादिक-वनिताः पितृव्य-पत्नीः यथा-योग्यं अनुनय-विनय-प्रणाम-पूजादिभिः सम्माननाद्यैः उपवेशतया हरिः सर्वाः दिधिन्व प्रीणयामास इति ॥७८॥

विश्वास-प्रस्तुतिः

इति पुरु-कृत-मङ्गलः स कृष्णः
स्वक-गृह-निर्मित-तत्-कृतिर् बलश् च ।
सखि-चितम् उचित-प्रदेशम् अञ्चन्न्
अशन-विधिं विधिना विधित्सति स्म ॥७९॥

मूलम्

इति पुरु-कृत-मङ्गलः स कृष्णः
स्वक-गृह-निर्मित-तत्-कृतिर् बलश् च ।
सखि-चितम् उचित-प्रदेशम् अञ्चन्न्
अशन-विधिं विधिना विधित्सति स्म ॥७९॥

इति एवं-प्रकारेण पुरु-कृत-मङ्गलः स कृष्णः स्वक-गृह-निर्मित-तत्-कृतिः स्वक-गृहे निज-गृहे निर्मिता अनुष्ठिता तत्-कृतिः स्नानादि-कृतिः येन, तथा-भूतः । स बलः बलदेवश् च सखि-चितं मित्र-व्याप्तं उचित-प्रदेशं भोजन-योग्य-प्रदेशं अञ्चन् गत्वा विधिना यथा-न्याय्यं अशन-विधिं भोजन-लीलां विधित्सति स्म विधातुम् इच्छति स्म इति ॥७९॥

विश्वास-प्रस्तुतिः

असित-कुटिल-केश-वेश-भङ्गी-
जन-जन-लोभन-शोभया मनोज्ञम् ।
निरुपम-वदनं152 स-नील-शुभ्र-
च्छवि-स-विलास-सशोण-कोण-नेत्रम् ॥८०॥

मूलम्

असित-कुटिल-केश-वेश-भङ्गी-
जन-जन-लोभन-शोभया मनोज्ञम् ।
निरुपम-वदनं152 स-नील-शुभ्र-
च्छवि-स-विलास-सशोण-कोण-नेत्रम् ॥८०॥

असित-कुटिल-केश-वेश-भङ्गी-जन-जन-लोभन-शोभया असितानां कृष्णाणां कुटिलानां केशानां बालानां तया मनोज्ञं मनोहरं निरुपम-वदनं तुलना-रहित-मुखं स-नील-शुभ्र-च्छवि-विलास-स-शोन-कोण-नेत्रं सनील-शुभ्र-च्छवि कृष्णाभा-युक्त-श्वेत-कान्ति-युक्तं स-विलासं विलास-सहितं स-शोण-कोणं लोहिताभा-मिश्र-कोण-युक्तं नेत्रं यस्य तत् ॥८०॥

विश्वास-प्रस्तुतिः

अलक-वितत-भाल-मण्डित-पुण्ड्रं
पृथुतर-नीरद-मुक्तं मुक्त-नासम् ।
मणिगण-मय-कुण्डल-प्रभाभिः
शवलित-गण्ड-रुचातिरोचि-तुण्डम् ॥८१॥

मूलम्

अलक-वितत-भाल-मण्डित-पुण्ड्रं
पृथुतर-नीरद-मुक्तं मुक्त-नासम् ।
मणिगण-मय-कुण्डल-प्रभाभिः
शवलित-गण्ड-रुचातिरोचि-तुण्डम् ॥८१॥

अलक-वितत-भाल-मण्डित-पुण्ड्रं—अलक-वितते अलक-व्यप्ते भाले मण्डितं मनोहरं पुण्ड्रं तिलकं यस्य । पृथुतर-नीरद-मुक्तवत् मुक्ता यस्यां तादृशी नासा यत्र, तत्। मणि-गणमय-कुण्डल-प्रभाभिः मणि-समूह-निर्मित-कर्ण-भूषण-कण्तिभिः शवलितयोः संयुक्तयोः गण्डयोः रुचा दीप्त्या अतिरोचि अतिदीप्तिमत् तुण्डं मुखं यस्य तत् ॥८१॥

विश्वास-प्रस्तुतिः

गल-वलय-विभूषणातिरम्यं
मणि-सर-मध्य-निबद्ध-रत्न-वर्यम् ।
वलय-विलसद्-ऊर्मिकाङ्गदानां
च्छवि-चलद्-ऊर्मि-भुज-द्वयातिचारु ॥८२॥

मूलम्

गल-वलय-विभूषणातिरम्यं
मणि-सर-मध्य-निबद्ध-रत्न-वर्यम् ।
वलय-विलसद्-ऊर्मिकाङ्गदानां
च्छवि-चलद्-ऊर्मि-भुज-द्वयातिचारु ॥८२॥

गल-वलय-विभूषणाति-रम्यं—गल-वलय-रूपम् एव यत् विभूषणं अलङ्कारः, तेन अतिरम्यं । मणि-सर-मध्ये हार-मध्ये निबद्धं ग्रथितं रत्न-वर्यं रत्न-वरं यस्य तं । वलय-विलसद्-उर्मिकाङ्गदानां वलय-शोभमानाङ्गुरीय-कटकानां छवेः कान्तेः चलद्-ऊर्मिवत् यद् भूज-द्वयं, तेन अतिचारु अति-सुन्दरं ॥८२॥

विश्वास-प्रस्तुतिः

नृहरिवद्-अवलग्न-लग्न-काञ्ची-
स्तवक-चलाञ्चल-चञ्चद्153-अंसु-जालम् ।
कनक-घनजिद्-अन्तरांशुकांश-
स्पृशमणि-नूपुर-कान्ति-पूर-पूर्णम् ॥८३॥

मूलम्

नृहरिवद्-अवलग्न-लग्न-काञ्ची-
स्तवक-चलाञ्चल-चञ्चद्153-अंसु-जालम् ।
कनक-घनजिद्-अन्तरांशुकांश-
स्पृशमणि-नूपुर-कान्ति-पूर-पूर्णम् ॥८३॥

नृहरिवद्-अवलग्न-लग्न-काञ्ची-स्तवक-चलाञ्चल-चञ्चद्-अंशु-जालं—नृहरिवत् नृसिंहवद् अवलग्ने लग्नः यः काञ्ची-स्तवकः रशना-स्तवकः, तेन सह चलत् यद् अञ्चलं, तस्मात् चलं उद्गच्छद् अंशु-जालं किरण-समूहो यत्र तं । कनक-घन-जिद्-अन्तरांशुकांश-स्पृश-मणि-नूपुर-कान्ति-पूर-पूर्णं—कनक-घनजित् सुवर्ण-पिण्डजित् यत् अन्तरांशुकं परिधानं, तस्य अंशः, तं स्पृशति यत् नूपुरं, तस्य कान्ति-पूरः शोभा-समूहः, तेन पूर्णं ॥८३॥

विश्वास-प्रस्तुतिः

अभिमुखम् उपविष्टम् इष्ट-पारस्-
परिक-निरीक्षण-सक्षणाक्षि-युग्मम् ।
नव-घन-घनसार-कान्ति-प्रद-
वपुर्-उन्नत-दास-जुष्ट-पृष्ठम् ॥८४॥

मूलम्

अभिमुखम् उपविष्टम् इष्ट-पारस्-
परिक-निरीक्षण-सक्षणाक्षि-युग्मम् ।
नव-घन-घनसार-कान्ति-प्रद-
वपुर्-उन्नत-दास-जुष्ट-पृष्ठम् ॥८४॥

अभिमुखं उपविष्टं इष्ट-पारस्परिका-निरीक्षण-सक्षणाक्षि-युग्मं—इष्टं अभीप्सितं पारस्परिकं यन् निरीक्षणं, तेन स-क्षणं सोत्सवं अक्षि-युग्मं नयन-युगलं, येन तथा-भूतम् । नव-घन-घनसार-कान्ति-प्रद-वपुर्-उन्नत-दास-जुष्ट-पृष्ठं—नव-घनस्य नवीन-मेघस्य घनसारस्य कर्पूरस्य कान्तिं शोभां प्रददाति यद् वपुः, तस्य उन्नत-दास-जुष्टं प्रधान-सेवक-सेवितं पृष्ठं यस्य तं ॥८४॥

विश्वास-प्रस्तुतिः

विविध-विध-विचित्र-मित्र-पङ्क्ति
द्वय-रचित-द्रव-तर्षि-मातृ-हर्षि ।
निज-निज-वधू-दृश्य-दृश्य-रूपं
रहसि विनिर्मित-जाल-रन्ध्र-वृन्दात् ॥८५॥

मूलम्

विविध-विध-विचित्र-मित्र-पङ्क्ति
द्वय-रचित-द्रव-तर्षि-मातृ-हर्षि ।
निज-निज-वधू-दृश्य-दृश्य-रूपं
रहसि विनिर्मित-जाल-रन्ध्र-वृन्दात् ॥८५॥

विविध-विध-विचित्र-पङ्क्ति-द्वय-रचित-द्रव-तर्षि-मातृ-हर्षि—विविधानां नाना-जातीयानां विचित्रानां मित्राणां यत् पङ्क्ति-द्वयं श्रेणी-युग्मं, तत्र रचितः यो द्रवः परीहासः, तत्र तर्षिणीनां तृष्णा-युक्ताणां मातॄनां हर्षि हर्ष-जनकं, रहसि एकान्ते विनिर्मितात् जाल-रन्ध्र-वृन्दात् गवाक्ष-पथ-समूहात् निज-निज-वधू-दृश्य-दृश्य-रूपं निज-निज-वधूभिः दृश्यं दर्शनीयं दृश्य-रूपं मनोहर-रूपं यस्य ॥८५॥

विश्वास-प्रस्तुतिः

स्वयम् अपि स-मिषं निरीक्षमाणं
तद्-अनु गवाक्ष-कुलं क्रियाकुलाक्षम् ।
दिन-मुखम् अधिकृत्य भव्य-कृत्यं
स्मर सहज-द्वयम् इष्टम् इष्ट-भुक्ति ॥८६॥

मूलम्

स्वयम् अपि स-मिषं निरीक्षमाणं
तद्-अनु गवाक्ष-कुलं क्रियाकुलाक्षम् ।
दिन-मुखम् अधिकृत्य भव्य-कृत्यं
स्मर सहज-द्वयम् इष्टम् इष्ट-भुक्ति ॥८६॥

[सप्तभिः]

स्वयम् अपि स-मिषं स-च्छलं निरीक्षमाणं तद् गवाक्ष-कुलम् अनु क्रियाकुलाक्षं क्रियाभिः आकुलं व्याप्तं अक्षि यस्य तत् । दिन-मुखं प्रभातं अधिकृत्य प्रातर् आरभ्य भव्य-कृत्यं मङ्गलानुष्ठानं इष्टं अभिलषितं सहज-द्वयं कृष्ण-रामौ स्मर । तत्-सहज-द्वयं किम्भूतं ? इत्य् आह—इष्ट-भुक्ति इष्टैः मित्रैः भुक्तिः भोजनादि-कर्म यस्य तत् ॥८६॥

विश्वास-प्रस्तुतिः

बहुषु दिन-मुखेषु गोषु शीघ्रं
व्रजनम् इति व्रज-भूभृता सुभोज्यम् ।
स्वयम् अशन-कृता प्रहेयम् इत्य् अप्य्
अशनम् इदं लघु वष्टि कृष्ण-चन्द्रः ॥८७॥

मूलम्

बहुषु दिन-मुखेषु गोषु शीघ्रं
व्रजनम् इति व्रज-भूभृता सुभोज्यम् ।
स्वयम् अशन-कृता प्रहेयम् इत्य् अप्य्
अशनम् इदं लघु वष्टि कृष्ण-चन्द्रः ॥८७॥

बहुषु दिन-मुखेषु प्रभातेषु गोषु शीघ्रं झटिति व्रजनं गमनं भवति इति हेतोः स्वयं अशन-कृता भोक्तुं गच्छता व्रज-भूभृता नन्देन सुभोज्यं प्रहेयं प्रेरणीयं इत्य् अपि कृष्ण-चन्द्र इदं अशनं भोज्यं लघु वष्टि कामयते ॥८७॥

विश्वास-प्रस्तुतिः

अथ मरिच-सितासितांशु-मिश्रं
घृत-परमान्नम् अदन्न् असाव् अमीभिः ।
निज-रुचिम् इयता निचाययंश् च
प्रति-कवलं प्रशशंस कंस-शत्रुः ॥८८॥

मूलम्

अथ मरिच-सितासितांशु-मिश्रं
घृत-परमान्नम् अदन्न् असाव् अमीभिः ।
निज-रुचिम् इयता निचाययंश् च
प्रति-कवलं प्रशशंस कंस-शत्रुः ॥८८॥

असौ कंस-शत्रुः श्री-कृष्णः अमीभिः सखिभिः मरिच-सितासिता-मिश्रं मरिच-शर्करा-कर्पूर-मिश्रं घृत-परमान्नं घृत-पायसं अदन् भक्षयन् निज-रुचिं निचाययन् प्रति-कवलं प्रति-ग्रासः प्रशशंस इति ॥८८॥

विश्वास-प्रस्तुतिः

नव-वधू-निहितं बलस्य मात्रा
स्वयम् उपनीय धृतं व्रजाधिराज्ञ्याम् ।
अकुरुत परिवेषणं तथा सा
लवम् अपि नात्र यथा स हातुम् ऐष्ट ॥८९॥

मूलम्

नव-वधू-निहितं बलस्य मात्रा
स्वयम् उपनीय धृतं व्रजाधिराज्ञ्याम् ।
अकुरुत परिवेषणं तथा सा
लवम् अपि नात्र यथा स हातुम् ऐष्ट ॥८९॥

नव-वधू-निहितं राधिका-निर्मितं खाद्यं बलस्य बलदेवस्य मात्रा रोहिण्या स्वयं उपनीय व्रजादिराज्ञ्यां यशोदायां यशोदा-समीपे धृतं, तथा सा यशोदा तथा परिवेषणं अकुरुत यथा स श्री-कृष्णः [अत्र] लवम् अपि हातुं त्यक्तुं [न] ऐष्ट वाञ्छितवान् इति ॥८९॥

विश्वास-प्रस्तुतिः

स-परिमल-जलं तथा जनन्योर्
मृदु मृदु जल्प-विकासि-मन्द-हासम् ।
अनुभवद् इह राम-कृष्ण-युग्मं
क्रमम् अनु भोजन-तृष्णताम् अहासीत् ॥९०॥

मूलम्

स-परिमल-जलं तथा जनन्योर्
मृदु मृदु जल्प-विकासि-मन्द-हासम् ।
अनुभवद् इह राम-कृष्ण-युग्मं
क्रमम् अनु भोजन-तृष्णताम् अहासीत् ॥९०॥

स-परिमल-जलं सुवासितं जलं तथा जनन्योर् यशोदा-रोहिन्योः मृदु मृदु जल्प-विकाशि-मन्द-हास्यं अनुभवत् इह भोजन-विषये राम-कृष्ण-युग्मं क्रमम् अनु क्रमशः भोजन-तृष्णतं भोजनाग्रहम् अहासीत् तत्याज ॥९०॥

विश्वास-प्रस्तुतिः

पुनर् अपि जननी-द्वयी शिशूनाम्
अशन-रसं व्यतिहसनात् पुपोष ।
हरिर् अथ च गवावनाय खेला-
वन-गमनाय च तं क्रमात् ततार ॥९१॥

मूलम्

पुनर् अपि जननी-द्वयी शिशूनाम्
अशन-रसं व्यतिहसनात् पुपोष ।
हरिर् अथ च गवावनाय खेला-
वन-गमनाय च तं क्रमात् ततार ॥९१॥

जननी-द्वयी यशोदा-रोहिण्यौ व्यतिहसनात् परस्पर-हास्य-विकाशात् अशन-रसं भोजन-रसं भोजन-लीलां पुपोष । अथ हरिः श्री-कृष्णश् च गवावनाय गो-पालनाय खेला-वन-गमनाय च क्रीडा-कानन-गमनाय तं अशन-रसं क्रमात् क्रमशः ततार समापितवान् ॥९१॥

विश्वास-प्रस्तुतिः

परिमल-जल-धौत-वक्त्र-बिम्बा
नव-हरिचन्दन-चारु-चर्चिताङ्गाः ।
खपुर-फनि-दली-पुटीभिर् एते
सुरभित-रञ्जितं ऊहुर् आस्य-मध्यम् ॥९२॥

मूलम्

परिमल-जल-धौत-वक्त्र-बिम्बा
नव-हरिचन्दन-चारु-चर्चिताङ्गाः ।
खपुर-फनि-दली-पुटीभिर् एते
सुरभित-रञ्जितं ऊहुर् आस्य-मध्यम् ॥९२॥

परिमल-जल-धौत-वक्त्र-बिम्बाः—परिमल-जलेन सुरभि-सलिलेन धौतं वक्त्र-बिम्बं येषां, नव-हरिचन्दनेन चारु-चर्चितानि अङ्गानि येषां, एते श्री-कृष्णादयः खपुर-पणि-दली-पुटीभिः गुवाक-नागवल्ली-निर्मित-पुतीभिः सुरभित-रञ्जितं आस्य-मध्यं मुख-गह्वरं ऊहुः इति ॥९२॥

विश्वास-प्रस्तुतिः

व्रज-नृपति-भृति-भुक्154-कुमार-वृन्दार्-
पित-महर्-आभरणाञ्चि-कञ्चुकादि ।
सुत-तनुम् अनु सा विराजयन्ती
जन-नयनान्य् अकरोद् विराजितानि ॥९३॥

मूलम्

व्रज-नृपति-भृति-भुक्154-कुमार-वृन्दार्-
पित-महर्-आभरणाञ्चि-कञ्चुकादि ।
सुत-तनुम् अनु सा विराजयन्ती
जन-नयनान्य् अकरोद् विराजितानि ॥९३॥

व्रज-नृप-भृतिभृत्-कुमार-वृन्दार्पित-महर्-आभरणाञ्चि-कञ्चुकादि—गोप-राज-भृत्य-बालक-समूहानीत-महा-मूल्यालङ्कार-संयुक्त-कञ्चुकादि, “जामा” इति भाषा । सा यशोदा सुत-तनुम् अनु पुत्र-शरीरे विराजयन्ती जन-नयनानि विराजितानि आह्लादितानि अकरोत् कृतवतीति ॥९३॥

विश्वास-प्रस्तुतिः

तम् असित-मणि-कान्ति-देह-कान्ति
स्नपित-सुवर्णज-वर्ण-कान्त-वस्त्रम् ।
स्व-विरचित-विभूषणं निरीक्ष्य
स्तन-नयनाद् अमृतान्य् अवोढ माता ॥९४॥

मूलम्

तम् असित-मणि-कान्ति-देह-कान्ति
स्नपित-सुवर्णज-वर्ण-कान्त-वस्त्रम् ।
स्व-विरचित-विभूषणं निरीक्ष्य
स्तन-नयनाद् अमृतान्य् अवोढ माता ॥९४॥

असित-मणि-कान्ति-देह-कान्ति-स्नपित-सुवर्णज-वर्ण-कान्त-वस्त्रं—असित-मणेः इन्द्र-नील-मणेः कान्तिर् यत्र तथा-भूतस्य देहस्य कान्त्या स्नपितं धौतं सुवर्णज-वर्णं पीत-वर्णं मनोहरं वस्त्रं यस्य, तं श्री-कृष्णं स्व-रचित-विभूषणं स्वेन यशोदया विरचितं विभूषणं यस्य, तं निरीक्ष्य माता यशोदा स्तन-नयनाद् अमृतानि अवोढ धृतवतीति ॥९८॥

विश्वास-प्रस्तुतिः

मणि-रुचि-मुरली-सुवऋन-यष्टि-
प्रवर-शिखण्डक-शोभया तु155 कृष्णः ।
असुखयद् अवरोध-लोक-दृष्टिं
सुखयितुम् इत्थम् इयेष सभ्य-दृष्टिम्156 ॥९५॥

मूलम्

मणि-रुचि-मुरली-सुवऋन-यष्टि-
प्रवर-शिखण्डक-शोभया तु155 कृष्णः ।
असुखयद् अवरोध-लोक-दृष्टिं
सुखयितुम् इत्थम् इयेष सभ्य-दृष्टिम्156 ॥९५॥

मणि-रुचि-मुरली-सुवर्ण-यष्टि-प्रवर-शिखण्डक-शोभया—मणि-रुचि-मुरली मणि-मण्डित-मुरली एव सुवर्ण-यष्टिः प्रवर-शिखण्डकः च, तयोः शोभया अवरोध-लोक-दृष्टिं अन्तः-पुर-वासिनीनां लोचनं असुखयत् । इत्थं एवं-प्रकारेण सभ्य-दृष्टिं सभासदां दृष्टिं नयनं सुखयितुं इयेष वाञ्छितवान् इति ॥९५॥

विश्वास-प्रस्तुतिः

हरिम् अनु कथनीयम् अत्र यद् यद्
बलम् अनु तत् तद् अवेहि किन्तु योग्यम् ।
हरि-बल-जननी-युगं च तुल्यं
परिकलय प्रियता हि तत्र तुल्या ॥९६॥

मूलम्

हरिम् अनु कथनीयम् अत्र यद् यद्
बलम् अनु तत् तद् अवेहि किन्तु योग्यम् ।
हरि-बल-जननी-युगं च तुल्यं
परिकलय प्रियता हि तत्र तुल्या ॥९६॥

हरिम् अनु अत्र यद् यत् कथनीयं बलम् अनु तत् तत् कथनीयं अवेहि, किन्तु तत् योग्यं भवत्य् एव हरि-बल-जननी-युगं च यशोदा-रोहीण्यौ तुल्यं परिकलय पश्य हि यतः तत्र राम-कृष्णयोः तुल्या प्रियता प्रितिः भवति इति ॥९६॥

विश्वास-प्रस्तुतिः

दिन-दिनम् अनु सा वनाय गन्तुं
कृत-मनसस् तनयस्य मङ्गलाय ।
सजल-कलस-दीप-सारम् आरा-
त्रिक-सुख-मङ्गल-वस्तु विसृणोति ॥९७॥

मूलम्

दिन-दिनम् अनु सा वनाय गन्तुं
कृत-मनसस् तनयस्य मङ्गलाय ।
सजल-कलस-दीप-सारम् आरा-
त्रिक-सुख-मङ्गल-वस्तु विसृणोति ॥९७॥

दिन-दिनं प्रत्यहं वनाय गन्तुं कृत-मनसः कृत-सङ्कल्पस्य तनयस्य पुत्रस्य मङ्गलाय सा यशोदा सजल-कलस-दीप-सारं आरात्रिक-सुख-मङ्गल-वस्तु विसृणोतीति प्रसारयति ॥९७॥

विश्वास-प्रस्तुतिः

अथ चलितु-मनाः स्व-मातुर् आराद्
अरचयद् अञ्जलिम् अच्युतः प्रणम्य ।
इयम् अवमृशती करेण चामूं
स्तन-नयनामृत-सार्धम् आह चेदम् ॥९८॥

मूलम्

अथ चलितु-मनाः स्व-मातुर् आराद्
अरचयद् अञ्जलिम् अच्युतः प्रणम्य ।
इयम् अवमृशती करेण चामूं
स्तन-नयनामृत-सार्धम् आह चेदम् ॥९८॥

अथ अयं अच्युतः श्री-कृष्णः चलितु-मनाः गन्तु-कामः सन् स्व-मातुः यशोदायाः आरात् समीपे प्रणम्य अञ्जलिं अरचयत् । इयं यशोदा करेण हस्तेन अमूं कृष्णं अवमृशती स्पृष्ट्वा, स्तन-नयनामृत-सार्धं स्तन-दुग्ध-क्षरणेन नयन-वारिणा च सह इदम् आह ॥९८॥

विश्वास-प्रस्तुतिः

“वयम् अपि भवता समं प्रयामः
कृत-पचनं157 द्रुतम् उष्णम् अर्पयामः ।
परिणत-वयसश् चिराद् अभूम
प्रथयसि लज्जितम् अत्र किं नु वत्स ॥९९॥

मूलम्

“वयम् अपि भवता समं प्रयामः
कृत-पचनं157 द्रुतम् उष्णम् अर्पयामः ।
परिणत-वयसश् चिराद् अभूम
प्रथयसि लज्जितम् अत्र किं नु वत्स ॥९९॥

“वयम् अपि भवता त्वया समं प्रयामः गच्छामः । तत्र वने द्रुतं कृत-रचनं अन्न-व्यञ्जनादि उष्णं अर्पयामः । यतः वयं चिरात् परिणत-वयसः भवामः, हे वत्स ! अत्र विषये किं लज्जितं प्रथयसि ?” इति ॥९९॥

विश्वास-प्रस्तुतिः

“यदि वदति भवान् स्व-धाम्नि का स्याद्
अवसरम् आवकयोस् तदा विदध्याम् ।
गृहम् अहम् अहनि क्वचाधिवत्स्याम्य्
अथ बलसूर् अपि वत्स्यति क्व चापि ॥१००॥

मूलम्

“यदि वदति भवान् स्व-धाम्नि का स्याद्
अवसरम् आवकयोस् तदा विदध्याम् ।
गृहम् अहम् अहनि क्वचाधिवत्स्याम्य्
अथ बलसूर् अपि वत्स्यति क्व चापि ॥१००॥

“भवान् यदि वदति स्व-धाम्नि निज-गृहे का स्यात्, हे पुत्र ! शृणु । तदा आवकयोः यशोदा-रोहिण्योः अवसरं पर्यायं विदध्यां । क्व च अहनि दिन-माने अहं अधिवत्स्यामि, क्वचन अहनि बलसूः बलदेव-जननी वत्स्यति” इति ॥१००॥

विश्वास-प्रस्तुतिः

“कथम् इव वदसि त्वम् एतद् एवं
गृह-कृतिर् उद्धतिम् आप्स्यतीति वत्स ।
तव वन-गमने पुनस् तद् एतत्
किम् अपि न सिध्यति पृच्छ्यताम् इदं च ॥१०१॥

मूलम्

“कथम् इव वदसि त्वम् एतद् एवं
गृह-कृतिर् उद्धतिम् आप्स्यतीति वत्स ।
तव वन-गमने पुनस् तद् एतत्
किम् अपि न सिध्यति पृच्छ्यताम् इदं च ॥१०१॥

हे वत्स ! त्वं गृह-कृतिः गृह-कार्यं उद्धतिं उच्छृङ्खलतां आप्स्यति गमिष्यति इति कथम् इव वदसि ? प्रत्युत तव वन-गमने तद् एतत् किम् अपि न सिध्यति विरह-ग्रस्तत्वाद् इति भावः, पृच्छ्यतां इदं इति ॥१०१॥

विश्वास-प्रस्तुतिः

“अहरहर् अयतां वनानि वत्सः
स्व-सदन-वास-सुखं त्यजाव नावाम् ।
इति-मति-पितराव् अमू न शङ्कां
न च ह्रियम् अत्र लभावहे तनूज ॥“१०२॥

मूलम्

“अहरहर् अयतां वनानि वत्सः
स्व-सदन-वास-सुखं त्यजाव नावाम् ।
इति-मति-पितराव् अमू न शङ्कां
न च ह्रियम् अत्र लभावहे तनूज ॥“१०२॥

वत्सः पुत्रः अहरहः प्रत्यहं वनानि अयतां गच्छतां आवां स्वदन-वास-सुखं निज-निज-वास-सुखं न त्यजाव । हे तमूज ! इति-मति-पितरौ एवं-विध-बुद्धि-विशिष्ट-जनक-जनन्यौ अमू न शङ्कां न च ह्रियं लज्जां अत्र न लभावहे ॥१०२॥

विश्वास-प्रस्तुतिः

इति स तु जननीरितं निशम्य
स्मित-वलितं धृत-बाष्पम् आललाप ।
द्विविद-रिपुर् अपि प्रणम्र-मूर्ध्ना158
मृदु तद्-अनूदितम् अन्तरा चचार ॥१०३॥

मूलम्

इति स तु जननीरितं निशम्य
स्मित-वलितं धृत-बाष्पम् आललाप ।
द्विविद-रिपुर् अपि प्रणम्र-मूर्ध्ना158
मृदु तद्-अनूदितम् अन्तरा चचार ॥१०३॥

स श्री-कृष्णः इति एवं-प्रकारं जननीरितं मातृ-कथितं वाक्यं निशम्य श्रुत्वा स्मित-वलितं ईषद्-हास-वलितं धृत-बाष्पं सजल-नयनं आललाप । द्विविद-रिपुः बलदेवोऽपि प्रणम्र-मूर्ध्ना प्रणत-मस्तकेन अन्तरा मध्ये मध्ये मृदु लघु तद्-अनूदितं तद्-वाक्य-समर्थनं चचार कृतवतीति ॥१०३॥

विश्वास-प्रस्तुतिः

“जननि यदि पिता तथा च माता
परिणमति स्म शिशुर् बभूव योग्यः ।
शिशुर् अयम् उभयत्र तत्र राजन्-
यति यदि तर्हि विभाति सुष्ठु योग्यः ॥१०४॥

मूलम्

“जननि यदि पिता तथा च माता
परिणमति स्म शिशुर् बभूव योग्यः ।
शिशुर् अयम् उभयत्र तत्र राजन्-
यति यदि तर्हि विभाति सुष्ठु योग्यः ॥१०४॥

हे जननि ! यदि पिता तथा च माता परिणमति स्म वार्धक्यं लभेत, तत्र उभयत्र इह-काले पर-काले च शिशुः पुत्रः यदि राजन्यति अतिशयेन प्रकाशते सुष्ठु अत्यर्थं योग्यः विभाति ॥१०४॥

विश्वास-प्रस्तुतिः

“वनम् अनु धवलावनाय मादृक्
यद् अटति तन्-मिष-सिद्धिम् अम्ब विद्धि ।
सुख-विहरणम् एव तत्र सार्धं
सखिभिर् अमीभिर् अनुक्षणं बिभर्ति ॥१०५॥

मूलम्

“वनम् अनु धवलावनाय मादृक्
यद् अटति तन्-मिष-सिद्धिम् अम्ब विद्धि ।
सुख-विहरणम् एव तत्र सार्धं
सखिभिर् अमीभिर् अनुक्षणं बिभर्ति ॥१०५॥

धवलावनाय धेनु-पालनाय मादृक् मादृशो-जनः वनम् अनु यद् अटति, हे अम्ब ! तन्-मिष-सिद्धिं तच्-छलेन इष्ट-सिद्धिं विद्धि जानीहि । तद् धवलावनं अमीभिः सखिभिः सार्धं सुख-विहरणं अनुक्षणं बिभर्ति इति ॥१०५॥

विश्वास-प्रस्तुतिः

“विपिनम् अनु विहापितं भवत्या
जननि चतुर्-विधम् अन्न-जातम् अद्मः ।
अमृत-जयि-फलानि येन वन्यान्य्
अभिरुचिम् उत्तमयाम159 तत्र भूरि ॥१०६॥

मूलम्

“विपिनम् अनु विहापितं भवत्या
जननि चतुर्-विधम् अन्न-जातम् अद्मः ।
अमृत-जयि-फलानि येन वन्यान्य्
अभिरुचिम् उत्तमयाम159 तत्र भूरि ॥१०६॥

हे जननि ! भवत्या विपिनम् अनु विहापितं प्रेरितं चतुर्-विधं अन्न-जातं खाद्य-सम्भारं अद्मः । तत्र विपिने वन्यानि वन-जातानि अमृत-जयि-फलनि सन्ति येन हेतुना अभिरुचिं उत्तमयाम ॥१०६॥

विश्वास-प्रस्तुतिः

“व्रज-रिपु-कुल-मूलम् आशु हन्तुं
पुनर् अगमं160 पुनर् आगमं व्रजं च ।
अजनि च जगताम् अदृश्य एष
स्फुरतु कथं बत मातर् अत्र भीतिः ॥१०७॥

मूलम्

“व्रज-रिपु-कुल-मूलम् आशु हन्तुं
पुनर् अगमं160 पुनर् आगमं व्रजं च ।
अजनि च जगताम् अदृश्य एष
स्फुरतु कथं बत मातर् अत्र भीतिः ॥१०७॥

व्रज-रिपु-कुल-मूलं व्रज-रिपु-कुलानां व्रज-शत्रु-समूहानां मूलं निदानं आशु झटिति हन्तुम् अगमम् व्रजं पुनर् आगमं च । एष व्रजः जगताम् अदृश्यः । हे मातः अत्र भीतिः कथं स्फुरतु ? इति ॥१०७॥

विश्वास-प्रस्तुतिः

“अहह बत गवां कुलं समस्तं
मम पथि तिष्ठति मद्-गतिं प्रतीक्ष्य ।
मयि गतवति शष्पम् अत्ति चैवं
हृदि मम धीर-दशाम् अशाश्यते स्म ॥“१०८॥

मूलम्

“अहह बत गवां कुलं समस्तं
मम पथि तिष्ठति मद्-गतिं प्रतीक्ष्य ।
मयि गतवति शष्पम् अत्ति चैवं
हृदि मम धीर-दशाम् अशाश्यते स्म ॥“१०८॥

अहह खेदे । समस्तं गवां कुलं मद्-गतिं प्रतीक्ष्य मम पथि तिष्ठति । मयि गतवति सति शष्पं तृणानि अत्ति भक्षयति च, एवं अर्थात् गवां कुलस्य ईदृग् व्यवहारः मम हृदि धीर-दशाम् अशाश्यते स्म, अर्थात् भृशम् अश्नाति इति ॥१०८॥

विश्वास-प्रस्तुतिः

अथ हरि-जननीं पुरन्ध्रि-161मान्या-
ततिर् अवदद् धृत-नीर-वृष्टि-दृष्टि ।
“भविकम् अनु मनुष्व नित्य-कृत्यं
भवति तद् एव गतिः परावरा च ।“१०९॥

मूलम्

अथ हरि-जननीं पुरन्ध्रि-161मान्या-
ततिर् अवदद् धृत-नीर-वृष्टि-दृष्टि ।
“भविकम् अनु मनुष्व नित्य-कृत्यं
भवति तद् एव गतिः परावरा च ।“१०९॥

पुरन्ध्रि-मान्या-ततिः माननीय-महिला-श्रेणिर् धृत-नीर-वृष्टि-दृष्टि स-जल-नयनं हरि-जननीं यशोदां अवदत्—“नित्य-कृत्यं गोपालनं भविकम् अनु मनुष्व, अर्थात् नित्य-कृत्य-पालने मङ्गलं भवेद् एव । तद् एव अस्माकं गोप-जातीनां परावरा गतिः भवति ॥१०९॥

विश्वास-प्रस्तुतिः

तनुजम् अनु पुरन्ध्रिभिः शुभाशीर्-
व्रततिर् अकारि ततः स्वयं तु माता ।
विधृत-करतयाङ्गनाय सास्राप्य्
अमुम् अवतारयति स्म मन्द-मन्दम् ॥११०॥

मूलम्

तनुजम् अनु पुरन्ध्रिभिः शुभाशीर्-
व्रततिर् अकारि ततः स्वयं तु माता ।
विधृत-करतयाङ्गनाय सास्राप्य्
अमुम् अवतारयति स्म मन्द-मन्दम् ॥११०॥

तनुजम् अनु श्री-कृष्णं प्रति पुरन्ध्रिभिः महिलाभिः शुभाशीर्-व्रततिः शुभाशीर्वाद-श्रेणीः अकारि कृता । ततः स्वयं तु माता यशोदा विधृत-करतया हस्त-धारणं कृत्वा सास्रा नयन-जलवती सती मन्द-मन्दं अमुं श्री-कृष्णं अवतारयति स्म इति ॥११०॥

विश्वास-प्रस्तुतिः

स्पृशति दिशति वाञ्छति प्रयाति
प्रणयति मन्दति नन्दति ब्रवीति ।
इति बहु-विध-लालनां दधाना
सुतम् अनु सा जननी न तृप्तिम् आप ॥१११॥

मूलम्

स्पृशति दिशति वाञ्छति प्रयाति
प्रणयति मन्दति नन्दति ब्रवीति ।
इति बहु-विध-लालनां दधाना
सुतम् अनु सा जननी न तृप्तिम् आप ॥१११॥

स्पृशतीति सुगमम् इति ॥१११॥

विश्वास-प्रस्तुतिः

अथ गुरु-वनिता-गणेन मात्राप्य्
अनुसरणाद् अवरोध162-सेतुम् आप्तः ।
प्रणय-विषर-बन्धतस् तु दामो-
दर-पदवीं पुनर् एष शश्वद् आप ॥११२॥

मूलम्

अथ गुरु-वनिता-गणेन मात्राप्य्
अनुसरणाद् अवरोध162-सेतुम् आप्तः ।
प्रणय-विषर-बन्धतस् तु दामो-
दर-पदवीं पुनर् एष शश्वद् आप ॥११२॥

अथ गुरु-वनिता-गणेन गुर्व्-अङ्गना-समूहेन मात्रा जनन्या अपि अनुसरणात् अनुगमनात् अवरोध-सेतुं अन्तः-पुर-मर्यादां आप्तः प्राप्तवान् । असौ दामोदरः प्रणय-विसर-बन्धतस् तु प्रेम-समूह-जनित-बन्धनात् शश्वत् नित्यं दामोदर-पदवीं आप प्राप्तवान् इति ॥११२॥

विश्वास-प्रस्तुतिः

अथ हरि-गमने क्रमेण सिद्धे
हरि-जननी निज-गेहम् एव गत्वा ।
गृह-कृति-कलनान् निनाय कालं
वृषरविजा-चरितानि तु स्मरामि ॥११३॥

मूलम्

अथ हरि-गमने क्रमेण सिद्धे
हरि-जननी निज-गेहम् एव गत्वा ।
गृह-कृति-कलनान् निनाय कालं
वृषरविजा-चरितानि तु स्मरामि ॥११३॥

क्रमेण हरि-गमने सिद्धे हरि-जननी यशोदा निज-गेहम् एव गत्वा गृह-कृति-कलनात् गृह-कार्य-सम्पादनात् कालं समयं निनाय । इदानीं वृषरविजा-चरितानि श्री-राधिका-चरितानि स्मरामि इति ॥११३॥

विश्वास-प्रस्तुतिः

यद्-अवधि हरिर् एति मातृ-पार्श्वं
तद्-अवधि सा च पराश् च जाल-रन्ध्रात् ।
हरिम् अवकलयन्ति यत्र सर्वा
मुहुर् अपि मोहम् अयन्ति संहरन्ति ॥११४॥

मूलम्

यद्-अवधि हरिर् एति मातृ-पार्श्वं
तद्-अवधि सा च पराश् च जाल-रन्ध्रात् ।
हरिम् अवकलयन्ति यत्र सर्वा
मुहुर् अपि मोहम् अयन्ति संहरन्ति ॥११४॥

यद्-अवधि यद् आरभ्य हरिः श्री-कृष्णः मातृ-पार्श्वं जननी-समीपं एति गच्छति, तद्-अवधि तद् आरभ्य सा राधा परा अन्याश् च प्रेयस्यः जाल-रन्ध्रात् गवाक्ष-छिद्रात् हरिं श्री-कृष्णं अवकलयन्ति पश्यन्ति । यत्र दर्शने सर्वाः प्रेयस्यः मुहुः वारं वारं मोहं अयन्ति गच्छन्ति संहरन्ति अपसारयन्ति च ॥११४॥

विश्वास-प्रस्तुतिः

यद् अनुपदम् इयं तद् आर्य-पत्न्यां
दयित-कृते विनिधाय दिव्यम् अन्नम् ।
सुखम् अनुभवति स्म तत् तु मां च
क्षिपति सुधा-जलधाव् अहो क्व यामि ॥११५॥

मूलम्

यद् अनुपदम् इयं तद् आर्य-पत्न्यां
दयित-कृते विनिधाय दिव्यम् अन्नम् ।
सुखम् अनुभवति स्म तत् तु मां च
क्षिपति सुधा-जलधाव् अहो क्व यामि ॥११५॥

इयं श्री-राधा आर्य-पत्न्यां यशोदायां अनुपदं दयित-कृते प्रियार्थं दिव्यं अन्नं विनिधाय सुखं अनुभवति स्म, तत् तत्-कृत्यं सुधा-जलधौ मां क्षिपति । अहो ! क्व यामि गच्छामि ? इति ॥११५॥

विश्वास-प्रस्तुतिः

तद्-अशनम् अनु यद् विहास-जल्पं
हरि-कृतम् अन्वधित स्व-कर्ण-युग्मम् ।
स्मित-नयन-युगं तथा निजालीः
प्रति तद् इदं मम चित्तम् आवृणोति ॥११६॥

मूलम्

तद्-अशनम् अनु यद् विहास-जल्पं
हरि-कृतम् अन्वधित स्व-कर्ण-युग्मम् ।
स्मित-नयन-युगं तथा निजालीः
प्रति तद् इदं मम चित्तम् आवृणोति ॥११६॥

तद् अशनम् अनु तत्-तद्-द्रव्य-भोजने स्व-कर्ण-युग्मं हरि-कृतं श्री-कृष्ण-कृतं विहास-जल्पं हास्य-रचनं यद् अन्वधित, तथा निजालीः प्रति निज-सखीः प्रति स्मित-नयन-युगं ईषद्-हास्य-युक्त-लोचनं इदं मम चित्तम् आवृणोति ॥११६॥

विश्वास-प्रस्तुतिः

हरिर् अहह तदा वनं प्रयातुं
निज-तनुम् आस्तृत दिव्य-वस्त्र-लक्ष्म्या ।
इयम् असहन-मानसा सपत्न्याम्
इव निदधे स-कटाक्षम् अक्षि तस्याम् ॥११७॥

मूलम्

हरिर् अहह तदा वनं प्रयातुं
निज-तनुम् आस्तृत दिव्य-वस्त्र-लक्ष्म्या ।
इयम् असहन-मानसा सपत्न्याम्
इव निदधे स-कटाक्षम् अक्षि तस्याम् ॥११७॥

अहह ! हरिः श्री-कृष्णः वनं प्रयातुं दिव्य-वस्त्र-लक्ष्म्या दिव्य-वस्त्र-शोभया निज-तनुं निज-शरीरं आस्तृत आच्छादितवान् । इयं असहन-मानसा असहिष्णुः सती तस्यां दिव्य-वस्त्र-लक्ष्म्यां सपत्न्याम् इव स-कटाक्षं अक्षि निदधे ॥११७॥

विश्वास-प्रस्तुतिः

स विपिन-गतये यदाप्य् उदस्थाद्
अधित धृतिं नहि तर्हि खञ्जनाक्षी ।
वपुर् इव जहता स्व-चेतसा तं
प्रसजति सा स्म वनाय निर्गमाय ॥११८॥

मूलम्

स विपिन-गतये यदाप्य् उदस्थाद्
अधित धृतिं नहि तर्हि खञ्जनाक्षी ।
वपुर् इव जहता स्व-चेतसा तं
प्रसजति सा स्म वनाय निर्गमाय ॥११८॥

स श्री-कृष्णः विपिन-गतये वन-गमनाय यदा अपि उदस्थात्, तर्हि खञ्जनाक्षी श्री-राधा धृतिं धैर्यं न हि अधित धृतवति । सा वपुः शरीरं जहता इव परिज्यजता इव स्व-चेतसा निजान्तः-करणेन वनाय निर्गमाय प्रसजति स्म ॥११८॥

विश्वास-प्रस्तुतिः

सरसिज-दृग् अथाङ्गनेऽवतीर्णः
स्मितम् अमृतं विचकार यर्हि दिक्षु ।
इयम् अतुल-रुचिः सखीषु गुप्ता
स्व-नयनम् अञ्जलिम् आचचार तर्हि ॥११९॥

मूलम्

सरसिज-दृग् अथाङ्गनेऽवतीर्णः
स्मितम् अमृतं विचकार यर्हि दिक्षु ।
इयम् अतुल-रुचिः सखीषु गुप्ता
स्व-नयनम् अञ्जलिम् आचचार तर्हि ॥११९॥

अथ सरसिज-दृग् पुण्ड्रीकाक्षः श्री-कृष्णः यर्हि यदा अङ्गने चत्वरे अवतीर्णः सन् दिक्षु स्मितं ईषद् हास्यं अमृतं विचकार विचिक्षेप । अतुल-रुचिः अनुपम-कान्तिः इयं श्री-राधा तर्हि तदा स्व-नयनं अञ्जलिं पात्रं आचचार प्रसारयामास ॥११९॥

विश्वास-प्रस्तुतिः

मुरजिति निरिते वरावरोधाद्
गुरु-वनितासु निवृत्य चागतासु ।
इयम् अथ ललितादिभिः स्व-गेहं
प्रति गमितागमयत् क्लमेन कालम् ॥१२०॥

मूलम्

मुरजिति निरिते वरावरोधाद्
गुरु-वनितासु निवृत्य चागतासु ।
इयम् अथ ललितादिभिः स्व-गेहं
प्रति गमितागमयत् क्लमेन कालम् ॥१२०॥

मुरजिति श्री-कृष्णे वरावरोधात् अन्तःपुर-वरात् निरिते निर्गते सति गुरु-वनितासु गुर्व्-अङ्गनासु च निवृत्य आगतासु, अथ इयं श्री-राधा ललितादिभिः सखीभिः स्व-गेहं स्व-मन्दिरं प्रति गमिता प्रापिता, क्लमेन विरह-श्रमेण कालं अगमयत् अयापयत् इति ॥१२०॥

*फ़्रोम् हेरे लोओकिन्ग् अत् PD एदितिओन्

विश्वास-प्रस्तुतिः

प्रथमम् अजितम् ईक्षते गवाक्षात्
तद्-अनु च वर्णयति प्रियाभिर् एषा ।
इह मुहुर् अपि तर्ष-धर्षम् अस्याः
पुरु दधद् अक्षि-युगं न शान्तिम् एति ॥१२१॥

मूलम्

प्रथमम् अजितम् ईक्षते गवाक्षात्
तद्-अनु च वर्णयति प्रियाभिर् एषा ।
इह मुहुर् अपि तर्ष-धर्षम् अस्याः
पुरु दधद् अक्षि-युगं न शान्तिम् एति ॥१२१॥

एषा श्री-राधा गवाक्षात् प्रथमं अजितं श्री-कृष्णः ईक्षते पश्यति । इह मुहुः वारं वारं पुरु अधिकं तर्ष-धर्षं तृष्णा-चाञ्चल्यं दधत् धारयत् अक्षि-युगं नयन-युगलं न शान्तिं एति इति ॥१२१॥

विश्वास-प्रस्तुतिः

सृजति हरि-कृते स-हार-माल्याद्य्
अतुलम् इयं निज-सङ्गिनी-सहाया ।
हरि-गुण-गण-गानम् अप्य् अपूर्वं
मृदु विदधाति तथापि नैति शान्तिम् ॥१२२॥

मूलम्

सृजति हरि-कृते स-हार-माल्याद्य्
अतुलम् इयं निज-सङ्गिनी-सहाया ।
हरि-गुण-गण-गानम् अप्य् अपूर्वं
मृदु विदधाति तथापि नैति शान्तिम् ॥१२२॥

इयं श्री-राधा निज-सङ्गिनी-सहाया निज-सहचरी-सहिता सती हरि-कृते श्री-कृष्णार्थं हार-माल्यादि हार-सहित-माल्यादि सृजति रचयति । अपूर्वं आश्चर्यं हरि-गुण-गानम् अपि कृष्ण-लीला-गानम् अपि मृदु कोमलं विदधाति गायति, तथापि शान्तिं सुस्थतां न एति प्राप्नोति ॥१२२॥

विश्वास-प्रस्तुतिः

मृगमद-तिलका सु163नील-रत्न-
श्रुति-युगलाभरणा घनाभ-वस्त्रा ।
हरि-वसन-सनाभि-कान्तिर् एषा
स्वक-रति-दीपनतां स्वयं जगाम ॥१२३॥

मूलम्

मृगमद-तिलका सु163नील-रत्न-
श्रुति-युगलाभरणा घनाभ-वस्त्रा ।
हरि-वसन-सनाभि-कान्तिर् एषा
स्वक-रति-दीपनतां स्वयं जगाम ॥१२३॥

मृगमद-तिलका कस्तुरी-तिलक-शोभिता सुनील-रत्न-श्रुति-युगलाभरणा सुन्दर-नील-मणि-निर्मित-कर्ण-द्वयालङ्कार-विशिष्टा घनाभ-वस्त्रा मेघ-वर्ण-वसनाच्छादिता हरि-वसन-सनाभि-कान्तिः कृष्ण-वस्त्र-तुला-दीप्तिः एषा स्वयं स्वक-रति-दीपनतां निजानुराग-प्रोद्भासिततां जगाम गतवतीति ॥१२३॥

विश्वास-प्रस्तुतिः

जगुर् इह हरि-रागि राधिकायाश्
चरितम् अनूतनम् आलयः प्रसज्य ।
स्वयम् इयम् अपि तत्र तासु कस्याश्-
चिद् अपि जगाव् अनुरागि-पूर्व-रागम् ॥१२४॥164

मूलम्

जगुर् इह हरि-रागि राधिकायाश्
चरितम् अनूतनम् आलयः प्रसज्य ।
स्वयम् इयम् अपि तत्र तासु कस्याश्-
चिद् अपि जगाव् अनुरागि-पूर्व-रागम् ॥१२४॥164

न व्याख्यातम्।

विश्वास-प्रस्तुतिः

मुरजिति जननी-गृहात् प्रयाते
वनम् अनु वर्ष-वरान् सुसख्य-दिग्धान् ।
अवसरम् अनु वेष-भङ्गि-भाषा-
दिषु वधु-पुंस्-तुलितान् दिदेश सुभ्रूः ॥१२५॥

मूलम्

मुरजिति जननी-गृहात् प्रयाते
वनम् अनु वर्ष-वरान् सुसख्य-दिग्धान् ।
अवसरम् अनु वेष-भङ्गि-भाषा-
दिषु वधु-पुंस्-तुलितान् दिदेश सुभ्रूः ॥१२५॥

मुरजिति श्री-कृष्णे जननी-गृहात् मातृ-गेहात् वनम् अनु प्रयाते सति, सुभ्रूः श्री-राधा अवसरम् अनु अवसरं प्राप्य सुसख्य-दिग्धान् मित्रता-युक्तान् वर्ष-वरान् वेष-भाङ्गि-भाषादिषु विषये वधू-पुंस्-तुलितान् स्त्री-पुरुष-सदृशान् नपुंसकान् दिदेश ॥१२५॥

विश्वास-प्रस्तुतिः

“प्रतिनिधि-तनवः स्थ यूयम् अस्मा-
कम् इति निज-प्रभुना समं प्रयात ।
प्रभुम् अपि तम् उपेत्य मद्-विधार्हं
परिचरणं कुरुत व्यतिप्रसज्य ॥१२६॥

मूलम्

“प्रतिनिधि-तनवः स्थ यूयम् अस्मा-
कम् इति निज-प्रभुना समं प्रयात ।
प्रभुम् अपि तम् उपेत्य मद्-विधार्हं
परिचरणं कुरुत व्यतिप्रसज्य ॥१२६॥

यूयं अस्माकं प्रतिनिधि-तनवः प्रतिनिधि-स्वरूपाः स्थः इति हेतोः निज-प्रभूना निज-स्वामिना समं प्रयात । तं प्रभुं श्री-कृष्णं उपेत्य गत्वा व्यतिप्रसज्य मद्-विधार्हं मादृश-कर्तव्यं परिचर्यां कुरुत इति ॥१२६॥

विश्वास-प्रस्तुतिः

“मुहुर् अथ च भवादृग् एक एकः
सुचरितम् अस्य निरीक्ष्य नः समेतु ।”
इति तद्-अनुमतः स सक्रमात् तं
मुहुर् अनुभूय जगाद ताम् उपेत्य ॥१२७॥

मूलम्

“मुहुर् अथ च भवादृग् एक एकः
सुचरितम् अस्य निरीक्ष्य नः समेतु ।”
इति तद्-अनुमतः स सक्रमात् तं
मुहुर् अनुभूय जगाद ताम् उपेत्य ॥१२७॥

अथ च भवादृग् एक एक मुहुः वारं वारं अस्य मम वल्लभस्य सुचरितं निरीक्ष्य नः अस्माकं समीपे समेतु समागच्छतु । इति एवं-प्रकारेण तद्-अनुमतः राधिकया अनुमतः स स-क्रमात् तं श्री-कृष्णं अनुभूय तां श्री-राधां उपेत्य प्रत्यागत्य जगाद कथितवान् इति ॥१२७॥

विश्वास-प्रस्तुतिः

अथ हरिर् अगमत् पितुः सभायां
दिविज-गण-स्तुत-भाव-भावितायाम् ।
पशुपति-परिपूज्य-पाशुपत्य-
व्रज-जन-भास्कर-भासिताम्बरायाम् ॥१२८॥

मूलम्

अथ हरिर् अगमत् पितुः सभायां
दिविज-गण-स्तुत-भाव-भावितायाम् ।
पशुपति-परिपूज्य-पाशुपत्य-
व्रज-जन-भास्कर-भासिताम्बरायाम् ॥१२८॥

हरिः श्रि-कृष्णः पितुः दिविज-गण-स्तुत-भाव-भावितायां दिविज-गनैः स्तुतः यो भावः, तेन भावितायां संयुक्तायां पशुपति-परिपूज्य-पाशु-पत्य-व्रज-जन-भास्कर-भासिताम्बरायां, पशुपतिना महादेवेन परिपूज्यः पाशुपत्य-व्रज-जनः पशु-पाल-समूह-स्वरूपः व्रज-वासि-लोकः, स एव भास्करः सूर्यः, तेन भासितं अम्बरं आकाशो यस्यां सभायां अगमत् गतवान् इति ॥१२८॥

विश्वास-प्रस्तुतिः

द्विज-कलकल-पोष-वेद-घोष-
प्रकरज-मङ्गल-सङ्गतिं व्रजन्त्याम् ।
दिशि दिशि कवि-सूत-मागधादि-
प्रकर-रव-स्तव-विस्तरं भजन्त्याम् ॥१२९॥

मूलम्

द्विज-कलकल-पोष-वेद-घोष-
प्रकरज-मङ्गल-सङ्गतिं व्रजन्त्याम् ।
दिशि दिशि कवि-सूत-मागधादि-
प्रकर-रव-स्तव-विस्तरं भजन्त्याम् ॥१२९॥

द्विज-कलकल-पोष-वेद-घोष-प्रकरज-मङ्गल-सङ्गतिं ब्राह्मणानां कलकल-ध्वनिना पुष्टिं प्राप्तं यत् वेद-घोष-प्रकरं, तस्मात् जाता या मङ्गल-सङ्गतिः, तां व्रजन्त्यां, दिशि दिशि कवि-सूत-मागधादि-प्रकर-रव-स्तव-विस्तरं कव्य्-आदि-समूहानां स्तव-विस्तरं स्तुति-बाहुल्यं भजन्त्यां गच्छन्त्यां, पूर्वेणान्वयः ॥१२९॥

विश्वास-प्रस्तुतिः

भरत-विवृत-गीत-वाद्य-नृत्य-
प्रचय-भिदादि-विदां मुदां165 धरण्याम् ।
निज-पितृ-कुल-मातृ-वंश-तत्-तद्-
विवहन-पुण्य-युजां प्रमोद-खन्याम् ॥१३०॥

मूलम्

भरत-विवृत-गीत-वाद्य-नृत्य-
प्रचय-भिदादि-विदां मुदां165 धरण्याम् ।
निज-पितृ-कुल-मातृ-वंश-तत्-तद्-
विवहन-पुण्य-युजां प्रमोद-खन्याम् ॥१३०॥

भरत-विवृत-गीत-वाद्य-नृत्य-प्रचय-भिदादि-विदां, भरत-मुनि-प्रचारित-गीत-वाद्य-नृत्य-समूह-भेदाद्य्-अभिज्ञानां मुदां हर्षानां धरण्यां धारणवत्यां निज-पितृ-कुल-मातृ-वंश-तत्-तद्-विवहन-पुण्य-युजां प्रमोद-खन्यां आह्लादाकर-स्वरूपायां ॥१३०॥

विश्वास-प्रस्तुतिः

बल166-सखि-सहितः स सर्व-चक्षुस्-
ततिषु ववर्ष सुधाम् इवाङ्ग-कान्तिम् ।
जय-जय-जय-कार-वार-सारः
समजनि येन तदानशे जगच् च ॥१३१॥

मूलम्

बल166-सखि-सहितः स सर्व-चक्षुस्-
ततिषु ववर्ष सुधाम् इवाङ्ग-कान्तिम् ।
जय-जय-जय-कार-वार-सारः
समजनि येन तदानशे जगच् च ॥१३१॥

[चतुर्भिः]

बल-सखि-सहितः बलदेव-मित्र-परिवेष्टितः स श्री-कृष्णः सर्व-चक्षुस्-ततिषु सर्व-लोक-लोचनेषु सुधाम् इव अङ्ग-कान्तिं अवयव-लावण्यं ववर्ष । तदा जय-जय-कार-वार-सारः जय-जय-ध्वनि-समूहः समजनि, येन जय-ध्वनिना जगत् व्यानशे व्याप्तम् इति ॥१३१॥

विश्वास-प्रस्तुतिः

अपि वर-गुरवस् तम् आशु दृष्ट्वा
निज-निज-पीठ-वराद् उपेतवन्तः ।
जल-निधिम् इव रागिता-नदी तान्
प्रसभम् अमुं वहतीति तच् च युक्तम् ॥१३२॥

मूलम्

अपि वर-गुरवस् तम् आशु दृष्ट्वा
निज-निज-पीठ-वराद् उपेतवन्तः ।
जल-निधिम् इव रागिता-नदी तान्
प्रसभम् अमुं वहतीति तच् च युक्तम् ॥१३२॥

वर-गुरवः पित्र्-आदयः तं श्री-कृष्णं दृष्ट्वा आशु झटिति निज-निज-पीठ-वरात् निज-निज-सिंहासनात् उपेतवन्तः, उत्थाय मिलितवन्तः । रागिता-नदी अनुरक्ति-तरङ्गिनी जल-निधिम् इव समुद्रम् इव अमुं श्री-कृष्णं प्रसभं वर-गुरून् बलात् वहति, तच् च युक्तम् इति ॥१३२॥

विश्वास-प्रस्तुतिः

क्रमम् अनु स गुरून् वरान् अनंसीद्
युगपद् अथ प्रणनाम कांश्चिद् अन्यान् ।
समगमद् अपरान् नतान् भुजाभ्यां
कर-कमलेन तथा दृशा परांस् तु ॥१३३॥

मूलम्

क्रमम् अनु स गुरून् वरान् अनंसीद्
युगपद् अथ प्रणनाम कांश्चिद् अन्यान् ।
समगमद् अपरान् नतान् भुजाभ्यां
कर-कमलेन तथा दृशा परांस् तु ॥१३३॥

स श्री-कृष्णः क्रमम् अनु क्रमशः वरान् गुरून् पित्र्-आदीन् अनंसीत् प्रणनाम, अथ युगपत् अन्यान् कांश्चित् गुरून् युगपत् समं प्रणनाम । अपरान् नतान् नमस्कुर्वतः भुजाभ्यां समगमत् । तथा परान् अन्यान् जनान् कर-कमलेन हस्त-पद्मेन दृशा च नयन-चालनेन समगमत् इति ॥१३३॥

विश्वास-प्रस्तुतिः

व्रजम् अनु परमावरादि-भेदाद्
अवरतया यद् अपि स्फुरन्ति लोकाः ।
तदपि विधिर् अजल्पद् अत्र मित्रं
पदम् इति हार्दम् अमुष्य वक्ति सुष्ठु167 ॥१३४॥

मूलम्

व्रजम् अनु परमावरादि-भेदाद्
अवरतया यद् अपि स्फुरन्ति लोकाः ।
तदपि विधिर् अजल्पद् अत्र मित्रं
पदम् इति हार्दम् अमुष्य वक्ति सुष्ठु167 ॥१३४॥

यद् अपि व्रजम् अनु व्रजे परमावरादि-भेदात् श्रेष्ठाश्रेष्ठादि-वैचित्र्यात् लोकाः जनाः अवरतया अश्रेष्ठतया स्फुरन्ति, तद् अपि विधिः ब्रह्मा अत्र लोक-विषये मित्रं पदं अजल्पत् अकथयत् । इति हेतोः अमुष्य श्री-कृष्णस्य हार्दं सुष्ठु वक्ति कथयति ॥१३४॥

विश्वास-प्रस्तुतिः

हरिर् असित-मणि-प्रवेक-मूर्तिर्
लसति बलः पृथु-पूर्ति-हीर-मूर्तिः ।
निज-निधिर् इति पुण्य-जात-लब्धः
स्वयम् इति स-क्रमम् आकलि व्रजेन ॥१३५॥

मूलम्

हरिर् असित-मणि-प्रवेक-मूर्तिर्
लसति बलः पृथु-पूर्ति-हीर-मूर्तिः ।
निज-निधिर् इति पुण्य-जात-लब्धः
स्वयम् इति स-क्रमम् आकलि व्रजेन ॥१३५॥

हरिः श्री-कृष्णः असित-मणि-प्रवेक-मूर्तिः इन्द्र-नील-सदृश-मूर्तिः लसति बलः बलदेवः पृथु-वीर-मूर्तिः प्रकृष्ट-हीर-सदृश-मूर्तिर् लसति । निज-निधिर् इति स्वयं पुण्य-जात-लब्धः इति व्रजे स स-क्रमम् आकलि दृष्टः ॥१३५॥

विश्वास-प्रस्तुतिः

व्रज-नृपतिर् अथ स्व-बाष्प-नीर-
स्थगित-गलः क्षमते स्म नापि वक्तुम् ।
तदपि हरिर् अवेत्य तस्य हृद्यं
स्मित-नयनाम्बु-वृताम् उवाच वाचम् ॥१३६॥

मूलम्

व्रज-नृपतिर् अथ स्व-बाष्प-नीर-
स्थगित-गलः क्षमते स्म नापि वक्तुम् ।
तदपि हरिर् अवेत्य तस्य हृद्यं
स्मित-नयनाम्बु-वृताम् उवाच वाचम् ॥१३६॥

अथ स्व-बाष्प-नीर-स्थगित-गलः स्व-बाष्प-नीरेण स्थगितः गलः वाक्-शक्तिर् यस्य तथा-भूतः व्रज-नृपतिः गोप-राजः वक्तुं न क्षमते स्म । तद् अपि तस्य पितुर् हृद्यं हृद्-गत-भावं अवेत्य ज्ञात्वा स्मित-नयनाम्बु-वृतां ईषद्-धास्य-सहित-नयन-वारि-युक्तां वाचां वाणीं उवाच इति ॥१३६॥

विश्वास-प्रस्तुतिः

“अयि पितृ-चरणा न चास्ति किञ्चिद्
व्रज-विपिने भयदं पुरावद् अत्र ।
स्वयम् अपि धवला वनाद् उपेयुस्
तदपि वयं खलु खेलितुं व्रजामः ॥“१३७॥

मूलम्

“अयि पितृ-चरणा न चास्ति किञ्चिद्
व्रज-विपिने भयदं पुरावद् अत्र ।
स्वयम् अपि धवला वनाद् उपेयुस्
तदपि वयं खलु खेलितुं व्रजामः ॥“१३७॥

अयि पितृ-चरणाः ! पुरावत् अत्र व्रज-विपिने व्रज-वने किञ्चित् भयदं भय-कारणं न अस्ति । धवला धेनवः स्वयं वनात् उपेयुः समागच्छन्ति । तथापि वयं खेलितुं क्रीडितुं वने व्रजाम इति ॥१३७॥

विश्वास-प्रस्तुतिः

तम् अवदद् उपनन्द-मुख्य-वृन्दं
“व्रज-सदसाम् असवः पिता तवायम् ।
त्वम् असि तद्-असवस् तद् अत्र वाच्यं
किम् इव भवेन् निखिलं त्वम् एव वेत्सि” ॥१३८॥

मूलम्

तम् अवदद् उपनन्द-मुख्य-वृन्दं
“व्रज-सदसाम् असवः पिता तवायम् ।
त्वम् असि तद्-असवस् तद् अत्र वाच्यं
किम् इव भवेन् निखिलं त्वम् एव वेत्सि” ॥१३८॥

उपनन्द-मुख्य-वृन्दं उपनन्द-प्रभृतयः तं श्री-कृष्णं अवदत् यथा, “हे कृष्ण ! अयं तव पिता व्रज-सदासां व्रज-वासिनां असवः प्राणाः । त्वं तद्-असवः, तस्य तव पितुः असवः प्राणाः । तस्मात् अत्र विषये किम् इव वाच्यं भवेत् कथनीयं भवेत् ? त्वं निखिलं समस्तम् एव वेत्सि जानासि इति ॥१३८॥

विश्वास-प्रस्तुतिः

व्रज-पतिर् अथ याचकान् समीक्ष्य
स्व-सुत-सुखाय पुनर् ददे बहूनि ।
व्रज-पति-सुतम् अण्व् अमी यद् आशीस्-
ततिम् अददुर् न स तत्र साम्यम् आप ॥१३९॥

मूलम्

व्रज-पतिर् अथ याचकान् समीक्ष्य
स्व-सुत-सुखाय पुनर् ददे बहूनि ।
व्रज-पति-सुतम् अण्व् अमी यद् आशीस्-
ततिम् अददुर् न स तत्र साम्यम् आप ॥१३९॥

व्रज-पतिः श्रीमान् गोप-राजः याचकान् समीक्ष्य स्व-सुत-सुखाय निज-तनय सुखाय बहूनि दनानि पुनर् ददे दत्तवान् । ते याचकाः व्रज-पति-सुतम् अनु अमी यद् आसीस्-ततिं अपरिमिताशीर्वाद-राशिं अददुः, तथापि स श्री-कृष्णः आशीर्वाद-विषये साम्यं परिच्छेदं न प्राप इति ॥१३९॥

विश्वास-प्रस्तुतिः

अथ वन-गतयेऽञ्जलिं दधाने
मुरजिति तद्-गति-तर्षं ऊहमानाः ।
श्रुति-भणित-शुभान् द्विजान् अनु प्राग्
गति तम् अमी धवलान्तिकाय निन्युः ॥१४०॥

मूलम्

अथ वन-गतयेऽञ्जलिं दधाने
मुरजिति तद्-गति-तर्षं ऊहमानाः ।
श्रुति-भणित-शुभान् द्विजान् अनु प्राग्
गति तम् अमी धवलान्तिकाय निन्युः ॥१४०॥

अथ वन-गतये वन-गमनार्थं मुरजिति शृइ-कृष्णे अञ्जलिं दधाने सति तद्-गति-तर्षं वन-गमनौत्सुक्यं ऊहमाना, अर्थात् अवगत्य, श्रुति-भणित-शुभान् वेद-ध्वनि-रूप-मङ्गलानुष्ठायिनः द्विजान् ब्राह्मणान् अनु-प्राग्-गति अमी गोप-मुख्या तं श्री-कृष्णं धवलान्तिकाय धेनु-समीपाय निन्युः इति ॥१४०॥

विश्वास-प्रस्तुतिः

स्वयम् असविधतः समीक्ष्य गावः168
न ययुर् अमी प्रययुस् तु कृष्ण-मुख्याः ।
रभस-वशम् अमूर् अमूंस् तु वीक्ष्या-
त्मज-सदृशानु समं समं प्रणेदुः ॥१४१॥

मूलम्

स्वयम् असविधतः समीक्ष्य गावः168
न ययुर् अमी प्रययुस् तु कृष्ण-मुख्याः ।
रभस-वशम् अमूर् अमूंस् तु वीक्ष्या-
त्मज-सदृशानु समं समं प्रणेदुः ॥१४१॥

गावः धेनवः असविधतः दूरतः समीक्ष्य दृष्ट्वा स्वयं न ययुः, अमी कृष्ण-मुख्यास् तु कृष्ण-प्रभृतयस् तु प्रययुः गतवन्तः । अमूः गावस् तु आत्मज-सदृशान् पुत्र-तुल्यान् अमून् कृष्ण-मुख्यान् वीक्ष्य समं प्रणेदुः इति ॥१४१॥

विश्वास-प्रस्तुतिः

अथ जिहि-जिहि-कारतः समस्ता
विदधुर् अमी धवला वनाय नुन्नाः ।
हरि-सुरभिम् अमूस् तु विन्दमाना
हरिम् अनुगम्य मुहुर् निवृत्तिम् आपुः ॥१४२॥

मूलम्

अथ जिहि-जिहि-कारतः समस्ता
विदधुर् अमी धवला वनाय नुन्नाः ।
हरि-सुरभिम् अमूस् तु विन्दमाना
हरिम् अनुगम्य मुहुर् निवृत्तिम् आपुः ॥१४२॥

अथ जिहि-जिहि-कारतः, जिहि-जिहिर् इति मथुरा-देशे गोचालन-शब्दः, अमी कृष्णादयः समस्ता धवला धेनूः वनाय नुन्नाः चालिता विदधुः कृतवन्तः । अमूः धेनवस् तु हरि-सुरभिं कृष्ण-गात्र-सौरभ्यं विन्दमाना लभमाना सत्यः हरिम् अनुगम्य हरिं अनुसृत्य मुहुः वारं वारं निवृत्तिम् आपुः प्राप्तवत्य इति ॥१४२॥

विश्वास-प्रस्तुतिः

तद् अपि गुरु-गणे स्थिते हरिस् तु
विगत-मनः-स्थिति-सूचनां चकार ।
हरि-मतिम् अवबुध्य बाष्प-कण्ठः
स च कथम् अप्य् अपसर्यणं बभाज ॥१४३॥

मूलम्

तद् अपि गुरु-गणे स्थिते हरिस् तु
विगत-मनः-स्थिति-सूचनां चकार ।
हरि-मतिम् अवबुध्य बाष्प-कण्ठः
स च कथम् अप्य् अपसर्यणं बभाज ॥१४३॥

तद् अपि तथापि गुरु-गणे पित्र्-आदौ स्थिते हरिस् तु श्री-कृष्णस् तु विगत-मनः-स्थिति-सूचनां मनः-स्थैर्य-हानि-सूचनं चकार । तदा हरि-मतिं शृइ-कृष्णस्य अभिप्रायं अवबुध्य ज्ञात्वा स गुरु-गणः बाष्प-कण्थः सन् कथम् अपि कष्टेन अपसरनं प्रत्यावर्तनं बभाज कृतवान् इति ॥१४३॥

विश्वास-प्रस्तुतिः

वचन-वदन-मार्जनानुशिक्षाद्य्-
अनुगतिम् उज्जहद् अप्य् अमुष्य तातः ।
अमुम् अनु नयनानुवृत्ति-चर्यां
न तु शिथिलाम् इव कर्तुम् ईशितासीत् ॥१४४॥

मूलम्

वचन-वदन-मार्जनानुशिक्षाद्य्-
अनुगतिम् उज्जहद् अप्य् अमुष्य तातः ।
अमुम् अनु नयनानुवृत्ति-चर्यां
न तु शिथिलाम् इव कर्तुम् ईशितासीत् ॥१४४॥

वचन-वदन-मार्जनानुशिक्षाद्य्-अनुगतिं मधुर-वाक्य-मुख-मार्जनोपदेश-शब्दम् आनुगत्यं उज्जहत् परित्यजन् अमुष्य श्री-कृष्णस्य तातः श्रीमान् नन्दः अमूं श्री-कृष्णम् अनु नयनानुवृत्ति-चर्यां दृष्टि-पात-रूप-परिचर्यां शिथिलाम् इव कर्तुं ईशिता न तु आसीत् इति ॥१४४॥

विश्वास-प्रस्तुतिः

कथम् अपि विनिवृत्य सद्म याति
व्रज-धरणीशितरि व्रजे च कृत्स्ने ।
हरिम् अनु विनिवृत्य दृष्टिर् अस्मान्
न विघटितुं घटते स्म तस्य तस्य ॥१४५॥

मूलम्

कथम् अपि विनिवृत्य सद्म याति
व्रज-धरणीशितरि व्रजे च कृत्स्ने ।
हरिम् अनु विनिवृत्य दृष्टिर् अस्मान्
न विघटितुं घटते स्म तस्य तस्य ॥१४५॥

व्रज-धरणीशितरि श्री-नन्दे कृत्स्ने व्रजे व्रज-वासि-लोके कथम् अपि कष्टेन सद्म गृहान् याति गच्छति सति, तस्य व्रज-धरणीशीतुः तस्य व्रजस्य च दृष्टिः हरिम् अनु श्री-कृष्णं प्रति विघटितुं न घटते स्म इति ॥१४५॥

विश्वास-प्रस्तुतिः

मुरजिद् अथ विशन् वनान्तरालं
गुरु-कुल-सन्नति-कृद् विदूरतोऽपि ।
गुरुभिर् अतितरां तदाशीस्-ततिभिर्
अपुष्यत तुष्यद् अक्षि-लक्ष्मि ॥१४६॥

मूलम्

मुरजिद् अथ विशन् वनान्तरालं
गुरु-कुल-सन्नति-कृद् विदूरतोऽपि ।
गुरुभिर् अतितरां तदाशीस्-ततिभिर्
अपुष्यत तुष्यद् अक्षि-लक्ष्मि ॥१४६॥

अथ मुरजित् श्री-कृष्णः वनान्तरालं काननाभ्यन्तरं विशन् प्रविशन्, विदूरतोऽपि दूर-देशतोऽपि गुरु-कुल-सन्नति-कृत् गुरु-समूहानां सम्बन्धे प्रणाम-कृत् बभूव । तदा गुरुभिः पित्र्-आदिभिः कर्तृभिः आशीस्-ततिभिः आशीर्वाद-श्रेणीभिः पित्र्-आदिभ्य तुष्यन्ती अक्षि-लक्ष्मी नयन-लक्श्मी यस्या क्रियायां सदा अपुष्यत इति ॥१४६॥

विश्वास-प्रस्तुतिः

अथ हरिर् अटवीम् अटन् सुहृद्भिः
सहज-वरेण च गाः स्थिरी-विभाव्य ।
अभिरुचित-पथ-प्रयाण-युक्ताः
समवलयन् मृदु-गान-रीति-हूति ॥१४७॥

मूलम्

अथ हरिर् अटवीम् अटन् सुहृद्भिः
सहज-वरेण च गाः स्थिरी-विभाव्य ।
अभिरुचित-पथ-प्रयाण-युक्ताः
समवलयन् मृदु-गान-रीति-हूति ॥१४७॥

हरिः सुहृद्भिः मित्र-वर्गेण सहज-वरेण बलदेवेन च सह अटवीं काननं अटन् विचरन्, गाः स्थिरी-विभाव्य स्थिरी-कृत्य अभिरुचित-पथ-प्रयाण-युक्ता अभीष्ट-मार्ग-गमनोत्सुकास् ता मृदु-गान-रीति-हूति, अर्थात् वंशी-गानेन आहूय समवलयत् समचालयत् इति ॥१४७॥

विश्वास-प्रस्तुतिः

अथ वनम् अगमद् बलादि-सङ्गं
परम-सुख-प्रदम् एष मन्यमानः ।
विविध-तरु-लतासु169 कोकिलादि-
द्विज-मृग-सङ्गतिम् आविशत् परन्तु ॥१४८॥

मूलम्

अथ वनम् अगमद् बलादि-सङ्गं
परम-सुख-प्रदम् एष मन्यमानः ।
विविध-तरु-लतासु169 कोकिलादि-
द्विज-मृग-सङ्गतिम् आविशत् परन्तु ॥१४८॥

एष श्री-कृष्णः बलादि-सङ्गं बलराम-श्री-दामादि-सङ्गं परम-सुख-प्रदं परमाह्लाद-दायकं मन्यमानः गणयन् वनम् अगमत्, परन्तु विविध-तरु-लतासु नाना-जातीय-वृक्ष-लतासु कोकिलादि-द्विज-कुलज-सङ्गतिं कोकिल-प्रभृति-पक्षि-मृग-संसर्गं आविशत् ॥१४८॥

विश्वास-प्रस्तुतिः

मधुप-पिक-शिखि-प्रधान-पक्षि-
प्लव-गरुरु-प्रियकादि-जन्तु-भेदान् ।
ध्वनित-नट-कलाभिर् अन्वकुर्वन्न्
अजित-बलादि-द्वितीयुदाम् उदार-बाल्याः170 ॥१४९॥
इति बहु-विध-खेलया मुकुन्दं
सुखयति बान्धव-वृन्दम् एतम् एव ।
निज-निज-विविध-स्वभावतश् च
प्रमदयति प्रतिदिष्टम् इष्टम् इष्टम् ॥१५०॥
स्थिरतर-वर-बुद्धयः सखायः
सचिव-चरित्रतया हरिं भजन्ति ।
चपल-मति-मिलद्-विदूषकार्ह-
प्रहसन171काव्य-गिरः प्रहासयन्ति ॥१५१॥
ऋजुतम-चरित-प्रयुक्त-युक्त-
स्थिति-गति-रीति-समाः सभाजयन्ति ।
प्रतिमुहुर् अपि वामतायमान-
स्व-चर-चित-जल्प-कला विकल्पयन्ति ॥१५२॥172 अतुल-कुलज-शील-मीलद्-उग्र-
प्रकृतिक-गीर् मृदुलाः सदार्द्रयन्ति ।
गिरि गिरि च वितण्डयातिचण्ड-
प्रभ-रचन-प्रभवो विचित्रयन्ति ॥१५३॥
इति निखिल-गणा विचित्र-तत्-तद्-
गुण-गुणित-प्रणय-प्रकर्ष-चित्ताः ।
बहु-विध-विधयः परे परे ते
सुखदम् अमुं सततं सुखाययन्ति ॥१५४॥
क्वचिद् अपि दिवसे समित्य गोवर्धनम्
इह मानससञ्ज्ञितां च गङ्गाम् ।
रवि-दुहितरम् अत्र चाह्नि लीलाः
स्थल-गलगा विदधे त्वदीय-कान्तः ॥१५५॥
क्वचन च सखीभिः समेति भाण्डीरकम्
अधियोजनम् अस्ति यः प्रसज्य ।
स्थल-वन-यमुनादि-केलिम् अस्मिन्
विविध-विधं विदधाति कृष्ण-चन्द्रः ॥१५६॥
अयि तव दयितः कलेन वेणोश्
चलयति देव-गणांस् तथा पतङ्गान् ।
इदम् अपि घटतां परन्तु चित्रं
स हि धुनुते निरसून् अचेतनांश् च ॥१५७॥
ह्वयति च धवला-जनाय यर्हि
त्वद्-अधिपतिर् मधुरेण शब्दितेन ।
जलम् अपि कर-कायमाणम् आसां
मृदु मृदु चर्वणया173 रसं बिभर्ति ॥१५८॥
निरुदक-गिरि-सानुगाः कदाचिद्
बहु-धवलाः शवलास् तृषा निरीक्ष्य ।
ध्वनयति मुरलीं पतिस् तवास्माद्
धरणि-धर-द्रवता हि ताः पिपर्ति174 ॥१५९॥
कलयति यमुनादि-सञ्ज्ञया ताः
शुषिर-कलाश्रितया स एष धेनूः ।
इह निज-निज-नाम-बुद्धि-नद्यः
किम् अयुर् अमुं किम् उ वा कलान्त-कृष्टि ॥१६०॥
क्वचन च दिवसे निदाघ-माध्याह्निक-
समये विगता वृष्टि175-प्रदेशे ।
दधद् अथ मुरलीकलं पयोदांश्
च्युत-सलिलान् विदधाति गोषु गोषु ॥१६१॥
क्वचन च दिवसे समार्द्र-चित्तः
कलयति वेणु-कलं तथा यथानु ।
द्रवति गिरि-गणे पदाङ्क-मुद्रा
जहति शिला न कदापि तत्र तेषाम् ॥१६२॥
रचयति मुरलीं कदापि नावं
सरिति पशून् पशुपांश् च तारयन् सः ।
मधुर-कलतया यदा तु तस्या
घटयति तां कठिनां कुतूहलेन ॥१६३॥
क्वचिद् अपि कवयः शिला-द्रवाद्यं
बत कवयन्ति कवि-प्रचार-वृत्त्या ।
दधति सरसतां च तत्र विज्ञा हरिम्
अनु तत् तु निजं किम् अत्र वर्ण्यम् ॥१६४॥
सखि-वृष-महिषान् मुदा युधा तान्
वलयति संवलते च तत्र तत्र ।
क्व च विजय-पराजयाव् अभीक्ष्य
प्रहसितम् अञ्चति युष्मदीय-कान्तः ॥१६५॥
क्वचन च रचनाञ्चि-वस्त्र-युग्मं
क्वच सतिरीटम्176 अकुञ्चकान्तरीयम् ।
क्वच नट-रुचि-भृत्-पटं क्वचापि
प्रवलित-मल्ल-तुलं स वष्टि वेषम् ॥१६६॥
क्वचिद् अपि विदधाति मल्ल-लीलां
क्वचिद् अपि नृत्य-कलां सुहृद्भिर् एषः ।
द्वयम् अपि भिदया मृशामि नेदं
गतिर् अतिचित्रतमा समा द्वयेऽपि ॥१६७॥

मूलम्

मधुप-पिक-शिखि-प्रधान-पक्षि-
प्लव-गरुरु-प्रियकादि-जन्तु-भेदान् ।
ध्वनित-नट-कलाभिर् अन्वकुर्वन्न्
अजित-बलादि-द्वितीयुदाम् उदार-बाल्याः170 ॥१४९॥
इति बहु-विध-खेलया मुकुन्दं
सुखयति बान्धव-वृन्दम् एतम् एव ।
निज-निज-विविध-स्वभावतश् च
प्रमदयति प्रतिदिष्टम् इष्टम् इष्टम् ॥१५०॥
स्थिरतर-वर-बुद्धयः सखायः
सचिव-चरित्रतया हरिं भजन्ति ।
चपल-मति-मिलद्-विदूषकार्ह-
प्रहसन171काव्य-गिरः प्रहासयन्ति ॥१५१॥
ऋजुतम-चरित-प्रयुक्त-युक्त-
स्थिति-गति-रीति-समाः सभाजयन्ति ।
प्रतिमुहुर् अपि वामतायमान-
स्व-चर-चित-जल्प-कला विकल्पयन्ति ॥१५२॥172 अतुल-कुलज-शील-मीलद्-उग्र-
प्रकृतिक-गीर् मृदुलाः सदार्द्रयन्ति ।
गिरि गिरि च वितण्डयातिचण्ड-
प्रभ-रचन-प्रभवो विचित्रयन्ति ॥१५३॥
इति निखिल-गणा विचित्र-तत्-तद्-
गुण-गुणित-प्रणय-प्रकर्ष-चित्ताः ।
बहु-विध-विधयः परे परे ते
सुखदम् अमुं सततं सुखाययन्ति ॥१५४॥
क्वचिद् अपि दिवसे समित्य गोवर्धनम्
इह मानससञ्ज्ञितां च गङ्गाम् ।
रवि-दुहितरम् अत्र चाह्नि लीलाः
स्थल-गलगा विदधे त्वदीय-कान्तः ॥१५५॥
क्वचन च सखीभिः समेति भाण्डीरकम्
अधियोजनम् अस्ति यः प्रसज्य ।
स्थल-वन-यमुनादि-केलिम् अस्मिन्
विविध-विधं विदधाति कृष्ण-चन्द्रः ॥१५६॥
अयि तव दयितः कलेन वेणोश्
चलयति देव-गणांस् तथा पतङ्गान् ।
इदम् अपि घटतां परन्तु चित्रं
स हि धुनुते निरसून् अचेतनांश् च ॥१५७॥
ह्वयति च धवला-जनाय यर्हि
त्वद्-अधिपतिर् मधुरेण शब्दितेन ।
जलम् अपि कर-कायमाणम् आसां
मृदु मृदु चर्वणया173 रसं बिभर्ति ॥१५८॥
निरुदक-गिरि-सानुगाः कदाचिद्
बहु-धवलाः शवलास् तृषा निरीक्ष्य ।
ध्वनयति मुरलीं पतिस् तवास्माद्
धरणि-धर-द्रवता हि ताः पिपर्ति174 ॥१५९॥
कलयति यमुनादि-सञ्ज्ञया ताः
शुषिर-कलाश्रितया स एष धेनूः ।
इह निज-निज-नाम-बुद्धि-नद्यः
किम् अयुर् अमुं किम् उ वा कलान्त-कृष्टि ॥१६०॥
क्वचन च दिवसे निदाघ-माध्याह्निक-
समये विगता वृष्टि175-प्रदेशे ।
दधद् अथ मुरलीकलं पयोदांश्
च्युत-सलिलान् विदधाति गोषु गोषु ॥१६१॥
क्वचन च दिवसे समार्द्र-चित्तः
कलयति वेणु-कलं तथा यथानु ।
द्रवति गिरि-गणे पदाङ्क-मुद्रा
जहति शिला न कदापि तत्र तेषाम् ॥१६२॥
रचयति मुरलीं कदापि नावं
सरिति पशून् पशुपांश् च तारयन् सः ।
मधुर-कलतया यदा तु तस्या
घटयति तां कठिनां कुतूहलेन ॥१६३॥
क्वचिद् अपि कवयः शिला-द्रवाद्यं
बत कवयन्ति कवि-प्रचार-वृत्त्या ।
दधति सरसतां च तत्र विज्ञा हरिम्
अनु तत् तु निजं किम् अत्र वर्ण्यम् ॥१६४॥
सखि-वृष-महिषान् मुदा युधा तान्
वलयति संवलते च तत्र तत्र ।
क्व च विजय-पराजयाव् अभीक्ष्य
प्रहसितम् अञ्चति युष्मदीय-कान्तः ॥१६५॥
क्वचन च रचनाञ्चि-वस्त्र-युग्मं
क्वच सतिरीटम्176 अकुञ्चकान्तरीयम् ।
क्वच नट-रुचि-भृत्-पटं क्वचापि
प्रवलित-मल्ल-तुलं स वष्टि वेषम् ॥१६६॥
क्वचिद् अपि विदधाति मल्ल-लीलां
क्वचिद् अपि नृत्य-कलां सुहृद्भिर् एषः ।
द्वयम् अपि भिदया मृशामि नेदं
गतिर् अतिचित्रतमा समा द्वयेऽपि ॥१६७॥

हे राधे ! तव कान्तः क्वचित् सुहृद्भिः मल्ल-क्रीडां करोतीति भावः ॥१६७॥

विश्वास-प्रस्तुतिः

हरिण-विहरणं सुतुण्ड177-युद्धं
नयन-निमीलन-शालि-नर्म-गालिः ।
इति बहु-विध-खेलनाप्त-वेलं
स्वम् अशनम् अप्य् अनिशं विसस्मरुस् ते ॥१६८॥

मूलम्

हरिण-विहरणं सुतुण्ड177-युद्धं
नयन-निमीलन-शालि-नर्म-गालिः ।
इति बहु-विध-खेलनाप्त-वेलं
स्वम् अशनम् अप्य् अनिशं विसस्मरुस् ते ॥१६८॥

हे राधे ! ते गोपाः हरिण-विहरणं लम्फ-प्रधान-क्रीडा, सुतुण्ड-युद्धं अज-मेषादीनां शिरो-युद्धं । नयन-मिलन-शालि-नर्म-गालिः । लुक् लुकुनि इति राढ-भाषा । इति बहु-विध-खेलनाप्त-वेलं स्वम् अशनं भोजनम् अपि विसस्मरुः विस्मृतवन्त इति ॥१६८॥

विश्वास-प्रस्तुतिः

अथ बहु-विहृतिं विचित्र-चर्यां
स रचितवान् सखिभिः सुखं निषण्णः ।
शयनम् अनुगतश् च वीजनाद्यैः
परिचरितः सुखम् एति तद् ददाति ॥१६९॥

मूलम्

अथ बहु-विहृतिं विचित्र-चर्यां
स रचितवान् सखिभिः सुखं निषण्णः ।
शयनम् अनुगतश् च वीजनाद्यैः
परिचरितः सुखम् एति तद् ददाति ॥१६९॥

हे राधे ! स तव कान्तः बहु-विहृतिं बहु-क्रीडां विचित्र-चर्यां विचित्र-व्यवहारं रचितवान् । ततः सखिभिः सहचरैः [सह] सुखं निषण्णः उपविष्टः ।कदा वा शयनम् अनु गतः निद्रां गतः वीजनाद्यैः परिचरितः परिसेवितः सन् सुखं एति प्राप्नोति, तत् सुखं ददाति च तेभ्य इति शेषः ॥१६९॥

विश्वास-प्रस्तुतिः

इति हरि-चरिते तु तेन तेन
श्रवसि चिते मुरली-निनाद-रम्ये ।
सपदि तद्-अवधानम् आदधाना
मुहुर् अभजन्त दशाम् अमूम् अमूश् च ॥१७०॥

मूलम्

इति हरि-चरिते तु तेन तेन
श्रवसि चिते मुरली-निनाद-रम्ये ।
सपदि तद्-अवधानम् आदधाना
मुहुर् अभजन्त दशाम् अमूम् अमूश् च ॥१७०॥

तेन तेन वर्ष-वरेण इति हरि-चरिते हरि-लीलायां श्रवसि कर्णे चिते गते, ततः मुरली-निनाद-रम्ये च श्रवसि कर्णे चिते गते सपदि झटिति तद्-अवधानं आदधाना मुरली-निनादे मनः-संयोगं कुर्वाणा अमूः कृष्ण-प्रेयस्यः मुहुः अमूं दशाम् अभजन्त इति ॥१७०॥

विश्वास-प्रस्तुतिः

अधि हरि-मुरलि-स्व-पूर्व-राग-
स्फुरण-दशा-वशा-पुरावद्-ईहः178
वृषरवि-तनया-मुखाः सुदुःखास्
तद्-अमिलनान् मुमुहुर् मुहुर् मुहुश् च ॥१७१॥

मूलम्

अधि हरि-मुरलि-स्व-पूर्व-राग-
स्फुरण-दशा-वशा-पुरावद्-ईहः178
वृषरवि-तनया-मुखाः सुदुःखास्
तद्-अमिलनान् मुमुहुर् मुहुर् मुहुश् च ॥१७१॥

अधि हरि-मुरली-स्व-पूर्व-राग-स्फुरण-दशा-वशता पुरावद् ईहाः, मुरली-निनादं श्रुत्वा ताः पूर्ववत् पूर्वराग-दशा-ग्रस्ता इति भावः । तदा वृषरवि-तनया-मुखा वृषभानु-नन्दीनी-प्रभृतयः प्रेयस्यः सुदुःखाः सत्यः तद्-अमिलनात् तस्य कन्तस्य अमिलनात् मुहुः मुहुः वारम् वारं मुमुहुर् इति ॥१७१॥

विश्वास-प्रस्तुतिः

इति सति सचिवायमान-रामा
जगदुर् “अहो कथम् अत्र विह्वलाः स्थ? ।
व्रज-नृप-गृहिणी-निदेश-वर्यं
कथम् अथ विस्मृतम् आर्तिभिः कुरुध्वे ? ॥१७२॥

मूलम्

इति सति सचिवायमान-रामा
जगदुर् “अहो कथम् अत्र विह्वलाः स्थ? ।
व्रज-नृप-गृहिणी-निदेश-वर्यं
कथम् अथ विस्मृतम् आर्तिभिः कुरुध्वे ? ॥१७२॥

इति सति सचिवायमान-रामा मन्त्रिवद् आचरमाणाः रमण्यः जगदुः ऊचुः । किं जगदुः ? “अहो ! अत्र विषये कथं विह्वलाः विवशाः स्थ भवथ ?” यूयम् इति शेषः । “व्रज-राज-गृहिणी-निदेश-वर्यं आज्ञा-श्रेष्ठं, आर्तिभिः मनो-व्यथाभिः कथं विस्मृतं कुरुध्वे?” ॥१७२॥

विश्वास-प्रस्तुतिः

अदिशत सदया हरेः प्रसूर् यद्
द्विविद-रिपोर् अपि सा विधाय युक्तिम् ।
तद् अनुसरत कान्त-राग-शान्त-
स्मृति-ततयस् तद्-उपायम् आतनुध्वम् ॥१७३॥

मूलम्

अदिशत सदया हरेः प्रसूर् यद्
द्विविद-रिपोर् अपि सा विधाय युक्तिम् ।
तद् अनुसरत कान्त-राग-शान्त-
स्मृति-ततयस् तद्-उपायम् आतनुध्वम् ॥१७३॥

सदया, दयया सह वर्तमाना दयावती इत्य् अर्थः, हरेः श्री-कृष्णस्य प्रसूः जननी श्री-यशोदा अदिशत आदिष्टवती । एवं द्विविद-रिपोर् अपि द्विविदस्य तन्-नाम-प्रसिद्ध-वानर-विशेषस्य रिपुः तस्य बलरामस्य प्रसूः माता युक्तिं विधाय कृत्वा यद् आदिशत, कान्त-राग-शान्त-स्मृति-ततयः कान्तस्य रागेण अनुरागेण शान्ताः विनष्टाः स्मृति-ततयः यासां ताः, यूयं तद् अनुसरत अनुसरणं कुरुत प्रतिपालयतेति यावत् । तद्-उपायं आतनुध्वं विरचनं कुरुत ॥१७३॥

विश्वास-प्रस्तुतिः

प्रथमम् अशनम् ईशितुः प्रभाते
स्फुटम् अपरं प्रतिभाति सार्ध-यामे ।
अवरम् अपि तुरीययामारम्भे179
परम् अथ रात्रि-मुखे व्यतीत-मात्रे ॥१७४॥

मूलम्

प्रथमम् अशनम् ईशितुः प्रभाते
स्फुटम् अपरं प्रतिभाति सार्ध-यामे ।
अवरम् अपि तुरीययामारम्भे179
परम् अथ रात्रि-मुखे व्यतीत-मात्रे ॥१७४॥

ईशितुः भर्तुः प्रथमं अशनं भोजनं प्रभाते भवति, सार्ध-यामे अपरं अशनं प्रतिभाति । तुरीय-यामारम्भे चतुर्थ-प्रहर-प्रारम्भे अवरं अपरं अशनं भवति। अथ रात्रि-मुखे प्रदोषे व्यतीत-मात्रे सति परम् अपरम् अशनं भवति ॥१७४॥

विश्वास-प्रस्तुतिः

प्रथमम् अशनम् अर्प्यते जनन्या
तद् अपरम् आव्रियते सुहृद्-गणेन ।
पितृ-मुख-गुरुभिर् व्रियेत तुर्यं
भवद्-उपयुक्तम् अतस् तृतीयम् एव ॥१७५॥

मूलम्

प्रथमम् अशनम् अर्प्यते जनन्या
तद् अपरम् आव्रियते सुहृद्-गणेन ।
पितृ-मुख-गुरुभिर् व्रियेत तुर्यं
भवद्-उपयुक्तम् अतस् तृतीयम् एव ॥१७५॥

जनन्या यशोदया प्रथमम् अशनं प्राभातिकं भोजनं अर्प्यते । तद् अपरं अर्थात् द्वितीयं सुहृद्-गणेन आव्रियते । तुर्यं चतुर्थं पितृ-मुख-गुरुभिः जनक-प्रभृति-गुरु-जनैः व्रियेत । अतः तृतीयं आपराह्निकं भोजनं भवद्-उपयुक्तं भवतीभिः समाधेयम् इति ॥१७५॥

विश्वास-प्रस्तुतिः

व्रज-तटम् अटतः मुरारि-शत्रोर्
अभिगमनं भवतीभिर् अत्र युक्तम् ।
स हि मिषम् उपधाय युष्मदीयं
परिसरम् एष्यति धास्यते च शर्म ॥१७६॥

मूलम्

व्रज-तटम् अटतः मुरारि-शत्रोर्
अभिगमनं भवतीभिर् अत्र युक्तम् ।
स हि मिषम् उपधाय युष्मदीयं
परिसरम् एष्यति धास्यते च शर्म ॥१७६॥

अत्र अस्मिन् व्रज-तटम् व्रज-प्राप्तं अटतः विचरतः मुरारि-शत्रोः श्री-कृष्णस्य अभिगमनं भवतीभिर् युक्तं कर्तव्यं । ननु सखायः सन्ति, अतः कथं तत्र गन्तव्यम् अस्माभिः ? तत्राह—स कान्तः मिषं छलं उपधाय कृत्वा युष्मदीयं परिसरं पार्श्वं एष्यति आगमिष्यति, शर्म सुखं च धास्यते करिष्यति ॥१७६॥

विश्वास-प्रस्तुतिः

त्वरितम् इह तु कान्त-भोज्य-वर्यं
कुरुत किम् अप्य् अधुना तु ताः प्रयान्ति
व्रज-नरपतिना समश्नता या
व्यधिशत दापयितुं सुताय भोज्यम्” ॥१७७॥

मूलम्

त्वरितम् इह तु कान्त-भोज्य-वर्यं
कुरुत किम् अप्य् अधुना तु ताः प्रयान्ति
व्रज-नरपतिना समश्नता या
व्यधिशत दापयितुं सुताय भोज्यम्” ॥१७७॥

इह अस्मिन् समये यूयं त्वरितं अविलम्बितं यथा स्यात् कान्त-भोज्य-वर्यं कान्ताय कृष्णाय भोजनीय-श्रेष्ठं किम् अपि कुरुत । समश्नता भोजनं कुर्वता व्रज-नरपतिना श्रीमन्-नन्देन सुताय भोज्यं दापयितुं या व्यधिषत, ता अधुना प्रायान्ति इति ॥१७७॥

विश्वास-प्रस्तुतिः

इति हरि-वनितासु सुस्थितासु
व्रज-पति-गीर्-वशतः पुरन्ध्रि-मुख्याः ।
बहु-विधम् अशनं विधाय शीर्ष्णि
प्रमद-भरं मनसि व्रजान्तम् ईयुः ॥१७८॥

मूलम्

इति हरि-वनितासु सुस्थितासु
व्रज-पति-गीर्-वशतः पुरन्ध्रि-मुख्याः ।
बहु-विधम् अशनं विधाय शीर्ष्णि
प्रमद-भरं मनसि व्रजान्तम् ईयुः ॥१७८॥

इति एवं-प्रकारेण हरि-वनितासु कृष्ण-कान्तासु सुस्थितासु स्थिर-चितासु सतीसु पुरन्ध्रि-मुख्याः प्रधान-महिलाः व्रज-पति-गीर्-वशतः गोपराज-वाक्य-वशतः बहु-विधम् अशनं शीर्ष्णि शिरसि विधाय कृत्वा मनसि प्रमद-भरं व्रजान्तं व्रज-प्रान्तम् ईयुः गतवत्य इति ॥१७८॥

विश्वास-प्रस्तुतिः

अथ निज-निज-कुल्य-बाल-सङ्घा
कुतुक-परीततयाद्रवन्न् अमूभिः ।
क्वचिद् अपि पुरतः क्वचिच् च पश्चात्
क्वचिद् अपि दक्षिण-वामतः प्रसज्य ॥१७९॥

मूलम्

अथ निज-निज-कुल्य-बाल-सङ्घा
कुतुक-परीततयाद्रवन्न् अमूभिः ।
क्वचिद् अपि पुरतः क्वचिच् च पश्चात्
क्वचिद् अपि दक्षिण-वामतः प्रसज्य ॥१७९॥

अथ निज-निज-कुल्य-बाल-सङ्घा निज-निज-वंशोद्भव-बाल-सङ्घा कुतुक-परीततया कौतुक-युक्ततया अमूभिः महिलाभिः सह क्वचिद् अपि पुरतः अग्रतः, क्वचित् पश्चात्, क्वचिद् अपि दक्षिण-वामतः प्रसज्य अद्रवन्न् इति ॥१७९॥

विश्वास-प्रस्तुतिः

वन-लसद्-अशन-प्रधान-खेला
कुतुक-कुलं बत चित्त तस्य पश्य ।
त्वम् असि किल कियन् मुनीन्द्र-वर्यान्
अपि यद् इदं निज-वन्दिनः करोति ॥१८०॥

मूलम्

वन-लसद्-अशन-प्रधान-खेला
कुतुक-कुलं बत चित्त तस्य पश्य ।
त्वम् असि किल कियन् मुनीन्द्र-वर्यान्
अपि यद् इदं निज-वन्दिनः करोति ॥१८०॥

ग्रन्थ-कर्ता तदानीन्तन-लीला-वर्णनेनाति-प्रेमाविष्टः सन्न् आह—वनेति । हे समूहं बत आश्चर्यं पश्य । त्वम् असि कियत् ? यद् इदं वन-लसद्-अशन-प्रधान-खेला-कुतुक-कुलं मुनीन्द्र-वर्यान् शुकदेवादीन् अपि निज-वन्दिनः निज-स्तव-पाठकान् करोति ॥१८०॥

विश्वास-प्रस्तुतिः

क इह बत भवन्ति ते मुनीन्द्राः
स्वयम् अपि यच्-छ्रवणेऽपि राधिका सा ।
अजितम् अपि गुणेन मोहयन्ती
मुहुर् अपि मोहम् उपैति तत्र कस् त्वम्? ॥१८१॥

मूलम्

क इह बत भवन्ति ते मुनीन्द्राः
स्वयम् अपि यच्-छ्रवणेऽपि राधिका सा ।
अजितम् अपि गुणेन मोहयन्ती
मुहुर् अपि मोहम् उपैति तत्र कस् त्वम्? ॥१८१॥

मुनीन्द्राः इह विषये के बत भवन्ति ? अजितं श्री-कृष्णं अपि गुणेन मोहयन्ती स्वयं असौ श्री-राधिका अपि यच्-छ्रवणे मुहुर् वारं वारं मोहम् उपैति, तत्र कस् त्वम् ? इति ॥१८१॥

विश्वास-प्रस्तुतिः

हरि-हरि-सुहृदः स्फुरद्-विहारा
ददृशुर् अमूर् अमुकान् अमूश् च तत्र ।
तद् अपि तद् उभय-कुलं न भोगं
प्रति विविवेच विहार-मग्न-बुद्धि ॥१८२॥

मूलम्

हरि-हरि-सुहृदः स्फुरद्-विहारा
ददृशुर् अमूर् अमुकान् अमूश् च तत्र ।
तद् अपि तद् उभय-कुलं न भोगं
प्रति विविवेच विहार-मग्न-बुद्धि ॥१८२॥

हरि-हरि-सुहृदः, हरिश् च हरि-सुहृदश् च ते कृष्ण-प्रभृतय इत्य् अर्थः, स्फुरद्-विहाराः सन्तः क्रीडा-परायणाः सन्तः, अमूः गोपीः ददृशुः । अमूश् च अमुकान् तत्र ददृशुः । तद् अपि तथापि तद् उभय-कुलं दृश्य-द्रष्टृ-रूपं विहार-मग्न-बुद्धि विहारे मग्ना बुद्धिर् यस्य तथा-भूतं सत् भोगं प्रति न विविवेच इति ॥१८२॥

विश्वास-प्रस्तुतिः

कथम् अपि मधुमङ्गलस् तु पश्यन्न्
अथ विविवेच जवाद् उवाच तत्र ।
“धृत-विहृति-मदा न चेत् पुरस्तात्
कृतम् अपि पश्यथ का क्षुधा वराकी?” ॥१८३॥

मूलम्

कथम् अपि मधुमङ्गलस् तु पश्यन्न्
अथ विविवेच जवाद् उवाच तत्र ।
“धृत-विहृति-मदा न चेत् पुरस्तात्
कृतम् अपि पश्यथ का क्षुधा वराकी?” ॥१८३॥

मधुमङ्गलः आनीत-भोजन-द्रव्याणि ददर्श इत्य् आह—कथम् अपीति । मधु-मङ्गलः कथम् अपि पश्यन् अथ अनन्तरं विविवेच जवात् तत्र सखी-गण-समीपे गत्वा उवाच । धृति-विहृति-मदा धृत-क्रीडोन्मत्ता यूयं पुरस्तात् सम्पादितम् अपि भोज्यादिकं न पश्यथ । क्षुधा का वराकी ? ॥१८३॥

विश्वास-प्रस्तुतिः

जगदुर् अथ धृत-स्मितं सखायः
“क्वचिद् अपि चेन् न भवेत् प्रयोजनाय ।
प्रकटतरम् अजा-गल-स्तनस्य
प्रतिम-दशां द्विज एष संवलेत ॥१८४॥

मूलम्

जगदुर् अथ धृत-स्मितं सखायः
“क्वचिद् अपि चेन् न भवेत् प्रयोजनाय ।
प्रकटतरम् अजा-गल-स्तनस्य
प्रतिम-दशां द्विज एष संवलेत ॥१८४॥

अथ सखायः धृत-स्मितं सहास्यं एष द्विजः क्वचिद् अपि प्रयोजनाय न चेत् भवेत् अजा-गल-स्तनस्य प्रतिम-दशां अनुरूपावस्थां संवलेत अवलम्बनं कुर्वीत इति ॥१८४॥

विश्वास-प्रस्तुतिः

इति बहु-हसितं विधाय तस्मिन्
स्थल-वलये विनिविश्य कृष्ण-मुख्याः ।
चरण-कर-मुखं विशद्य वार्भिः
समशन-शर्म-कृते धृतेहम् आसन् ॥१८५॥

मूलम्

इति बहु-हसितं विधाय तस्मिन्
स्थल-वलये विनिविश्य कृष्ण-मुख्याः ।
चरण-कर-मुखं विशद्य वार्भिः
समशन-शर्म-कृते धृतेहम् आसन् ॥१८५॥

इति एवं-प्रकारेण बहु-हसितं अनेक-हास्यं विधाय कृत्वा कृष्ण-मुख्याः कृष्णादि-प्रधान-गोपालन-पराः तस्मिन् स्थल-वलये मण्डल-स्थले विनिविश्य वार्भिः जलैः चरण-कर-मुखं विशद्य प्रक्षाल्य समशन-शर्म-कृते भोजन-सुख-करणाय धृतेहं धृत-चेष्टं यथा स्यात्, तथा आसन् बभूवुः ॥१८५॥

विश्वास-प्रस्तुतिः

बहु-रुचि-रुचिरांशुकं दुकूला-
दिकम् अधिकृत्य शुभः शुभंयु-वेशः ।
सह-सखि-निकरः स एष कृष्णः
सरभस-भोजन-तृष्णतां बभाज ॥१८६॥

मूलम्

बहु-रुचि-रुचिरांशुकं दुकूला-
दिकम् अधिकृत्य शुभः शुभंयु-वेशः ।
सह-सखि-निकरः स एष कृष्णः
सरभस-भोजन-तृष्णतां बभाज ॥१८६॥

बहु-रुचि-रुचिरांशुकं बहु-विध-वर्णैः मनोहरं परिधेय-वस्त्रं दुकूलादिकं उत्तरीय-वसनाभरणादिकं अधिकृत्य धृत्वा, शुभः मङ्गल-दायकः सुन्दरो वा शुभंयु-वेशः शुभान्वित-वेशः सह-सखि-निकरः वयस्य-गण-समन्वितः स एषः कृष्णः सरभस-भोजन-तृष्णतां सहर्ष-सहित-भोजनेच्छां बभाज ॥१८६॥

विश्वास-प्रस्तुतिः

विधुम् अनु कमलं बलिं प्रदत्ते
हसति चकोर-युगं तद् एव वीक्ष्य ।
इति हरिम् अवलोक्य तत्र तस्थुर्
व्रज-महिला बत चित्रतां भजन्त्यः ॥१८७॥

मूलम्

विधुम् अनु कमलं बलिं प्रदत्ते
हसति चकोर-युगं तद् एव वीक्ष्य ।
इति हरिम् अवलोक्य तत्र तस्थुर्
व्रज-महिला बत चित्रतां भजन्त्यः ॥१८७॥

कमलं पद्मं विधुम् अनु चन्द्रम् अनु लक्ष्यीकृत्य बलिं पूजा-रूपोपहारं प्रदत्ते, तद् एव उपहार-प्रदानम् एव वीक्ष्य विशेषेण दृष्ट्वा चकोर-युगं स्व-नाम-प्रसिद्धं चकोर-पक्षि-युगलं हसति । इति एवं-प्रकारेण हरिं श्री-कृष्णं अवलोक्य आलक्ष्य तत्र व्रज-महिलाः बत विस्मये चित्रतां चित्र-तुल्यतां भजन्त्यः तस्थुः स्थिताः बभूवुः ॥१८७॥

विश्वास-प्रस्तुतिः

पृथक् समुपविशन् विलोकयद्भ्यः
स च मधुमङ्गलकः स-नर्म-जल्पः ।
पृथग् इव परिवेषयन् प्रहासं
रसम् इतरान् सुरसान् षड् अप्य् अमुष्णात् ॥१८८॥

मूलम्

पृथक् समुपविशन् विलोकयद्भ्यः
स च मधुमङ्गलकः स-नर्म-जल्पः ।
पृथग् इव परिवेषयन् प्रहासं
रसम् इतरान् सुरसान् षड् अप्य् अमुष्णात् ॥१८८॥

स च मधुमङ्गलकः पृथक् समुपविशन् विलोकयद्भ्यः पश्यद्भ्यः जनेभ्यः स-नर्म-जल्पः कौतुक-वचन-प्रयोक्ता च सन्, पृथग् इव प्रहासं उच्च-हास्यं रसं परिवेषयन् इतरान् षड् सुरसान् अपि अमुष्णात् अपहृतवान् ॥१८८॥

विश्वास-प्रस्तुतिः

समम् अशन-समर्पिणीभिर् आप्तान्
व्रज-पृथुकान् सविधे विधाय सास्रः ।
मुरजिद् अदन-भाजनाद् अमीभ्यः
प्रतिकवलं कवलं ददन् ननन्द ॥१८९॥

मूलम्

समम् अशन-समर्पिणीभिर् आप्तान्
व्रज-पृथुकान् सविधे विधाय सास्रः ।
मुरजिद् अदन-भाजनाद् अमीभ्यः
प्रतिकवलं कवलं ददन् ननन्द ॥१८९॥

अशन-समर्पिणीभिः भोजन-दात्रीबिः समं सह आप्तान् प्राप्तान् आगतान् इति यावत् व्रज-पृथुकान् व्रज-बालकान् सविधे समीपे विधाय कृत्वा सास्रः प्रेमाश्रु-जल-सहितः मुरजित् श्री-कृष्णः अदन-भाजनात् भोजन-पात्रात् अमीभ्यः व्रज-बालकेभ्यः प्रतिकवलं कवलं कवलं प्रति, भोजन-समये इति शेषः, कवलं ग्रासं ददन् अर्पन् ननन्द परमाननन्दो बभूव ॥१८९॥

विश्वास-प्रस्तुतिः

सुरभि-घृत-परिष्कृतान् समस्तान्180
षड् अपि रसान् प्रतिचर्वणं रुचि-प्रान् ।
प्रति-लव-रुचि-भोक्तृषु प्रदाय
प्रतिलवम् आप रुचिं पुरन्ध्रि-वर्गः ॥१९०॥

मूलम्

सुरभि-घृत-परिष्कृतान् समस्तान्180
षड् अपि रसान् प्रतिचर्वणं रुचि-प्रान् ।
प्रति-लव-रुचि-भोक्तृषु प्रदाय
प्रतिलवम् आप रुचिं पुरन्ध्रि-वर्गः ॥१९०॥

पुरन्ध्रि-वर्गः महिला-समूहः प्रतिलव-रुचि-भोक्तृषु प्रति-लव-रुचि-पूर्वक-भोजन-कर्तृषु श्री-कृष्णादिषु सुरभि-घृत-परिष्कृतान् सुगन्धि-घृतेन परिष्कृतान् संस्कृतान्, प्रति-चर्वणं चर्वणं चर्वणं प्रति प्रति ग्रासे इत्य् अर्थः, रुचि-प्रान् रुचि-प्रादान् समस्तान् सकलान् भोज्यान् षड् अपि रसान् प्रदाय प्रतिलवं प्रति-समयं रुचिं परम-प्रीतिं आप प्राप्तवान् ॥१९०॥

विश्वास-प्रस्तुतिः

इह बहु-विध-सन्धितानि निम्बु-
प्रभृति-फलानि रुचार्पितानि रेजुः ।
निकट-विनिहितानि यानि चासन्
प्रतिमुहुर् एव च सर्व-रोचनानि ॥१९१॥

मूलम्

इह बहु-विध-सन्धितानि निम्बु-
प्रभृति-फलानि रुचार्पितानि रेजुः ।
निकट-विनिहितानि यानि चासन्
प्रतिमुहुर् एव च सर्व-रोचनानि ॥१९१॥

यानि प्रति-मुहुर् एव निकट-विनिहितानि समीप-वर्ति-स्थापितानि सर्व-रोचनानि सर्व-रोचकानि “आचार चाटनि” इति ख्यातानि आसन् बभूवुः, तानि इह भोज्ये रुचिरार्पितानि रुचि-प्रदानि बहु-विध-सन्धितानि बहु-प्रकार-मिलितानि निम्बु-प्रभृति-फलानि रेजुः शोभन्ते स्म ॥१९१॥

विश्वास-प्रस्तुतिः

अभिनव-परिपक्व-नारिकेल-
द्रव-वलितं मरिचादि-चारु-गन्धम् ।
लव-लवण-रस-प्रियं कदुष्णं
समुचित-पात्र-भृतं च मुद्ग-यूषम् ॥१९२॥

मूलम्

अभिनव-परिपक्व-नारिकेल-
द्रव-वलितं मरिचादि-चारु-गन्धम् ।
लव-लवण-रस-प्रियं कदुष्णं
समुचित-पात्र-भृतं च मुद्ग-यूषम् ॥१९२॥

समुचित-पात्र-भृतं स्वर्णादि-यथा-योग्य-पात्र-पूर्णं मुद्ग-यूषं मुद्गानां यूषं, क्वाथ इति भाषा, राजते इति शेषः । किम्-भूतं तत् ? अभिनव-परिपक्व-नारिकेल-द्रव-वलितं नूतन-परिपक्व-नारिकेलस्य चूर्ण-संयुक्तं । पुनः मरिचादि-चारु-गन्धं मरिच-तेज-पत्र-दारुचिनि-प्रभृतीनां सुन्दर-गन्धं यत्र तत् । पुनः लव-लवण-रस-प्रियं ईषल्-लवण-रसेन प्रीति-जनकं । पुनः कदुष्णं ॥१९२॥

विश्वास-प्रस्तुतिः

सुरभि-सुरभि-जात-जात-सर्पिः-
प्लुतम् अथ पीतन-पीतम् इष्ट-गन्धम् ।
अपि परिमल-शालि-दिव्य-शालि-
प्रभव-सुकोमल-शुभ्र-शोचिर् अन्नम् ॥१९३॥

मूलम्

सुरभि-सुरभि-जात-जात-सर्पिः-
प्लुतम् अथ पीतन-पीतम् इष्ट-गन्धम् ।
अपि परिमल-शालि-दिव्य-शालि-
प्रभव-सुकोमल-शुभ्र-शोचिर् अन्नम् ॥१९३॥

सुरभि-सुरभि-जात-जात-सर्पिः-प्लुतं—सुरभि सुरभि-जातेभ्यः जातं उत्पन्नं यत् सर्पिः घृतं, तेन प्लुतं संस्कृतं युक्तं वा । अथ अनन्तरं पीतन-पीतं कुङ्कुम-हरिद्रा-युक्तं इष्ट-गन्धं सद्-गन्धान्वितं अपि, पुनः परिमल-शाली-दिव्य-शालि-प्रभव-सुकमोल-शुभ्र-शोचिर् अन्नं—परिमल-शाली कुङ्कुमादि-सुगन्ध-युक्तः दिव्य-शालिः उत्कृष्ट-धान्य-विशेषः, तेभ्यः प्रभवं प्रकृष्टेन उत्पत्तिः यत् सुकोमल-शुभ्र-शोचिर् अन्नं सुकोमल-शुक्ल-वर्ण-विशिष्ट-कान्ति-युक्तान्नं समुचित-पात्र-भृतं राजते इति शेषः ॥१९३॥

विश्वास-प्रस्तुतिः

शृत-घृत-मुहुर्-उद्धृत-प्रमृष्ट-
द्विदल-वटी-विविध-प्रकार-वारम् ।
हरिर् अभिजल-सिक्त-निक्त-तिक्त-
स्वर-सविविक्त-विचित्र-पाक-भेदम् ॥१९४॥

मूलम्

शृत-घृत-मुहुर्-उद्धृत-प्रमृष्ट-
द्विदल-वटी-विविध-प्रकार-वारम् ।
हरिर् अभिजल-सिक्त-निक्त-तिक्त-
स्वर-सविविक्त-विचित्र-पाक-भेदम् ॥१९४॥

पक्व-घृते मुहुः वारं वारं उद्धृता उत्तोलिता प्रमृष्टाश् च याः द्विदल-वट्यः मुद्ग-चणकादीनां बटिकाः, तासां विविध-प्रकार-वारं नाना-विध-पात्र-समूहः, घृत-सिक्तं जल-सिक्तं इत्य्-आदि विचित्र-पाक-भेदं ॥१९४॥

विश्वास-प्रस्तुतिः

नव-चणक-कलाय-माष-मुद्ग-
प्रवरज-युक्त-कटु-प्रसक्त-सूपम् ।
फल-दल-कुसुम-त्वग्-अष्टि-कन्द-
प्रसव-कृत-प्रथ-युक्ति-पङ्क्ति-भेदम् ॥१९५॥

मूलम्

नव-चणक-कलाय-माष-मुद्ग-
प्रवरज-युक्त-कटु-प्रसक्त-सूपम् ।
फल-दल-कुसुम-त्वग्-अष्टि-कन्द-
प्रसव-कृत-प्रथ-युक्ति-पङ्क्ति-भेदम् ॥१९५॥

नव-चणक-कलाय-माष-मुद्गानां प्रवरजं समूहजं युक्तं मिलितं कटु-प्रसक्तं तिक्तादि-संलग्नं सूपं, द्विदलं नूतन-चणकादि-निर्मित-सूप-प्रकार-जातम् इति भावः । तथा फल-पत्र-पुष्प-त्वग्-अष्टि-कन्द-प्रसवैः कृता या प्रथ-युक्तिः प्रसिद्धोपायः, तया पङ्क्ति-भेदं पाक-भेदं फलादि-निर्मित-व्यञ्जन-प्रकारं तत्रासीद् इति भावः ॥१९५॥

विश्वास-प्रस्तुतिः

शृत-घृत-धृत-जीरकाञ्चि-धात्री-
फल-रस-पाक-कषाय-रम्य-चुक्रम्181
बहु-विध-रचना-चणाम्ल-सङ्घं
घन-दधिमण्डक-रोटिकाज्य-पक्वम् ॥१९६॥

मूलम्

शृत-घृत-धृत-जीरकाञ्चि-धात्री-
फल-रस-पाक-कषाय-रम्य-चुक्रम्181
बहु-विध-रचना-चणाम्ल-सङ्घं
घन-दधिमण्डक-रोटिकाज्य-पक्वम् ॥१९६॥

शृत-घृते पक्व-घृते धृतं अर्पितं भर्जितम् इति यावत् यत् निर्यासः, तेन रम्यं उत्कृष्टं चुक्रं अम्लं बहु-विध-रचना-चणाम्ल-सङ्घं बहु-विध-रचनया नाना-प्रकार-पाक-प्रक्रियया चणकाम्ल-समूहः, चणकस्य “छोला” इति नामकस्य अम्लस्य च समूहं घन-दधि-मण्डक-रोटिकाज्य-पक्वं—घन-दधिमण्डकः गाढ-दध्नो मण्डकः पिष्टक-विशेषः “दधिवडा” इति भाषा । रोटिक इत्य् उभयं घृत-पक्वं ॥१९६॥

विश्वास-प्रस्तुतिः

श्रपित-पयसि बाष्प-पङ्क-पिष्ट-
प्रवलित-शर्कर-मुग्ध-दुग्ध-सारम् ।
अमृत-जयि-रस-प्रसार-शाला-
निभ-विभव-प्रसराग्रणी रसानाम् ॥१९७॥

मूलम्

श्रपित-पयसि बाष्प-पङ्क-पिष्ट-
प्रवलित-शर्कर-मुग्ध-दुग्ध-सारम् ।
अमृत-जयि-रस-प्रसार-शाला-
निभ-विभव-प्रसराग्रणी रसानाम् ॥१९७॥

श्रपित-पयसि पक्व-दुग्धे बाष्पेण पक्वं यत् पिष्टं पिष्टकं, तत्र प्रवलित-शर्कर-मुग्ध-दुग्ध-सारं । किम् वा, श्रपित-पयसि बाष्प-पक्व-पिष्टकं च प्रवलित-शर्कर-मुग्ध-दुग्ध-सारं च तयोः समाहारः, तं अमृत-जयि-रस-प्रसारस्य अमृत-जयि-रस-विस्तारस्य शाला-निभः भवन-सदृशः यः विभव-प्रसरः विभव-समूहः, तस्य अग्रणी श्रेष्ठः वा रसाला, तां ॥१९७॥

विश्वास-प्रस्तुतिः

स-परिमलं जलं तथाम्ब-धात्री182 प्रणयज-कोप-विलास-वल्गु-वाचम् ।
कुलवर-परिवेषिका-ततीनां
सखि-वलयेन विवाद-शर्म-जातम् ॥१९८॥

मूलम्

स-परिमलं जलं तथाम्ब-धात्री182 प्रणयज-कोप-विलास-वल्गु-वाचम् ।
कुलवर-परिवेषिका-ततीनां
सखि-वलयेन विवाद-शर्म-जातम् ॥१९८॥

सपरिमलं सौरभ्य-सहितं जलं तथा स्व-धात्री प्रणयज-कोप-विलास-वल्गु-वाचं स्वस्य धात्र्याः प्रणय-जन्य-कोप-विलासेन वल्गु-वाचं मनोहर-वचनं, सखि-वलयेन वयस्य-समूहेन सह कुल-वर-परिवेषिका-ततीनां उत्तम-कुलोद्भव-परिवेषण-कारिणीनां गोपी-श्रेणीनां विवाद-शर्म-जतं विवादेन सुख-समूहं ॥१९८॥

विश्वास-प्रस्तुतिः

अनुभवद् इह राम-कृष्ण-युग्मं
मुहुर् अपि भोजन-तृष्णताम् अवाप ।
तदपि च निज-सेवकेषु फेला-
वितरण-कामतया ततो व्यरंसीत् ॥१९९॥

मूलम्

अनुभवद् इह राम-कृष्ण-युग्मं
मुहुर् अपि भोजन-तृष्णताम् अवाप ।
तदपि च निज-सेवकेषु फेला-
वितरण-कामतया ततो व्यरंसीत् ॥१९९॥

[अष्टभिः कुलकं][^१८३]

अनुभवत् तत् तत् सर्वम् इत्य् अर्थः, राम-कृष्ण-युगलं मुहुर् अपि पुनर् अपि भोजन-तृष्णतां भोजने या तृष्णा स्पृहा, तस्याः भावः भोजन-तृष्णता, तां अवाप प्राप्तवान् । तद् अपि निज-सेवकेषु फेला-वितरण-कामतया प्रसादार्पनेच्छया, ततः भोजनात् व्यरंसीत् ॥१९९॥

विश्वास-प्रस्तुतिः

अरसयद् इह तेमनानि षष्टिं
सह-सखि-सङ्घतया स्वयं मुरारिः ।
मुहुर् अतिसरसानि यानि तत्र
स्पृहि-जन-भाव-भिदां विधुन्वते स्म ॥२००॥

मूलम्

अरसयद् इह तेमनानि षष्टिं
सह-सखि-सङ्घतया स्वयं मुरारिः ।
मुहुर् अतिसरसानि यानि तत्र
स्पृहि-जन-भाव-भिदां विधुन्वते स्म ॥२००॥

स्वयं मुरारीः श्री-कृष्णः इह भोज-लीलायां षष्टिं तत्-सङ्ख्यकानि तेमनानि व्यञ्जनानि सह-सखि-सङ्घतया सखि-निचयैः सह अरसयत् यानि अतिसरसानि अतिशय-रस-विशिष्टानि तेमनानि, तत्र भोजन-लीलायां मुहुः अत्यर्थं स्पृहि-जन-भाव-भिदां स्पृहि-जनानां अभिलाषुक-जनानां भाव-भिदां भाव-भेदं रुचि-प्रभेदं विधुन्वते स्म ॥२००॥

विश्वास-प्रस्तुतिः

स-परिमल-जलेन वक्त्र-शुद्धिं
विदधुर् अमी बत तादृशेन यत् तु ।
अशनज-सुख-पूरि सुष्ठु चक्रे
हृदय-गतं किम् अपि प्रसाद-शातम् ॥२०१॥

मूलम्

स-परिमल-जलेन वक्त्र-शुद्धिं
विदधुर् अमी बत तादृशेन यत् तु ।
अशनज-सुख-पूरि सुष्ठु चक्रे
हृदय-गतं किम् अपि प्रसाद-शातम् ॥२०१॥

अमी श्री-कृष्णादयः तादृशेन तद्-योग्येन स-परिमल-जलेन सुरभि-युक्त-जलेन वक्त्र-शुद्धिं मुख-प्रक्षालनं विदधुः चक्रुः, यत् हृदय-गतं हृदय-स्थितं किम् अपि अपूर्वं प्रसाद-शातं प्रसन्नता-सुखं अशनज-सुख-पूरि भोजन-जनित-सुख-पूर्वकं सुष्ठु चक्रे ॥२०१॥

विश्वास-प्रस्तुतिः

हिम-जल-हिम-बालुका-सिताभिर्
विरचित-पानक-पायकाः सखायः ।
हिमकर-वर-गन्ध-वीटिकाभिः
कृत-मुख-वासतया सुखं विरेजुः ॥२०२॥

मूलम्

हिम-जल-हिम-बालुका-सिताभिर्
विरचित-पानक-पायकाः सखायः ।
हिमकर-वर-गन्ध-वीटिकाभिः
कृत-मुख-वासतया सुखं विरेजुः ॥२०२॥

हिम-जल-हिम-बालुकासिताबिः हिम-जलं सुशीतल-जलं च हिम-बालुका कर्पूरश् च सिता शर्करा च ताः, ताभिः विरचित-पानक-पायकाः विरचितं निर्मितं पानकं “सरबत्” इत्य् आख्यं पानीयं, पान्ति ये ते तथोक्ताः विरचितं पानकं पीतवन्तः इत्य् अर्थ, सखायः श्री-कृष्णादय सर्वे । हिम-कर-वर-गन्ध-वीटिकाभिः—कर्पूर-गन्ध-युक्त-ताम्बुल-वीटीभिः कृत-मुख-वासतया विहित-मुख-शुद्धित्वेन सुखं यथा स्यात् तथा विरेजुः शोभन्ते स्म ॥२०२॥

विश्वास-प्रस्तुतिः

इति हरिम् उपलभ्य तृप्तिम् एता
हरि-जननीम् उपलम्भयाम् बभूवुः ।
तद्-अशनम् अमृतं विभाति तस्मिन्
कथम् अथ तत्-कथनं तथा न तस्याम् ॥२०३॥

मूलम्

इति हरिम् उपलभ्य तृप्तिम् एता
हरि-जननीम् उपलम्भयाम् बभूवुः ।
तद्-अशनम् अमृतं विभाति तस्मिन्
कथम् अथ तत्-कथनं तथा न तस्याम् ॥२०३॥

एताः धात्र्याः इति एवं-प्रकारेण हरिं तृप्तिं सन्तोषं क्षुन्-निवृत्तिम् इत्य् अर्थः उपलभ्य प्रापयित्वा हरि-जननीं श्रि-यशोदां उपलम्भयाम् बभूवुः निकटं प्राप्नुवन्, तस्मिन् भोजन-स्थाने ग्राम-प्रान्ते उपवने इति यावत् तद्-अशनं तस्य प्रसिद्धस्य कृष्णस्य वा अशनं भोजनं अमृतं अमृत-तुल्यं विभाति प्रकाशते । अथ तस्यां यशोदायां तथा तत्-प्रकारे तत्-कथनं भोजन-समयोचित-तत्-तद्-वर्णनं कथं न भवेत् ? तत् तत् सर्वं तस्यै वर्णयामासुर् इति भावः ॥२०३॥

विश्वास-प्रस्तुतिः

तद्-अनु तद्-अनुगा तु कापि कापि
व्रज-कमलाः सजती तद्-एक-शर्मा ।
हरि-चरित-कथासु लम्भिताशा
हरिम् अपि लम्भयितुं द्रुतं ववाञ्छ183 ॥२०४॥

मूलम्

तद्-अनु तद्-अनुगा तु कापि कापि
व्रज-कमलाः सजती तद्-एक-शर्मा ।
हरि-चरित-कथासु लम्भिताशा
हरिम् अपि लम्भयितुं द्रुतं ववाञ्छ183 ॥२०४॥

तद्-अनु पश्चात् तद्-अनुगा श्री-कृष्णस्यानुगता सजती तद्-आशक्ता तद्-एक-शर्मा, स श्री-कृष्ण एव एकं शर्म सुखं यस्याः तथा-भूता, कापि कापि व्रज-कमला व्रज-लक्ष्मीः हरि-चरित-कथासु लम्भिताशा—हरेः चरित-कथायां सुलम्भिता सुलापिता आशा यस्याः तथा-भूता सती । किं वा, हरि-चरित-कथासु लम्भित-कथासु लम्भिताशा हरिम् अपि लम्भयितुं प्राप्तुं द्रुतं शीघ्रं ववाञ्छ अभिलाषम् अकरोत् ॥२०४॥

विश्वास-प्रस्तुतिः

अथ पशुप-कुल-क्षितीश-पत्न्याः
स्वम् अशन-कालम् अधीत्य तत्र याताः ।
तद्-अशनम् अनु तां निषेव्य तद्-गीर्-
वशम् अशनं रहसा चरन्त्व् अमूश् च ॥२०५॥

मूलम्

अथ पशुप-कुल-क्षितीश-पत्न्याः
स्वम् अशन-कालम् अधीत्य तत्र याताः ।
तद्-अशनम् अनु तां निषेव्य तद्-गीर्-
वशम् अशनं रहसा चरन्त्व् अमूश् च ॥२०५॥

अथ अनन्तरं पशुप-कुल-क्षितीश-पत्न्याः पशुप-कुलानां गोपानां क्षितीशः श्रि-नन्दः, तस्य पत्न्याः श्री-यशोदायाः स्वं स्वीयं अशन-कालं भोजन-कालं अधीत्य स्मृत्वा, तत्र यशोदां निषेध्य भोजनान्तरं यथोचित-सेवां कृत्वा तद्-गीर्-वशं यशोदा-वाक्यानुयायिनं अशनं अमूश् च कृष्णानुगताः कान्ताः रहसा एकान्ते चरन्तु बुभुजिरे ॥२०५॥

विश्वास-प्रस्तुतिः

अथ मुहुर् उपलब्ध-गोप-राज्ञी-
वचन-बलाः स्वयम् इच्छ-मानसाश् च ।
निज-निज-कर-साधितं वितर्तुं
निज-रमणाय रमा बभूवुर् उत्काः ॥२०६॥

मूलम्

अथ मुहुर् उपलब्ध-गोप-राज्ञी-
वचन-बलाः स्वयम् इच्छ-मानसाश् च ।
निज-निज-कर-साधितं वितर्तुं
निज-रमणाय रमा बभूवुर् उत्काः ॥२०६॥

अथ अनन्तरं मुहुः वारं वारं उपलब्ध-गोप-राज्ञी-वचन-बलाः—उपलब्धं प्राप्तं गोप-राज्याः यशोदायाः वचनम् एव बलं याभिः ताः स्वयं इच्छा-मानसाः अभिलाषवत्यः च रमाः व्रज-लक्ष्म्यः निज-रमणाय श्री-कृष्णाय निज-निज-कर-साधितं स्व-स्व-हस्त-निर्मितं मिष्टान्नादिकं वितर्तुं दातुं उत्काः उत्सुकाः बभूवुः ॥२०६॥

विश्वास-प्रस्तुतिः

दयितम् अभिसरन्तु तं तु धन्याः
शत-शत-यूथ-मिताः स एव चासु ।
विरचयतु गतिं कयापि शक्त्या
स्मर मम चित्त मुदा सदापि राधाम् ॥२०७॥

मूलम्

दयितम् अभिसरन्तु तं तु धन्याः
शत-शत-यूथ-मिताः स एव चासु ।
विरचयतु गतिं कयापि शक्त्या
स्मर मम चित्त मुदा सदापि राधाम् ॥२०७॥

शत-शत-यूथ-परिम्इताः धन्याः कृतार्थाः व्रज-सुन्दर्यः तं दयितं प्रियतमं श्री-कृष्णं अभिसरन्तु अभिसरं कुर्वन्तु । स कृष्ण एव आसु व्रजाङ्गनासु कयापि अचिन्त्यया शक्त्या गतिं विरचयतु । हे मम चित्त ! मुदा हर्षेण सदापि अविरतम् अपि राधां स्मर ॥२०७॥

विश्वास-प्रस्तुतिः

शृणु हृदय दिशामि राधिकायां
हरिम् अभिसारय तत्र तां कदापि ।
द्वयम् इदम् अनु पूजनं तद् एव
द्वयम् अनु यत् पुरु-तोष-पोष-कारि ॥२०८॥

मूलम्

शृणु हृदय दिशामि राधिकायां
हरिम् अभिसारय तत्र तां कदापि ।
द्वयम् इदम् अनु पूजनं तद् एव
द्वयम् अनु यत् पुरु-तोष-पोष-कारि ॥२०८॥

हे हृदय ! दिशामि उपदिशामि शृणु, त्वम् इति शेषः । राधिकायां राधा-समीपे हरिं अभिसारय अभिसारं कारय, तत्र कृष्ण-समीपे कादापि कस्मिन्न् अपि समये तां राधां अभिसारय, इदं द्वयं अनु पूजनं, सदा सेवनं कुरु इति शेषः । तद् एव द्वयं अभिसार-द्वयं यत् यस्मात् पुरु-तोष-पोष-कारि, अतिशय-तोषण-पोषण-कारि इत्य् अर्थः ॥२०८॥

विश्वास-प्रस्तुतिः

अथ सह धवलाभिर् आव्रजन्तं
व्रज-तटम् अह्नि तुरीय-याम-भागे ।
पुरु-युग-विरहाद् इवातिखिन्ना
व्यतिकृत-सत्वरता-विधायि-जल्पाः ॥२०९॥
घृत-रचित-पचं सुमिष्टम् इष्टं
तद्-अनु च षाडव-सङ्गिनीं रसालाम् ।
द्रुततर-गमना वृषार्क-जाता-
व्रजद् अभिगृह्य सखीभिर् आत्म-कान्तम् ॥२१०॥

मूलम्

अथ सह धवलाभिर् आव्रजन्तं
व्रज-तटम् अह्नि तुरीय-याम-भागे ।
पुरु-युग-विरहाद् इवातिखिन्ना
व्यतिकृत-सत्वरता-विधायि-जल्पाः ॥२०९॥
घृत-रचित-पचं सुमिष्टम् इष्टं
तद्-अनु च षाडव-सङ्गिनीं रसालाम् ।
द्रुततर-गमना वृषार्क-जाता-
व्रजद् अभिगृह्य सखीभिर् आत्म-कान्तम् ॥२१०॥

[युग्मकम्]

अथ अनन्तरं पुरु-युग-विरहाद् इव अनेक-युग-विरहेन यथा का तया भवति तथा अतिखिन्ना अतिशय-खेदान्विता, व्यतिकृत-सत्वरता-विधायि-जल्पा अतित्वरा-युक्त-सखिभिः सह कृष्ण-विषयक-विधिना आलापन-परा, वृषार्क-जाता वृषाभानु-नन्दिनी श्री-राधा, द्रुततर-गमना सती सखीभिः सार्धं इष्टं अभिलषितं घृत-रचित-पचं घृत-पक्वं तद्-अनु तत्-पश्चात् षाडव-सङ्गिनीं पानक-मिश्रितां रस-युक्तां वा रसालां पेय-विशेषां अभिगृह्य तुरीय-याम-भागे चतुर्थ-प्रहरांशे दिवसे धवलाभिः सह व्रज-तटं व्रज-समीप-वर्ति-भूमिं आव्रजन्तं आगच्छन्तं आत्म-कान्तं स्व-प्रियतमं श्री-कृष्णं अव्रजत् अगच्छत् ॥२०९-२१०॥

विश्वास-प्रस्तुतिः

निज-वन-गमनार्ह-सूक्ष्म-रन्ध्रं
द्रुतम् अतिगम्य वनं प्रविश्य सर्वाः ।
प्रणयि-सविध-दूरतस् तु तस्थुर्
जड-हृदयाः स्पृहया च लज्जया च ॥२११॥

मूलम्

निज-वन-गमनार्ह-सूक्ष्म-रन्ध्रं
द्रुतम् अतिगम्य वनं प्रविश्य सर्वाः ।
प्रणयि-सविध-दूरतस् तु तस्थुर्
जड-हृदयाः स्पृहया च लज्जया च ॥२११॥

गमन-व्यापाराद्य् अवस्थां वर्णयति—निजेत्य्-आदिना । निज-वन-गमनार्ह-सूक्ष्म-रन्ध्रं निज-गमन-योग्य-नाना-विध-वृक्ष-लतादि-पिहित-मार्गं द्रुतं सत्वरं अतिगम्य अतिक्रम्य सर्वाः व्रज-सुन्दर्यः वनं प्रविश्य ताः स्पृहया मिलन-काङ्क्षया लज्जया च स्वभाव-सिद्धया ह्रिया जड-हृदयाः जड-चित्ताः सत्यः प्रणयि-सविध-दूरतः प्राण-नाथ-सकाशात् दूरे तस्थूः विराजमानाः बभूवुः ॥२११॥

विश्वास-प्रस्तुतिः

हरिर् इदम् अवगम्य रम्य-चेताश्
छलम् अकरोन् निखिलेषु वच्मि तच् च ।
दिन-दिनम् अनु कापि देवता मां
कलयितुम् एति रहस् ततः प्रयामि ॥२१२॥

मूलम्

हरिर् इदम् अवगम्य रम्य-चेताश्
छलम् अकरोन् निखिलेषु वच्मि तच् च ।
दिन-दिनम् अनु कापि देवता मां
कलयितुम् एति रहस् ततः प्रयामि ॥२१२॥

रम्य-चेताः रमनीयमानाः हरिः इदं कान्तादीनाम् आगमनं अवगम्य ज्ञात्वा निखिलेषु वयस्यादिषु छलं अकरोत् । [हे चित्त !] तच् च छलं वच्मि, त्वां प्रति इति शेषः । कियत् ? दिन-दिनम् अनु प्रतिदिनं कापि देवता रहः निर्जने मां कलयितुं द्रष्टुं एति आगच्छति, ततः तस्मात्, रहः अत्रैव वान्वयः, प्रयामि गच्छामि, अहम् इति शेषः ॥२१२॥

विश्वास-प्रस्तुतिः

त्वरितम् इह तु यूयम् आव्रजन्तं
कलयत माम् इति दूरताम् उपेत्य ।
अथ किम् उचितम् इत्थं ऊहमानस्
त्रि-चतुर-बालक-सङ्गि तिष्ठति स्म ॥२१३॥

मूलम्

त्वरितम् इह तु यूयम् आव्रजन्तं
कलयत माम् इति दूरताम् उपेत्य ।
अथ किम् उचितम् इत्थं ऊहमानस्
त्रि-चतुर-बालक-सङ्गि तिष्ठति स्म ॥२१३॥

यूयं त्वरितं द्रुतं दूरतां दूर-देशं उपेत्य प्राप्य इह पथि-मध्ये [अत्रैव त्वरितम् इत्य् अस्यान्वयो वा] आव्रजन्तं आगच्छन्तं मां कलयत पश्यत । अथ अनन्तरं किम् उचितं किं कर्तव्यं ? इत्थं अनेक-प्रकारेण ऊहमानः वितर्कमानः त्रि-चतुर-बालक-सङ्गि यथा भवति तथा तिष्ठति स्म । एते चत्वारः बालकाः श्री-कृष्णस्य अन्तः-करण-रूपाः मनः-बुद्धि-चित्ताहङ्कारवत् सदा सहचरा विहरन्ति ॥२१३॥

विश्वास-प्रस्तुतिः

अथ कथित-चराः सखी-सदृक्षा
नव-नव-वर्ष-वरा हरिं परीत्य ।
स्वगतम् उत तदीयम् इष्टम् अर्थं
समघटयन् सहसा बभाषिरे च ॥२१४॥

मूलम्

अथ कथित-चराः सखी-सदृक्षा
नव-नव-वर्ष-वरा हरिं परीत्य ।
स्वगतम् उत तदीयम् इष्टम् अर्थं
समघटयन् सहसा बभाषिरे च ॥२१४॥

अथ अनन्तरं कथित-चराः प्राक्-कथिताः सखी-सदृक्षा सखी-जन-तुल्या अतिविश्वस्ता नव-नव-वर्ष-वराः चत्वारः बालकाः हरिं श्री-कृष्णं परीत्य वेष्टयित्वा स्वगतं मनो-गतं तदीयं श्री-कृष्ण-सम्बन्धिनं इष्टं अभिलषितं अर्थं प्रयोजनं समघटयन् सहसा बभाषिरे उचुः ॥२१४॥

विश्वास-प्रस्तुतिः

“व्रज-नृप-सुत ताः सदा भजन्ते
नव-नवतां तद् अमूः सदा कुमार्यः ।
अपि धृत-सुबृहद्-व्रतास् तद् आसां
तव मुरली क्षिपति व्रतं मुहुश् च ॥“२१५॥

मूलम्

“व्रज-नृप-सुत ताः सदा भजन्ते
नव-नवतां तद् अमूः सदा कुमार्यः ।
अपि धृत-सुबृहद्-व्रतास् तद् आसां
तव मुरली क्षिपति व्रतं मुहुश् च ॥“२१५॥

व्रज-नृप-सुत ! ताः कुमार्यः सदा नव-नवतां नव-नव-भावं भजन्ते, तत् तस्मात् अमूः सदा कुमार्यः कुमारी-भावापन्ना अपि धृत-सुबृहद्-व्रताः अपि धृतं निश्चयेन सुबृहद्-व्रतं याभिः ताः, तत् तस्मात् आसां कुमारीणां व्रतं तव मुरली मुहुः वारं वारं क्षिपति ॥२१५॥

विश्वास-प्रस्तुतिः

हरिर् इदम् अवबुध्य सुध्य्-अधीशः
सहसितम् आह “कथं क्व वात्र दोषः ।
अहम् अपि स कुमार एव तस्माद्
अभिगमनं मयि युक्तम् एव तासाम् ॥२१६॥

मूलम्

हरिर् इदम् अवबुध्य सुध्य्-अधीशः
सहसितम् आह “कथं क्व वात्र दोषः ।
अहम् अपि स कुमार एव तस्माद्
अभिगमनं मयि युक्तम् एव तासाम् ॥२१६॥

सुध्य्-अधीशः सुधीनाम् अपि अधीशः अधीश्वरः हरिः श्री-कृष्णः इदं वचनं बालकानां भावं वा अवबुध्य ज्ञात्वा सहसितं सहास्यं यथा स्यात् तथा आह—कथं अत्र क्व दोषः ? यतः अहम् अपि स प्रसिद्धः कुमार एव, तस्मात् तासां कुमारीणां मयि कुमारे अभिगमनं युक्तम् एव ॥२१६॥

विश्वास-प्रस्तुतिः

“तद् अपि च बत ता व्रतेन खिन्नाः
पुनर् इयद्-आगमनं न तासु युक्तम् ।
इति यद् अभिगतं तद् एव तासां
वयम् अनुयाम तथा सदाश्रयाम ॥“२१७॥

मूलम्

“तद् अपि च बत ता व्रतेन खिन्नाः
पुनर् इयद्-आगमनं न तासु युक्तम् ।
इति यद् अभिगतं तद् एव तासां
वयम् अनुयाम तथा सदाश्रयाम ॥“२१७॥

यद्यपि ताः कुमार्यः व्रतेन खिन्नाः कातराः, तद् अपि पुनः इयद्-आगमनं एतावद् दूरम् आगमनं तासु कुमारीषु न युक्तं । इति एवं-प्रकारं तासां यद् अभिगतं तद् एव वयं तासां अनुयाम तथा सदा आश्रयाम ॥२१७॥

विश्वास-प्रस्तुतिः

इति स परिहसन्न् अमून् अमूषां
हृदि मुरली-जनि-मोहनं तु जानन् ।
सकरुण-दृग् अमूं समीपम् अञ्चन्
प्रचुर-सखी-मिलितां ददर्श राधाम् ॥२१८॥

मूलम्

इति स परिहसन्न् अमून् अमूषां
हृदि मुरली-जनि-मोहनं तु जानन् ।
सकरुण-दृग् अमूं समीपम् अञ्चन्
प्रचुर-सखी-मिलितां ददर्श राधाम् ॥२१८॥

इति एवं-प्रकारेण स श्री-कृष्णः अमून् बालकान् परिहसन् परिहासं कुर्वन् अमूषां व्रज-सुन्दरीणां हृदि हृदये मुरली-जनि-मोहनं, मुरली-ध्वनि-जन्य-सम्मोहनम् इत्य् अर्थः, जानन् स-करुण-दृक् कृपा-युक्त-नेत्रः सन् अमूं राधां समीपं अञ्चन् गच्छन् प्रचुर-सखी-मिलितां अनेक-सहचरी-सङ्गतां राधां ददर्श ॥२१८॥

विश्वास-प्रस्तुतिः

हरि-मिलन-विदूर-भावनातः
क्वचन च दृष्टि-विसृष्टि-युक्त-नेत्राः ।
हरि-तनुम् अवलोक्य तास् तु साक्षात्
कुचित-वपुर् लघु लिल्यिरे लतासु ॥२१९॥

मूलम्

हरि-मिलन-विदूर-भावनातः
क्वचन च दृष्टि-विसृष्टि-युक्त-नेत्राः ।
हरि-तनुम् अवलोक्य तास् तु साक्षात्
कुचित-वपुर् लघु लिल्यिरे लतासु ॥२१९॥

हरि-मिलन-विदूर-भावनातः श्रि-कृष्ण-मिलनाय प्रभृत-चिन्तायाः । यद् वा, हरि-मिलनात् विदूरा भावना चिन्ता, तस्मात् “केनोपायेन कृष्ण-सम्मिलनं भविष्यति ?” इत्य्-आद्य्-अर्थम् अतिशय-प्रगाढ-भावनायाः इत्य् अर्थः । क्वचन च कुत्रापि स्थाने दृष्टि-विसृष्टि-युक्त-नेत्राः दृष्टि-निक्षिप्त-युक्त-नयनास् ता व्रज-देव्यः साक्षात् प्रत्यक्षतः हरि-तनुं कृष्ण-देहं अवलोक्य निरीक्ष्य कुचित-वपुः सङ्कुचिताङ्गं यथा स्यात्, तथा लतासु लतान्तरालेषु लघु लिल्यिरे लीनाः बभूवुः ॥२१९॥

विश्वास-प्रस्तुतिः

अथ हरिर् अनुनीय ताः पुरस्तात्
परिवलयन्न् उपहारम् आददानः184
स्व-हृदि सुख-सुखं प्रसज्य ताभिः
प्रतत-परस्पर-शर्मतां दधार ॥२२०॥

मूलम्

अथ हरिर् अनुनीय ताः पुरस्तात्
परिवलयन्न् उपहारम् आददानः184
स्व-हृदि सुख-सुखं प्रसज्य ताभिः
प्रतत-परस्पर-शर्मतां दधार ॥२२०॥

अथ अनन्तरं हरिः सर्व-मनोहरः शृई-कृष्णः ताः कान्ताः अनुनीय अनुनयं कृत्वा पुरस्तात् अग्रतः, अग्र-देशे इत्य् अर्थः, परिवलयन् अर्ध-चन्द्राकारवत् सम्मुखे संवेष्टयन् स्व-हृदि तासां उपहारं वन्य-कुसुम-हाराद्य्-उपढोकं आददानः गृहाणः। “आदधान” इति पाठे ताः प्रति आदधानः ददानः इत्य् अर्थः, स्व-हृदि इति परेणान्वयः ताभिर् इति । अत्रान्वयः सोढव्यः । ताभिः सह सुख-सुखं परम-सुखं यथा भवति, तथा प्रसज्य आलिङ्ग्य प्रतत-परस्पर-शर्मतां विस्तृतान्योन्य-सुखत्वं परस्परातिशय-सौख्यम् इति यावत्, दधार ॥२२०॥

विश्वास-प्रस्तुतिः

यदपि समय-भेदतः समग्रा
दधति तद्-आस्पदतां भुवः क्रम-स्थाः ।
तदपि दिग्-अवलोकनाय योग्यं
निशमय चित्त तद् एतद् अद्य धाम ॥२२१॥

मूलम्

यदपि समय-भेदतः समग्रा
दधति तद्-आस्पदतां भुवः क्रम-स्थाः ।
तदपि दिग्-अवलोकनाय योग्यं
निशमय चित्त तद् एतद् अद्य धाम ॥२२१॥

हे चित्त ! यद् अपि समय-भेदतः काल-भेदतः क्रमस्थाः समग्राः भुवः पृथिव्याः तद्-आस्पदतां भगवद्-अधिष्ठानत्वं, किम् वा, मिलन-योग्यतां दधति, तद् अपि तथापि दिग्-अवलोकनाय दिग्-दर्शनार्थं तत् प्रसिद्धं एतद् योग्यं धाम निशमय शृणु ॥२२१॥

विश्वास-प्रस्तुतिः

पुरु-मणि-चय-चारु-शोभ-गोवर्-
धन-शिव-दिग्-गत-साणुनि प्रशस्ते ।
सुर-तरु-जयि-भूरुहालि-शालि-
प्रसव-समुच्चय-मण्डि-कुण्ड-युग्मम् ॥२२२॥
अनुपमिति-तद्-अन्तर्-आलवाले
मृदु-मृदु-मारुत-भाजि केलि-धाम्नि ।
परिमल-वन-कृष्ट-धृष्ट-हृष्ट-
भ्रमर-रव-क्रम-जात-जात-साम्नि ॥२२३॥
मुरजिद् उपविशन् स्मितार्पिताशीर्
असित-मणि-प्रणिधान-हारि-भासी ।
कनक-गण-मनः-प्रकाम-मान-
प्रवसन-कृद्-वसन-श्रियां निवासी ॥२२४॥
निज-वर-रमणी-सुवर्ण-वर्ण-
व्रतति-तति-स्मित-पारिजात-जातिम् ।
अनुभव-पदवीं नयन्न् अयं स
प्रमद-मद-स्थ-गनाय नाप सातिम् ॥२२५॥

मूलम्

पुरु-मणि-चय-चारु-शोभ-गोवर्-
धन-शिव-दिग्-गत-साणुनि प्रशस्ते ।
सुर-तरु-जयि-भूरुहालि-शालि-
प्रसव-समुच्चय-मण्डि-कुण्ड-युग्मम् ॥२२२॥
अनुपमिति-तद्-अन्तर्-आलवाले
मृदु-मृदु-मारुत-भाजि केलि-धाम्नि ।
परिमल-वन-कृष्ट-धृष्ट-हृष्ट-
भ्रमर-रव-क्रम-जात-जात-साम्नि ॥२२३॥
मुरजिद् उपविशन् स्मितार्पिताशीर्
असित-मणि-प्रणिधान-हारि-भासी ।
कनक-गण-मनः-प्रकाम-मान-
प्रवसन-कृद्-वसन-श्रियां निवासी ॥२२४॥
निज-वर-रमणी-सुवर्ण-वर्ण-
व्रतति-तति-स्मित-पारिजात-जातिम् ।
अनुभव-पदवीं नयन्न् अयं स
प्रमद-मद-स्थ-गनाय नाप सातिम् ॥२२५॥

[चतुर्भिः]

चतुः-श्लोकैस् तावद् धाम वर्णयति पुरु-मणीत्य्-आदिभिः । प्रसस्ते प्रशंसनीये पुरु-मणि-चय-चारु-शोभ-गोवर्धन-शिव-दिग्-गत-सानुनि—पुरुमणि-चयानानां प्रचुर-मणि-समूहानां पुरु-मणि-चयैः वा चारु-शोभ-गोवर्धनस्य शिव-दिग्-गत-सानुनि ईशान-दिग्-गत-गिरि-तटे, सुर-तरून् कल्प-वृक्षान् [जयि] जेतुं शीलं येषां ते सुरतरु-जयिनः ये भूरुहाः, तेषां आलि-शाली श्रेणी-युक्तः यः प्रसव-समूच्चयः पुष्प-फल-समूहः, तेन मण्डि शोभि कुण्ड-युग्मं श्री-राधा-कुण्ड-श्याम-कुण्ड-द्वयं,

अनुपमिति-तद्-अन्तर्-आलवाले निरुपम-तन्-मध्य-गतालवाले, मृदु-मृदु-मारुत-भाजि केलि-धाम्नि मन्द-मन्द-पवन-युक्ते विहार-धाम्नि परिमल-वने पुष्पादि-सौरभ-मय-वने कृष्ण-वर्ण-हृष्ट-भ्रमर-समूहस्य रव-क्रम-चयेन जातं साम यत्र तस्मिन्,

स्मितार्पिताशीः स्मितेन ईषद्-धास्येन अर्पिता आशीर् इव आशीः येन सः, असित-मणि-प्रणिधान-हारि-भासी असित-मणेः इन्द्र-नीलमणेः यत् प्रणिधानं प्रयत्नं तद्-धरण-शीला भाः कान्तिः विद्यते अस्य सः, कनक-गण-मनः प्रकाममान-प्रवसन-कृद्-वसन-श्रियां वस्त्र-शोभानां निवासी, अयं स मुरजित् श्री-कृष्णः उपविशन् तिष्ठन् सन् निज-वर-रमणी-सुवर्ण-वर्ण-व्रजतितति-स्मित-पारिजात-जातिं निज-वर-रमण्यः स्वीय-श्रेष्ठ-रमण्य एव सुवर्ण-वर्ण-व्रतति-तत्यः तन्-क्तिः स्वर्ण-वर्ण-वल्ली-श्रेणयः, तासां स्मितम् एव पारिजात-जातिं पारिजात-कुसुम-निचयं अनुभव-पदवीं ज्ञान-गोचर-पद्धतिं नयन् प्राप्नुवन् प्रमद-मद-स्थगणाय आनन्द-तज्-जनितानन्द-संवरणाय सातिं अवसानं नाप न प्राप्तवान् इत्य् अर्थः ॥२२२-२२५॥

विश्वास-प्रस्तुतिः

क्व च यदि गणनातिगाः सहायाः
स्थलम् अपुरु-प्रथम् एककश् च कृष्णः ।
तद् अपि भवति सावकाश-रीति-
त्रयम् अपि चित्त विचित्रम् अत्र पश्य ॥२२६॥

मूलम्

क्व च यदि गणनातिगाः सहायाः
स्थलम् अपुरु-प्रथम् एककश् च कृष्णः ।
तद् अपि भवति सावकाश-रीति-
त्रयम् अपि चित्त विचित्रम् अत्र पश्य ॥२२६॥

यदि च क्व कुत्रापि स्थाले गणनातिगाः सहायाः सखि-जनाः अपुरु-प्रथं अनधिविस्तारं स्थलं लीला-स्थालं एककः कृष्णः । तद् अपि तथापि सावकाश-रीति-त्रयम् अपि भवति, हे चित्ता ! अत्र विचित्रं पश्य । भावश् चायं—एक एव कृष्णः निखिल-गोगण-कण्डूयनादि-मनो-रञ्जन-वयस्य-गण-सहितो यथोचित-खेलनादि-तत्-तल्-लीला-स्थान-गतस् तत्-तल्-लीला-समाधानं कृतवान् ॥२२६॥

विश्वास-प्रस्तुतिः

यदपि सुबहवस् तदीय-कान्ता
निज-निज-गर्व-धराधराद् अबन्ध्याः ।
तदपि कलय चित्त सा तु राधा
निखिल-पुरः-सरतां गता विभाति ॥२२७॥

मूलम्

यदपि सुबहवस् तदीय-कान्ता
निज-निज-गर्व-धराधराद् अबन्ध्याः ।
तदपि कलय चित्त सा तु राधा
निखिल-पुरः-सरतां गता विभाति ॥२२७॥

यद् अपि तदीय-कान्ताः श्री-कृष्ण-कान्ताः सुबहवः अनेकाः निज-निज-गर्व-धरा-धरात् स्व-स्व-गर्व-रूप-पर्वता-रोहणात् अबन्ध्याः सार्थकाः भवन्ति । तद् अपि हे चित्त ! कलय पश्य सा राधा निखिल-पुरः-सरतां सर्वाग्रतां गता विभाति राजते ॥२२७॥

विश्वास-प्रस्तुतिः

हरिम् अनु रसनीयम् एतया यत्
परि परिवेषितम् अत्र तत् तु भाव्यम् ।
रस-ततिर् इह पर्यवेषि यान्या
कथम् अथ सा परिचेयतां प्रयातु ॥२२८॥

मूलम्

हरिम् अनु रसनीयम् एतया यत्
परि परिवेषितम् अत्र तत् तु भाव्यम् ।
रस-ततिर् इह पर्यवेषि यान्या
कथम् अथ सा परिचेयतां प्रयातु ॥२२८॥

एतया श्री-राधया अत्र हरिम् अनु हरिं प्रति यत् रसनीयं आस्वादनीयं भोग्यं परि सर्वतो-भावेन परिवेषितं भक्ष्य-वस्तुनः विभाग-पूर्वक-समर्पणं, तद् भाव्यं चिन्तनीयं । इह पर्यवेषि यान्या रस-ततिः रस-समूहः । अथ कथं सा रस-ततिः परिचेयतां परिचय-योग्यतां प्रयातु ॥२२८॥

विश्वास-प्रस्तुतिः

नयन-वलययान्वसूचि किञ्चिन्
निटिलक-चालनया तथान्यद् अत्र ।
मृदुतर-वचसा तथा परं च
प्रियतम-पृष्टतमं तया रमण्या ॥२२९॥

मूलम्

नयन-वलययान्वसूचि किञ्चिन्
निटिलक-चालनया तथान्यद् अत्र ।
मृदुतर-वचसा तथा परं च
प्रियतम-पृष्टतमं तया रमण्या ॥२२९॥

तया प्रसिद्धया रमण्या कृष्ण-मनो-महिन्या नित्य-प्रियया राधया नयन-वलनया नेत्र-सञ्चालनेन प्रियतम-पृष्टतमं श्री-कृष्ण-कर्तृक-जिज्ञासित-वाक्य-वरं तथात्र अन्यत् वाक्यं किञ्चिन् निटिल-चालनया शिरश्-चालनेन तथा परं च वाक्यं मृदुतर-वचसा मन्द-मन्द-वचनेन अन्वसूचि अनुसूचितं ॥२२९॥

विश्वास-प्रस्तुतिः

हरिर् अथ विविधं विभज्य भोज्यं
पृथु-पृथुकान् अपि तान् मुदोपयोज्य ।
मुखम् अनु सरसं जगाम यं यं185
नहि मुखतः प्रथनाय तस्य शेके ॥२३०॥

मूलम्

हरिर् अथ विविधं विभज्य भोज्यं
पृथु-पृथुकान् अपि तान् मुदोपयोज्य ।
मुखम् अनु सरसं जगाम यं यं185
नहि मुखतः प्रथनाय तस्य शेके ॥२३०॥

अथ अनन्तरं हरिः श्री-कृष्णः तान् पृथु-पृथुकान् अपि बालकान् विविधं भोज्यं विभज्य विभागं कृत्वा मुदा उपयोज्य भुक्त्वा यत् मुखम् अनु सरसं जगाम प्राप तस्य तत्-प्रथनाय विस्तराय मुखतः मुखेन न शेके । अथवा, हरिः विविधं भोज्यं विभज्य तान् पृथुकान् उपयोज्य यथा-स्थाने योजयित्वा उपवेशयित्वा स्वयं मुखम् अनु मुखे सरसं रस-सहितं, किम् वा सरसं रस-युक्तं मुखं जगाम प्राप्तः । अन्यत् समानं ॥२३०॥

विश्वास-प्रस्तुतिः

अशन-रसनया जगाम तृप्तिं
न तु दृशि रोचनया मुरारिर् अस्याः ।
तदपि मुररिपुर्186 गावां व्रजाय
व्रजनम् अनु व्रजितुं ततो व्यरंसीत् ॥२३१॥

मूलम्

अशन-रसनया जगाम तृप्तिं
न तु दृशि रोचनया मुरारिर् अस्याः ।
तदपि मुररिपुर्186 गावां व्रजाय
व्रजनम् अनु व्रजितुं ततो व्यरंसीत् ॥२३१॥

मुरारिः श्री-कृष्णः अशन-रसनया भोजनास्वादनेन तृप्तिं जगाम प्राप, तु किन्तु अस्याः प्रियायाः राधायाः दृशि रोचनया नयन-भङ्ग्यादि-भाव-दर्शनाश्वादनेन तृप्तिं न प्राप इति भावः । तद् अपि अतृप्तेर् अपि मधुरिपुः मधुहन्ता गवां गो-समूहानां व्रजाय गोष्ठ-स्थान-गमनाय व्रजनम् अनुव्रजितुं गमनम् अनुगन्तुं ततः तृप्तेः पूरणात् व्यरंसीत् विरतो बभूव ॥२३१॥

विश्वास-प्रस्तुतिः

अथ मुख187-कर-शोधनाय तस्मिन्
सुरभि-जलादिकम् अर्पितं सखीभिः ।
यद् अनु सुरभितं न चास्य-मात्रं
सुरभितम् आचरद् अप्य् अमुष्य चित्तम् ॥२३२॥

मूलम्

अथ मुख187-कर-शोधनाय तस्मिन्
सुरभि-जलादिकम् अर्पितं सखीभिः ।
यद् अनु सुरभितं न चास्य-मात्रं
सुरभितम् आचरद् अप्य् अमुष्य चित्तम् ॥२३२॥

अथ अनन्तरं सखीभिः तस्मिन् कृष्णे मुख-कर-शोधनाय सुरभि-जलादिकं अर्पितं यद् अनु आस्य-मात्रं वदन-मात्रं न सुरभितं सौरभ-युक्तं, अपि तु अमुष्य श्री-कृष्णस्य चित्तम् अपि सुरभितं आचरत् ॥२३२॥

विश्वास-प्रस्तुतिः

अशन-पदम् इदं विसृज्य कृष्णः
सुभगम् अतः पुरतः स्थलं समित्य ।
सुखम् अनु मुख-वासनं प्रियाभिः
सह रसयन् मुख-वासनं जगाम ॥२३३॥

मूलम्

अशन-पदम् इदं विसृज्य कृष्णः
सुभगम् अतः पुरतः स्थलं समित्य ।
सुखम् अनु मुख-वासनं प्रियाभिः
सह रसयन् मुख-वासनं जगाम ॥२३३॥

कृष्णः इदं अशन-पदं भोजन-स्थानं विसृज्य परित्यज्य, अतः पुरतः अग्रे सुभगं सुन्दरं स्थलं समित्य प्रियाभिः सह सुखम् अनु मुख-वासनां रसयन् आस्वादयन् मुख-वासनं मुख-सुगन्धीकरणं जगाम प्राप्तः ॥२३३॥

विश्वास-प्रस्तुतिः

तद्-अनु च परितः सखी-सखीभिर्
निज-निज-शिल्प-विलास-हार-माल्यम् ।
उपहृति-पदताम् अनायि तच् च
प्रतिरुचिभिश् चितम् उल्लालस तस्य ॥२३४॥

मूलम्

तद्-अनु च परितः सखी-सखीभिर्
निज-निज-शिल्प-विलास-हार-माल्यम् ।
उपहृति-पदताम् अनायि तच् च
प्रतिरुचिभिश् चितम् उल्लालस तस्य ॥२३४॥

तद्-अनु तत्-पश्चात् सखी-सखीभिः परितः निज-निज-शिल्प-विलास-हार-माल्यं उपहृति-पदतां अनायि । तच् च प्रतिरुचिभिः चितं सञ्चितं तस्य कृष्णस्य चित्तं उल्ललास ॥२३४॥

विश्वास-प्रस्तुतिः

असित-मणि-सुवर्ण-वर्णम् आगाद्
अभिमुखतां मिथुनं मिथस् तद्-अग्रे ।
प्रतिफलिततया विलोक्य यत् तु
व्यतिषज्यमानम् इव स्मितं सखीभिः ॥२३५॥

मूलम्

असित-मणि-सुवर्ण-वर्णम् आगाद्
अभिमुखतां मिथुनं मिथस् तद्-अग्रे ।
प्रतिफलिततया विलोक्य यत् तु
व्यतिषज्यमानम् इव स्मितं सखीभिः ॥२३५॥

असित-मणि-सुवर्ण-वर्णं नील-मणि-वर्ण-कृष्णः सुवर्ण-वर्ण-राधा इत्य् अर्थः । तत् मिथुनं राधा-कृष्ण-युगलं मिथः परस्परम् अत्र अभिमुखतां आगात् सम्प्राप्तः । सखीभिः प्रतिफलिततया तयोः दिव्याङ्ग-प्रतिबिम्बतया व्यतिषजमानम् इव परस्पर-संयुक्तम् इव विलोक्य दृष्ट्वा स्मितं हास्यं कृतं ॥२३५॥

विश्वास-प्रस्तुतिः

अथ विदधद् अमूषु नर्म-वाचं
स्वयम् अनु सन्दधद् अप्य् अमूम् अमूषाम् ।
अमृत-सरिति सेक-केलिम् आभिः
समम् अमत स्फुटम् अच्युतश् चिराय ॥२३६॥

मूलम्

अथ विदधद् अमूषु नर्म-वाचं
स्वयम् अनु सन्दधद् अप्य् अमूम् अमूषाम् ।
अमृत-सरिति सेक-केलिम् आभिः
समम् अमत स्फुटम् अच्युतश् चिराय ॥२३६॥

अथ अमूषु प्रियासु नर्म-वाचं विदधत् कुर्वन् स्वयम् अनु अमूसां प्रियाणां अमूं नर्म-वाचं सन्दधत् अच्युतः कृष्णः आभिः प्रियाभिः समं अमृत-सरिति सुधा-नद्यां सेक-केलिं अभिषेक-रूप-क्रीडां स्फुटं चिराय चिर-कालं व्याप्य समम् अमत ॥२३६॥

विश्वास-प्रस्तुतिः

अथ हरिर् अवदद् “गवावनाय
त्वरि-गहनान्तर् अहं रहः प्रयामि ।
पुरु मम जननी-निदेश-तुष्टि-
प्रथन-कृते त्वम् अपि व्रजं प्रयाहि” ॥२३७॥

मूलम्

अथ हरिर् अवदद् “गवावनाय
त्वरि-गहनान्तर् अहं रहः प्रयामि ।
पुरु मम जननी-निदेश-तुष्टि-
प्रथन-कृते त्वम् अपि व्रजं प्रयाहि” ॥२३७॥

अथ अनन्तरं हरिर् अवदत् उक्तवान्—गवावनाय गवां रक्षणाय चारणाय इति यावत्, त्वरि-गहनान्तः शीघ्रता-सहित-वन-मध्ये अहं रहः निर्जनं प्रयामि । पुरु अधिकं । किम्-अर्थं ? तत्राह—मम जननी-निदेश-तुष्टि-प्रथन-कृते, जनन्य्-आज्ञा-तुष्टि-विस्तारणाय इत्य् अर्थः, त्वम् अपि व्रजं प्रयाहि गच्छ ॥२३७॥

विश्वास-प्रस्तुतिः

अथ वर-सुदृशां श्रुतिस् तद् एतत्
प्रवणतया निरधारयद् यथार्थम् ।
निज-गृह-गमनाक्षमा तु दृष्टिः
श्रुति-पथ-रोधन-कृद् विघूर्णति स्म ॥२३८॥

मूलम्

अथ वर-सुदृशां श्रुतिस् तद् एतत्
प्रवणतया निरधारयद् यथार्थम् ।
निज-गृह-गमनाक्षमा तु दृष्टिः
श्रुति-पथ-रोधन-कृद् विघूर्णति स्म ॥२३८॥

अथ अनन्तरं तद् एतत् प्रवणतया प्रणम्रतया, किं वा तद्-उक्त-वचनासक्ततया, वर-सुदृशां कान्तानां श्रुतिः यथार्थं निरधारयत् । तु किन्तु । निज-गृह-गमनाक्षमा स्व-स्व-गृह-गमना-समर्था दृष्टिः नयनं श्रुति-पथ-रोधन-कृत् श्रवण-पथावरोधन-कारिणी सती विघूर्णति स्म ॥२३८॥

विश्वास-प्रस्तुतिः

नयन-युगलम् अश्नुते सदाम्भः
क्व नु निवसेद् बत दुर्लभः स एषः ।
इति हरि-वनिता हरिं निरीक्ष्य
ध्रुवम् अजहुर् नयनाम्भसां कुलानि188 ॥२३९॥

मूलम्

नयन-युगलम् अश्नुते सदाम्भः
क्व नु निवसेद् बत दुर्लभः स एषः ।
इति हरि-वनिता हरिं निरीक्ष्य
ध्रुवम् अजहुर् नयनाम्भसां कुलानि188 ॥२३९॥

नयन-युगलं नेत्र-द्वयं सदा अम्भः जलं अश्नुते व्याप्नोति । नु भोः बत खेदे स एष दुर्लभः कृष्णः क्व कुत्र निवसेत् ? इति एवं-प्रकारेणोक्त्वा हरि-वनिताः कृष्ण-कान्ताः हरिं मनोहरं कृष्णं निरीक्ष्य दृष्ट्वा ध्रुवं निश्चितं नयनाम्भसां नेत्राश्रूणां कुलानि समूहान् अजहुः त्यक्तवत्यः ॥२३९॥

विश्वास-प्रस्तुतिः

मुरजिद् उचित-चारु-चातुरीभिर्
मुहुर् अपि नेत्र-विनोदन-क्रियाभिः ।
स्व-सदन-वदनं विधातुम् आसां
निकरम् अशक्यत न स्व-मग्नम् अन्तः ॥२४०॥

मूलम्

मुरजिद् उचित-चारु-चातुरीभिर्
मुहुर् अपि नेत्र-विनोदन-क्रियाभिः ।
स्व-सदन-वदनं विधातुम् आसां
निकरम् अशक्यत न स्व-मग्नम् अन्तः ॥२४०॥

मुरजित् श्री-कृष्णः उचित-चारु-चातुरीभिः समुचित-मनोहर-चातुर्यैः मुहुर् अपि पुनर् अपि नेत्र-विनोदन-क्रियाभिः आसां प्रियाणां निज-गृहं प्रति वदनं विधातुं प्रिया-गणान् गृह-गमनोन्मुखीः कर्तुं न अशक्यत । आसां अन्तः अन्तःकरणं स्व-मग्नं स्वस्मिन् निमग्नम् आसिद् इति शेषः ॥२४०॥

विश्वास-प्रस्तुतिः

यदपि मुररिपुः प्रियावद् एव
प्रवसन-कातरताम् अवाप तत्र ।
तदपि तम् अनु पौरुषं बभूव
स्फुटम् अबला-वलयावलम्बनाय ॥२४१॥

मूलम्

यदपि मुररिपुः प्रियावद् एव
प्रवसन-कातरताम् अवाप तत्र ।
तदपि तम् अनु पौरुषं बभूव
स्फुटम् अबला-वलयावलम्बनाय ॥२४१॥

यद् अपि मुररिपुः कृष्णः प्रियावद् एव तत्र प्रवसन-कातरतां प्रिय-जन-विरह-जन्य-कातरतां अवाप प्राप्तवान्, तद् अपि अबला-वलयावलम्बनाय अबला-गणावलम्बनाय तम् अनु मुररिपुम् अनु पौरुषां पुरुषस्य भावं स्फुटं बभूव ॥२४१॥

विश्वास-प्रस्तुतिः

दिविज-फल-जयीनि तर्हि वृन्दा
वनज-फलानि बलीन् प्रियावलीशाम् ।
सुखयितुम् अयम् आलि-साद् अकर्षीत्
परिमल-सात्कृतवन्ति तानि ताश् च ॥२४२॥

मूलम्

दिविज-फल-जयीनि तर्हि वृन्दा
वनज-फलानि बलीन् प्रियावलीशाम् ।
सुखयितुम् अयम् आलि-साद् अकर्षीत्
परिमल-सात्कृतवन्ति तानि ताश् च ॥२४२॥

तर्हि तदा अयं श्री-कृष्णः दिविज-फल-जयीनि स्वर्ग-स्थ-फल-जयीनि वृन्दावन-जात-फलानि बलीन् उपहारान् प्रियावलीशां प्रियावलीनां ईशां श्री-राधां सुखयितुं आलि-सात् अकार्षीत् । ताश् च प्रियाश् च तानि परिमल-सात्कृतवन्ति ॥२४२॥

विश्वास-प्रस्तुतिः

अथ कियद् अपि दूर-वर्त्म याता
वन-वलयं जल-तीरगं निरीक्ष्य ।
श्रम-विरति-कृते मुरारि-रामा
निविविशिरे वृषभानुजा-प्रधानाः ॥२४३॥

मूलम्

अथ कियद् अपि दूर-वर्त्म याता
वन-वलयं जल-तीरगं निरीक्ष्य ।
श्रम-विरति-कृते मुरारि-रामा
निविविशिरे वृषभानुजा-प्रधानाः ॥२४३॥

अथ अनन्तरं वृषभानुजा-प्रधानाः श्री-राधा-मुख्याः मुरारि-रामाः कृष्ण-कान्ताः कियद् अपि किञ्चिद् अपि दूर-वर्त्म वन-वलयं याताः सत्यः जल-तीरगं निरिक्ष्य श्रम-विरति-कृते श्रमापशमनाय निविविशिरे ॥२४३॥

विश्वास-प्रस्तुतिः

अथ वृषरवि-देहजा सखीभिर्
व्यतिहसित-प्रथया मुदाञ्चिताभिः ।
मुरविजिद्-अशनावशेषम् आदत्
तद्-अशन-शर्म-कलाम् अभावयच् च ॥२४४॥

मूलम्

अथ वृषरवि-देहजा सखीभिर्
व्यतिहसित-प्रथया मुदाञ्चिताभिः ।
मुरविजिद्-अशनावशेषम् आदत्
तद्-अशन-शर्म-कलाम् अभावयच् च ॥२४४॥

अथ अनन्तरं वृष-रविदेहजा वृषभानु-नन्दिनी इत्य् अर्थः व्यतिहसित-प्रथया परस्पर-हास्य-विस्तारेण मुदाञ्चिताभिः आनन्द-युक्ताभिः सखीभिः सह मुरविजिद्-अशनावशेषं श्री-कृष्ण-भोजनावशेषं आदत् भक्षितवती । तद्-अशन-शर्म-कलां तस्य कृष्णस्य भक्षण-सुख-कलां अभाववयच् च चिन्तयामास च ॥२४४॥

विश्वास-प्रस्तुतिः

सम-गुण-परिचारिकाभिर् एताः
सुरभि-जल-व्यजनादि-धारिणीभिः ।
सरभसम् उपसेविताः समन्ताज्
जित-कमलादि-गुणा189 गुणाद् विरेजुः ॥२४५॥

मूलम्

सम-गुण-परिचारिकाभिर् एताः
सुरभि-जल-व्यजनादि-धारिणीभिः ।
सरभसम् उपसेविताः समन्ताज्
जित-कमलादि-गुणा189 गुणाद् विरेजुः ॥२४५॥

सुरभि-जल-व्यजनादि-धारिणीभिः सुवासित-सलिल-व्यजन-प्रभृति-सेवोपयोगि-द्रव्य-हस्ताभिः, सम-गुण-परिचारिकाभिः समान-गुण-विशिष्ट-दासीभिः एताः श्री-राधा-प्रभृतयः सरभसं सवेगं सहर्षं वा यथा स्यात्, तथा उपसेविताः, गुणात् निज-गुणात् जित-कमलादि-गुणा जिताः कमलादि-गुणाः लक्ष्म्य्-आदि-गुणाः याभिः, ताः । जित-कमलादि-गणाः इति पाठोऽपि दृष्टः । विरेजुः शोभन्ते स्म ॥२४५॥

विश्वास-प्रस्तुतिः

अथ सखि-गण-वेषम् आश्रयन्त्यः
पटु-गति-वर्ष-वरा मुरारि-पार्श्वम् ।
प्रति सपदि गतास् तदा च गोष्ठं
हरि-दयिता निज-सद्म-पद्मम् आप ॥२४६॥

मूलम्

अथ सखि-गण-वेषम् आश्रयन्त्यः
पटु-गति-वर्ष-वरा मुरारि-पार्श्वम् ।
प्रति सपदि गतास् तदा च गोष्ठं
हरि-दयिता निज-सद्म-पद्मम् आप ॥२४६॥

अथ अन्तन्तरं पटु-गति-वर्ष-वराः निपुण-गति-वर्ष-वराः सखि-गण-वेषं आश्रयन्त्यः मुरारि-पार्श्वं गताः । तदा तस्मिन् क्षणे कृष्ण-प्रिया निज-सद्म-पद्मं आप ॥२४६॥

विश्वास-प्रस्तुतिः

व्रज-पदम् अनुगम्य गोप-राज्ञीम्190
अपि तद्-अनुज्ञपिता स्व-धाम गत्वा191
स्व-दयितम् उपसेवितुं रजन्यां
बहु-विध-शिल्प-विकल्पम् आचचार ॥२४७॥

मूलम्

व्रज-पदम् अनुगम्य गोप-राज्ञीम्190
अपि तद्-अनुज्ञपिता स्व-धाम गत्वा191
स्व-दयितम् उपसेवितुं रजन्यां
बहु-विध-शिल्प-विकल्पम् आचचार ॥२४७॥

व्रज-पदं व्रज-स्थानं अनुगम्य प्राप्य गोप-राज्ञीं यशोदां आप अनुगम्य समीपं गत्वा तद्-अनुज्ञपिता यशोदादिष्टा सती स्व-धाम गत्वा रजन्यां निशि स्व-दयितं निज-प्रियतमं श्री-कृष्णं उपसेवितुं बहु-विध-शिल्प-विकल्पं नाना-प्रकार-शिल्पानां विविध-कल्पानां, शय्या-माल्य-चन्दनादि-सेवा-सामग्रीं इत्य् अर्थः, आचचार सम्पादितवती ॥२४७॥

विश्वास-प्रस्तुतिः

इह मृदु मृदु कृष्ण-गान-कर्त्री
वृषरविजा ललितादिभिः सखीभिः ।
मुहुर् अपि समसान्त्वि कृष्ण-वृत्तान्
मुदम् अनु वर्ष-वरेण तेन तेन ॥२४८॥

मूलम्

इह मृदु मृदु कृष्ण-गान-कर्त्री
वृषरविजा ललितादिभिः सखीभिः ।
मुहुर् अपि समसान्त्वि कृष्ण-वृत्तान्
मुदम् अनु वर्ष-वरेण तेन तेन ॥२४८॥

इह निज-मन्दिरे वृषा-रविजा वृषभानु-सुता ललितादिभिः सखीभिः सह मृदु मृदु कृष्ण-गाण-कर्त्री कृष्ण-विषयक-सङ्गीता-कारिणी मुहुर् अपि वारं वारम् अपि तेन तेन वर्ष-वरेण मुदम् अनु कृष्ण-वृत्तात् समसान्त्वि, सम्यक् सान्त्वना अकारि इत्य् अर्थः ॥२४८॥

विश्वास-प्रस्तुतिः

शृणु सखि मुरजिद् यदा तु युष्मद्-
व्यवहितिम् आप तदा जगाम धेनूः ।
मधु-मधुर-कलान् न धेनु-मात्रं
परम् अपरं च चकर्ष जीव-मात्रम् ॥२४९॥

मूलम्

शृणु सखि मुरजिद् यदा तु युष्मद्-
व्यवहितिम् आप तदा जगाम धेनूः ।
मधु-मधुर-कलान् न धेनु-मात्रं
परम् अपरं च चकर्ष जीव-मात्रम् ॥२४९॥

सखि हे राधे ! मुरजित् श्री-कृष्णः यदा युष्मद्-व्यवहितिं युष्माकं व्यवधानं आप प्राप्तवान्, तदा धेनूः जगाम धेनु-समीपं प्राप्तवान् । मधु-मधुर-कलात् सुमधुर-वंशी-नादात् धेनु-मात्रं न चकर्ष किन्तु परं अपरं च जीव-मात्रं चकर्ष ॥२४९॥

विश्वास-प्रस्तुतिः

मुरजिद् अथ समस्त-जीव-जाति-
व्यतिकर-वीक्षणतः क्षमाम् अविन्दत् ।
अकुरुत मुरली-कली-विशेषं
यद् अजनि सर्वकम् एव तत्र भिन्नम् ॥२५०॥

मूलम्

मुरजिद् अथ समस्त-जीव-जाति-
व्यतिकर-वीक्षणतः क्षमाम् अविन्दत् ।
अकुरुत मुरली-कली-विशेषं
यद् अजनि सर्वकम् एव तत्र भिन्नम् ॥२५०॥

अथ अनन्तरं मुरजित् श्री-कृष्णः समस्त-जीव-जाति-व्यतिकर-वीक्षणतः निखिल-जीव-जातीनां व्यतिकर-वीक्षणतः परस्पर-मिलन-दर्शनेन क्षमां शान्तिं अविन्दद् [लज्जन्?] । पुनः यत् मुरली-कली-विशेषं वंशी-ध्वनि-विशेषं, प्रत्यावर्तन-रूपम् इत्य् अर्थः, अकुरुत । तत्र सर्वकम् एव जीव-मात्रं भिन्नं पृथक् पृथक् स्थानं अजनि ॥२५०॥

विश्वास-प्रस्तुतिः

वयम् अखिल-सखि-प्रसक्त-नाना-
हरि-चरिताकलनाय192 यर्हि याताः ।
अपर-हरि-रमाभिर् अन्यदावद्193
बहु-विध-भोज्यम् अदायि तर्हि गुप्तम् ॥२५१॥

मूलम्

वयम् अखिल-सखि-प्रसक्त-नाना-
हरि-चरिताकलनाय192 यर्हि याताः ।
अपर-हरि-रमाभिर् अन्यदावद्193
बहु-विध-भोज्यम् अदायि तर्हि गुप्तम् ॥२५१॥

वयं यर्हि यदा अखिल-सखि-प्रसक्त-नाना-हरि-चरित-कलनाय अखिल-सखीनां समस्त-वयस्यानां प्रसक्तं प्रस्तावितं यत् नाना-हरि-चरितं विविध-हरि-लीलां कलनाय दर्शनाय याताः गताः, तर्हि तदा अपर-हरि-रमाभिः अन्य-कृष्ण-कान्ताभिः, चन्द्रावली-प्रभृतिभिर् इत्य् अर्थः, अन्यदावत् अन्य-समयवत् अन्य-दिनवद् इति यावत् बहु-विध-भक्ष्यं गुप्तं यथा भवति, तथा अदायि दत्तं । अन्यदावद् इत्य् अनेन प्रत्यहम् एव ताभिर् अपि भोज्यं दत्तम् इति ज्ञेयं ॥२५१॥

विश्वास-प्रस्तुतिः

दनुजरिपुर् अशेषम् एव सर्वान्
प्रति विबभाज च भाजनावलीषु ।
अतिगणिततया न यद् विविक्तं
समुपहृतं तद् इदं कया कयेति ॥२५२॥

मूलम्

दनुजरिपुर् अशेषम् एव सर्वान्
प्रति विबभाज च भाजनावलीषु ।
अतिगणिततया न यद् विविक्तं
समुपहृतं तद् इदं कया कयेति ॥२५२॥

दनुज-रिपुः श्री-कृष्णः अशेषम् एव सम्पूर्णम् एव भोज्य-द्रव्यं भाजनावलीषु पात्र-समूहेषु सर्वान् प्रति विबभाज विभागं कृतवान् । अगणिततया असङ्ख्यतया यत् न विविक्तं पृथक्-कृतं तद् इदं कया कया गोप्या समुपहृतं ? ॥२५२॥

विश्वास-प्रस्तुतिः

हरिर् अथ जल-पायनाय धेनूर्
ह्वयति यदा स्म तदा स्रवत्-पदाङ्काः194
अपि निखिलम् अमूस् तृषा विहीनं
विदधुर् अमूषु तथा तथास्तु195 दूरे ॥२५३॥

मूलम्

हरिर् अथ जल-पायनाय धेनूर्
ह्वयति यदा स्म तदा स्रवत्-पदाङ्काः194
अपि निखिलम् अमूस् तृषा विहीनं
विदधुर् अमूषु तथा तथास्तु195 दूरे ॥२५३॥

अथ अनन्तरं हरिः यदा जल-पायनाय जल-पानाय धेनूः ह्वयति आह्वानं करोति, तदा स्रवत्-पदाङ्काः स्खलित-पद-चिह्नाः अपि अमूः निखिलं प्रचुरं तृषा तृष्णया विहीनं रहितं विदधुः, अमूषु तथा तथा दूरे अस्तु ॥२५३॥

विश्वास-प्रस्तुतिः

तदपि च सलिलानि पाययित्वा
निज-कर-सङ्करता-सुधायितानि ।
बहु-निकट-मुखीश् चकार धेनूर्
निज-मुखताम् अपि बिभ्रतीः प्रयत्तः ॥२५४॥

मूलम्

तदपि च सलिलानि पाययित्वा
निज-कर-सङ्करता-सुधायितानि ।
बहु-निकट-मुखीश् चकार धेनूर्
निज-मुखताम् अपि बिभ्रतीः प्रयत्तः ॥२५४॥

तद् अपि च प्रयत्तः प्रयत्नेन विशिष्टः श्री-कृष्णः निज-कर-सङ्करता-सुधायितानि स्वस्य कर-स्पर्शेन सुधा-तुल्यानि सलिलानि जलानि पाययित्वा निज-मुखतां स्वीयाग्र-भागं अपि बिभ्रतीः धेनूः बहु-निकट-मुखीः चकार ॥२५४॥

विश्वास-प्रस्तुतिः

न भवति विनिवर्तनाद्य्-उपायः
प्रति-गति-यष्टि-विचालनादि-रूपः ।
अपि तु हरि-गवीषु दृष्टि-वेणू
सपदि हरेः स्फुरतः स्म तत्र तत्र ॥२५५॥

मूलम्

न भवति विनिवर्तनाद्य्-उपायः
प्रति-गति-यष्टि-विचालनादि-रूपः ।
अपि तु हरि-गवीषु दृष्टि-वेणू
सपदि हरेः स्फुरतः स्म तत्र तत्र ॥२५५॥

विनिवर्तनाद्य्-उपायः प्रति-गति-यष्टि-विचालनादि-रूपः परावृत्ताय लगुड-चालनादि-रूपः न भवति, गवाम् इति शेषः । अपि तु हरि-गवीषु हरेः कृष्णस्य दृष्टि-वेणू सपदि तत्र स्फुरतः, श्री-कृष्णस्यावलोकनेन वेणु-नादेन च गो-प्रत्यावर्तनादि-कार्य-सिद्धिर् भवतीति भावः ॥२५५॥

विश्वास-प्रस्तुतिः

अभि गृहम् अजितस्य या निवृत्य
प्रतिगतिर् अत्र च कौतुकं विभाति ।
उपसुर-सुर-जातयः समन्तान्
नटन-कला-घटन-प्रथाम् अटन्ति ॥२५६॥

मूलम्

अभि गृहम् अजितस्य या निवृत्य
प्रतिगतिर् अत्र च कौतुकं विभाति ।
उपसुर-सुर-जातयः समन्तान्
नटन-कला-घटन-प्रथाम् अटन्ति ॥२५६॥

अजितस्य निवृत्य, वनाद् इति शेषः, अभि गृहं गृहस्याभिमुखं या प्रति-गतिः । अत्र च कौतुकं विभाति । उपसुर-सुर-जातयः उपदेव-गणाः देव-गणाश् च समन्तात् चतुर्-दिक्षु नटन-कला-घटन-प्रथां नृत्य-कला-घटना-विस्तारं अटन्ति ॥२५६॥

विश्वास-प्रस्तुतिः

अथ च यदि तदा समस्त-हृद्भिर्
भरत-कलाम् अनुविन्दते मुकुन्दः ।
दिवि फलक-वरे तदा दिवीशा
दिशि दिशि चित्र-निभानि भालयति ॥२५७॥

मूलम्

अथ च यदि तदा समस्त-हृद्भिर्
भरत-कलाम् अनुविन्दते मुकुन्दः ।
दिवि फलक-वरे तदा दिवीशा
दिशि दिशि चित्र-निभानि भालयति ॥२५७॥

अथ अनन्तरं यदि मुकुन्दः कृष्णः समस्त-हृद्भिः निखिल-सुहृद्भिः भरत-कलां भरत-मुनि-कृत-कला-नाटकादिकां अनुविन्दते पश्यति, तदा दिवि आकाशे फलक-वरे दिवीशाः देवाः दिशि दिशि चित्र-निभानि चित्र-सदृशानि भालयन्ति पश्यन्ति ॥२५७॥

विश्वास-प्रस्तुतिः

इति भणति तदा तदीय-वर्गे
कलकल-भाग् अजनि प्रमोद-गोष्ठम् ।
इह सति वृषभानुजादि-वर्गस्
त्वरित-गति चन्द्र-निवेशम् आरुरोह ॥२५८॥

मूलम्

इति भणति तदा तदीय-वर्गे
कलकल-भाग् अजनि प्रमोद-गोष्ठम् ।
इह सति वृषभानुजादि-वर्गस्
त्वरित-गति चन्द्र-निवेशम् आरुरोह ॥२५८॥

इत्य् एवं-प्रकारेण तदा तस्मिन् श्री-कृष्णादीनाम् आगमन-समये तदीय-वर्गे श्री-राधा-सहचरी-गणे भनति कथयति सति कल-कल-भाग् प्रमोद-गोष्ठं आनन्दान्वित-गोष्ठं अजनि । इह सति वृषभानुजादि-वर्गः श्री-राधादि-सखी-गणः त्वरित-गति यथा स्यात्, तथा चन्द्र-निवेशं चन्द्र-शालिका-गृहं आरुरोह ॥२५८॥

विश्वास-प्रस्तुतिः

उपरि-गृह-गतः स तत्र तत्र
द्रवद् इव गोप-कुलं द्रवाद् ददर्श ।
दृशम् अथ भृशम् अग्रतः प्रयच्छन्
नभसि गतां रजसां नदीम् अपश्यत् ॥२५९॥

मूलम्

उपरि-गृह-गतः स तत्र तत्र
द्रवद् इव गोप-कुलं द्रवाद् ददर्श ।
दृशम् अथ भृशम् अग्रतः प्रयच्छन्
नभसि गतां रजसां नदीम् अपश्यत् ॥२५९॥

स प्रिया-वर्गः उपरि-गृह-गतः चन्द्रशालिका-गृहान्तर्-गतः सन्, तत्र तत्र अर्थात् यत्र यत्र कृष्णादयो गच्छन्ति, किम् वा तत्र तत्र गृहे उपवेश्य, द्रवद् इव गोप-कुलं द्रवात् वेगात् ददर्श । अथ अनन्तरं दृशं नयनं भृशं अत्यर्थं वारं वारम् इति यावत् प्रयच्छन्, गवाक्ष-द्वारैर् इति शेषः । नभसि आकाशे गतां रजसां धूलिनां नदीं नदीम् इव अपश्यत् ॥२५९॥

विश्वास-प्रस्तुतिः

स्फुरद् अथ खुर-रम्भणादि-शब्द-
प्रसरणम् आवृत-सर्वम् एव196 शृण्वन् ।
अवदद् अपि परस्परं तद् इत्थं
स्व-हृदय-रङ्ग-तरङ्ग-नृत्य-तुल्यम् ॥२६०॥

मूलम्

स्फुरद् अथ खुर-रम्भणादि-शब्द-
प्रसरणम् आवृत-सर्वम् एव196 शृण्वन् ।
अवदद् अपि परस्परं तद् इत्थं
स्व-हृदय-रङ्ग-तरङ्ग-नृत्य-तुल्यम् ॥२६०॥

अथ अनन्तरं स्फुरत् प्रकाशमानं खुर-रम्भणादि-शब्द-प्रसरणं गवां खुराणां शब्दादीनां च शब्दैर् विस्तारं सर्वम् एव आवृतं व्याप्तं शृण्वन्, प्रिया-वर्ग इति शेषः । स्व-हृदय-रङ्ग-तरङ्ग-नृत्य-तुल्यं स्व-हृदय-रङ्गस्य तरङ्गेण यन् नृत्यं, तत् तुल्यम् इत्य् अर्थः । परस्परं अन्योन्यं इत्थं अवदत् ॥२६०॥

विश्वास-प्रस्तुतिः

कलय सखि पुरः सुरभ्य्-अनीकं
तद्-अनु च युक्त-नियुक्त-लोक-सङ्घः ।
तम् अनु सखि सुहृत्-कुमार-वृन्दं
विलसति तत्र च शुभ्र-कृष्ण-युग्मम् ॥२६१॥

मूलम्

कलय सखि पुरः सुरभ्य्-अनीकं
तद्-अनु च युक्त-नियुक्त-लोक-सङ्घः ।
तम् अनु सखि सुहृत्-कुमार-वृन्दं
विलसति तत्र च शुभ्र-कृष्ण-युग्मम् ॥२६१॥

हे सखि ! हे सखि ! इति द्विरुक्तं चातिहर्षेण । कलय पश्य पुरः अग्रे सुरभ्य्-अनीकं गाभि-समूहः, तद्-अनु च तत्-पश्चाच् च युक्त-नियुक्त-लोक-सङ्घः, उपयुक्त-प्रवर्तित-जन-गणः भृत्यादय इति यावत् । तम् अनु तत्-पश्चात् सुहृत्-कुमार-वृन्दं वयस्य-वर्गः, तत्र तेषां मध्ये शुभ्र-कृष्ण-युग्मं बलदेव-कृष्ण-युगलं विलसति ॥२६१॥

विश्वास-प्रस्तुतिः

क्वचिद् अपि पशु-नाम भाषमाणः
क्वचिद् अपि रक्षक-नाम वेणु-पाणिः ।
क्वचिद् अपि सखि-नाम मिष्ट-वंशी-
स्वर-कलयाखिल-मोहम् आतनोति ॥२६२॥

मूलम्

क्वचिद् अपि पशु-नाम भाषमाणः
क्वचिद् अपि रक्षक-नाम वेणु-पाणिः ।
क्वचिद् अपि सखि-नाम मिष्ट-वंशी-
स्वर-कलयाखिल-मोहम् आतनोति ॥२६२॥

वेणु-पाणिः मुरली-हस्तः श्री-कृष्णः क्वचिद् अपि कुत्रापि पशु-नाम भाषमाणः पशूनां नाम आख्यां भाषमाणः वदन् इत्य् अर्थः । क्वचिद् अपि कुत्रापि रक्षक-नाम, रक्षकाणां गोपालकानां नाम । क्वचिद् अपि कुत्रापि सखि-नाम सखीनां मिष्ट-वंशि-स्वर-कलया आश्चर्य-मधुर-मुरली-शब्दानां कलया अखिल-मोहं समस्त-श्रोतॄणां मोहम् आतनोति विस्तारयति ॥२६२॥

विश्वास-प्रस्तुतिः

उपरि-रचित-पुष्प-वृष्टि-सृष्टिः
स्तव-कृत-संस्तव एव दिव्य-लोकः ।
सुखयति सखि गोकुलस्य लोकान्
प्रियम् अनु स-प्रियतां हि सुष्ठु धत्ते ॥२६३॥

मूलम्

उपरि-रचित-पुष्प-वृष्टि-सृष्टिः
स्तव-कृत-संस्तव एव दिव्य-लोकः ।
सुखयति सखि गोकुलस्य लोकान्
प्रियम् अनु स-प्रियतां हि सुष्ठु धत्ते ॥२६३॥

हे सखि ! उपरि-रचित-पुष्प-वृष्टि-सृष्टिः उपरि रचिता कृता पुष्प-वृष्टीनां सृष्टिः येन सः । स्तव-कृत-संस्तवः, स्तवेन कृतः संस्तवः प्रशंसा येन सः । स एव दिव्य-लोकः देव-गनः गोकुलस्य लोकान् सुखयति प्रियम् अनु प्रियं प्रति सुष्ठु प्रियतां धत्ते ॥२६३॥

विश्वास-प्रस्तुतिः

हरिम् अथ धवला-निवासम् आप्तं
स्वम् अनु च सन्नतम् अग्रजेन सार्धम् ।
व्रज-पतिर् उपलभ्य तच्-छ्रमापं
मुहुर् अपमृज्य चिरं ददर्श सास्रम् ॥२६४॥

मूलम्

हरिम् अथ धवला-निवासम् आप्तं
स्वम् अनु च सन्नतम् अग्रजेन सार्धम् ।
व्रज-पतिर् उपलभ्य तच्-छ्रमापं
मुहुर् अपमृज्य चिरं ददर्श सास्रम् ॥२६४॥

अथ अनन्तरं व्रज-पतिः व्रज-राजः अग्रजेन बलरामेण सार्धं सह धवला-निवासं गोष्ठं आप्तं प्राप्तं स्वम् अनु स्वं व्रज-पतिं प्रति सन्नतं च प्रणतं च हरिं सर्व-मनोहरं कृष्णं उपलभ्य समीपे प्राप्य तच्-छ्रमापं तस्य कृष्णस्य श्रमापं घर्म-बिन्दुं मुहुर् वारं वारं अपमृज्य निर्मञ्छनी-कृत्य चिरं बहु-क्षणं व्याप्य सास्रं अश्रु-वारि-सहितं यथा स्यात्, तथा ददर्श ॥२६४॥

विश्वास-प्रस्तुतिः

स्वयम् अथ जनकः समस्त-युक्तः
पशु-कुलम् आकुलम् आलयाय नीत्वा ।
स-बलम् अघ-हरं श्रमापनुत्तिं
प्रतिनिदिदेश यतः स एष एति ॥२६५॥

मूलम्

स्वयम् अथ जनकः समस्त-युक्तः
पशु-कुलम् आकुलम् आलयाय नीत्वा ।
स-बलम् अघ-हरं श्रमापनुत्तिं
प्रतिनिदिदेश यतः स एष एति ॥२६५॥

अथ अनन्तरं स्वयं जनकः व्रज-राजः समस्त-युक्तः सर्वैः सहितः सन् आकुलं व्याकुलं पशु-कुलं आलयाय गृहाय नित्वा, स-बलं बलरामेण सहितं अघ-हरं श्री-कृष्णं श्रमापनुत्तिं श्रम-शान्तिं प्रतिनिदिदेश आदिष्टवान् यतः यस्मात् गोष्ठात् स एव जनकः एति आगच्छति ॥२६५॥

विश्वास-प्रस्तुतिः

इति वदति सखी-जने समन्ताद्
वृषरविजां वदति स्म काचिद् एत्य ।
“व्रज-नृप-दयिता समं वधूभिश्
चलति सुतं प्रति मङ्गलानुसङ्गि” ॥२६६॥

मूलम्

इति वदति सखी-जने समन्ताद्
वृषरविजां वदति स्म काचिद् एत्य ।
“व्रज-नृप-दयिता समं वधूभिश्
चलति सुतं प्रति मङ्गलानुसङ्गि” ॥२६६॥

सखीजने समन्तात् इति एवं-प्रकारे वदति सति काचित् सखी एत्य आगत्य वृषरविजां श्री-राधां वदति स्म अवदद् इत्य् अर्थः । किं वदति स्म ? इत्य् आशङ्कायाम् आह—व्रज-नृप-दयिता व्रज-राज-गृहिणी यशोदा वधूभिः समं सुतं प्रति मङ्गलानुसङ्गि यथा स्यात्, तथा चलति गच्छति ॥२६६॥

विश्वास-प्रस्तुतिः

इदम् अवकलयन् सखी-समूहस्
त्वरि-निखिलाधिक-राधिकां प्रतस्थे ।
व्रज-नृप-वनितानुषङ्ग-कामः
करम् अनु चासजति स्म मङ्गलानि ॥२६७॥

मूलम्

इदम् अवकलयन् सखी-समूहस्
त्वरि-निखिलाधिक-राधिकां प्रतस्थे ।
व्रज-नृप-वनितानुषङ्ग-कामः
करम् अनु चासजति स्म मङ्गलानि ॥२६७॥

सखी-समूहः तद्-अन्य-सखी-गणः इदं पूर्वोक्तं यशोदागमनं अवकलयन् पश्यन् त्वरि निखिलाधिक-राधिकां वेगेन सर्वाधिकां राधिकां प्रतस्थे जगाम । व्रज-नृप-दयितानुसङ्ग-कामः यशोदा-सहितानुगमन-कामः सन् मङ्गलानि द्रव्याणि करम् अनु करे आसजति स्म ॥२६७॥

विश्वास-प्रस्तुतिः

अघरिपु-जननी तु सर्व-युक्ता
स्व-पथम् अभीक्ष्णम् असाव् अभीक्षमाणा ।
वृषरवि-तनुजादिभिः स्नुषाभिः
समनुगता स्व-सुखा चकार197 ॥२६८॥

मूलम्

अघरिपु-जननी तु सर्व-युक्ता
स्व-पथम् अभीक्ष्णम् असाव् अभीक्षमाणा ।
वृषरवि-तनुजादिभिः स्नुषाभिः
समनुगता स्व-सुखा चकार197 ॥२६८॥

असौ अघरिपु-जननी कृष्ण-जननी यशोदा सर्व-युक्ता सर्वाभिः वधूभिः सहिता सती अभीक्ष्णं पुनः पुनः स्व-पथं स्वगमन-पथं श्री-कृष्णागमन-पथम् इत्य् अर्थः अभीक्षमाणा सर्वतो-भावेन पश्यती, वृष-रवि-तनुजादिभिः श्री-राधादिभिः स्नुषाभिः पुत्र-वधूभिः समनुगता च स्व-सुखं यथा स्यात् तथा अन्याश् च सुखीचकार ॥२६८॥

विश्वास-प्रस्तुतिः

अथ जय-जय-शब्द-भव्य-गीत-
स्तव-घृत-दीपक-पूर्ण-कुम्भ-लाजान् ।
वचसि शिरसि हस्तयोः श्रयन्ती
हरि-जननी-प्रभृतिस् ततिः प्रतस्थे ॥२६९॥

मूलम्

अथ जय-जय-शब्द-भव्य-गीत-
स्तव-घृत-दीपक-पूर्ण-कुम्भ-लाजान् ।
वचसि शिरसि हस्तयोः श्रयन्ती
हरि-जननी-प्रभृतिस् ततिः प्रतस्थे ॥२६९॥

अथ अनन्तरं हरि-जननी-प्रभृतिस् ततिः समूहः जय-जय-शब्द-भव्य-गीत-स्तव-घृत-दीपक-पूर्ण-कुम्भलाजान् जय-जय-ध्वनि-माङ्गलिक-गीत-स्तव-घृत-प्रदीप-वारि-पूर्ण-कुम्भ-लाजान्, वचसि शिरसि हस्तयोः अर्थात् वचसि जय-जय-शब्द-माङ्गल्य-सङ्गीतान्, शिरसि घृत-दीपान् पूर्ण-कुम्भान्, हस्तयोः लाजान् श्रयन्ती धारन्ती प्रतस्थे जगाम ॥२६९॥

विश्वास-प्रस्तुतिः

समगमद् अवरोध-निष्क्रम-द्वार्-
अवधिम् इयं स तदा तु कृष्ण-चन्द्रः ।
सह-बलम् अभियन् पुरः प्रदेशं
श्रमज-रुचाप्य् अभितः सुखं ववर्ष ॥२७०॥

मूलम्

समगमद् अवरोध-निष्क्रम-द्वार्-
अवधिम् इयं स तदा तु कृष्ण-चन्द्रः ।
सह-बलम् अभियन् पुरः प्रदेशं
श्रमज-रुचाप्य् अभितः सुखं ववर्ष ॥२७०॥

इयं श्री-यशोदा अवरोध-निष्क्रम-द्वार्-अवधिं, अन्तः-पुरात् बहिर् गन्तुं सिंह-द्वार-पर्यन्तम् इत्य् अर्थः, यदा समगमत् जगाम, तदा स कृष्ण-चन्द्रः सह-बलं बलदेवेन सहितं यथा स्यात्, तथा पुरः-प्रदेशं अग्र-वर्ति-स्थानं अभियन् अभिगच्छन्, श्रमज-रुचा श्रमात् जायते वा रुक् कान्तिः, तया अपि अभितः सुखं ववर्ष ॥२७०॥

विश्वास-प्रस्तुतिः

अथ स कुसुम-लाज-वृष्टि-नीरा-
जन-सुखम् अन्व् अनु मातुर् अङ्घ्रि-लग्नः ।
अपर-गुरु-जनेषु चान्वतिष्ठत्
तद् अथ यथा युगपद् बलश् च तद्वत् ॥२७१॥

मूलम्

अथ स कुसुम-लाज-वृष्टि-नीरा-
जन-सुखम् अन्व् अनु मातुर् अङ्घ्रि-लग्नः ।
अपर-गुरु-जनेषु चान्वतिष्ठत्
तद् अथ यथा युगपद् बलश् च तद्वत् ॥२७१॥

अथ अनन्तरं स श्री-कृष्णः कुसुम-लाज-वृष्टि-नीराजन-सुखं कुसुम-लाजानां वृष्टि-वर्षणं नीराजनं आरात्रिकं, तेषां सुखम् अनु पश्चात् यथा युगपत् मातुः यशोदायाः अङ्घ्रि-लग्नः चरण-संलग्नः सन् अपर-गुरु-जनेषु रोहिनी-प्रभृतिषु च अन्वतिष्ठत् प्रणम्य अतिष्ठत् । तत् तदा बलश् च बलरामश् च तद्वत् जननी-प्रभृति-गुरु-वर्गेषु प्रणम्य अतिष्ठत् ॥२७१॥

विश्वास-प्रस्तुतिः

तद्-अनु च जननी हृदा सदाशीस्-
ततिम् अददाद् वचसा तु नेति सर्वा ।
स-नयन-जल-गद्गदं गदन्ती
कलकल-वल्गु-गिराशिषः शशंस ॥२७२॥

मूलम्

तद्-अनु च जननी हृदा सदाशीस्-
ततिम् अददाद् वचसा तु नेति सर्वा ।
स-नयन-जल-गद्गदं गदन्ती
कलकल-वल्गु-गिराशिषः शशंस ॥२७२॥

तद्-अनु तत्-पश्चात् जननी यशोदा हृदा हृदयेन सदाशीस्-ततिं आशीर्वाद-समूहं अददात् दत्तवती, तु किन्तु वचसा वाक्येन न, आशीर्वादं कर्तुं नाशक्नोत् प्रेम-वैवश्याद् इति भावः । सर्वा जननीतरा स-नयन-जल-गद्गदं नयन-जलेन सह गद्गदं अर्ध-स्फुटवत् वाक्यं गदन्ती वदन्ती सती कल-कल-वल्गु-गिरा कल-कल-मनोहर-वाक्येन आशिषः आशीर्वादान् शशंस कथयामास ॥२७२॥

विश्वास-प्रस्तुतिः

अथ बल-जननी-युता यशोदा
सुत-युगलं दधती करेण दोष्णि ।
स्व-सदनम् उपनीय खेद-रिक्तं
करण-लघु-व्यजनं विधूनुते स्म ॥२७३॥

मूलम्

अथ बल-जननी-युता यशोदा
सुत-युगलं दधती करेण दोष्णि ।
स्व-सदनम् उपनीय खेद-रिक्तं
करण-लघु-व्यजनं विधूनुते स्म ॥२७३॥

अथ अनन्तरम् बल-जननी-युता रोहिणी-सहिता यशोदा सुत-युगलं राम-कृष्ण-द्वन्द्वं स्कन्धे करेण स्व-स्व-हस्तेन दोष्णि तयोः भुजे दधती सती स्व-सदनम् स्वीय-भवनम् उपनीय आनीय खेद-रिक्तं श्रम-शून्यं करण-लघु-व्यजनं करणाय मन्द-मन्द-वीजनं विधूनुते स्म ॥२७३॥

विश्वास-प्रस्तुतिः

क्षण-कतिपय-मातृ-लालनायां
जडवद् उपेयतुर् अस्मृतिं सहोत्थौ ।
तद्-अनु च तनु-सेवकाः समूचुः
“स्नपन-जल-प्रमुखं समस्तम् अस्ति” ॥२७४॥

मूलम्

क्षण-कतिपय-मातृ-लालनायां
जडवद् उपेयतुर् अस्मृतिं सहोत्थौ ।
तद्-अनु च तनु-सेवकाः समूचुः
“स्नपन-जल-प्रमुखं समस्तम् अस्ति” ॥२७४॥

सहोत्थौ सहाविर्भावौ श्री-राम-कृष्णौ क्षण-कतिपय-मातृ-लालनायां कियत्-क्षणं व्याप्य जननी-लालानायां जडवत् मुग्धवत् अस्मृतिं, अन्य-क्र्ट्येषु इति शेषः, उपेयतुः प्रापतुः । तद्-अनु तत्-पश्चात् च तनु-सेवकाः शरीर-सेवकाः अङ्ग-मार्जन-स्नानादि-कार्य-निपुना भृत्याः समूचुः उक्तवन्तः । किम् ऊचुः ? तद् आह—“स्नपन-जल-प्रमुखं स्नानार्थ-जलादिकं समस्तं अस्ति” इति ॥२७४॥

विश्वास-प्रस्तुतिः

द्रुतम् अथ जननी-निदेश-लाभात्
स्नपन-कृते सहज-द्वयं जगाम ।
निज-निज-गृह-भाग् वपुश् च नीरा-
दिभिर् अमृज्य जवाद् अवस्त वस्त्रम् ॥२७५॥

मूलम्

द्रुतम् अथ जननी-निदेश-लाभात्
स्नपन-कृते सहज-द्वयं जगाम ।
निज-निज-गृह-भाग् वपुश् च नीरा-
दिभिर् अमृज्य जवाद् अवस्त वस्त्रम् ॥२७५॥

अथ अनन्तरं सहज-द्वयं श्री-राम-कृष्ण-द्वयं जननी-निदेश-लाभात् मातुर् आज्ञा-प्रापणात् स्नपन-कृते स्नानार्थं द्रुतं सत्वरं जगाम । निज-निज-गृह-भाक् स्व-स्व-स्नान-गृहं प्राप्तं, वपुश् च देहं च नीरादिभिः जलाम् अलकादि-देह-मार्जन-प्रसिद्धादिभिः अभिमृज्य मार्जनां कृत्वा जवात् शीघ्रं वस्त्रं अवस्त परिधानं कृतवान् ॥२७५॥

विश्वास-प्रस्तुतिः

हरिर् अथ हरिचन्दनेन रक्तं
मृगज-मदेन बलस् तु वस्त्र-युग्मम् ।
दधद् अनु दधद् अङ्ग-रागम् एवं
दर-धृत-भूषणम् आप मातृ-पार्श्वम् ॥२७६॥

मूलम्

हरिर् अथ हरिचन्दनेन रक्तं
मृगज-मदेन बलस् तु वस्त्र-युग्मम् ।
दधद् अनु दधद् अङ्ग-रागम् एवं
दर-धृत-भूषणम् आप मातृ-पार्श्वम् ॥२७६॥

अथ अनन्तरं हरिः श्री-कृष्णः हरि-चन्दनेन पीत-वर्ण-सुगन्ध-काष्ठ-विशेषेण किम् वा कुङ्कुमेण रक्तं, बलो बलरामस् तु मृगज-मदेन रङ्गं वस्त्र-युग्मं परिधेयोत्तरीय-वसन-द्वयं दधत्, दधद् अङ्ग-रागं, कृष्ण-पक्षे कुङ्कुम-हरि-चन्दनादि-यथा-योग्याङ्ग-रागं, बल-पक्षे मृग-मद-चन्दनादि-शुक्लाङ्ग-योग्य-शुक्लाङ्ग-रागं दधत् । दर-धृत-भूषणं ईषद्-धृत-भूषणं मातृ-पार्श्वं जननी-समीपं आप जगाम ॥२७६॥

विश्वास-प्रस्तुतिः

सकलम् अवयवं निजं स-वेशं
सुरभितम् अप्य् अतुलं करोति कृष्णः ।
निटिलम् अतितमां198 यद् अस्य पश्यत्य्
अपि पुरु जिघ्रति तात-मातृ-युग्मम् ॥२७७॥

मूलम्

सकलम् अवयवं निजं स-वेशं
सुरभितम् अप्य् अतुलं करोति कृष्णः ।
निटिलम् अतितमां198 यद् अस्य पश्यत्य्
अपि पुरु जिघ्रति तात-मातृ-युग्मम् ॥२७७॥

कृष्णः स-वेशं वेशेन सहितं निजं स्वकीयं सकलं समस्तं अतुलं तुलना-रहितम् अपि अवयवं हस्तादिकं सुरभितं सौरभ-युक्तं करोति । यद् अस्य पुत्रस्य निटिलं मस्तकं अतितमं अत्यधिकं पश्यत्य् अपि तात-मातृ-युग्मं श्री-नन्द-यशोदा-रोहिण्य्-आख्यं पुरु अधिकं जिघ्रति, घ्रा-गन्धोपादाने ॥२७७॥

विश्वास-प्रस्तुतिः

सुत-युगम् अथ मातृ-युग्मम् आप्तं
तद्-उचित-चित्रक-चित्रम् आशु कृत्वा ।
अमृत-रुचि-धरेण पानकेन
क्रमुक-पुटेन च नन्दयाञ् चकार ॥२७८॥

मूलम्

सुत-युगम् अथ मातृ-युग्मम् आप्तं
तद्-उचित-चित्रक-चित्रम् आशु कृत्वा ।
अमृत-रुचि-धरेण पानकेन
क्रमुक-पुटेन च नन्दयाञ् चकार ॥२७८॥

अथ अनन्तरं मातृ-युग्मं यशोदा-रोहिणी-द्वयं आप्तं प्राप्तं सुत-युगं राम-कृष्ण-पुत्र-द्वयं आशु शीघ्रं तद्-उचित-चित्रक-चित्रम् तयोः राम-कृष्णयोः उचितं यथोपयुक्तं चन्दन-मृगमद-कुङ्कुमादिकं, तेन चित्रकं आश्चर्यं चित्रं तिलकं कृत्वा, अमृत-रुचि-धरेण सुधा-तुल्य-सुस्वाद-युक्तेन पानकेन सितादि-सम्मिश्रित-पानीयेन क्रमुक-पुटेन च गुवाक-सम्पूटेन ताम्बूलेनेति यावत् नन्दयाञ्चकार । किं वात्र सुत-युगम् इति कर्तृ-पदं यथा-योग्यं यथा-रुचिभिह् सुधिभिर् एव समाधेयं ॥२७८॥

विश्वास-प्रस्तुतिः

स्फुरद् इह जननी-युगं प्रसूत्योर्
युगम् अपि चित्रतया विभाति नित्यम् ।
युग-युगम् अनु तर्क्यते न शीलात्
क्व नु जननी-जननीयता-विभागः ॥२७९॥

मूलम्

स्फुरद् इह जननी-युगं प्रसूत्योर्
युगम् अपि चित्रतया विभाति नित्यम् ।
युग-युगम् अनु तर्क्यते न शीलात्
क्व नु जननी-जननीयता-विभागः ॥२७९॥

इह स्फुरत् जननी-युगं यशोदा-रोहिण्याख्यं प्रसूत्योः [प्र+सू+कर्मणि-क्तिः] पुत्रयोर् युगं चित्रतया आश्चर्यतया नित्यं विभाति । युग-युगं प्रति युगं शीलात् स्वभावात् क्व कुत्र नु भोः जननी-जननीयता-विभागः जननी-पुत्रत्व-विभागः न तर्क्यते ॥२७९॥

विश्वास-प्रस्तुतिः

शिरसि दधद् अपूर्व-पट्ट-पाशं
करम् अनु रत्नज-चित्र-मित्र-यष्टिम् ।
बल-सहिततयाचलज् जनन्योश्
चरण-नतिं विदधत् पयांसि दोग्धुम् ॥२८०॥

मूलम्

शिरसि दधद् अपूर्व-पट्ट-पाशं
करम् अनु रत्नज-चित्र-मित्र-यष्टिम् ।
बल-सहिततयाचलज् जनन्योश्
चरण-नतिं विदधत् पयांसि दोग्धुम् ॥२८०॥

शिरसि मस्तके अपूर्व-पट्ट-पाशं आश्चर्य-पट्ट-निर्मित-पाशं करम् अनु करे रत्नज-चित्र-मित्र-यष्टिं रत्न-विचित्रित-मित्र-तुल्य-यष्टिं दधत् बल-सहिततया बलदेवेन सह जनन्योः श्री-यशोदा-रोहिण्योः चरण-नतिं पदे प्रणामं विदधत् कुर्वन् पयांसि दोग्धुं अचलत् अगच्छत्, श्री-कृष्ण इति शेषः ॥२८०॥

विश्वास-प्रस्तुतिः

अथ कनकज-दोहनादि-पात्राण्य्
अनुग-जनाः समम् एव ते गृहीत्वा ।
व्यतिजय-मनसा द्रवं दधाना
द्रव-गमनाः समयुस् तदीय-पद्याम् ॥२८१॥

मूलम्

अथ कनकज-दोहनादि-पात्राण्य्
अनुग-जनाः समम् एव ते गृहीत्वा ।
व्यतिजय-मनसा द्रवं दधाना
द्रव-गमनाः समयुस् तदीय-पद्याम् ॥२८१॥

अथ अनन्तरं ते प्रसिद्धा अनुग-जना भृत्याः कनकज-दोहनादि-पात्राणि स्वर्ण-निर्मित-दोहन-पात्राणि समम् एव तेन सह तस्य वा किं वा युगपद् एव गृहीत्वा व्यतिजय-मनसा “अहं पूर्वम् अहं पूर्वम्” इत्य् आकार-परस्पर-जय-कामेन मनसा द्रवं दधानाः द्रव-गमनाः सत्वर-गमनाः तदीय-पद्यां श्री-कृष्ण-गमन-मार्गं समयुः अगमन् ॥२८१॥

विश्वास-प्रस्तुतिः

पुनर् अथ वृषभानुजादि-वर्गः
सदन-शिरो-गृह-जाल-रन्ध्र-लग्नः ।
उपदिशति परस्परं स्म वीक्ष्य
प्रिय-चरितं गवि-दोहनाय जातम् ॥२८२॥

मूलम्

पुनर् अथ वृषभानुजादि-वर्गः
सदन-शिरो-गृह-जाल-रन्ध्र-लग्नः ।
उपदिशति परस्परं स्म वीक्ष्य
प्रिय-चरितं गवि-दोहनाय जातम् ॥२८२॥

अथ अनन्तरं पुनः वृषाभानुजादि-वर्गः श्री-रधादि-कान्ता-समूहः सदन-शिरो-गृह-जाल-रन्ध्र-लग्नः द्वितल-त्रितलादि-गृह-गत-गवाक्ष-रन्द्रे नयन-संल्ग्नः सन्नित्य् अर्थः, गवि-दोहनाय गो-समूह-दोहनाय जातं समुद्भूतं प्रिय-चरितं कृष्ण-चरितं विक्ष्य परस्परं उपदिशति ॥२८२॥

विश्वास-प्रस्तुतिः

कलय सखि हरिः पितृ-निदेशं
स्वयम् अनु याचनया प्रपद्यमानः ।
पशुप-जननि-योजनानुपूर्व्या
सह-बलम् आचरति स्म गोषु दोहम् ॥२८३॥

मूलम्

कलय सखि हरिः पितृ-निदेशं
स्वयम् अनु याचनया प्रपद्यमानः ।
पशुप-जननि-योजनानुपूर्व्या
सह-बलम् आचरति स्म गोषु दोहम् ॥२८३॥

हे सखि !कलय पश्य, हरिः स्वयम् अनु याचनया प्रार्थनया पितुः श्री-व्रज-राजस्य निदेशं अनुमतिं प्रपद्यमानः प्राप्नुवन् पशुप-जननि-योजनानु-पूर्व्या गो-पालक-गण-नियोजनस्य आनुपूर्व्या परिपाट्या अग्र-पश्चाद्भाव-रूप-क्रमेण वा गोषु देहं सह-बलं यथा स्यात्, तथा आचरति अनुतिष्ठति ॥२८३॥

विश्वास-प्रस्तुतिः

यदपि च हरि-हूति-माधुरीभिः
स नदति सर्वक एव धेनु-सङ्घः ।
तदपि च बत कापि तस्य शिक्षा-
वश-गतया तम् इयर्ति तेन हूता ॥२८४॥

मूलम्

यदपि च हरि-हूति-माधुरीभिः
स नदति सर्वक एव धेनु-सङ्घः ।
तदपि च बत कापि तस्य शिक्षा-
वश-गतया तम् इयर्ति तेन हूता ॥२८४॥

यद् अपि हरि-यूति-माधुरीभिः हरेः कृष्णस्य या हूतिः आहूतिः, आह्वानम् इति यावत्, तस्याः या माधुरी, ताभिः सर्वक एव स धेनु-सङ्घः गो-समूहः नदति, “नद शब्दे” । तद् अपि बत आश्चर्यं कापि धेनुः तस्य शिक्षा-वश-गतया शिक्षाधीनतया, तेन कृष्णेन हूताः, “श्यामलि धवलि गङ्गे यमुने” इत्य्-आदि नाम्ना आहूता सती तम् एव कृष्णम् एव इयर्ति गच्छति प्राप्नोति ॥२८४॥

विश्वास-प्रस्तुतिः

अथ परिहितम् उत्तरीय-बद्धं
द्रढयति गाढतया गवाम् अधीन्द्रः ।
तद्-अनु च मृदु-पाश-नद्ध-वत्सं
नव-धवला-चरणेन संयुनक्ति ॥२८५॥

मूलम्

अथ परिहितम् उत्तरीय-बद्धं
द्रढयति गाढतया गवाम् अधीन्द्रः ।
तद्-अनु च मृदु-पाश-नद्ध-वत्सं
नव-धवला-चरणेन संयुनक्ति ॥२८५॥

अथ अनन्तरं गवां अधीन्द्रः अधिपतिः गोविन्द इति यावत् गाढतया दृड्ःअतया परिहितं परिधान-वस्त्रं उत्तरीय-बद्धं उत्तरीयेण वस्त्रेण बद्धं यथा स्यात्, तथा द्रढयति । तद्-अनु तत्-पश्चात् नव-धवला-चरणेन सह मृदु-पाश-नद्ध-वत्सं मृदु-पाशेन कोमल-पट्ट-रज्ज्वा नद्ध-वत्सं संयुनक्ति ॥२८५॥

विश्वास-प्रस्तुतिः

क्षितिम् अनु चरणाग्र-दत्त-भारः
प्रणमित-जानु-युगान्तर-स्थ-पात्रः ।
मुहुर् अपि कलयन् स गो-स्तनाग्रं
स्मितम् अपि दुग्धम् अपि स्म दोग्धि कृष्णः ॥२८६॥

मूलम्

क्षितिम् अनु चरणाग्र-दत्त-भारः
प्रणमित-जानु-युगान्तर-स्थ-पात्रः ।
मुहुर् अपि कलयन् स गो-स्तनाग्रं
स्मितम् अपि दुग्धम् अपि स्म दोग्धि कृष्णः ॥२८६॥

क्षितिम् अनु पृथिवीम् अनु क्षित्यां चरणाग्र-दत्त-भारः चरणाग्रे दत्तः अर्पितः भारः विग्रहस्य भारः येन सः, प्रणमित-जानु-युगान्तर-स्थ-पात्रः प्रणमितयोः प्रकार्षेण नमितयोः वक्री-कृतयोर् वा जानु-युगयोर् अन्तर-स्थं मध्य-स्थं पात्रं स्वर्ण-निर्मित-भाजनं यस्य, स कृष्णः मुहुर् अपि पुनः पुनर् अपि गो-स्तनाग्रं कलयन् चालयन् आकर्षयन्न् इति यावत्, स्मितम् अपि मन्द-हास्यम् अपि दुग्धम् अपि च दोग्धि स्म अदुग्ध ॥२८६॥

विश्वास-प्रस्तुतिः

कलय हरिर् अमूम् अदुग्ध धेनुं
कथम् अपरा दुहते स्वयं विलोक्य ।
अहह तद् अवलोक्य पश्य दूराद्
अनुकुरुते जरद्-अङ्गना-गणश् च ॥२८७॥

मूलम्

कलय हरिर् अमूम् अदुग्ध धेनुं
कथम् अपरा दुहते स्वयं विलोक्य ।
अहह तद् अवलोक्य पश्य दूराद्
अनुकुरुते जरद्-अङ्गना-गणश् च ॥२८७॥

अपराः गोपाः कथं केन प्रकारेण, कया प्रणाल्या इति यावत्, दुहते, गाः दोग्धम् इति शेषः, इति स्वयं विलोक्य हरिः अमूं धेनुं अदुग्ध कलय पश्य । अहह आश्चर्यं जरद्-अङ्गना-गणश् च वृद्ध-गोपी-समूहः दूरात् तत् दोहनं अवलोक्य दृष्ट्वा अनुकुरुते इति च पश्य ॥२८७॥

विश्वास-प्रस्तुतिः

द्रुतम् अथ पयसां निपान् प्रहृत्य
प्रययुर् अमी व्रजरान्-मुखा गृहाय ।
हरिर् अथ सकलः सुहृद्-वृति-श्रीः
कवि-कवितः स ससार राज-सद्म ॥२८८॥

मूलम्

द्रुतम् अथ पयसां निपान् प्रहृत्य
प्रययुर् अमी व्रजरान्-मुखा गृहाय ।
हरिर् अथ सकलः सुहृद्-वृति-श्रीः
कवि-कवितः स ससार राज-सद्म ॥२८८॥

अथ अनन्तरं अमी व्रज-रान्-मुखाः श्री-नन्द-प्रभृतयः पयसां दोग्धानां निपान् कलसान् द्रुतं प्रहृत्य प्रेरयित्वा सङ्गृह्य वा, गृहाय वास-भवनाय प्रययुः जग्मुः । अथ सकलः बलदेव-सहितः सुहृद्-वृति-श्रीः सखी-जन-वेष्टित-शोभा-युक्तः, कवि-कवितः कविभिः कवितः विचित्र-कव्येन कीर्तितः वर्णितो वा स हरिः श्री-कृष्णः राज-सद्म राज-मन्दिरं ससार, जगाम इत्य् अर्थः ॥२८८॥

विश्वास-प्रस्तुतिः

बलम् अनु सखिभिः सहास-जल्पः
कर-कर-ताडनया मिथः प्रमोदी ।
स-मद-गज-गतिर् विचित्र-वेत्रः
परिसरम् एति सरन् सरोज-नेत्रः ॥२८९॥

मूलम्

बलम् अनु सखिभिः सहास-जल्पः
कर-कर-ताडनया मिथः प्रमोदी ।
स-मद-गज-गतिर् विचित्र-वेत्रः
परिसरम् एति सरन् सरोज-नेत्रः ॥२८९॥

बलम् अनु सखीभिः सह सहास-जल्पः हास्य-समन्वित-विविध-वाक्य-वादी मिथः परस्परं कर-कर-ताडनया, कर-ताली-प्रदानेनेत्य् अर्थः, प्रमोदी प्रमोद-युक्तः समद-गज-गतिः मद-युक्त-गज-गतिः, विचित्र-वेत्रः रत्न-निर्मित-यष्टिः, एतादृशः सरोज-नेत्रः कमल-नयनः श्री-कृष्णः सरन् गच्छन् परिसरं प्रदेशं एति, आगच्छति इत्य् अर्थः ॥२८९॥

विश्वास-प्रस्तुतिः

सरणिम् अनु सरन्न् अमुं प्रदेशं
पुनर् अमुम् अप्य् अमुम् अप्य् अमुं विवेश ।
मुरजिद् अधिरुरोह कर्णिकाग्रं
निज-निज-सेवन-सिद्धये प्रयामः ॥२९०॥

मूलम्

सरणिम् अनु सरन्न् अमुं प्रदेशं
पुनर् अमुम् अप्य् अमुम् अप्य् अमुं विवेश ।
मुरजिद् अधिरुरोह कर्णिकाग्रं
निज-निज-सेवन-सिद्धये प्रयामः ॥२९०॥

सरणिम् अनु मार्गम् अनु, पथि इति यावत्, सरन् गच्छन्, अमूं प्रदेशं देशं पुनः अयं अमुं प्रदेशं अयं अमुं प्रदेशं अयं अमुं प्रदेशं विवेश, अपर-सखि-जन-स्व-स्व-गृह-प्रवेशाभिप्रायेणोक्तम् इत्य् आकारेण, अनिर्दिष्ट-कर्तृ-पदं च सङ्ख्यातीतत्वात्, सुदाम-श्रीदाम इति रीत्या ज्ञेयं । मुरजित् कर्णिकाग्रं अधिरुरोह । निज-निज-सेवन-सिद्धये स्व-स्व-परिचर्या-निष्पत्तये प्रयामः, वयम् इति शेषः ॥२९०॥

विश्वास-प्रस्तुतिः

इति विविधतयानुवर्ण्यमानः
सविध-समेततयावकर्ण्यमानः ।
उप-जननि स एत्य तन्-निदेशात्
क्लमम् अपनेतुम् इयाय वास-सद्म ॥२९१॥

मूलम्

इति विविधतयानुवर्ण्यमानः
सविध-समेततयावकर्ण्यमानः ।
उप-जननि स एत्य तन्-निदेशात्
क्लमम् अपनेतुम् इयाय वास-सद्म ॥२९१॥

इति एवं-प्रकारेण विविधतया नाना-प्रकारेण अनुवर्ण्यमानः कीर्तितः, सविध-समेततया निकट-सङ्गततया अवकर्ण्यमानः दृश्यमानः, कान्तादिभिर् इति शेषः, स श्री-कृष्णः उप-जननि जननी-समीपं एत्य आगत्य, तन्-निदेशात् जनन्य्-आदेशात् क्लमं श्रमं अपनेतुं दूरीकर्तुं वास-सद्म निज-शयन-गृहं इयाय जगाम ॥२९१॥

विश्वास-प्रस्तुतिः

द्रुतम् अथ वृषभानुजादि-वर्गः
प्रियम् उपसेवितुम् आवृतीयमानः ।
अकुरुत जल-ताल-वृन्त-चर्चाद्य्-
उपकरणं कलयंस् तदीय-शर्म ॥२९२॥

मूलम्

द्रुतम् अथ वृषभानुजादि-वर्गः
प्रियम् उपसेवितुम् आवृतीयमानः ।
अकुरुत जल-ताल-वृन्त-चर्चाद्य्-
उपकरणं कलयंस् तदीय-शर्म ॥२९२॥

अथ अनन्तरं वृषभानुजादि-वर्गः श्री-वृषभानु-नन्दिनी-प्रभृति-प्रिया-समूहः प्रियं प्राण-वल्लभं उपसेवितुं परिचर्यां कर्तुं द्रुतं आवृतीयमानः वेष्टितीयमानः जल-ताल-वृन्त-चर्चाद्य्-उपकरणं पाद्याचमनीय-पदार्थं, जलं देह-सुशीतलार्थं, तालवृन्तं ताल-पत्र-निर्मित-व्यजनं, चर्चा चन्दनादि-लेपनं इत्य्-आदि उपकरणं कलयन् व्यवहरन् तदीय-शर्म प्रियतम-सुखं अकुरुत । किं वा, तदीय-शर्म कलयन् विचारयन् पश्यन् वा जलाद्य्-उपकरणं अकुरुत ॥२९२॥

विश्वास-प्रस्तुतिः

रुचिर-मृदुल-तूलिकाञ्चि-खट्टाम्
उपरि निवेशम् अमुं निषेव्यमाणाः ।
यद् इह सुखम् अमुष्य तन् निजात्म-
प्रतिफलितं निजम् एव ता विदुः स्म ॥२९३॥

मूलम्

रुचिर-मृदुल-तूलिकाञ्चि-खट्टाम्
उपरि निवेशम् अमुं निषेव्यमाणाः ।
यद् इह सुखम् अमुष्य तन् निजात्म-
प्रतिफलितं निजम् एव ता विदुः स्म ॥२९३॥

रुचिर-मृदुल-तुलिकाञ्चि-खट्टां मनोहर-कोमल-तुलिका-युक्त-पर्यङ्कं उपरि निवेशं स्थितं अमुं वल्लभं निषेव्यमाणाः परिचर्यां कुर्वाणा ताः प्रियाः, इह अमुष्य प्राण-नाथस्य यत् सुखं, तत् निजात्म-प्रतिफलितं स्व-देह-प्रतिबिम्बितं निजम् एव विदुः स्म जानन्ति स्म ॥२९३॥

विश्वास-प्रस्तुतिः

यदपि तम् अनुसेवते समस्ता
ततिर् इयम् उत्तम-कल्पम् अल्पकं न ।
तदपि च वृषभानुजा यदा यत्
कलयति तन् नवतां सदा प्रयाति ॥२९४॥

मूलम्

यदपि तम् अनुसेवते समस्ता
ततिर् इयम् उत्तम-कल्पम् अल्पकं न ।
तदपि च वृषभानुजा यदा यत्
कलयति तन् नवतां सदा प्रयाति ॥२९४॥

यद् अपि इयं समस्ता ततिः तम् अनु कृष्णम् अनु सेवते, तद् उत्तम-कल्पः विधानं नियमः अल्पकं अल्पं न, तद् अपि वृषभानुजा श्री-राधा यदा यस्मिन् समये यत् नियमं कलयति प्रियतम-परितोषणार्थं करोति, तत् विधानं सदा क्षणे नवतां नूतनत्वं प्रयाति प्राप्नोति ॥२९४॥

विश्वास-प्रस्तुतिः

नवम् इव मिथुनं मिथः स्थितं यन्
नवम् इव राग-जनुश् च यस्य नित्यम् ।
कथम् इव नवतां न तस्य विन्देद्
व्यतिभजनं हरि-राधिकाभिधस्य ॥२९५॥

मूलम्

नवम् इव मिथुनं मिथः स्थितं यन्
नवम् इव राग-जनुश् च यस्य नित्यम् ।
कथम् इव नवतां न तस्य विन्देद्
व्यतिभजनं हरि-राधिकाभिधस्य ॥२९५॥

यत् मिथुनं श्री-राधा-कृष्ण-द्वयं मिथः परस्परं नवम् इव नूतनम् इव स्थितं वर्तमानं अस्ति, यस्य राधा-विनोद-युगलस्य राग-जनुः रागस्य अनुरागस्य जन्म उत्पत्तिश् च नित्यं नवम् इवास्ति, तस्य हरि-राधिकाभिधस्य व्यतिभजनं परस्पर-सेवनं कथम् इव नवतां न विन्देत् लभेत ? ॥२९५॥

विश्वास-प्रस्तुतिः

इदम् इदम् अभितः स राधिकायाः
स पुलक-सस्मित-सास्रम् ईक्षमाणः ।
बहु-विनयतयान्तिकाय नीतां
मुहुर् अमुकां कर-लालिताञ् चकार ॥२९६॥

मूलम्

इदम् इदम् अभितः स राधिकायाः
स पुलक-सस्मित-सास्रम् ईक्षमाणः ।
बहु-विनयतयान्तिकाय नीतां
मुहुर् अमुकां कर-लालिताञ् चकार ॥२९६॥

स श्री-कृष्णः राधिकायाः अभितः सर्वतो-भावेन इदम् इदं स्व-कल्पित-नूतन-सेवनं स-पुलक-सस्मित-सास्रं, पुलकेन सह स-पुलकं, स्मितेन हास्येन सह स-स्मितं, अस्रेण सह सास्रं साश्रु-जलं, ईक्षमाणः पश्यन्, बहु-विनयतया अन्तिकाय समीपं नीतां अमुकां राधिकां मुहुः कर-लालितां करेण लालितां चकार ॥२९६॥

विश्वास-प्रस्तुतिः

इति रजनि-मुखे गते सुखेन
प्रहित-चरः शिशुर् आगतः स्म वक्ति ।
व्रज-पतिर् अधुना स्व-भोग-धाम
प्रविशति तेन समं बलादयश् च ॥२९७॥

मूलम्

इति रजनि-मुखे गते सुखेन
प्रहित-चरः शिशुर् आगतः स्म वक्ति ।
व्रज-पतिर् अधुना स्व-भोग-धाम
प्रविशति तेन समं बलादयश् च ॥२९७॥

इति उक्त-प्रकारेण सुखेन रजनि-मुखे प्रदोषे सूर्यास्त-कालतः यामार्ध-काले इति यावत् गते अतीते सति, प्रहित-चरः प्रेरितः, श्री-नन्दादिभिर् इति शेषः, शिशुः बालकः आगतः सन् वक्ति वदति स्म, श्री-कृष्णं प्रतीत्य् अर्थः । किं वक्ति ? तद् आह—व्रज-पतिः श्री-नन्द-महाराजः अधुना इदानीं स्व-भोग-धाम निज-भोजन-मन्दिरं प्रविशति, तेन श्री-व्रज-पतिना समं सह बलादयश् च प्रविशन्ति इति ॥२९७॥

विश्वास-प्रस्तुतिः

अथ मुरविजयी चचाल तस्मात्
पितृ-सविधं पिदधन् निज-स्मितादि ।
सुदृग् इयम् अपि तर्हि गोप-राज्ञी
निकटम् अतिप्रकटं विहाय वर्त्म ॥२९८॥

मूलम्

अथ मुरविजयी चचाल तस्मात्
पितृ-सविधं पिदधन् निज-स्मितादि ।
सुदृग् इयम् अपि तर्हि गोप-राज्ञी
निकटम् अतिप्रकटं विहाय वर्त्म ॥२९८॥

अथ अनन्तरं मुरविजयी श्री-कृष्णः तस्मात् वास-गृहात् पितृ-सविधं श्री-नन्द-समीपं निज-स्मितादि निज-हास्यादि पिदधन् अपिदधन् आच्छादयन् चचाल जगाम । तर्हि तदा सुदृक् सुन्दरी सुन्दर-नयन-विशिष्टा वा इयं श्री-राधिका अपि, चार्थेऽपि शब्दः, अतिप्रकटं व्यक्तं वर्त्म मार्गं विहाय त्यक्त्वा गुप्त-मार्गे गोप-राज्ञी-निकटं श्री-नन्द-महिषी-समीपं चचाल इत्य् अर्थः ॥२९८॥

विश्वास-प्रस्तुतिः

मुरजिति सविधं गते व्रजेज्या
नृप-सहिता मुदिता बलादयश् च ।
स-जल-जलमुचीव चातकाद्याः
कल-कल-वल्गु ययुस् तद्-आभिमुख्यम् ॥२९९॥

मूलम्

मुरजिति सविधं गते व्रजेज्या
नृप-सहिता मुदिता बलादयश् च ।
स-जल-जलमुचीव चातकाद्याः
कल-कल-वल्गु ययुस् तद्-आभिमुख्यम् ॥२९९॥

मुरजिति श्री-कृष्णे सविधं निकटं गते सति व्रजेज्या व्रजानां व्रज-स्थानां इज्याः पूज्याः नृप-सहिताः व्रज-राज-सहिताः बलादयश् च मुदिताः सन्तः, चातकाद्याः स-जल-जलमुचीव सजल-मेघ इव तद्-आभिमुख्यं श्री-कृष्णाभिमुख्यः कल-कल-वल्गु यथा स्यात्, तथा ययुः ॥२९९॥

विश्वास-प्रस्तुतिः

यदपि रवि-समः शशी विभाति
व्रज-भुवि तर्ह्य् अपि कान्ति-भेद-रीत्या ।
रजनि-दिन-विभागम् ईक्षमाणा
व्यवहृति-भेदम् अमी सदा भजन्ति ॥३००॥

मूलम्

यदपि रवि-समः शशी विभाति
व्रज-भुवि तर्ह्य् अपि कान्ति-भेद-रीत्या ।
रजनि-दिन-विभागम् ईक्षमाणा
व्यवहृति-भेदम् अमी सदा भजन्ति ॥३००॥

यद् अपि यद्य् अपि व्रज-भुवि रवि-समः सूर्य-तुल्यः शशी चन्द्रः विभाति प्रकाशते, तर्ह्य् अपि तथापि कान्ति-भेद-रीत्या शोभा-भेद-रीत्या रजनि-दिन-विभागं रात्रि-दिन-विभागं ईक्षमाणाः पश्यन्तः अमी बलादयः व्यवहृति-भेदं व्यवहार-भेदं यत्र यथा-योग्यम् इति भावः सदा भजन्ति ॥३००॥

विश्वास-प्रस्तुतिः

अथ निविविशिरे व्रजेश्वराद्या
दनुज-रिपु-प्रमुखाश् च भिन्न-पङ्क्ति ।
इति199 इह स-रसं समस्त-भोज्यं
स्वदन-विधिं नयते तद् अन्यथा न ॥३०१॥

मूलम्

अथ निविविशिरे व्रजेश्वराद्या
दनुज-रिपु-प्रमुखाश् च भिन्न-पङ्क्ति ।
इति199 इह स-रसं समस्त-भोज्यं
स्वदन-विधिं नयते तद् अन्यथा न ॥३०१॥

अथ अनन्तरं व्रजेश्वराद्याः श्री-नन्दाद्याः दनुज-रिपु-प्रमुखाश् च श्री-कृष्ण-प्रभृतयश् च भिन्न-पङ्क्ति यथा स्यात् तथा निविविशिरे । इति एवं-प्रकारेण इह भोजने नित्य-लीलायां वा, सरसं रस-युक्तं समस्त-भोज्यं स्वदन-विधिं आस्वादन-विधिं नयते, तद् अन्यथा न भवति ॥३०१॥

विश्वास-प्रस्तुतिः

दिन-मुखम् अनु तत्र पाक-वृन्दे
दिन-जठर-प्रसरं दिनाङ्घ्रि-पूर्तिम् ।
ऋतु-वलय-निदेश-देश-भेदं
विविध-विधान-गतीः स्वयं तु विद्धि ॥३०२॥

मूलम्

दिन-मुखम् अनु तत्र पाक-वृन्दे
दिन-जठर-प्रसरं दिनाङ्घ्रि-पूर्तिम् ।
ऋतु-वलय-निदेश-देश-भेदं
विविध-विधान-गतीः स्वयं तु विद्धि ॥३०२॥

दिन-मुखम् अनु दिवस-प्रथमम् अनु, पूर्व-यामे इत्य् अर्थः, दिन-जठर-प्रसरं मध्य-यामे, दिनाङ्घ्रि-पूर्तिं अन्त-यामे, तत्र पाक-वृन्दे पाक-समूहे ऋतु-वलय-निदेश-देश-भेदं ऋतु-भेदेन निदेश-देश-भेदं विविध-विधान-गतीः स्वयं विद्धि जानीहि, हे मनः ! ॥३०२॥

विश्वास-प्रस्तुतिः

प्रथमम् इह फलं वनाद् उपात्तं
बकरिपुना स्वदनाय सुष्ठु जातम् ।
पुनर् इह हविर्200 आदि-गो-रसान्तं
शत-विध-तेमन-जेमनं बभूव ॥३०३॥

मूलम्

प्रथमम् इह फलं वनाद् उपात्तं
बकरिपुना स्वदनाय सुष्ठु जातम् ।
पुनर् इह हविर्200 आदि-गो-रसान्तं
शत-विध-तेमन-जेमनं बभूव ॥३०३॥

इह प्रथमं बकरिपुणा श्री-कृष्णेन वनात् उपात्तं गृहीतं फलं स्वदनाय सुष्ठु जातं । पुनर् इह हविर् आदि-गो-रसान्तं घृतादि-दुग्ध-पर्यन्तं शत-विध-तेमन-जेमनं शत-प्रकार-व्यञ्जन-भोजनं बभूव ॥३०३॥

विश्वास-प्रस्तुतिः

अथ सुरभि-जलेन सुष्ठु ताम्बू-
लज-पुटकेन च शोधितास्य-पद्माः ।
व्रज-नृपति-तदीय-नन्दनाद्या
बहिर् उपवेश-सभाम् अभासयन्त ॥३०४॥

मूलम्

अथ सुरभि-जलेन सुष्ठु ताम्बू-
लज-पुटकेन च शोधितास्य-पद्माः ।
व्रज-नृपति-तदीय-नन्दनाद्या
बहिर् उपवेश-सभाम् अभासयन्त ॥३०४॥

अथ भोजनानन्तरं व्रज-नृपति-तदीय-नन्दनाद्याः, श्री-व्रजराज-तदीय-नन्दन-श्री-कृष्ण-प्रभृतयः सुरभि-जलेन सुवासित-जलेन सुष्ठु ताम्बुल-पुटकेन शोधितास्य-पद्माः शोधितानि परिशोधितानि आस्य-पद्मानि मुख-कमलानि यैस् ते । बहिर् उपवेश-सभां बहिर्-वाटी-स्थोपवेशन-सभां अभासयन्त आलोकयन्त ॥३०४॥

विश्वास-प्रस्तुतिः

अथ पुनर् अधिरुह्य चन्द्र-शाला201-
मुखम् अमृतांशु-मुखी-गणाः स्व-कान्तम् ।
अभिमुख-सदसि स्फूरन् निवेशं
ददृशुर् अमुं निभृतं मिथोऽप्य् अनूचुः ॥३०५॥

मूलम्

अथ पुनर् अधिरुह्य चन्द्र-शाला201-
मुखम् अमृतांशु-मुखी-गणाः स्व-कान्तम् ।
अभिमुख-सदसि स्फूरन् निवेशं
ददृशुर् अमुं निभृतं मिथोऽप्य् अनूचुः ॥३०५॥

अथ पुनः अमृतांशु-मुखी-गणाः चन्द्र-मुखी-गणाः चन्द्र-शाली-मुखं प्रासाद-शिरो-गृहं अधिरुह्य अभिमुख-सदसि स्फुरन्-निवेशं अमुं स्व-कान्तं श्री-कृष्णं निभृतं यथा स्यात्, तथा ददृशुः मिथः परस्परं उचुश् च ॥३०५॥

विश्वास-प्रस्तुतिः

इह विविध-कला-कलाप-विज्ञाः
समुदिततां समवापुर् उत्क-चित्ताः ।
अमुम् उदिताम् इताः कला-निधानं
स्व-कुल-कलां विनिवेद्य भर्तुम् ऐच्छन् ॥३०६॥

मूलम्

इह विविध-कला-कलाप-विज्ञाः
समुदिततां समवापुर् उत्क-चित्ताः ।
अमुम् उदिताम् इताः कला-निधानं
स्व-कुल-कलां विनिवेद्य भर्तुम् ऐच्छन् ॥३०६॥

इह विविध-कला-कलाप-विज्ञाः नाना-प्रकार-कला-समूहाभिज्ञाः कान्ताः उत्क-चित्ताः उत्कण्ठित-चित्ताः सत्यः समुदिततां सम्यक्-कथनत्वं समवापुः प्राप्ताः अमुं कला-निधानं सर्व-कलाधारं स्व-कान्तं उदितम् इताः स्व-कुल-कलां स्व-कुलानां स्वीयानां कलां नैपुण्यादि-रूपां विनिवेद्य भर्तुं परितोषितुं ऐच्छन् ॥३०६॥

विश्वास-प्रस्तुतिः

यद् अपि हरिर् असौ कला-निविज्ञस्
तद् अपि तद्-अल्प-कलासु तोषम् एति ।
यद् अपि कृत-मुखाः कलासु सभ्यास्
तद् अपि हरेर् मुख-वीक्षया रमन्ते ॥३०७॥

मूलम्

यद् अपि हरिर् असौ कला-निविज्ञस्
तद् अपि तद्-अल्प-कलासु तोषम् एति ।
यद् अपि कृत-मुखाः कलासु सभ्यास्
तद् अपि हरेर् मुख-वीक्षया रमन्ते ॥३०७॥

यद् अपि यद्य् अपि असौ हरिः श्री-कृष्णः कला-निविज्ञः सर्व-कलावित्, तद् अपि तथापि तद्-अल्प-कालासु तेषां नाटकाभिनय-कारिनां कलासु नृत्य-गीतादि-कलासु तोषं आनन्दं एति प्राप्नोति। यद् अपि यद्य् अपि सभ्याः श्री-नन्दादय कलासु नृत्यादिषु तां प्रतीत्य्-अर्थः कृत-मुखाः कृतानि मुखानि यैस् ते नृत्यादि-दर्शन-रताः, तद् अपि तथापि हरेः सर्व-मनोहरस्य, मुख-वीक्षया वदन-दर्शनेन रमन्ते प्रीताः भवन्ति ॥३०७॥

विश्वास-प्रस्तुतिः

न भजति सकलं सदा सभायाः
सम-वसरं बत काव्य-नाटकादि ।
इति निशि निशि भिन्नतानुमत्या
व्रज-पतिर् इष्टतमं तदातनिष्ट ॥३०८॥

मूलम्

न भजति सकलं सदा सभायाः
सम-वसरं बत काव्य-नाटकादि ।
इति निशि निशि भिन्नतानुमत्या
व्रज-पतिर् इष्टतमं तदातनिष्ट ॥३०८॥

सभायाः कव्य-नाटकादि सदा सकलं समवसरं न भजति, बहुलत्वात् निशि निशि प्रति-रात्रौ इति भिन्नतानुमत्या भिन्नत्वादेशेन व्रज-पतिः श्री-नन्दः इष्टतमं अतनिष्ट, तनु-ञ-द विस्तृतौ ॥३०८॥

विश्वास-प्रस्तुतिः

क्व च निशि नृपतिः स वष्टि काव्यं
क्वचिद् अपि नाट्य-कलां क्व चापि चित्रम् ।
पृथग् अपि न पृथग् विभाति सर्वं
हरि-चरितानि202 परं पुरः करोति ॥३०९॥

मूलम्

क्व च निशि नृपतिः स वष्टि काव्यं
क्वचिद् अपि नाट्य-कलां क्व चापि चित्रम् ।
पृथग् अपि न पृथग् विभाति सर्वं
हरि-चरितानि202 परं पुरः करोति ॥३०९॥

स नृपतिः श्री-व्रज-राजः क्व च निशि निशायां काव्यं वष्टि श्रवणाभिलासं करोति, क्वचिद् अपि कुत्रापि रात्र्यां नाट्य-कलां नृत्य-गीत-वाद्य-रूपां, क्वचिद् अपि चित्रं एतत् सर्वं पृथग् अपि भिन्नम् अपि न पृथग् विभाति प्रकाशते, हरि-चरितानि श्री-कृष्ण-चरित्राणि । “हरि-रचितानि” इति पाठे हरि-कृत-रचितानि परं केवलं पुरः अग्रे करोति ॥३०९॥

विश्वास-प्रस्तुतिः

इति पुरु-कुतुके गते तु यामे
हरि-बल-संवलिताः समस्त-लोकाः ।
व्रज-नरपतिम् उत्थितं विलोक्य
प्रति-तद्-अवस्थिति तस्थुर् आदरेण ॥३१०॥

मूलम्

इति पुरु-कुतुके गते तु यामे
हरि-बल-संवलिताः समस्त-लोकाः ।
व्रज-नरपतिम् उत्थितं विलोक्य
प्रति-तद्-अवस्थिति तस्थुर् आदरेण ॥३१०॥

इति एवं-प्रकारेण पुरु-कुतुके प्रचुरानन्दे यामे प्रहरे गते अतीते सति, हरि-बल-संवलिताः कृष्ण-बलराम-युक्ताः समस्त-लोकाः व्रज-नरपतिं श्री-व्रज-राजं उत्थितं विलोक्य दृष्ट्वा आदरेण सम्माननेन प्रति-तद्-अवस्थिति यथा स्यात् तथा तस्थुः ॥३१०॥

विश्वास-प्रस्तुतिः

मुरजिति गदितुं किम् अप्य् अनीशे
पितरि च बाष्प-निरुद्ध-कण्ठ-देशे ।
स्थविर-गुरु-जना द्वयं निवेद्य
प्रतिविधये स-मनस्कम् आचरन् स्म ॥३११॥

मूलम्

मुरजिति गदितुं किम् अप्य् अनीशे
पितरि च बाष्प-निरुद्ध-कण्ठ-देशे ।
स्थविर-गुरु-जना द्वयं निवेद्य
प्रतिविधये स-मनस्कम् आचरन् स्म ॥३११॥

बाष्प-निरुद्ध-कण्ठ-देशे पितरि श्री-व्रज-राजे नन्दे मुरुजिति कृष्णे किम् अपि गदितुं अनीशे असमर्थे स्थविर-गुरु-जनाः द्वयं श्री-राम-कृष्ण-द्वयं निवेद्य प्रतिविधये वास-मन्दिर-गमनानुमतये स-मनस्कं आचरन् ॥३११॥

विश्वास-प्रस्तुतिः

अवनत-पितृकः परान् यथार्हं
नति-विनयादि-भृतान् विधाय कृष्णः ।
सह-बलम् अनुगत्य मातृ-युग्मं
तद्-उचित-लालिततां चिरं जगाम ॥३१२॥

मूलम्

अवनत-पितृकः परान् यथार्हं
नति-विनयादि-भृतान् विधाय कृष्णः ।
सह-बलम् अनुगत्य मातृ-युग्मं
तद्-उचित-लालिततां चिरं जगाम ॥३१२॥

अवनत-पितृकः अवनतः प्रणतः पितृकः पिता येन स कृष्णः परान् अपरान् यथार्हं यथा-योग्यं नति-विनयादि-भृतान् प्रणति-विनयादीन् विधाय कृत्वा सह-बलं बलराम-सहितं मातृ-युग्मं श्री-यशोदा-रोहिणी-युगलं अनुगत्य समीपं गत्वा तद्-उचित-लालिततां बलदेव-यशोदा-रोहिणीभिः समुचित-प्रति-पालिततां चिरं बहु-क्षणं व्याप्य जगाम प्राप्तवान् इत्य् अर्थः ॥३१२॥

विश्वास-प्रस्तुतिः

अनुमतिम् अथ मातृ-युग्म-दत्ताम्
अवकलयन् प्रणमन् स-नम्र-दृष्टिः ।
हलधरम् अनुगम्य तं प्रणम्य
श्रित-नव-वर्ष-वरः स्व-वासम् आप ॥३११॥

मूलम्

अनुमतिम् अथ मातृ-युग्म-दत्ताम्
अवकलयन् प्रणमन् स-नम्र-दृष्टिः ।
हलधरम् अनुगम्य तं प्रणम्य
श्रित-नव-वर्ष-वरः स्व-वासम् आप ॥३११॥

अथ अनन्तरं मातृ-युग्म-दत्तां श्री-यशोदा-रोहिणी-प्रदत्तां अनुमतिं शयनाज्ञां अवकलयन् शृण्वन् स-नम्र-दृष्टिः नम्र-दृष्टि-सहितः सन् प्रणमन् हलधरं श्री-बलरामं अनुगम्य समीपं गत्वा, तं हलधरं प्रणम्य नत्वा श्रित-नव-वर्ष-वरः श्रितः आश्रितः नव-वर्ष-वरः, तन्-नाम-कान्तः पुर-सेवकः येन सः, स्व-वासं निज-वास-भवनम् इत्य् अर्थः, आप प्राप्तवान् ॥३११॥

विश्वास-प्रस्तुतिः

इति मुरहर-वर्णनां स कुर्वन्
मधुहरम्203 अप्य् अवलोक्य सद्म-सीम्नि ।
द्रुततरम् अवरुह्य राधिकादिर्
निज-तद्-अपह्नवम् आचचार वर्गः ॥३१२॥

मूलम्

इति मुरहर-वर्णनां स कुर्वन्
मधुहरम्203 अप्य् अवलोक्य सद्म-सीम्नि ।
द्रुततरम् अवरुह्य राधिकादिर्
निज-तद्-अपह्नवम् आचचार वर्गः ॥३१२॥

स राधिकादिः वर्गः प्राग्-उक्त-सभायां इति मुरहर-वर्णनां श्री-कृष्ण-वर्णनां कुर्वन् सद्म-सीम्नि गृहान्तर्-वर्ति-स्थाने मधुहरम् अपि अवलोक्य दृष्ट्वा द्रुततरं अविलम्बं यथा स्यात्, तथा अवरुह्य उत्थाय निज-तद्-अपह्नवं स्व-कर्तृक-श्री-कृष्ण-वर्णन-रूपं अपलापं आचचार ॥३१२॥

विश्वास-प्रस्तुतिः

इह मतम् अपरेण सर्व-कान्तास्व्
अनु निशम् अञ्चति सोऽयम् इत्थम् अस्तु ।
हृदय कलय किन्तु चारु राधा-
हरि-चरितं परितः स्मर त्वम् अत्र ॥३१३॥

मूलम्

इह मतम् अपरेण सर्व-कान्तास्व्
अनु निशम् अञ्चति सोऽयम् इत्थम् अस्तु ।
हृदय कलय किन्तु चारु राधा-
हरि-चरितं परितः स्मर त्वम् अत्र ॥३१३॥

इह अपरेण मतं सम्मतं । किं तत् ? सोऽयं श्री-कृष्णः सर्व-कान्तासु सर्व-प्रिया-वर्गेषु अनुनिशं प्रति-रात्र्यां अञ्चति संयोगं प्राप्नोति इति, इत्थं अनेन प्रकारेण अस्तु भवतु, का हनिर् अस्माभिः ? इति भावः । किन्तु हृदय ! हे चित्त ! चारु मनोहरं राधा-हरि-चरितं श्री-राधा-कृष्ण-लीलां परितः सर्वतः कलय पश्य, अत्र त्वं स्मर च ॥३१३॥

विश्वास-प्रस्तुतिः

वृषरवि-तनयादिभिस् तदा द्राक्
समगमि हारि हरिः सुवेश एषः ।
नव-घन इव विद्युतावलीभिर्
यद् अमृत-वृष्टि-मयी बभूव दृष्टिः ॥३१४॥

मूलम्

वृषरवि-तनयादिभिस् तदा द्राक्
समगमि हारि हरिः सुवेश एषः ।
नव-घन इव विद्युतावलीभिर्
यद् अमृत-वृष्टि-मयी बभूव दृष्टिः ॥३१४॥

तदा तस्मिन् समये द्राक् झटिति वृषरवि-तनयादिभिः श्री-वृषभानु-नन्दिनी श्री-राधा-प्रभृतिभिः एष सुवेशः हारि हरिः सर्व-मनोहर-हरिः समगमि प्रापि । कथं ? तद् आह—नव-घनः नूतन-मेघः विद्युतावलीभिर् इव । तत् कुतः ? यत् यस्मात् तासां दृष्टिः अमृत-वृष्टि-मयी बभूव ॥३१४॥

विश्वास-प्रस्तुतिः

व्रतति-मणि204-विवेक-खण्डि-शोभा-
परिमल-भाग् इह सद्म किन्तु कुञ्जम् ।
इह किम् उ कुसुमं किम् अंशुकं वा
शयनम् इदं मिथुनं यद् अध्यशेते ॥३१५॥

मूलम्

व्रतति-मणि204-विवेक-खण्डि-शोभा-
परिमल-भाग् इह सद्म किन्तु कुञ्जम् ।
इह किम् उ कुसुमं किम् अंशुकं वा
शयनम् इदं मिथुनं यद् अध्यशेते ॥३१५॥

कल्प-लतिकेन्द्र-नील-मणि-विचार-खण्डि-शोभा-परिमल-भाग् सद्म भवनं किन्तु कुञ्जं लतादि-पिहित-निभृत-स्थानं । इह किम् उ कुसुमं शयनं, किं वा अंशुकं वस्त्रं शयनं शय्यां इदं मिथुनं श्री-राधा-कृष्ण-युगलं यत् शयनं अध्यशेते ॥३१५॥

इति नित्य-लीला

॥२॥

[३]

नित्यान्तर्-वर्ति-सर्व-र्तु-लीला

श्री-गोपालाय नमः,205

विश्वास-प्रस्तुतिः

सा च जन्मादिका सा च नित्या लीला श्रुतीरिता ।
मिथः पूर्वा परा च स्याद् बीज-वृक्ष-प्रवाहवत् ॥१॥

मूलम्

सा च जन्मादिका सा च नित्या लीला श्रुतीरिता ।
मिथः पूर्वा परा च स्याद् बीज-वृक्ष-प्रवाहवत् ॥१॥

सा च जन्मादिका लीला, सा च नित्या लीला श्रुतीर् इता श्रुतिभिः कलिता प्रतिपादिता, बीज-वृक्ष-प्रवाहवत्, बीजाद् वृक्षः, वृक्षाद् बीजम् इतिवत् मिथः परस्परं पूर्वा परा च स्यात् भवेत् । प्रकट-लीलातः नित्य-लीला, नित्य-लीलातः प्रकट-लीला भवेत्, अत आदि-रहिता इति भावः ॥१॥

विश्वास-प्रस्तुतिः

अथ हृदि कुरु वल्लवी-सुतस्य स्तवम्
अनु-गौतम-तन्त्र-लब्धम् अस्य ।
बहु-विध-समयागमाद् विचित्रं
शुभ-चरितं रचित-स्व-भक्त-भक्ति ॥२॥

मूलम्

अथ हृदि कुरु वल्लवी-सुतस्य स्तवम्
अनु-गौतम-तन्त्र-लब्धम् अस्य ।
बहु-विध-समयागमाद् विचित्रं
शुभ-चरितं रचित-स्व-भक्त-भक्ति ॥२॥

अनन्तरं नित्यान्तर्-वर्ति षड्-ऋतु-लीलाम् आह—अथ अस्य वल्लवी-सुतस्य श्री-यशोदा-स्तनन्धयस्य श्री-कृष्णस्य स्तवं हृदि कुरु । कथम्-भूतं ? गौतम-तन्त्र-लब्धं गौतम-तन्त्रोक्त-श्री-गोपाल-स्तव-राजात् लब्धं । पुनर् बहु-विध-समयागमात् नाना-विध-धर्म-शास्त्रात् विचित्रं शुभ-चरितं मङ्गल-चरितं रचित-स्व-भक्त-भक्ति रचिता स्व-भक्तानां भक्तिर् येन स, तं ॥२॥

विश्वास-प्रस्तुतिः

जनुषि मधु-ऋतोः कुमार-भावे
तरुणिमनि प्रवयस्तया च योगे ।
दयित-दयितयोर् वसन्त-राग-
प्रभृति-कला लसति स्म शाम्यति स्म ॥३॥

मूलम्

जनुषि मधु-ऋतोः कुमार-भावे
तरुणिमनि प्रवयस्तया च योगे ।
दयित-दयितयोर् वसन्त-राग-
प्रभृति-कला लसति स्म शाम्यति स्म ॥३॥

मधु-ऋतोः वसन्त-र्तोः कुमार-भावे प्रारम्भ-भावे, तरुणिमनि तरुण-भावे प्रवयस्तया, प्रबुद्ध-भावे च शेष-भावे इति यावत्, जनुषि उत्पन्ने दयित-दयितयोः प्रिय-प्रिययोः वसन्त-राग-प्रभृति-कला लसति स्म प्रकाशते स्म, शम्यति स्म ॥३॥

विश्वास-प्रस्तुतिः

तद् इदम् ऋतुषु षट्सु रुच्य्-अभेदात्
पृथग् अनुवर्णनम् इष्यते तथा हि ।
हरिर् इह विहृति-प्रचार-चर्यां
विदधद् अवर्णयद् एष तर्हि तर्हि ॥४॥

मूलम्

तद् इदम् ऋतुषु षट्सु रुच्य्-अभेदात्
पृथग् अनुवर्णनम् इष्यते तथा हि ।
हरिर् इह विहृति-प्रचार-चर्यां
विदधद् अवर्णयद् एष तर्हि तर्हि ॥४॥

षट्सु ऋतुषु ग्रीष्मादिषु रुच्य-भेदात् सुन्दर-भेदात् तद् इदं पृथग् अनुवर्णनं इष्यते, तथा हि इह एष हरिः श्री-कृष्णः विहृति-प्रचार-चर्यां विहार-प्रचारानुष्ठानं विदधत् कुर्वन्, तर्हि तत्र तत्र अवर्णयत् ॥४॥

विश्वास-प्रस्तुतिः

प्रथमम् इह शृणुष्व चित्त वाक्यं
क्व च निशि यत् प्रभुम् आह हारि राधा ।
अथ कलय हरेर् वचश् च तस्यां
अमृतवद् अन्तर-शन्तमस्य दातृ ॥५॥

मूलम्

प्रथमम् इह शृणुष्व चित्त वाक्यं
क्व च निशि यत् प्रभुम् आह हारि राधा ।
अथ कलय हरेर् वचश् च तस्यां
अमृतवद् अन्तर-शन्तमस्य दातृ ॥५॥

हे चित्त ! निशि निशायां राधा प्रभुं श्री-कृष्णं यत् हारि मनोहरं वाक्यं आह ब्रूवीति तत् प्रथमम् इह शृणुष्व । अथ राधा-वाक्य-श्रवणान्तरं तस्यां श्री-राधायां राधां प्रति हरेः कृष्णस्य वचश् च शृणु । किम्-भूतं ? अमृतवत् अन्तर-शन्तमस्य सुखतमस्य दातृ ॥५॥

विश्वास-प्रस्तुतिः

“अहह वन-वनं निदाघ-दग्ध-
स्थलम् अटसि स्व-वपुः प्रपीद्य रुक्षः206
मुरहर तव चिन्तनेन जीर्णान्
कथम् अवितासि जनान् इदं न जाने ॥“६॥

मूलम्

“अहह वन-वनं निदाघ-दग्ध-
स्थलम् अटसि स्व-वपुः प्रपीद्य रुक्षः206
मुरहर तव चिन्तनेन जीर्णान्
कथम् अवितासि जनान् इदं न जाने ॥“६॥

श्री-कृष्णं प्रत्य् आह श्री-राधा—अहह अत्यन्त खेदे हे मुर-हर ! प्राण-वल्लभ ! वनवनं वने वनाद् वनं निदाघ-दग्ध-स्थलं ग्रीष्म-दग्ध-स्थलं अत-एव रुक्षं कर्कशं तीव्रम् इति-यावत् विसर्गान्त-पाठे कृष्णस्य विशेषपं स्व-वपुः स्व-शरीरं प्रपीड्य अटसि भ्रमसि तव चिन्तनेन स्मरणेन जीर्णान् कृशी-भूतान् जनान् श्लेषे अस्मान् कथं अवितासि रक्षितासि इदं न जाने जानाम्य् अहम् इति शेषः ॥६॥

विश्वास-प्रस्तुतिः

इदम् अभिहितम् आकलय्य कृष्णः
स्मित-वदनः स्वयम् आह यत् तु राधाम् ।
तद् अवकलय चित्त वित्तम् एतत्
तव बहु-वृत्ति-पदं भविस्यद् अस्ति ॥७॥

मूलम्

इदम् अभिहितम् आकलय्य कृष्णः
स्मित-वदनः स्वयम् आह यत् तु राधाम् ।
तद् अवकलय चित्त वित्तम् एतत्
तव बहु-वृत्ति-पदं भविस्यद् अस्ति ॥७॥

कृष्णः इदं पूर्वोक्तं अभिहितं ### वचनं आकलय्य श्रुत्वा स्मित-वदनः हास्य-वदनः सन् स्वयं राधां ### यद् आह ब्रूवीति, हे चित्त ! तद् वाक्यं अवकलय शृणु, तव एतत् वित्तं बहु-वृत्ति-पदं भविष्यद् अस्ति ॥७॥

विश्वास-प्रस्तुतिः

“अहह सुमुखि नेदम् अन्यद् ऊह्यं
तप-ऋतुम् अन्व् अपि तत्र चित्रतास्ति ।
क्वच स हि मधुवत् क्वचापि वर्षावद्
अनुभवं ददते स्वयं क्व चापि ॥८॥

मूलम्

“अहह सुमुखि नेदम् अन्यद् ऊह्यं
तप-ऋतुम् अन्व् अपि तत्र चित्रतास्ति ।
क्वच स हि मधुवत् क्वचापि वर्षावद्
अनुभवं ददते स्वयं क्व चापि ॥८॥

श्री-कृष्णोक्त-वाक्यम् आह—अहह खेदे । हे सुमुखि ! शोभनानने ! इयं जन्यत् न ऊह्यं तर्कनीयं त्वयेति शेषः । तत्र वशे तप-ऋतुम् अन्वपि ग्रीष्म-र्तुम् अन्वपि चित्रता अपूर्वत्वं अस्ति, हि यतः स तप-पृतुः क्व च कुत्रापि स्थाने मधुवत् वसन्तवत् क्वचापि कुत्रापि च वर्षावत् अनुतवं उपलब्धिं ददते, क्व चापि कस्मिन्न् अपि स्थाने स्वयं ग्रीष्म-ऋतुः तत्-कालीनानुभवं ददते ॥८॥

विश्वास-प्रस्तुतिः

वनम् इह यद् अनूपम् अस्ति तस्मिन्
मधुर् इव भाति निदाघ-काल एषः ।
निरुदक-तरुणि स्वयं निदाघः
क्षिति-धर-निर्झर-भाजि-वर्षिक-श्रीः ॥९॥

मूलम्

वनम् इह यद् अनूपम् अस्ति तस्मिन्
मधुर् इव भाति निदाघ-काल एषः ।
निरुदक-तरुणि स्वयं निदाघः
क्षिति-धर-निर्झर-भाजि-वर्षिक-श्रीः ॥९॥

इह यत् जल-प्राय-स्थानं अस्ति, तस्मिन् वने एष निदाघ-कालः ग्रीष्म-कालः मधुर् इव भाति वसन्त इव शोभते । निरुदक-तरुणि जल-विहीन-तरुर् यत्र स्थाने क्षिति-धर-निर्झर-श्रीः गोवर्धन्-निर्झर-युक्त-वर्षा-कालीन-शोभान्वितः निदाघः ग्रीष्मः स्वयं भाति इत्य् अर्थः ॥९॥

विश्वास-प्रस्तुतिः

“मम समम् अमरीभिर् अत्र वृन्दा
निखिल-वनं परितः परिष्करोति ।
यद् अहरहर् अहं महं भवत्या
सह सहचारिभिर् अप्य् अलं भजामि ॥१०॥

मूलम्

“मम समम् अमरीभिर् अत्र वृन्दा
निखिल-वनं परितः परिष्करोति ।
यद् अहरहर् अहं महं भवत्या
सह सहचारिभिर् अप्य् अलं भजामि ॥१०॥

अत्र वृन्दा अमरीभिः देवीभिः समं मम निखिल-वनं समस्त-वनं परितः परिष्करोति, यत् यस्मिन् वने अहं अहरहः रात्रिन्दिवं भवत्या त्वया सहचारिभिर् अपि ललितादिभिश् च सह महं उत्सवं अलं अत्यर्थं भजामि ॥१०॥

विश्वास-प्रस्तुतिः

सुमधुर-नव-नारिकेल-नीरं
तद्-उपम-ताल-फलाम्बु चास्य207 मज्ज ।
उपहृतम् इह वृन्दया स-तृष्णे
सखि-सहिते मयि तृप्तिम् आदधीत ॥११॥

मूलम्

सुमधुर-नव-नारिकेल-नीरं
तद्-उपम-ताल-फलाम्बु चास्य207 मज्ज ।
उपहृतम् इह वृन्दया स-तृष्णे
सखि-सहिते मयि तृप्तिम् आदधीत ॥११॥

इह वृन्दया सखि-सहिते वयस्य-गण-युक्ते स-तृष्णे तृष्णया सहिते मयि सुमधुर-नव-नारिकेल-नीरं सुस्वादु-नारिकेल-जलं तद्-उपम-ताल-फलाम्बु, तत्-तुल्य-ताल-फल-जलं च अस्य उक्त-फलस्य मज्ज फल-मध्य-गत-स्नेह-विशेषः उपहृतं समर्पितं सत् तृप्तिम् आदधीत ॥११॥

विश्वास-प्रस्तुतिः

स पनस-सहकार-गोस्तनीनां
रस-वसनं रचयाम्य् अहं स-मित्रः ।
त्वद्-अधर-मधु मां तु तत्र चित्रं
स्मरयति सान्द्रतया स्वम् एव सुभ्रु ॥१२॥

मूलम्

स पनस-सहकार-गोस्तनीनां
रस-वसनं रचयाम्य् अहं स-मित्रः ।
त्वद्-अधर-मधु मां तु तत्र चित्रं
स्मरयति सान्द्रतया स्वम् एव सुभ्रु ॥१२॥

समित्रः मित्रेण सहितः अहं सपन-स-सहकार-गोस्तनीनां कण्टकी-फल-सहिताम्र ॥१२॥

विश्वास-प्रस्तुतिः

अथ वनम् अपि तां विहार-भूमिं
तव कलयाम यदि त्वदीयम् इष्टम् ।”
इति वृषरविजादिभिः प्रदिष्टस्
त्वरितम् अमूभिर् अमूं हरिः प्रतस्थे ॥१३॥
प्रथमम् अभिययौ वसन्तवन्तं
विपिन-विशेषम् अथ प्रदेशम् अन्यम् ।
अनुभव-तुलयानुभावयंश् च
प्रवदति स स्म स-नर्म सुष्ठु वाचम् ॥१४॥
अहनि वयम् अमूं निरीक्ष्य सुभ्रु
वर-सरितं पुरतः समं सजन्तः ।
निज-निज-धवलास् तु पाययित्वा
विहरणम् अत्र सुहृद्भिर् आचराम ॥१५॥
शशिमुखि शुचिमासि मध्य-मध्यं
दिनम् अनु मन्दिर-तुल्य-शैल-गर्भे ।
झर-निकर-परीत-पार्श्व-देशे
सह भवतीकम् अहं मुदा शयिष्ये ॥१६॥
सवितृ-दुहितृ-तुङ्ग-तीर-गर्भे
शशि-मणि-धामनि कुञ्ज-पुञ्ज-राजि ।
अनुरहसम् अहर् व्रजान्तर्-अन्तः
सह भवतीकम् अहं मुदाश्रयिष्ये ॥१७॥
वयम् इह सरिति द्रवेण गत्वा
विहरणं नर्म-सशर्मतां नयाम ।
इति वृषरविजां विधृत्य बाहाव्
अपर-सखी-सहितां च चलन्न् उवाच ॥१८॥
निकट-निकटतां चलंस् तटिन्या
निरुदक-मात्र-पदं क्रमात् त्यजंश् च ।
“तप-मधु-नृप-राष्ट्र-युग्म-मध्यं
गतम् इव चन्द्रमुखि स्वम् अत्र पश्य ॥१९॥
इह कमल-वनानि ताप-शीर्णान्य्
अपि कमलानि कियन्ति धारयन्ति ।
तत इह सरिति प्रविश्य यूयं
वयम् अपि तानि विचित्य चारु चिन्मः ॥२०॥
मुहुर् इह परितः समाव्रजन्तः
सरिति रस-प्रसरं गवेषयन्तः ।
नव-नव-तनयाय पद्मिनीनां
स्तनम् इव वारि-रुहं दुहन्ति भृङ्गाः ॥“२१॥

मूलम्

अथ वनम् अपि तां विहार-भूमिं
तव कलयाम यदि त्वदीयम् इष्टम् ।”
इति वृषरविजादिभिः प्रदिष्टस्
त्वरितम् अमूभिर् अमूं हरिः प्रतस्थे ॥१३॥
प्रथमम् अभिययौ वसन्तवन्तं
विपिन-विशेषम् अथ प्रदेशम् अन्यम् ।
अनुभव-तुलयानुभावयंश् च
प्रवदति स स्म स-नर्म सुष्ठु वाचम् ॥१४॥
अहनि वयम् अमूं निरीक्ष्य सुभ्रु
वर-सरितं पुरतः समं सजन्तः ।
निज-निज-धवलास् तु पाययित्वा
विहरणम् अत्र सुहृद्भिर् आचराम ॥१५॥
शशिमुखि शुचिमासि मध्य-मध्यं
दिनम् अनु मन्दिर-तुल्य-शैल-गर्भे ।
झर-निकर-परीत-पार्श्व-देशे
सह भवतीकम् अहं मुदा शयिष्ये ॥१६॥
सवितृ-दुहितृ-तुङ्ग-तीर-गर्भे
शशि-मणि-धामनि कुञ्ज-पुञ्ज-राजि ।
अनुरहसम् अहर् व्रजान्तर्-अन्तः
सह भवतीकम् अहं मुदाश्रयिष्ये ॥१७॥
वयम् इह सरिति द्रवेण गत्वा
विहरणं नर्म-सशर्मतां नयाम ।
इति वृषरविजां विधृत्य बाहाव्
अपर-सखी-सहितां च चलन्न् उवाच ॥१८॥
निकट-निकटतां चलंस् तटिन्या
निरुदक-मात्र-पदं क्रमात् त्यजंश् च ।
“तप-मधु-नृप-राष्ट्र-युग्म-मध्यं
गतम् इव चन्द्रमुखि स्वम् अत्र पश्य ॥१९॥
इह कमल-वनानि ताप-शीर्णान्य्
अपि कमलानि कियन्ति धारयन्ति ।
तत इह सरिति प्रविश्य यूयं
वयम् अपि तानि विचित्य चारु चिन्मः ॥२०॥
मुहुर् इह परितः समाव्रजन्तः
सरिति रस-प्रसरं गवेषयन्तः ।
नव-नव-तनयाय पद्मिनीनां
स्तनम् इव वारि-रुहं दुहन्ति भृङ्गाः ॥“२१॥

॥।रस-प्रसरं रस-समूहं गवेषयन्तः अन्वेषयन्तः नव-नव-तनयाय पद्मिनीनां स्तनम् इव स्तन-तुल्यं वारिरुहं पद्मं दुहन्ति ॥२१॥

विश्वास-प्रस्तुतिः

इति बल-वलितं208 छलं विधाय
व्रज-सुमुखीः सरितं प्रवेश्यमानाः ।
कमल-चयन-लक्ष्यतः स्व-वाञ्छा-
लसित-वशाः स चकार तत्र तत्र ॥२२॥

मूलम्

इति बल-वलितं208 छलं विधाय
व्रज-सुमुखीः सरितं प्रवेश्यमानाः ।
कमल-चयन-लक्ष्यतः स्व-वाञ्छा-
लसित-वशाः स चकार तत्र तत्र ॥२२॥

स श्री-कृष्णः इति इत्थम्-प्रकारेण बल-वलितं [छलं] बल-युक्त-छलं विधाय कृत्वा व्रज-सुमुखीः व्रज-सुन्दरीः सरितं नदीं प्रवेश्यमानाः तत्र तत्र यथावस्थित-स्थाने कमल-चयन-लक्ष्यतः पद्म-चयन-च्छलतः स्व-वाञ्छा-लसित-वशाः स्वीयाभीष्ट-वश-वर्तिनीः चकार ॥२२॥

विश्वास-प्रस्तुतिः

“कमलम् इदम् अहो मया तु लब्धं
कनक-रुचि-प्रथितं त्वया तु नीलम् ।”
इति विविध-मिषं परस्परं ताः
समम् अजितेन विहार-सारम् ईयुः ॥२३॥

मूलम्

“कमलम् इदम् अहो मया तु लब्धं
कनक-रुचि-प्रथितं त्वया तु नीलम् ।”
इति विविध-मिषं परस्परं ताः
समम् अजितेन विहार-सारम् ईयुः ॥२३॥

ततस् तेन यद् उक्तं तद् आह—कमलम् इत्य्-आदि । अहो आश्चर्यं मया इदं कनक-रुचि-प्रथितं सुवर्णाद् अपि मनोहर-कान्ति-प्रसिद्धं कमलं लब्धं प्राप्तं । हे प्रिये इत्य् ऊह्यं । त्वया तु कमलं लब्धं । इति एवं-प्रकारेण परस्परं विविध-मिषं नाना-विध-छलं कृत्वा ताः व्रज-सुन्दर्यः अजितेन श्री-क्ष्णेन समं विहार-सारं विहारातिशयं ईयुः प्रापुः ॥२३॥

विश्वास-प्रस्तुतिः

हृदि किम् उ कमलं ललाग किं वा
हरि-कर इत्य् अमुका विशङ्कमानाः ।
व्रज-जनि-सुदृशस् तदा नवीनाः
सपुलक-शीत्कृति-कारिताम् अवापुः ॥२४॥

मूलम्

हृदि किम् उ कमलं ललाग किं वा
हरि-कर इत्य् अमुका विशङ्कमानाः ।
व्रज-जनि-सुदृशस् तदा नवीनाः
सपुलक-शीत्कृति-कारिताम् अवापुः ॥२४॥

हृदि किम् उ किं कमलं प्रसिद्धं पद्मं ललाग किं वा हरि-करः श्री-कृष्ण-करः कमल-निभ-कोमलत्वाद् इत्य् उक्तं इति एवं अमुकाः विशङ्कमानाः शङ्का-युक्ताः सत्यः तदा नवीना व्रज-जनि-सुदृशाः व्रजोद्भव-सुनेत्राः गोप्यः सपुलक-शीत्कृति-कारितां पुलक-युक्ताव्यक्त-शब्द-कारितां अवापुः प्रापुः ॥२४॥

विश्वास-प्रस्तुतिः

अथ विहसति तत्र जिह्म-नेत्रा
मुरजिति चिक्षिपुर् आयुधाभम् अम्भः ।
स च तद् अकृत तासु किन्तु तासां
तद्-अपगमः क्रियते स्म तस्य तेन ॥२५॥

मूलम्

अथ विहसति तत्र जिह्म-नेत्रा
मुरजिति चिक्षिपुर् आयुधाभम् अम्भः ।
स च तद् अकृत तासु किन्तु तासां
तद्-अपगमः क्रियते स्म तस्य तेन ॥२५॥

अथानन्तरं तत्र मुरजिति श्री-कृष्णे विहसति जिह्म-नेत्राः कुटिल-नेत्रा गोप्यः आयुधाभं अस्त्र-सदृश-प्रतीयमानं अम्भः अञ्जलि-विक्षेपण-वारि चिक्षिपुः । स च श्री-कृष्णः तासु व्रज-सुन्दरीषु तत् जल-सेचनं अकृत, किन्तु तासां व्रजाङ्गनानां तद्-अपगमः जल-क्षेपण-निरासः, तस्य कृष्णस्य तेन जल-सेकेन क्रियते स्म ॥२५॥

विश्वास-प्रस्तुतिः

हरिर् असुर-सहस्र-लक्ष-जेता
स्वयम् अबलाभिर् अयं विजेतुम् इष्टः ।
यद् इह जयम् अवाप तन् न चित्रं
यद् अथ जितस् तद् अतीव चित्रम् अत्र ॥२६॥

मूलम्

हरिर् असुर-सहस्र-लक्ष-जेता
स्वयम् अबलाभिर् अयं विजेतुम् इष्टः ।
यद् इह जयम् अवाप तन् न चित्रं
यद् अथ जितस् तद् अतीव चित्रम् अत्र ॥२६॥

हरिः स्वयं असुर-सहस्र-लक्ष-जेता सहस्र-लक्ष-सङ्ख्यकासुर-जयी अबलाभिः व्रजाङ्गनाभिः अयं श्री-कृष्णः विजेतुं इष्टः, यत् इह जयं अवाप प्राप्तः तत् न चित्रं आश्चार्यं अथ अनन्तरं यत् ताभिः जितः पराजितः, तत् अतीव-चित्रं आश्चर्यं ॥२६॥

विश्वास-प्रस्तुतिः

यद् अपि च जल-सेचनेन कीर्णस्
तद् अपि पराभवम् आप नाघशत्रुः ।
इति भृकुटिम् अधात् तु वार्षभानव्य्
अथ स तु तत्र बभूव चित्र-कल्पः ॥२७॥

मूलम्

यद् अपि च जल-सेचनेन कीर्णस्
तद् अपि पराभवम् आप नाघशत्रुः ।
इति भृकुटिम् अधात् तु वार्षभानव्य्
अथ स तु तत्र बभूव चित्र-कल्पः ॥२७॥

यद् अपि च तासां जल-सेचनेन कीर्णः आच्छन्नः व्याप्त इति यावत् तद् अपि अघ-शत्रुः श्री-कृष्णः पराभवं जल-युद्धे पराजयं न आप प्राप्तः । इति हेत्व्-अर्थे वार्षभानवी वृषभानु-सुता श्री-राधा भृकुटिं भ्रु-कुटीं कटाक्ष-पातम् इति यावत् अधात् अकरोत् । स तु श्री-कृष्णः तत्र चित्र-कल्पः चित्र-तुल्यः बभूव ॥२७॥

विश्वास-प्रस्तुतिः

हरिम् अथ सकलाबला विलासाल्
लघु जगृहुर् जित-काशितां दधानाः ।
पुनर् अपि हसितानुलाप-भङ्ग्या
बहिर् अवधानम् अधापयन् मृगाक्ष्यः ॥२८॥

मूलम्

हरिम् अथ सकलाबला विलासाल्
लघु जगृहुर् जित-काशितां दधानाः ।
पुनर् अपि हसितानुलाप-भङ्ग्या
बहिर् अवधानम् अधापयन् मृगाक्ष्यः ॥२८॥

अथ अनन्तरं सकलाबलाः सर्वाः व्रज-सुन्दर्यः जित-काशितां जय-शीलतां दधानाः सत्यः विलासात् प्रमोदात् हरिं लघु शीघ्रं यथा स्यात् तथा जगृहुः । पुनर् अपि ताः मृगाक्ष्यः हसितानुलाप-भाङ्ग्या हास्य-युक्त-वाक्य-पुनः-पुनः-कथन-भङ्ग्या बहिः अवधानं सावधानतां अधापयन् अकारयन् ॥२८॥

विश्वास-प्रस्तुतिः

अवहितवति जीवनाधिनाथे
वृषरविजा द्रुतम् अस्य कर्षणाय ।
तटम् अटितवतीह209 कृष्ण-नामाप्य्
अनुगततां समवाप राग-बद्धः ॥२९॥

मूलम्

अवहितवति जीवनाधिनाथे
वृषरविजा द्रुतम् अस्य कर्षणाय ।
तटम् अटितवतीह209 कृष्ण-नामाप्य्
अनुगततां समवाप राग-बद्धः ॥२९॥

जीवनाधिनाथे प्राणेश्वरे अवहितवति सावधाने सति वृषभानु-नन्दिनी अस्य श्री-कृष्णस्य कर्षणाय द्रुतं सत्वरं इह तटं तीरं अटितवती गतवती कृष्ण-नामापि ###

विश्वास-प्रस्तुतिः

द्रुतम् अथ परिचारिका मुरारिं
वृषरविजां सवयस्-ततीर् अमूश् च ।
मृदु मृदु वसनेन मार्जिताङ्गान्
अकृषत वस्त्र-वरान् अधारयंश् च ॥३०॥
स्वयम् अथ वृषभानुजा स्व-कान्तं
मृगमद-कुङ्कुम-चूर्ण-मर्जिताङ्गम् ।
सुलघु विदधती जहार जाड्यं
बहिर् अबहिः पुनर् आजहार जाड्यम् ॥३१॥
अथ घुसृण-विशेषकांशु-युक्तं
लघुतर-वेश-विशेष-शोभि-मुक्तम् ।
अकुरुत वृषभानुजा स्व-कान्तं
स च रुचिताम् अकरोद् अमूं नितान्तम् ॥३२॥
क्रमुक-सितकराञ्चि-पर्ण-वीटीर्
अदित सखी हरि-राधयोर् मुखान्तः ।
युगलम् अपि तयोः सखी-जनानाम्
अधित सुख-प्रथनाय वक्त्र-मध्ये ॥३३॥
अथ कमलकराः सकान्त-कान्ताः
सविलसितं सदनाय गन्तु-कामाः ।
विजित-कमल-पत्र-चारु-नेत्रा
विरुरुचिरे निखिलेन खेलितेन ॥३४॥
क्वचिद् अपि हरिणा समं व्यधुस् ताः
पुरु कमलाकमलि प्रहास-युक्तम् ।
इदम् इह न विदुस् तु तेन शश्वज्
जितम् अखिलं भुवनेषु केवलेन ॥३५॥
इति बहु-विध-खेल-मालयान्तं
जगृहुर् अमूर् अमुना समं समस्ताः ।
तद्-अनु च वर-निष्कुट-स्थ-धिष्ण्यं
प्रविविशुर् आविविशुश् च तस्य भासि ॥३६॥
मणि-सदनम् इदं वृतीर्210 अतीतं
वर-सरसी-सरसीरुहालि-मध्यम् ।
सुकुसुम-सुकुमार-गर्भ-तूली-
मिलद्-उपधान-शुभंयु-मञ्जु-शय्यम्211 ॥३७॥
सरुचि-निहित-तालवृन्त-भृङ्गा-
रक-मुख-शर्मद-वस्तु-संस्तुताङ्गम् ।
द्रुततरम् अविशद् विशंश् च शय्याम्
अधिवसति स्म हरिः स्मितांशु-शोभि ॥३८॥

मूलम्

द्रुतम् अथ परिचारिका मुरारिं
वृषरविजां सवयस्-ततीर् अमूश् च ।
मृदु मृदु वसनेन मार्जिताङ्गान्
अकृषत वस्त्र-वरान् अधारयंश् च ॥३०॥
स्वयम् अथ वृषभानुजा स्व-कान्तं
मृगमद-कुङ्कुम-चूर्ण-मर्जिताङ्गम् ।
सुलघु विदधती जहार जाड्यं
बहिर् अबहिः पुनर् आजहार जाड्यम् ॥३१॥
अथ घुसृण-विशेषकांशु-युक्तं
लघुतर-वेश-विशेष-शोभि-मुक्तम् ।
अकुरुत वृषभानुजा स्व-कान्तं
स च रुचिताम् अकरोद् अमूं नितान्तम् ॥३२॥
क्रमुक-सितकराञ्चि-पर्ण-वीटीर्
अदित सखी हरि-राधयोर् मुखान्तः ।
युगलम् अपि तयोः सखी-जनानाम्
अधित सुख-प्रथनाय वक्त्र-मध्ये ॥३३॥
अथ कमलकराः सकान्त-कान्ताः
सविलसितं सदनाय गन्तु-कामाः ।
विजित-कमल-पत्र-चारु-नेत्रा
विरुरुचिरे निखिलेन खेलितेन ॥३४॥
क्वचिद् अपि हरिणा समं व्यधुस् ताः
पुरु कमलाकमलि प्रहास-युक्तम् ।
इदम् इह न विदुस् तु तेन शश्वज्
जितम् अखिलं भुवनेषु केवलेन ॥३५॥
इति बहु-विध-खेल-मालयान्तं
जगृहुर् अमूर् अमुना समं समस्ताः ।
तद्-अनु च वर-निष्कुट-स्थ-धिष्ण्यं
प्रविविशुर् आविविशुश् च तस्य भासि ॥३६॥
मणि-सदनम् इदं वृतीर्210 अतीतं
वर-सरसी-सरसीरुहालि-मध्यम् ।
सुकुसुम-सुकुमार-गर्भ-तूली-
मिलद्-उपधान-शुभंयु-मञ्जु-शय्यम्211 ॥३७॥
सरुचि-निहित-तालवृन्त-भृङ्गा-
रक-मुख-शर्मद-वस्तु-संस्तुताङ्गम् ।
द्रुततरम् अविशद् विशंश् च शय्याम्
अधिवसति स्म हरिः स्मितांशु-शोभि ॥३८॥

[युग्मकम्]

चयानां च मध्य-गतम् इत्य् अर्थः । सुकुसुमेत्य्-आदि, बहिर्-देशे सुकुसुमैः सुन्दर-पुष्पैः, अभ्यन्तरे सुकोमल-तुलिकया च युक्तोपाधानं शुभान्वित-मनोहर-शय्यां । सरुचि- इत्य्-आदि सकान्ति-निहित-ताल-वृन्तेन भृङ्गारादि-सुख-प्रदद्रव्येण संस्तुतैक-देशं एभिर् गुणैर् विशिष्टं इदं मणि-सदनं मणिमय-भवनं द्रुततरं शीघ्रतरं अविशत् विशन् च शय्यां अधिवसति स्म ॥३७-३८॥

विश्वास-प्रस्तुतिः

तम् अथ कुसुम-चामरं दधाना
वृषरविजा स्वयम् एव सेवते स्म ।
अनृजु-दृशम् अमुं बलं छलं च
प्रणयि स तु प्रणयन् निनाय शय्याम् ॥३९॥

मूलम्

तम् अथ कुसुम-चामरं दधाना
वृषरविजा स्वयम् एव सेवते स्म ।
अनृजु-दृशम् अमुं बलं छलं च
प्रणयि स तु प्रणयन् निनाय शय्याम् ॥३९॥

अथ वृषरविजा वृषभानु-नन्दिनी श्री-राधा स्वयम् एव कुसुम-चामरं पुष्प-निर्मित-चामरं दधाना सती तं श्री-कृष्णं सेवते स्म । प्रणयि स तु प्रणयवान् कान्तः अनृजु-दृशं कुटिल-नेत्रां अमूं वृषभानु-नन्दिनीं बलं छलं च यथा स्यात्, तथा प्रणयन् प्रीतिं जनयन् शय्यां निनाय ॥३९॥

विश्वास-प्रस्तुतिः

इयम् अपि तत एव खेद-दम्भाद्
अलस-निभ-स्थितितां बभाज तस्याम् ।
तद्-अनु सवयसः स-चन्द्र-ताम्बू-
लकम् अनु शर्म दधुस् तयोर् द्वयोश् च ॥४०॥

मूलम्

इयम् अपि तत एव खेद-दम्भाद्
अलस-निभ-स्थितितां बभाज तस्याम् ।
तद्-अनु सवयसः स-चन्द्र-ताम्बू-
लकम् अनु शर्म दधुस् तयोर् द्वयोश् च ॥४०॥

ततस् तद्-अनन्तरं इयम् अपि श्री-राधापि खेद-दम्भात् खेदेन दुःख-प्रकाशेन सह दम्भः सम्मान-प्राप्ति-जन्य-धार्मिकता-प्रकाशः तस्मात्, तस्यां शय्यायां अलस-निभ-स्थितितां आलस्य-सदृशावस्थानत्वं बभाज सेवे । तद्-अनु तत्-पश्चात् सवयसः सख्यः तयोर् द्वयोः श्री-राधा-कृष्णयोः स-चन्द्र-ताम्बूलकं स-कर्पूर-ताम्बूलं अनु शर्म सुखं च दधुः ॥४०॥

विश्वास-प्रस्तुतिः

तद्-अनु तद् अनुमाय तेन तस्या
रहसि मिथः स्थितिवाञ्छितं वयस्याः ।
समिषम् अपगताः क्षणं तु काचिन्
मृदुमर्दनम् एतयोर् व्यधत्त ॥४१॥

मूलम्

तद्-अनु तद् अनुमाय तेन तस्या
रहसि मिथः स्थितिवाञ्छितं वयस्याः ।
समिषम् अपगताः क्षणं तु काचिन्
मृदुमर्दनम् एतयोर् व्यधत्त ॥४१॥

तद्-अनु तद्-अनन्तरं तेन प्राण-वल्लभेन सह तस्याः वयस्याः श्री-राधायाः रहसि एकाने मिथः परस्परं तत् स्थितिवाञ्छितं अनुमाय वचनादि-व्यवहारेण अनुमानं कृत्वा समिषं सव्याजं अपगताः शयन-गृहाद् इति शेषः, तु किन्तु कशित् मञ्जरी क्षणं व्याप्य तयोः श्री-राधा-कृष्णयोः पद-मर्दनं पाद-संवाहनं मृदु यथा यास्त् तथा व्यधत्त ॥४१॥

विश्वास-प्रस्तुतिः

इयम् अपि विगता द्वयस्य निद्रां
छल-रचितां छलम् आरचय्य यत् तु ।
नयन-युगल-मीलनं विहाय
प्रणय-मयीम् उदमीमिलन् निजेहाम् ॥४२॥

मूलम्

इयम् अपि विगता द्वयस्य निद्रां
छल-रचितां छलम् आरचय्य यत् तु ।
नयन-युगल-मीलनं विहाय
प्रणय-मयीम् उदमीमिलन् निजेहाम् ॥४२॥

इयम् अपि पाद-संवाहन-परा काचित् मञ्जरी अपि द्वयस्य श्री-राधा-कृष्ण-युगलस्य छल-रचितां निद्रां विगता ज्ञाता सती छलं आरचय्य कृत्वा, ततः विगता अपगत्य, मिथुनं च नयन-युगल-मीलनं विहाय त्यक्त्वा प्रणय-मयीं निजेहां स्व-चेष्टां उदमीमिलत् प्रकाशयामास ॥४२॥

विश्वास-प्रस्तुतिः

इति बहु-विध-केलिभिर् निदाघे
विगतवति प्रविवेश वार्षिक-श्रीः ।
जलद-वलय-विद्युद्-आलि-लक्ष्म्या
हरि-हरिदार-तनूर्212 विलासम् आप ॥४३॥

मूलम्

इति बहु-विध-केलिभिर् निदाघे
विगतवति प्रविवेश वार्षिक-श्रीः ।
जलद-वलय-विद्युद्-आलि-लक्ष्म्या
हरि-हरिदार-तनूर्212 विलासम् आप ॥४३॥

इति बहु-विध-केलिभिः पूर्व-कथितानुयायि नाना-क्रीडाभिः निदाघे ग्रीष्मे विगतवति सति वार्षिक-श्रीः वर्षा-कालीन-शोभा प्रविवेश, जलद-वलय-विद्युतालि-लक्ष्म्या जलद-वलयानां मेघ-समूहानां विद्युतालीनां तडित्-समूहानां च या लक्ष्मीः शोभा, तया हरि-हरिदार-तनूः कृष्णस्य कृष्ण-कान्तानां च तनूः शरीरं विलासं आप ॥४३॥

विश्वास-प्रस्तुतिः

रुचिम् इह कलयन् व्रजेश-सूनुर्
निशि निशि वर्णयितुं रुचिं जगाम ।
इदम् अवदधती च वार्षभानव्य्
अपि सवयस्-ततिर् उद्यद् उल्ललास ॥४४॥

मूलम्

रुचिम् इह कलयन् व्रजेश-सूनुर्
निशि निशि वर्णयितुं रुचिं जगाम ।
इदम् अवदधती च वार्षभानव्य्
अपि सवयस्-ततिर् उद्यद् उल्ललास ॥४४॥

इह लीला-विलासे रुचिं शोभां कलयन् कुर्वन् व्रजेश-सूनुः श्री-कृष्णः निशि निशि रुचिं वर्णयितुं जगाम प्राप्तः । इदं अवदधती अवधानं कुर्वती वार्षभानवी वृषभानु-नन्दिनी सवयस्-ततिः सखी-गणः अपि उद्यत् अत्यन्तं उल्ललास आनन्दिता अभूद् इत्य् अर्थः ॥४४॥

विश्वास-प्रस्तुतिः

इति घनसमयस्फुटप्रभाते
निजजननीहितं पयः कृतान्नम् ।
मरिचवलितम् उष्णम् ईषद् अश्नन्न्
अहम् अनुराममुखं सुखं भजामि ॥४५॥

मूलम्

इति घनसमयस्फुटप्रभाते
निजजननीहितं पयः कृतान्नम् ।
मरिचवलितम् उष्णम् ईषद् अश्नन्न्
अहम् अनुराममुखं सुखं भजामि ॥४५॥

इति घन-समयस्फुट-प्रभाते अहं निज-जननी-निहितं निज-जनन्या यशोदया निहितं कृतं अर्पितं वा पयः-कृतान्नं पायसं ईषत् अश्नन् अदन् किम्-भूतं मरिच-वलितं मरिच-युक्तं पुनः उष्णं, अनुराम-मुखं बलराम-प्रभृति-सहितं सुखं भजामि ॥४५॥

विश्वास-प्रस्तुतिः

मम जनितिथिर् एष्यतीह भाद्रे
व्रजजनशर्म च तेन सार्धम् अङ्ग ।
द्वयम् अपि यद् इदं जगन्ति धिन्वन्
पुरतरपर्व तनिष्यति प्रहृष्य ॥४६॥

मूलम्

मम जनितिथिर् एष्यतीह भाद्रे
व्रजजनशर्म च तेन सार्धम् अङ्ग ।
द्वयम् अपि यद् इदं जगन्ति धिन्वन्
पुरतरपर्व तनिष्यति प्रहृष्य ॥४६॥

अङ्ग हे प्रिये ! भाद्रे मासि मम जन्म-तिथिः एष्यति आयास्यति, व्रज-जन-शर्म व्रज-वासिनां सुखं-प्रदं तेन सार्धं तव च जन्म-तिथिः भाद्राष्टम्यां आयास्यति यद् इदं द्वयम् अपि जगन्ति धिन्वन् पुरुतर-पर्व महद् उत्सवः प्रकृष्टं यथा स्यात् तथा तनिघ्यति तनु विस्तारे ॥४६॥

विश्वास-प्रस्तुतिः

गृहशिखरशिखाम् अथाधिरूढाः
कलयत निश्य् अपि गोष्ठवन्यधाम ।
प्रतिलवतडिदालिदीप्तिभूम्ना
दिन इव सर्वम् इदं मुहुर् विभाति ॥४७॥

मूलम्

गृहशिखरशिखाम् अथाधिरूढाः
कलयत निश्य् अपि गोष्ठवन्यधाम ।
प्रतिलवतडिदालिदीप्तिभूम्ना
दिन इव सर्वम् इदं मुहुर् विभाति ॥४७॥

अथ गृहा-शिखरि-शिखाः प्रासादोपरि इत्य् अर्थः अधिऋऊढाः सत्यः निशि अपि गोष्थ-वन्य-धाम—गोष्ठ-वनयोर् दीप्तिं कलयत पस्यत प्रतिलवतडिद् आलि-दीप्ति-भूम्ना—प्रतिक्षणे विद्युन्निचयानां दीप्ति-बहुलेन इत्य् अर्थः, दिन इव इदं सर्वं मुहुः विभाति ॥४७॥

विश्वास-प्रस्तुतिः

नभसि जलदविद्युदालिलक्ष्मीर्
भुवि हरितः स्फुरद् इन्द्रगोपकान्तिः ।
मदनुगभवतीव काननश्री
ततिम् अनुपषकतां सखि प्रयाति ॥४८॥

मूलम्

नभसि जलदविद्युदालिलक्ष्मीर्
भुवि हरितः स्फुरद् इन्द्रगोपकान्तिः ।
मदनुगभवतीव काननश्री
ततिम् अनुपषकतां सखि प्रयाति ॥४८॥

हे सखि राधे ! नभसि आकाशे जलद-विद्युदालि-लक्ष्मीः जलद-विद्युदालीनां मेघ-सौदामिनी-समूहानां लक्ष्मीः शोभा, भुवि पृथिव्यां स्फुरद् इन्द्र-गोप-कान्तिः प्रकाशमान-रक्त-वर्ण-क्षुद्रकीटानां कान्तिर् यत्र हरितः मदनुगभवतीव मम अनुगता भवती इव कानन-श्री-ततिम् अनु वन-शोभा-समूहं लक्ष्मी-कृतं पोषकतां मदीयातिशय-प्रीति-पोषकतां प्रयाति प्राप्नोति ॥४८॥

विश्वास-प्रस्तुतिः

स्थलकुलम् इह कूर्मपृष्ठतुल्यं नयनगतिप्रदरत्नवेशमध्यम् ।
विततम् अभिनवप्ररूढतार्णं
परि धवलागणपालनं करोमि ॥४९॥

मूलम्

स्थलकुलम् इह कूर्मपृष्ठतुल्यं नयनगतिप्रदरत्नवेशमध्यम् ।
विततम् अभिनवप्ररूढतार्णं
परि धवलागणपालनं करोमि ॥४९॥

कूर्म-पृष्ठ-तुल्यं कूर्म-पृष्ठ-सदृशं नयन-गति-प्रद-रत्न-वेष्म-मध्यं विततं विस्तृतं स्थल-कुलं अभिनव-प्ररूढतार्णं अभिनवाङ्कुरित-तृणं परि धवलगण-पालनं धवलाख्य-गो-प्रभृति-पालनं करोति ॥४९॥

विश्वास-प्रस्तुतिः

गिरिवरशिरसि व्युदस्तपार्श्वा
वृतिमणिसद्मनि लब्धधेनुदृष्टिः ।
बहु-विधशतरञ्जमुख्यखेला
विदधद् अहं सखिभिः सुखं प्रयामि ॥५०॥

मूलम्

गिरिवरशिरसि व्युदस्तपार्श्वा
वृतिमणिसद्मनि लब्धधेनुदृष्टिः ।
बहु-विधशतरञ्जमुख्यखेला
विदधद् अहं सखिभिः सुखं प्रयामि ॥५०॥

गिरि-वर-शिरसि गोवर्धनोपरि-भागे इत्य् अर्थः व्युदस्त-पार्श्वावृति-मणि-सद्मनि पार्श्वानां आवरण-रहित-मणिमय-भवने इत्य् अथः लब्ध-धेनु-दृष्टिः यत्रोपविश्य तृण-चर-धेनूनां दर्शनोप-योगिदेशः, स्थितः इति भावः अहं बहु-विध-शत-रञ्ज-मुख्य-खेला विदधत् सखिभिः वयस्यैः सह सुखं प्रयामि प्राप्नोति ॥५०॥

विश्वास-प्रस्तुतिः

स्रवति सलिलम् अम्बुदे तरूणां
कुहरगृहे रसयन् फलं सकन्दम् ।
उपसलिलशिलासनः सदन्नं
दधिसहितं सखिभिर् विभक्तम् अश्नन् ॥५१॥
क्वचिद् अपि गिरिमूर्ध्नि धेनुहूतिं
विदधद् अमूश् च मुदा निविश्य पश्यन् ।
अधि वडभिगताभिर् ईक्षणीयः
सततम् अहं भवतीभिर् अत्र तत्र ॥५२॥

मूलम्

स्रवति सलिलम् अम्बुदे तरूणां
कुहरगृहे रसयन् फलं सकन्दम् ।
उपसलिलशिलासनः सदन्नं
दधिसहितं सखिभिर् विभक्तम् अश्नन् ॥५१॥
क्वचिद् अपि गिरिमूर्ध्नि धेनुहूतिं
विदधद् अमूश् च मुदा निविश्य पश्यन् ।
अधि वडभिगताभिर् ईक्षणीयः
सततम् अहं भवतीभिर् अत्र तत्र ॥५२॥

[युग्मकम्]

अम्बुदे मेघे सलिलं जलं श्रवति सति तरूणां वृक्षाणां कुहर-गृहे समीपवर्ति-गृहे सकन्दं फलं रसयन् आस्वादन् उपसलिल-शिलानः जल-समीपगत-प्रस्तरासने समासीनः सन् सखिभिः वयस्यैः सह विभक्तं दधि-सहितं सद् अन्नं अश्नन् अदन् । क्वचिद् अपि गिरिमूर्ध्नि पर्वतोपरि धेनू-हूतिं गो-गणाह्वायं विदधत् कदा वा तत्र निविश्य अमूश् च मुदा पश्यन्, कापि अधिवडति-तताभिः चन्द्र-शाला-गृह-गताभिः भवतीभिः अत्र तत्र अहं सततं ईक्षणीयः दृश्यः ॥५१-५२॥

विश्वास-प्रस्तुतिः

इह वहति कदम्बनीपयूथी
शवलितकेतकगन्धसन्धवातः ।
अनुभवसविविक्ततं च यद्वत्
तव मम चानुभवन्ति गन्धम् अल्पम्१ ॥५३॥

मूलम्

इह वहति कदम्बनीपयूथी
शवलितकेतकगन्धसन्धवातः ।
अनुभवसविविक्ततं च यद्वत्
तव मम चानुभवन्ति गन्धम् अल्पम्१ ॥५३॥

इह कदम्ब-वृक्ष-समूहे केतक-पुष्पाणां गन्ध-युक्त-वायुं इह वहति । अनुभव-स-विविक्ततं च यद् वत् तव मम अल्पं गधं च अनुभवन्ति ॥५३॥

विश्वास-प्रस्तुतिः

यदि पुलककुलाकुलासि कृष्णं
कनकपटं पटु मां निरीक्ष्य भद्रे ।
घनतडिदुदयाद् विवर्धमाना
ङ्कुरधरनीतुलनां तदा प्रयासि ॥५४॥

मूलम्

यदि पुलककुलाकुलासि कृष्णं
कनकपटं पटु मां निरीक्ष्य भद्रे ।
घनतडिदुदयाद् विवर्धमाना
ङ्कुरधरनीतुलनां तदा प्रयासि ॥५४॥

हे भद्रे ! सुमङ्गले ! यदि त्वं कनक-पटं पीताम्बरम् इत्य् अर्थः पटु मां कृष्णं निरीक्ष्य दृष्ट्वा पुलक-कुलाकुलासि पुलक-कुलेन रोमाञ्च-समूहेन आकुला भवसि । तदा वनतडिद् उदयात् विवर्धमानाङ्कुर-धरणी-तुलनां प्रयासि ॥५४॥

विश्वास-प्रस्तुतिः

घनसमयम् अनुध्वनिं प्लवाद्या
विदधति ते च घना मुहुस् तम् अत्र ।
निशमयितुम् अमुं परस्परं ये
स्फुटम् अनिशं रचयन्ति सुष्ठु पुष्टम् ॥५५॥

मूलम्

घनसमयम् अनुध्वनिं प्लवाद्या
विदधति ते च घना मुहुस् तम् अत्र ।
निशमयितुम् अमुं परस्परं ये
स्फुटम् अनिशं रचयन्ति सुष्ठु पुष्टम् ॥५५॥

अत्र वने घन-समयं मेघ-कालं अनु लक्ष्मी-कृत्य प्लवाद्याः मण्डुकादयः ध्वनिं मक्-मक् इति शब्दं विदधन्ति कुर्वन्ति ते घनाः मेघाश् च तं ध्वनिं मुहुः विदधति । ये मण्डुक-मेघादय सर्वे परस्-परं अमुं ध्वनिं निशमयितुं श्रावयितुं अनिशं निरन्तरं स्फुटं सुष्ठु सुन्दरं पुष्टं रचयन्ति ॥५५॥

विश्वास-प्रस्तुतिः

जलदम् अनु कनिष्ठमध्यमुख्याः
प्लवशिखिचातकनामकाः प्रपन्नाः ।
तरतमविधिना तदेकनन्दि
द्वयम् अपरस् तु तदेकजीविजीवः ॥५६॥

मूलम्

जलदम् अनु कनिष्ठमध्यमुख्याः
प्लवशिखिचातकनामकाः प्रपन्नाः ।
तरतमविधिना तदेकनन्दि
द्वयम् अपरस् तु तदेकजीविजीवः ॥५६॥

कनिष्ठ-मध्य-मुख्याः अधम-मध्यम-श्रेष्ठाः प्लवशिखि-चातकनामकाः जलदं मेघम् अनु प्रापन्नाः शरणागताः भवन्ति । तरतम-विधिना द्वयोर् मध्ये एकस्योत्कर्षः बहु-मध्ये एकस्योत्कर्षः एवम्-विधिना तद् एक-नन्दि-द्वयं मेघ एव केवल-मात्रानन्द-प्रदल्प-वशिखि-द्वयं, अपरस्तु अपरः चातकः तद् एकजीविजीवः मेघ एव जीवन जीवनं तस्य् एत्द्य् अर्थः ॥५६॥

विश्वास-प्रस्तुतिः

अहम् अपि तद् इदं विलोकमानः
किल विमृशामि निजान् अनन्यभक्तान् ।
यदनु च भवदीयवृन्दम् एतत्
परमतया मम चित्तम् आविवेश ॥“५७॥

मूलम्

अहम् अपि तद् इदं विलोकमानः
किल विमृशामि निजान् अनन्यभक्तान् ।
यदनु च भवदीयवृन्दम् एतत्
परमतया मम चित्तम् आविवेश ॥“५७॥

अहम् अपि तद् इदं विलोकमानः पश्यन् निजान् अनन्य-भक्तान् विमृशामि यद् अनु च यद् अनन्तरं भवदीय-वृन्दं एतत् परमतया श्रेष्ठतया मम कृष्णस्य चित्तं आविवेष ॥५७॥

विश्वास-प्रस्तुतिः

इति वदति हरौ पपात वृष्टिर्
विसृमर-शीकर-भाक् ततश् च सख्यः ।
पट-कुटम् अदधुर् द्वयस्य खट्टाम्
अनु परितः सदनं पटावृतं च ॥५८॥

मूलम्

इति वदति हरौ पपात वृष्टिर्
विसृमर-शीकर-भाक् ततश् च सख्यः ।
पट-कुटम् अदधुर् द्वयस्य खट्टाम्
अनु परितः सदनं पटावृतं च ॥५८॥

हरौ श्री-कृष्णे इति वदति सति विसृमर-शीकर-भाक्—व्यापन-शील-वायु-प्रेरित-जल-बिन्दु-विशिष्टा वृष्टिः पपात । ततश् च सख्यः पट-कुटं वस्त्र-निर्मित-गृहं द्वयस्य श्री-राधा-कृष्ण-युगस्य खट्टां पालङ्क्यं अनु परितः चतुर्-दिगे पटावृतं सदनं गृहं च अवदधुः । किं वा, खट्टाम् अनु पट-गृहम् अदधुः ॥५८॥

विश्वास-प्रस्तुतिः

बहिर् अनु घन-गर्जितं स-वर्षं
गृहम् अनु तल्प-वरेण्यम् अल्प-शीतम् ।
तद्-अनु वसित-शस्त-वस्त्रम् एतन्
मिथुनम् अनुस्मर चित्त गौर-कृष्णम् ॥५९॥

मूलम्

बहिर् अनु घन-गर्जितं स-वर्षं
गृहम् अनु तल्प-वरेण्यम् अल्प-शीतम् ।
तद्-अनु वसित-शस्त-वस्त्रम् एतन्
मिथुनम् अनुस्मर चित्त गौर-कृष्णम् ॥५९॥

हे चित्त ! बहिर् अनु पट-गृहस्य बहिर्-भागे स-वर्षं वर्षण-सहितं घन-गर्जितं, गृहम् अनु तल्प-वरेण्यं उत्तम-शय्यां, अल्प-शीतं तद्-अनुवसित-शस्त-वस्त्रं परिधानोत्तम-वसनं एतन् मिथुनं श्री-राधा-कृष्ण-युगलं गौर-कृष्णं गौर-कृष्ण-वर्णं इत्य् अर्थः । अनु त्वम् इति शेषः ॥५९॥

विश्वास-प्रस्तुतिः

इति बहु-विध-सुख-खेलया प्रयाते
घन-समये शरद् आजगाम तां च ।
स्फुटम् अवकलयन् पुरावद् आख्यद्
वृषरविजां मुरजिन् निशि क्रमेण ॥६०॥

मूलम्

इति बहु-विध-सुख-खेलया प्रयाते
घन-समये शरद् आजगाम तां च ।
स्फुटम् अवकलयन् पुरावद् आख्यद्
वृषरविजां मुरजिन् निशि क्रमेण ॥६०॥

इति एवं-प्रकारेण बहु-सुख-खेलया नाना-विध-क्रीडया घन-समये वर्षण-काले प्रयाते गते सति, शरत् तद्-आख्यः कालः आजगाम समागतः । मुरजित् श्री-कृष्णः तां च शरदं स्फुटं अवकलयन् दर्शयन् पुरावत् पूर्वोक्त-वर्षादि-वर्णनवत् निशि क्रमेण वृषरविजां श्री-राधां आख्यात् अवदत् ॥६०॥

विश्वास-प्रस्तुतिः

अहरहर् उदये शरत् शरत्-प्रवेशे
निज-जननी-निहितं पयः कृतान्नम् ।
सह-सुहृद् उपभुज्य213 धेनु-सङ्गाद्
वन-कलितं भवतीं विविच्य वच्मि ॥६१॥

मूलम्

अहरहर् उदये शरत् शरत्-प्रवेशे
निज-जननी-निहितं पयः कृतान्नम् ।
सह-सुहृद् उपभुज्य213 धेनु-सङ्गाद्
वन-कलितं भवतीं विविच्य वच्मि ॥६१॥

शरत्-प्रवेशे शरद् ऋतु-समागमे अह-रहः प्रति-दिनं उभये सूर्योदये सति निज-जननी-निहितं श्री-यशोदया अर्पितं पयः-कृतान्नं पायसं सह-सुहृद् उपभुज्य सुहृद् गण-सहितः सन् भुक्त्वा धेनु-सङ्गात् यवर्थे पी, वन-कलितं अस्मद् आदीनां वन-गमनं विविच्य भवतीं तां वच्मि ॥६१॥

विश्वास-प्रस्तुतिः

वहद् अनुनवम्214 अभ्रम् अच्छ-भावं
प्रणिदधती क्षितिर् आत्मनानुचक्रे ।
तद्-उचितम् उपजीवनीय-भावे
मयि भवती भवतीदृग् एव सुभ्रू ॥६२॥

मूलम्

वहद् अनुनवम्214 अभ्रम् अच्छ-भावं
प्रणिदधती क्षितिर् आत्मनानुचक्रे ।
तद्-उचितम् उपजीवनीय-भावे
मयि भवती भवतीदृग् एव सुभ्रू ॥६२॥

हे सुभ्रु ! अभ्रं आकाशः नवं स्वच्छ-भावं बहत् दधत्, क्षितिः आत्मना तादृशं स्वच्छ-भावं प्रणिदधती अनुचक्रे । तद् उचितं युक्तं वतः उप-जीवनीय-भावे मयि भवति ईदृग् एव भवति ॥६२॥

विश्वास-प्रस्तुतिः

तडिदनुवलने गते पयोदाद्
बत इति मानम् इते तथा पयोदे ।
त्वदपगमदशां निजां पुराणीं
मुहुर् अहम् अस्य तुलाम् अनुस्मरामि ॥६३॥

मूलम्

तडिदनुवलने गते पयोदाद्
बत इति मानम् इते तथा पयोदे ।
त्वदपगमदशां निजां पुराणीं
मुहुर् अहम् अस्य तुलाम् अनुस्मरामि ॥६३॥

पयोदात् मेघात् तडिद् अनुवलने संयोगे गते तथा पयोदे मेघे सितिमानं श्वेतत्वं इते प्राप्ते निजां पुराणीं त्वद् अपगम-दशां मया सह तव वियोग-समयावस्थां अस्य पूर्वोक्तस्य तुलां तुलनां अहं मुहुः अनुस्मरानि ॥६३॥

विश्वास-प्रस्तुतिः

अथ यदि कलयामि तीरनीर
व्रजम् अनु खञ्जनहंसकञ्जकान्तिम् ।
वरतनु भवदागतिं वितर्क्य
भ्रमदशया बत विभ्रमं प्रयामि ॥६४॥

मूलम्

अथ यदि कलयामि तीरनीर
व्रजम् अनु खञ्जनहंसकञ्जकान्तिम् ।
वरतनु भवदागतिं वितर्क्य
भ्रमदशया बत विभ्रमं प्रयामि ॥६४॥

अथ अनन्तरं अहं यादा तीर-नीरं सरोवरादि-तीरचयं तज् जल-समूहं च अनु पश्चात् किम् वा तीर-नीरम् अनु लक्ष्मी-कृत्य खञ्जन-हंसैः स्व-नाम-प्रसिद्धैः कुञ्ज-कान्तिं कुञ्ज-शोभां कलयामि पश्यानि । वरतनु ! हे सुन्दरि ! तदा भवद् आगतिं त्वद् आगमनं वितर्क्य बत भ्रम-दशाया विभ्रमं प्रयामि ।६४॥

विश्वास-प्रस्तुतिः

अभिलषति मदीयकेलिशिक्षा
गुरुम् इयम् अच्युतवल्लभाक्षिलक्ष्मीम् ।
इति किल कमलावलीं विधूताम्
उरु शफरीनिकरश् चरीकरीति ॥६५॥

मूलम्

अभिलषति मदीयकेलिशिक्षा
गुरुम् इयम् अच्युतवल्लभाक्षिलक्ष्मीम् ।
इति किल कमलावलीं विधूताम्
उरु शफरीनिकरश् चरीकरीति ॥६५॥

अयं शफरी-निकरः—मीन-समूहः मदीय-केलि-शिक्षा-गुरुं अच्युत-वल्लभाक्षि-लक्ष्मीं कृष्ण-प्रियाणां नेत्र-शोभां अभिलषति इति हेतोः विधूतां कम्पितां कमलावलीं पद्म-श्रेणीं उरु अतिशयं चरीकरीति पुनः पुनः अतिशयेन करोति ॥६५॥

विश्वास-प्रस्तुतिः

जलम् अनुपरमाच्छतां निरीक्ष्य
क्षणम् अनुसन्दधद् अन्तरं यदास्मि१ ।
प्रतिफलितम् इह स्वम् ईक्षमाणस्
तव मनसा तुलनाम् अनुस्मरामि ॥६६॥

मूलम्

जलम् अनुपरमाच्छतां निरीक्ष्य
क्षणम् अनुसन्दधद् अन्तरं यदास्मि१ ।
प्रतिफलितम् इह स्वम् ईक्षमाणस्
तव मनसा तुलनाम् अनुस्मरामि ॥६६॥

जलम् अनु प्रति परमाच्छतां परम-स्वच्छतां निरीक्ष्य दृष्ट्वा यदा क्षणम् अनुसन्दधत् अस्मि, तदा इह स्वच्छ-जले प्रति-फलितं प्रतिबिम्बितं स्वं आत्मनं ईक्षमाणः पश्यन् मनसा तव तुलनां अनुस्मरामि । भावश् चायं त्वदीयमनः एव शरज्जलनिभ-स्वच्छं तत्राहं सदा साक्षात् प्रतिबिम्बितोऽस्मि ॥६६॥

विश्वास-प्रस्तुतिः

नवनवपुलिनं निरीक्ष्य तत् तत्
पददलनां विनिषिध्य तत्र चाहम् ।
मनसि विनिदधे स्म हेतुम् अन्यं
वचसि तद् अन्यम् इदं त्वम् एव वेत्सि ॥६७॥

मूलम्

नवनवपुलिनं निरीक्ष्य तत् तत्
पददलनां विनिषिध्य तत्र चाहम् ।
मनसि विनिदधे स्म हेतुम् अन्यं
वचसि तद् अन्यम् इदं त्वम् एव वेत्सि ॥६७॥

नव-नव-पुलिनं यमुना-तट-स्थित-नव-पुलिनं निरीक्ष्य तत् तत्-पद-दलनां पद-चिह्नं विनिषिध्य तत्र च अहं मनसि अन्य-हेतुं विनिदधे, वचसि तद् अन्य-हेतुं विनिदधे इदं त्वम् एव वेत्सि । भावश् चायं पुलिनं दृष्ट्वा सखायः आहुः—भोः सखे कृष्ण ! किम् अत्र त्वया रजन्यां रास-लीला कृता यतः अनेक-वधु-गण-पद-चिह्न-सहित-त्वदीय-चरण-चिह्नानि पश्यामः तदा श्री-कृष्णः मनसि जानन्न् अपि छलेन यथार्थ-वाक्यं सङ्गोपयन् सखीन् विषेधति भो सखायः ! केनापि भवतव्यम् इति । तद् एवोक्तं हे प्रिये ! त्वम् एव वेत्सि ॥६७॥

विश्वास-प्रस्तुतिः

पथि पथि कुसुमं विचित्य शश्वत्
कुसुममयं धनुरादिकं विधाय ।
पुलिनकुलम् अदः प्रपद्य तस्मिन्
कुसुमशराय वयं बलिं ददाम ॥६८॥

मूलम्

पथि पथि कुसुमं विचित्य शश्वत्
कुसुममयं धनुरादिकं विधाय ।
पुलिनकुलम् अदः प्रपद्य तस्मिन्
कुसुमशराय वयं बलिं ददाम ॥६८॥

पथि पथि कुसुमं विचित्य पुष्प-चयनं कृत्वा निरन्तरं कुसुममयं धनुरादिकं विधाय कृत्वा अदः पुलिन-कुलं प्रपद्य प्राप्य तस्मिन् पुलिन-सहूहे कुसुमशराय कन्दर्पाय वयं वलिं उपहारं ददाम ॥६८॥

विश्वास-प्रस्तुतिः

कुमुदमुकुलम् अल्पम् अल्पनालं
शरतुलितं विरचय्य शिल्पशालि ।
धनुर् अपि नवकेतकस्य पर्णान्
त्रिचतुरयोगदृढान् दृढं सृजामः ॥६९॥

मूलम्

कुमुदमुकुलम् अल्पम् अल्पनालं
शरतुलितं विरचय्य शिल्पशालि ।
धनुर् अपि नवकेतकस्य पर्णान्
त्रिचतुरयोगदृढान् दृढं सृजामः ॥६९॥

अल्पनालं अल्पं कुमुद-मुकुलं शर-तुलितं शिल्पशालि बहु-शिल्प-युक्तं धनुर् अपि विरचय्य विधाय नवकेतकस्य पर्णान् पत्राणि त्रिचतुर-योग-दृढान् त्रि-चतुर-योगेन दृढान् दृढं यथा स्यात् तथा सृजामः ॥६९॥

विश्वास-प्रस्तुतिः

इति हरिर् अचलत् प्रियासहायः
कुसुमचितिं विदधद् विचित्रकेलि ।
पृथुतनुविषमच्छदांस् तनीयस्
तनुलतिकाभिर् इतस्मितान् जहास ॥७०॥

मूलम्

इति हरिर् अचलत् प्रियासहायः
कुसुमचितिं विदधद् विचित्रकेलि ।
पृथुतनुविषमच्छदांस् तनीयस्
तनुलतिकाभिर् इतस्मितान् जहास ॥७०॥

इति इत्युक्त्वा प्रिया-सहायः श्री-राधादिभिः सहितः विचित्र-केलिः अद्भूत-लीलाकारी हरिः सर्व-मनोहरः श्री-कृष्णः कुसुम-चितिं पुष्प-चयनं विदध सन् विचित्र-केलि निवि-सर्ग-पाथे विदधत् इति क्रियायाः विशेषणं, तनीयस् तनु-लतिकाभिः क्षीणतराकारलताभिः सह पृथु-तनु-विषमच्छदान् स्थूलाकार-सप्तच्छद-वृक्षान् इतस्मितान् प्राप्त-हास्यन् जहास उपहसितवान् ॥७०॥

विश्वास-प्रस्तुतिः

अथ पुलिनम् असाव् अपश्यद् इन्दोः
प्रतितनुवत् पुलिनस्य तद्वदिन्दुम् ।
कुतुकरसवशाद् विशंश् च तस्मिन्
स्वम् अमृतसिक्तनिभं विदन् ननन्द ॥७१॥

मूलम्

अथ पुलिनम् असाव् अपश्यद् इन्दोः
प्रतितनुवत् पुलिनस्य तद्वदिन्दुम् ।
कुतुकरसवशाद् विशंश् च तस्मिन्
स्वम् अमृतसिक्तनिभं विदन् ननन्द ॥७१॥

अथ असौ कृष्णः पुलिनं अपश्यत् कथम्-भूतं इन्दोः चन्द्रस्य प्रतितनुवत् प्रतिशरीरवत् पुलिनस्य इन्दुं चन्द्रं तद् वत् चन्द्रस्य प्रतितनुवत् पुलिनं पुलिनस्य प्रति-तनुवत् चन्द्रं अपश्यद् इत्य् अर्थः । कुतुक-रसवशात् तस्मिन् पुलिने विशन् प्रविशन् स्वं आत्वानं अमृत-सिक्त-निडं सुधा-सिक्त-सदृशं विदन् जानन् ननन्द ॥७१॥

विश्वास-प्रस्तुतिः

अवदद् अथ सखीततिर् मुकुन्दं
“कुसुमशरः क्व नु यं प्रपूजयामः” ।
हरिर् अवदद् “अहं स एव साक्षाद्
इति मम पूजनम् एव तस्य विद्धि ॥७२॥

मूलम्

अवदद् अथ सखीततिर् मुकुन्दं
“कुसुमशरः क्व नु यं प्रपूजयामः” ।
हरिर् अवदद् “अहं स एव साक्षाद्
इति मम पूजनम् एव तस्य विद्धि ॥७२॥

अथ सखीततिः सखी-समूहः मुकुन्दं—मु मुक्ति-सुखं कु कुत्सितं यस्मात् तं मुकं प्रेमाणं तं ददातीति मुकुन्दं प्रेम-दातारं प्रेम-दातारं प्रियतमं श्री-कृष्णं अवदत्, किं तद् आह—नु भोः प्रिय ! स्व-निर्मितः स कुसुम-शरः क्व कुत्र ? यं कुसुम-शरं प्रपूजयाम वयम् इति शेषः । तच्छ्रुत्वा हरिः सर्व-मनोहरः श्री-कृष्णः अवदत्—स एव कुसुम-शर एव साक्षत् अहं इति हेतोः मम पूजनम् एव तस्य कुसुम-शरस्य पूजनं विद्धि जानीहि ॥७२॥

विश्वास-प्रस्तुतिः

यदि कुसुमशरस्य शक्तिम् अस्मिन्
मयि मनुषे नतरां तदालिवर्गः ।
मम कुसुमशरान् सहस्व साक्षाद्
" इति कलयन् स तु कम्पते स्म वर्गः ॥७३॥

मूलम्

यदि कुसुमशरस्य शक्तिम् अस्मिन्
मयि मनुषे नतरां तदालिवर्गः ।
मम कुसुमशरान् सहस्व साक्षाद्
" इति कलयन् स तु कम्पते स्म वर्गः ॥७३॥

हे आलि-वर्ग ! सखी-गण ! यदि कुसुम-शरस्य शक्तिं अस्मिन् मयि नतरां अतिशयेन मनुषे तदा मम कुसुम-शरान् साक्षात् प्रत्यक्षं यथा स्यात् तथा स्वह-स्व इति कलयन् पश्यन् शृण्वन् वा स वर्गः सखी-गणः कम्पते स्म चकम्पे ॥७३॥

विश्वास-प्रस्तुतिः

अथ वृषरविजावदन् “मुरारे
शत्रुम् इह भौमयुधि त्वम् एक एव ।
परबलबहुकोटिशस्त्रम् अस्यन्
जयम् अभजतस् तद् इदं निचाययस्व215 ॥७४॥

मूलम्

अथ वृषरविजावदन् “मुरारे
शत्रुम् इह भौमयुधि त्वम् एक एव ।
परबलबहुकोटिशस्त्रम् अस्यन्
जयम् अभजतस् तद् इदं निचाययस्व215 ॥७४॥

अथ वृष-रविजा—श्री-वृषभानु-नन्दिनी अवदत् हे मुरारे ! इह श्रुतम् अस्माभिः भौमयुधि भौमा-सुर-युद्धे एक एव त्वं परवल-बहु-कोटि-शस्त्रं बहु-कोटि-विपक्ष-सैन्यान् प्रति शस्त्रं अस्यन् क्षिपन् जयं अभजः तद् इदं निचायय-स्व दर्शय इत्य् अर्थः ॥७४॥

विश्वास-प्रस्तुतिः

उपपरिसरम् अस्य तर्हि सर्वाः
कुसुमशरान् किरन्न् अमूर् असङ्ख्यान् ।
अभिनद् अयम् अमून् शरान् अमूषां
कुसुमशरैर् उत कञ्चुकान्य् अविध्यत् ॥७५॥

मूलम्

उपपरिसरम् अस्य तर्हि सर्वाः
कुसुमशरान् किरन्न् अमूर् असङ्ख्यान् ।
अभिनद् अयम् अमून् शरान् अमूषां
कुसुमशरैर् उत कञ्चुकान्य् अविध्यत् ॥७५॥

तर्हि तदा अमूः सर्वाः प्रिया अस्य श्री-कृष्णस्य उप-परिसरं समीप-प्रदेशं असङ्ख्यान् कुसुम-शरान् अकिरन् निक्षेपं अकुर्वन् । अयं श्री-कृष्णः कुसुम-शरैः अमूषां कान्तानां अमून् शरान् अभिनत्, उच-कञ्चुकानि उर्ध-भाग-स्थ-कञ्चुकानि अविध्यत् ॥७५॥

विश्वास-प्रस्तुतिः

हरिम् अथ जितकाशिनं बभाषे
हरिरमणीविततिः स्मितं दधाना ।
“वयम् इह युवतीजनास् तद् अस्मत्
परिचितम् एव विहारम् आदिशस्व ॥“७६॥

मूलम्

हरिम् अथ जितकाशिनं बभाषे
हरिरमणीविततिः स्मितं दधाना ।
“वयम् इह युवतीजनास् तद् अस्मत्
परिचितम् एव विहारम् आदिशस्व ॥“७६॥

अथ हरि-रमणी-विततिः कृष्ण-कान्ता-गणः स्मितं हास्यं दधाना नित-काशिनं जय-शीलं हरिं बभाषे उवाच, किं तद् आह—इह वयं युवती-जनाः तत् तस्मात् अस्मात्-परिचितं अस्मत्-परिज्ञातं विहारं आदि-शस्व ॥७६॥

विश्वास-प्रस्तुतिः

हरिर् अथ विहसन् जगाद “यूयं
भरतमतं प्रति राजथातिविज्ञाः ।
तद् अनुसरत गीतवाद्यनृत्यं
मम भवतीभिर् उदेतु तारतम्यम् ॥“७७॥

मूलम्

हरिर् अथ विहसन् जगाद “यूयं
भरतमतं प्रति राजथातिविज्ञाः ।
तद् अनुसरत गीतवाद्यनृत्यं
मम भवतीभिर् उदेतु तारतम्यम् ॥“७७॥

अथ हरिः विहसन् सन् जगाद उवाच । किन्तद् आह—यूयं भरतमतं भरत-मतन्तु नाटकाभिनय-नृत्य-गीत-वाद्यादि प्रति अति-विज्ञाः अति-पारदर्शिन्यः सत्यः राजथ शोभथ, तत् तस्मात् गीत-वाद्य-नृत्यं अनुसरत कुरुत, भवतीभिः सह मम तारतम्यं न्यूनाधिकां इतर-विशेषम् इति यावत् उदेतु ॥७७॥

विश्वास-प्रस्तुतिः

द्रव इव हरिगानतः शिलाद्यं
हरिरमणीजनसीमकं बभूव ।
हरिर् अजनि कथञ्चनापि धीरः
स च न तथाजनि गानतस् तु तासाम् ॥७८॥

मूलम्

द्रव इव हरिगानतः शिलाद्यं
हरिरमणीजनसीमकं बभूव ।
हरिर् अजनि कथञ्चनापि धीरः
स च न तथाजनि गानतस् तु तासाम् ॥७८॥

हरि-गानतः कृष्ण-कर्तृक-सङ्गीतेन शिलाद्यं हरि-रमणी-जन-सीमकं कृष्ण-कान्ता-पर्यन्तं द्रव इव बभूव । हरिः कथञ्चनापि धीरः अजनि जातः, तु किन्तु तासां गानतः गानेन स च श्री-कृष्णः तथा धीरः न अजनि अधीय एव जातः इति भावः ॥७८॥

विश्वास-प्रस्तुतिः

अथ मिलिततया चकार लास्यं
निजवनिताभिर् अयं न चाप साम्यम् ।
तम् अभिदधुर् अमूर् वयं न सन्दीपनिं
अभजाम गुरुं कथं नु विद्मः ॥७९॥

मूलम्

अथ मिलिततया चकार लास्यं
निजवनिताभिर् अयं न चाप साम्यम् ।
तम् अभिदधुर् अमूर् वयं न सन्दीपनिं
अभजाम गुरुं कथं नु विद्मः ॥७९॥

अथ अयं श्री-कृष्णः निज-वनिताभिः प्रियाभिः सह मिलिततया सङ्गततया लास्यं नृत्यं चकार परन्तु साम्यं न आप प्राप्तवान् । अमूः प्रियाः तं कृष्णं अभिदधुः उचुः, वयं सान्दीपनिं गुरुं न अभजाम नृत्य-कलादि-शिक्षार्थं गुरुत्वेन न आश्रयाम । अतः नु भोः ! कथं विद्मः । त्वस्तु गुरुत्वेन तमाश्रितवान् अतः नृत्य-पटुः इति श्लेषः ॥७९॥

विश्वास-प्रस्तुतिः

हरिर् अकुरुत तण्डुना प्रणीतं
नटनम् अनेन जहार चित्तम् आसाम् ।
इह जगदुर् अमूर् वयं न पद्मा
तुलिततमा यद् इहापि शिक्षिताः स्मः ॥८०॥

मूलम्

हरिर् अकुरुत तण्डुना प्रणीतं
नटनम् अनेन जहार चित्तम् आसाम् ।
इह जगदुर् अमूर् वयं न पद्मा
तुलिततमा यद् इहापि शिक्षिताः स्मः ॥८०॥

हरिः तण्डुना स्व-नाम-प्रसिद्ध-शिवानुचरेण प्रणीतं नटनं नृत्यं अकुरुत, अनेन नटनेन आसां प्रियतमानां चित्तं जहार हृतवनि इह नृत्य-विषये अमूः जगतुः वयं पद्मातुलिता लक्ष्म्याः उपमिताः नहि भवामं, यत् इहापि नटने शिक्षिताः स्मः भवामः ॥८०॥

विश्वास-प्रस्तुतिः

व्यतिमिलिततयाथ रासनृत्यं
व्यधिषत ता दयितेन तेन सार्धम् ।
विलसितवरमाधुरीभिर् एषां
सुरवनिता मुमुहुर् मुहुर् मुहुश् च ॥८१॥

मूलम्

व्यतिमिलिततयाथ रासनृत्यं
व्यधिषत ता दयितेन तेन सार्धम् ।
विलसितवरमाधुरीभिर् एषां
सुरवनिता मुमुहुर् मुहुर् मुहुश् च ॥८१॥

तथ ताः प्रियाः व्यति-मिलिततया परस्पर-एकत्री-भूततया तेन दयितेन प्रियतमेन सार्धं सह रास-नृत्यं व्यधियत अकार्षुः एषां नृत्यानां विलषित-वरमाधुरीभिः सुर-वनिताः देव्यः मुहुर् मुहुः मुमुहुः ॥८१॥

विश्वास-प्रस्तुतिः

अथ हरिर् अकरोद् इहापि चित्रं
जवमहसा स तथानशे समस्तम् ।
यद् अखिलमहिलाः स्वपार्श्वलग्नं
तम् अनुलवं बत मेनिरे निरीक्ष्य ॥८२॥

मूलम्

अथ हरिर् अकरोद् इहापि चित्रं
जवमहसा स तथानशे समस्तम् ।
यद् अखिलमहिलाः स्वपार्श्वलग्नं
तम् अनुलवं बत मेनिरे निरीक्ष्य ॥८२॥

अथ स हरिः इहापि चित्रं आश्चर्यं अकरोत्, तथा जव-महसा अतिशय-कान्त्या समस्तं प्रियावर्गं आनशे व्याप्तवान् यत् यस्मात् अखिल-महिलाः तं कान्तं अनुलवं अनुक्षणं निरीक्ष्य दृष्ट्वा स्व-पार्श्व-गतं मेनिरे ॥८२॥

विश्वास-प्रस्तुतिः

विलसितम् इदम् इत्थम् आचरन्तः
श्रमम् उपलभ्य चिराद् अमी निविष्टाः ।
व्यजनसलिलपानकाङ्गराग
क्रमुकपुटादिभिर् आश्रिताभिर् इष्टाः ॥८३॥

मूलम्

विलसितम् इदम् इत्थम् आचरन्तः
श्रमम् उपलभ्य चिराद् अमी निविष्टाः ।
व्यजनसलिलपानकाङ्गराग
क्रमुकपुटादिभिर् आश्रिताभिर् इष्टाः ॥८३॥

इत्थम् अनेन प्रकारेण इदं विलसितं विलासं आचरन्तः श्रमं क्लान्तिं उपलभ्य प्राप्य अनुभूय इति यावत् चिरात् बहु-कालं व्याप्य अमी कृष्णादयः निविष्टाः कुञ्जं प्रतीति-शेषः तदा आश्रिताभिः शरण-गताभिः दासीभिः व्यजन-सलिल-पानकाङ्ग-राग-क्रम-पुटादिभिः व्यजनं ललिलं जलं पानकं जल-सिक्तं सितादिपेयं अङ्ग-रागं मृग-मद-चन्दनादि-लेपन-रूपं क्रमु-कपुटं ताम्बुलं इत्यादिभिः इष्ठाः अर्चिताः ॥८३॥

विश्वास-प्रस्तुतिः

अथ भृशम् उपलभ्य शान्तिम् एता
हरिहरिणीनयना निशावसाने ।
वनम् अनुविहृतिं मुदा दधानाः
स्वम् उपवनीमणिमन्दिरं ससर्जुः ॥८४॥

मूलम्

अथ भृशम् उपलभ्य शान्तिम् एता
हरिहरिणीनयना निशावसाने ।
वनम् अनुविहृतिं मुदा दधानाः
स्वम् उपवनीमणिमन्दिरं ससर्जुः ॥८४॥

अथ अनन्तरं एताः हरि-हरिनी-नयनाः कृष्णेन सह मृगी-नेत्राः व्रज-सुन्दर्यः भृशं अतिशं शान्तिं उपलभ्य प्राप्य निशवसाने वनम् अनु वन-मध्ये मुदा हर्षेण विहृतिं विहारं दधानाः स्वं उपवनी-मणि-मन्दिरं ससज्जुं जग्मुः ससर्ज्जुः इति पाठः चिन्तनीयः ॥८४॥

विश्वास-प्रस्तुतिः

अथ मुररिपुराधिकाख्ययुग्मं
मृदुशयनं प्रतिलभ्य वल्गुशर्म ।
अतनुत शयनं तथा यथा तत्
तनुम् अपि भेदम् अधात् तनुद्वयं न ॥८५॥

मूलम्

अथ मुररिपुराधिकाख्ययुग्मं
मृदुशयनं प्रतिलभ्य वल्गुशर्म ।
अतनुत शयनं तथा यथा तत्
तनुम् अपि भेदम् अधात् तनुद्वयं न ॥८५॥

अथ अनन्तरं मुररि-पुराधिकाख्य-युग्मं श्री-राधा-कृष्णाख्य-युगलं वल्गु मनोहरं शर्मं सुखं मृदु-शयनं कोमल-शय्यां प्रतिलभ्य प्राप्य यथा तत् तनु-द्वयं श्री-राधा-दामोदर-विग्रह-युगं तनुम् अपि अल्पम् अपि भेदं विच्छेदं न अधात् तथा तेन प्रकारेण शयनं अतनुत तनु-ञद-विस्तृतौ सर्वाङ्गा-श्लेष-पूर्वक-शयनं कृतवान् इति भावः ॥८५॥

विश्वास-प्रस्तुतिः

अथ गिरिवरपर्वणि स्वसृणां
गृहगतं पर्वणि कार्तिके मासि ।
बहु-विधमहसा१ सशर्मपूर्णे
तद्-अनु मुखं मुखरं सुखं करोति ॥८६॥

मूलम्

अथ गिरिवरपर्वणि स्वसृणां
गृहगतं पर्वणि कार्तिके मासि ।
बहु-विधमहसा१ सशर्मपूर्णे
तद्-अनु मुखं मुखरं सुखं करोति ॥८६॥

अथ अनन्तरं कार्तिके मासि गिरिवर-पर्वणि श्री-गोवर्धनोत्सवे स्वसॄणां भग्नीनां गृह-गत-पर्वणि बहु-विधम् अहसा अनेकोत्सवेन स-शर्म-पूर्णे सुख-सम्पन्ने सति तद् अनु-मुखं तासाम् अनु-सुखं मुखरं सुखं करोति ॥८६॥

विश्वास-प्रस्तुतिः

अथ शरदनुजा यदा ऋतु-श्रीर्216
मृदुमृदुशीतमयी समाजगाम ।
अशनवसनकाननाद्रिखेला
शयनसुखादि हरिः प्रियाम् उवाच ॥८७॥

मूलम्

अथ शरदनुजा यदा ऋतु-श्रीर्216
मृदुमृदुशीतमयी समाजगाम ।
अशनवसनकाननाद्रिखेला
शयनसुखादि हरिः प्रियाम् उवाच ॥८७॥

अथ यदा ऋतु-श्रीः ऋतु-शोभा मृदु-मृदु-शीतमयी शरदनुजा हेमन्तः समाजगाम तदा हरिः अशन-वसन-काननादि-खेला-शयन-सुखादि भोजन-वसन-वन-पर्वत-खेला-शयन-सुखादि प्रियां श्री-राधां उवाच ॥८७॥

विश्वास-प्रस्तुतिः

“सुरभिनवकशालितण्डुलीभिः
पुरुसितवष्कयनीपयस्कृतान्नम् ।
सुपरिमलहरिः प्लुतं समन्ताद्
विकलितवल्कलबीजनागरङ्गम् ॥८८॥
बहुघृतपरिपक्वपिष्टभेदं
प्रविततमण्डकरोटिकाभिर् इष्टम् ।
परिकृतदलितार्द्रकं स्वमात्रार्
पितम् उषसि स्वदते वरोरु मह्यम् ॥८९॥

मूलम्

“सुरभिनवकशालितण्डुलीभिः
पुरुसितवष्कयनीपयस्कृतान्नम् ।
सुपरिमलहरिः प्लुतं समन्ताद्
विकलितवल्कलबीजनागरङ्गम् ॥८८॥
बहुघृतपरिपक्वपिष्टभेदं
प्रविततमण्डकरोटिकाभिर् इष्टम् ।
परिकृतदलितार्द्रकं स्वमात्रार्
पितम् उषसि स्वदते वरोरु मह्यम् ॥८९॥

[युग्मकम्]

हे ररोरु ! सुरभि-नव-शालि-तण्डुलीभिः सुगन्द-नूतन-शालि-तण्डुलैः पुरुसित-वस्करनीपस्कृतान्नं अतिशय-कृष्ण-वर्ण-नव-प्रसूत-गाभि-पयसा कृतान्न किम्-भूतं सपरिमल-हविःप्लुतं सपरिमल-घृत-व्याप्तं समन्तात् विकलित-वल्कल-वीज-नाग-रङ्गं वल्क्ल-वीज-विरहित-नाग-रङ्ग-फलं बहु-घृत-पार-पक्व-पिष्ट-भेदं प्रचुर-घृतैः परिपक्व-नाना-विध-पिष्टकं प्रवितत-मण्डक-रोटिकाभिः अनेक प्रकार-पिष्टक-विशेषैः रोटिकाभिश् च इष्टं पिषितार्द्रकं एतत्-सर्वं स्व-मात्रा श्री-यशोदया उषसि प्रभाते अर्पितं स्वदते माता मां आस्वादयति इत्य् अर्थः स्वदते मह्यं इति पर-श्लोकेन वा अन्वयः सुधीभि-विवेच्यः ॥८८-८९॥

विश्वास-प्रस्तुतिः

तद्-अनु च जननी ददाति वेषं
मृगमदकुङ्कुमचूर्णपूर्णवस्त्रम् ।
तम् अहम् अहरहः सजन् सरामः
सहसखिवीथिर् अतीव शर्म यामि ॥९०॥

मूलम्

तद्-अनु च जननी ददाति वेषं
मृगमदकुङ्कुमचूर्णपूर्णवस्त्रम् ।
तम् अहम् अहरहः सजन् सरामः
सहसखिवीथिर् अतीव शर्म यामि ॥९०॥

तद्-अनु तत्-पश्चात् जननी श्री-यशोदा मृगमद-कुङ्कुम-चूर्ण-पूर्ण-वस्त्रं मृग-नाभि-कुङ्कुम-चूर्णाभ्यां पूर्णं परिपूर्णं सम्मिश्रम् इति-यावत् एतादृशं वेषं ददाति, सरामः बलरामेण सहितः अहं अहरहः प्रतिदिनं तं वेषं सजन् धारयन् सह-सखि-वीत्थिः वयस्य-गण-समन्वितः सन् अतीव शर्म सुखं यामि प्राप्नोमीत्य् अर्थः ॥९०॥

विश्वास-प्रस्तुतिः

यदपि विविधतेमनादिमध्यं
दिनम् उपलब्धम् इहास्ति पङ्कजाक्षि ।
तदपि भवति सार्द्रकं घृतान्तः
कृतपचशर्षपशाकम् आदराय ॥९१॥

मूलम्

यदपि विविधतेमनादिमध्यं
दिनम् उपलब्धम् इहास्ति पङ्कजाक्षि ।
तदपि भवति सार्द्रकं घृतान्तः
कृतपचशर्षपशाकम् आदराय ॥९१॥

हे पङ्कजाक्षि ! यद् अपि मध्यन्दिनं दिवसस्य मध्य-भागे मात्रा प्रेरितं विविधतेमनादि नाना-प्रकर-व्यञ्जनादि इह गोष्ठे उपलब्धं अस्ति भवति, तद् अपि सार्द्रकं आर्द्रक-सहितं घृतान्तः-कृत-पच-शर्षप-शाकं घृत-पक्व-शर्षप-शाकं आदराय प्रीतये भवति ॥९१॥

विश्वास-प्रस्तुतिः

अहरहर् अनुधेनुकञ्चुकादि
च्छविसवितृच्छविमित्रताच्छभासः ।
सखिभिर् अखिलकेलिशालिहारी
तकरुतकर्मणि नर्मशर्म यामः ॥९२॥

मूलम्

अहरहर् अनुधेनुकञ्चुकादि
च्छविसवितृच्छविमित्रताच्छभासः ।
सखिभिर् अखिलकेलिशालिहारी
तकरुतकर्मणि नर्मशर्म यामः ॥९२॥

अहरहः प्रतिदिनं धेनुकञ्व्चुकादि-च्छवि-सवितृ-च्छवि-मित्रताच्छभासः—धेनु-पश्चाद्-गमन-तच् चारण-जानु-लम्बित-कञ्चुक-धारण-कटि-बन्धनोष्णीषादि-ग्रहण-मणि-मुक्ताद्यलस्कृत-विचिर-वसणादीनां कान्तिभिः सूर्य-कान्तिभिः सहमित्रतया उज्ज्वल-भासः सखीभिः सह अखिल-केलि-शालि-हारीतक-रुत-कर्मणि बहु-विध-क्रीडा-शालि-शुकादि पक्षिणां रवानुकरण-कर्मणि परिहास-सुखं यामः ॥९२॥

विश्वास-प्रस्तुतिः

परिणततरजम्भनागरङ्ग
क्रमुकमुखद्युतिशोणकाननान्तम् ।
स्मितलसितकटिञ्जरादिपुष्प
प्रमुदितसर्वम् अहर्दिवं भ्रमामः ॥९३॥

मूलम्

परिणततरजम्भनागरङ्ग
क्रमुकमुखद्युतिशोणकाननान्तम् ।
स्मितलसितकटिञ्जरादिपुष्प
प्रमुदितसर्वम् अहर्दिवं भ्रमामः ॥९३॥

स्मित-लषित-कटिञ्जरादि-पुष्प-प्रमुदित-स्वर्वं—विकसिताभिलषित-कटिञ्जरादि-पुष्पैः अमोदित-सर्वं परिणत-तरजम्भ-नाग-रङ्ग-क्रमुक-मुख-द्युति-शोण-काननान्तं परिपक्व-जमीरनाग-रङ्ग-गुवाक-प्रभृतीनां द्युतिभिः रक्तिम-कानन-मध्यं । अहर्दिवं अहरहः भ्रममाः वयम् इति शेषः ॥९३॥

विश्वास-प्रस्तुतिः

चलसखि तद् इदं वनं निरीक्षे
महि हिमलेशिनि217 मार्गशीर्षमासि ।
परपरदिवसे तु शीतशीते
नहि विहृतिर्218 बहिर् औचितीं भजेत ॥९४॥

मूलम्

चलसखि तद् इदं वनं निरीक्षे
महि हिमलेशिनि217 मार्गशीर्षमासि ।
परपरदिवसे तु शीतशीते
नहि विहृतिर्218 बहिर् औचितीं भजेत ॥९४॥

हे सखि राधे चल मार्गशीर्ष-मासि अग्रहायण-मासि शिशिर-युक्ते निशि रात्र्यां पर-पर-दिवसे उत्तरोत्तर-दिने शीत-शीते उत्तरोत्तर-शीते जाते बहिः विहृतिः औचितीं न भजेत । नहि विकृतिर् बहिरौचितीं भजेत इति पाठान्तरं भावयं ॥९४॥

विश्वास-प्रस्तुतिः

इति हरिवचनाद् अनेन सार्धं
वनम् अनुगम्य विरम्य रम्य-रूपम् ।
समुचितफलपुष्पसङ्ग्रहेण
प्रमदभृतः प्रमदागृहं समीयुः ॥९५॥

मूलम्

इति हरिवचनाद् अनेन सार्धं
वनम् अनुगम्य विरम्य रम्य-रूपम् ।
समुचितफलपुष्पसङ्ग्रहेण
प्रमदभृतः प्रमदागृहं समीयुः ॥९५॥

इति हरि-वचनात् अनेन श्री-कृष्णेन सार्धं सह वनं अनुगम्य रम्य-रूपं विरम्य समुचित-फल-पुष्प-सङ्ग्रहेण प्रमद-भृतः परमानन्द-युक्ताः प्रमदाः सुन्दर्यः गृहं समीयुः सञ्जग्मुः ॥९५॥

विश्वास-प्रस्तुतिः

इति मृदुतरतुलिकानुकूली
कृतशयनं नयनाभिरामयुग्मम् ।
मधुरिपुवृषभानुजासमाख्यं
न वपुषिभेदम् अवाप नापि चित्ते ॥९६॥

मूलम्

इति मृदुतरतुलिकानुकूली
कृतशयनं नयनाभिरामयुग्मम् ।
मधुरिपुवृषभानुजासमाख्यं
न वपुषिभेदम् अवाप नापि चित्ते ॥९६॥

इति मृदुतर-तुलिकानुकुली-कृत-शयनं कोमल-तुलमयी-शय्यायां अनुकौल-कृत-शयनं नयनाभिराम-युग्मं नेत्र-प्रीतिकर-युगलं मधुरिपु-वृषभानुजा-समाख्यं श्री-राधा-कृष्ण-नामकं वपुषि विग्रहे भेदं न आप प्राप्तः चित्तेऽपि भेदं नाप एकाकार-प्राय-विग्रहत्वाद् इति भावः ॥९६॥

विश्वास-प्रस्तुतिः

अथ धनुर् अपरांशमीनराजा
वधि रविभोगगताहसङ्घभागे ।
मुररिपुर् अवदत् पुरावद् एतां
वृषरविजां स निजां विलासलक्ष्मीम् ॥९७॥

मूलम्

अथ धनुर् अपरांशमीनराजा
वधि रविभोगगताहसङ्घभागे ।
मुररिपुर् अवदत् पुरावद् एतां
वृषरविजां स निजां विलासलक्ष्मीम् ॥९७॥

अथ अनन्तरं धनुर् इत्यादि धनुराशि-शेषांशतः मीन-राशि-प्रथम-पर्यन्तं सूर्यस्य भोग-गत-दिन-समूहस्य भागे शीत-काले इत्य् अर्थः, पौषमासीरार्ध-दिनम् आरभ्य फाल्गुनस्यार्ध-दिन-पर्यन्तं शीत-काल-प्रतीतेः । स मुररिपुः श्री-कृष्णः पुरावत् ग्रीष्मादि-ऋतु-वर्णनवत् एतां वृषरविजां वृषभानु-नन्दिनीं प्रति निजां स्वकीयां विलास-लक्ष्मीं विलास-शोभां अवदत् ॥९७॥

विश्वास-प्रस्तुतिः

घृतदधिकृसरार्द्रकादिजुष्टाः
कटुवटका विविधानि सन्धितानि ।
अहरहर् उदये मदीयमात्रा
मयि निहितानि भृशं सुखं वहन्ति ॥९८॥

मूलम्

घृतदधिकृसरार्द्रकादिजुष्टाः
कटुवटका विविधानि सन्धितानि ।
अहरहर् उदये मदीयमात्रा
मयि निहितानि भृशं सुखं वहन्ति ॥९८॥

अह-रहः प्रतिदिनं उदये सूर्योदये सति मदीयमात्रा श्री-यशोदया घृत-दधि-कृसरार्द्रकादि-जुष्टाः कटुवटकाः विविधानि सन्धितानि आचारादीनि भृशं अत्य् अर्थः सुखं ब्स्हन्ति अहं भोजनं करोमीति भावः ॥९८॥

विश्वास-प्रस्तुतिः

बहु-विधम् अथ दुग्धबाष्पपक्वं
मृदु मृदु पिष्टकम् इष्टपूर्णम् ।
अधि दिनदिनमध्यमात्ममात्रा
प्रहितम् अहं रमयन् मुदं भजामि ॥९९॥

मूलम्

बहु-विधम् अथ दुग्धबाष्पपक्वं
मृदु मृदु पिष्टकम् इष्टपूर्णम् ।
अधि दिनदिनमध्यमात्ममात्रा
प्रहितम् अहं रमयन् मुदं भजामि ॥९९॥

अप अधिदिन-दिन-मध्यं दिवसस्य मध्य-भागे गोष्ठावस्तिति-काले इति यावत् आत्म-मात्रा स्वजनन्या यशोदया प्रहितं प्रेरितं दुग्ध-बाष्पकः बहु-विधं बहु-प्रकारं इष्टम् इष्ट-पूर्णं मदीयाभिलषितम् इष्ट-युक्तं मृदु-मृदु-पिष्टकत्व अयं रसरन् अस्मादरन् मृदं हर्षं भजामि ॥९९॥

विश्वास-प्रस्तुतिः

घुसृणरुचिर् अतूलसूक्ष्मवस्त्र
द्विदलजकञ्चुकयुक्पिधानवक्षः१ ।
पवनरहितघर्मशर्मदातृ
स्थलम् अनु धेन्ववनेन शर्म यामि ॥१००॥

मूलम्

घुसृणरुचिर् अतूलसूक्ष्मवस्त्र
द्विदलजकञ्चुकयुक्पिधानवक्षः१ ।
पवनरहितघर्मशर्मदातृ
स्थलम् अनु धेन्ववनेन शर्म यामि ॥१००॥

युसृणेत्यादि । कुङ्कुम-कान्ति-विशिष्ट-तुलासमन्वित-सूक्ष्म-वस्त्रेण उभय-पार्श्वा-वृतैः तादृश-कञ्चुकाच्छादित-वक्षः ईदृशः अहं पवन-रहित-घर्म-दातृस्थलम् अनु प्रवनं विहीन-रौद्रेण सुख प्रदस्थलं लक्ष्मी-क्र्त्य धेन्ववनेन धेनु-रक्षणेन शर्म सुखं यामि प्राप्नोमि इत्य् अर्थः ॥१००॥

विश्वास-प्रस्तुतिः

शिशिरम् अनु समस्तसत्त्वजाते
रुतिरहिते किखिषु प्रगल्भवाक्षु ।
समवदद् इह कोऽपि नेति नूनं
सखि हसितं दयया सहायति स्म ॥१०१॥

मूलम्

शिशिरम् अनु समस्तसत्त्वजाते
रुतिरहिते किखिषु प्रगल्भवाक्षु ।
समवदद् इह कोऽपि नेति नूनं
सखि हसितं दयया सहायति स्म ॥१०१॥

हे सखि ! शिशिरम् अनु शीत-कालं लक्ष्मी-कृत्य शीत-काले इत्य् अर्थः समस्त-सत्व-जाते निखिल-जन्तु-समूहे रुति-रहिते निःशब्दे जाते किखिषु शृगाल-विशेषेषु प्रगल्भ-व्कक्षु उधृत-वाक्येषु सत्सु कोपि समवत् उवाच, इह कोऽपि न इति नुनं निश्चितं हसितं यथा स्यात् तथा दयया सहायति स्म ॥१०१॥

विश्वास-प्रस्तुतिः

शिशिरजनुषि दुर्दिनेऽपि जाते
मितिरहिता धवलाः सुखं चरन्ति ।
शृणु सखि तदुपायम् अन्त्यम् एकं
मम मुरलीजनि यत् तु वायुसूक्तम् ॥१०२॥

मूलम्

शिशिरजनुषि दुर्दिनेऽपि जाते
मितिरहिता धवलाः सुखं चरन्ति ।
शृणु सखि तदुपायम् अन्त्यम् एकं
मम मुरलीजनि यत् तु वायुसूक्तम् ॥१०२॥

हे सखि ! शिशिरजनुषि शीत-कालोद्भवे दुर्दिनेऽपि जाते मिति-रहिताः परिमाण-शून्याः सङ्ख्यातीता इति यावत् धवलाः गावः सुखं यथा स्यात् तथा चरन्ति तृणं भक्षयन्ति । एकं अन्त्यं चरमं तद् उपायं दुदिनेऽपि तृण-चरण-साधनम् इत्य् अर्थः शृणु, यत् यस्मात् मम मुरली वायु-सृक्तं वायु-निवारक-मन्त्र-रूपं जनि जातः भवति ॥१०२॥

विश्वास-प्रस्तुतिः

शिशिरम् अकुसुमान्तरं निरीक्ष्य
स्रजम् इह कुन्दकृतां बिभर्मि चित्राम् ।
विपदि यद् उपजीवनं तद् एव
प्रतिपदम् आदरभाजनं विभाति ॥१०३॥

मूलम्

शिशिरम् अकुसुमान्तरं निरीक्ष्य
स्रजम् इह कुन्दकृतां बिभर्मि चित्राम् ।
विपदि यद् उपजीवनं तद् एव
प्रतिपदम् आदरभाजनं विभाति ॥१०३॥

शिशिरमकुसुमान्तरं अन्य-कुसुमन्न दृष्ट्वा इत्य् अर्थः । न शिशिर-कुसुमान्तरं निरीक्ष्य इति पाठस् तु स्पष्ट एव । इह कुन्द-कृतां कुन्द-पुष्प-ग्रथितां चित्रां आश्चर्यां स्रज मालिकां विभर्मि अहम् इति शेषः, विपदि आपद् काले यत् उप-जीवनं जीवनोपायः तद् एव प्रति-पदं पदे पदे आदर-भाजनं आदर-पात्रं सत् विभाति ॥१०३॥

विश्वास-प्रस्तुतिः

इह द्रुतम् इतम् अहःसमूहं ऊहा-
विषयतया दधतः परे निनिन्दुः ।
भवदुपसृतिवर्धिरात्रिवृद्धेर्
अलम् अहम् अस्य तु वश्मि दीर्घम् आयुः ॥१०४॥

मूलम्

इह द्रुतम् इतम् अहःसमूहं ऊहा-
विषयतया दधतः परे निनिन्दुः ।
भवदुपसृतिवर्धिरात्रिवृद्धेर्
अलम् अहम् अस्य तु वश्मि दीर्घम् आयुः ॥१०४॥

इह शीत-काले हृषित-महः-समूहं प्रति-दिन्दचयं प्रायत्रिंश-दण्डात्मक-दिन-समूहम् इति-यावत् विषयतया सांसारिक-कार्य-कलापेन दधतः परे विषयिणः उहाः त्रिंश-दण्डात्मक-दिनाभ्यन्तरे अस्माकं विषय-कार्यपरं निष्पन्नं न भवति इति तर्किताः सन्तः निनिन्दुः, विषयिणः दीर्घ-दिनम् आकाङ्क्षन्ति इति भावः तु किन्तु अहं भवद् उपसृति-वर्धि-रात्रि-युद्धेः त्वत्-संयोग-वार्ध-रजनी-वृद्धेः हेतोः शीत-कालस्य दीर्घ-रात्रित्वात् त्वय सह केलनं बहुक्षण-स्थायि भवति इति भावः, अतः अस्य शीत-काल-दिवसस्य दीर्घम् आयूः वश्मि कामये, चिरकालं व्याप्य शीतकालीन-दिनम् अस्तु, रात्रिर् अपि चिरात् वृद्धिर् अस्तु इति भावः ॥१०४॥

विश्वास-प्रस्तुतिः

अथ मधु ऋतुर् एष्यति प्रफुल्लं
वननिकरं विदधद् यद् आततः प्राक् ।
हरिहरिवनिताकुलं प्रफुल्लं
स्वयम् अभवद् बत पश्य तस्य वीर्यम् ॥१०५॥

मूलम्

अथ मधु ऋतुर् एष्यति प्रफुल्लं
वननिकरं विदधद् यद् आततः प्राक् ।
हरिहरिवनिताकुलं प्रफुल्लं
स्वयम् अभवद् बत पश्य तस्य वीर्यम् ॥१०५॥

अथ शीत-ऋतु-वर्णनानन्तरं वसन्त-वर्णनोपक्रमम् आह—पथेति—यदा मधुऋउतौः वसन्त-ऋतुः एष्यति आगमिष्यति । ततः प्राक् वननिकरं वन-समूहं प्रफुल्लं विदधत्, हरि-हरि-वनिता-कुलं श्री-कृष्ण-तत्-प्रिया-वृन्दं स्वयं प्रफुल्लं अभवत्, वय आश्चर्यं तस्य वसन्तस्य वीर्यं पराक्रमं पश्य हे मनः इति शेषः ॥१०५॥

विश्वास-प्रस्तुतिः

प्रथमसमम् अथात्र भोजनाद्यं
समुचितम् आप्रविधाय कृष्ण-चन्द्रः ।
निशि निशमयति स्म वन्यवृत्तं
दिनदिनम् अप्य् अतुलं वृषार्कपुत्रीम् ॥१०६॥

मूलम्

प्रथमसमम् अथात्र भोजनाद्यं
समुचितम् आप्रविधाय कृष्ण-चन्द्रः ।
निशि निशमयति स्म वन्यवृत्तं
दिनदिनम् अप्य् अतुलं वृषार्कपुत्रीम् ॥१०६॥

अत्र प्रथम-समं प्रथम-समये यथा-योग्यं भोजनाद्यं आप्रविधाय सम्यक् विधाय कृष्ण-चन्द्रः दिन-दिनं प्रतिदिनं निशि रात्रौ अतुलं निरुपमं वन्य-वृत्तं वृषार्क-पुत्रीं श्री-वृषभानु-नन्दिनीं निशमयति श्रावयति स्म ॥१०६॥

विश्वास-प्रस्तुतिः

निशमय कुतुकं वनेऽद्य दृष्टं
वितरितरि प्रसभं बिभर्ति भिक्षुः ।
अमधुजनुषि पुण्ड्रके द्विरेफा
मुहुर् अपि झङ्कृतितर्जनां वहन्ति ॥१०७॥

मूलम्

निशमय कुतुकं वनेऽद्य दृष्टं
वितरितरि प्रसभं बिभर्ति भिक्षुः ।
अमधुजनुषि पुण्ड्रके द्विरेफा
मुहुर् अपि झङ्कृतितर्जनां वहन्ति ॥१०७॥

हे प्रिये निशमय शृणु अद्य वने कुतुकं दृष्टं मयेति-शेषः किन्तद् आह—भिक्षुः भिक्षार्थी वितरितरि प्रसभं भिक्षा-प्रदानकारिणं प्रति वलात्कारं बिभर्ति, किम्-प्रकारं ? अमधुजनुषि ईषद् वसन्तोद्भवे अत्राल्पार्थे नञ् पूण्ड्रके तन् नामक-पुष्पे द्विरेफाः भ्रमराः मुहुर् अपि झङ्कृति-तर्जनां बहन्ति ॥१०७॥

विश्वास-प्रस्तुतिः

किम् इयम् अहह माधवीति नाम्ना
जनविदितेति मदात् प्रफुल्लति स्म ।
शिव शिव न वयं मधोः किम् इत्थं
कुसुमम् अधुः किल सप्तलादयश् च ॥१०८॥

मूलम्

किम् इयम् अहह माधवीति नाम्ना
जनविदितेति मदात् प्रफुल्लति स्म ।
शिव शिव न वयं मधोः किम् इत्थं
कुसुमम् अधुः किल सप्तलादयश् च ॥१०८॥

अहह विस्मयेइयं माधवीति-नाम्ना जन-विदिता जन-परिज्ञाता इति हेतोः मदात् गर्वात् किं प्रपुल्लति स्म । शिव शिव इति खेद-वचनं वयं किं मधोः वसन्तस्य न स्मः इत्थं अनेन प्रकारेणोक्त्वा सप्तलिदयः नव-मालिका पाटलादयः कुसुमं अधुः स्वस्मिन् पुष्पाणि धारयामासुः ॥१०८॥

विश्वास-प्रस्तुतिः

स बकुलसहकारकेतकीनां
सकरुणकिंशुकनागकेशराणाम् ।
ततिर् अतिशुशुभे विलोक्य यान्तु
भ्रमरपिकप्रवरा महः सजन्ति ॥१०९॥

मूलम्

स बकुलसहकारकेतकीनां
सकरुणकिंशुकनागकेशराणाम् ।
ततिर् अतिशुशुभे विलोक्य यान्तु
भ्रमरपिकप्रवरा महः सजन्ति ॥१०९॥

सव-कुल-सहकारकेतकीनां वकुल-सहिताम्र-केतकीनां सकरुण-किंशुक-नाग-केशराणां यां शोभां विलोक्य दृष्ट्वा भ्रमर-पिक-प्रवराः ततिः समूहः अतिशुशुभे, भ्रमर-कोकिल-श्रेष्ठाः महः उत्सवं सजन्ति प्राप्नुवन्ति इत्य् अर्थः ॥१०९॥

विश्वास-प्रस्तुतिः

मलयजमरुद् एष इत्य् अभिख्यः
पवनगणः प्रतिपद्य मत्कवन्याम् ।
मनयुजजयिसुरभातिशस्तां
प्रसतिक्रीण इवात्र मन्दमन्दम् ॥११०॥

मूलम्

मलयजमरुद् एष इत्य् अभिख्यः
पवनगणः प्रतिपद्य मत्कवन्याम् ।
मनयुजजयिसुरभातिशस्तां
प्रसतिक्रीण इवात्र मन्दमन्दम् ॥११०॥

एष मलयज-वायुः इत्य् अभिख्यः इति-सञ्ज्ञः पवन-गणः मत्क-वन्यां मदीय-वृन्दावनं प्रतिपद्य प्राप्य कद्थम्-भूतां मलयज-जयि-सौरभातिशस्तां—मलयज-जय-कारिसुगन्ध्येन अति-प्रशस्त-युक्तां, हृईण इव लज्जित इव अत्र वने मन्द-मन्दं प्रसवति गच्छति वहति इति यावत् ॥११०॥

विश्वास-प्रस्तुतिः

इति मधुऋतुवर्णनं वितन्वन्
मधुरिपुर् अन्यनिजप्रियाजनानाम् ।
चरितविवृतिम् अन्यनायिकानां219
चरितमिषात् कलयन्न् अमूं स्तुते स्म ॥१११॥

मूलम्

इति मधुऋतुवर्णनं वितन्वन्
मधुरिपुर् अन्यनिजप्रियाजनानाम् ।
चरितविवृतिम् अन्यनायिकानां219
चरितमिषात् कलयन्न् अमूं स्तुते स्म ॥१११॥

मधुरिपुः मधुसूदनः श्री-कृष्णः । इति एवं-प्रकारेण मधु-ऋतु-वर्णनं वसन्त-ऋतु-वर्णनं वितन्वन् विवृण्वन् अन्य-नायिकानां चरितम् इषात् चरित्र-वर्णन-छदेन अन्य-प्रियाजनानां अस्य कान्तानां चरित-विवृतिं कलयन् श्रावयन् अमूं श्री-राधां स्तुते स्म ॥१११॥

विश्वास-प्रस्तुतिः

कुसुम-कुलम् इदं दधाति तावद्
भ्रमर-पिकादि-गणस् तथा स्वरूपम् ।
प्रिय-सहचरता यदा प्रियाणां
पर-समये शरतां च वज्रतां च ॥११२॥

मूलम्

कुसुम-कुलम् इदं दधाति तावद्
भ्रमर-पिकादि-गणस् तथा स्वरूपम् ।
प्रिय-सहचरता यदा प्रियाणां
पर-समये शरतां च वज्रतां च ॥११२॥

इदं कुसुम-कुलं पुष्पचयः तथा भ्रमर-पिकादि-गणः स्वरूपं दधाति, कदा इत्य् अपेक्षायाम् आह, यदा प्रियाणां कान्तानां प्रिय-सहचरता कान्त-सह-मिलनं भवति तद् एति पर-समये कान्त-विरह-समये—शरतां भ्रमर-पिकादि-गणः—वज्रतां दधाति इत्य् अथः ॥११२॥

विश्वास-प्रस्तुतिः

अयि विधुमुखि सङ्गतप्रियाङ्गि
प्रियविरहाद् अपरा धृतावसादाः ।
उत कुसुमपिकादितुद्यमाना
ध्रुवम् अधुना प्रियतावशा भ्रमन्ति ॥११३॥

मूलम्

अयि विधुमुखि सङ्गतप्रियाङ्गि
प्रियविरहाद् अपरा धृतावसादाः ।
उत कुसुमपिकादितुद्यमाना
ध्रुवम् अधुना प्रियतावशा भ्रमन्ति ॥११३॥

अयि विधु-मुखि ! हे सङ्गत-प्रियाङ्गि ! प्रिय-विरहात् प्रिय-विच्छेदात् धृताव-सादाः परम-खेद-युक्ताः उत अपि अपराः कुसुम-पिकादि-तुद्यमानाः पुष्प कोकिलादिभिः पीड्यमाना ध्रुवं निश्चितं अधुना-प्रियतावशा भ्रमन्ति ॥११३॥

विश्वास-प्रस्तुतिः

स्फुरदसहनता मिथः सपत्न्यः
पथि रहसि प्रियम् आत्मनाभिसृत्य ।
दिशि च विदिशि च स्फुरन्तम् आरान्
नहि निरनैषुर् अमूः क्व वा लभेरन् ॥११४॥

मूलम्

स्फुरदसहनता मिथः सपत्न्यः
पथि रहसि प्रियम् आत्मनाभिसृत्य ।
दिशि च विदिशि च स्फुरन्तम् आरान्
नहि निरनैषुर् अमूः क्व वा लभेरन् ॥११४॥

स-पत्नाः मिथ परस्परं स्फुरद-सहनताः प्रकाशमानाधैर्याः सत्यः पथि रहसि निभृते आत्मना प्रियं कान्तं अभिसृत्य कथम्-भूतं प्रियं तत्राह—दिशि विदिशि च सर्वत्र स्फुरन्तं प्रकाशमानं, अतः आरात् समीपे न निरनैषुः निर्णेतुम् असमर्थाः अमुः कान्ताः क्व कान्तं लभेरन् प्राप्नुयुः कान्तं पुनः पुनः स्मरन् निखिल-वस्तु तन्मयत्वात् समीपेऽपि कान्तं न पश्यन्ति अतः कुत्र वा तं प्राप्नुयुर् इति भावः ॥११४॥

विश्वास-प्रस्तुतिः

नियमितचरणान् निकुञ्जधाम्नि
क्वचन च वासकसज्जिकायमानाः ।
प्रियतमम् अनवाप्य मानम् आञ्चन्
मुखम् इव मानधना हि धन्यनार्यः ॥११५॥

मूलम्

नियमितचरणान् निकुञ्जधाम्नि
क्वचन च वासकसज्जिकायमानाः ।
प्रियतमम् अनवाप्य मानम् आञ्चन्
मुखम् इव मानधना हि धन्यनार्यः ॥११५॥

नियमित-वरणात् प्रात्यहिक-यथा-नियमानुष्ठानात् क्वचन च कुत्रापि निकुञ्ज-धाम्नि वासक-सज्जिकायमानाः वेश-भूषादिकं कृत्वा वास-गृहं सज्जीकृत्य नायकागमन-प्रतीक्षाम् आचरन्त्यः नायिकाः इत्य् अर्थः । प्रितमं कान्तं अनवाप्य अप्राप्य मानं अभिमानं आञ्चन् प्राप्नुवन् धन्य-नार्यः हि वतः सुखम् इव मानधनाः ॥११५॥

विश्वास-प्रस्तुतिः

अपि च तदपरास् तु वाससज्जा
मुहुर् अपि चिन्तनलब्धकल्पतन्त्राः ।
प्रियतमम् उपलभ्य चात्र जाग्रद्
वलितवद् आप सुखं न चात्र भेदम् ॥११६॥

मूलम्

अपि च तदपरास् तु वाससज्जा
मुहुर् अपि चिन्तनलब्धकल्पतन्त्राः ।
प्रियतमम् उपलभ्य चात्र जाग्रद्
वलितवद् आप सुखं न चात्र भेदम् ॥११६॥

अपि च वास-सज्जा वेष-भूषादि-परायणाः मुहुर् अपि चिन्तन-लब्ध-कल्प-तन्त्राः पुनः पुनः चिन्तनेन ईषन् निद्रावस्थां लब्धाः तद् अपराः पूर्वोक्त-नायिकातिरिक्ता नायिका प्रियतमं उपलभ्य प्राप्य अत्र च जाग्रद् वलितवत् जाग्रद् अवस्था-तुल्यं सुखं आप प्राप्तवान् अत्र भेदं न आप ॥११६॥

विश्वास-प्रस्तुतिः

अपि दयिततमेन खण्डिताशा
नहि कलहान्तरिता बभूव कापि ।
उचितम् अपि तद् एतद् एव यस्माद्
दयिततमः कथम् अन्यथा घटते ॥११७॥

मूलम्

अपि दयिततमेन खण्डिताशा
नहि कलहान्तरिता बभूव कापि ।
उचितम् अपि तद् एतद् एव यस्माद्
दयिततमः कथम् अन्यथा घटते ॥११७॥

दयिततमेन प्रियतमेन कापि खण्डिताशा अपि,

पार्श्वम् एति प्रियो यस्या अन्य-सम्भोग-चिह्नितः । सा खण्डितेति कथिता धीरैर् ईर्ष्या-कषायिता ॥ [सा।द। ३.८६]

कापि कलहान्तरिता,

चाटु-कारम् अपि प्राण-नाथं रोषाद् अपास्य तु या । पश्चात्-तापम् अवाप्नोति कलहान्तरिता तु सा ॥ [सा।द। ३.९३]

न बभूव तद् एतद् एव उचितं विहितं यस्मात् दयिततमः प्रियतमः कथं अन्यथा घटेत ॥११७॥

विश्वास-प्रस्तुतिः

व्यवहित-पदवीं ममास्ति नेतुं
नहि भवतीम् अपि किं च,नापि वस्तु ।
न पुरुषम् इह जागराद्यवस्था
त्रयम् अपि चेतनया वियोक्तुम् ईष्टे ॥११८॥

मूलम्

व्यवहित-पदवीं ममास्ति नेतुं
नहि भवतीम् अपि किं च,नापि वस्तु ।
न पुरुषम् इह जागराद्यवस्था
त्रयम् अपि चेतनया वियोक्तुम् ईष्टे ॥११८॥

भवतीं त्वां व्यव-हित-पदवीं दुरीकृत-पदवीं नेतुं मम किञ्वनापि वस्तु नास्ति इह जागराद्यवस्था-त्रयम् अपि पुरुषं चेतनया वियोक्तुं न ईष्टे ॥११८॥

विश्वास-प्रस्तुतिः

निशि सुमुखि तद् अद्य कुञ्जपुञ्जं
सहसवयस्तति सद्रवं व्रजावः ।
इह हि कुमुदमुद्गरादिपुष्पं
सितरुचिरोचिषि रोचमानम् अस्ति ॥११९॥

मूलम्

निशि सुमुखि तद् अद्य कुञ्जपुञ्जं
सहसवयस्तति सद्रवं व्रजावः ।
इह हि कुमुदमुद्गरादिपुष्पं
सितरुचिरोचिषि रोचमानम् अस्ति ॥११९॥

हे सुमुखि ! सुवदने ! तत् तस्मात् अद्य निशि सह-वयस्तभि सखी-गण-सहिताः कुञ्ज-पुञ्जं कुञ्ज-समूहं सद्रवं अविलम्बं यथा स्यात् तहा व्रजावः गच्छावः, हि वतः कुमुद-मुद्ग-रादि-पुष्पं कुमुद-काष्ठ-मल्लिका-प्रभृति-पुष्पं इह सित-रोचिरोचिषि श्वेत-कान्त्या दीप्ति-विशिष्टे कुञ्जे रोचमानं दीप्यमानम् अस्ति ॥११९॥

विश्वास-प्रस्तुतिः

विधुर् अथ दयितान्वितः सखीभिः
सह सह-खेलम् इयाय पुष्प-देशम् ।
स्फुटम् इह तु विधुः परः स-वृन्दस्
तद्-उपरि वन्दन-मालिकायते स्म ॥१२०॥

मूलम्

विधुर् अथ दयितान्वितः सखीभिः
सह सह-खेलम् इयाय पुष्प-देशम् ।
स्फुटम् इह तु विधुः परः स-वृन्दस्
तद्-उपरि वन्दन-मालिकायते स्म ॥१२०॥

अथ अनन्तरं विधुः कृष्ण-चन्द्रः दयितान्वितः प्रिया-समन्वितः सन् सखीभिः सह सह-खेलनं पुष्प-देशं पुष्प-वाटिकां इयाय जगाम, इह तु परः विधुः चन्द्रः, तद्-उपरि स-वृन्दः स्व-गण-सहितः वन्दन-मालिकायते वन्दन-मालिका इव आचरति स्म ॥१२०॥

विश्वास-प्रस्तुतिः

अधि कुसुम-वनं विराजमानं
हरिम् अथ कान्तिमती वृषार्क-पुत्री ।
सुख-कर-ललिता-विशाखिकादि-
प्रिय-सवयस्-ततिभिः समं समय्य ॥१२१॥
सुकुसुम-निकरान् उपाददानं
स्वम् अपि तम् अप्य् अनु तान् नियोजयन्ती220
द्वयम् अपि तद्-अनुव्रत-क्रियाभिर्
द्रव-ततिभिश् च मुदाञ्चि कुर्वतीभिः ॥१२२॥
अलम् उपरिग-पुष्प-वृन्दम् इच्छुं221
स्वयम् अपि तत्-तद्-उपग्रहं दिशन्ती ।
द्रुतम् इव न किम् अस्मदीय-राज्ञ्या
वहसि निदेशम् इति स्मिताञ्चि-गीर्भिः ॥१२३॥
प्रसभम् इव रमाम् अमूं भुजाभ्यां
हृदि दधतं222 मुहुर् ऊर्ध्व-पुष्प-हेतोः ।
स-रुड् इव तद् अभीष्टम् आपयन्ती
सकल-कलं हसितं वितन्वतीभिः ॥१२४॥
सुकुसुम-चय-कूटम् ईक्षयन्तं
स्वयम् अपि तं तुलितं निचाययन्ती ।
विविध-मततया प्रहास-भेदाच्
छलम् अपि सत्यम् अपि प्रजल्पिनीभिः223 ॥१२५॥
कुसुम-विरचना-मयं कलापं
विदधतम् आशु च तं पृथक् सृजन्ती ।
नुतिम् अनुतिम् अपि द्वये पि तस्मिन्
समिष-वचः प्रचयेन तन्वतीभिः ॥१२६॥
स्व-रचित-तद्-अलङ्क्रियां स्तुवानं
स्व-रचित-तत्-तद्-दलङ्कृतिं स्तुवाना ।
निज-कृति-जनिता-महत्त्व-बुद्धिः
प्रकृतिर् इहेति विहस्य वादिनीभिः ॥१२७॥
वशम् अकृत गुण-क्रियाङ्ग-भाव-
प्रभृतिभिर् अत्र च पश्य चित्त चित्रम् ।
वहति पतिर् अधीन-भर्तृकाज्ञां
रचयति कर्म विनापि तां स तस्याः ॥१२८॥

मूलम्

अधि कुसुम-वनं विराजमानं
हरिम् अथ कान्तिमती वृषार्क-पुत्री ।
सुख-कर-ललिता-विशाखिकादि-
प्रिय-सवयस्-ततिभिः समं समय्य ॥१२१॥
सुकुसुम-निकरान् उपाददानं
स्वम् अपि तम् अप्य् अनु तान् नियोजयन्ती220
द्वयम् अपि तद्-अनुव्रत-क्रियाभिर्
द्रव-ततिभिश् च मुदाञ्चि कुर्वतीभिः ॥१२२॥
अलम् उपरिग-पुष्प-वृन्दम् इच्छुं221
स्वयम् अपि तत्-तद्-उपग्रहं दिशन्ती ।
द्रुतम् इव न किम् अस्मदीय-राज्ञ्या
वहसि निदेशम् इति स्मिताञ्चि-गीर्भिः ॥१२३॥
प्रसभम् इव रमाम् अमूं भुजाभ्यां
हृदि दधतं222 मुहुर् ऊर्ध्व-पुष्प-हेतोः ।
स-रुड् इव तद् अभीष्टम् आपयन्ती
सकल-कलं हसितं वितन्वतीभिः ॥१२४॥
सुकुसुम-चय-कूटम् ईक्षयन्तं
स्वयम् अपि तं तुलितं निचाययन्ती ।
विविध-मततया प्रहास-भेदाच्
छलम् अपि सत्यम् अपि प्रजल्पिनीभिः223 ॥१२५॥
कुसुम-विरचना-मयं कलापं
विदधतम् आशु च तं पृथक् सृजन्ती ।
नुतिम् अनुतिम् अपि द्वये पि तस्मिन्
समिष-वचः प्रचयेन तन्वतीभिः ॥१२६॥
स्व-रचित-तद्-अलङ्क्रियां स्तुवानं
स्व-रचित-तत्-तद्-दलङ्कृतिं स्तुवाना ।
निज-कृति-जनिता-महत्त्व-बुद्धिः
प्रकृतिर् इहेति विहस्य वादिनीभिः ॥१२७॥
वशम् अकृत गुण-क्रियाङ्ग-भाव-
प्रभृतिभिर् अत्र च पश्य चित्त चित्रम् ।
वहति पतिर् अधीन-भर्तृकाज्ञां
रचयति कर्म विनापि तां स तस्याः ॥१२८॥

[अष्टभिः कूलकम्]

अथ अनन्तरं । हे चित्त ! अत्र चित्रं आश्चर्यां पश्य । किं तत् ? तत्राह [१२१]—कान्तिमती अलौकिक-सौन्दर्य-मयी वृषार्क-पुत्री श्री-वृषभानु-नन्दिनी सुख-कर-ललिता-विशाखादि-प्रिय-सवयस्-ततिभिः सुख-प्रद-ललितादि-प्रिय-सखी-श्रेणीभिः समं सह समय्य मिलित्वा, गुण-क्रियाङ्ग-भाव-प्रभृतिभिः [१२८] नैसर्गिक-गुणादिभिः हरिं सर्व-जीव-मनोहरम् अपि कान्तं वशं अधीनं अकृत इत्य् अन्वयः अष्टभिः कुलकं ।

कथम्-भूतं हरिं ? तत्राह—अधि कुसुम-वनं कुसुम-वनम् अधिकृत्य विराजमानं । किं वा, कुसुमम् अधिकृत्य यद् वनं, तद् विराजमानं । पुनः कथम्-भूतः ? [१२२] सुकुसुम-निकरान् सुरभित-पुष्प-निचयान् उपाददानं गृह्नाणं ।

वृषार्क-पुत्री कथम्-भूता ? तत्राह—स्वम् अपि आत्मानम् अपि, तम् अपि कृष्णम् अपि अनु तान् कुसुम-निकारान् नियोजयन्ती यथा-योग्याङ्गेषु धारयन्ती ।

सुख-कर-ललिता-विशाखिकादि-प्रिय-सवयस्-ततिभिः कथम्-भूताभिः ? तत्राह—द्वयम् अपि श्री-राधा-कृष्ण-युगलम् अपि तद्-अनुव्रत-क्रियाभिः राधा-कृष्णानुकुल-कार्य-कलापैः द्रव-ततिभिश् च परिहास-समूहैश् च मुदाञ्चि-कुर्वतीभिः हर्षाण्वितं कुर्वतीभिः ॥

पुनः कथम्-भूतं हरिं तत्रह—[१२३] अलं उपरिग-पुष्प-वृन्दं वृक्ष-शाखोपरि-स्थितत्वात् ऊर्ध्व-गत-कुसुम-समूहं इच्छुं ।

वृषार्क-पुत्री कथम्-भूता ? तत्राह—स्वयम् अपि राधा तत्-तद्-उपग्रहं समीप समीप-गृहणं दिशन्ती आदिशन्ती ।

सखीभिः कथम्-भूताभिः ? तत्राह—[१२४] “अस्मदीय-राज्ञ्याः राधायाः निदेशं आज्ञां द्रुतम् इव अविलम्बितम् इव किं न वहसि ?” इति स्मिताञ्चि-गीर्भिः मृदु-मन्द-हास्य-युक्त-वाणीभिः।

पुनः कथम्-भूतां रमां ? श्री-राधां भुजाभ्यां प्रसभम् इव बलात्कारम् इव मुहुः हृदि वक्षसि दधतं ।

वृषभानु-नन्दिनी कथम्-भूता ? तत्राह—सरुड् इव रोषान्विता इव तद् अभीष्टं श्री-कृष्णाभीष्टं आपयन्ती निरस्यन्ती ।

पुनः सखीभिः कीदृशीभिः ? तद् आह—सकल-कलं कलेन सहित-मधुरं हसितं वितन्वतीभिः विस्तारयन्तीभिः । +++

पुनः कीदृशं हरिं ? तत्राह—सुकुसुम-चर-कुटं कुसुम-चयनम् एव छलं यस्य स तं ईक्षयन्तं दर्शयन्तं ।

सा कीदृशी ? स्वयम् अपि राधा तं तुलितं उपमितं निचारयन्ती अवलोकयन्ती ॥

ताभिः किदृशाभिः ? तत्राह—विविध-मततया नाना-विध-मत्य्-अनुसारेण प्रहास-भेदात् हास्य-भेदात् छलम् अपि सत्यम् अपि कियच्छल-कियत्-सत्य-वाक्य-संयुक्तं प्रजयिनीभिः वादिनीभिः । पुनः कीदृशं हरिं कुसुम-विरचनामयं पुष्पैर् विविध-रचनामयं कलापं भूषणां विदधतं कुर्वन्तं । सा कीदृशी तत्राह, स तं कुसुम-विरचनामयं भूषणं पृथक् सृजस्न्ती विविध-हार-मुकुट-कुण्ड्सल-वलय-पदकादि-विचित्र-रचनां सृजन्ती । सखीभिः कीदृशाभिः तत्राह—समिष-वचः-प्रचयेन छल-युक्त-वाक्य-समूहेन तस्मिन् द्वये श्री-राधा-कृष्ण-युगले नुतिं विनयं अनुतिं अविनयं तन्वतीभिः । पुनः कीदृशं हरिं स्वरचित-तद् अलङ्क्रियां निज-निर्मित-तद्-भूषणं स्तुवानं प्रशंसयन्तं । सा कीदृशी ? स्व-रचित-तत्-तद् अलङ्कृतिं स्तुववाना । कीदृशीभिः सखीभिः तत्राह निज-कृति-जनिता निज-कार्ये उत्पन्ना महत्त्व-बुद्धिः इह संसारे सर्वेषाम् एव प्रकृतिः स्वभावः निज-निज-कार्ये महत्त्व-ज्ञानं प्रकृति-सिद्धं सर्वेषाम् इति भावः इति विहस्य वादिनीभिः ॥ अत्र चित्रं किं तत्राह—तां अधीन-भर्तृकाज्ञां विनापि तस्यां राधायाः कर्म रचयति ॥१२१-१२८॥

विश्वास-प्रस्तुतिः

हरिर् इह जनयन् वसन्त-रागं
हरि-वनिता-निकरश् च सुष्ठु पुष्टम् ।
अभिनय-मय-नृत्य-ताल-जुष्टं
व्यतिवशितः स्व-वशीचकार विश्वम् ॥१२९॥

मूलम्

हरिर् इह जनयन् वसन्त-रागं
हरि-वनिता-निकरश् च सुष्ठु पुष्टम् ।
अभिनय-मय-नृत्य-ताल-जुष्टं
व्यतिवशितः स्व-वशीचकार विश्वम् ॥१२९॥

हरिः सर्व-मनोहरः श्री-कृष्णः इह वसन्त-रागं स्व-नाम-प्रसिद्ध-रागं जनयन् विश्वं स्व-वशीचकार । किम्-भूतं ? हरि-वनिता-निकरश् च श्री-कृष्ण-कान्ता-समूहश् च सुष्ठु पुष्टं । पुनश् च अभिनय-मय-नृत्य-ताल-जुष्टम् ॥१२९॥

विश्वास-प्रस्तुतिः

इति बहु-विध-खेलया रजन्याः
प्रशमम् इव प्रतिपद्य नागरेन्द्रः ।
सुरभि-कुसुम-वृक्ष-वाटिकान्तः-
क्षण-शयन-क्षणम् आप कान्तया सः ॥१३०॥

मूलम्

इति बहु-विध-खेलया रजन्याः
प्रशमम् इव प्रतिपद्य नागरेन्द्रः ।
सुरभि-कुसुम-वृक्ष-वाटिकान्तः-
क्षण-शयन-क्षणम् आप कान्तया सः ॥१३०॥

स नागरेन्द्रः श्री-कृष्णः इति एवं-प्रकारेण बहु-विध-खेलया नाना-प्रकार-लीलया रजन्याः प्रशमं उपशमं गत-प्रायम् इव इति यावत् प्रतिपद्य प्राप्य, कान्तया श्री-राधया सह सुरभि-कुसुम-वृक्ष-वाटिकान्तः-क्षण-शयन-क्षणं सुगन्ध-पुष्प-वृक्ष-वाटिका-मध्ये क्षण-कालं शयन-सुखं आप ॥१३०॥

विश्वास-प्रस्तुतिः

मणि-मय-वर-चत्वरस्य शय्याम्
अनु कुसुमानिल-लीलया सुसेवः ।
परमतम-सखीभिर् अस्यमान
भ्रमर-ततिः स-सुखः सुखं चकार ॥१३१॥

मूलम्

मणि-मय-वर-चत्वरस्य शय्याम्
अनु कुसुमानिल-लीलया सुसेवः ।
परमतम-सखीभिर् अस्यमान
भ्रमर-ततिः स-सुखः सुखं चकार ॥१३१॥

मणिमय-वर-चत्वरस्य शय्याम् अनु प्रति कुसुमानिल-लीलया कुसुम-सम्पृक्त-पवन-लीलया सुसेवः सुख-सेवः परमतम-सखीभिः प्रियतम-सखीभिः अस्यमाना भ्रमर-ततिः यस्य सः स-सुखः सुखेन सह वर्तमानः श्री-कृष्णः सुखं चकार, सखी-जनान् इति शेषः ॥१३१॥

इति सर्वर्तु-लीला

॥३॥

[४]

फल-निष्पत्तिः

विश्वास-प्रस्तुतिः

घोषे स्व-प्रेम-कोषे पितृ-मुख-सुखद-
स्वीय-वृन्देन दीव्यन्
कंसेन प्रेरितेभ्यस् तम् अतिभयमयं
वीक्ष्य निघ्नन् मुहुस् तान् ।
हन्तुं224 तेषाम् अपश्यन्न् अधि मधु-पुरि तं
हन्तुम् अञ्चन् स-वृन्दम्
हत्वा तं घोषम् आगात् तद् अतुल-सुख-कृद्
यः सदा तं भजामि ॥१॥

मूलम्

घोषे स्व-प्रेम-कोषे पितृ-मुख-सुखद-
स्वीय-वृन्देन दीव्यन्
कंसेन प्रेरितेभ्यस् तम् अतिभयमयं
वीक्ष्य निघ्नन् मुहुस् तान् ।
हन्तुं224 तेषाम् अपश्यन्न् अधि मधु-पुरि तं
हन्तुम् अञ्चन् स-वृन्दम्
हत्वा तं घोषम् आगात् तद् अतुल-सुख-कृद्
यः सदा तं भजामि ॥१॥

यः श्री-कृष्णः स्व-प्रेम-कोषे स्वीय-प्रेम-भाण्डार-स्वरूपे घोषे व्रजे पितृ-मुख-सुखद-स्वीय-वृन्देन पितृ-प्रभृति-सुख-प्रद-निज-गणेन सह दीव्यन् क्रीडन्, कंसेन प्रेरितेभ्यः पूतनादिभ्यः अतिभयमयं अतिशय-भय-युक्तं तं घोषं, घोष-स्थ-सर्वम् इति यावत्, वीक्ष्य मुहुः तान् पूतनादीन् निघ्नन् नश्यन्, तेषां दैत्यानां हन्तुं हन-धातु-तु-प्रत्ययः मृत्युं अपश्यन् न पश्यन्, स-मूल-नाशं अपश्यन्न् इत्य् अर्थः, स-वृन्दं गण-सहितं तं कंसं हन्तुं अधि मधु-पुरि अञ्चन् गच्छन् तं कंसं हत्वा घोषम् आगात् आगमत्, तत् तस्मात् अतुल-सुख-कृत् निरुपम-सुख-करः, तं कृष्णं सदा भजामि, अहम् इति शेषः ॥१॥

विश्वास-प्रस्तुतिः

राधाद्याः कृष्ण-कान्ताः स्वयम् अवतरणं
कृष्णवत् प्राप्य लीला-
शक्त्या विस्मृत्य नित्यां स्थितिम् अपरतया
ज्ञात-कृष्णास् तथापि ।
रागाद् अस्पष्ट-कृष्ण-श्रयण-सुख-रता
प्रान्ततः कृष्णम् एव
स्पष्टं जग्मुः स्व-कान्तं तम् अतिसुख-सुधा-
सिन्धु-मग्नान्तराः स्मः ॥२॥

मूलम्

राधाद्याः कृष्ण-कान्ताः स्वयम् अवतरणं
कृष्णवत् प्राप्य लीला-
शक्त्या विस्मृत्य नित्यां स्थितिम् अपरतया
ज्ञात-कृष्णास् तथापि ।
रागाद् अस्पष्ट-कृष्ण-श्रयण-सुख-रता
प्रान्ततः कृष्णम् एव
स्पष्टं जग्मुः स्व-कान्तं तम् अतिसुख-सुधा-
सिन्धु-मग्नान्तराः स्मः ॥२॥

राधाद्याः कृष्ण-कान्ताः श्री-कृष्णस्य नित्य-कान्ताः स्वयं कृष्णवत् अवतरणं प्राप्य गोलोकाद् इति शेषः, लीला-शक्त्या नित्यां स्थितिं विस्मृत्य, तथापि अपरतया न परतया ज्ञात-कृष्णाः कृष्णम् एव स्वपतित्वेन ज्ञाताः, तथापि अत्रैवान्वयः, तथापि रागात् पूर्वानुरागात् अस्पष्ट-क्र्ष्ण-श्रयण-सुख-रताः, गुप्त-भावेन कृष्णाश्रय-सुखे रताः, प्रान्ततः अन्ते तं कृष्णम् एव स्व-कान्तं स्पष्टं जग्मुः । अतः अतिसुख-सुधा-सिन्धु-मग्नान्तराः स्मः ।

अथवा, राधाद्याः श्री-वृषभानु-नन्दिनी-प्रभृतयः कृष्ण-कान्ताः श्री-कृष्ण-प्रियाः, कृष्णवत् यथा कृष्णः, तथा स्वयं, न तु अन्येन विधिना वा, अवतरणं आविर्भावं प्राप्य लीला-शक्त्या यया सर्व-लीला भवति, तया शक्त्या नित्यां स्थितिं स्वतः नित्य-विद्यमानतां विस्मृत्य अपरतया उपपतित्वेन ज्ञात-क्र्ष्णाः, ज्ञातः विदितः कृष्णः याभिः ताः तथोक्ताः । तथापि यद्यपि उपपतित्वेन ज्ञाताः, तथापि रागात् अनुरागात् अस्पष्ट-कृष्ण-श्रयण-सुख-रता अपरिष्फुट-भावेन कृष्णावलम्बन-सुखे रताः आसक्ताः, प्रथमत इति शेषः । प्रान्ततः शेषतः तं कृष्णम् एव स्व-कान्तं स्व-पतिं स्पष्टं स्फुटं जग्मुं प्रापुः ।

प्रथमतः परकीय-भावास्वादन-रूप-स्वेच्छया लीला-शक्त्या कृष्णं उपपतित्वेन मन्यन्ते स्म, रस-सारस्यात् इति भावः । परतस् तु परिणय-विधिना कृष्णम् एव स्व-पतित्वेन जानन्ति स्म । परकीय-भाव-मात्रम् अत्र ज्ञेयं, वस्तुतः ताभिः सह तस्य स्वकीयत्वं, गोप्यस् तु स्वकीयाः, भावस् तु परकीय एव इति वचनम् अपि नावज्ञेयं, केवल-परकीय-वादि-मतम् अनेनैव निरस्तम् इति । अतः सुख-सुधा-सिन्धु-मग्नान्तराः—अतिशय-सुख-सुधा-सागरे-निमग्न-मानसाः स्मः वयम् इति शेषः ॥२॥

विश्वास-प्रस्तुतिः

हंहो सौख्यं सुर-द्विट्-कटु-कटक-घटा225-
प्रेष्ठ-कंसादि-दुष्टान्
हत्वा तत्-क्लिष्ट-चित्तां पितृ-मुख-जनतां
निर्वृतां सुष्ठु चक्रे ।
किं चान्यः स्व-प्रियाणां पतिर् इति बहिर्
अख्याति226-दुःखानि हृत्वा
तत्-तद्-विश्लेष-पीडा-च्छिद् अयम् अतिजगद्-
दृष्टि-गोष्ठे विभाति ॥३॥

मूलम्

हंहो सौख्यं सुर-द्विट्-कटु-कटक-घटा225-
प्रेष्ठ-कंसादि-दुष्टान्
हत्वा तत्-क्लिष्ट-चित्तां पितृ-मुख-जनतां
निर्वृतां सुष्ठु चक्रे ।
किं चान्यः स्व-प्रियाणां पतिर् इति बहिर्
अख्याति226-दुःखानि हृत्वा
तत्-तद्-विश्लेष-पीडा-च्छिद् अयम् अतिजगद्-
दृष्टि-गोष्ठे विभाति ॥३॥

हंहो सौख्यं सुरद्विट्-कटु-कटक-घट-प्रेष्ठ-कंसादि-दुष्टान् देव-गण-शत्रूग्र-सैन्य-समूहानां प्रियतम-कंसादि-दुष्टान् हत्वा तत्-क्लिष्ट-चित्तां कंसादिभिः कष्ट-प्राप्त-चित्तां पितृ-मुख-जनतां पित्रादि-जन-समूहं निर्वृतां सन्तुष्टां सुष्ठु यथा स्यात्, तथा चक्रे ।

किं च, स्व-प्रियाणां स्वस्य प्रियाणां श्री-राधादीनां अन्यः स्वातिरिक्तः पतिः भर्ता अस्ति इति बहिर्-अख्याति-दुःखानि बहिर्-अपवाद-दुःखानि हृत्वा, तत्-तद्-विश्लेष-पीडा-च्छित् तत्-तद्-विच्छेद-दुःख-हारी अयं श्री-कृष्णः अतिजगद्-दृष्टि-गोष्ठे, जगतां अदृश्य-भूते गोष्ठे इत्य् अर्थः, विभाति वर्तमान-प्रयोगत्वात् सदा शोभते ॥३॥

विश्वास-प्रस्तुतिः

प्रातर् मातुः स्व-हस्ताद् अशन-सुख-कृती
लब्ध-ताताद्य्-अनुज्ञः
श्री-रामादि-प्रसक्तः सुरभि-गण-शतं
पालयन् मोद-युक्तः ।
सन्ध्यायां गोप-गोपी-सुखद-गृह-गतिः
सानुरागं क्षपायाम्
तत्-तद्-दीव्यद्-विहारः स्फुरतु तव मनः
सर्वदा कृष्ण-चन्द्रः ॥४॥

मूलम्

प्रातर् मातुः स्व-हस्ताद् अशन-सुख-कृती
लब्ध-ताताद्य्-अनुज्ञः
श्री-रामादि-प्रसक्तः सुरभि-गण-शतं
पालयन् मोद-युक्तः ।
सन्ध्यायां गोप-गोपी-सुखद-गृह-गतिः
सानुरागं क्षपायाम्
तत्-तद्-दीव्यद्-विहारः स्फुरतु तव मनः
सर्वदा कृष्ण-चन्द्रः ॥४॥

वर्णित-नित्य-लीलां सङ्क्षेपतः वर्णयन्न् आह—प्रातर् इति । हे मनः ! प्रातः प्रभाते मातुः श्री-यशोदायाः स्व-हस्ताद् अशन-सुख-कृती लब्ध-ताताद्य्-अनुज्ञः पित्राद्य्-अनुमतिं प्राप्तः, ततः श्री-रामादि-प्रसक्तः श्री-युक्ताग्रज-बलराम-प्रभृति-संलग्नः, मोद-युक्तः आनन्दितः सन् सुरभि-गण-शतं अगणित-धेनु-वृन्दं पालयन् चारयन्, सन्ध्यां रजनी-मुखे गोप-गोपी-सुखद-गृह-गतिः गोपानां गोपीनां सुख-प्रद-भवन-गतिः, क्षपायां रात्र्यां सानुरागं तत्-तद्-दीव्यद्-विहारः पूर्वोक्त-वन-भ्रमणादि-रूप-विहारः, एतादृशः कृष्ण-चन्द्रः सर्वदा अहर्-निशं तव स्फुरतु ॥४॥

विश्वास-प्रस्तुतिः

जन्माद्यं स्वीय-वृत्तं कवि-भरत-कला-
चित्र-योगेन दृश्य-
प्रायं तन्वन् सभायां रहसि तु दयिता-
पूर्व-रागाद्य् उदन्तम् ।
वर्गं तत्-तन्-निसर्गं निजम् अनु विजयी
सर्व-सात्-पर्व कुर्वन्
दिव्यादिव्य-क्रियाभिर् विहरण-कुतुकी
नन्दतान् नन्द-सूनुः ॥५॥

मूलम्

जन्माद्यं स्वीय-वृत्तं कवि-भरत-कला-
चित्र-योगेन दृश्य-
प्रायं तन्वन् सभायां रहसि तु दयिता-
पूर्व-रागाद्य् उदन्तम् ।
वर्गं तत्-तन्-निसर्गं निजम् अनु विजयी
सर्व-सात्-पर्व कुर्वन्
दिव्यादिव्य-क्रियाभिर् विहरण-कुतुकी
नन्दतान् नन्द-सूनुः ॥५॥

सभायां जन्माद्यं स्वीय-वृत्तं निज-लीलां कवि-भरत-कला-चित्र-योगेन कविश् च कवीनां कवित्वं भरत-कला भरत-मुनि-कृत-नाटकाभिनयश् च चित्र-योगश् च लीलानां चित्रं तेषां समाहारः, तेन दृश्य-प्रायं तन्वन्, रहसि तु निभृते दयिता-पूर्व-रागाद्य्-उदन्तं प्रियाणां पूर्वानुरागाद्य् उदन्तं च, दृश्य-प्रायं तन्वन्, तत्-तन्-निसर्गं तत्-तत्-स्वभाव-युक्तं दास्य-सख्य-वात्सल-मधुर-मयम् इति यावत्, निजं वर्गं परिजनम् अनु सर्व-सात्-पर्व उत्सवं कुर्वन् दिव्यादिव्य-क्रियाभिः लौकिकालौकिक-क्रियाभिः विहरण-कुतुकी विजयी सर्व-जेता नन्द-सुनुः श्री-नन्द-नन्दनः नन्दतात् नन्दतु ॥५॥

विश्वास-प्रस्तुतिः

यः श्री-पर्यन्त-याच्यान्वितिर् इह पशुप-
श्रेणि-बन्धुर् यशोदा-
नन्द-स्वीयाङ्ग-जातः सुबल-मुख-सखः
किं च राधादि-कान्तः ।
स श्री-गोपाल-नामा सुरभि-कुलम् अहः
पालयन् दिव्य-केलिर्
नक्तं रासादि-लीला-ललिततम-गतिः
सर्वदा स्याद् गतिर् नः ॥६॥

मूलम्

यः श्री-पर्यन्त-याच्यान्वितिर् इह पशुप-
श्रेणि-बन्धुर् यशोदा-
नन्द-स्वीयाङ्ग-जातः सुबल-मुख-सखः
किं च राधादि-कान्तः ।
स श्री-गोपाल-नामा सुरभि-कुलम् अहः
पालयन् दिव्य-केलिर्
नक्तं रासादि-लीला-ललिततम-गतिः
सर्वदा स्याद् गतिर् नः ॥६॥

इह श्री-गोकुले यः श्री-पर्यन्त-याच्यान्वितिः श्री-पर्यन्तैः लक्ष्मी-पर्यन्तैः याच्या प्रार्थनीया अन्वितिः अनुगमनं यस्य सः, अर्थात् लक्ष्मी व्रज-वासार्थं रास-दर्शनार्थं वा तपो अतप्यत, ब्रह्मोद्धवादयः गुल्म-लतादौ कथञ्चित् जनन-प्रर्थनां चक्रुः इत्य्-आद्य् अनुसन्धेयं । पशुप-श्रेणि-बन्धुः गोप-गणानां बन्धुः । यशोदा-नन्द-स्वीयाङ्ग-जातः श्री-यशोदा-नन्दात्मजः । सुबल-मुख-सखः सुबलादीनां सखा । राधादि-कान्तः दिव्य-केलिः अप्राकृत-क्रिया-शीलः, स श्री-गोपाल-नामा अहः दिवसं व्याप्य सुरभि-कुलं गो-समूहं पालयन्, नक्तं व्याप्य रासादि-लीला-ललिततम-गतिः रासादि-लीलायां मनोहर-गतिः यस्य सः । एतादृशः स श्री-कृष्णः सर्वदा नः अस्माकं गतिं स्यात् भवेत् ॥६॥

विश्वास-प्रस्तुतिः

श्रीमद्-वृन्दावनेन्दोर् मधुप-खग-मृगाः
श्रेणि-लोका द्विजाता
दासा लाल्याः सुरभ्यः सहचर-हलभृत्-
तात-मात्र्-आदि-वर्गाः ।
प्रेयस्यस् तासु राधा-प्रमुख-वर-दृशश्
चेति वृन्दं यथोर्ध्वं
तद्-रूपालोक-तृष्णक् प्रमदम् अनुदिनं
हन्त पश्याम कर्हि ॥७॥

मूलम्

श्रीमद्-वृन्दावनेन्दोर् मधुप-खग-मृगाः
श्रेणि-लोका द्विजाता
दासा लाल्याः सुरभ्यः सहचर-हलभृत्-
तात-मात्र्-आदि-वर्गाः ।
प्रेयस्यस् तासु राधा-प्रमुख-वर-दृशश्
चेति वृन्दं यथोर्ध्वं
तद्-रूपालोक-तृष्णक् प्रमदम् अनुदिनं
हन्त पश्याम कर्हि ॥७॥

श्री-वृन्दावनेन्दोर् श्री-वृन्दावन-चन्द्रस्य श्री-कृष्णस्य मधुप-खग-मृगाः मधुपाः भ्रमराश् च, खगाः कोकिल-मयूर-शुक-शारिकादयश् च, मृगा हरिणादयश् च, श्रेणि-लोकाः समान-व्यवसायि-जानाः, अर्थात् स्वर्णकार-मालाकार-शिल्पकार-चित्रकारादयः, द्विजाताः पुरोहितादि-ब्राह्मणाः, दासा भृत्याः, लाल्याः लालनार्ह-बालकादयः, सुरभयः, सहचर-हल-भृत्-तात-मात्रादि-वर्गाः, प्रेयस्यः कान्ताः, तासु प्रेयसीषु राधा-प्रमुख-वर-दृशः श्री-राधा-प्रभृति-सुलोचनाः इति यथोर्ध्वं वृन्दं भवति तद्-रूपालोक-तृष्णक् तेषां रूप-दर्शनाभिलाषी कर्हि कदा अनुदिनं प्रतिदिनं प्रमदं यथा स्यात्, तथा पश्याम ? ॥७॥

विश्वास-प्रस्तुतिः

शश्वद् ध्यायति दूरग-स्थिति मिथः
सूक्ष्म-प्रथं चायति
प्राज्यान्तर्-गतम् आत्त-नर्म तु सखी-
मध्य-स्थितं पश्यति ।
राधा-माधव-नाम-धेय-मिथुनं
विघ्नान् अतीत्यामितान्
दाम्पत्ये स्थितम् अत्र वा यदि रहः
प्राप्तं तदा किं पुनः? ॥८॥

मूलम्

शश्वद् ध्यायति दूरग-स्थिति मिथः
सूक्ष्म-प्रथं चायति
प्राज्यान्तर्-गतम् आत्त-नर्म तु सखी-
मध्य-स्थितं पश्यति ।
राधा-माधव-नाम-धेय-मिथुनं
विघ्नान् अतीत्यामितान्
दाम्पत्ये स्थितम् अत्र वा यदि रहः
प्राप्तं तदा किं पुनः? ॥८॥

राधा-माधव-नाम-धेय-मिथुनं श्री-राधा-कृष्णाख्य-युगलं अमितान् अपारिमितान् विघ्नान् अतीत्य अतिक्रम्य दाम्पत्ये स्थितं अभूत् अत्र व्रजे यदि रहः प्राप्तं निभृते लब्धं स्यात्, तदा पुनः किं ? नान्यत् प्रार्थये इति भावः ।

किम्-भुतं ? मिथः परस्परं दूरग-स्थिति दूरावस्थानं सत् शश्वत् निरन्तरं ध्यायति चिन्तयति, सूक्ष्म-प्रथं चायति, प्राज्यान्तर्-गतं बहु-विध-जनान्तर्-गतं सत् आत्त-नर्म गृहीत-नर्म सत् सखी-मध्य-स्थितं सत् पश्यति ॥८॥

विश्वास-प्रस्तुतिः

राधा-कृष्ण-युगं मुहुर् विघटनाम्
उत्तीर्य दाम्पत्य-भाक्
प्रत्येकान्तम् उदस्रम् एकतरग-
स्वापान्तर् अन्तर् मिथः ।
वक्त्रं पश्यति मार्ष्टि लोचन-पुटं
नासाग्रम् उद्दण्डयन्
निंस्ते गण्ड-युगं हृदा हृदि मिलल्
लेलीयते शर्मणि227 ॥९॥

मूलम्

राधा-कृष्ण-युगं मुहुर् विघटनाम्
उत्तीर्य दाम्पत्य-भाक्
प्रत्येकान्तम् उदस्रम् एकतरग-
स्वापान्तर् अन्तर् मिथः ।
वक्त्रं पश्यति मार्ष्टि लोचन-पुटं
नासाग्रम् उद्दण्डयन्
निंस्ते गण्ड-युगं हृदा हृदि मिलल्
लेलीयते शर्मणि227 ॥९॥

राधा-क्र्ष्ण-युगं मुहुर् विघटनां पुनः पुनः दुर्घटनां उत्तीर्य दाम्पत्य-भाक् दाम्पत्यं भजतीति तन् मिथः परस्परं एकतरग-स्वापान्तर् अन्तः राधा-कृष्णयोः एकतर-स्थित-तन्द्रायाः मध्ये मध्ये प्रत्येकान्तं प्रत्येक-पर्यवसितं उदस्रं नेत्र-जल-युक्तं, वक्त्रं वदनं पश्यति, लोचन-पुटं मार्ष्टि मार्जनां करोति, हस्तभ्याम् इति शेषः, नासाग्रं उद्दण्डयत् गण्ड-युगं निंस्ते चुम्बति, हृदा हृदयेन हृदि हृदये मिलत् संलग्नं सत् शर्मणि परम-सुखे लेलीयते ॥९॥

विश्वास-प्रस्तुतिः

गौर-श्याम-रुचोज्ज्वलाभिर्228 अमलैर्
अक्ष्णोर् विलासोत्सवैर्
नृत्यन्तीभिर् अशेष-मादन-कला-
वैदग्ध्य-दिग्धात्मभिः ।
अन्योन्य-प्रियता सुधा-परिमल-
स्तोमोन्मदाभिः सदा
राधा-माधव-माधुरीभिर् अभितश्229
चित्तं समाक्राम्यताम् ॥१०॥230

मूलम्

गौर-श्याम-रुचोज्ज्वलाभिर्228 अमलैर्
अक्ष्णोर् विलासोत्सवैर्
नृत्यन्तीभिर् अशेष-मादन-कला-
वैदग्ध्य-दिग्धात्मभिः ।
अन्योन्य-प्रियता सुधा-परिमल-
स्तोमोन्मदाभिः सदा
राधा-माधव-माधुरीभिर् अभितश्229
चित्तं समाक्राम्यताम् ॥१०॥230

राधा-माधव-माधुरीभिः श्री-राधा-कृष्ण-माधुर्यैः सदा मम चित्तं अभितः आक्रम्यताम् । कथम्-भूताभिः ? गौर-श्याम-रुचोज्ज्वलाभिः श्री-राधायाः गौराङ्गीत्वात् श्री-कृष्णस्य श्यामाङ्गत्वात् गौर-कृष्ण-कान्त्या उज्ज्वलाभिः, अमलैः निर्मलैः विशुद्धैर् इति यावत् अक्ष्णोः नयनयोः विलासोत्सवैः नृत्यन्तीभिः अशेष-मादन-कला-वैदग्ध्य-दिग्धात्मभिः अन्योन्य-प्रियता-सुधा-परिमल-स्तोमोन्मदाभिः परस्पर-प्रेमामृत-परिमल-समूहेन उन्मदाभिः इति विशेषणानि योज्यानि ॥१०॥

इति फल-निष्पत्तिः

॥४॥

[५]

उपसंहारः

विश्वास-प्रस्तुतिः

“पूर्णाः पुलिन्द्य” इति या स्तुता व्रज-रमादिभिः231
“न वयं साध्वि साम्रेति” श्रेणिभिर् द्वारिका-श्रियाम् ॥१ ॥

मूलम्

“पूर्णाः पुलिन्द्य” इति या स्तुता व्रज-रमादिभिः231
“न वयं साध्वि साम्रेति” श्रेणिभिर् द्वारिका-श्रियाम् ॥१ ॥

व्रज-रमादिभिः व्रज-सुन्दरीभिः, पूर्णाः पुलिन्द्यः [भा।पु। १०.२१.१७] इत्य्-आदिना या स्तुता, तद् उक्तं श्री-दशमस्यैकविंशाध्याये वेणु-गीते [गोपी-गीते], ताः साहङ्कारम् आहुः—

पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग- श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन । तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन लिम्पन्त्य आनन-कुचेषु जुहुस् तद्-आधिम् ॥

द्वारिका-श्रियां द्वारका-महिषीणां श्रेणिभिः षोडश-सहस्र-महिषी-श्रेणीभिः, न वयं साध्वि साम्र- इति स्तुता । तद् उक्तं श्री-दशमस्य त्र्यशीतितमोऽध्याये श्री-द्रौपदीं प्रति महिषीभिः—

न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत । वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥

कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः । कुच-कुङ्कुम-गन्धाढ्यं मूर्ध्ना वोढुं गदा-भृतः ॥

व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः । गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ॥ [भा।पु। १०.८३.४१-४३] इति ॥१॥

विश्वास-प्रस्तुतिः

“अनयाराराधितो नूनम्” इत्थं पूर्वाभिर् एव च ।
पुराणे क्वापि वैशिष्ट्य-सामान्यं नेयं ऊह्यते ॥
“रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने” ॥ इति ॥२॥

मूलम्

“अनयाराराधितो नूनम्” इत्थं पूर्वाभिर् एव च ।
पुराणे क्वापि वैशिष्ट्य-सामान्यं नेयं ऊह्यते ॥
“रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने” ॥ इति ॥२॥

एवं पूर्वाभिर् एव,

अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः ॥ [भा।पु। १०.३०.२८]

इत्थम् अनेन प्रकारेण या स्तुता, पुराणे क्वापि कुत्रापि पुराणे वैशिष्ट्य-सामान्यात् वैशिष्ट्यैकत्व-प्रयुक्तात्, अर्थात् सर्वा अपि वैशिश्ट्या तासु मध्ये वैशिष्ट्य-प्रधाना इत्य् अर्थः। इयं श्री-राधा न ऊह्यते तर्क्यते । तद् एवाह—रुक्मिणी द्वारावत्यां तु राधा वृन्दावने वने [स्कन्द-पुराण] इति ॥२॥

विश्वास-प्रस्तुतिः

तस्याः कान्तः सदा कान्तः स स्याद् एकान्त-भाग् वशः ।
याव् अमू मम चित्तान्तर्-भूरुह-स्नेहं ऊहतुः ॥३॥

मूलम्

तस्याः कान्तः सदा कान्तः स स्याद् एकान्त-भाग् वशः ।
याव् अमू मम चित्तान्तर्-भूरुह-स्नेहं ऊहतुः ॥३॥

तस्याः श्री-राधायाः स कान्तः श्री-कृष्णः सदा सर्वदा कान्तः कमनीयः एकान्त-भाक् निभृत-प्राप्तः वश आयत्तः स्यात् भवेत् । यौ अमू श्री-राधा-माधवौ मम चित्तान्तर् भूरुह-स्नेहं चित्त-मध्ये भूरुह-रूप-स्नेहं प्रेमानन्द-स्नेहं ऊहतुः विस्तारयामासतुः ॥३॥

विश्वास-प्रस्तुतिः

सद्-भक्तेष्व् अतुलं पितृव्य-232 युगलं कृत्वा मदीयां गतिम् ।
स्वं दास्यं दिशद् अस्ति यत्
प्रभु-युगं तन् मे सदास्तां गतिः ॥४॥

मूलम्

सद्-भक्तेष्व् अतुलं पितृव्य-232 युगलं कृत्वा मदीयां गतिम् ।
स्वं दास्यं दिशद् अस्ति यत्
प्रभु-युगं तन् मे सदास्तां गतिः ॥४॥

सद्-भक्तेषु मध्ये अतुलं निरुपमं श्रेष्ठम् इति यावत् पितृव्य-युगलं श्री-रुप-सनातन-द्वयं मदीयां गतीं कृत्वा स्वं दास्यं दिशत् आदिशत् अस्ति वर्तते यत् प्रभु-युगं श्री-रूप-सनातन-रूपं, तत् प्रभु-युगं सदा मे मम गतिर् आस्तां भवतु । श्लोकस्यार्धम् एव दृश्यत्वात् तद् एव मुद्रितं ॥४॥

विश्वास-प्रस्तुतिः

गङ्गायां ककुचङ्गमुक्-श्रुतिम् अदाज् जाग्रद्-गतं मां प्रति
श्री-वृन्दा-विपिने त्रयीम् अपि परां स्वप्नाद्य्-अवस्थं पुनः ।
यः श्रीमान् मधुमर्दनः सुभगता-सद्-रूपता-विश्रुतः
सञ्ज्ञावान् लघु-वंश-शंसकतया वन्दे च वन्दे च तम् ॥५॥

मूलम्

गङ्गायां ककुचङ्गमुक्-श्रुतिम् अदाज् जाग्रद्-गतं मां प्रति
श्री-वृन्दा-विपिने त्रयीम् अपि परां स्वप्नाद्य्-अवस्थं पुनः ।
यः श्रीमान् मधुमर्दनः सुभगता-सद्-रूपता-विश्रुतः
सञ्ज्ञावान् लघु-वंश-शंसकतया वन्दे च वन्दे च तम् ॥५॥

यः श्रीमान् मधु-मर्दनः लघु-वंश-शंसकतया, वंशि-वादकतया इत्य् अर्थः, सञ्ज्ञावान् वंशिधारी इत्य् आख्यावान्, तं वन्दे वन्दे । पुनर्-उक्तिः भक्तेर् आधिक्यात् । स गङ्गायां गङ्गा-तीरे तत्रावस्थान-समये च जाग्रद्-गतं मां प्रति ककुचङ्गमुक्-श्रुतिं प्रेम-प्रतिपादिकां श्रुतिं अदात् । पुनश् च श्री-वृन्दावने तत्रावस्थान-समये स्वप्नाद्य्-अवस्थं स्वप्नस्य आदौ या अवस्था, अर्थात् जाग्रद्-अवस्था, तद्-गतं जाग्रद्-गतं मां प्रति त्रयीम् अपि अदात् । स पुनः कथम्-भूतः ? सुभगता-सद्रूपता-विश्रुतः ॥५॥

विश्वास-प्रस्तुतिः

श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥६॥

मूलम्

श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥६॥

श्लोकस्यास्य ग्रन्थादौ विद्यमानत्वात् तत्रैव व्याख्या कृता ॥६॥

विश्वास-प्रस्तुतिः

इति श्री-सङ्कल्प-द्रुम-नाम काव्यं मामक-स्पृहा-
धाम श्री-राधा-कृष्ण-रूप-पूरम् अपि पूरयन्तम् ।
श्री-राधा-कृष्ण-चरणार्पितम् एव मम सर्वं
इति तद् इदम् अपि तथा भवेद् एवम् ॥७॥

मूलम्

इति श्री-सङ्कल्प-द्रुम-नाम काव्यं मामक-स्पृहा-
धाम श्री-राधा-कृष्ण-रूप-पूरम् अपि पूरयन्तम् ।
श्री-राधा-कृष्ण-चरणार्पितम् एव मम सर्वं
इति तद् इदम् अपि तथा भवेद् एवम् ॥७॥

पुरयन्तम् इति पाठस् तु भाव्यः । अन्यत् सुगमं ॥७॥

इति श्री-सङ्कल्प-कल्प-द्रुम-नाम-काव्यं समाप्तम् ॥

श्री हरये नमः ॥


  1. (ब्) श्री-श्री-राधा-कृष्णाभ्यां नमः ↩︎

  2. Gच्प् १व्१; ↩︎ ↩︎

  3. “हे श्री-राधाख्य-स्वरूप-शक्ति-युक्त-कृष्ण” इत्य् अर्थश् च निर्व्यूधः । कृष्ण इति— ↩︎

  4. गौतमीय-तन्त्र २.२४ । तत्र पाठः—अनेक-जन्म-शुद्धानाम् गोपीनां पतिर् एव च । नन्दनन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥ गोपाल-चम्प्वां १५.७२। ↩︎ ↩︎

  5. गोपीति प्रकृतिं विद्याज् जनस् तत्त्व-समूहकः । अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः । सान्द्रानन्दं परं ज्योतिर् वल्लभत्वेन कथ्यते ॥ अथवा गोपी प्रकृतिर् जनस् तद्-अंश-मण्डलम् । अनयोर् वल्लभः प्रोक्तः स्वामी कृष्णाख्य ईश्वरः ॥ कार्य-कारणयोर् ईशः श्रुतिभिस् तेन गीयते ॥ अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा । नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥ इति । ↩︎ ↩︎

  6. अहो बकी यं स्तन-काल-कूटं जिघांसयापाययद् अप्य् असाध्वी । लेभे गतिं धात्र्य्-उचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम ॥ ↩︎

  7. तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् । यज् जीवितं तु निखिलं भगवान् मुकुन्दस् त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥ ↩︎

  8. इत्थं सतां ब्रह्म-सुखानुभूत्या दास्यं गतानां पर-दैवतेन । मायाश्रितानां नर-दारकेण साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥ ↩︎

  9. नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया । प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदात् ॥ ↩︎

  10. नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः । रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ- लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ ↩︎

  11. प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः । वासुदेव इति श्रीमान् अभिज्षाः सम्प्रचक्षते ॥ बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ ↩︎

  12.  ↩︎ ↩︎
  13. अयं श्लोकः (ब्) प्रकाशित-संस्करणे न प्राप्तः ↩︎ ↩︎

  14. इयिवान् (ब्) ↩︎ ↩︎

  15. सु- (ब्) ↩︎ ↩︎

  16. सहपाटवः (ब्) ↩︎ ↩︎

  17. बाल्यं (ब्); ↩︎ ↩︎

  18. कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारैः क्षुत्-क्षान्तः क्रीडा-श्रान्तोऽसि पुत्रक ॥ [भा।पु। १०.११.१५] ↩︎ ↩︎

  19. भाषयामास (ब्) ↩︎ ↩︎

  20. वृन्दावनं गोवर्धनं यमुना-पुलिनानि च । वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप ॥ [भा।पु। १०.११.३६] ↩︎ ↩︎

  21. तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम् आलोक्य तत्-प्रिय-सखाः पशुपा भृशार्ताः । कृष्णेऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा दुःखानुशोक-भयम् ऊढ-धियो निपेतुः ॥ [भा।पु। १०.१६.१०] ↩︎ ↩︎

  22. अयं श्लोको [भा।पु। १०.१६.१५] यथा-रूपं उदाहृतः। ↩︎ ↩︎

  23. निष्क्रमे (A) ↩︎ ↩︎

  24. गोपी-नामानि राजेन्द्र प्राधान्येन निबोध मे । गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका । राधानुराधा सोमाभा तारका दशमी तथा ॥ इति भविष्य।पु। ४, (कृष्ण-सन्दर्भ १८९) ↩︎ ↩︎

  25. १।</sup तीव्रान् (अ) ↩︎ ↩︎

  26. भा।पु। १०.१९.१६। ↩︎ ↩︎

  27. न पारयेऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः । या माभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना ॥ ↩︎

  28. पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग- श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन । तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन लिम्पन्त्य आनन-कुचेषु जुहुस् तद्-आधिम् ॥ ↩︎

  29. भा।पु। १०.२२.३१। ↩︎ ↩︎

  30. श्यामं हिरण्य-परिधिं वन-माल्य-बर्ह- धातु-प्रवाल-नट-वेषम् अनुव्रतांसे । विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं कर्णोत्पलालक-कपोल-मुखाब्ज-हासम् ॥ [भा।पु। १०.२३.२२] ↩︎ ↩︎

  31. अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः । कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः कुन्द-स्रजः कुल-पतेर् इह वाति गन्धः ॥ [भा।पु। १०.३०.११] ↩︎ ↩︎

  32. जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वद् अत्र हि । दयित दृश्यतां दिक्षु तावकास् त्वयि धृतासवास् त्वां विचिन्वते ॥ [भा।पु। १०.३१.१] ↩︎ ↩︎

  33. तासाम् आविरभूच् छौरिः स्मयमान-मुखाम्बुजः । पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः ॥ [भा।पु। १०.३२.२] ↩︎ ↩︎

  34. न पारयेऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः । या माभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना ॥ [भा।पु। १०.३२.२२] ↩︎ ↩︎

  35. तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः । मध्ये मणीनां हैमानां महा-मरकतो यथा ॥ [भा।पु। १०.३३.७] ↩︎ ↩︎

  36. तासाम् अतिविहारेण श्रान्तानां वदनानि सः । प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ [भा।पु। १०.३३.२१] ↩︎ ↩︎

  37. धूर्वणम् (अ) ↩︎ ↩︎

  38. कंसेनेशिनं ↩︎ ↩︎

  39. वेशिनं ↩︎ ↩︎

  40. Cओम्प्। १०.१९.१६। ↩︎ ↩︎

  41. द्रष्टव्यम्, भा।पु। १.१६.२८-३२; सत्यं शौचं दया क्षान्तिस् त्यागः सन्तोष आर्जवम् शमो दमस् तपः साम्यं तितिक्षोपरतिः श्रुतम् ज्ञानं विरक्तिर् ऐश्वर्यं शौर्यं तेजो बलं स्मृतिः स्वातन्त्र्यं कौशलं कान्तिर् धैर्यं मार्दवम् एव च प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर् मानोऽनहङ्कृतिः एते चान्ये च भगवन् नित्या यत्र महा-गुणाः प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ↩︎

  42. पक्ष (ब्); ↩︎ ↩︎

  43. -वल्गाद् (अ); ↩︎ ↩︎

  44. तनुः (ब्); ↩︎ ↩︎

  45. -वृद्धि- (अ) ↩︎ ↩︎

  46. शूरः (अ); ↩︎ ↩︎

  47. -परः (ब्); ↩︎ ↩︎

  48. -सम्भाषाद् एव (अ); ↩︎ ↩︎

  49. प्रीति- (अ) ↩︎ ↩︎

  50. वावदूकः (अ); ↩︎ ↩︎

  51. बुधता- (ब्); ↩︎ ↩︎

  52. योग्याशा (अ) ↩︎ ↩︎

  53. विनासक्तिं (अ) ↩︎ ↩︎

  54. १०.२६.१३अ ↩︎ ↩︎

  55. १०.२६.१३ब् ↩︎ ↩︎

  56. भा।पु। १०.२५.१८। ↩︎ ↩︎

  57. स्वेनापरेण (अ); ↩︎ ↩︎

  58. विन्दन्न् इति पाठः, टीकायां नामन्यत। ↩︎ ↩︎

  59. ततो भक्तिर् भगवति पुत्री-भूते जनार्दने । दम्पत्योर् नितराम् आसीद् गोप-गोपीषु भारत ॥ [भा।पु। १०.८.५१] ↩︎ ↩︎

  60. न पारयेऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः । या माभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना ॥ [भा।पु। १०.३२.२२] ↩︎ ↩︎

  61. -प्रान्तान् (अ) ↩︎ ↩︎

  62. सोऽन्तान् (अ) ↩︎ ↩︎

  63. उत्कण्ठां (ब्) ↩︎ ↩︎

  64. प्रतियज्ञे (अ); ↩︎ ↩︎

  65. द्राघित-श्लाघितं (अ) ↩︎ ↩︎

  66. भा।पु। १०.३९.३५ ↩︎ ↩︎

  67. हरि-वंशे २.७८.३५ ↩︎ ↩︎

  68. भा।पु। १०.४५.२३; ↩︎ ↩︎

  69. अदृप्तेर् ↩︎ ↩︎

  70. -प्रदः (ब्); ↩︎ ↩︎

  71. -स्थ- (ब्) ↩︎ ↩︎

  72. भा।पु। १०.४६.३५। ↩︎ ↩︎

  73. भा।पु। १०.४६.३४। ↩︎ ↩︎

  74. भा।पु। १०.४६.२। ↩︎ ↩︎

  75. भा।पु। १०.४६.३। ↩︎ ↩︎

  76. भा।पु। १०.४६.४। ↩︎ ↩︎

  77. भा।पु। १०.४६.५-६। ↩︎ ↩︎

  78. भा।पु। १०.४६.३ (Sएए वेर्से १८२ अबोवे)। ↩︎ ↩︎

  79. Iबिद्। ↩︎ ↩︎

  80. Sओमे वेर्सिओन्स् ओफ़् थिस् वेर्से रेअद् नौ इन्स्तेअद् ओफ़् नः। ↩︎

  81. –त्वे (अ) ↩︎ ↩︎

  82. १०.४६.४ ↩︎ ↩︎

  83. नात्यपेक्षितः (ब्) ↩︎ ↩︎

  84. १०.४६.६। Sएए अबोवे वेर्से १८५। ↩︎ ↩︎

  85. Iबिद्। ↩︎ ↩︎

  86. -सम्प्राप्ति (अ) ↩︎ ↩︎

  87. भा।पु। १०.४७.३६ ↩︎ ↩︎

  88. भा।पु। १०.४७.३७। ↩︎ ↩︎

  89. भा।पु। १०.४७.३६। ↩︎ ↩︎

  90. वि।पु। ५.२४.२०। ↩︎ ↩︎

  91. स्वागति-स्पृहि (अ) ↩︎ ↩︎

  92. १०.६५.६ ↩︎ ↩︎

  93. भा।पु। १०.४६.३४; ↩︎ ↩︎

  94. भा।पु। १०.८२.४१; ↩︎ ↩︎

  95. भा।पु। १०.८२.४४; ↩︎ ↩︎

  96. भा।पु। १०.८२.४८; ↩︎ ↩︎

  97. भा।पु। १०.४६.५। Sएए अबोवे वेर्से १८४। ↩︎ ↩︎

  98. भा।पु। १०.८३.१; ↩︎ ↩︎

  99. भा।पु। १०.४७.३६। ↩︎ ↩︎

  100. सत्य-व्रतं सत्य-परं त्रि-सत्यं सत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यम् ऋत-सत्य-नेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ [भा।पु। १०.२.२६] Bउत् Śरी Jईव इस् लिकेल्य् रेफ़ेरिन्ग् हेरे तो १.१६.२८। ↩︎

  101. भा।पु। १.११.९। ↩︎ ↩︎

  102. Sएए Pअद्म-पुराण ६.२५२.१९-२८। ↩︎

  103. भाष्यं (अ) ↩︎ ↩︎

  104. ११.१२.१० गिवेन् अबोवे। Tहे फ़ोल्लोwइन्ग् वेर्से इस् गिवेन् इन् थे चोम्मेन्तर्य्। ↩︎ ↩︎

  105. भा।पु। १०.४६.५। ↩︎ ↩︎

  106. ता नाविदन् मय्य् अनुषङ्ग-बद्ध- धियः स्वम् आत्मानम् अदस् तथेदम् । यथा समाधौ मुनयोऽब्धि-तोये नद्यः प्रविष्टा इव नाम-रूपे ॥ [भा।पु। ११.१२.१२] ↩︎ ↩︎

  107. मद्- इति सर्वत्र पाठो मया परिवर्तितः, अस्मत्-प्रयोगाप्रसङ्गिकत्वात्। ↩︎ ↩︎

  108. मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः ॥ [भा।पु। ११.१२.१३] ↩︎ ↩︎

  109. भा।पु। १०.२४.२६ ↩︎ ↩︎

  110. स्थैर्यम् (अ) ↩︎ ↩︎

  111. अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् । क्वचिद् अपि स कथां नः किङ्करीणां गृणीते भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु ॥ [भा।पु। १०.४७.२१] ↩︎ ↩︎

  112. भा।पु। १०.२२.१५ ↩︎ ↩︎

  113. Sएए वेर्से २४५। ↩︎ ↩︎

  114. गीता ४.११; ↩︎ ↩︎

  115. यत् तत् (अ); ↩︎ ↩︎

  116. भा।पु। १०.४६.६; ↩︎ ↩︎

  117. भा।पु। ११.१२.१३। Sएए वेर्से २३७ फ़ोर् फ़ुल्ल् क़ुओते। ↩︎ ↩︎

  118. भा।पु। ११.१२.१३; ↩︎ ↩︎

  119. एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः । अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥ [भा।पु। १०.८.१६] ↩︎ ↩︎

  120. य एतस्मिन् महा-भागाः प्रीतिं कुर्वन्ति मानवाः । नारयोऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ [भा।पु। १०.८.१८] ↩︎ ↩︎

  121. Aल्सो क़ुओतेद् अत् वैष्णव-तोषणी तो १०.४७.२१; गो।च। १.१.१८, २.२९.९६, एत्च्।; कृष्ण-सं। १०६, एत्च्। ↩︎ ↩︎

  122. (ब्) नाम्नीं; ३। भा।पु। १०.१.२८; ↩︎ ↩︎

  123. भा।पु। ११.३१.२३-२५। ↩︎ ↩︎

  124. भा।पु। १०.९०.४८। ↩︎ ↩︎

  125. तदादि-याते ↩︎ ↩︎

  126. मणिजनि (A) ↩︎ ↩︎

  127. -भासं (A) ↩︎ ↩︎

  128. परिधिवद् (A) ↩︎ ↩︎

  129. (ब्) ओजन- ↩︎ ↩︎

  130. -स्व- (A); ↩︎ ↩︎

  131. अन्यम् (B) ↩︎ ↩︎

  132. विश्वम् अशेषं कृत्स्नं समस्त-निखिलाऽखिलानि निःशेषम् । समग्रं सकलं पूर्णम् अखण्डं स्याद् अनूनके । ↩︎

  133. -रचित- (A); ↩︎ ↩︎

  134. सङ्गि-भङ्गि (B) ↩︎ ↩︎

  135. Śरी Jईव हस् नोत् मदे सन्धि ओफ़् ऋ। ↩︎ ↩︎

  136. सेवा (अ) ↩︎ ↩︎

  137. तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् । यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥ ↩︎

  138. श्री-कृष्णः॥॥ न पारयेऽहम् इति युक्तिं ↩︎

  139. हृदये (ब्); ↩︎ ↩︎

  140. विभागम् (अ); ↩︎ ↩︎

  141. सार्धम् (अ); ↩︎ ↩︎

  142. स्खलयितुम् (अ) ↩︎ ↩︎

  143. Tहिस् लिने (फ़्रोम् इह च) नोत् फ़ोउन्द् इन् (ब्) ↩︎ ↩︎

  144. ददत् (अ) ↩︎ ↩︎

  145. -मिथुने (अ); ↩︎ ↩︎

  146. अपि (ब्); ↩︎ ↩︎

  147. -भक्ति (अ); ↩︎ ↩︎

  148. (अ) उदनीनममत्; ↩︎ ↩︎

  149. Bओथ् एदितिओन्स् हवे अन्नमन्। ↩︎ ↩︎

  150. प्रणमनं (अ); ↩︎ ↩︎

  151. -नन्द्य (अ) ↩︎ ↩︎

  152. -वदनः (ब्) ↩︎ ↩︎

  153. -जलद्-; जलदांशु-जालम् (ब्) ↩︎ ↩︎

  154. -भृति-भृत्- (ब्); ↩︎ ↩︎

  155. च (ब्); ↩︎ ↩︎

  156. -सृष्टिम् (अ); ↩︎ ↩︎

  157. -रचनम् इति टीका। ↩︎ ↩︎

  158. मूर्धा (अ); ↩︎ ↩︎

  159. अत्तुम् अयाम (अ) ↩︎ ↩︎

  160. पुरगमं (अ); ↩︎ ↩︎

  161. पुरेध्रि- (अ); ↩︎ ↩︎

  162. अवरोधि- (ब्) ↩︎ ↩︎

  163. स- (अ) ↩︎ ↩︎

  164. Tहिस् वेर्से मिस्सिन्ग् फ़्रोम् (ब्), थुस् नो चोम्मेन्तर्य्। Aल्ल् ओथेर् एदितिओन्स् हवे थिस् वेर्से। ↩︎ ↩︎

  165. मुदा (ब्) ↩︎ ↩︎

  166. स्वक- (अ) मर्गिन्; स स्म (अ) [?]; ↩︎ ↩︎

  167. १ ↩︎ ↩︎

  168. धेनूर् (अ); ↩︎ ↩︎

  169. १ ↩︎ ↩︎

  170. Mअर्गिन्- मुदे मुदा वयस्याः (अ); ↩︎ ↩︎

  171. प्रहसनं (ब्); ↩︎ ↩︎

  172. Tहिस् वेर्से अब्सेन्त् फ़्रों (ब्); ↩︎ ↩︎

  173. च वर्णया (अ); ↩︎ ↩︎

  174. पिपर्त्तिः (अ); ↩︎ ↩︎

  175. विगतावृति- (ब्) ↩︎ ↩︎

  176. स-किरीटम् (ब्); ↩︎ ↩︎

  177. स-तुण्ड- (ग) ↩︎ ↩︎

  178. -ईहाः (ब्) ↩︎ ↩︎

  179. तुरीययाम-लम्भे (अल्ल् एxचेप्त् ब्)। ↩︎ ↩︎

  180. समाप्तान् (ब्); ↩︎ ↩︎

  181. -चुक्रुः (अ) ↩︎ ↩︎

  182. -स्वधात्रीः (ब्) ↩︎ ↩︎

  183. १। (ब्) अद्द्स् कुलकम्; २। (अ) मर्गिन्- गतं रसाञ्चि; ↩︎ ↩︎

  184. आदधान इति टीका-धृत-पाठान्तरम्। ↩︎ ↩︎

  185. (ब्) यत् तन्; ↩︎ ↩︎

  186. (ब्) मधुरिपुर्; ↩︎ ↩︎

  187. (अ) मर्गिन्- सुख-; ↩︎ ↩︎

  188. (ब्) कुलालि; ↩︎ ↩︎

  189. -गणा इति टीका-धृत-पाठान्तरम्। ↩︎ ↩︎

  190. (अ) -राजीम्; ↩︎ ↩︎

  191. स्व-धाम गत्या (P) ↩︎ ↩︎

  192. हरि-चरित-कलनाय (घ) ↩︎ ↩︎

  193. (अ) अन्यद् आराद्; ↩︎ ↩︎

  194. (अ) पद्योस्काः (?); ↩︎ ↩︎

  195. (ब्) कथास्तु; ↩︎ ↩︎

  196. (ब्) एव; ↩︎ ↩︎

  197. स्व-सुखं चकार (ग, घ), स्व-सुतं सुखा-चकार (P) ओर् सुखीचकार (अ)। Tहिस् लस्त् रेअदिन्ग् इस् थे चोर्रेच्त् ओने। ↩︎ ↩︎

  198. (ब्) अतितमं ↩︎ ↩︎

  199. (ब्) इह; ↩︎ ↩︎

  200. (अ) हरिर् आदि-; ↩︎ ↩︎

  201. (ब्) चन्द्रशाली-; ↩︎ ↩︎

  202. हरि-रचितानि इति टीकायां धृत-पाठान्तरम्। ↩︎ ↩︎

  203. मुरहरम् ↩︎ ↩︎

  204. व्रततिम् अनु (ग) ↩︎ ↩︎

  205. (ब्) नोत् फ़ोउन्द्; थे फ़ोल्लोwइन्ग् वेर्से इस् प्लचेद् अफ़्तेर् अथ एत्च्।; ↩︎

  206. (अ) रुक्षः; ↩︎ ↩︎

  207. (अ) मर्गिन्- चाल्प; ↩︎ ↩︎

  208. -बलिनं (क) ↩︎ ↩︎

  209. १। (अ) -वषाः; २। (अ) अटितवतीति ↩︎ ↩︎

  210. (ब्) -वृतेर्; ↩︎ ↩︎

  211. (ब्) -शय्याम् ↩︎ ↩︎

  212. तनुः ↩︎ ↩︎

  213. (अ) उपयुज्य (अ) अल्पः; ↩︎ ↩︎

  214. अनुलवं ↩︎ ↩︎

  215. १। (अ) मर्गिन्- यदास्ति; २। (अ) निचाययां स्म ↩︎ ↩︎

  216. (अ) ऋतु-श्रीं; ↩︎ ↩︎

  217. (ब्) हिमने निशि; ↩︎ ↩︎

  218. (अ) विकृतिर् ↩︎ ↩︎

  219. (अ) मर्गिन्- नायिकाताम् (अ) -वृक्षः; २। (अ) रश्मि; ↩︎ ↩︎

  220. तन्वि योजयन्ती (अ) ↩︎ ↩︎

  221. इच्छं (अ); ↩︎ ↩︎

  222. दधातं (अ); ↩︎ ↩︎

  223. प्रजल्पितीभिः (अ) ↩︎ ↩︎

  224. हन्ति (ब्) ↩︎ ↩︎

  225. -घट- (ब्) ↩︎ ↩︎

  226. आख्याति (अ) ↩︎ ↩︎

  227. शर्माणि (अ) ↩︎ ↩︎

  228. -रुचो ज्वलाभिर् (अ); ↩︎ ↩︎

  229. अमितश् (अ) ↩︎ ↩︎

  230. Tहिस् इस् थे लस्त् वेर्से ओफ़् थे Śरी-कृष्ण-सन्दर्भ। ↩︎ ↩︎

  231. -रमालिभिः (अ) ↩︎ ↩︎

  232. पितृओर् (ब्)। पितृव्य इस् नोत् मेत्रिचल् ↩︎ ↩︎