Rupa Gosvamin: Haribhaktirasamrtasindhu

Intro

विस्तारः (द्रष्टुं नोद्यम्)

Rupa Gosvamin: Haribhaktirasamrtasindhu

Rupa Gosvamin: Haribhaktirasamrtasindhu
Based on the 1984 reprint of Haridas Das’s edition.
Version 2/01

Input by Jagadananda Das
(www.granthamandira.org)

श्री-श्री-भक्ति-रसामृत-सिन्धुः

[१]
भगवद्-भक्ति-भेद-निरूपकः
पूर्व-विभागः

[१।१]
सामान्य-भक्तिः
प्रथम-लहरी

श्री-श्री-राधा-गोविन्द-देवौ विजयेते

अखिल-रसामृत-मूर्तिः प्रसृमर-रुचि-रुद्ध-तारका-पालिः ।
कलित-श्यामा-ललितो राधा-प्रेयान् विधुर् जयति ॥ र्भ्र्स्_१,१।१ ॥
हृदि यस्य प्रेरणया प्रवर्तितो ऽहं वराक-रूपो ऽपि ।
तस्य हरेः पद-कमलं वन्दे चैतन्य-देवस्य ॥ र्भ्र्स्_१,१।२ ॥
विश्राम-मन्दिरत्या तस्य सनातन-तनोर् मद्-ईशस्य ।
भक्ति-रसामृत-सिन्धुर् भवतु सदायम् प्रमोदाय ॥ र्भ्र्स्_१,१।३ ॥
भक्ति-रसामृत-सिन्धौ चरतः परिभूत-काल-जाल-भियः ।
भक्त-मकरान् अशीलित-मुक्ति-नदीकान् नमसामि ॥ र्भ्र्स्_१,१।४ ॥
मीमांसक-बडवाग्नेः कठिनाम् अपि कुण्ठयन्न् असौ ।
स्फुरतु सनातन सुचिरं तव भक्ति-रसामृताम्भोधिः ॥ र्भ्र्स्_१,१।५ ॥
भक्ति-रसस्य प्रस्तुतिर् अखिल-जगङ्-मङ्गल-प्रसङ्गस्य ।
अज्ञेनापि मयास्य क्रियते सुहृदाम् प्रमोदाय ॥ र्भ्र्स्_१,१।६ ॥

एतस्य भगवद्-भक्ति-रसामृत-पयोनिधेः ।
चत्वारह् खलु वक्ष्यन्ते भागाः पूर्वादयः क्रमात् ॥ र्भ्र्स्_१,१।७ ॥
तत्र पूर्वे विभागे ऽस्मिन् भक्ति-भेद-निरूपके ।
अनुक्रमेण वक्तव्यं लहरीणां चतुष्टयम् ॥ र्भ्र्स्_१,१।८ ॥
आद्या सामान्य-भक्त्य्-आढ्या द्वितीया साधनान्विता ।
भावाश्रिता तृतीया च तुर्या प्रेम-निरूपिका ॥ र्भ्र्स्_१,१।९ ॥
तत्रादौ सुष्ठु वैशिष्ट्यम् अस्याः कथयितुं स्फुटम् ।
लक्षणं क्रियते भक्तेर् उत्तमायाः सतां मतम् ॥ र्भ्र्स्_१,१।१० ॥

अन्याभिलाषिता-शून्यं ज्ञान-कर्माद्य्-अनावृतम् ।
आनुकूल्येन कृष्णानुशीलनं भक्तिर् उत्तमा ॥ र्भ्र्स्_१,१।११ ॥

यथा श्री-नारद-पञ्चरात्रे–
सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् ।
हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥ र्भ्र्स्_१,१।१२ ॥

श्री-भागवतस्य तृतीय-स्कन्धे च (३।२९।११-१३)–
अहैतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे ॥ र्भ्र्स्_१,१।१३ ॥
सालोक्य-सार्ष्टि-सामीप्य-सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ र्भ्र्स्_१,१।१४ ॥
स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः ॥ र्भ्र्स्_१,१।१५ ॥

सालोक्येत्यादि-पद्यस्थ-भक्तोत्कर्ष-णिरूपणम् ।
भक्तेर् विशुद्धता-व्यक्त्या लक्षणे पर्यवस्यति ॥ र्भ्र्स्_१,१।१६ ॥
क्लेश-घ्नी शुभदा मोक्ष-लघुता-कृत् सुदुर्लभा ।
सान्द्रानन्द-विशेषात्मा श्री-कृष्णाकर्षिणी च सा ॥ र्भ्र्स्_१,१।१७ ॥

तत्रास्याः क्लेशघ्नत्वम् -
क्लेशास् तु पापं तद्-बीजम् अविद्या चेति ते त्रिधा ॥ र्भ्र्स्_१,१।१८ ॥

तत्र पापम्–
अप्रारब्धं भवेत् पापं प्रारब्धं चेति तद् द्विधा ॥ र्भ्र्स्_१,१।१९ ॥

तत्र अप्रारब्ध-हरत्वम्, यथा एकडशे (११।१४।१९)–
यथाग्निः सुसमिद्धार्चिः करोत्य् एधांसि भस्मसात् ।
तथा मद्-विषया-भक्तिर् उद्धवैनांसि कृत्स्नशः ॥ र्भ्र्स्_१,१।२० ॥

प्रारब्ध-हरत्वम्, यथा तृतीये (३।३३।६)–
यन्-नाम-धेय-श्रवणानुकीर्तनाद्
यत्-प्रह्वणद् यत्-स्मरणाद् अपि क्वचित् ।
श्वादो ऽपि सद्यः सवनाय कल्पते
कुतः पुनस् ते भगवन् नु दर्शनात् ॥ र्भ्र्स्_१,१।२१ ॥

दुर्जातिर् एव सवनायोग्यत्वे कारणम् मतम् ।
दुर्जात्य्-आरम्भकं पापं यत् स्यात् प्रारब्धम् एव तत् ॥ र्भ्र्स्_१,१।२२ ॥

पद्म-पुराने च–
अप्रारब्ध-फलं पापं कूटं बीजं फलोन्मुखम् ।
क्रमेणैव प्रलीयेत विष्णु-भक्ति-रतात्मनाम् ॥ र्भ्र्स्_१,१।२३ ॥

बीज-हरत्वम्, यथा षष्ठे (६।२।१७)–
तैस् तान्य् अघानि पूयन्ते तपो-दान-व्रतादिभिः ।
नाधर्मजं तद्-हृदयं तद् अपीशाङ्घ्रि-सेवया ॥ र्भ्र्स्_१,१।२४ ॥

अविद्या-हरत्वम्, यथा चतुर्थे (४।२२।३९)–
यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या
कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः ।
तद्वन् न रिक्त-मतयो यतयो ऽपि रुद्ध-
स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥ र्भ्र्स्_१,१।२५ ॥

पाद्मे च–
कृतानुयात्रा-विद्याभिर् हरि-भक्तिर् अनुत्तमा ।
अविद्यां निर्दहत्य् आशु दाव-ज्वालेव पन्नगीम् ॥ र्भ्र्स्_१,१।२६ ॥

शुभदत्वम्–
शुभानि प्रीणनं सर्व-जगताम् अनुरक्तता ।
सद्गुणाः सुखम् इत्य्-आदीन्य् आख्यातानि मनीषिभिः ॥ र्भ्र्स्_१,१।२७ ॥

तत्र जगत्-प्रीणनादिद्वय-प्रदत्वम्, यथा पाद्मे–
येनार्चितो हरिस् तेन तर्पितानि जगन्त्य् अपि ।
रज्यन्ति जन्तवस् तत्र जन्गमाः स्थावरा अपि ॥ र्भ्र्स्_१,१।२८ ॥

सद्-गुणादि-प्रदत्वम्, यथा पञ्चमे (५।१८।१२)–
यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना
सर्वैर् गुणैस् तत्र समासते सुराः ।
हराव् अभक्तस्य कुतो महद्-गुणा
मनोरथेनासति धावतो बहिः ॥ र्भ्र्स्_१,१।२९ ॥

सुख-प्रदत्वम्–
सुखं वैषयिकं ब्राह्मम् ऐश्वरं चेति तत् त्रिधा ॥ र्भ्र्स्_१,१।३० ॥

यथा तन्त्रे–
सिद्धयः परमाश्चर्या भुक्तिर् मुक्तिश् च शाश्वती ।
नित्यं च परमानन्दो भवेद् गोविन्द-भक्तितः ॥ र्भ्र्स्_१,१।३१ ॥

यथा हरि-भक्ति-सुधोदये च–
भूयो ऽपि याचे देवेश त्वयि भक्तिर् दृढास्तु मे ।
या मोक्षान्त-चतुर्वर्ग फलदा सुखदा लता ॥ र्भ्र्स्_१,१।३२ ॥

मोक्ष-लघुताकृत्–
मनाग् एव प्ररूढायां हृदये भगवाद्-रतौ ।
पुरुषार्थास् तु चत्वारास् तृणायन्ते समन्ततः ॥ र्भ्र्स्_१,१।३३ ॥

यथा श्री-नारद-पञ्चरात्रे–
हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः ।
भुक्त्यश् चाद्भुतास् तस्याश् चेटिकावद् अनुव्रताः ॥ र्भ्र्स्_१,१।३४ ॥ इति ।

सुदुर्लभा–
साधनौघैर् अनासन्गैर् अलभ्या सुचिराद् अपि ।
हरिणा चाश्वदेयेति द्विधा सा स्यात् सुदुर्लभा ॥ र्भ्र्स्_१,१।३५ ॥

तत्र आद्या, यथा तान्त्रे–
ज्ञानतः सुलभा मुक्तिर् भुक्तिर् यज्ञादि-पुण्यतः ।
सेयं साधन-साहस्रैर् हरि-भक्तिः सुदुर्लभा ॥ र्भ्र्स्_१,१।३६ ॥

द्वितीया, यथा पञ्चम-स्कन्धे (५।६।१८)–
राजन् पतिर् गुरुर् अलं भवतां यदूनां
दैवं प्रियः कुल-पतिः क्व च किङ्करो वः ।
अस्त्व् एवम् अङ्ग भजतां भगवान् मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ र्भ्र्स्_१,१।३७ ॥

सान्द्रानन्द-विशेषात्मा–
ब्रह्मानन्दो भवेद् एष चेत् परार्द्ध-गुणीकृतः ।
नैति भक्ति-सुखाम्भोधेः परमाणु-तुलाम् अपि ॥ र्भ्र्स्_१,१।३८ ॥
यथा, हरि-भक्ति-सुधोदये–
त्वत्-साक्षात्-करणाह्लाद-विशुद्धाब्धि-स्थितस्य मे ।
सुखानि गोष्पदायन्ते ब्राह्माण्य् अपि जगद्-गुरो ॥ र्भ्र्स्_१,१।३९ ॥

तथा भावार्थ-दीपिकायां (१०।८८।११) च–
त्वत्-कथामृत-पाथोधौ विहरन्तो महा-मुदः ।
कुर्वन्ति कृतिनः केचित् चतुर्-वर्गं तृणोपमम् ॥ र्भ्र्स्_१,१।४० ॥

श्री-कृष्णाकर्षिणी–
कृत्वा हरिं प्रेम-भाजं प्रिय-वर्ग-समन्वितम् ।
भक्तिर् वशीकरोतीति श्री-कृष्णाकर्षिणी मता ॥ र्भ्र्स्_१,१।४१ ॥

यथा एकादशे (११।१४।२०)–
न साध्यति माम् योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥ र्भ्र्स्_१,१।४२ ॥

सप्तमे (७।१०।४८) च नारदोक्तौ–
यूयं नृलोके बत भूरि-भागा
लोकं पुनाना मुनयो ऽभियन्ति ।
येषां गृहान् आवसतीति साक्षाद्
गुढं परं ब्रह्म मनुष्य-लिङ्गम् ॥ र्भ्र्स्_१,१।४३ ॥

अग्रतो वक्ष्यमाणायास् त्रिधा भक्तेर् अनुक्रमात् ।
द्विशः षड्भिः पदैर् एतन् माहात्यं परिकीर्तितम् ॥ र्भ्र्स्_१,१।४४ ॥

किं च–
स्वल्पापि रुचिर् एव स्याद् भक्ति-तत्त्वावबोधिका ।
युक्तिस् तु केवला नैव यद् अस्या अप्रतिष्ठता ॥ र्भ्र्स्_१,१।४५ ॥

तत्र प्राचीनैर् अप्य् उक्तम्–
यत्नेनापादितो ऽप्य् अर्थः कुशलैर् अनुमातृभिः ।
अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥ र्भ्र्स्_१,१।४६ ॥

इति श्री श्री भक्ति-रसामृत-सिन्धौ
पूर्व-भागे भक्ति-सामान्य लहरी प्रथमा


(१।२)
द्वितीया लहरी
साधन-भक्तिः

सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥ र्भ्र्स्_१,२।१ ॥

तत्र साधन-भक्तिः -
कृति-साध्या भवेत् साध्य-भावा सा साधनाभिधा ।
नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥ र्भ्र्स्_१,२।२ ॥
सा भक्तिः सप्तम-स्कन्धे भङ्ग्या देवर्षिणोदिता ॥ र्भ्र्स्_१,२।३ ॥

यथा सप्तमे (७।१।३१)–
तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् ॥ र्भ्र्स्_१,२।४ ॥ इति ।

वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥ र्भ्र्स्_१,२।५ ॥

तत्र वैधी–
यत्र रागानवाप्तत्वात् प्रवृत्तिर् उपजायते ।
शासनेनैव शास्त्रस्य सा वैधी भक्तिर् उच्यते ॥ र्भ्र्स्_१,२।६ ॥

यथ, द्वितीये (२।१।६)–
तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम् ॥ र्भ्र्स्_१,२।७ ॥

पाद्मे च–
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥ र्भ्र्स्_१,२।८ ॥

इत्य् असौ स्याद् विधिर् नित्यः सर्व-वर्णाश्रमादिषु ।
नित्यत्वे ऽप्य् अस्य निर्णीतम् एकादश्य्-आदिवत्-फलम् ॥ र्भ्र्स्_१,२।९ ॥

यथा, एकादाशे (११।५।२-३) तु व्यक्तम् एवोक्तम्–
मुख बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥ र्भ्र्स्_१,२।१० ॥
य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ र्भ्र्स्_१,२।११ ॥
तत् फलं च, तत्रैव (११।२७।४९)–
एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः ।
अर्चन्न् उभ्यतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥ र्भ्र्स्_१,२।१२ ॥

पञ्चरात्रे च–
सुरर्षे विहिता शास्त्रे हरिम् उद्दिश्य या क्रिया ।
सैव भक्तिर् इति प्रोक्ता तया भक्तिः परा भवेत् ॥ र्भ्र्स्_१,२।१३ ॥

तत्र अधिकारी–
यः केनाप्य् अतिभाग्येन जात-श्रद्धो ऽस्य सेवने ।
नातिसक्तो न वैराग्य-भाग् अस्याम् अधिकार्य् असौ ॥ र्भ्र्स्_१,२।१४ ॥

यथैकादशे (११।२०।२८)–
यदृच्छया मत्-कथादौ जात-श्रद्धो ऽस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्ति-योगो ऽस्य सिद्धिदः ॥ र्भ्र्स्_१,२।१५ ॥

उत्तमो मध्यमश् च स्यात् कनिष्ठश् चेति स त्रिधा ॥ र्भ्र्स्_१,२।१६ ॥

तत्र उत्तमः–
शास्त्रे युक्तौ च निपुणः सर्वथा दृढ-निश्चयः ।
प्रौढ-श्रद्धो ऽधिकारी यः स भक्ताव् उत्तमो मतः ॥ र्भ्र्स्_१,२।१७ ॥

तत्र मध्यमः–
यः शास्त्रादिष्व् अनिपुणः श्रद्धावान् स तु मध्यमः ॥ र्भ्र्स्_१,२।१८ ॥

तत्र कनिष्ठः–
यो भवेत् कोमल-श्रद्धः स कनिष्ठो निगद्यते ॥ र्भ्र्स्_१,२।१९ ॥

तत्र गीतादिषूक्तानां चतुर्णाम् अधिकारिणाम् ।
मध्ये यस्मिन् भगवतह् कृपा स्यात् तत्-प्रियस्य वा ॥ र्भ्र्स्_१,२।२० ॥
स क्षीण-तत्-तद्-भावः स्याच् छुद्ध-भक्त्य्-अधिकारवान् ।
यथेभः शौनकादिश् च ध्रुवः स च चतुःसनः ॥ र्भ्र्स्_१,२।२१ ॥
भुक्ति-मुक्ति-स्पृहा यावत् पिशाची हृदि वर्तते ।
तावद् भक्ति-सुखस्यात्र कथम् अभ्युदयो भवेत् ॥ र्भ्र्स्_१,२।२२ ॥
तत्रापि च विशेषेण गतिम् अण्वीम् अनिच्छतः ।
भक्तिर् हृत-मनः-प्राणान् प्रेम्णा तान् कुरुते जनान् ॥ र्भ्र्स्_१,२।२३ ॥

तथा च, तृतीये (३।२५।३६)–
तैर् दर्शनीयावयवैर् उदार-
विलास-हासेक्षित-वाम-सूक्तैः ।
हृतात्मनो हृत-प्राणांश् च भक्तिर्
अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥ र्भ्र्स्_१,२।२४ ॥

श्री कृष्ण-चरणाम्भोज-सेवा-निर्वृत-चेतसाम् ।
एषां मोक्षाय भक्तानां न कदाचित् स्पृहा भवेत् ॥ र्भ्र्स्_१,२।२५ ॥

यथा तत्रैव, श्रीमद्-उद्धवोक्तौ (३।४।१५)–
को न्व् ईश ते पाद-सरोज-भाजां
सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ र्भ्र्स्_१,२।२६ ॥

तत्रैव, श्रीकपिल-देवोक्तौ (३।२५।३५)–
नैकात्मतां मे स्पृहयन्ति केचिन्
मत्-पाद-सेवाभिरता मद्-ईहाः ।
ये ऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥ र्भ्र्स्_१,२।२७ ॥

तत्रैव (३।२९।१३)–
सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ र्भ्र्स्_१,२।२८ ॥

चतुर्थे श्री-ध्रुवोक्तौ (४।९।१०)–
या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ र्भ्र्स्_१,२।२९ ॥

तत्रैव श्रीमद्-आदिराजोक्तौ (४।२०।२४)–
न कामये नाथ तद् अप्य् अहं क्वचिन्
न यत्र युष्मच्-चरणाम्बुजासवः ।
महत्तमान्तर्-हृदयान् मुख-च्युतो
विधत्स्व कर्णायुतम् एष मे वरः ॥ र्भ्र्स्_१,२।३० ॥

पञ्चमे श्री-शुकोक्तौ (५।१४।४४)–
यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान्
प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् ।
नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्-
सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः ॥ र्भ्र्स्_१,२।३१ ॥

षष्ठे श्री-वृत्रोक्तौ (६।११।२५)–
न नाक-पृष्ठं न च पारमेष्ठ्यं
न सार्व-भौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥ र्भ्र्स्_१,२।३२ ॥

तत्रैव श्री-रुद्रोक्तौ (६।१७।२८)–
नारायण-पराः सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ र्भ्र्स्_१,२।३३ ॥

तत्रैव इन्द्रोक्तौ (६।१८।७४)–
आराधनं भगवत ईहमाना निराशिषः ।
ये तु नेच्छन्त्य् अपि परं ते स्वार्थ-कुशलाः स्मृताः ॥ र्भ्र्स्_१,२।३४ ॥

सप्तमे प्रह्लादोक्तौ (७।६।२५)–
तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये
किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः ।
धर्मादयः किम् अगुणेन च काङ्क्षितेन
सारं जुषां चरणयोर् उपगायतां नः ॥ र्भ्र्स्_१,२।३५ ॥

तत्रैव शक्रोक्तौ (७।८।४२)–
प्रत्यानीताः परम भवता त्रायता नः स्व-भागा
दैत्याक्रान्तं हृदय-कमलं तद्-गृहं प्रत्यबोधि ।
काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते
मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम् ॥ र्भ्र्स्_१,२।३६ ॥

अष्टमे श्री-गजेन्द्रोक्तौ (८।३।२०)–
एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्-प्रपन्नाः ।
अत्य्-अद्भुतं तच्-चरितं सुमङ्गलं
गायन्त आनन्द-समुद्र-मग्नाः ॥ र्भ्र्स्_१,२।३७ ॥

नवमे श्री-वैकुण्ठनाथोक्तौ (९।४।६७)–
मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतो ऽन्यत् काल-विप्लुतम् ॥ र्भ्र्स्_१,२।३८ ॥

श्री-दशमे नागपत्नी-स्तुतौ (१०।१६।३७)–
न नाक-पृष्ठं न च सार्व-भौमं
न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः ॥ र्भ्र्स्_१,२।३९ ॥

तत्रैव श्री-वेद-स्तुतौ (१०।८७।२१)–
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्
चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।
न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ र्भ्र्स्_१,२।४० ॥

एकादशे श्री-भगवद्-उक्तौ (११।२०।३४)–
न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम ।
वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥ र्भ्र्स्_१,२।४१ ॥

तथा (११।१४।१४)–
न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ र्भ्र्स्_१,२।४२ ॥

द्वादशे श्री-रुद्रोक्तौ (१२।१०।६)–
नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषे ऽव्यये ॥ र्भ्र्स्_१,२।४३ ॥

पद्म-पुराणे च कार्त्तिक-माहात्म्ये (दामोदराष्टके)–
वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणे ऽहं वरेशाद् अपीह ।
इदं ते वपुर् नाथ गोपाल-बालं
सदा मे मनस्य् अविरास्तां किम् अन्यैः ॥ र्भ्र्स्_१,२।४४ ॥

कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-बद्धौ कृतौ च ।
तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मे ऽस्ति दामोदरेह ॥ र्भ्र्स्_१,२।४५ ॥
हयशीर्षीय-श्री-नारायण-व्यूह-स्तवे च–
न धर्म कामम् अर्थं वा मोक्षं वा वरदेश्वर ।
प्रार्थये तव पादाब्जे दास्यम् एवाभिकामये ॥ र्भ्र्स्_१,२।४६ ॥

तत्रैव–
पुनः पुनर् वरान् दित्सुर् विष्णुर् मुक्तिं न याचितः ।
भक्तिर् एव वृता येन प्रह्लादं तं नमाम्य् अहं ॥ र्भ्र्स्_१,२।४७ ॥
यदृच्छया लब्धम् अपि विष्णोर् दाशरथेस् तु यः ।
नैच्छन् मोक्षं विना दास्यं तस्मै हनुमते नमः ॥ र्भ्र्स्_१,२।४८ ॥

अत एव प्रसिद्धम् श्री-हनुमद्-वाक्यम्–
भव-बन्ध-च्छिदे तस्यै स्पृहयामि न मुक्तये ।
भवान् प्रभुर् अहं दास इति यत्र विलुप्यते ॥ र्भ्र्स्_१,२।४९ ॥

श्री-नारद पञ्चरात्रे च जितन्ते-स्तोत्रे–
धर्मार्थ-काम-मोक्षेषु नेच्छा मम कदाचन ।
त्वत्-पाद-पञ्कजस्याधो जीवितं दीयतं मम ॥ र्भ्र्स्_१,२।५० ॥
मोक्ष-सालोक्य-सारूप्यान् प्रार्थये न धराधर ।
इच्छामि हि महाभाग कारुण्यं तव सुव्रत ॥ र्भ्र्स्_१,२।५१ ॥

अतएव श्री-भागवते षष्ठे (६।१४।५)–
मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने ॥ र्भ्र्स्_१,२।५२ ॥

प्रथमे च श्री-धर्मराज-मातुः स्तुतौ (१।८।२०)–
तथा परमहंसानां मुनीनाम् अमलात्मनाम् ।
भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः ॥ र्भ्र्स्_१,२।५३ ॥

तत्रैव श्री-सूतोक्तौ (१।७।१०)–
आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः ॥ र्भ्र्स्_१,२।५४ ॥

अत्र त्याज्यतयैवोक्ता मुक्तिः पञ्च-विधापि चेत् ।
सालोक्यादिस् तथाप्य् अत्र भक्त्या नातिविरुध्यते ॥ र्भ्र्स्_१,२।५५ ॥
सुखैश्वर्योत्तरा सेयं प्रेम-सेवोत्तरेत्य् अपि ।
सालोक्यादिर् द्विधा तत्र नाद्या सेवा-जुषं मता ॥ र्भ्र्स्_१,२।५६ ॥
किन्तु प्रेमैक-माधुर्य-जुष एकान्तिनो हरौ ।
नैवाङ्गीकुर्वते जातु मुक्तिं पञ्च-विधाम् अपि ॥ र्भ्र्स्_१,२।५७ ॥
तत्राप्य् एकान्तिनां श्रेष्था गोविन्द-हृत-मानसाः ।
येषां श्रीश-प्रसादो ऽपि मनो हर्तुं न शक्नुयात् ॥ र्भ्र्स्_१,२।५८ ॥
सिद्धान्ततस् त्व् अभेदे ऽपि श्रीश-कृष्ण-स्वरूपयोः ।
रसेनोत्कृष्यते कृष्ण-रूपम् एषा रस-स्थितिः ॥ र्भ्र्स्_१,२।५९ ॥
शास्त्रतः श्रूयते भक्तौ नृ-मात्रस्याधिकारिता ।
सर्वाधिकारितां माघ-स्नानस्य ब्रुवता यतः ।
दृष्तान्तिता वशिष्ठेन हरि-भक्तिर् नृपं प्रति ॥ र्भ्र्स्_१,२।६० ॥

यथा पाद्मे -
सर्वे ऽधिकारिणो ह्य् अत्र हरि-भक्तौ यथा नृप ॥ र्भ्र्स्_१,२।६१ ॥

काशी-खण्डे च तथा–
अन्त्यजा अपि तद्-राष्ट्रे शङ्ख-चक्राङ्क-धारिणः ।
सम्प्राप्य वैष्णवीं दीक्षां दीक्षिता इव सम्बभुः ॥ र्भ्र्स्_१,२।६२ ॥

अपि च–
अननुष्ठानतो दोषो भक्त्य्-अङ्गानां प्रजायते ।
न कर्मणाम् अकरणाद् एष भक्त्य्-अधिकारिणाम् ॥ र्भ्र्स्_१,२।६३ ॥
निषिद्धाचारतो दैवात् प्रायश्चित्तं तु नोचितम् ।
इति वैष्णव-शास्त्राणां रहस्यं तद्-विदां मतम् ॥ र्भ्र्स्_१,२।६४ ॥

यथैकादशे (११।२०।२६, ११।२१।२)–
स्वे स्वे ऽधिकारे या निष्ठा सा गुणः परिकीर्तितः ।
विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः ॥ र्भ्र्स्_१,२।६५ ॥

प्रथमे (१।५।१७)–
त्यक्त्वा स्वधर्मं चरणाम्बुजम् हरेर्
भजन्न् अपक्वो ऽथ पतेत् ततो यदि ।
यत्र क्व वाभद्रम् अभूद् अमुष्य किं
को वार्थ आप्तो ऽभजतां स्व-धर्मतः ॥ र्भ्र्स्_१,२।६६ ॥

एकादशे (११।११।३७)–
आज्ञायैव गुणान् दोषान् मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स च सत्तमः ॥ र्भ्र्स्_१,२।६७ ॥

तत्रैव (११।५।४१)–
देवर्षि-भूताप्त-नॄणां पितॄणां
न किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥ र्भ्र्स्_१,२।६८ ॥

श्री-भगवद्-गीतासु (१८।६६)–
सर्व-धर्मन् परित्याज्य माम् एकं शरणं व्रज ।
अहं त्वां सर्व-पापेभ्यो मोक्षयिष्यामि मा सुचः ॥ र्भ्र्स्_१,२।६९ ॥

अगस्त्य-संहितायाम्–
यथा विधि-निषेधौ तु मुक्तं नैवोपसर्पतः ।
तथा न स्पृशतो रामोपासकं विधि-पूर्वकम् ॥ र्भ्र्स्_१,२।७० ॥

एकादशे एव (११।५।४२)–
स्वपाद-मुलं भजतः प्रियस्य
त्यक्तान्य् अभावस्य हरिः परेशः ।
विकर्म यच् चोत्पतितं कथञ्चिद्
धुनोति सर्वं हृदि सन्निविष्टः ॥ र्भ्र्स्_१,२।७१ ॥

हरि-भक्ति-विलासे ऽस्या भक्तेर् अङ्गानि लक्षशः ।
किन्तु तानि प्रसिद्धानि निर्दिश्यन्ते यथामति ॥ र्भ्र्स्_१,२।७२ ॥

अत्र अङ्ग-लक्षणम् -
आश्रितावान्तरानेक-भेदं केवलम् एव वा ।
एकं कर्मात्र विद्वद्भिर् एकं भक्त्य्-अङ्गम् उच्यते ॥ र्भ्र्स्_१,२।७३ ॥

अथ अङ्गानि–
गुरु-पादाश्रयस् तस्मात् कृष्ण-दीक्षादि-शिक्षणम् ।
विश्रम्भेण गुरोः सेवा साधु-वर्त्मानुवर्तनम् ॥ र्भ्र्स्_१,२।७४ ॥
सद्-धर्म-पृच्छा भोगादि-त्यागः कृष्णस्य हेतवे ।
निवासो द्वारकादौ च गङ्गादेर् अपि सन्निधौ ॥ र्भ्र्स्_१,२।७५ ॥
व्यावहारेषु सर्वेषु यावद्-अर्थानुवर्तिता ।
हरि-वासर-सम्मानो धात्र्य्-अश्वत्थादि-गौरवम् ॥ र्भ्र्स्_१,२।७६ ॥
एषाम् अत्र दशाङ्गानां भवेत् प्रारम्भ-रुपता ॥ र्भ्र्स्_१,२।७७ ॥
सङ्ग-त्यागो विदूरेण भगवद्-विमुखैर् जनैः ।
शिष्याद्य्-अननुबन्धित्वं महारम्भाद्य्-अनुद्यमः ॥ र्भ्र्स्_१,२।७८ ॥
बहु-ग्रन्थ-कलाभ्यास-व्याख्या-वाद-विवर्जनम् ॥ र्भ्र्स्_१,२।७९ ॥
व्यावहारे ऽप्य् अकार्पण्यं शोकाद्य्-अवश-वर्तिता ॥ र्भ्र्स्_१,२।८० ॥
अन्य-देवान् अवज्ञा च भूतानुद्वेग-दायिता ।
सेवा-नामापराधानाम् उद्भवाभाव-कारिता ॥ र्भ्र्स्_१,२।८१ ॥
कृष्ण-तद्-भक्त-विद्वेष-विनिन्दाद्य्-असहिष्णुता ।
व्यतिरेकतयामीषां दशानां स्याद् अनुष्ठितीः ॥ र्भ्र्स्_१,२।८२ ॥
अस्यास् तत्र प्रवेशाय द्वारत्वे ऽप्य् अङ्ग-विंशतेः ।
त्रयां प्रधानम् एवोक्तं गुरु-पादाश्रयादिकम् ॥ र्भ्र्स्_१,२।८३ ॥
धृतिर् वैष्णव-चिह्णानां हरेर् नामाक्षरस्य च ।
निर्माल्यादेश् च तस्याग्रे ताण्डवं दण्डवन्-नतिः ॥ र्भ्र्स्_१,२।८४ ॥
अभ्युत्थानम् अनुव्रज्या गतिः स्थाने परिक्रमः ।
अर्चनं परिचर्या च गीतं सङ्कीर्तनं जपः ॥ र्भ्र्स्_१,२।८५ ॥
विज्ञप्तिः स्तव-पाठश् च स्वादो नैवेद्य-पाद्ययोः ।
धूप-माल्यादि-सौरभ्यं श्री-मूर्तेः स्पृष्टिर् ईक्षणम् ॥ र्भ्र्स्_१,२।८६ ॥
आरात्रिकोत्सवादेश् च श्रवणं तत्-कृपेक्षणम् ।
स्मृतिर् ध्यानं तथा दास्यं सख्यम् आत्म-निवेदनम् ॥ र्भ्र्स्_१,२।८७ ॥
निज-प्रियोपहरणं तद्-अर्थे ऽखिल-चेष्टितम् ।
सर्वथा शरणापत्तिस् तदीयानां च सेवनम् ॥ र्भ्र्स्_१,२।८८ ॥
तदीयास् तुलसी-शास्त्र-मथुरा-वैष्णवादयः ।
यथा-वैभव-सामग्री सद्-गोष्ठीभिर् महोत्सवः ॥ र्भ्र्स्_१,२।८९ ॥
ऊर्जादरो विशेषेण यात्रा जन्म-दिनादिषु ।
श्रद्धा विशेषतः प्रीतिः श्री-मूर्तेर् अङ्घ्रि-सेवने ॥ र्भ्र्स्_१,२।९० ॥
श्रीमद्-भागवतार्थानाम् आस्वादो रसिकैः सह ।
सजातीयाशये स्निग्धे साधौ सङ्गः स्वतो वरे ॥ र्भ्र्स्_१,२।९१ ॥
नाम-सङ्कीर्तनं श्री-मथुरा-मण्डले स्थितिः ॥ र्भ्र्स्_१,२।९२ ॥
अङ्गानां पञ्चकस्यास्य पूर्वं विलिखितस्य च ।
निखिल-श्रैष्ठ्य-बोधाय पुनर् अप्य् अत्र कीर्तनम् ॥ र्भ्र्स्_१,२।९३ ॥
इति काय-हृषीकान्तः-करणानाम् उपासनाः ॥ र्भ्र्स्_१,२।९४ ॥
चतुःषष्टिः पृथक् साङ्घातिक-भेदात् क्रमादिनाः ॥ र्भ्र्स्_१,२।९५ ॥
अथार्षानुमतेनैषाम् उदाहरणम् ईर्यते ॥ र्भ्र्स्_१,२।९६ ॥

१ - तत्र गुरुपादाश्रयो, यथा एकादशे (११।३।२१)–
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ र्भ्र्स्_१,२।९७ ॥

२ - श्री-कृष्ण-दीक्षादि-शिक्षणम्, यथा तत्रैव (११।३।२२)–
तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।
अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥ र्भ्र्स्_१,२।९८ ॥

३ - विश्रम्भेण गुरोः सेवा, यथा तत्रैव (११।१७।२७)–
आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् ।
न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥ र्भ्र्स्_१,२।९९ ॥
४ - साधु-वर्त्मानुवर्तनम्, यथा स्कान्दे–
स मृग्यः श्रेयसां हेतुः पन्थाः सन्ताप-वर्जितः ।
अन्वाप्त-श्रमं पूर्वे येन सन्तः प्रतस्थिरे ॥ र्भ्र्स्_१,२।१०० ॥

ब्रह्म-यामले च–
श्रुति-स्मृति-पुराणादि-पञ्चरात्र-विधिं विना ।
ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्पते ॥ र्भ्र्स्_१,२।१०१ ॥

भक्तिर् ऐकान्तिकी वेयम् अविचारात् प्रतीयते ।
वस्तुतस् तु तथा नैव यद् अशास्त्रीयतेक्ष्यते ॥ र्भ्र्स्_१,२।१०२ ॥

५ - सद्-धर्म-पृच्छा, यथा नारदीये–
अचिराद् एव सर्वार्थः सिध्यत्य् एषाम् अभीप्सितः ।
सद्-धर्मस्यावबोधाय येषां निर्बन्धिनी मतिः ॥ र्भ्र्स्_१,२।१०३ ॥

६ - कृष्णार्थे भोगादि-त्यागो, यथा पाद्मे -
हरिम् उद्दिश्य भोगानि काले त्यक्तवतस् तव ।
विष्णु-लोक-स्थिता सम्पद्-अलोला सा प्रतीक्षते ॥ र्भ्र्स्_१,२।१०४ ॥

७ - द्वारकादि-निवासो, यथा स्कान्दे–
संवत्सरं वा षण्मासान् मासं मासार्धम् एव वा ।
द्वारका-वासिनः सर्वे नरा नार्यश् चतुर्भुजाः ॥ र्भ्र्स्_१,२।१०५ ॥

आदि-पदेन पुरुषोत्तम-वासश् च, यथा ब्राह्मे–
अहो क्षेत्रस्य माहात्म्यं समन्ताद् दश-योजनम् ।
दिविष्ठा यत्र पश्यन्ति सर्वान् एव चतुर्भुजान् ॥ र्भ्र्स्_१,२।१०६ ॥

गङ्गादि-वासो, यथा प्रथमे (१।१९।६)–
या वै लसच्-छ्री-तुलसी-विमिश्र-
कृष्णाङ्घ्रि-रेण्व्-अभ्यधिकाम्बु-नेत्री ।
पुनाति सेशान् उभयत्र लोकान्
कस् तां न सेवेत मरिष्यमाणः ॥ र्भ्र्स्_१,२।१०७ ॥

८– यावद्-अर्थानुवर्तिता, यथा नारदीये–
यावता स्यात् स्व-निर्वाहः स्वीकुर्यात् तावद् अर्थ-वित् ।
आधिक्ये न्यूनतायां च च्यवते परमार्थतः ॥ र्भ्र्स्_१,२।१०८ ॥

९ - हरि-वासर-सम्मानो, यथा ब्रह्म-वैवर्ते–
सर्व-पाप-प्रशमनं पुण्यम् आत्यन्तिकं तथा ।
गोविन्द-स्मारणं नॄणाम् एकदश्याम् उपोषणम् ॥ र्भ्र्स्_१,२।१०९ ॥

१० - धात्र्य्-अश्वत्थादि-गौरवम्, यथा स्कान्दे–
अश्वत्थ-तुलसी-धात्री-गो-भूमिसुर-वैष्णवाः ।
पूजिताः प्रणताः ध्याताः क्षपयन्ति नॄणाम् अघम् ॥ र्भ्र्स्_१,२।११० ॥

११ - अथ श्री-कृष्ण-विमुख-जन-सन्त्यागो, यथा कात्यायन-संहितायाम्–
वरं हुत-वह-ज्वाला-पञ्जरान्तर्-व्यवस्थितिः ।
न शौरि-चिन्ता-विमुख-जन-संवास-वैशसम् ॥ र्भ्र्स्_१,२।१११ ॥

विष्णु-रहस्ये च–
आलिङ्गनं वरं मन्ये व्याल-व्याघ्र-जलौकसाम् ।
न सङ्गः शल्य-युक्तानां नाना-देवैक-सेविनाम् ॥ र्भ्र्स्_१,२।११२ ॥

१२ - १३ - १४ - शिष्याननुबन्द्धित्वादि-त्रयम्, यथा सप्तमे (७।१३।८)–
न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् ।
न व्याख्याम् उपयुञ्जीत नारम्भान् आरभेत् क्वचित् ॥ र्भ्र्स्_१,२।११३ ॥

१५ - व्यावहारे ऽप्य् अकार्पण्यम्, यथा पाद्मे–
अलब्धे वा विनष्टे वा भक्ष्याच्छादन-साधने ।
अविक्लव-मतिर् भूत्वा हरिम् एव धिया स्मरेत् ॥ र्भ्र्स्_१,२।११४ ॥

१६– शोकाद्य्-अवश-वर्तिता, यथा तत्रैव–
शोकामर्षादिभिर् भावैर् आक्रान्तं यस्य मानसम् ।
कथं तत्र मुकुन्दस्य स्फूर्ति-सम्भावना भवेत् ॥ र्भ्र्स्_१,२।११५ ॥।

१७- अन्य-देवानज्ञा, यथा तत्रैव–
हरिर् एव सदाराध्यः सर्व-देवेश्वरेश्वरः ।
इतरे ब्रह्म-रुद्राद्या नावज्ञेयाः कदाचन ॥ र्भ्र्स्_१,२।११६ ॥

१८- भूतानुद्वेग-दायिता, यथा महाभारते–
पितेव पुत्रं करुणो नोद्वेजयति यो जनम् ।
विशुद्धस्य हृषीकेशस् तूर्णं तस्य प्रसीदति ॥ र्भ्र्स्_१,२।११७ ॥

१९ - सेवा-नामापराधानां वर्जनम्, यथा वाराहे–
ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया ।
वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥ र्भ्र्स्_१,२।११८ ॥
पाद्मे च–
सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयः ।
हरेर् अप्य् अपराधान् यः कुर्याद् द्विपदपांशुलः ॥ र्भ्र्स्_१,२।११९ ॥
नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ।
नाम्नो हि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥ र्भ्र्स्_१,२।१२० ॥

२०- तन्-निन्दाद्य् असहिष्णुता, यथा श्री-दशमे (१०।७४।४०)–
निन्दां भगवतः श्र्ण्वंस् तत्-परस्य जनस्य वा ।
ततो नापैति यः सो ऽपि यात्य् अधः सुकृताच् च्युतः ॥ र्भ्र्स्_१,२।१२१ ॥

२१ - अथ वैष्णव-चिह्ण-धृतिः, यथा पाद्मे–
ये कण्ठ-लग्न-तुलसी-नलिनाक्षा-माला
ये बाहु-मूल-परिचिह्णित-शङ्ख-चक्राः ।
ये वा ललाट-फलके लसद्-ऊर्ध्व-पुण्ड्रास्
ते वैष्णवा भुवनम् आशु पवित्रयन्ति ॥ र्भ्र्स्_१,२।१२२ ॥

२२ - नामाक्षर-धृतिः, यथा स्कान्दे–
हरि-नामाक्षर-युतं भाले गोपी-मृडङ्कितम् ।
तुलसी-मालिकोरस्कं स्पृशेयुर् न यमोद्भटाः ॥ र्भ्र्स्_१,२।१२३ ॥

पाद्मे च–
कृष्ण-नामाक्षरैर् गात्रम् अङ्कयेच् चन्दनादिना ।
स लोक-पावनो भुत्वा तस्य लोकम् अवाप्नुयात् ॥ र्भ्र्स्_१,२।१२४ ॥

२३ - निर्माल्य-धृतिः, यथा एकादशे (११।६।४६)–
त्वयोपयुक्त-स्रग्-गन्ध-वासो ऽलङ्कार-चर्चिताः ।
उच्छिष्ट-भोजिनो दासास् तव मायां जयेमहि ॥ र्भ्र्स्_१,२।१२५ ॥

स्कान्दे च–
कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने ।
सर्व-रोगैस् तथा पापैर् मुक्तो भवति नारद ॥ र्भ्र्स्_१,२।१२६ ॥

२४ - अग्रे ताण्डवम्, यथा द्वारका-माहात्म्ये–
यो नृत्यति प्रहृष्टात्मा भावैर् बहुषु भक्तितः ।
स निर्दहति पापानि मन्वन्तर-शतेष्व् अपि ॥ र्भ्र्स्_१,२।१२७ ॥

तथा श्री-नारदोक्तौ च–
नृत्यतां श्री-पतेर् अग्रे तालिका-वादनैर् भृशम् ।
उड्डीयन्ते शरीर-स्थाः सर्वे पातक-पक्षिणः ॥ र्भ्र्स्_१,२।१२८ ॥

२५– दण्डवन्-नतिः, यथा नारदीये–
एको ऽपि कृष्णाय कृतः प्रणामो
दशाश्वमेधावभृथैर् न तुल्यः ।
दशाश्वमेधी पुनर् एति जन्म
कृष्ण-प्रणामी न पुनर्-भवाय ॥ र्भ्र्स्_१,२।१२९ ॥

२६ - अभ्यूत्थानम्, यथा ब्रह्माण्डे–
यान् आरूढं पुरः प्रेक्ष्य समायान्तं जनार्दनम् ।
अभ्युत्थानं नरः कुर्वन् पातयेत् सर्व-किल्बिषम् ॥ र्भ्र्स्_१,२।१३० ॥

२७ - अनुव्रज्या, यथा भविष्योत्तरे–
रथेन सह गच्छन्ति पार्श्वतः पृष्ठतो ऽग्रतः ।
विष्णुनैव समाः सर्वे भवन्ति श्वपदादयः ॥ र्भ्र्स्_१,२।१३१ ॥

२८ - स्थाने गतिः–
स्थानं तीर्थं गृहं चास्य तत्र तीर्थे गतिर् यथा ॥ र्भ्र्स्_१,२।१३२ ॥

पुराणान्तरे–
संसार-मरु-कान्तार-निस्तार-करण-क्षमौ ।
स्लाघ्यौ ताव् एव चरणौ यौ हरेस् तीर्थ-गामिनौ ॥ र्भ्र्स्_१,२।१३३ ॥

आलये च, यथा हरि-भक्ति-सुधोदये–
प्रवीशन्न् आलयं विष्णोर् दर्शनार्थं सुभक्तिमान् ।
न भूयः प्रविशेन् मातुः कुक्षि-कारागृहं सुधीः ॥ र्भ्र्स्_१,२।१३४ ॥

२९ - परिक्रमो, यथा तत्रैव–
विष्णुं प्रदक्षिनी-कुर्वन् यस् तत्रावर्तते पुनः ।
तद् एवावर्तनं तस्य पुनर् नावर्तते भवे ॥ र्भ्र्स्_१,२।१३५ ॥

स्कान्दे च चतुर्मास्य-माहात्म्ये–
चतुर्-वारं भ्रमीभिस् तु जगत् सर्वं चराचरम् ।
क्रान्तं भवति विप्राग्र्य तत्-तीर्थ-गमनादिकम् ॥ र्भ्र्स्_१,२।१३६ ॥

३० - अथ अर्चनम्–
शुद्धि-न्यासादि-पूर्वाङ्ग-कर्म-निर्वाह-पूर्वकम् ।
अर्चनम् तूपचाराणां स्यान् मन्त्रेणोपपादनम् ॥ र्भ्र्स्_१,२।१३७ ॥
तद्, यथा दशमे (१०।८१।१९)–
स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।
सर्वासाम् अपि सिद्धीनां मूलं ताच्-चरणार्चनं ॥ र्भ्र्स्_१,२।१३८ ॥

विष्णुरहस्ये च–
श्री-विष्णोर् अर्चनं ये तु प्रकुर्वन्ति नरा भुवि ।
ते यान्ति शाश्वतं विष्णोर् आनन्दं परमं पदम् ॥ र्भ्र्स्_१,२।१३९ ॥

३१ - परिचर्या–
परिचर्या तु सेवोपकरणादि-परिष्क्रिया ।
तथा प्रकीर्णक-च्छत्र-वादित्राद्यैर् उपासना ॥ र्भ्र्स्_१,२।१४० ॥

यथा नारदीये–
मुहूर्तं वा मुहूर्तार्धं यस् तिष्ठेद् धरि-मन्दिरे ।
स याति परमं स्थानं किम् उ शुश्रूषणे रताः ॥ र्भ्र्स्_१,२।१४१ ॥

यथा चतुर्थे (४।२१।३१)–
यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥ र्भ्र्स्_१,२।१४२ ॥

अङ्गानि विविधान्य् एव स्युः पूजा-परिचर्ययोः ।
न तानि लिखितान्य् अत्र ग्रन्थ-बाहुल्य-भीतितः ॥ र्भ्र्स्_१,२।१४३ ॥

३२ - अथ गीतम्, यथा लैङ्गे–
ब्राह्मणो वासुदेवाख्यं गायमानो ऽनिशं परम् ।
हरेः सालोक्यम् आप्नोति रुद्र-गानाधिकं भवेत् ॥ र्भ्र्स्_१,२।१४४ ॥

३३ - अथ सङ्कीर्तनम्–
नाम-लीला-गुणदीनाम् उच्चैर्-भाषा तु कीर्तनम् ॥ र्भ्र्स्_१,२।१४५ ॥

तत्र नाम-कीर्तनम्, यथा विष्णु-धर्मे–
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवन्ति राजेन्द्र महा-पातक-कोटयः ॥ र्भ्र्स्_१,२।१४६ ॥

लीला-कीर्तनम्, यथा सप्तमे (७।९।१८)–
सो ऽहं प्रियस्य सुहृदः परदेवताया
लीला-कथास् तव नृसिम्ह विरिञ्च-गीताः ।
अञ्जस् तितर्म्य् अनुगृणन् गुण-विप्रमुक्तो
दुर्गाणि ते पद-युगालय-हंस-सङ्गः ॥ र्भ्र्स्_१,२।१४७ ॥

गुण-कीर्तनम्, यथा प्रथमे (१।५।२२)–
इदं हि पुंसस् तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः ।
अविच्युतो ऽर्थः कविभिर् निरूपितो
यद् उत्तमःश्लोक-गुणानुवर्णनम् ॥ र्भ्र्स्_१,२।१४८ ॥

३४ - अथ जपः
मन्त्रस्य सुलघूच्चारो जप इत्य् अभिधीयते ॥ र्भ्र्स्_१,२।१४९ ॥

यथा पाद्मे–
कृष्णाय नम इत्य् एष मन्त्रः सर्वार्थ-साधकः ।
भक्तानां जपतां भूप स्वर्ग-मोक्ष-फल-प्रदः ॥ र्भ्र्स्_१,२।१५० ॥

३५ - अथ विज्ञप्तिः, यथा स्कान्दे–
हरिम् उद्दिश्य यत् किञ्चित् कृतं विज्ञापनं गिरा ।
मोक्ष-द्वारार्गलान् मोक्षस् तेनैव विहितस् तव ॥ र्भ्र्स्_१,२।१५१ ॥

सम्प्रार्थनात्मिका दैन्य-बोधिका लालसामयी ।
इत्य् आदिर् विविधा धीरैः कृष्णे विज्ञप्तिर् ईरिता ॥ र्भ्र्स्_१,२।१५२ ॥

तत्र सम्प्रार्थनात्मिका, यथा पाद्मे–
युवतीनां यथा यूनि यूनां च युवतौ यथा ।
मनो ऽभिरमते तद्वन् मनो ऽभिरमतां त्वयि ॥ र्भ्र्स्_१,२।१५३ ॥

दैन्य-बोधिका, यथा तत्रैव–
मत्-तुल्यो नास्ति पापात्मा नापराधी च कश्चन ।
परिहारे ऽपि लज्जा मे किं ब्रूवे पुरुषोत्तम ॥ र्भ्र्स्_१,२।१५४ ॥

लालसामयी, यथा श्री-नारद-पञ्चरात्रे–
कदा गम्भीरया वाचा श्रिया युक्तो जगत्-पते ।
चामर-व्यग्र-हस्तं माम् एवं कुर्व् इति वक्ष्यसि ॥ र्भ्र्स्_१,२।१५५ ॥

यथा वा–
कदाहं यमुना-तीरे नामानि तव कीर्तयन् ।
उद्बाष्पः पुण्डरीकाक्ष रचयिष्यामि ताण्डवम् ॥ र्भ्र्स्_१,२।१५६ ॥

३६ - अथ स्तव-पाठः–
प्रोक्ता मनीषिभिर् गीता-स्तव-राजादयः स्तवाः ॥ र्भ्र्स्_१,२।१५७ ॥

यथा स्कान्दे–
श्री-कृष्ण-स्तव-रत्नौघैर् येषां जिह्वा त्व् अलङ्कृता ।
नमस्या मुनि-सिद्धानां वन्दनीया दिवौकसाम् ॥ र्भ्र्स्_१,२।१५८ ॥

नारसिंहे च–
स्तोत्रैः स्तवश् च देवाग्रे यः स्तौति मधुसूदनम् ।
सर्व-पाप-विनिर्मुक्तो विष्णु-लोकम् अवाप्नुयात् ॥ र्भ्र्स्_१,२।१५९ ॥

३७ - अथ नैवेद्यास्वादो, यथा पाद्मे–
नैवेद्यम् अन्नं तुलसी-विमिश्रं
वीशेषतः पाद-जलेन सिक्तम् ।
यो ऽश्नाति नित्यं पुरतो मुरारेः
प्राप्णोति यज्ञायुत-कोटि-पुण्यम् ॥ र्भ्र्स्_१,२।१६० ॥

३८ - अथ पाद्यास्वादो, यथा तत्रैव–
न दानं न हविर् येषां स्वाध्यायो न सुरार्चनम् ।
ते ऽपि पादोदकं पीत्वा प्रयान्ति परमां गतिम् ॥ र्भ्र्स्_१,२।१६१ ॥

३९ - अथ धूप-सौरभ्यम्, यथा हरि-भक्ति-सुधोदये–
आघ्राणं यद् धरेर् दत्त-धूपोच्छिष्टस्य सर्वतः ।
तद्-भव-व्याल-दष्टानां नस्यं कर्म विषापहम् ॥ र्भ्र्स्_१,२।१६२ ॥

अथ माल्य-सौरभ्यम्, यथा तन्त्रे–
प्रविष्टे नासिका-रन्ध्रे हरेर् निर्माल्य-सौरभे ।
सद्यो विलयम् आयाति पाप-पञ्जर-बन्धनम् ॥ र्भ्र्स्_१,२।१६३ ॥

अगस्त्य-संहितायां च–
आघ्राणं गन्ध-पुष्पादेर् अर्चितस्य तपोधन ।
विशुद्धिः स्याद् अनन्तस्य घ्राणस्येहाभिधीयते ॥ र्भ्र्स्_१,२।१६४ ॥

४० - अथ श्री-मूर्तेः स्पर्शनम्, यथा विष्णु-धर्मोत्तरे–
स्पृस्ट्वा विष्णोर् अधिष्ठानं पवित्रः श्रद्धयान्वितः ।
पाप-बन्धैर् विनिर्मुक्तः सर्वान् कामान् अवाप्नुयात् ॥ र्भ्र्स्_१,२।१६५ ॥
४१ - अथ श्री-मूर्तेर् दर्शनम्, यथा वाराहे–
वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे ।
न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम् ॥ र्भ्र्स्_१,२।१६६ ॥

४२ - आरात्रिक-दर्शनम्, यथा स्कान्दे–
कोटयो ब्रह्म-हत्यानाम् अगम्यागम-कोटयः ।
दहत्य् आलोक-मात्रेण विष्णोः सारात्रिकं मुखम् ॥ र्भ्र्स्_१,२।१६७ ॥

उत्सव-दर्शनम्, यथा भविष्योत्तरे–
रथ-स्थं ये निरीक्षन्ते कौतिकेनापि केशवम् ।
देवतानां गणाः सर्वे भवन्ति श्वपचादयः ॥ र्भ्र्स्_१,२।१६८ ॥

आदि-शब्देन पूजा-दर्शनम्, यथाग्नेये–
पूजितं पूज्यमानं वा यः पश्येद् भक्तितो हरिम् ॥ र्भ्र्स्_१,२।१६९ ॥

४३ - अथ श्रवणम्
श्रवणं नाम-चरित-गुणादीनां श्रुतिर् भवेत् ॥ र्भ्र्स्_१,२।१७० ॥

तत्र नाम-श्रवणम्, यथा गारुडे–
संसार-सर्प-दष्ट-नष्ट-चेष्टैक-भेषजम् ।
कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन् नरः ॥ र्भ्र्स्_१,२।१७१ ॥

चरित्र-श्रवणम्, यथा चतुर्थे (४।२९।४१)–
तस्मिन् महन्-मुखरिता मधुभिच्-चरित्र-
पीयूष-शेष-सरितः परितः स्रवन्ति ।
ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस्
तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः ॥ र्भ्र्स्_१,२।१७२ ॥

गुण-श्रवणम्, यथा द्वादशे (१२।३।१५)–
यस् तूत्तमःश्लोक-गुणानुवादः
सङ्गीयते ऽभीक्ष्णम् अमङ्गल-घ्नः ।
तम् एव नित्यं शृणुयाद् अभीक्ष्णं
कृष्णे ऽमलां भक्तिम् अभीप्समानः ॥ र्भ्र्स्_१,२।१७३ ॥

अथ तत्-कृपेक्षणम्, यथा दशमे (१०।१४।८)–
तत् ते ऽनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्म-कृतं विपाकम् ।
हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते
जीवेत यो मुक्ति-पदे स दाय-भाक् ॥ र्भ्र्स्_१,२।१७४ ॥

अथ स्मृतिः–
यथा कथं चिन्-मनसा सम्बन्धः स्मृतिर् उच्यते ॥ र्भ्र्स्_१,२।१७५ ॥

यथा विष्णु-पुराणे (५।१७।१७)–
स्मृते सकल-कल्याण-भाजनं यत्र जायते ।
पुरुषं तम् अजं नित्यं व्रजामि शरणं हरिम् ॥ र्भ्र्स्_१,२।१७६ ॥

यथा च पाद्मे–
प्रयाणे चाप्रयाणे च यन्-नाम स्मरतां नॄणाम् ।
सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने ॥ र्भ्र्स्_१,२।१७७ ॥

अथ ध्यानम्–
ध्यानम् रुप-गुण-क्रीडा-सेवादेः सुष्ठु चिन्तनम् ॥ र्भ्र्स्_१,२।१७८ ॥

तत्र रूप-ध्यानम्, यथा नारसिंहे–
भगवच्-चरण-द्वन्द्व-ध्यानं निर्द्वन्द्वम् ईरितम् ।
पापिनो ऽपि प्रसङ्गेन विहितं सुहितं परम् ॥ र्भ्र्स्_१,२।१७९ ॥

गुण-ध्यानम्, यथा विष्णुधर्मे–
ये कुर्वन्ति सदा भक्त्या गुणानुस्मरणं हरेः ।
प्रक्षीण-कलुषौघास् ते प्रविशन्ति हरेः पदम् ॥ र्भ्र्स्_१,२।१८० ॥

क्रीदा-ध्यानम्, यथा पद्मे–
सर्व-माधुर्य-साराणि सर्वाद्भुतमयानि च ।
ध्यायन् हरेश् चरित्राणि ललितानि विमुच्यते ॥ र्भ्र्स्_१,२।१८१ ॥

सेवा-ध्यानम्, यथा पुराणान्तरे–
मानसेनोपचारेन परिचर्य हरिं सदा ।
परे वाङ्-मनसाऽगम्यं तं साक्षात् प्रतिपेदिरे ॥ र्भ्र्स्_१,२।१८२ ॥

अथ दास्यम्–
दास्यं कर्मार्पणं तस्य कैङ्कर्यम् अपि सर्वथा ॥ र्भ्र्स्_१,२।१८३ ॥

तत्र आद्यं यथा स्कान्दे–
तस्मिन् समर्पितं कर्म स्वाभाविकम् अपीश्वरे ।
भवेद् भागवतो धर्मस् तत्-कर्म किमुतार्पितम् ॥ र्भ्र्स्_१,२।१८४ ॥
कर्म स्वाभाविकं भद्रं जप-ध्यानार्चनादि च ।
इतीदं द्विविधं कृष्णे वैष्णवैर् दास्यम् अर्पितम् ॥ र्भ्र्स्_१,२।१८५ ॥
मृदु-श्रद्धस्य कथिता स्वल्पा कर्माधिकारिता ।
तद्-अर्पितं हरौ दास्यम् इति कैश्चिद् उदीर्यते ॥ र्भ्र्स्_१,२।१८६ ॥

द्वितियम्, यथा नारदीये–
ईहा यस्य हरेर् दास्ये कर्मणा मनसा गिरा ।
निखिलास्व् अप्य् अवस्थासु जीवन्-मुक्तः स उच्यते ॥ र्भ्र्स्_१,२।१८७ ॥

अथ सख्यम्–
विश्वासो मित्र-वृत्तिश् च सख्यं द्विविधम् ईरितम् ॥ र्भ्र्स्_१,२।१८८ ॥

तत्र आद्यम्, यथा महाभारते–
प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति ।
इति संस्मृत्य संस्मृत्य प्राणान् सन्धारयाम्य् अहम् ॥ र्भ्र्स्_१,२।१८९ ॥

तथा एकादशे (११।२।५३) च–
त्रि-भुवन-विभव-हेतवे ऽप्य् अकुण्ठ-
स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् ।
न चलति भगवत्-पदारविन्दाल्
लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥ र्भ्र्स्_१,२।१९० ॥

श्रद्धा-मात्रस्य तद्-भक्ताव् अधिकारित्व-हेतुता ।
अङ्गत्वम् अस्य विश्वास-विशेषस्य तु केशवे ॥ र्भ्र्स्_१,२।१९१ ॥

द्वितीयम्, यथा अगस्त्य-संहितायाम्–
परिचर्या पराः केचित् प्रासादेषु च शेरते ।
मनुष्यम् इव तं द्रष्टुं व्यावहर्तुं च बन्धुवत् ॥ र्भ्र्स्_१,२।१९२ ॥

रागानुगाङ्गतास्य स्याद् विधि-मार्गानपेक्षत्वात् ।
मार्ग-द्वयेन चैतेन साध्या सख्य-रतिर् मता ॥ र्भ्र्स्_१,२।१९३ ॥

अथ आत्म-निवेदनम्, यथा एकादशे (११।२९।३४)–
मर्त्यो यदा त्यक्त-समस्त-कर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयात्म-भुऊयाया च कल्पते वै ॥ र्भ्र्स्_१,२।१९४ ॥

अर्थो द्विधात्म-शब्दस्य पण्डितैर् उपपायते ।
देह्य्-अहन्तास्पदं कैश्चिद् देहः कैश्चिन् ममत्व-भाक् ॥ र्भ्र्स्_१,२।१९५ ॥

तत्र देही, यथा यामुनाचार्य-स्तोत्रे (४९)–
वपुरादिषु यो ऽपि को ऽपि वा
गुणतो ऽसानि यथा तथा-विधः ।
तद् अयं तव पाद-पद्मयोर्
अहम् अद्यैव मया समर्पितः ॥ र्भ्र्स्_१,२।१९६ ॥

देहो, यथा भक्ति-विवेके–
चिन्तां कुर्यान् न रक्षायै विक्रीतस्य यथा पशोः ।
तथार्पयन् हरौ देहं विरमेद् अस्य रक्षनात् ॥ र्भ्र्स्_१,२।१९७ ॥

दुष्करत्वेन विरले द्वे सख्यात्म-निवेदने ।
केषाञ्चिद् एव धीराणां लभते साधनार्हताम् ॥ र्भ्र्स्_१,२।१९८ ॥

अथ निज-प्रियोपहरणम्, यथा एकादशे (११।११।४१)–
यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः ।
तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥ र्भ्र्स्_१,२।१९९ ॥

अथ तद्-अर्थे ऽखिल-चेष्टितम्, यथा पञ्चरात्रे–
लौकिकी वैदिकी वापि या क्रिया क्रियते मुने ।
हरि-सेवानुकूलैव सा कार्या भक्तिम् इच्छता ॥ र्भ्र्स्_१,२।२०० ॥

अथ शरणापत्तिः, यथा हरि-भक्ति-विलासे (११।६७७)–
तवास्मीति वदन् वाचा तथैव मनसा विदन् ।
तत्-स्थानम् आश्रितस् तन्वा मोदते शरणागतः ॥ र्भ्र्स्_१,२।२०१ ॥

श्री-नारसिंहे च–
त्वां प्रपन्नो ऽस्मि शरणं देव-देव जनार्दन ।
इति यः शरणं प्राप्तस् तं क्लेशाद् उद्धराम्य् अहम् ॥ र्भ्र्स्_१,२।२०२ ॥

५३– अथ तदीयानां सेवनम् । तुलास्यः, यथा स्कान्दे–
या दृष्टा निखिलाघ-सङ्ग-शमनी स्पृष्टा वपुः-पावनी
रोगाणाम् अभिवन्दिता निरसनी सिक्तान्तक-त्रासिनी ।
प्रत्यासत्ति-विधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्-चरणे विमुक्ति-फलदा तस्यै तुलस्यै नमः ॥ र्भ्र्स्_१,२।२०३ ॥

तथा च तत्रैव–
दृष्ता स्पृष्टा तथा ध्याता कीर्तिता नमिता स्तुता ।
रोपिता सेविता नित्यं पूजिता तुलसी शुभा ॥ र्भ्र्स्_१,२।२०४ ॥
नवधा तुलसीं देवीं ये भजन्ति दिने दिने ।
युग-कोटि-सहस्राणि ते वसन्ति हरेर् गृहे ॥ र्भ्र्स्_१,२।२०५ ॥

५४– अथ शास्त्रस्य,
शास्त्रम् अत्र समाख्यातं यद् भक्ति-प्रतिपादकम् ॥ र्भ्र्स्_१,२।२०६ ॥

यथा स्कान्दे–
वैष्णवानि तु शास्त्राणी ये शृण्वन्ति पठन्ति च ।
धन्यास् ते मानवा लोके तेसां कृष्णः प्रसीदति ॥ र्भ्र्स्_१,२।२०७ ॥
वैष्णवानि तु शास्त्राणी ये ऽर्चयन्ति गृहे नराः ।
सर्व-पाप-विनिर्मुक्ता भवन्ति सुर-वन्दिताः ॥ र्भ्र्स्_१,२।२०८ ॥
तिष्ठते वैष्णवं शास्त्रं लिखितं यस्य मन्दिरे ।
तत्र नारायणो देवः स्वयं वसति नारद ॥ र्भ्र्स्_१,२।२०९ ॥

तथा श्री-भागवते द्वादशे (१२।१३।१५) च–
सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते ।
तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ र्भ्र्स्_१,२।२१० ॥

५५– अथ मथुरायाः, यथा आदि-वाराहे–
मथुरां च परित्यज्य यो ऽन्यत्र कुरुते रतिम् ।
मूढो भ्रमति संसारे मोहिता मम मायया ॥ र्भ्र्स्_१,२।२११ ॥

ब्रह्माण्डे च–
त्रैलोक्य-वर्ति-तीर्थानां सेवनाद् दुर्लभा हि या ।
परानन्द-मयी सिद्धिर् मथुरा-स्पर्ष-मात्रतः ॥ र्भ्र्स्_१,२।२१२ ॥

श्रुता स्मृता कीर्तिता च वाञ्छिता प्रेक्षिता गता ।
स्पृष्टा श्रिता सेविता च मथुराभीष्टदा नृणाम् ।
इति ख्यातं पुराणेषु न विस्तार-भियोच्यते ॥ र्भ्र्स्_१,२।२१३ ॥

५६–अथ वैष्णवानां सेवनम्, यथा पाद्मे (६।२५३।१७६)–
आराधनानां सर्वेषां विष्णोर् आराधनं परम् ।
तस्मात् परतरं देवि तदीयानां समर्चनम् ॥ र्भ्र्स्_१,२।२१४ ॥

तृतीये (३।७।१९) च–
यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः ।
रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः ॥ र्भ्र्स्_१,२।२१५ ॥

स्कान्दे च–
शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः ।
गोपी-चन्दन-लिप्ताङ्गो दृष्तश् चेत् तद्-अघं कुतः ॥ र्भ्र्स्_१,२।२१६ ॥

प्रथमे (१।१९।३३) च–
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः ।
किं पुनर् दर्शन-स्पर्श-पाद-शौचासनादिभिः ॥ र्भ्र्स्_१,२।२१७ ॥

आदी-पुराणे–
ये मे भक्त-जनाः पार्थ न मे भक्ताश् च ते जनाः ।
मद्-भक्तानां च ये भक्तास् ते मे भक्ततमा मताः ॥ र्भ्र्स्_१,२।२१८ ॥

यावन्ति भगवद्-भक्तेर् अङ्गानि कथितानीह ।
प्रायस् तावन्ति तद्-भक्त-भक्तेर् अपि बुधा विदुः ॥ र्भ्र्स्_१,२।२१९ ॥

५७ - अथ यथा-वैभव-महोत्सवो, यथा पाद्मे–
यः करोति महीपाल हरेर् गेहे महोत्सवम् ।
तस्यापि भवति नित्यं हरि-लोके महोत्सव ॥ र्भ्र्स्_१,२।२२० ॥

५८ - अथ ऊर्जादरो, यथा पाद्मे–
यथा दामोदरो भक्त-वत्सलो विदितो जनैः ।
तस्यायं तादृशो मासः स्वल्पम् अप्य् उरु-कारकः ॥ र्भ्र्स्_१,२।२२१ ॥

तत्रापि मथुरायां विशेषो, यथा तत्रैव–
भुक्तिं मुक्तिं हरिर् दद्याद् अर्चितो ऽन्यत्र सेविनाम् ।
भक्तिं तु न ददात्य् एव यतो वश्यकरी हरेः ॥ र्भ्र्स्_१,२।२२२ ॥
सा त्व् अञ्जसा हरेर् भक्तिर् लभ्यते कार्त्तिके नरैः ।
मथुरायां सकृद् अपि श्री-दामोदर-सेवनात् ॥ र्भ्र्स्_१,२।२२३ ॥

५९– अथ श्री-जन्म-दिन-यात्रा, यथा भविष्योत्तरे–
यस्मिन् दिने प्रसूतेयं देवकी त्वां जनार्दन ।
तद्-दिनं ब्रूहि वैकुण्ठ कुर्मस् ते तत्र चोत्सवम् ।
तेन सम्यक्-प्रपन्नानां प्रसादं कुरु केशवः ॥ र्भ्र्स्_१,२।२२४ ॥

६०– अथ श्री-मूर्तेर्-अन्घ्रि-सेवने प्रीतिः, यथा आदि-पुराणे–
मम नाम-सदाग्राही मम सेवा-प्रियः सदा ।
भक्तिस् तस्मै प्रदातव्या न तु मुक्तिः कदाचन ॥ र्भ्र्स्_१,२।२२५ ॥

६१– अथ श्री-भागवतार्थास्वादो, यथा प्रथमे (१।१।३)–
निगम-कल्प-तरोर्-गलितं फलं
शुक-मुखाद् अमृत-द्रव-संयुतम् ।
पिबत भागवतं रसम् आलयं
मुहुर् अहो रसिका भुवि भावुकाः ॥ र्भ्र्स्_१,२।२२६ ॥

तथा द्वितीये (२।१।९) च–
परिनिष्ठितो ऽपि नैर्गुण्ये उत्तमःश्लोक-लीलया ।
गृहित-चेता राजर्षे आख्यानं यद् अधीतवान् ॥ र्भ्र्स्_१,२।२२७ ॥

६२–अथ स-जातीयाशय-स्निग्ध-श्री-भगवद्-भक्त-सङ्गो, यथा प्रथमे (१।१८।१३)–
तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किमुताशिषः ॥ र्भ्र्स्_१,२।२२८ ॥

हरि-भक्ति-सुधोदये च–
यस्य यत्-सङ्गतिः पुंसो मणिवत् स्यात् स तद्-गुणः ।
स्व-कूलर्द्ध्यै ततो धीमान् स्व-यूथ्यान् एव संश्रयेत् ॥ र्भ्र्स्_१,२।२२९ ॥

६३– अथ श्री-नाम सङ्कीर्तनम्, यथा द्वितीये (२।१।११)–
एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।
योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनं ॥ र्भ्र्स्_१,२।२३० ॥

आदि-पुराणे च–
गीत्वा च मम नामानि विचरेन् मम सन्निधौ ।
इति ब्रवीमि ते सत्यं क्रीतो ऽहं तस्य चार्जुन ॥ र्भ्र्स्_१,२।२३१ ॥

पाद्मे च–
येन जन्म-सहस्राणि वासुदेवो निषेवितः ।
तन्-मुखे हरि-नामानि सदा तिष्ठन्ति भारत ॥ र्भ्र्स्_१,२।२३२ ॥

यतस् तत्रैव च–
नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः ।
पूर्णः शुद्धो नित्य-मुक्तो ऽभिन्नत्वान् नाम-नामिनोः ॥ र्भ्र्स्_१,२।२३३ ॥

अतः श्री-कृष्ण-नामादि न भवेद् ग्राह्यं इन्द्रियैः ।
सेवोन्मुखे हि जिह्वादौ स्वयम् एव स्फुरत्य् अदः ॥ र्भ्र्स्_१,२।२३४ ॥

६४ - अथ श्री-मथुरा-मण्डले स्थितिः, यथा पाद्मे–
अन्येषु पुण्य-तीर्थेषु मुक्तिर् एव महा-फलम् ।
मुक्तैः प्रार्थ्या हरेर् भक्तिर् मथुरायां तु लभ्यते ॥ र्भ्र्स्_१,२।२३५ ॥
त्रि-वर्गदा कामिनां या मुमुक्षूणां च मोक्षदा ।
भक्तीच्छोर् भक्तिदा कस् तां मथुरां नाश्रयेद् बुधः ॥ र्भ्र्स्_१,२।२३६ ॥
अहो मधु-पुरी धन्या वैकुण्ठाच् च गरीयसी ।
दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥ र्भ्र्स्_१,२।२३७ ॥

दुरूहाद्भुत-वीर्ये ऽस्मिन् श्रद्धा दूरे ऽस्तु पञ्चके ।
यत्र स्वल्पो ऽपि सम्बन्धः सद्-धियां भाव-जन्मने ॥ र्भ्र्स्_१,२।२३८ ॥

तत्र श्री-मुर्तिः यथा–
स्मेरां भङ्गी-त्रय-परिचितां साचि-विस्तीर्ण-दृष्टिं
वंशी-न्यस्ताधर-किशलयाम् उज्ज्वलां चन्द्रकेण ।
गोविन्दाख्यां हरि-तनुम् इतः केशि-तीर्थोपकण्ठे
मा प्रेक्षिष्ठास् तव यदि सखे बन्धु-सन्गे ऽस्ति रङ्गः ॥ र्भ्र्स्_१,२।२३९ ॥

श्री-भागवतं यथा–
शङ्के नीताः सपदि दशम-स्कन्ध-पद्यावलीनां
वर्णाः कर्णाध्वनि पथि कतामानुपुर्व्याद् भवद्भिः ।
हंहो दिम्भाः परम-शुभदान् हन्त धर्मार्थ-कामान्
यद् गर्हन्तः सुखमयम् अमी मोक्षम् अप्य् आक्षिपन्ति ॥ र्भ्र्स्_१,२।२४० ॥

कृष्ण-भक्तो यथा–
दृग्-अम्भोभिर् धौतः पुलक-पतली मण्डित-तनुः
स्खलन्न् अन्तः-फुल्लो दधद् अतिपृथुं वेपथुम् अपि ।
दृशोः कक्षां यावन् मम स पुरुषः को ऽप्य् उपययौ
न जाते किं तावन् मतिर् इह गृहे नाभिरमते ॥ र्भ्र्स्_१,२।२४१ ॥

नाम यथा–
यदवधि मम शीता वैणिकेनानुगीता
श्रुति-पथम् अघ-शत्रोर् नामा-गाथा प्रयाता ।
अनवकलित-पूर्वां हन्त काम् अप्य् अवस्थां
तदवधि दधद्-अन्तर्-मानसं शाम्यतीव ॥ र्भ्र्स्_१,२।२४२ ॥

श्री मथुरा-मण्डलम्, यथा–
तट-भुवि कृत-कान्तिः श्यामला यास् तटिन्याः
स्फुटित-नव-कदम्बालम्बि-कूजद्-द्विरेफा ।
निरवधि-मधुरिम्णा मण्डितेयं कथं मे
मनसि कम् अपि भावं कानन-श्रीस् तनोति ॥ र्भ्र्स्_१,२।२४३ ॥

अलौकिक-पदार्थानाम् अचिन्त्या शक्तिर् ईदृशी ।
भावं तद्-विषयं चापि या सहैव प्रकाशयेत् ॥ र्भ्र्स्_१,२।२४४ ॥
केषाञ्चित् क्वचिद् अङ्गानां यत् क्षुद्रं श्रूयते फलं ।
बहिर्-मुख-प्रवृत्त्यैतत् किन्तु मुख्यं फलं रतिः ॥ र्भ्र्स्_१,२।२४५ ॥
सम्मतं भक्ति-विज्ञानां भक्त्य्-अङ्गत्वं न कर्मणाम् ॥ र्भ्र्स्_१,२।२४६ ॥

यथ चैकादशे (११।२०।९)–
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ र्भ्र्स्_१,२।२४७ ॥

ज्ञान-वैराग्ययोर् भक्ति-प्रवेशायोपयोगिता ।
ईषत् प्रथमम् एवेति नाङ्गत्वम् उचितं तयोः ॥ र्भ्र्स्_१,२।२४८ ॥
यद् उभे चित्त-काठिन्य-हेतू प्रायः सतां मते ।
सुकुमार-स्वभावेयं भक्तिस् तद्-धेतुर् ईरिता ॥ र्भ्र्स्_१,२।२४९ ॥

यथा तत्रैव (११।२०।३१)–
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ र्भ्र्स्_१,२।२५० ॥

किन्तु ज्ञान-विरक्त्य्-आदि-साध्यं भक्त्यैव सिध्यति ॥ र्भ्र्स्_१,२।२५१ ॥

यथा तत्रैव (११।२०।३२-३३)–
यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्य तश् च यत् ।
योगेन दान धर्मेण श्रेयोभिर् इतरैर् अपि ॥ र्भ्र्स्_१,२।२५२ ॥
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽन्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ र्भ्र्स्_१,२।२५३ ॥

रुचिम् उद्वहतस् तत्र जनस्य भजने हरेः ।
विषयेषु गरिष्ठो ऽपि रागः प्रायो विलीयते ॥ र्भ्र्स्_१,२।२५४ ॥
अनासक्तस्य विषयान् यथार्हम् उपयुञ्जतः ।
निर्बन्धः कृष्ण-सम्बन्धे युक्तं वैराग्यम् उच्यते ॥ र्भ्र्स्_१,२।२५५ ॥
प्रापञ्चिकतया बुद्ध्या हरि-सम्बन्धि-वस्तुनः ।
मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते ॥ र्भ्र्स्_१,२।२५६ ॥
प्रोक्तेन लक्षणेनैव भक्तिर् अधिकृतस्य च ।
अङ्गत्वे सुनिरस्ते ऽपि नित्याद्य्-अखिल-कर्मणां ॥ र्भ्र्स्_१,२।२५७ ॥
ज्नानस्याध्यात्मिकस्यापि वैरग्यस्य च फल्गुनः ।
स्पष्टतार्थं पुनर् अपि तद् एवेदं निराकृतं ॥ र्भ्र्स्_१,२।२५८ ॥
धन-शिष्यादिभिर् द्वारैर् या भक्तिर् उपपाद्यते ।
विदूरत्वाद् उत्तमता-हान्या तस्याश् च नाङ्गता ॥ र्भ्र्स्_१,२।२५९ ॥
विशेषणत्वम् एवैषां संश्रयन्त्य् अधिकारिणाम् ।
विवेकादीन्य् अतो ऽमीषाम् अपि नाङ्गत्वम् उच्यते ॥ र्भ्र्स्_१,२।२६० ॥
कृष्णोन्मुखं स्वयं यान्ति यमाः शौचादयस् तथा ।
इत्य् एषां च न युक्ता स्याद् भक्त्य्-अङ्गान्तर-पातिता ॥ र्भ्र्स्_१,२।२६१ ॥

यथा स्कान्दे–
एते न ह्य् अद्भुता व्याध तवाहिंसादयो गुणाः ।
हरि-भक्तौ प्रवृत्ता ये न ते स्युः पर-तापिनः ॥ र्भ्र्स्_१,२।२६२ ॥

तत्रैव–
अन्तः-शुद्धिर् बहिः-शुद्धिस् तपः-शान्त्य्-अदयस् तथा ।
अमी गुणाः प्रपद्यन्ते हरि-सेवाभिकामिनाम् ॥ र्भ्र्स्_१,२।२६३ ॥

सा भक्तिर् एक-मुख्याण्गाश्रितानैकाङ्गि काथ वा ।
स्ववासनानुसारेण निष्ठातः सिद्धि-कृद् भवेत् ॥ र्भ्र्स्_१,२।२६४ ॥

तत्र एकाङ्गा, यथा ग्रन्थान्तरे {*पद्यावली, ५३। अनोन्य्मोउस्}–
श्री विष्णोः श्रवणे परीक्षिद् अभवद् वैयासकिः कीर्तने
प्रह्लादः स्मरणे तद्-अङ्घ्रि-भजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस् त्व् अभिवन्दने कपि-पतिर् दास्ये ऽथ सख्ये ऽर्जुनः
सर्वस्वात्म-निवेदने बलिर् अभूत् कृष्णाप्तिर् एषां परा ॥ र्भ्र्स्_१,२।२६५ ॥

अनेकाङ्गा, यथा नवमे (९।४।१८-२०)–
स वै मनः कृष्ण-पदारविन्दयोर्
वचांसि वैकुण्ठ-गुणानुवर्णने ।
करौ हरेर् मन्दिर-मार्जनादिषु
श्रुतिं चकाराच्युत-सत्-कथोदये ॥ र्भ्र्स्_१,२।२६६ ॥

मुकुन्द-लिङ्गालय-दर्शने दृशौ
तद्-भृत्य-गात्र-स्पर्शे ऽङ्ग-सङ्गमम् ।
घ्राणं च तत्-पाद-सरोज-सौरभे
श्रीमत्-तुलस्या रसनां तद्-अर्पिते ॥ र्भ्र्स्_१,२।२६७ ॥
पादौ हरेः क्षेत्र-पदानुसर्पणे
शिरो हृषीकेश-पदाभिवन्दने ।
कामं च दास्ये न तु काम-काम्यया
यथोत्तमःश्लोक-जनाश्रय रतिः ॥ र्भ्र्स्_१,२।२६८ ॥

शास्त्रोक्तया प्रबलया तत्-तन्-मर्यादयान्विता ।
वैधि भक्तिर् इयं कैश्चन् मर्यादा-मार्ग उच्यते ॥ र्भ्र्स्_१,२।२६९ ॥

अथ रागानुगा–
विराजन्तीम् अभिव्यक्तां व्रज-वासी जनादिषु ।
रागात्मिकाम् अनुसृता या सा रागानुगोच्यते ॥ र्भ्र्स्_१,२।२७० ॥
रागानुगा-विवेकार्थम् आदौ रागात्मिकोच्यते ॥ र्भ्र्स्_१,२।२७१ ॥
इष्टे स्वारसिकी रागः परमाविष्टता भवेत् ।
तन्-मयी या भवेद् भक्तिः सात्र रागात्मिकोदिता ॥ र्भ्र्स्_१,२।२७२ ॥
सा कामरूपा सम्बन्ध-रूपा चेति भवेद् द्विधा ॥ र्भ्र्स्_१,२।२७३ ॥

तथा हि सप्तमे (७।१।२९-३०)–
कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।
आवेश्य तद् अघं हित्वा बहवस् तद्-गतिं गताः ॥ र्भ्र्स्_१,२।२७४ ॥
गोप्यः कामाद् भयात् कंसो द्वेषाच् चैद्यादयो नृपाः ।
सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ र्भ्र्स्_१,२।२७५ ॥
इति ॥

आनुकूल्य-विपर्यासाद् भीति-द्वेषौ पराहतौ ।
स्नेहस्य सख्य-वाचित्वाद् वैध-भक्त्य्-अनुवर्तिता ॥ र्भ्र्स्_१,२।२७६ ॥
किं वा प्रेमाभिधायित्वान् नोपयोगो ऽत्र साधने ।
भक्त्या वयम् इति व्यक्तं वैधी भक्तिर् उदीरिता ॥ र्भ्र्स्_१,२।२७७ ॥
यद्-अरीणां प्रियाणां च प्राप्यम् एकम् इवोदितम् ।
तद् ब्रह्म-कृष्णयोर् ऐक्यात् किरणार्कोपमा-जुषोः ॥ र्भ्र्स्_१,२।२७८ ॥
ब्रह्मण्य् एव लयं यान्ति प्रायेण रिपवो हरेः ।
केचित् प्राप्यापि सारूप्याभासं मज्जन्ति तत्-सुखे ॥ र्भ्र्स्_१,२।२७९ ॥

तथा च ब्रह्माण्ड पुराणे–
सिद्ध-लोकस् तु तमसः पारे यत्र वसन्ति हि ।
सिद्धा ब्रह्म-सुखे मग्ना दैत्याश् च हरिण हताः ॥ र्भ्र्स्_१,२।२८० ॥

राग-बन्धेन केनापि तं भजन्तो व्रजन्त्य् अमी ।
अङ्घ्रि-पद्म-सुधाः प्रेम-रूपास् तस्य प्रिया जनाः ॥ र्भ्र्स्_१,२।२८१ ॥
तथा हि श्री-दशमे (१०।८७।२३)–
निभृत-मरुन्-मनो ऽक्ष-दृढ-योग-युजो हृदि यन्
मुनय उपासते तद्-अरयो ऽपि ययुः स्मरणात् ।
स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः सम-दृशो ऽङ्घ्रि-सरोज-सुधाः ॥ र्भ्र्स्_१,२।२८२ ॥

तत्र रूपा–
सा कामरूपा सम्भोग-तृष्णां या नयति स्वताम् ।
यद् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः ॥ र्भ्र्स्_१,२।२८३ ॥
इयं तु व्रज-देवीषु सुप्रसिद्धा विराजते ।
आसां प्रेम-विशेषो ऽयं प्राप्तः काम् अपि माधुरीं ।
तत्-तत्-क्रीडा-निदानत्वात् काम इत्य् उच्यते बुधैः ॥ र्भ्र्स्_१,२।२८४ ॥

तथा च तन्त्रे–
प्रेमैव गोप-रामाणां काम इत्य् अगमत् प्रथाम् ॥ र्भ्र्स्_१,२।२८५ ॥

इत्य् उद्धवादयो ऽप्य् एतं वाञ्छति भगवत्-प्रियाः ॥ र्भ्र्स्_१,२।२८६ ॥
काम-प्राया रतिः किन्तु कुब्जायाम् एव सम्मता ॥ र्भ्र्स्_१,२।२८७ ॥

तत्र सम्बन्ध-रूपा–
सम्बन्ध-रूपा गोविन्दे पितृत्वाद्य्-आभिमानिता ।
अत्रोपलक्षणतया वृष्णीनां वल्लवा मताः ।
यदैश्य-ज्ञान-शून्यत्वाद् एषां रागे प्रधानता ॥ र्भ्र्स्_१,२।२८८ ॥
काम-सम्बन्ध-रूपे ते प्रेम-मात्र-स्वरूपके ।
नित्य-सिद्धाश्रयतया नात्र सम्यग् विचारिते ॥ र्भ्र्स्_१,२।२८९ ॥
रागात्मिकाया द्वैविध्याद् द्विधा रागानुगा च सा ।
कामानुगा च सम्बन्धानुगा चेति निगद्यते ॥ र्भ्र्स्_१,२।२९० ॥

तत्र अधिकारी–
रागात्मिकैक-निष्ठा ये व्रज-वासि-जनादयः ।
तेषां भावाप्तये लुब्धो भवेद् अत्राधिकारवान् ॥ र्भ्र्स्_१,२।२९१ ॥
तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते ।
नात्र शास्त्रं न युक्तिं च तल्-लोभोत्पत्ति-लक्षणम् ॥ र्भ्र्स्_१,२।२९२ ॥
वैध-भक्त्य्-अधिकारी तु भावाविर्भवनावधि ।
अत्र शास्त्रं तथा तर्कम् अनुकूलम् अपेक्षते ॥ र्भ्र्स्_१,२।२९३ ॥
कृष्णं स्मरन् जनं चास्य प्रेष्ठं निज-समीहितम् ।
तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा ॥ र्भ्र्स्_१,२।२९४ ॥
सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि ।
तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः ॥ र्भ्र्स्_१,२।२९५ ॥
श्रवणोत्कीर्तनादीनि वैध-भक्त्य्-उदितानि तु ।
यान्य् अङ्गानि च तान्य् अत्र विज्ञेयानि मनीषिभिः ॥ र्भ्र्स्_१,२।२९६ ॥

तत्र कामानुगा–
कामानुगा भवेत् तृष्णा काम-रूपानुगामिनी ॥ र्भ्र्स्_१,२।२९७ ॥
सम्भोगेच्छा-मयी तत्-तद्-भावेच्छात्मेति सा द्विधा ॥ र्भ्र्स्_१,२।२९८ ॥
केलि-तात्पर्यवत्य् एव सम्भोगेच्छा-मयी भवेत् ।
तद्-भावेच्छात्मिका तासाम् भाव-माधुर्य-कामिता ॥ र्भ्र्स्_१,२।२९९ ॥
श्री-मूर्तेर् माधुरीं प्रेक्ष्य तत्-तल्-लीलां निशम्य वा ।
तद्-भावाकाण्क्षिणो ये स्युस् तेषु साधनतानयोः ।
पुराणे श्रुयते पाद्मे पुंसम् अपि भवेद् इयम् ॥ र्भ्र्स्_१,२।३०० ॥

यथा–
पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ॥ र्भ्र्स्_१,२।३०१ ॥
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ र्भ्र्स्_१,२।३०२ ॥

रिरंसां सुष्ठु कुर्वन् यो विधि-मार्गेण सेवते ।
केवलेनैव स तदा महिषीत्वम् इयात् पुरे ॥ र्भ्र्स्_१,२।३०३ ॥

तथा च महा-कौर्मे–
अग्नि-पुत्रा महात्मानस् तपसा स्त्रीत्वम् आपिरे ।
भर्तारं च जगद्-योनिं वासुदेवम् अजं विभुम् ॥ र्भ्र्स्_१,२।३०४ ॥

अथ सम्बन्धानुगा–
सा सम्बन्धानुगा भक्तिः प्रोच्यते सद्भिर् आत्मनि ।
या पितृत्वादि-सम्बन्ध-मननारोपनात्मिका ॥ र्भ्र्स्_१,२।३०५ ॥
लुब्धैर् वात्सल्य-सख्यादौ भक्तिः कार्यात्र साधकैः ।
व्रजेन्द्र-सुबलादीनां भाव-चेष्टित-मुद्रया ॥ र्भ्र्स्_१,२।३०६ ॥
तथा हि श्रुयते शास्त्रे कश्चित् कुरुपुरी-स्थितः ।
नन्द-सूनोर् अधिष्ठानं तत्र पुत्रतया भजन् ।
नारदस्योपदेशेन सिद्धो ऽभूद् वृद्ध-वर्धकिः ॥ र्भ्र्स्_१,२।३०७ ॥

अतएव नारायण-व्यूह-स्तवे–
पति-पुत्र-सुहृद्-भ्रातृ-पितृवन् मैत्रवद् धरिम् ।
ये ध्यायन्ति सदोद्युक्तास् तेभ्यो ऽपीह नमो नमः ॥ र्भ्र्स्_१,२।३०८ ॥
कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभैक-हेतुका ।
पुष्टि-मार्गतया कैश्चिद् इयं रागानुगोच्यते ॥ र्भ्र्स्_१,२।३०९ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पुर्व-विभागे साधन-भक्ति-लहरी-द्वितिया ॥


[१।३]
अथ भावः

शुद्ध-सत्त्व-विशेषात्मा प्रेम-सूर्यांशु-साम्य-भाक् ।
रुचिभिश् चित्त-मासृण्य-कृद् असौ भाव उच्यते ॥ र्भ्र्स्_१,३।१ ॥

तथा हि तन्त्रे–
प्रेम्णस् तु प्रथमावस्था भाव इत्य् अभिधीयते ।
सात्त्विकाः स्वल्प-मात्राः स्युर् अत्राश्रु-पुलकादयः ॥ र्भ्र्स्_१,३।२ ॥

स यथा पद्म-पुराणे–
ध्यायं ध्यायं भगवतः पादाम्बुज-युगं तदा ।
ईषद्-विक्रियमाणात्मा सार्द्र-दृष्तिर् अभूद् असौ ॥ र्भ्र्स्_१,३।३ ॥

आविर्भूय मनो-वृत्तौ व्रजन्ति तत्-स्वरूपतां ।
स्वयं-प्रकाश-रूपापि भासमाना प्राकाश्यवत् ॥ र्भ्र्स्_१,३।४ ॥
वस्तुतः स्वयम् आस्वाद-स्वरूपैव रतिस् त्व् असौ ।
कृष्णादि-कर्मकास्वाद-हेतुत्वं प्रतिपद्यते ॥ र्भ्र्स्_१,३।५ ॥
साधनाभिनिवेशेन कृष्ण-तद्-भक्तयोस् तथा ।
प्रसादेनातिधन्यानां भावो द्वेधाभिजायते ।
आद्यस् तु प्रायिकस् तत्र द्वितीयो विरलोदयः ॥ र्भ्र्स्_१,३।६ ॥

तत्र साधनाभिनिवेश-जः
वैधी-रागानुगा-मार्ग-भेदेन परिकीर्तितः ।
द्विविधः खलु भावो ऽत्र साधनाभिनिवेशजः ॥ र्भ्र्स्_१,३।७ ॥
साधनाभिनिवेशस् तु तत्र निष्पादयन् रुचिम् ।
हराव् आसक्तिम् उत्पाद्य रतिं सञ्जनयत्य् असौ ॥ र्भ्र्स्_१,३।८ ॥

तत्र आद्यो (१।५।२६)–
तत्रान्वहं कृष्ण-कथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मे ऽनुपदं विशृण्वतः
प्रिय-श्रवस्य् अङ्ग ममाभवद् रतिः ॥ र्भ्र्स्_१,३।९ ॥ इति ।

रत्या तु भाव एवात्र न तु प्रेमाभिधीयते ।
मम भक्तिः प्रवृत्तेति वक्ष्यते स यद् अग्रतः ॥ र्भ्र्स्_१,३।१० ॥

यथा तत्रैव (१।५।२८)–
इत्थं शरत्-प्रावृषिकाव् ऋतू हरेर्
विशृण्वतो मे ऽनुसवं यशो ऽमलम् ।
सङ्कीर्त्यमानं मुनिभिर् महात्मभिर्
भक्तिः प्रवृत्तात्म रजस्-तमोपहा ॥ र्भ्र्स्_१,३।११ ॥

तृतीये च (३।२५।२५)–
सतां प्रसङ्गान् मम वीर्य-संविदो
भवन्ति हृत्-कर्ण-रसायनाः कथाः ।
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि
श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ र्भ्र्स्_१,३।१२ ॥

पुराणे नात्य-शास्त्रे च द्वयोस् तु रति-भावयोः ।
समानार्थतया ह्य् अत्र द्वयम् ऐक्येन लक्षितम् ॥ र्भ्र्स्_१,३।१३ ॥

द्वितीयो, यथा पाद्मे–
इत्थं मनोरथं बाला कुर्वती नृत्य उत्सुका ।
हरि-प्रीत्या च तां सर्वां रात्रिम् एवात्यवाहयत् ॥ र्भ्र्स्_१,३।१४ ॥

अथ श्रि-कृष्ण-तद्-भक्त-प्रसादजः
साधनेन विना यस् तु सहसैवाभिजायते ।
स भावः कृष्ण-तद्-भक्त-प्रसादज इतीयते ॥ र्भ्र्स्_१,३।१५ ॥

अथ श्री-कृष्ण-प्रसादजः–
प्रसादा वाचिकालोक-दान-हार्दादयो हरेः ॥ र्भ्र्स्_१,३।१६ ॥

तत्र वाचिक-प्रसादजः, यथा नारदीये–
सर्व-मण्गल-मूर्धन्या पूर्णानन्द-मयी सदा ।
द्विजेन्द्र तव मय्य् अस्तु भक्तिर् अव्याभिचारिणी ॥ र्भ्र्स्_१,३।१७ ॥
आलोक-दानजः, यथा स्कान्दे–
अदृष्ट-पूर्वम् आलोक्य कृष्णं जाङ्गल-वासिनः ।
विक्लिद्यद्-अन्तरात्मनो दृष्टिं नाक्रष्टुम् ईशिरे ॥ र्भ्र्स्_१,३।१८ ॥

हार्दः–
प्रसाद आन्तरो यः स्यात् स हार्द इति कथ्यते ॥ र्भ्र्स्_१,३।१९ ॥

यथा शुक-संहितायां–
महाभागवतो जातः पुत्रस् ते बादरायण ।
विनोपायैर् उपेयाभूद् विष्णु-भक्तिर् इहोदिता ॥ र्भ्र्स्_१,३।२० ॥

अथ तद्-भक्त-प्रसादजः, यथा सप्तमे (७।४।३६)–
गुणैर् अलम् असङ्ख्येयैर् महात्म्यं तस्य सूच्यते ।
वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ र्भ्र्स्_१,३।२१ ॥

नारदस्य प्रसादेन प्रह्लादे शुध-वासना ।
निसर्गः सैव तेनात्र रतिर् नैसर्गिकी मता ॥ र्भ्र्स्_१,३।२२ ॥

स्कान्दे च–
अहो धन्यो ऽसि देवर्षे कृपया यस्य तत्-क्षणात् ।
नीचो ऽप्य् उत्पुलको लेभे लुब्धको रतिम् अच्युते ॥ र्भ्र्स्_१,३।२३ ॥

भक्तानां भेदतः सेयं रतिः पञ्च-विधा मता ।
अग्रे विविच्य वक्तव्या तेन नात्र प्रपञ्च्यते ॥ र्भ्र्स्_१,३।२४ ॥
क्षान्तिर् अव्यर्थ-कालत्वं विरक्तिर् मान-शुन्यता ।
आशा-बन्धः समुत्कण्ठा नाम-गाने सदा रुचिः ॥ र्भ्र्स्_१,३।२५ ॥
आसक्तिस् तद्-गुणाख्याने प्रीतिस् तद्-वसति-स्थले ।
इत्य् आदयो ऽनुभावाः स्युर् जात-भावाङ्कुरे जने ॥ र्भ्र्स्_१,३।२६ ॥

तत्र क्षान्तिः–
क्षोभ-हेताव् अपि प्राप्ते क्षान्तिर् अक्षुभितात्मता ॥ र्भ्र्स्_१,३।२७ ॥

यथा प्रथमे (१।१९।१५)–
तं मोपयातं प्रतियन्तु विप्रा
गङ्गा च देवी धृत-चित्तम् ईशे ।
द्विजोपसृष्टः कुहकस् तक्षको वा
दशत्व् अलं गायत विष्णु-गाथाः ॥ र्भ्र्स्_१,३।२८ ॥

अथ अव्यार्थ-कालत्वम्, यथा हरि-भक्ति-सुधोदये–
वाग्भिः स्तुवन्तो मनसा स्मरन्तस्
तन्वा नमन्तो ऽप्य् अनिशं न तृप्ताः ।
भक्ताः स्रवन्-नेत्र-जलाः समग्रम्
आयुर् हरेर् एव समर्पयन्ति ॥ र्भ्र्स्_१,३।२९ ॥

अथ विरक्तिः–
विरक्तिर् इन्द्रियार्थानां स्याद् अरोचकता स्वयं ॥ र्भ्र्स्_१,३।३० ॥

यथा पञ्चमे (५।१४।४३)–
यो दुस्त्यजान् दार-सुतान् सुहृद् राज्यं हृदि-स्पृशः ।
जहौ युवैव मलवद् उत्तमःश्लोक-लालसः ॥ र्भ्र्स्_१,३।३१ ॥

अथ मान-शून्यता–
उत्कृष्टत्वे ऽप्य् अमानित्वं कथिता मान-शून्यता ॥ र्भ्र्स्_१,३।३२ ॥

यथा पाद्मे–
हरौ रतिं वहन्न् एष नरेन्द्राणां शिखा-मणिः ।
भिक्षाम् अटन्न् अरि-पुरे श्वपाकम् अपि वन्दते ॥ र्भ्र्स्_१,३।३३ ॥

अथ आशा-बन्धः–
आशा-बन्धो भगवतः प्राप्ति-सम्भावना दृढा ॥ र्भ्र्स्_१,३।३४ ॥

यथा श्रीमत्-प्रभुपादानां–
न प्रेमा श्रवणादि-भक्तिर् अपि वा योगो ऽथवा वैष्णवो
ज्ञानं वा शुभ-कर्म वा कियद् अहो सज्-जातिर् अप्य् अस्ति वा ।
हीनार्थाधिक-साधके त्वयि तथाप्य् अच्छेद्य-मूला सती
हे गोपी-जन-वल्लभ व्यथयते हा हा मद्-आशैव माम् ॥ र्भ्र्स्_१,३।३५ ॥

अथ समुत्कण्ठा–
समुत्कण्ठा निजाभीष्ट-लाभाय गुरु-लुब्धता ॥ र्भ्र्स्_१,३।३६ ॥

अथ कृष्ण-कर्णामृते (५४)–
आनम्राम् असित-भ्रुवोर् उपचितम् अक्षीण-पक्ष्माङ्कुरेष्व्
आलोलाम् अनुरागिणोर् नयनयोर् आर्द्रां मृदौ जल्पिते ।
आताम्राम् अधरामृते मद-कलाम् अम्लान वंशी-स्वनेष्व्
आशास्ते मम लोचनं व्रज-शिशोर्-मूर्तिं जगन्-मोहिनीम् ॥ र्भ्र्स्_१,३।३७ ॥

अथ नाम-गाने सदा रुचिः, यथा–
रोदन-बिन्दु-मरन्द-स्यन्दि-दृग्-इन्दीवराद्य गोविन्द ।
तव मधुर-स्वर-कण्ठी गायति नामावलीं बाला ॥ र्भ्र्स्_१,३।३८ ॥

तद्-गुणाख्याने आसाक्तिः, यथा कृष्ण-कर्णामृते (८८)–
माधुर्याद् अपि मधुरं
मन्मथता तस्य किम् अपि कैशोरम् ।
चपल्याद् अपि चपलं
चेतो बत हरति हन्त किं कुर्मः ॥ र्भ्र्स्_१,३।३९ ॥

तद् वसति-स्थले प्रीतिः, यथा पद्यावल्याम् {*नोत् फ़ोउन्द् इन् म्य् एदितिओन्।}–
अत्रासीत् किल नन्द-सद्म शकटस्यात्राभवद् भञ्जनं
बन्ध-च्छेद-करो ऽपि दामभिर् अभूद् बद्धो ऽत्र दामोदरः ।
इत्थं माथुर-वृद्ध-वक्त्र-विगलत्-पीयूष-धारां पिबन्न्
आनन्दाश्रु-धरः कदा मधु-पुरीं धन्यश् चरिष्याम्य् अहम् ॥ र्भ्र्स्_१,३।४० ॥

अपि च–
व्यक्तं मसृणितेवान्तर् लक्ष्यते रति-लक्षणम् ।
मुमुक्षु-प्रभृतीनां चेद् भवेद् एषा रतिर् न हि ॥ र्भ्र्स्_१,३।४१ ॥
विमुक्ताखिल-तर्षैर् या मुक्तिर् अपि विमृग्यते ।
या कृष्णेनातिगोप्याशु भजद्भ्यो ऽपि न दीयते ॥ र्भ्र्स्_१,३।४२ ॥
सा भुक्ति-मुक्ति-कामत्वाच् छुद्धां भक्तिम् अकुर्वताम् ।
हृदये सम्भवत्य् एषां कथं भागवती रतिः ॥ र्भ्र्स्_१,३।४३ ॥
किन्तु बाल-चमत्कार-करी तच्-चिह्न-वीक्षया ।
अभिज्ञेन सुबोधो ऽयं रत्य्-आभासः प्रकीर्तितः ॥ र्भ्र्स्_१,३।४४ ॥
प्रतिबिम्बस् तथा च्छाया रत्य्-आभासो द्विधा मतः ॥ र्भ्र्स्_१,३।४५ ॥

तत्र प्रतिबिम्बः–
अश्रमाभीष्ट-निर्वाही रति-लक्षण-लक्षितः ।
भोगापवर्ग-सौख्यांश-व्यञ्जकः प्रतिबिम्बकः ॥ र्भ्र्स्_१,३।४६ ॥
दैवात् सद्-भक्त-सङ्गेन कीर्तनाद्य्-अनुसारिणाम् ।
प्रायः प्रसन्न-मनसां भोग-मोक्षादि रागिणाम् ॥ र्भ्र्स्_१,३।४७ ॥
केषाञ्चित् हृदि भावेन्दोः प्रतिबिम्ब उदञ्चति ।
तद्-भक्त-हृन्-नभः-स्थस्य तत्-संसर्ग-प्रभावतः ॥ र्भ्र्स्_१,३।४८ ॥

अथ छाया–
क्षुद्र-कौतूहल-मयी चञ्चला दुःख-हारिणी ।
रतेश् छाया भवेत् किञ्चित् तत्-सादृश्यावलम्बिनी ॥ र्भ्र्स्_१,३।४९ ॥
हरि-प्रिय-क्रिया-काल-देश-पात्रादि-सङ्गमात् ।
अप्य् आनुषङ्गिकाद् एष क्वचिद् अज्ञेष्व् अपीक्ष्यते ॥ र्भ्र्स्_१,३।५० ॥
किन्तु भाग्यं विना नासौ भाव-च्छायाप्य् उदञ्चति ।
यद् अभ्युदयतः क्षेमं तत्र स्याद् उत्तरोत्तरम् ॥ र्भ्र्स्_१,३।५१ ॥
हरि-प्रिय-जनस्यैव प्रसाद-भर-लाभतः ।
भावाभासो ऽपि सहसा भावत्वम् उपगच्छति ॥ र्भ्र्स्_१,३।५२ ॥
तस्मिन्न् एवापराधेन भावाभासो ऽप्य् अनुत्तमः ।
क्रमेण क्षयम् आप्नोति ख-स्थः पूर्ण-शशी यथा ॥ र्भ्र्स्_१,३।५३ ॥

किं च–
भावो ऽप्य् अभावम् आयाति कृष्ण-प्रेष्ठापराधतः ।
आभासतां च शनकैर् न्यून-जातीयताम् अपि ॥ र्भ्र्स्_१,३।५४ ॥
गाढासङ्गात् सदायाति मुमुक्षौ सुप्रतिष्ठिते ।
आभासताम् असौ किं वा भजनीयेश-भावताम् ॥ र्भ्र्स्_१,३।५५ ॥
अत एव क्वचित् तेषु नव्य-भक्तेषु दृश्यते ।
क्षणम् ईश्वर-भावो ऽयं नृत्यादौ मुक्ति-पक्षगः ॥ र्भ्र्स्_१,३।५६ ॥
साधनेक्षां विना यस्मिन्न् अकस्माद् भाव ईक्ष्यते ।
विघ्न-स्थगितम् अत्रोह्यं प्राग्-भवीयं सुसाधनं ॥ र्भ्र्स्_१,३।५७ ॥
लोकोत्तर-चमत्कार-कारकः सर्व-शक्तिदः ।
यः प्रथीयान् भवेद् भावः स तु कृष्ण-प्रसादजः ॥ र्भ्र्स्_१,३।५८ ॥
जने चेज् जात-भावे ऽपि वैगुण्यम् इव दृश्यते ।
कार्या तथापि नासूया कृतार्थः सर्वथैव सः ॥ र्भ्र्स्_१,३।५९ ॥

यथा नारसिंहे–
भगवति च हराव् अनन्य-चेता
भृशम् अलिनो ऽपि विराजते मनुष्यः ।
न हि शश-कलुष-च्छविः कदाचित्
तिमिर-पराभवताम् उपैति चन्द्रः ॥ र्भ्र्स्_१,३।६० ॥

रतिर् अनिश-निसर्गोष्ण-प्रबलतरानन्द-पूर-रूपैव ।
उष्माणम् अपि वमन्ती सुधांशु-कोटेर् अपि स्वाद्वी ॥ र्भ्र्स्_१,३।६१ ॥

इति श्री-श्री भक्ति-रसामृत-सिन्धौ
पुर्व-विभागे भाव-भक्ति-लहरी तृतीया ॥


[१।४]
अथ प्रेमा

सम्यङ्-मसृणित-स्वान्तो ममत्वातिशयाङ्कितः ।
भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥ र्भ्र्स्_१,४।१ ॥

यथा पञ्चरात्रे–
अनन्य-ममता विष्णौ ममता प्रेम-सङ्गता ।
भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः ॥ र्भ्र्स्_१,४।२ ॥

भक्तिः प्रेमोच्यते भीष्म-मुख्यैर् यत्र तु सङ्गता ।
ममतान्य-ममत्वेन वर्जितेत्य् अत्र योजना ॥ र्भ्र्स्_१,४।३ ॥
भावोत्थो ऽति-प्रसादोत्थः श्री-हरेर् इति स द्विधा ॥ र्भ्र्स्_१,४।४ ॥

तत्र भावोत्थः–
भाव एवान्तर्-अङ्गाणम्-अङ्गानाम्-अनुसेवया ।
आरूढः परम-उत्कर्षम् भाव-उत्तः परिकीर्तितः ॥ र्भ्र्स्_१,४।५ ॥

तत्र वैध-भावोत्थो, यथैकादशे (११।२।४०)–
एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या
जातानुरागो द्रुत-चित्त उच्चैः ।
हसत्य् अथो रोदिति रौति गायत्य्
उन्मादवन् नृत्यति लोक-बाह्यः ॥ र्भ्र्स्_१,४।६ ॥

रागानुगीय-भावोत्थो, यथा पाद्मे–
न पतिं कामयेत् कञ्चिद् ब्रह्मचर्य-स्थिता सदा ।
तम्-एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर्-वरानना ॥ र्भ्र्स्_१,४।७ ॥
श्री-कृष्ण-गाथां गायन्ती रोमाण्चोद्भेद-लक्षणा ।
अस्मिन्-मन्वन्तरे स्निग्धा श्री-कृष्ण-प्रिय-वर्तया ॥ र्भ्र्स्_१,४।८ ॥

अथ हरेर् अतिप्रसादोत्थः–
हरेर् अतिप्रसादो ऽयं सङ्ग-दानादिर् आत्मनः ॥ र्भ्र्स्_१,४।९ ॥

यथैकादशे (११।१२।७)–
ते नाधीत-श्रुति-गणा नोपासित-महत्तमाः ।
अव्रतातप्त-तपसः मत्-सङ्गान् माम् उपागताः ॥ र्भ्र्स्_१,४।१० ॥

माहात्म्य-ज्ञान-युक्तश् च केवलश् चेति स द्विधा ॥ र्भ्र्स्_१,४।११ ॥
अथ आद्यो, यथा पञ्चरात्रे–
माहात्म्य-ज्ञान-युक्तस् तु सुदृढः सर्वतो ऽधिकः ।
स्नेहो भक्तिर् इति प्रोक्तस् तया सार्ष्ट्यादिनान्यथा ॥ र्भ्र्स्_१,४।१२ ॥

केवलो, यथा तत्रैव–
मनोगतिर् अविच्छिन्ना हरौ प्रेम-परिप्लुता ।
अभिसन्धि-विनिर्मुक्ता भक्तिर्-विष्णु-वशङ्करी ॥ र्भ्र्स्_१,४।१३ ॥ इति ।

महिम-ज्ञान-युक्तः स्याद् विधि-मार्गानुसारिणाम् ।
रागानुगाश्रितानां तु प्रायशः केवलो भवेत् ॥ र्भ्र्स्_१,४।१४ ॥

आदौ श्रद्धा ततः साधु-सङ्गो ऽथ भजन-क्रिया ।
ततो ऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा रुचिस् ततः ॥ र्भ्र्स्_१,४।१५ ॥
अथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति ।
साधकानाम् अयं प्रेम्नः प्रादुर्भावे भवेत् क्रमः ॥ र्भ्र्स्_१,४।१६ ॥
धन्यस्यायं नवः प्रेमा यस्योन्मीलति चेतसि ।
अन्तर्वाणीभिर् अप्य् अस्य मुद्रा सुष्ठु सुदुर्गमा ॥ र्भ्र्स्_१,४।१७ ॥

अतएव श्री-नारद-पञ्चरात्रे, यथा–
भावोन्मत्तो हरेः किञ्चिन् न वेद सुखम् आत्मनः ।
दुखं चेति महेशानि परमानन्द आप्लुतः ॥ र्भ्र्स्_१,४।१८ ॥

प्रेम्ण एव विलासत्वाद् वैरल्यात् साधकेष्व् अपि ।
अत्र स्नेहादयो भेदा विविच्य न हि शंसिताः ॥ र्भ्र्स्_१,४।१९ ॥

श्रीमत्-प्रभुपदाम्भोजैः सर्वा भागवतामृते ।
व्यक्तीकृतास्ति गूढापि भक्ति-सिद्धान्त-माधुरी ॥ र्भ्र्स्_१,४।२० ॥
गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी ।
तुष्यतु सनातनात्मा प्रथम-विभागे सुधाम्बु-निधेः ॥ र्भ्र्स्_१,४।२१ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पूर्व-विभागे प्रेम-भक्ति-लहरी-चतुर्थी

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
रसोपयोगि-स्थायि-भावोपपादनो नाम
पूर्वविभागः समाप्तः


[२]

सामान्य-भगवद्-भक्ति-रस-निरूपको

दक्षिण-विभागः

[२।१]
विभावाख्या
प्रथम-लहरी

प्रबलम् अनन्य-श्रयिणा निषेवितः सहज-रूपेण ।
अघ-दमनो मथुरायां सदा सनातन-तनुर् जयति ॥ र्भ्र्स्_२,१।१ ॥
रसामृताब्धेर् भागे ऽस्मिन् द्वितीये दक्षिणाभिधे ।
सामान्य-भगवद्-भक्ति-रसस् तावद् उदीर्यते ॥ र्भ्र्स्_२,१।२ ॥
अस्य पञ्च लहर्यः स्युर् विभावाख्याग्रिमा मता ।
द्वितीया त्व् अनुभावाख्या तृतीया सात्त्विकाभिधा ।
व्यभिचार्य्-अभिधा तुर्या स्थायि-सञ्ज्ञा च पञ्चमी ॥ र्भ्र्स्_२,१।३ ॥

अथास्याः केशव-रतेर् लक्षिताया निगद्यते ।
सामग्री-परिपोषेन परमा रस-रूपता ॥ र्भ्र्स्_२,१।४ ॥
विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ।
स्वाद्यत्वं हृदि भक्तानाम् आनीता श्रवणादिभिः ।
एषा कृष्ण-रतिः स्थायी भावो भक्ति-रसो भवेत् ॥ र्भ्र्स्_२,१।५ ॥
प्राक्तन्य् आधुनिकी चास्ति यस्य सद्-भक्ति-वासना ।
एष भक्ति-रसास्वादस् तस्यैव हृदि जायते ॥ र्भ्र्स्_२,१।६ ॥
भक्ति-निर्धूत-दोषाणां प्रसन्नोज्ज्वल-चेतसाम् ।
श्री-भागवत-रक्तानां रसिकासङ्ग-रङ्गिणाम् ॥ र्भ्र्स्_२,१।७ ॥
जीवनी-भूत-गोविन्द-पाद-भक्ति-सुख-श्रियाम् ।
प्रेमान्तरङ्ग-भूतानि कृत्यान्य् एवानुतिष्ठताम् ॥ र्भ्र्स्_२,१।८ ॥
भक्तानां हृदि राजन्ती संस्कार-युगलोज्ज्वला ।
रतिर् आनन्द-रूपैव नीयमाना तु रस्यताम् ॥ र्भ्र्स्_२,१।९ ॥

कृष्णादिभिर् विभावाद्यैर् गतैर् अनुभवाध्वनि ।
प्रौढानन्द-चमत्कार-काष्ठाम् आपद्यते पराम् ॥ र्भ्र्स्_२,१।१० ॥
किन्तु प्रेमा विभावाद्यैः स्वल्पैर् नीतो ऽप्य् अणीयसीम् ।
विभावनाद्य्-अवस्थां तु सद्य आस्वाद्यतां व्रजेत् ॥ र्भ्र्स्_२,१।११ ॥

अत्र विभावादि-सामान्य-लक्षणम्–
ये कृष्ण-भक्त-मुरली-नादाद्या हेतवो रतेः ।
कार्य-भूताः स्मिताद्याश् च तथाष्टौ स्तब्धतादयः ॥ र्भ्र्स्_२,१।१२ ॥
निर्वेदाद्याः सहायाश् च ते ज्ञेया रस-भावने ।
विभावा अनुभावाश् च सात्त्विका व्यभिचारिणः ॥ र्भ्र्स्_२,१।१३ ॥

तत्र विभावाः–
तत्र ज्ञेया विभावास् तु रत्य्-आस्वादन-हेतवः ।
ते द्विधालम्बना एके तथैवोद्दीपनाः परे ॥ र्भ्र्स्_२,१।१४ ॥

तद् उक्तम् अग्नि-पुराणे (अलङ्कार-विभाग, ३।३५)–
विभाव्यते हि रत्य्-आदिर् यत्र येन विभाव्यते ।
विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥ र्भ्र्स्_२,१।१५ ॥

तत्र आलम्बनाः–
कृष्णश् च कृष्ण-भक्ताश् च बुधैर् आलम्बना मताः ।
रत्य्-आदेर् विषयत्वेन तथाधारतयापि च ॥ र्भ्र्स्_२,१।१६ ॥

तत्र श्री-कृष्णः–
नायकानां शिरो-रत्नं कृष्णस् तु भगवान् स्वयम् ।
यत्र नित्यतया सर्वे विराजन्ते महा-गुणाः ।
सो ऽन्यरूप-स्वरूपाभ्याम् अस्मिन्न् आलम्बनो मतः ॥ र्भ्र्स्_२,१।१७ ॥

तत्र अन्य-रूपेण, यथा–
हन्त मे कथम् उदेति स-वत्से, वत्स-पाल-पटले रतिर् अत्र ।
इत्य् अनिश्चित-मतिर् बलदेवो, विस्मय-स्तिमित-मूर्तिर् इवासीत् ॥ र्भ्र्स्_२,१।१८ ॥

अथ स्वरूपम्–
आवृतं प्रकटं चेति स्वरूपं कथितं द्विधा ॥ र्भ्र्स्_२,१।१९ ॥

तत्र आवृतम्–
अन्य-वेशादिनाच्छन्नं स्वरूपं प्रोक्तम् आवृतम् ॥ र्भ्र्स्_२,१।२० ॥

तेन, यथा–
मां स्नेहयति किम् उच्चैर्, महिलेयं द्वारकावरोधे ऽत्र ।
आं विदितं कुतुकार्थी, वनिता-वेशो हरिश् चरति ॥ र्भ्र्स्_२,१।२१ ॥

प्रकट-स्वरूपेण, यथा–
अयं कम्बु-ग्रीवः कमल-कमनीयाक्षि-पटिमा
तमाल-श्यामाङ्ग-द्युतिर् अतितरां छत्रित-शिराः ।
दर-श्री-वत्साङ्कः स्फुरद्-अरि-दराद्य्-अङ्कित-करः
करोत्य् उच्चैर् मोदं मम मधुर-मूर्तिर् मधुरिपुः ॥ र्भ्र्स्_२,१।२२ ॥

अथ तद्-गुणाः–
अयं नेता सुरम्याङ्गः सर्व-सल्-लक्षणान्वितः ।
रुचिरस् तेजसा युक्तो बलीयान् वयसान्वितः ॥ र्भ्र्स्_२,१।२३ ॥
विविधाद्भुत-भाषा-वित् सत्य-वाक्यः प्रियं वदः ।
वावदूकः सुपाण्डित्यो बुद्धिमान् प्रतिभान्वितः ॥ र्भ्र्स्_२,१।२४ ॥
विदग्धश् चतुरो दक्षः कृतज्ञः सुदृढ-व्रतः ।
देश-काल-सुपात्रज्ञः शास्त्र-चक्षुः शुचिर् वशी ॥ र्भ्र्स्_२,१।२५ ॥
स्थिरो दान्तः क्षमा-शीलो गम्भीरो धृतिमान् समः ।
वदान्यो धार्मिकः शूरः करुणो मान्य-मानकृत् ॥ र्भ्र्स्_२,१।२६ ॥
दक्षिणो विनयी ह्रीमान् शरणागत-पालकः ।
सुखी भक्त-सुहृत् प्रेम-वश्यः सर्व-शुभङ्करः ॥ र्भ्र्स्_२,१।२७ ॥
प्रतापी कीर्तिमान् रक्त-लोकः साधु-समाश्रयः ।
नारी-गण-मनोहारी सर्वाराध्यः समृद्धिमान् ॥ र्भ्र्स्_२,१।२८ ॥
वरीयान् ईश्वरश् चेति गुणास् तस्यानुकीर्तिताः ।
समुद्रा इव पञ्चाशद् दुर्विगाहा हरेर् अमी ॥ र्भ्र्स्_२,१।२९ ॥
जीवेषु एते वसन्तो ऽपि बिन्दु-बिन्दुतया क्वचित् ।
परिपूर्णतया भान्ति तत्रैव पुरुषोत्तमे ॥ र्भ्र्स्_२,१।३० ॥

तथा हि पाद्मे पार्वत्यै शिति-कण्ठेन तद्-गुणाः ।
कन्दर्प-कोटि-लावण्य इत्य् आद्याः परिकीर्तिताः ॥ र्भ्र्स्_२,१।३१ ॥
एत एव गुणाः प्रायो धर्माय वन-मालिनः ।
पृथिव्या प्रथम-स्कन्धे प्रथयाञ्चक्रिरे स्फुटम् ॥ र्भ्र्स्_२,१।३२ ॥

यथा प्रथमे (१।१६।२७-३०)–
सत्यं शौचं दया क्षान्तिस् त्यागः सन्तोष आर्जवम् ।
शमो दमस् तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ र्भ्र्स्_२,१।३३ ॥
ज्ञानं विरक्तिर् ऐश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिर् धैर्यं मार्दवम् एव च ॥ र्भ्र्स्_२,१।३४ ॥
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर् मानो ऽनहङ्कृतिः ॥ र्भ्र्स्_२,१।३५ ॥
इमे चान्ये च भगवन् नित्या यत्र महा-गुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥ र्भ्र्स्_२,१।३६ ॥

अथ पञ्च-गुणा ये स्युर् अंशेन गिरिशादिषु ॥ र्भ्र्स्_२,१।३७ ॥
सदा स्वरूप-सम्प्राप्तः सर्व-ज्ञो नित्य-नूतनः ।
सच्-चिद्-आनन्द-सान्द्राङ्गः सर्व-सिद्धि-निषेवितः ॥ र्भ्र्स्_२,१।३८ ॥
अथोच्यन्ते गुणाः पञ्च ये लक्ष्मीशादि-वर्तिनः ।
अविचिन्त्य-महा-शक्तिः कोटि-ब्रह्माण्ड-विग्रहः ॥ र्भ्र्स्_२,१।३९ ॥
अवतारावली-बीजं हतारि-गति-दायकः ।
आत्माराम-गणाकर्षीत्य् अमी कृष्णे किलाद्भुताः ॥ र्भ्र्स्_२,१।४० ॥
सर्वाद्भुत-चमत्कार- लीला-कल्लोल-वारिधिः ।
अतुल्य-मधुर-प्रेम-मण्डित-प्रिय-मण्डलः ॥ र्भ्र्स्_२,१।४१ ॥
त्रिजगन्-मानसाकर्षि-मुरली-कल-कूजितः ।
असमानोर्ध्व-रूप-श्री-विस्मापित-चराचरः ॥ र्भ्र्स्_२,१।४२ ॥
लीला-प्रेम्णा प्रियाधिक्यं माधुर्यं वेणु-रूपयोः ।
इत्य् असाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥ र्भ्र्स्_२,१।४३ ॥
एवं गुणाश् चतुर्-भेदाश् चतुः-षष्टिर् उदाहृताः ।
सोदाहरणम् एतेषां लक्षणं क्रियते क्रमात् ॥ र्भ्र्स्_२,१।४४ ॥

तत्र (१) सुरम्याङ्गः–
श्लाघ्याङ्ग-सन्निवेशो यः सुरम्याङ्गः स कथ्यते ॥ र्भ्र्स्_२,१।४५ ॥

यथा–
मुखं चन्द्राकारं करभ-निभम् उरु-द्वयम् इदं
भुजौ स्तम्भारम्भौ सरसिज-वरेण्यं कर-युगम् ।
कवाटाभं वक्षः-स्थलम् अविरलं श्रोणि-फलकं
परिक्षामो मध्यः स्फुरति मुरहन्तुर् मधुरिमा ॥ र्भ्र्स्_२,१।४६ ॥

(२) सर्व-सल्-लक्षणान्वितः–
तनौ गुणोत्थम् अङ्कोत्थम् इति सल्-लक्षणं द्विधा ॥ र्भ्र्स्_२,१।४७ ॥

तत्र गुणोत्थम्–
गुणोत्थं स्याद् गुणैर् योगो रक्तता-तुङ्गतादिभिः ॥ र्भ्र्स्_२,१।४८ ॥

यथा–
रागः सप्तसु हन्त षट्स्व् अपि शिशोर् अङ्गेष्व् अलं तुङ्गता
विसारस् त्रिषु खर्वता त्रिषु तथा गम्भीरता च त्रिषु ।
दैर्घ्यं पञ्चसु किं च पञ्चसु सखे सम्प्रेक्ष्यते सूक्ष्मता
द्वात्रिंशद्-वर-लक्षणः कथम् असौ गोपेषु सम्भाव्यते ॥ र्भ्र्स्_२,१।४९ ॥

अङ्कोत्थम्–
रेखामयं रथाङ्गादि स्याद् अङ्कोत्थं करादिषु ॥ र्भ्र्स्_२,१।५० ॥

यथा–
करयोः कमलं तथा रथाङ्गं
स्फुट-रेखामयम् आत्मजस्य पश्य ।
पद-पल्लवयोश् च वल्लवेन्द्र
ध्वज-वज्राङ्कुश-मीन-पङ्कजानि ॥ र्भ्र्स्_२,१।५१ ॥

(३) रुचिरः–
सौन्दर्येण दृग्-आनन्द-कारी रुचिर उच्यते ॥ र्भ्र्स्_२,१।५२ ॥

यथा तृतीये (भा।पु। ३।२।१३)–
यद् धर्म-सूनोर् बत राजसूये
निरीक्ष्य दृक्-स्वस्त्ययनं त्रि-लोकः ।
कार्त्स्न्येन चाद्येह गतं विधातुर्
अर्वाक्-सृतौ कौशलम् इत्य् अमन्यत ॥ र्भ्र्स्_२,१।५३ ॥

यथा वा–
अष्टानां दनुजभिद्-अङ्ग-पङ्कजानाम्
एकस्मिन् कथम् अपि यत्र बल्लवीनाम् ।
लोलाक्षि-भ्रमर-ततिः पपात तस्मान्
नोत्थातुं द्युति-मधु-पङ्किलात् क्षमासीत् ॥ र्भ्र्स्_२,१।५४ ॥

(४) तेजसा युक्तः
तेजो धाम प्रभावश् चेत्य् उच्यते द्विविधं बुधैः ॥ र्भ्र्स्_२,१।५५ ॥

तत्र धाम–
दीप्ति-राशिर् भवेद् धाम ॥ र्भ्र्स्_२,१।५६ ॥

यथा–
अम्बर-मणि-निकुरम्बं विडम्बयन्न् अपि मरीचि-कुलैः ।
हरि-वक्षसि रुचि-निविडे मणिराड् अयम् उडुर् इव स्फुरति ॥ र्भ्र्स्_२,१।५७ ॥

प्रभावः–
प्रभावः सर्वजित्-स्थितिः ॥ र्भ्र्स्_२,१।५८ ॥

यथा–
दूरतस् तम् अवलोक्य माधवं
कोमलाङ्गम् अपि रङ्ग-मण्डले ।
पर्वतोद्भट-भुजान्तरो ऽप्य् असौ
कंस-मल्ल-निवहः स विव्यथे ॥ र्भ्र्स्_२,१।५९ ॥

(५) बलीयान्–
प्राणेन महता पूर्णो बलीयान् इति कथ्यते ॥ र्भ्र्स्_२,१।६० ॥

यथा–
पश्य विन्ध्य-गिरितो ऽपि गरिष्ठं
दैत्य-पुङ्गवम् उदग्रम् अरिष्टम् ।
तुल-खण्डम् इव पिण्डितम् आरात्
पुण्डरीक-नयनो विनुनोद ॥ र्भ्र्स्_२,१।६१ ॥

यथा वा–
वामस् तामरसाक्षस्य भुज-दण्डः स पातु वः ।
क्रीडा-कन्दुकतां येन नीतो गोवर्धनो गिरिः ॥ र्भ्र्स्_२,१।६२ ॥

(६) वयसान्वितः–
वयसो विविधत्वे ऽपि सर्व-भक्ति-रसाश्रयः ।
धर्मी किशोर एवात्र नित्य-नाना-विलासवान् ॥ र्भ्र्स्_२,१।६३ ॥

यथा–
तदात्वाभिव्यक्तीकृत-तरुणिमारम्भ-रभसं
स्मित-श्री-निर्धूत-स्फुरद्-अमल-राका-पति-मदम् ।
दरोदञ्चत्-पञ्चाशुग-नव-कला-मेदुरम् इदं
मुरारेर् माधुर्यं मनसि मदिराक्षीर् मदयति ॥ र्भ्र्स्_२,१।६४ ॥

(७) विविधाद्भुत-भाषावित्–
विविधाद्भुत-भाषावित् स प्रोक्तो यस् तु कोविदः ।
नाना-देश्यासु भाषासु संस्कृते प्राकृतेषु च ॥ र्भ्र्स्_२,१।६५ ॥

यथा–
व्रज-युवतिषु शौरिः शौरसेनीं सुरेन्द्रे
प्रणत-शिरसि सौरीं भारतीम् आतनोति ।
अहह पशुषु कीरेष्व् अप्य् अपभ्रंस-रूपां
कथम् अजनि विदग्धः सर्व-भाषावलीषु ॥ र्भ्र्स्_२,१।६६ ॥

(८) सत्य-वाक्यः–
स्यान् नानृतं वचो यस्य सत्य-वाक्यः स कथ्यते ॥ र्भ्र्स्_२,१।६७ ॥

यथा–
पृथे तनय-पञ्चकं प्रकटम् अर्पयिष्यामि ते
रणोर्वरितम् इत्य् अभूत् तव यथार्थम् एवोदितम् ।
रविर् भवति शीतलः कुमुद-बन्धुर् अप्य् उष्णलस्
तथापि न मुरान्तक व्यभिचरिष्णुर् उक्तिस् तव ॥ र्भ्र्स्_२,१।६८ ॥

यथा वा–
गूढो ऽपि वेषेण मही-सुरस्य
हरिर् यथार्थं मगधेन्द्रम् ऊचे ।
संसृष्टम् आभ्यां सह पाण्डवाभ्यां
मां विद्धि कृष्णं भवतः सपत्नम् ॥ र्भ्र्स्_२,१।६९ ॥

(९) प्रियंवदः–
जने कृतापराधे ऽपि सान्त्व-वादी प्रियंवदः ॥ र्भ्र्स्_२,१।७० ॥

यथा–
कृत-व्यलीके ऽपि न कुण्डलीन्द्र
त्वया विधेया मयि दोष-दृष्टिः ।
प्रवास्यमानो ऽसि सुरार्चितानां
परं हितायाद्य गवां कुलस्य ॥ र्भ्र्स्_२,१।७१ ॥

(१०) वावदूकः–
श्रुति-प्रेष्ठोक्तिर् अखिल-वाग्-गुणान्वित-वाग् अपि ।
इति द्विधा निगदितो वावदूको मनीषिभिः ॥ र्भ्र्स्_२,१।७२ ॥

तत्र आद्यो, यथा–
अश्लिष्ट-कोमल-पदावलि-मञ्जुलेन
प्रत्य्-अक्षर-क्षरद्-अमन्द-सुधा-रसेन ।
सख्यः समस्त-जन-कर्ण-रसायनेन
नाहारि कस्य हृदयं हरि-भाषितेन ॥ र्भ्र्स्_२,१।७३ ॥

द्वितीयो, यथा–
प्रतिवादि-चित्त-परिवृत्ति-पटुर्
जगद्-एक-संशय-विमर्द-करी ।
प्रमिताक्षराद्य-विविधार्थमयी
हरि-वाग् इयं मम धिनोति धियः ॥ र्भ्र्स्_२,१।७४ ॥

(११) सुपण्डित्यः–
विद्वान् नीतिज्ञ इत्य् एष सुपण्डित्यो द्विधा मतः ।
विद्वान् अखिल-विद्या-विन् नीतिज्ञस् तु यथार्ह-कृत् ॥ र्भ्र्स्_२,१।७५ ॥

तत्र आद्यो, यथा–
यं सुष्ठु पूर्वं परिचर्य गौरवात्
पितामहाद्य्-अम्बुधरैः प्रवर्तिताः ।
कृष्णार्णवं काश्य-गुरु-क्षमाभूतस्
तम् एव विद्या-सरितः प्रपेदिरे ॥ र्भ्र्स्_२,१।७६ ॥

यथा वा–
आम्नाय-प्रथितान्वया स्मृतिमती बाढं षड्-अङ्गोज्ज्वला
न्यायेनानुगता पुराण-सुहृदा मीमांसया मण्डिता ।
त्वां लब्धावसरा चिराद् गुरुकुले प्रेक्ष्य स्वसङ्गार्थिनं
विद्या नाम वधूश् चतुर्दश-गुणा गोविन्द शुश्रूयते ॥ र्भ्र्स्_२,१।७७ ॥

द्वितीयो, यथा–
मृत्युस् तस्कर-मण्डले सुकृतिनां वृन्दे वसन्तानिलः
कन्दर्पो रमणीषु दुर्गत-कुले कल्याण-कल्प-द्रुमः ।
इन्दुर् बन्धु-गणे विपक्ष-पटले कालाग्नि-रुद्राकृतिः
शास्ति स्वस्ति-धुरन्धरो मधुपुरीं नीत्या मधूनां पतिः ॥ र्भ्र्स्_२,१।७८ ॥

(१२) बुद्धिमान्–
मेधावी सूक्ष्मधीश् चेति प्रोच्यते बुद्धिमान् द्विधा ॥ र्भ्र्स्_२,१।७९ ॥

तत्र मेधावी, यथा–
अवन्ति-पुर-वासिनः सदनम् एत्य सान्दीपनेर्
गुरोर् जगति दर्शयन् समयम् अत्र विद्यार्थिनाम् ।
सकृन् निगद-मात्रतः सकलम् एव विद्या-कुलं
दधौ हृदय-मन्दिरे किम् अपि चित्रवन् माधवः ॥ र्भ्र्स्_२,१।८० ॥

सूक्ष्म-धीः, यथा–
यदुभिर् अयम् अवध्यो म्लेच्छ-राजस् तद् एनं
तरल-तमसि तस्मिन् विद्रवन्न् एव नेष्ये ।
सुखमय-निज-निद्रा-भञ्जन-ध्वंसि-दृष्टिर्
झर-मुचि मुचुकुन्दः कन्दरे यत्र शेते ॥ र्भ्र्स्_२,१।८१ ॥

(१३) प्रतिभान्वितः–
सद्यो नवनवोल्लेखि-ज्ञानं स्यात् प्रतिभान्वितः ॥ र्भ्र्स्_२,१।८२ ॥

यथा पद्यावल्यां (२८३)–
वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्व् इदं
वासं ब्रूहि शठ प्रकाम-सुभगे त्वद्-गात्र-संसर्गतः ।
यामिन्याम् उषितः क्व धूर्त वितनुर् मुष्णाति किं यामिनी
शौरिर् गोप-वधूं छलैः परिहसन्न् एवं-विधैः पातु वः ॥ र्भ्र्स्_२,१।८३ ॥

(१४) विदग्धः–
कला-विलास-दिग्धात्मा विदग्ध इति कीर्त्यते ॥ र्भ्र्स्_२,१।८४ ॥

यथा–
गीतं गुम्फति ताण्डवं घटयति ब्रूते प्रहेली-क्रमं
वेणुं वादयते स्रजं विरचयत्य् आलेख्यम् अभ्यस्यति ।
निर्माति स्वयम् इन्द्रजाल-पटलीं द्यूते जयत्य् उन्मदान्
पश्योद्दाम-कला-विलास-वसतिश् चित्रं हरिः क्रीडति ॥ र्भ्र्स्_२,१।८५ ॥

(१५) चतुरः–
चतुरो युगपद्-भूरि-समाधान-कृद् उच्यते ॥ र्भ्र्स्_२,१।८६ ॥

यथा–
पारावती-विरचनेन गवां कलापं
गोपाङ्गना-गणम् अपाङ्ग-तरङ्गितेन ।
मित्राणि चित्रतर-सङ्गर-विक्रमेण
धिन्वन्न् अरिष्ट-भयदेन हरिर् विरेजे ॥ र्भ्र्स्_२,१।८७ ॥

(१६) दक्षः–
दुष्करे क्षिप्र-कारी यस् तं दक्षं परिचक्षते ॥ र्भ्र्स्_२,१।८८ ॥

यथा श्री-दशमे (१०।५९।१७)–
यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह ।
हरिस् तान्य् अच्छिनत् तीक्ष्णैः शरैर् एकैक-शस्त्रिभिः ॥ र्भ्र्स्_२,१।८९ ॥

यथा वा–
अघहर कुरु युग्मीभूय नृत्यं मयैव
त्वम् इति निखिल-गोपी-प्रार्थना-पूर्ति-कामः ।
अतनुत गति-लीला-लाघवोर्मिं तथासौ
ददृशुर् अधिकम् एतास् तं यथा स्व-स्व-पार्श्वे ॥ र्भ्र्स्_२,१।९० ॥

(१७) कृतज्ञः–
कृतज्ञः स्याद् अभिज्ञो यः कृत-सेवादि-कर्मणाम् ॥ र्भ्र्स्_२,१।९१ ॥

यथा महाभारते {*नोत् फ़ोउन्द् इन् च्रितिचल् एदितिओन्।}–
ऋणम् एतत् प्रवृद्धं मे हृदयान् नापसर्पति ।
यद् गोविन्देति चुक्रोश कृष्णा मां दूर-वासिनम् ॥ र्भ्र्स्_२,१।९२ ॥

यथा वा–
अनुगतिम् अति-पूर्वं चिन्तयन्न् ऋक्ष-मौलेर्
अकुरुत बहुमानं शौरिर् आदाय कन्याम् ।
कथम् अपि कृतम् अल्पं विस्मरेन् नैव साधुः
किम् उत स खलु साधु-श्रेणि-चूडाग्र-रत्नम् ॥ र्भ्र्स्_२,१।९३ ॥

(१८) सुदृढ-व्रतः–
प्रतिज्ञा-नियमौ यस्य सत्यौ स सुदृढ-व्रतः ॥ र्भ्र्स्_२,१।९४ ॥

तत्र सत्य-प्रतिज्ञो, यथा हरि-वंशे (२।६८।३८) {*नोत् फ़ोउन्द् इन् च्रितिचल् एदितिओन्।}–
न देव-गन्धर्व-गणा न राक्षसा
न चासुरा नैव च यक्ष-पन्नगाः ।
मम प्रतिज्ञाम् अपहन्तुम् उद्यता
मुने समर्थाः खलु सत्यम् अस्तु ते ॥ र्भ्र्स्_२,१।९५ ॥

यथा वा–
स-हेलम् आखण्डल-पाण्डु-पुत्रौ
विधाय कंसारिर् अपारिजातौ ।
निज-प्रतिज्ञां सफलां दधानः
सत्यां च कृष्णां च सुखाम् अकार्षीत् ॥ र्भ्र्स्_२,१।९६ ॥

सत्य-नियमो, यथा–
गिरेर् उद्धरणं कृष्ण दुष्करं कर्म कुर्वता ।
मद्-भक्तः स्यान् न दुःखीति स्व-व्रतं विवृतं त्वया ॥ र्भ्र्स्_२,१।९७ ॥

(१९) देश-काल-सुपात्रज्ञः–
देश-काल-सुपात्रज्ञस् तत्-तद्-योग्य-क्रिया-कृतिः ॥ र्भ्र्स्_२,१।९८ ॥

यथा–
शरज्-ज्योत्स्ना-तुल्यः कथम् अपि परो नास्ति समयस्
त्रिलोक्याम् आकृईडः क्वचिद् अपि न वृन्दावन-समः ।
न काप्य् अम्भोजाक्षी व्रज-युवति-कल्पेति विमृशन्
मनो मे सोत्कण्ठं मुहुर् अजनि रासोत्सव-रसे ॥ र्भ्र्स्_२,१।९९ ॥

(२०) शास्त्र-चक्षुः–
शास्त्रानुसारि-कर्मा यः शास्त्र-चक्षुः स कथ्यते ॥ र्भ्र्स्_२,१।१०० ॥

यथा–
अभूत् कंस-रिपोर् नेत्रं
शास्त्रम् एवार्थ-दृष्टये ।
नेत्राम्बुजं तु युवती-
वृन्दान् मादाय केवलम् ॥ र्भ्र्स्_२,१।१०१ ॥

(२१) शुचिः–
पावनश् च विशुद्धेश् चेत्य् उच्यते द्विविधः शुचिः ।
पावनः पाप-नाशी स्याद् विशुद्धस् त्यक्त-दूसणः ॥ र्भ्र्स्_२,१।१०२ ॥

तत्र पावनो, यथा पाद्मे–
तं निर्व्याजं भज गुण-निधे पावनं पावनानां
श्रद्धा-रज्यन्-मतिर् अतितराम् उत्तमः-श्लोक-मौलिम् ।
प्रोद्यन्न् अन्तः-करण-कुहरे हन्त यन्-नाम-भानोर्
आभासो ऽपि क्षपयति महा-पातक-ध्वान्त-राशिम् ॥ र्भ्र्स्_२,१।१०३ ॥

विशुद्धो, यथा–
कपटं च हठश् च नाच्युते
बत सत्राजिति नाप्य् अदीनता ।
कथम् अद्य वृथा स्यमन्तक
प्रसभं कौस्तुभ-सख्यम् इच्छसि ॥ र्भ्र्स्_२,१।१०४ ॥

(२२) वशी
वशी जितेन्द्रियः प्रोक्तः ॥ र्भ्र्स्_२,१।१०५ ॥

यथा प्रथमे (१।११।३७)–
उद्दाम-भाव-पिशुनामल-वल्गु-हास-
व्रीडावलोक-निहतो मदनो ऽपि यासाम् ।
सम्मुह्य चापम् अजहात् प्रमदोत्तमास् ता
यस्येन्द्रियं विमथितुं कुहकैर् न शेकुः ॥ र्भ्र्स्_२,१।१०६ ॥

(२३) स्थिरः
आफलोदयकृत् स्थिरः ॥ र्भ्र्स्_२,१।१०७ ॥

यथा,
निर्वेदम् आप न वन-भ्रमणे मुरारिर्
नाचिन्तयद् व्यसनम् ऋक्ष-विलप्रवेशे ।
आहृत्य हन्त मणिम् एव पुरं प्रपेदे
स्याद् उद्यमः कृत-धियां हि फलोदयान्तः ॥ र्भ्र्स्_२,१।१०८ ॥

(२४) दान्तः–
स दान्तो दुःसहम् अपि योग्यं क्लेशं सहेत यः ॥ र्भ्र्स्_२,१।१०९ ॥

यथा–
गुरुम् अपि गुरु-वास-क्लेशम् अव्याज-भक्त्या
हरिर् अज-गण-दन्तः कोमलाङ्गो ऽपि नायम् ।
प्रकृतिर् अति-दुरूहा हन्त लोकोत्तराणां
किम् अपि मनसि चित्रं चिन्त्यमाना तनोति ॥ र्भ्र्स्_२,१।११० ॥

(२५) क्षमाशीलः
क्षमाशीलो ऽपराधानां सहनः परिकीर्त्यते ॥ र्भ्र्स्_२,१।१११ ॥

यथा माघ-काव्ये {=शिशुपाल-वध} (१६।२५)–
प्रतिवाचम् अदत्त केशवः
शपमानाय न चेदि-भूभृते ।
अनहुङ्कुरुते घन-ध्वनिः
न हि गोमायु-रुतानि केशरी ॥ र्भ्र्स्_२,१।११२ ॥

यथा वा यामुनाचार्य-स्तोत्रे {=स्तोत्र-रत्नम्} (६०)–
रघुवर यद् अभूस् त्वं तादृशो वायसस्य
प्रणत इति दयालुर् यच् च चैद्यस्य कृष्ण ।
प्रतिभवम् अपराद्धुर् मुग्ध सायुज्यदो ऽभूर्
वद किम् अपदम् आगस् तस्य ते ऽस्ति क्षमायाः ॥ र्भ्र्स्_२,१।११३ ॥

(२६) गम्भीरः–
दुर्विबोधाशयो यस् तु स गम्भीरः इतीर्यते ॥ र्भ्र्स्_२,१।११४ ॥

यथा–
वृन्दावने वरातिः स्तुतिभिर् नितराम् उपास्यमानो ऽपि ।
शक्तो न हरिर् विधिना रुष्टस् तुष्टो ऽथवा ज्ञातुम् ॥ र्भ्र्स्_२,१।११५ ॥

यथा वा–
उन्मदो ऽपि हरिर् नव्य-राधा-प्रणय-सीधुना ।
अभिज्ञेनापि रामेण लक्षितो ऽयम् अविक्रियः ॥ र्भ्र्स्_२,१।११६ ॥

(२७) धृतिमान्–
पूर्ण-स्पृहश् च धृतिमान् शान्तश् च क्षोभ-कारणे ॥ र्भ्र्स्_२,१।११७ ॥

तत्र आद्यो–
स्वीकुर्वन्न् अपि नितरां यशः-प्रियत्वं
कंसारिर् मगध-पतेर् वध-प्रसिद्धाम् ।
भीमाय स्वयम् अतुलाम् अदत्त कीर्तिं
किं लोकोत्तर-गुण-शालिनाम् अपेक्ष्यम् ॥ र्भ्र्स्_२,१।११८ ॥

द्वितीयो, यथा–
निन्दितस्य दम-घोष-सूनुना
सम्भ्रमेण मुनिभिः स्तुतस्य च ।
राजसूय-सदसि क्षितीश्वरैः
कापि नास्य विकृतिर् वितर्किता ॥ र्भ्र्स्_२,१।११९ ॥

(२८) समः–
राग-द्वेष-विमुक्तो यः समः स कथितो बुधैः ॥ र्भ्र्स्_२,१।१२० ॥

यथा श्री-दशमे (१०।१६।३३)–
न्याय्यो हि दण्डः कृत-किल्बिषे ऽस्मिंस्
तवावतारः खल-निग्रहाय ।
रिपोः सुतानाम् अपि तुल्य-दृष्टेर्
धत्से दमं फलम् एवानुशंसन् ॥ र्भ्र्स्_२,१।१२१ ॥

यथा वा–
रिपुर् अपि यदि शुद्धो मण्डनीयस् तवासौ
यदुवर यदि दुष्टो दण्डनीयः सुतो ऽपि ।
न पुनर् अखिल-भर्तुः पक्षपातोज्झितस्य
क्वचिद् अपि विषमं ते चेष्टितं जाघटीति ॥ र्भ्र्स्_२,१।१२२ ॥

(२९) वदान्यः–
दान-वीरो भवेद् यस् तु स वदान्यो निगद्यते ॥ र्भ्र्स्_२,१।१२३ ॥

यथा–
सर्वार्थिनां बाढम् अभीष्ट-पूर्त्या
व्यर्थीकृताः कंस-निसूदनेन ।
ह्रियेव चिन्तामणि-कामधेनु-
कल्प-द्रुमा द्वारवतीं भजन्ति ॥ र्भ्र्स्_२,१।१२४ ॥

यथा वा–
येषां षोडश-पूरिता दश-शती स्वान्तः-पुराणां तथा
चाष्टाश्लिष्ट-शतं विभाति परितस् तत्-सङ्ख्य-पत्नी-युजाम् ।
एकैकं प्रति तेषु तर्णक-भृतां भूषा-जुषाम् अन्वहं
गृष्टीनां युगपच् च बद्धम् अददाद् यस् तस्य वा कः समः ॥ र्भ्र्स्_२,१।१२५ ॥

(३०) धार्मिकः–
कुर्वन् कारयते धर्मं यः स धार्मिक उच्यते ॥ र्भ्र्स्_२,१।१२६ ॥

यथा–
पादैश् चतुर्भिर् भवता वृषस्य
गुप्तस्य गोपेन्द्र तथाभ्यवर्धि ।
स्वैरं चरन्न् एव यथा त्रिलोक्याम्
अधर्म-स्पर्शाणि हठाज् जघास ॥ र्भ्र्स्_२,१।१२७ ॥

यथा वा–
वितायमानैर् भवता मखोत्करैर्
आकृष्यमाणेषु पतिष्व् अनारतम् ।
मुकुन्द खिन्नः सुर-सुभ्रुवां गणस्
तवावतारं नवमं नमस्यति ॥ र्भ्र्स्_२,१।१२८ ॥

(३१) शूरः–
उत्साही युधि शूरो ऽस्त्र-प्रयोगे च विचक्षणः ॥ र्भ्र्स्_२,१।१२९ ॥

तत्र आद्यो, यथा–
पृथु-समर-सरो विगाह्य कुर्वन्
द्विषद्-अरविन्द-वने विहार-चर्याम् ।
स्फुरसि तरल-बाहु-दण्ड-शुण्डस्
त्वम् अघ-विदारण वारणेन्द्र-लीलः ॥ र्भ्र्स्_२,१।१३० ॥

द्वितीयो, यथा–
क्षणाद् अक्षौहिणी-वृन्दे जरासन्धस्य दारुणे ।
दृष्टः को ऽप्य् अत्र नादष्टो हरेः प्रहरणाहिभिः ॥ र्भ्र्स्_२,१।१३१ ॥

(३२) करुणः–
पर-दुःखासहो यस् तु करुणः स निगद्यते ॥ र्भ्र्स्_२,१।१३२ ॥

यथा–
राज्ञाम् अगाध-गतिभिर् मगधेन्द्र-कारा-
दुःखान्धकार-पटलैः स्वयम् अन्धितानाम् ।
अक्षीणि यः सुखमयानि घृणी व्यतानीद्
वृन्दे तम् अद्य यदुनन्दन-पद्म-बन्धुम् ॥ र्भ्र्स्_२,१।१३३ ॥

यथा वा–
स्खलन्-नयन-वारिभिर् विरचिताभिषेक-श्रिये
त्वरा-भर-तरङ्गतः कवलितात्म-विस्फूर्तये ।
निशान्त-शर-शायिना सुर-सरित्-सुतेन स्मृतेः
सपद्य-वश-वर्त्मणो भगवतः कृपायै नमः ॥ र्भ्र्स्_२,१।१३४ ॥

(३३) मान्यमानकृत्–
गुरु-ब्राह्मण-वृद्धादि-पूजको मान्यमान-कृत् ॥ र्भ्र्स्_२,१।१३५ ॥

यथा–
अभिवाद्य गुरोः पदाम्बुजं
पितरं पूर्वजम् अप्य् अथानतः ।
हरिर् अञ्जलिना तथा गिरा
यदु-वृद्धानन-मत्-क्रमादयम् ॥ र्भ्र्स्_२,१।१३६ ॥

(३४) दक्षिणः–
सौशील्य-सौम्य-चरितो दक्षिणः कीर्त्यते बुधैः ॥ र्भ्र्स्_२,१।१३७ ॥

यथा–
भृत्यस्य पश्यति गुरून् अपि नापराधान्
सेवां मनाग् अपि कृतां बहुधाभ्युपैति ।
आविष्करोति पिशुनेष्व् अपि नाभ्यसूयां
शीलेन निर्मल-मतिः पुरुषोत्तमो ऽयम् ॥ र्भ्र्स्_२,१।१३८ ॥

(३५) विनयी–
औद्धत्य-परिहारी यः कथ्यते विनयीत्य् असौ ॥ र्भ्र्स्_२,१।१३९ ॥

यथा माघ-काव्ये (१३।७)–
अवलोक एष नृपतेः सुदूरतो
रभसाद् रथाद् अवतरीतुम् इच्छतः ।
अवतीर्णवान् प्रथमम् आत्मना हरिर्
विनयं विशेषयति सम्भ्रमेण सः ॥ र्भ्र्स्_२,१।१४० ॥

(३६) ह्रीमान्–
ज्ञाते ऽस्मर-रहस्ये ऽन्यैः क्रियमाणे स्तवे ऽथवा ।
शालीनत्वेन सङ्कोचं भजन् ह्रीमान् उदीर्यते ॥ र्भ्र्स्_२,१।१४१ ॥

यथा ललित-माधवे (९।४०)–
दरोदञ्चद्-गोपी-स्तन-परिसर-प्रेक्षण-भयात्
करोत्कम्पाद् ईषच् चलति किल गोवर्धन-गिरौ ।
भयार्तैर् आरब्ध-स्तुतिर् अखिल-गोपैः स्मित-मुखं
पुरो दृष्ट्वा रामं जयति नमितास्यो मधुरिपुः ॥ र्भ्र्स्_२,१।१४२ ॥

(३७) शरणागत-पालकः–
पालयन् शरणापन्नान् शरणागत-पालकः ॥ र्भ्र्स्_२,१।१४३ ॥

यथा–
ज्वर परिहर वित्रासं त्वम् अत्र समरे कृतापराधे ऽपि ।
सद्यः प्रपद्यमाने यद् इन्दवति यादवेन्द्रो ऽयम् ॥ र्भ्र्स्_२,१।१४४ ॥

(३८) सुखी–
भोक्ता च दुःख-गन्धैर् अप्य् अस्पृष्टश् च सुखी भवेत् ॥ र्भ्र्स्_२,१।१४५ ॥

तत्र आद्यो, यथा–
रत्नालङ्कार-भारस् तव धन-दमनो राज्य-वृत्त्याप्य् अलभ्यः
स्वप्ने दम्भोलि-पाणेर् अपि दुरधिगमं द्वारि तौर्यत्रिकं च ।
पार्श्वे गौरी-गरिष्ठाः प्रचुर-शशि-कलाः कान्त-सर्वाङ्ग-भाजः
सीमन्तिन्यश् च नित्यं यदुवर भुवने कस् त्वद्-अन्यो ऽस्ति भोगी ॥ र्भ्र्स्_२,१।१४६ ॥

द्वितीयो, यथा–
न हानिं न म्लानिं निज-गृह-कृत्य-व्यसनितां
न घोरं नोद्घूर्णां न किल कदनं वेत्ति किम् अपि ।
वराङ्गीभिः साङ्गीकृत-सुहृद्-अनङ्गाभिर् अभितो
हरिर् वृन्दारण्ये परम् अनिशम् उच्चैर् विहरति ॥ र्भ्र्स्_२,१।१४७ ॥

(३९) भक्त-सुहृत्–
सुसेव्यो दास-बन्धुश् च द्विधा भक्त-सुहृन् मतः ॥ र्भ्र्स्_२,१।१४८ ॥

तत्र आद्यो, यथा विष्णु-धर्मे–
तुलसी-दल-मात्रेण जलस्य चुलुकेन च ।
विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः ॥ र्भ्र्स्_२,१।१४९ ॥

द्वितीयो, यथा प्रथमे (१।९।३७)–
स्व-निगमम् अपहाय मत्-प्रतिज्ञाम्
ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः ।
धृत-रथ-चरणो ऽभ्ययाच् चलद्गुर्
हरिर् इव हन्तुम् इभं गतोत्तरीयः ॥ र्भ्र्स्_२,१।१५० ॥

(४०) प्रेम-वश्यः–
प्रियत्व-मात्र-वश्यो यः प्रेम-वश्यो भवेद् असौ ॥ र्भ्र्स्_२,१।१५१ ॥

यथा श्री-दशमे (१०।८०।१९)–
सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गाति-निर्वृतः ।
प्रीतो व्यमुञ्चद् अध्विन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ र्भ्र्स्_२,१।१५२ ॥

यथा वा तत्रैव (१०।९।१८)–
स्व-मातुः स्विन्न-गात्राया विस्रस्त-कवर-स्रजः ।
दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने ॥ र्भ्र्स्_२,१।१५३ ॥

(४१) सर्व-शुभङ्करः–
सर्वेषां हित-कारी यः स स्यात् सर्व-शुभङ्करः ॥ र्भ्र्स्_२,१।१५४ ॥

यथा–
कृताः कृतार्था मुनयो विनोदैः
खल-क्षयेणाखिल-धार्मिकाश् च ।
वपुर्-विमर्देन खलाश् च युद्धे
न कस्य पथ्यं हरिणा व्यधायि ॥ र्भ्र्स्_२,१।१५५ ॥
(४२) प्रतापी–
प्रतापी पौरुषोद्भूत-शत्रु-तापि प्रसिद्धि-भाक् ॥ र्भ्र्स्_२,१।१५६ ॥

यथा–
भवतः प्रताप-तपने
भुवनं कृष्ण प्रतापयति ।
घोरासुर-घुकानां
शरणम् अभूत् कन्दरा-तिमिरम् ॥ र्भ्र्स्_२,१।१५७ ॥

(४३) कीर्तिमान्–
साद्गुण्यैर् निर्मलैः ख्यातः कीर्तिमान् इति कीर्त्यते ॥ र्भ्र्स्_२,१।१५८ ॥

यथा–
त्वद्-यशः-कुमुद-बन्धु-कौमुदी
शुभ्र-भावम् अभितो नयन्त्य् अपि ।
नन्दनन्दन कथं नु निर्ममे
कृष्ण-भाव-कलिलं जगत्-त्रयम् ॥ र्भ्र्स्_२,१।१५९ ॥

यथा वा ललित-माधवे (५।१८)–
भीता रुद्रं त्यजति गिरिजा श्यामम् अप्रेक्ष्य कण्ठं
शुभ्रं दृष्ट्वा क्षिपति वसनं विस्मितो नील-वासाः ।
क्षीरं मत्वा श्रपयति यमी-नीरम् आभीरिकोत्का
गीते दामोदर-यशसि ते वीणया नारदेन ॥ र्भ्र्स्_२,१।१६० ॥

(४४) रक्त-लोकः–
पात्रं लोकानुरागाणां रक्त-लोकं विदुर् बुधाः ॥ र्भ्र्स्_२,१।१६१ ॥

यथा प्रथमे (१।११।९)–
यर्ह्य् अम्बुजाक्षापससार भो भवान्
कुरून् मधून् वाथ सुहृद्-दिदृक्षया
तत्राब्द-कोटि-प्रतिमः क्षणो भवेद्
रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥ र्भ्र्स्_२,१।१६२ ॥

यथा वा–
आशीस् तथ्या जय जय जयेत्य् आविरास्ते मुनीनां
देव-श्रेणी-स्तुति-कल-कलो मेदुरः प्रादुरस्ति ।
हर्षाद् घोषः स्फुरति परितो नागरीणां गरीयान्
के वा रङ्ग-स्थल-भुवि हरौ भेजिरे नानुरागम् ॥ र्भ्र्स्_२,१।१६३ ॥
(४५) साधु-समाश्रयः–
सद्-एक-पक्षपाती यः स स्यात् साधु-समाश्रयः ॥ र्भ्र्स्_२,१।१६४ ॥

यथा–
पुरुषोत्तम चेद् अवातरिष्यद्
भुवने ऽस्मिन् न भवान् भुवः शिवाय ।
विकटासुर-मण्डलान् न जाने
सुजनानां बत का दशाभविष्यत् ॥ र्भ्र्स्_२,१।१६५ ॥

(४६) नारी-गण-मनो-हारी–
नारी-गण-मनो-हारी सुन्दरी-वृन्द-मोहनः ॥ र्भ्र्स्_२,१।१६६ ॥

यथा श्री-दशमे (१०।९०।२६)–
श्रुत-मात्रो ऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ॥ र्भ्र्स्_२,१।१६७ ॥

यथा वा–
त्वं चुम्बको ऽसि माधव लोह-मयी नूनम् अङ्गना-जातिः ।
धावति ततस् ततो ऽसौ यतो यतः क्रीडया भ्रमसि ॥ र्भ्र्स्_२,१।१६८ ॥

(४७) सर्वाराध्यः–
सर्वेषाम् अग्र-पूज्यो यः स सर्वाराध्य उच्यते ॥ र्भ्र्स्_२,१।१६९ ॥

यथा प्रथमे (१।९।४१)–
मुनि-गण-नृप-वर्य-सङ्कुले ऽन्तः-
सदसि युधिष्ठिर-राजसूय एषाम् ।
अर्हणम् उपपेद ईक्षणीयो
मम दृशि-गोचर एष आविर् आत्मा ॥ र्भ्र्स्_२,१।१७० ॥

(४८) समृद्धिमान्–
महा-सम्पत्ति-युक्तो यो भवेद् एष समृद्धिमान् ॥ र्भ्र्स्_२,१।१७१ ॥

यथा–
षट्-पञ्चाशद्-यदु-कुल-भुवां कोटयस् त्वां भजन्ते
वर्षन्त्य् अष्टौ किम् अपि निधयश् चार्थ-जातं तवामी ।
शुद्धान्तश् च स्फुरति नवभिर् लक्षितः सौध-लक्ष्मैर्
लक्ष्मीं पश्यन् मुर-दमन ते नात्र चित्रायते कः ॥ र्भ्र्स्_२,१।१७२ ॥

यथा वा कृष्ण-कर्णामृते {*नोत् इन् अन्य् ओफ़् थे एxतन्त् क्क् चेन्तुरिएस्।}–
चिन्तामणिश् चरण-भूषणम् अङ्गनानां
शृङ्गार-पुष्प-तरवस् तरवः सुराणाम् ।
वृन्दावने व्रज-धनं ननु काम-धेनु-
वृन्दानि चेति सुख-सिन्धुर् अहो विभूतिः ॥ र्भ्र्स्_२,१।१७३ ॥

(४९) वरीयान्–
सर्वेषाम् अति-मुख्यो यः स वरीयान् इतीर्यते ॥ र्भ्र्स्_२,१।१७४ ॥

यथा–
ब्रह्मन्न् अत्र पुरु-द्विषा सह पुरः पीठे निषीद क्षणं
तुष्णीं तिष्ठ सुरेन्द्र चाटुभिर् अलं वारीश दूरीभव ।
एते द्वारि मुहुः कथं सुर-गणाः कुर्वन्ति कोलाहलं
हन्त द्वारवती-पतेर् अवसरो नाद्यापि निष्पद्यते ॥ र्भ्र्स्_२,१।१७५ ॥

(५०) ईश्वरः–
द्विधेश्वरः स्वतन्त्रश् च दुर्लङ्घ्याज्ञश् च कीर्त्यते ॥ र्भ्र्स्_२,१।१७६ ॥

तत्र स्वतन्त्रो, यथा–
कृष्णः प्रसादम् अकरोद् अपराध्यते ऽपि
पादाङ्कम् एव किल कालिय-पन्नगाय ।
न ब्रह्मणे दृशम् अपि स्तुवते ऽप्य् अपूर्वं
स्थाने स्वतन्त्र-चरितो निगमैर् नुतो ऽयम् ॥ र्भ्र्स्_२,१।१७७ ॥

दुर्लङ्घ्याज्ञो, यथा तृतीये (३।२।२१)–

स्वयं त्व् असाम्यातिशयस् त्र्यधीशः
स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः ।
बलिं हरद्भिश् चिर-लोक-पालैः
किरीट-कोट्य्-एडित-पाद-पीठः ॥ र्भ्र्स्_२,१।१७८ ॥

यथा वा–
नव्ये ब्रह्माण्ड-वृन्दे सृजति विधिगणः सृष्टये यः कृताज्ञो
रुद्रौघः काल-जीर्णे क्षयम् अवतनुते यः क्षयायानुशिष्टः ।
रक्षां विष्णु-स्वरूपा विदधति तरुणे रक्षिणो ये त्वद्-अंशाः
कंसारे सन्ति सर्वे दिशि दिशि भवतः शासने ऽजाण्डनाथाः ॥ र्भ्र्स्_२,१।१७९ ॥

अथ (५१) सदा-स्वरूप-सम्प्राप्तः–
सदा-स्वरूप-सम्प्राप्तो माया-कार्य-वशीकृतः ॥ र्भ्र्स्_२,१।१८० ॥

यथा प्रथमे (१।११।३९)–
एतद् ईशनम् ईशस्य प्रकृति-स्थो ऽपि तद्-गुणैः ।
न युज्यते सदात्म-स्थैर् यथा बुद्धिस् तद्-आश्रया ॥ र्भ्र्स्_२,१।१८१ ॥

(५२) सर्वज्ञः–
पर-चित्त-स्थितं देश-कालाद्य्-अन्तरितं तथा ।
यो जानाति समस्तार्थः स सर्वज्ञो निगद्यते ॥ र्भ्र्स्_२,१।१८२ ॥

यथा प्रथमे (१।१५।११)–
यो नो जुगोप वन एत्य दुरन्त-कृच्छ्राद्
दुर्वाससो ऽरि-रचिताद् अयुताग्र-भुग् यः ।
शाकान्न-शिष्टम् उपयुज्य यतस् त्रि-लोकीं
तृप्ताम् अमंस्त सलिले विनिमग्न-सङ्घः ॥ र्भ्र्स्_२,१।१८३ ॥

(५३) नित्य-नूतनः–
सदानुभूयमानो ऽपि करोत्य् अननुभूतवत् ।
विस्मयं माधुरीभिर् यः स प्रोक्तो नित्य-नूतनः ॥ र्भ्र्स्_२,१।१८४ ॥

यथा प्रथमे (१।११।३४)–
यद्यप्य् असौ पार्श्व-गतो रहो-गतस्
तथापि तस्याङ्घ्रि-युगं नवं नवम् ।
पदे पदे का विरमेत तत्-पदाच्
चलापि यच् छ्रीर् न जहाति कर्हिचित् ॥ र्भ्र्स्_२,१।१८५ ॥

यथा वा ललित-माधवे (१।५२)–
कुलवर-तनु-धर्म-ग्राव-वृन्दानि भिन्दन्
सुमुखि निशित-दीर्घापाङ्ग-टङ्क-च्छटाभिः ।
युगपद् अयम् अपूर्वः कः पुरो विश्व-कर्मा
मरकत-मणि-लक्षैर् गोष्ठ-कक्षां चिनोति ॥ र्भ्र्स्_२,१।१८६ ॥

(५४) सच्-चिद्-आनन्द-सान्द्राङ्गः–
सच्-चिद्-आनन्द-सान्द्राङ्गश् चिदानन्द-घनाकृतिः ॥ र्भ्र्स्_२,१।१८७ ॥

यथा–
क्लेशे क्रमात् पञ्च-विधे क्षयं गते
यद्-ब्रह्म-सौख्यं स्वयम् अस्फुरत् परम् ।
तद् व्यर्थयन् कः पुरतो नराकृतिः
श्यामो ऽयम् आमोद-भरः प्रकाशते ॥ र्भ्र्स्_२,१।१८८ ॥

यथा व ब्रह्म-संहितायाम् आदि-पुरुष-रहस्ये (५।५१)–
यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि-
कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ र्भ्र्स्_२,१।१८९ ॥

अतः श्री-वैष्णवैः सर्व-श्रुति-स्मृति-निदर्शनैः ।
तद् ब्रह्म श्री-भगवतो विभूतिर् इति कीर्त्यते ॥ र्भ्र्स्_२,१।१९० ॥

तथा हि यामुनाचार्य-स्तोत्रे (१४)–
यद्-अण्डान्तर-गोचरं च यद्
दशोत्तराण्य् आवरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म च ते विभूतयः ॥ र्भ्र्स्_२,१।१९१ ॥

(५५) सर्व-सिद्धि-निषेवितः–
स्व-वशाखिल-सिद्धिः स्यात् सर्व-सिद्धि-निषेवितः ॥ र्भ्र्स्_२,१।१९२ ॥

यथा–
दशभिः सिद्ध-सखीभिर् वृता महा-सिद्धयः क्रमाद् अष्टौ ।
अणिमादयो लभन्ते नावसरं द्वारि कृष्णस्य ॥ र्भ्र्स्_२,१।१९३ ॥

(५६) अथ अविचिन्त्य-महा-शक्तिः–
दिव्य-सर्गादि-कर्तृत्वं ब्रह्म-रुद्रादि-मोहनम् ।
भक्त-प्रारब्ध-विध्वम्स इत्य् आद्य् अचिन्त्य-शक्तिता ॥ र्भ्र्स्_२,१।१९४ ॥

तत्र दिव्य-सर्गादि-कर्तृत्वम्, यथा–
आसीच् छाया-द्वितीयः प्रथमम् अथ विभुर् वत्स-डिम्भादि-देहान्
अंशेनांशेन चक्रे तद् अनु बहु-चतुर्-बाहुतां तेषु तेने ।
वृत्तस् तत्त्वादि-वीतैर् अथ कम् अलभवैः स्तूयमानो ऽखिलात्मा
तावद् ब्रह्माण्ड-सेव्यः स्फुटम् अजनि ततो यः प्रपद्ये तम् ईशम् ॥ र्भ्र्स्_२,१।१९५ ॥

ब्रह्म-रुद्रादि-मोहनम्, यथा–
मोहितः शिशु-कृतौ पितामहो
हन्त शम्भुर् अपि जृम्भितो रणे ।
येन कंस-रिपुणाद्य तत्-पुरः
के महेन्द्र विबुधा भवद्-विधाः ॥ र्भ्र्स्_२,१।१९६ ॥

भक्त-प्रारब्ध-विध्वंसो, यथा श्री-दशमे (१०।४५।४५)–
गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् ।
आनयस्व महाराज मच्-छासन-पुरस्कृतः ॥ र्भ्र्स्_२,१।१९७ ॥

आदि-शब्देन दुर्घट-घटनापि–
अपि जनि-परिहीनः सूनुर् आभीर-भर्तुर्
विभुर् अपि भुज-युग्मोत्सङ्ग-पर्याप्त-मूर्तिः ।
प्रकटित-बहु-रूपो ऽप्य् एक-रूपः प्रभुर् मे
धियम् अयम् अविचिन्त्यानन्त-शक्तिर् धिनोति ॥ र्भ्र्स्_२,१।१९८ ॥

(५७) कोटि-ब्रह्माण्ड-विग्रहः–
अगण्य-जगद्-अण्डाढ्यः कोटि-ब्रह्माण्ड-विग्रहः ।
इति श्री-विग्रहस्यास्य विभुत्वम् अनुकीर्तितम् ॥ र्भ्र्स्_२,१।१९९ ॥

यथा तत्रैव (१०।१४।११)–
क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू-
संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः ।
क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या-
वाताध्व-रोम-विवरस्य च ते महित्वम् ॥ र्भ्र्स्_२,१।२०० ॥

यथा वा–
तत्त्वैर् ब्रह्माण्डम् आढ्यं सुरकुल-भुवनैश् चाङ्कितं योजनानां
पञ्चाशत्-कोट्य्-अखर्व-क्षिति-खचितम् इदं यच् च पाताल-पूर्णम् ।
तादृग्-ब्रह्माण्ड-लक्षायुत-परिचय-भाग् एक-कक्षं विधात्रा
दृष्टं यस्यात्र वृन्दावनम् अपि भवतः कः स्तुतौ तस्य शक्तः ॥ र्भ्र्स्_२,१।२०१ ॥

(५८) अवतारावली-बीजम्
अवतारावली-बीजम् अवतारी निगद्यते ॥ र्भ्र्स्_२,१।२०२ ॥

यथा श्री-गीत-गोविन्दे (१।१६)–
वेदान् उद्धरते जगन्ति वहते भूगोलम् उद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्र-क्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यम् आतन्वते
म्लेच्छान् मूर्च्छयते दशाकृति-कृते कृष्णाय तुभ्यं नमः ॥ र्भ्र्स्_२,१।२०३ ॥

(५९) हतारि-गति-दायकः–
मुक्ति-दाता हतारीणां हतारि-गति-दायकः ॥ र्भ्र्स्_२,१।२०४ ॥

यथा–
पराभवं फेनिल-वक्त्रतां च
बन्धं च भीतिं च मृतिं च कृत्वा ।
पवर्ग-दातापि शिखण्ड-मौले
त्वं शात्रवाणाम् अपवर्गदो ऽसि ॥ र्भ्र्स्_२,१।२०५ ॥

यथा वा–
चित्रं मुरारे सुर-वैरि-पक्षस्
त्वया समन्ताद् अनुबद्ध-युद्धः ।
अमित्र-वृन्दान्य् अविभिद्य भेदं
मित्रस्य कुर्वन्न् अमृतं प्रयाति ॥ र्भ्र्स्_२,१।२०६ ॥

(६०) आत्माराम-गणाकर्षी–
आत्माराम-गणाकर्षीत्य् एतद् व्यक्तार्थम् एव हि ॥ र्भ्र्स्_२,१।२०७ ॥

यथा–
पूर्ण-परमहंसं मां माधव लीला-महौषधिर् घ्राता ।
कृत्वा बत सारङ्गं व्यधित कथं सारसे तृषितम् ॥ र्भ्र्स्_२,१।२०८ ॥

अथासाधरण-गुण-चतुष्के– (६१) लीला-माधुर्यं–

यथा बृहद्-वामने–
सन्ति यद्यपि मे प्राज्या लीलास् तास् ता मनोहराः ।
न हि जाने स्मृते रासे मनो मे कीदृशं भवेत् ॥ र्भ्र्स्_२,१।२०९ ॥

यथा वा–
परिस्फुरतु सुन्दरं चरित्रम् अत्र लक्ष्मी-पतेस्
तथा भुवन-नन्दिनस् तद्-अवतार-वृन्दस्य च ।
हरेर् अपि चमत्कृति-प्रकर-वर्धनः किन्तु मे
बिभर्ति हृदि विस्मयं कम् अपि रास-लीला-रसः ॥ र्भ्र्स्_२,१।२१० ॥

(६२) प्रेम्णा प्रियाधिक्यम्, यथा श्री-दशमे (१०।३१।१५)–
अटति यद् भवान् अह्नि काननं
त्रुटिर् युगायते त्वाम् अपश्यताम् ।
कुटिल-कुन्तलं श्री-मुखं च ते
जड उदीक्षितां पक्ष्म-कृत् दृशाम् ॥ र्भ्र्स्_२,१।२११ ॥

यथा वा–
ब्रह्म-रात्रि-ततिर् अप्य् अघ-शत्रो
सा क्षणार्धवद् अगात् तव सङ्गे ।
हा क्षणार्धम् अपि वल्लविकानां
ब्रह्म-रात्रि-ततिवद् विरहे ऽभूत् ॥ र्भ्र्स्_२,१।२१२ ॥

(६३) वेणु-माधुर्यम्, यथा तत्रैव (१०।३३।१५)–
सवनशस् तद्-उपधार्य सुरेशाः
शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवय आनत-कन्धर-चित्ताः
कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥ र्भ्र्स्_२,१।२१३ ॥

यथा वा विदग्ध-माधवे (१।२६)–
रुन्धन्न् अम्बु-भृतश् चमत्कृति-परं कुर्वन् मुहुस् तुम्बुरुं
ध्यानाद् अन्तरयन् सनन्दन-मुखान् विस्मेरयन् वेधसम् ।
औत्सुक्यावलिभिर् बलिं चटुलयन् भोगीन्द्रम् आघूर्णयन्
भिन्दन्न् अण्ड-कटाह-भित्तिम् अभितो बभ्राम वंशी-ध्वनिः ॥ र्भ्र्स्_२,१।२१४ ॥

(६४) रूप-माधुर्यम्, यथा तृतीये (३।२।१२)–

यन् मर्त्य-लीलौपयिकं स्व-योग-
माया-बलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः
परं पदं भूषण-भूषणाङ्गम् ॥ र्भ्र्स्_२,१।२१५ ॥

श्री-दशमे च (१०।२९।४०)–
का स्त्र्य् अङ्ग ते कल-पदायत-मूर्च्छितेन
सम्मोहिताऽर्यपदवीं न चलेत् त्रिलोक्याम् ।
त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं
यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् ॥ र्भ्र्स्_२,१।२१६ ॥

यथा वा, ललित-माधवे (८।३४)–
अपरिकलित-पूर्वः कश् चमत्कार-कारी
स्फुरति मम गरीयान् एष माधुर्य-पूरः ।
अयम् अहम् अपि हन्त प्रेक्ष्य यं लुब्ध-चेताः
सरभसम् उपभोक्तुं कामये राधिकेव ॥ र्भ्र्स्_२,१।२१७ ॥
समस्त-विविधाश्चर्य-कल्याण-गुण-वारिधेः ।
गुणानाम् इह कृष्णस्य दिङ्-मात्रम् उपदर्शितम् ॥ र्भ्र्स्_२,१।२१८ ॥

यथा च श्री-दशमे (१०।१४।७)–
गुणात्मनस् ते ऽपि गुणान् विमातुं
हितावतीर्णस्य क ईशिरे ऽस्य ।
कालेन यैर् वा विमिताः सुकल्पैर्
भू-पांशवः खे मिहिका द्युभासः ॥ र्भ्र्स्_२,१।२१९ ॥

नित्य-गुणो वनमाली, यद् अपि शिखामणिर् अशेष-नेतॄणाम् ।
भक्तापेक्षिकम् अस्य, त्रिविधत्वं लिख्यते तद् अपि ॥ र्भ्र्स्_२,१।२२० ॥
हरिः पूर्णतमः पूर्णतरः पूर्ण इति त्रिधा ।
श्रेष्ठ-मध्यादिभिः शब्दैर् नाट्ये यः परिपठ्यते ॥ र्भ्र्स्_२,१।२२१ ॥
प्रकाशिताखिल-गुणः स्मृतः पूर्णतमो बुधैः ।
असर्व-व्यञ्जकः पूर्णतरः पूर्णो ऽल्प-दर्शकः ॥ र्भ्र्स्_२,१।२२२ ॥
कृष्णस्य पूर्णतमता व्यक्ताभूद् गोकुलान्तरे ।
पूर्णता पूर्णतरता द्वारका-मथुरादिषु ॥ र्भ्र्स्_२,१।२२३ ॥

स पुनश् चतुर्विधः स्याद् धीरोदात्तश् च धीर-ललितश् च ।
धीर-प्रशान्त-नामा तथैव धीरोद्धतः कथितः ॥ र्भ्र्स्_२,१।२२४ ॥
बहुविध-गुण-क्रियाणाम् आस्पद-भूतस्य पद्मनाभस्य ।
तत्-तल्-लीला-भेदाद् विरुध्यते न हि चतुर्-विधाः ॥ र्भ्र्स्_२,१।२२५ ॥

तत्र धीरोदात्तः–
गम्भीरो विनयी क्षन्ता करुणः सुदृढ-व्रतः ।
अकत्थनो गूढ-गर्वो धीरोदात्तः सु-सत्त्व-भृत् ॥ र्भ्र्स्_२,१।२२६ ॥

यथा–
वीरं-मन्य-मद-प्रहारि-हसितं धौरेयम् आर्तोद्धृतौ
निर्व्यूढ-व्रतम् उन्नत-क्षिति-धरोद्धारेण धीराकृतिम् ।
मय्य् उच्चैः कृत-किल्बिषे ऽपि मधुरं स्तुत्या मुहुर् यन्त्रितं
प्रेक्ष्य त्वां मम दुर्वितर्क्य-हृदयं धीर् गीश् च न स्पन्दते ॥ र्भ्र्स्_२,१।२२७ ॥

गम्भीरत्वादि-सामान्य-गुणा यद् इह कीर्तिताः ।
तद् एतेषु तद्-आधिक्य-प्रतिपादन-हेतवे ॥ र्भ्र्स्_२,१।२२८ ॥
इदं हि धीरोदात्तत्वं पूर्वैः प्रोक्तं रघूद्वहे ।
तत्-तद्-भक्तानुसारेण तथा कृष्णे विलोक्यते ॥ र्भ्र्स्_२,१।२२९ ॥

धीर-ललितः–
विदग्धो नव-तारुण्यः परिहास-विशारदः ।
निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः ॥ र्भ्र्स्_२,१।२३० ॥

यथा–
वाचा सूचित-शर्वरी-रति-कला-प्रागल्भ्यया राधिकां
व्रीडा-कुञ्चित-लोचनां विरचयन्न् अग्रे सखीनाम् असौ ।
तद्-वक्षो-रुह-चित्र-केलि-मकरी-पाण्डित्य-पारं गतः
कैशोरं सफली-करोति कलयन् कुञ्जे विहारं हरिः ॥ र्भ्र्स्_२,१।२३१ ॥

गोविन्दे प्रकटं धीर-ललितत्वं प्रदर्श्यते ।
उदाहरन्ति नाट्य-ज्ञाः प्रायो ऽत्र मकर-ध्वजम् ॥ र्भ्र्स्_२,१।२३२ ॥

धीर-शान्तः–
शम-प्रकृतिकः क्लेश-सहनश् च विवेचकः ।
विनयादि-गुणोपेतो धीर-शान्त उदीर्यते ॥ र्भ्र्स्_२,१।२३३ ॥

यथा–
विनय-मधुर-मूर्तिर् मन्थर-स्निग्ध-तारो
वचन-पटिम-भङ्गी-सूचिताशेष-नीतिः ।
अभिदधद् इह धर्मं धर्म-पुत्रोपकण्ठे
द्विज-पतिर् इव साक्षात् प्रेक्ष्यते कंस-वैरी ॥ र्भ्र्स्_२,१।२३४ ॥

युधिष्ठिरादिको धीरैर् धीर-शान्तः प्रकीर्तितः ॥ र्भ्र्स्_२,१।२३५ ॥

धीरोद्धतः–
मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः ।
विकत्थनश् च विद्वद्भिर् धीरोद्धत उदाहृतः ॥ र्भ्र्स्_२,१।२३६ ॥

यथा–
आः पापिन् यवनेन्द्र दर्दुर पुनर् व्याघुट्य सद्यस् त्वया
वासः कुत्रचिद् अन्ध-कूप-कुहर-क्रोडे ऽद्य निर्मीयताम् ।
हेलोत्तानित-दृष्टि-मात्र-भसित-ब्रह्माण्डाण्डः पुरो
जागर्मि त्वद्-उपग्रहाय भुजगः कृष्णो ऽत्र कृष्णाभिधः ॥ र्भ्र्स्_२,१।२३७ ॥

धीरोद्धतस् तु विद्वद्भिर् भीमसेनादिर् उच्यते ॥ र्भ्र्स्_२,१।२३८ ॥
मात्सर्याद्याः प्रतीयन्ते दोषत्वेन यद् अप्य् अमी ।
लीला-विशेष-शालित्वान् निर्दोषे ऽत्रे गुणाः स्मृताः ॥ र्भ्र्स्_२,१।२३९ ॥
यथा वा–
अम्भो-भार-भर-प्रणम्र-जलद-भ्रान्तिं वितन्वन्न् असौ
घोराडम्बर-डम्बरः सुविकुटाम् उत्क्षिप्य हस्तार्गलाम् ।
दुर्वारः पर-वारणः स्वयम् अहं लब्धो ऽस्मि कृष्णः पुरो
रे श्रीदाम-कुरङ्गसङ्गर-भुवो भङ्गं त्वम् अङ्गीकुरु ॥ र्भ्र्स्_२,१।२४० ॥

मिथो विरोधिनो ऽप्य् अत्र केचिन् निगदिता गुणाः ।
हरौ निरङ्कुशैश्वर्यात् को ऽपि न स्याद् असम्भवः ॥ र्भ्र्स्_२,१।२४१ ॥

तथा च कौर्मे–
अस्थूलश् चाणुश् चैव स्थूलो ऽणुश् चैव सर्वतः ।
अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्त-लोचनः ।
ऐश्वर्य-योगाद् भगवान् विरुद्धार्थो ऽभिधीयते ॥ र्भ्र्स्_२,१।२४२ ॥
तथापि दोषाः परमे नैवाहार्याः कथञ्चन ।
गुणा विरुद्धा अप्य् एते समाहार्याः समन्ततः ॥ र्भ्र्स्_२,१।२४३ ॥

महावाराहे च–
सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः ।
हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् ॥ र्भ्र्स्_२,१।२४४ ॥
परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ।
सर्वे सर्व-गुणैः पूर्णाः सर्व-दोष-विवर्जिताः ॥ र्भ्र्स्_२,१।२४५ ॥

वैष्णव-तन्त्रे ऽपि–
अष्टादश-महा-दोषै रहिता भगवत्-तनुः ।
सर्वैश्वर्यमयी सत्य-विज्ञानानन्द-रूपिणी ॥ र्भ्र्स्_२,१।२४६ ॥

अष्टादश-महा-दोषाः, यथा विष्णु-यामले–
मोहस् तन्द्रा भ्रमो रुक्ष-रसता काम उल्बणः ।
लोलता मद-मात्सर्ये हिंसा खेद-परिश्रमौ ॥ र्भ्र्स्_२,१।२४७ ॥
असत्यं क्रोध आकाङ्क्षा आशङ्का विश्व-विभ्रमः ।
विषमत्वं परापेक्षा दोषा अष्टादशोदिताः ॥ र्भ्र्स्_२,१।२४८ ॥

इत्थं सर्वावतारेभ्यस् ततो ऽप्य् अत्रावतारिणः ।
व्रजेन्द्र-नन्दने सुष्ठु माधुर्य-भर ईरितः ॥ र्भ्र्स्_२,१।२४९ ॥

तथा च ब्रह्म-संहितायाम् आदि-पुरुष-रहस्ये (५।५९)–

यस्यैक-निश्वसित-कालम् अथावलम्ब्य
जीवन्ति लोम-बिलजा जगद्-अण्ड-नाथाः ।
विष्णुर् महान् स इह यस्य कला-विशेषो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ र्भ्र्स्_२,१।२५० ॥

अथाष्टाव् अनुकीर्त्यन्ते सद्-गुणत्वेन विश्रुताः ।
मङ्गलालङ्क्रिया-रूपाः सत्त्व-भेदास् तु पौरुषाः ॥ र्भ्र्स्_२,१।२५१ ॥
शोभा विलासो माधुर्यं माङ्गल्यं स्थैर्य-तेजसी ।
ललितौदार्यम् इत्य् एते सत्त्व-भेदास् तु पौरुषाः ॥ र्भ्र्स्_२,१।२५२ ॥

तत्र शोभा–
नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता ।
सत्यं च व्यक्तिम् आयाति यत्र शोभेति तां विदुः ॥ र्भ्र्स्_२,१।२५३ ॥

यथा–
स्वर्ग-ध्वंसं विधित्सुर् व्रज-भुवि कदनं सुष्ठु वीक्ष्यातिवृष्ट्या
नीचान् आलोच्य पश्चान् नमुचि-रिपु-मुखानूढ-कारुण्य-वीचिः ।
अप्रेक्ष्य स्वेन तुल्यं कम् अपि निज-रुषाम् अत्र पर्याप्ति-पात्रं
बन्धून् आनन्दयिष्यन्न् उदहरतु हरिः सत्य-सन्धो महाद्रिम् ॥ र्भ्र्स्_२,१।२५४ ॥

विलासः–
वृषभस्येव गम्भीरा गतिर् धीरं च वीक्षणम् ।
स-स्मितं च वचो यत्र स विलास इतीर्यते ॥ र्भ्र्स्_२,१।२५५ ॥

यथा–
मल्ल-श्रेण्याम् अविनयवतीं मन्थरां न्यस्य दृष्टिं
व्याधुन्वानो द्विप इव भुवं विक्रमाडम्बरेण ।
वाग्-आरम्भे स्मित-परिमलैः क्षालयन् मञ्च-कक्षां
तुङ्गे रङ्ग-स्थल-परिसरे सारसाक्षः ससार ॥ र्भ्र्स्_२,१।२५६ ॥

माधुर्यम्–
तन् माधुर्यं भवेद् यत्र चेष्टादेः स्पृहणीयता ॥ र्भ्र्स्_२,१।२५७ ॥

यथा–
वराम् अध्यासीनस् तट-भुवम् अवष्टम्भ-रुचिभिः
कदम्बैः प्रालम्बं प्रवलित-विलम्बं विरचयन् ।
प्रपन्नायाम् अग्रे मिहिर-दुहितुस् तीर्थ-पदवीं
कुरङ्गी-नेत्रायां मधु-रिपुर् अपाङ्गं विकिरति ॥ र्भ्र्स्_२,१।२५८ ॥

माङ्गल्यम्–
माङ्गल्यं जगताम् एव विश्वासास्पदता मता ॥ र्भ्र्स्_२,१।२५९ ॥

यथा–
अन्याय्यं न हराव् इति व्यपगत-द्वारार्गला दानवा
रक्षी कृष्ण इति प्रमत्तम् अभितः क्रीडासु रक्ताः सुराः ।
साक्षी वेत्ति स भक्तिम् इत्य् अवनत-व्राताश् च चिन्तोज्झिताः
के विश्वम्भर न त्वद्-अङ्घ्रि-युगले विश्रम्भितां भेजिरे ॥ र्भ्र्स्_२,१।२६० ॥

स्थैर्यम्–
व्यवसायाद् अचलनं स्थैर्यं विघ्नाकुलाद् अपि ॥ र्भ्र्स्_२,१।२६१ ॥

यथा–
प्रतिकुले ऽपि स-शूले, शिवे शिवायां निरंशुकायां च ।
व्यलुनाद् एव मुकुन्दो विन्ध्यावलि-नन्दनस्य भुजान् ॥ र्भ्र्स्_२,१।२६२ ॥

तेजः–
सर्व-चित्तावगाहित्वं तेजः सद्भिर् उदीर्यते ॥ र्भ्र्स्_२,१।२६३ ॥

यथा श्री-दशमे (१०।४३।१७)–
मल्लानाम् अशनिर् नॄणां नरवरः स्त्रीणां स्मरो मूर्तिमान्
गोपानां स्वजनो ऽसतां क्षितिर्भुजां शास्ता स्व-पित्रोः शिशुः ।
मृत्युर् भोज-पतेर् विराड् अविदुषां तत्त्वं परं योगिनां
वृष्णीनां परदेवतेति विदितो रङ्गः गतः साग्रजः ॥ र्भ्र्स्_२,१।२६४ ॥

यथा–
तेजो बुधैर् अवज्ञादेर् असहिष्णुत्वम् उच्यते ॥ र्भ्र्स्_२,१।२६५ ॥

यथा–
आक्रुष्टे प्रकटं दिदण्डयिषुणा चण्डेन रङ्ग-स्थले
नन्दे चानकदुन्दुभौ च पुरतः कंसेन विश्व-द्रुहा ।
दृष्टिं तत्र सुरारि-मृत्यु-कुलटा-सम्पर्क-दूतीं क्षिपन्
मञ्चस्योपरि सञ्चुकुर्दिषुर् असौ पश्याच्युतः प्राञ्चति ॥ र्भ्र्स्_२,१।२६६ ॥

ललितम्–
शृङ्गार-प्रचुरा चेष्टा यत्र तं ललितं विदुः ॥ र्भ्र्स्_२,१।२६७ ॥

यथा–
विधत्ते राधायाः कुच-मुकुलयोः केलि-मकरीं
करेण व्यग्रात्मा सरभसम् असव्येन रसिकः ।
अरिष्टे साटोपं कटु रुवति सव्येन विहसन्न्
उदञ्चद्-रोमाञ्चं रचयति च कृष्णः परिकरम् ॥ र्भ्र्स्_२,१।२६८ ॥

औदार्यम्–
आत्माद्य्-अर्पण-कारित्वम् औदार्यम् इति कीर्त्यते ॥ र्भ्र्स्_२,१।२६९ ॥

यथा–
वदान्यः को भवेद् अत्र वदान्यः पुरुषोत्तमात् ।
अकिञ्चनाय येनात्मा निर्गुणायापि दीयते ॥ र्भ्र्स्_२,१।२७० ॥

सामान्या नायक-गुणाः स्थिरताद्या यद् अप्य् अमी ।
तथापि पूर्वतः किञ्चिद् विशेषात् पुनर् ईरिताः ॥ र्भ्र्स्_२,१।२७१ ॥

अथास्य सहायाः–
अस्य गर्गादयो धर्मे युयुधानादयो युधि ।
उद्धवाद्यास् तथा मन्त्रे सहायाः परिकीर्तिताः ॥ र्भ्र्स्_२,१।२७२ ॥

अथ कृष्ण-भक्ताः–
तद्-भाव-भावित-स्वान्ताः कृष्ण-भक्ता इतीरिताः ॥ र्भ्र्स्_२,१।२७३ ॥
यो सत्य-वाक्य इत्य् आद्या ह्रीमान् इत्य् अन्तिमा गुणाः ।
प्रोक्ताः कृष्णे ऽस्य भक्तेषु ते विज्ञेया मनीषिभिः ॥ र्भ्र्स्_२,१।२७४ ॥
ते साधकाश् च सिद्धाश् च द्वि-विधाः परिकीर्तिताः ॥ र्भ्र्स्_२,१।२७५ ॥

तत्र साधकाः–
उत्पन्न-रतयः सम्यङ् नैर्विघ्न्यम् अनुपागताः ।
कृष्ण-साक्षात्-कृतौ योग्याः साधकाः परिकीर्तिताः ॥ र्भ्र्स्_२,१।२७६ ॥

यथैकादशे (११।२।४६)–
ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ र्भ्र्स्_२,१।२७७ ॥

यथा वा–
सिक्ताप्य् अश्रु-जलोत्करेण भगवद्-वार्ता-नदी-जन्मना
तिष्ठत्य् एव भवाग्नि-हेतिर् इति ते धीमन्न् अलं चिन्तया ।
हृद्-व्योमन्य् अमृत-स्पृहा-हर-कृपा-वृष्टेः स्फुटं लक्ष्यते
नेदिष्टः पृथु-रोम-ताण्डव-भरात् कृष्णाम्बुधस्योद्गमः ॥ र्भ्र्स्_२,१।२७८ ॥
बिल्वमङ्गल-तुल्या ये साधकास् ते प्रकीर्तिताः ॥ र्भ्र्स्_२,१।२७९ ॥

अथ सिद्धाः–
अविज्ञाताखिल-क्लेशाः सदा कृष्णाश्रित-क्रियाः ।
सिद्धाः स्युः सन्तत-प्रेम-सौख्यास्वाद-परायणाः ॥ र्भ्र्स्_२,१।२८० ॥
सम्प्राप्त-सिद्धयः सिद्धा नित्य-सिद्धाश् च ते त्रिधा ॥ र्भ्र्स्_२,१।२८१ ॥

तत्र सम्प्राप्त-सिद्धयः–
साधनैः कृपया चास्य द्विधा सम्प्राप्त-सिद्धयः ॥ र्भ्र्स्_२,१।२८२ ॥

तत्र साधन-सिद्धाः, यथा तृतीये (३।१५।२५)–

यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या
दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः ।
भर्तुर् मिथः सु-यशसः कथनानुराग-
वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः ॥ र्भ्र्स्_२,१।२८३ ॥

यथा वा–
ये भक्ति-प्रभविष्णुता-कवलित-क्लेशोर्मयः कुर्वते
दृक्-पाते ऽपि घृणां कृत-प्रणतिषु प्रायेण मोक्षादिषु ।
तान् प्रेम-प्रसरोत्सव-स्तवकित-स्वान्तान् प्रमोदाश्रुभिर्
निर्धौतास्य-तटान् मुहुः पुलकिनो धन्यान् नमस्कुर्महे ॥ र्भ्र्स्_२,१।२८४ ॥

मार्कण्डेयादयः प्रोक्ताः साधनैः प्राप्त-सिद्धयः ॥ र्भ्र्स्_२,१।२८५ ॥

अथ कृपा-सिद्धाः, यथा श्री-दशमे (१०।२३।४२-४३)–

नासां द्विजाति-संस्कारो न निवासो गुराव् अपि ।
न तपो नात्म-मीमांसा न शौचं न क्रियाः शुभाः ॥ र्भ्र्स्_२,१।२८६ ॥
अथापि ह्य् उत्तमःश्लोके कृष्णे योगेश्वरेश्वरे ।
भक्तिर् दृढा न चास्माकं संस्कारादिमताम् अपि ॥ र्भ्र्स्_२,१।२८७ ॥

यथा वा–
न काचिद् अभवद् गुरोर् भजन-यन्त्रणे ऽभिज्ञता
न साधन-विधौ च ते श्रम-लवस्य गन्धो ऽप्य् अभूत् ।
गतो ऽसि चरितार्थतां परमहंस-मृग्य-श्रिया
मुकुन्द-पद-पद्मयोः प्रणय-सीधुनो धारया ॥ र्भ्र्स्_२,१।२८८ ॥

कृपा-सिद्धा यज्ञ-पत्नी-वैरोचनि-शुकादयः ॥ र्भ्र्स्_२,१।२८९ ॥

अथ नित्य-सिद्धाः–
आत्म-कोटि-गुणं कृष्णे प्रेमाणं परमं गताः ।
नित्यानन्द-गुणाः सर्वे नित्य-सिद्धा मुकुन्दवत् ॥ र्भ्र्स्_२,१।२९० ॥

यथा पाद्मे श्री-भगवत्-सत्यभामा-देवी-संवादे–
अथ ब्रह्मादि-देवानां तथा प्रार्थनया भुवः ।
आगतो ऽहं गणाः सर्वे जातास् ते ऽपि मया सह ॥ र्भ्र्स्_२,१।२९१ ॥
एते हि यादवाः सर्वे मद्-गणा एव भामिनि ।
सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥ र्भ्र्स्_२,१।२९२ ॥

तथा च श्री-दशमे (१०।१४।३२)–
अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् ।
यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ र्भ्र्स्_२,१।२९३ ॥

तत्रैव (१०।२६।१३)–
दुस्त्यजश् चानुरागो ऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
नन्द ते तनये ऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥ र्भ्र्स्_२,१।२९४ ॥

सनातनं मित्रम् इति तस्याप्य् औत्पत्तिकः कथम् ।
स्नेहो ऽस्मास्व् इति चैतेषां नित्य-प्रेष्ठत्वम् आगतम् ॥ र्भ्र्स्_२,१।२९५ ॥
इत्य् अतः कथिता नित्य-प्रिया यादव-वल्लवाः ।
एषां लौकिकवच्-चेष्टा लीला मुर-रिपोर् इव ॥ र्भ्र्स्_२,१।२९६ ॥

तथा हि पाद्मोत्तर-खण्डे–
यथा सौमित्रि-भरतौ यथा सङ्कर्षणादयः ।
तथा तेनैव जायन्ते निज-लोकाद् यदृच्छया ॥ र्भ्र्स्_२,१।२९७ ॥
पुनस् तेनैव गच्छन्ति तत्-पदं शाश्वतं परम् ।
न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते ॥ र्भ्र्स्_२,१।२९८ ॥

ये प्रोक्ताः पञ्च-पञ्चाशत् क्रमात् कंसरिपोर् गुणाः ।
ते चान्ये चापि सिद्धेषु सिद्धिदत्वादयो मताः ॥ र्भ्र्स्_२,१।२९९ ॥
भक्तास् तु कीर्तिताः शान्तास् तथा दास-सुतादयः ।
सखायो गुरु-वर्गाश् च प्रेयस्यश् चेति पञ्चधा ॥ र्भ्र्स्_२,१।३०० ॥

अथ उद्दीपनाः–
उद्दीपनास् तु ते प्रोक्ता भावम् उद्दीपयन्ति ये ।
ते तु श्री-कृष्ण-चन्द्रस्य गुणाश् चेष्टाः प्रसाधनम् ॥ र्भ्र्स्_२,१।३०१ ॥
स्मिताङ्ग-सौरभे वंश-शृङ्ग-नूपुर-कम्बवः ।
पदाङ्क-क्षेत्र-तुलसी-भक्त-तद्-वासरादयः ॥ र्भ्र्स्_२,१।३०२ ॥

तत्र गुणाः–
गुणास् तु त्रिविधाः प्रोक्ताः काय-वाङ्-मानसाश्रयाः ॥ र्भ्र्स्_२,१।३०३ ॥

तत्र कायिकाः–
वयः-सौन्दर्य-रूपाणि कायिकामृदुतादयः ॥ र्भ्र्स्_२,१।३०४ ॥
गुणाः स्वरूपम् एवास्य कायिकाद्या यदप्य् अमी ।
भेदं स्वीकृत्य वर्ण्यन्ते तथाप्य् उद्दीपना इति ॥ र्भ्र्स्_२,१।३०५ ॥
अतस् तस्य स्वरूपस्य स्याद् आलम्बनतैव हि ।
उद्दीपनत्वम् एव स्याद् भूषणादेस् तु केवलम् ॥ र्भ्र्स्_२,१।३०६ ॥
एषाम् आलम्बनत्वं च तथोद्दीपनतापि च ॥ र्भ्र्स्_२,१।३०७ ॥

तत्र वयः–
वयः कौमार-पौगण्ड-कैशोरम् इति तत् त्रिधा ॥ र्भ्र्स्_२,१।३०८ ॥
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
आ-षोडशाच् च कैशोरं यौवनं स्यात् ततः परम् ॥ र्भ्र्स्_२,१।३०९ ॥
औचित्यात् तत्र कौमारं वक्तव्यं वत्सले रसे ।
पौगण्डं प्रेयसि तत्-तत्-खेलादि-योगतः ॥ र्भ्र्स्_२,१।३१० ॥
श्रैष्ठ्यम् उज्ज्वल एवास्य कैशोरस्य तथाप्य् अदः ।
प्रायः सर्व-रसौचित्याद् अत्रोदाह्रियते क्रमात् ॥ र्भ्र्स्_२,१।३११ ॥
आद्यं मध्यं तथा शेषं कैशोरं त्रिविधं भवेत् ॥ र्भ्र्स्_२,१।३१२ ॥

तत्र आद्यम्–
वर्णस्योज्ज्वलता कापि नेत्रान्ते चारुण-च्छविः ।
रोमावलि-प्रकटता कैशोरे प्रथमे सति ॥ र्भ्र्स्_२,१।३१३ ॥

तथा–
हरति शितिमा को ऽप्य् अङ्गानां महेन्द्र-मणि-श्रियं
प्रविशति दृशोर् अन्ते कान्तिर् मनाग् इव लोहिनी ।
सखि तनु- रुहां राजिः सूक्ष्मा दरास्य विरोहते
स्फुरति सुषमा नव्येदानीं तनौ वन-मालिनः ॥ र्भ्र्स्_२,१।३१४ ॥

वैजयन्ती-शिखण्डादि-नट-प्रवर-वेशता ।
वंशी-मधुरिमा वस्त्र-शोभा चात्र परिच्छदः ॥ र्भ्र्स्_२,१।३१५ ॥

यथा श्री-दशमे (१०।२१।५)–
बर्हापीडं नट-वर-वपुः कर्णयोः कर्णिकारं
बिभ्रद्-वासः कनक-कपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृन्दैर्
वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः ॥ र्भ्र्स्_२,१।३१६ ॥

खरतात्र नखाग्राणां धनुर् आन्दोलिता भ्रुवोः ।
रदानां रञ्जनं राग-चूर्णैर् इत्य् आदि चेष्टितम् ॥ र्भ्र्स्_२,१।३१७ ॥

यथा–
नवं धनुर् इवातनोर् नटद्-अघ-द्विषोर् भ्रू-युगं
शरालिर् इव शाणिता नखर-राजिर् अग्रे खरा ।
विराजति शरीरिणी रुचिर-दन्त-लेखारुणा
न का सखि समीक्षणाद् युवतिर् अस्य वित्रस्यति ॥ र्भ्र्स्_२,१।३१८ ॥

तन्-मोहनता, यथा–
कर्तुं मुग्धाः स्वयम् अचटुना न क्षमन्ते ऽभियोगं
न व्यादातुं क्वचिद् अपि जने वक्त्रम् अप्य् उत्सहन्ते ।
दृष्ट्वा तास् ते नव-मधुरिम-स्मेरतां माधवार्ताः
स्व-प्राणेभ्यस् त्रयम् उदसृजन्न् अद्य तोयाञ्जलीनाम् ॥ र्भ्र्स्_२,१।३१९ ॥

अथ मध्यमम्–
ऊरु-द्वयस्य बाह्वोश् च कापि श्रीर् उरसस् तथा ।
मूर्तेर् माधुरिमाद्यं च कैशोरे सति मध्यमे ॥ र्भ्र्स्_२,१।३२० ॥

यथा–
स्पृहयति करि-शुण्डा-दण्डनायोरु-युग्मं
गरुड-मणि-कवाटी-सख्यम् इच्छत्य् उरश् च ।
भुज-युगम् अपि धित्सत्य् अर्गलावर्ग-निन्दाम्
अभिनव-तरुणिम्नः प्रक्रमे केशवस्य ॥ र्भ्र्स्_२,१।३२१ ॥

मुखं स्मित-विलासाढ्यं विभ्रमोत्तरले दृशौ ।
त्रि-जगन्-मोहनं गीतम् इत्य् आदिर् इह माधुरी ॥ र्भ्र्स्_२,१।३२२ ॥

यथा–
अनङ्ग-नय-चातुरी-परिचयोत्तरङ्गे दृशौ
मुखाम्बुजम् उदञ्चित-स्मित-विलास-रम्याधरम् ।
अचञ्चल-कुलाङ्गना-व्रत-विडम्बि-सङ्गीतकं
हरेस् तरुणिमाङ्कुरे स्फुरति माधुरी काप्य् अभूत् ॥ र्भ्र्स्_२,१।३२३ ॥

वैदग्धी-सार-विस्तारः कुञ्ज-केलि-महोत्सवः ।
आरम्भो रास-लीलादेर् इह चेष्टादि-सौष्ठवम् ॥ र्भ्र्स्_२,१।३२४ ॥

यथा–
व्यक्तालक्त-पदैः क्वचित् परिलुठत्-पिञ्छावतंसैः क्वचित्
तल्पैर् विच्युत-काञ्चिभिः क्वचिद् असौ व्याकीर्ण-कुञ्जोत्करा ।
प्रोद्यन्-मण्डल-बन्ध-ताण्डव-घटालक्ष्मोल्लसत्-सैकता
गोविन्दस्य विलास-वृन्दम् अधिकं वृन्दाटवी शंसति ॥ र्भ्र्स्_२,१।३२५ ॥

तन्-मोहनता, यथा–
विदूरान् माराग्निं हृदय-रवि-कान्ते प्रकटयन्न्
उदस्यन् धर्मेन्दुं विदधद् अभितो राग-पटलम् ।
कथं हा नस् त्राणं सखि मुकुलयन् बोध-कुमुदं
तरस्वी कृष्णाब्भ्रे मधुरिम-भरार्को ऽभ्युदयते ॥ र्भ्र्स्_२,१।३२६ ॥

अथ शेषम्–
पूर्वतो ऽप्य् अधिकोत्कर्षं बाढम् अङ्गानि बिभ्रति ।
त्रि-वलि-व्यक्तिर् इत्य् आद्यं कैशोरे चरमे सति ॥ र्भ्र्स्_२,१।३२७ ॥

यथा–
मरकत-गिरेर् गण्ड-ग्राव-प्रभा-हर-रक्षसं
शत-मख-मणि-स्तम्भारम्भ-प्रमाथि-भुज-द्वयम् ।
तनु-तरणिजा-वीचि-च्छाया-विडम्बि-बलि-त्रयं
मदन-कदली-साधिष्ठोरुं स्मराम्य् असुरान्तकम् ॥ र्भ्र्स्_२,१।३२८ ॥

तन्-माधुर्यम्, यथा–
दशार्ध-शर-माधुरी-दमन-दक्षयाङ्ग-श्रिया
विधूनित-वधू-धृतिं वरकला-विलासास्पदम् ।
दृग्-अञ्चल-चमत्कृति-क्षपित-खञ्जरीट-द्युतिं
स्फुरत्-तरुणिमोद्गमं तरुणि पश्य पीताम्बरम् ॥ र्भ्र्स्_२,१।३२९ ॥

इदम् एव हरेः प्राज्ञैर् नव-यौवनम् उच्यते ॥ र्भ्र्स्_२,१।३३० ॥
अत्र गोकुल-देवीनां भाव-सर्वस्व-शालिता ।
अभूत-पूर्व-कन्दर्प-तन्त्र-लीलोत्सवादयः ॥ र्भ्र्स्_२,१।३३१ ॥

यथा–
कान्ताभिः कलहायते क्वचिद् अयं कन्दर्प-लेखान् क्वचित्
कीरैर् अर्पयति क्वचिद् वितनुते क्रीडाभिसारोद्यमम् ।
सख्या भेदयति क्वचित् स्मर-कला-षाड्गुण्यवान् ईहते
सन्धिं क्वाप्य् अनुशास्ति कुञ्ज-नृपतिः शृङ्गार-राज्योत्तमम् ॥ र्भ्र्स्_२,१।३३२ ॥

तन्-मोहनता, यथा–
कर्णाकर्णि सखी-जनेन विजने दूती-स्तुति-प्रक्रिया
पत्युर् वञ्चन-चातुरी गुणनिका कुञ्ज-प्रयाणे निशि* ।
वाधिर्यं गुरु-वाचि वेणु-विरुताव् उत्कर्णतेति व्रतान्
कैशोरेण तवाद्य कृष्ण गुरुणा गौरी-गणः पठ्यते ॥ र्भ्र्स्_२,१।३३३ ॥
{*कुण्ड इति क्वचित्}

नेतुः स्वरूपम् एवोक्तं कैशोरम् इह यद्यपि ।
नानाकृति-प्रकटनात् तथाप्य् उद्दीपनं मतम् ॥ र्भ्र्स्_२,१।३३४ ॥
बाल्ये ऽपि नव-तारुण्य-प्राकट्यं क्वचित् ।
तन् नातिरस-वाहित्वान् न रसज्ञैर् उदाहृतम् ॥ र्भ्र्स्_२,१।३३५ ॥

अथ सौन्दर्यम्–
भवेत् सौन्दर्यम् अङ्गानां सन्निवेशो यथोचितम् ॥ र्भ्र्स्_२,१।३३६ ॥

यथा–
मुखं ते दीर्घाक्षं मरकत-तटी-पीवरम् उरो
भुज-द्वन्द्वं स्तम्भ-द्युति-सुवलितं पार्श्व-युगलम् ।
परिक्षीणो मध्यः प्रथिम-लहरी-हारि जघनं
न कस्याः कंसारे हरति हृदयं पङ्कज-दृशः ॥ र्भ्र्स्_२,१।३३७ ॥

अथ रूपम्–
विभूषणं विभूष्यं स्याद् येन तद् रूपम् उच्यते ॥ र्भ्र्स्_२,१।३३८ ॥

यथा–
कृष्णस्य मण्डन-ततिर् मणि-कुण्डलाद्या
नीताङ्ग-सङ्गतिम् अलङ्कृतये वराङ्गि ।
शक्ता बभूव न मनाग् अपि तद्-विधाने
सा प्रत्युत स्वयम् अनल्पम् अलङ्कृतासीत् ॥ र्भ्र्स्_२,१।३३९ ॥

अथ मृदुता–
मृदुता कोमलस्यापि संस्पर्शासहतोच्यते ॥ र्भ्र्स्_२,१।३४० ॥

यथा–
अहह नवाम्बुद-कान्तेर् अमुष्य सुकुमारता कुमारस्य ।
अपि नव-पल्लव-सङ्गाद् अङ्गान्य् अपरज्य शीर्यन्ति ॥ र्भ्र्स्_२,१।३४१ ॥

ये नायक-प्रकरणे वाचिका मानसास् तथा ।
गुणाः प्रोक्तान्त एवात्र ज्ञेया उद्दीपना बुधः ॥ र्भ्र्स्_२,१।३४२ ॥

चेष्टा–
चेष्टा रासादि-लीलाः स्युस् तथा दुष्ट-वधादयः ॥ र्भ्र्स्_२,१।३४३ ॥

तत्र रासो, यथा–
नृत्यद्-गोप-नितम्बिनी-कृत-परीरम्भस्य रम्भादिभिर्
गीर्वाणीभिर् अनङ्ग-रङ्ग-विवशं सन्दृश्यमान-श्रियः ।
क्रीडा-ताण्डव-पण्डितस्य परितः श्री-पुण्डरीकाक्ष ते
रासारम्भ-रसार्थिनो मधुरिमा चेतांसि नः कर्षति ॥ र्भ्र्स्_२,१।३४४ ॥

दुष्ट-वधो, यथा ललित-माधवे (९।५०)–

शम्भुर् वृषं नयति मन्दर-कन्दरान्तर्
म्लानः सलीलम् अपि यत्र शिरो धुनाने ।
आः कौतुकं कलय केलि-लवाद् अरिष्टं
तं दुष्ट-पुङ्गवम् असौ हरिर् उन्ममाथ ॥ र्भ्र्स्_२,१।३४५ ॥

अथ प्रसाधनम्–
कथितं वसनाकल्प-मण्डनाद्यं प्रसाधनम् ॥ र्भ्र्स्_२,१।३४६ ॥

तत्र वसनम्–
नवार्क-रश्मि-काश्मीर-हरितालादि-सन्निभम् ।
युगं चतुष्कं भूयिष्ठं वसनं त्रि-विधं हरेः ॥ र्भ्र्स्_२,१।३४७ ॥

तत्र युगम्–
परिधानं स-संव्यानं युग-रूपम् उदीरितम् ॥ र्भ्र्स्_२,१।३४८ ॥

यथा स्तवावल्यां मुकुन्दाष्टके (३)–

कनक-निवह-शोभानन्दि पीतं नितम्बे
तद्-उपरि नवरक्तं वस्त्रम् इत्थं दधानः ।
प्रियम् इव किल वर्णं राग-युक्तं प्रियायाः
प्रणयतु मम नेत्राभीष्ट-पूर्तिं मुकुन्दः ॥ र्भ्र्स्_२,१।३४९ ॥

चतुष्कम्–
चतुष्कं कञ्चुकोष्णीष-तुन्द-बन्धान्तरीयकम् ॥ र्भ्र्स्_२,१।३५० ॥

यथा–
स्मेरास्यः परिहित-पाटलाम्बर-श्रीश्
छन्नाङ्गः पुरट-रुचोरु-कञ्चकेन ।
उष्णीषं दधद् अरुणं धटीं च चित्राः
कंसारिर् वहति महोत्सवे मुदं नः ॥ र्भ्र्स्_२,१।३५१ ॥

भूयिष्ठम्–
खण्डिताखण्डितं भूरि नट-वेश-क्रियोचितम् ।
अनेक-वर्णं वसनं भूयिष्ठं कथितं बुधैः ॥ र्भ्र्स्_२,१।३५२ ॥

यथा–
अखण्डित-विखण्डितैः सित-पिशङ्ग-नीलारुणैः
पटैः कृत-यथोचित-प्रकट-सन्निवेशोज्ज्वलः ।
अयं करभ-राट्-प्रभः प्रचुर-रङ्ग-शृङ्गारितः
करोति करभोरु मे घन-रुचिर् मुदं माधवः ॥ र्भ्र्स्_२,१।३५३ ॥

अथ आकल्पः–
केश-बन्धनम् आलेपो माला-चित्र-विशेषकः ।
ताम्बूल-केलि-पद्मादिर् आकल्पः परिकीर्तितः ॥ र्भ्र्स्_२,१।३५४ ॥
स्याज् जूटः कवरी चूडा वेणी च कच-बन्धनम् ।
पाण्डुरः कर्बुरः पीत इत्य् आलेपस् त्रिधा मतः ॥ र्भ्र्स्_२,१।३५५ ॥
माला त्रिधा वैजयन्ती रत्न-माला वन-स्रजः ।
अस्या वैकक्षकापीड-प्रालम्बाद्या भिदा मताः ॥ र्भ्र्स्_२,१।३५६ ॥
मकरी-पत्र-भङ्गाढ्यं चित्रं पीत-सितारुणम् ।
तथा विशेषको ऽपि स्याद् अन्यद् ऊह्यं स्वयं बुधैः ॥ र्भ्र्स्_२,१।३५७ ॥

यथा–
ताम्बूल-स्फुरद्-आननेन्दुर् अमलं धम्मिल्लम् उल्लासयन्
भक्ति-च्छेद-लसत्-सुघृष्ट-घुसृणालेप-श्रिया पेशलः ।
तुङ्गोरः-स्थल-पिङ्गल-स्रग् अलिक-भ्राजिष्णु-पत्राङ्गुलिः
श्यामाङ्ग-द्युतिर् अद्य मे सखि दृशोर् दुग्धे मुदं माधवः ॥ र्भ्र्स्_२,१।३५८ ॥

अथ मण्डनम्–
किरीटं कुण्डले हारश् चतुष्की वलयोर्मयः ।
केयूर-नूपुराद्यं च रत्न-मण्डनम् उच्यते ॥ र्भ्र्स्_२,१।३५९ ॥

यथा–
काञ्ची चित्रा मुकुटम् अतुलं कुण्डले हारि-हीरे
हारस् तारो वलयम् अमलं चन्द्रा-चारुश् चतुष्की ।
रम्या चोर्मिर् मधुरिम-पूरे नूपुरे चेत्य् अघारेर्
अङ्गैर् एवाभरण-पटली भूषिता दोग्धि भूषाम् ॥ र्भ्र्स्_२,१।३६० ॥

कुसुमादि-कृतं चेदं वन्य-मण्डनम् ईरितम् ।
धातु-क् प्तं तिलकं पत्र-भङ्ग-लतादिकम् ॥ र्भ्र्स्_२,१।३६१ ॥

अथ स्मितम्, यथा कृष्ण-कर्णामृते (९९)–
अखण्ड-निर्वाण-रस-प्रवाहैर्
विखण्डिताशेष-रसान्तराणि ।
अयन्त्रितोद्वान्त-सुधार्णवानि
जयन्ति शीतानि तव स्मितानि ॥ र्भ्र्स्_२,१।३६२ ॥

अथ अङ्ग-सौरभम्, यथा–
परिमल-सरिद् एषा यद् वहन्ती समन्तात्
पुलकयति वपुर् नः काप्य् अपूर्वा मुनीनाम् ।
मधु-रिपुर् उपरागे तद्-विनोदाय मन्ये
कुरु-भुवम् अनवद्यामोद-सिन्धुर् विवेश ॥ र्भ्र्स्_२,१।३६३ ॥

अथ वंशः–
ध्यानं बलात् परमहंस-कुलस्य भिन्दन्
निन्दन् सुधा-मधुरिमाणम् अधीर-धर्मा ।
कन्दर्प-शासन-धुरां मुहुर् एष शंसन्
वंशी-ध्वनिर् जयति कंस-निसूदनस्य ॥ र्भ्र्स्_२,१।३६४ ॥

एष त्रिधा भवेद् वेणु-मुरली-वंशिकेत्य् अपि ॥ र्भ्र्स्_२,१।३६५ ॥

तत्र वेणुः–
पाविकाख्यो भवेद् वेणुर् द्वादशाङ्गुलेर् दैर्घ्य-भाक् ।
स्थौल्ये ऽङ्गुष्ठ-मितः षड्भिर् एष रन्ध्रैः समन्वितः ॥ र्भ्र्स्_२,१।३६६ ॥

मुरली–
हस्त-द्वय-मितायामा मुख-रन्ध्र-समन्विता ।
चतुः-स्वर-च्छिद्र-युक्ता मुरली चारु-नादिनी ॥ र्भ्र्स्_२,१।३६७ ॥

वंशी–
अर्धाङ्गुलान्तरोन्मानं तारादि-विवराष्टकम् ।
ततः सार्धाङ्गुलाद् यत्र मुख-रन्ध्रं तथाङ्गुलम् ॥ र्भ्र्स्_२,१।३६८ ॥
शिरो वेदाङ्गुलं पुच्छं त्र्य्-अङ्गुलं सा तु वंशिका ।
नव-रन्ध्रा स्मृता सप्त-दशाङ्गुल-मिता बुधैः ॥ र्भ्र्स्_२,१।३६९ ॥
दशाङ्गुलान्तरा स्याच् चेत् सा तार-मुख-रन्ध्रयोः ।
महानन्देति व्याख्याता तथा सम्मोहिनीति च ॥ र्भ्र्स्_२,१।३७० ॥
भवेत् सूर्यान्तरा सा चेत् तत आकर्षिणी मता ।
आनन्दिनी तदा वंशी भवेद् इन्द्रान्तरा यदि ॥ र्भ्र्स्_२,१।३७१ ॥
गोपानां वल्लभा सेयं वंशुलीति च विश्रुता ।
क्रमान् मणिमयी हैमी वैणवीति त्रिधा च सा ॥ र्भ्र्स्_२,१।३७२ ॥

अथ शृङ्गम्–
शृङ्गं तु गवलं हेम-निबद्धाग्रिम-पश्चिमम् ।
रत्न-जाल-स्फुरन्-मध्यं मन्द्र-घोषाभिधं स्मृतम् ॥ र्भ्र्स्_२,१।३७३ ॥

यथा–
तारावली वेणु-भुजङ्गमेन
तारावलीला-गरलेन दष्टा ।
विषाणिका-नाद-पयो निपीय
विषाणि कामं द्वि-गुणी-चकार ॥ र्भ्र्स्_२,१।३७४ ॥

अथ नूपुरम्, यथा–
अघ-मर्दनस्य सखि नूपुर-ध्वनिं
निशमय्य सम्भृत-गभीर-सम्भ्रमा ।
अहम् ईक्षणोत्तरलितापि नाभवं
बहिर् अद्य हन्त गुरवः पुरः स्थिताः ॥ र्भ्र्स्_२,१।३७५ ॥

अथ कम्बुः–
कम्बुस् तु दक्षिणावर्तः पाञ्चजन्यतयोच्यते ॥ र्भ्र्स्_२,१।३७६ ॥

यथा–
अमर-रिपु-वधूटी-भ्रूण-हत्या-विलासी
त्रिदिव-पुर-पुरन्ध्री-वृन्द-नान्दीकरो ऽयम् ।
भ्रमति भुवन-मध्ये माधवाध्मात-धाम्नः
कृत-पुलक-कदम्बः कम्बु-राजस्य नादः ॥ र्भ्र्स्_२,१।३७७ ॥
अथ पदाङ्कः, यथा श्री-दशमे (१०।३८।२६)–
तद्-दर्शनाह्लाद-विवृद्ध-सम्भ्रमः
प्रेम्णोर्ध्व-रोमाश्रु-कलाकुलेक्षणः ।
रथाद् अवस्कन्द्य स तेष्व् अचेष्टत
प्रभोर् अमून्य् अङ्घ्रि-रजांस्य् अहो इति ॥ र्भ्र्स्_२,१।३७८ ॥

यथा वा–
कलयत हरिर् अध्वना सखायः
स्फुटम् अमुना यमुना-तटीम् अयासीत् ।
हरति पद-ततिर् यद्-अक्षिणी मे
ध्वज-कुलिशाकुश-पङ्कजाङ्कितेयम् ॥ र्भ्र्स्_२,१।३७९ ॥

अथ क्षेत्रम्, यथा–
हरि-केलि-भुवां विलोकनं
बत दूरे ऽस्तु सुदुर्लभ-श्रियाम् ।
मथुरेत्य् अपि कर्ण-पद्धतिं
प्रविशन् नाम मनो धिनोति नः ॥ र्भ्र्स्_२,१।३८० ॥

अथ तुलसी, यथा बिल्वमङ्गले {*नोत् इन् अन्य् ओफ़् थे क्क् चेन्तुरिएस्।}–
अयि पङ्कज-नेत्र-मौलि-माले
तुलसी-मञ्जरि किञ्चिद् अर्थयामि ।
अवबोधय पार्थ-सारथेस् त्वं
चरणाब्ज-शरणाभिलाषिणं माम् ॥ र्भ्र्स्_२,१।३८१ ॥

अथ भक्तो, यथा चतुर्थे (४।१२।२१)–
विज्ञाय ताव् उत्तम-गाय-किङ्कराव्
अभ्युत्थितः साध्वस-विस्मृत-क्रमः ।
ननाम नामानि गृणन् मधु-द्विषः
पार्षत्-प्रधानाव् इति संहताञ्जलिः ॥ र्भ्र्स्_२,१।३८२ ॥

यथा वा–
सुबल भुज-भुजङ्गं न्यस्य तुङ्गे तवांसे
स्मित-विलसद्-अपाङ्गः प्राङ्गणे भ्राजमानः ।
नयन-युगम् असिञ्चद् यः सुधा-वीचिभिर् नः
कथय स दयितस् ते क्वायम् आस्ते वयस्यः ॥ र्भ्र्स्_२,१।३८३ ॥

अथ तद्-वासरो, यथा–
अद्भुता बहवः सन्तु भगवत्-पर्व-वासराः ।
आमोदयति मां धन्या कृष्ण-भाद्रपदाष्टमी ॥ र्भ्र्स्_२,१।३८४ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे विभाव-लहरी प्रथमा ।


दक्षिण-विभागः

[२।२]
अनुभावाख्या द्वितीय-लहरी

अनुभावास् तु चित्त-स्थ-भावानाम् अवबोधकाः ।
ते बहिर् विक्रिया प्रायाः प्रोक्ता उद्भास्वराख्यया ॥ र्भ्र्स्_२,२।१ ॥
नृत्यं विलुठितं गीतं क्रोशनं तनु-मोटनम् ।
हुङ्कारो जृम्भणं श्वास-भूमा लोकानपेक्षिता ।
लाला-स्रवो ऽट्टहासश् च घूर्णा-हिक्कादयो ऽपि च ॥ र्भ्र्स्_२,२।२ ॥
ते शीताः क्षेपणाश् चेति यथार्थाख्या द्विधोदिताः ।
शीताः स्युर् गीत-जृम्भाद्या नृत्याद्याः क्षेपणाभिधाः ॥ र्भ्र्स्_२,२।३ ॥

तत्र नृत्यम्, यथा–
मुरली-खुरली-सुधा-किरं
हरि-वक्त्रेन्दुम् अवेक्ष्य कम्पितः ।
गणने सगणेश-डिण्डिम-
ध्वनिभिस् ताण्डवम् आश्रितो हरः ॥ र्भ्र्स्_२,२।४ ॥

विलुठितम्, यथा तृतीये (३।१।३२)
कच्चिद् बुधः स्वस्त्य्-अनमीव आस्ते
श्वफल्क-पुत्रो भगवत्-प्रपन्नः ।
यः कृष्ण-पादाङ्कित-मार्ग-पांसुष्व्
अचेष्टत प्रेम-विभिन्न-धैर्यः ॥ र्भ्र्स्_२,२।५ ॥

यथा वा–
नवानुरागेण तवावशाङ्गी
वन-स्रग्-आमोदम् अवाप्य मत्ता ।
व्रजाङ्गने सा कठिने लुठन्ती
गात्रं सुगात्री व्रणयाञ्चकार ॥ र्भ्र्स्_२,२।६ ॥

गीतम्, यथा–
राग-डम्बर-करम्बित-चेताः
कुर्वती तव नवं गुण-गानम् ।
गोकुलेन्द्र कुरुते जलतां सा
राधिकाद्य-दृषदां सुहृदां च ॥ र्भ्र्स्_२,२।७ ॥

क्रोशनम्, यथा–
हरि-कीर्तन-जात-विक्रियः
स विचुक्रोश तथाद्य नारदः ।
अचिरान् नर-सिंह-शङ्कया
दनुजा येन धृता विलिल्यिरे ॥ र्भ्र्स्_२,२।८ ॥

यथा वा–
उररीकृत-काकुर् आकुला
कररीव व्रज-राज-नन्द ।
मुरली-तरली-कृतान्तरा
मुहुर् आक्रोशद् इहाद्य सुन्दरी ॥ र्भ्र्स्_२,२।९ ॥

तनु-मोटनम्, यथा–
कृष्ण-नामनि मुदोपवीणिते
प्रीणिते मनसि वैणिको मुनिः ।
उद्भटं किम् अपि मोटयन्
वपुस् त्रोटयत्य् अखिल-यज्ञ-सूत्रकम् ॥ र्भ्र्स्_२,२।१० ॥

हुङ्कारो, यथा–
वैणव-ध्वनिभिर् उद्भ्रमद्-धियः
शङ्करस्य दिवि हुङ्कृति-स्वनः ।
ध्वंसयन्न् अपि मुहुः स दानवं
साधु-वृन्दम् अकरोत् सदा नवम् ॥ र्भ्र्स्_२,२।११ ॥

जृम्भणम्, यथा–
विस्तृत-कुमुद-वने ऽस्मिन्न्
उदयति पूर्णे कलानिधौ पुरतः ।
तव पद्मिनि मुख-पद्मं
भजते जृम्भाम् अहो चित्रम् ॥ र्भ्र्स्_२,२।१२ ॥

श्वास-भूमा, यथा–
उपस्थिते चित्र-पटाम्बुदागमे
विवृद्ध-तृष्णा ललिताख्य-चातकी ।
निःश्वास-झञ्झा-मरुतापवाहितं
कृष्णाम्बुदाकारम् अवेक्ष्य चुक्षुभे ॥ र्भ्र्स्_२,२।१३ ॥

लोकानपेक्षिता, यथा श्री-दशमे (१०।२३।४१)–
अहो पश्यत नारीणाम् अपि कृष्णे जगद्-गुरौ ।
दुरन्त-भावं यो ऽविध्यन् मृत्युपाशान् गृहाभिधान् ॥ र्भ्र्स्_२,२।१४ ॥

यथा वा पद्यावल्याम् (७३)–
परिवदतु जनो यथा तथा वा
ननु मुखरो न वयं विचारयामः
हरि-रस-मदिरा मदातिमत्ता
भुवि विलुठाम नटाम निर्विशाम ॥ र्भ्र्स्_२,२।१५ ॥

लाला-स्रवो, यथा–
शङ्के प्रेम-भुजङ्गेन दष्टः कष्टं गतो मुनिः ।
निश्चलस्य यद् एतस्य लाला स्रवति वक्त्रतः ॥ र्भ्र्स्_२,२।१६ ॥

अट्टहासः–
हासाद् भिन्नो ऽट्टहासो ऽयं चित्त-विक्षेप-सम्भवः ॥ र्भ्र्स्_२,२।१७ ॥

यथा–
शङ्के चिरं केशव-किङ्करस्य
चेतस् तटे भक्ति-लता प्रफुल्ला ।
येनाधि-तुण्ड-स्थलम् अट्टहास-
प्रसून-पुञ्जाश् चटुलं स्खलन्ति ॥ र्भ्र्स्_२,२।१८ ॥

घूर्णा, यथा–
ध्रुवम् अघरिपुर् आदधाति वात्यां
ननु मुरलि त्वयि फुत्कृति-च्छलेन ।
किम् अयम् इतरथा ध्वनिर् विघूर्णनं
सखि तव घूर्णयति व्रजाम्बुजाक्षीः ॥ र्भ्र्स्_२,२।१९ ॥

हिक्का, यथा–
न पुत्रि रचयौषधं विसृज रोमम् अत्युद्धतं
मुधा प्रिय-सखीं प्रति त्वम् अशिवं किम् आशङ्कसे ।
हरि-प्रणय-विक्रियाकुलतया ब्रुवाणा मुहुर्
वराक्षि हरिर् इत्य् असौ वितनुते ऽद्य हिक्का-भरम् ॥ र्भ्र्स्_२,२।२० ॥

वपुर्-उत्फुल्लता-रक्तोद्गमाद्याः स्युः परे ऽपि ये ।
अतीव-विरलत्वात् ते नैवात्र परिकीर्तिताः ॥ र्भ्र्स्_२,२।२१ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे ऽनुभाव-लहरी द्वितीया ।


दक्षिण-विभागः

[२।३]
सात्त्विकाख्या तृतीय-लहरी

कृष्न-सम्बन्धिभिः साक्टात् किञ्चिद् वा व्यवधानतः ।
भावैश् चित्तम् इहाक्रान्तं सत्त्वम् इत्य् उच्यते बुधैः ॥ र्भ्र्स्_२,३।१ ॥
सत्त्वाद् अस्मात् समुत्पन्ना ये ये भावास् ते तु सात्त्विकाः ।
स्निग्धा दिग्धास् तथा रुक्षा इत्य् अमी त्रिविधा मताः ॥ र्भ्र्स्_२,३।२ ॥

तत्र स्निग्धाः–
स्निग्धास् तु सात्त्विका मुख्या गौणाश् चेति द्विधा मताः ॥ र्भ्र्स्_२,३।३ ॥

तत्र मुख्याः–
आक्रमान् मुख्यया रत्या मुख्याः स्युः सात्त्विका अमी ।
विज्ञेयः कृष्ण-सम्बन्धः साक्षाद् एवात्र सूरिभिः ॥ र्भ्र्स्_२,३।४ ॥

यथा–
कुन्दैर् मुकुन्दाय मुदा सृजन्ती
स्रजां वरां कुन्द-विडम्बि-दन्ती ।
बभूव गान्धर्व-रसेन वेणोर्
गान्धर्विका स्पन्दन-शून्य-गात्री ॥ र्भ्र्स्_२,३।५ ॥

मुख्यः स्तम्भो ऽयम् इत्थं ते ज्ञेयाः स्वेदादयो ऽपि च ॥ र्भ्र्स्_२,३।६ ॥

अथ गौणाः–
रत्याक्रमणतः प्रोक्ता गौणास् ते गौण-भूतया ।
अत्र कृष्णस्य सम्बन्धः स्यात् किञ्चिद् व्यवधानतः ॥ र्भ्र्स्_२,३।७ ॥

यथा–
स्व-विलोचन-चातकाम्बुदे
पुरि नीते पुरुषोत्तमे पुरा ।
अतिताम्र-मुखी सगद्गदं
नृपम् आक्रोशति गोकुलेश्वरी ॥ र्भ्र्स्_२,३।८ ॥
इमौ गौणौ वैवर्ण्य-स्वर-भेदौ ।

अथ दिग्धाः–
रति-द्वय-विनाभूतैर् भावैर् मनस आक्रमात् ।
जने जात-रतौ दिग्धास् ते चेद् रत्य्-अनुगामिनः ॥ र्भ्र्स्_२,३।९ ॥

यथा–
पूतनाम् इह निशाम्य निशायां
सा निशान्त-लुठद्-उद्भट-गात्रीम् ।
कम्पिताङ्ग-लतिका व्रज-राज्ञी
पुत्रम् आकुल-मतिर् विचिनोति ॥ र्भ्र्स्_२,३।१० ॥

कम्पो रत्य्-अनुगामित्वाद् असौ दिग्ध इतीर्यते ॥ र्भ्र्स्_२,३।११ ॥

रुक्षाः–
मधुराश्चर्य-तद्-वार्तोत्पन्नैर् मुद्-विस्मयादिभिः ।
जाता भक्तोपमे रुक्षा रति-शून्ये जने क्वचित् ॥ र्भ्र्स्_२,३।१२ ॥

यथा–
भोगैक-साधन-जुषा रति-गन्ध-शून्यं
स्वं चेष्टया हृदयम् अत्र विवृण्वतो ऽपि ।
उल्लासिनः सपदि माधव-केलि-गीतैस्
तस्याङ्गम् उत्पुलकितं मधुरैस् तदासीत् ॥ र्भ्र्स्_२,३।१३ ॥

रुक्ष एष रोमाञ्चाः–
रुक्षो ऽयं रति-शून्यत्वाद् रोमाञ्चं कथितो बुधैः ।
मुमुक्षु-प्रभृतौ पूर्वं यो रताभ्यास ईरितः ॥ र्भ्र्स्_२,३।१४ ॥
चित्तं सत्त्वीभवत् प्राणे न्यस्यत्य् आत्मानम् उद्भटम् ।
प्राणस् तु विक्रियां गच्छन् देहं विक्षोभयत्य् अलम् ।
तदा स्तम्भादयो भावा भक्त-देहे भवन्त्य् अमी ॥ र्भ्र्स्_२,३।१५ ॥
ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदो ऽथ वेपथुः ।
वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥ र्भ्र्स्_२,३।१६ ॥
चत्वारि क्ष्मादि-भूतानि प्राणो जात्व् अवलम्बते ।
कदाचित् स्व-प्रधानः सन् देहे चरति सर्वतः ॥ र्भ्र्स्_२,३।१७ ॥
स्तम्भं भूमि-स्थितः प्राणस् तनोत्य् अश्रु-जलाश्रयः ।
तेजस्थः स्वेद-वैवर्ण्ये प्रलयं वियद्-आश्रयः ॥ र्भ्र्स्_२,३।१८ ॥
स्वस्थ एव क्रमान् मन्द-मध्य-तीव्रत्व-भेद-भाक् ।
रोमाञ्च-कम्प-वैवर्ण्याण्य् अत्र त्रीणि तनोत्य् असौ ॥ र्भ्र्स्_२,३।१९ ॥
बहिर् अन्तश् च विक्षोभ-विधायित्वाद् अतः स्फुटम् ।
प्रोक्तानुभावतामीषां भावता च मनीषिभिः ॥ र्भ्र्स्_२,३।२० ॥

तत्र स्तम्भः–
स्तम्भो हर्ष-भयाश्चर्य-विषादामर्ष-सम्भवः ।
तत्र वाग्-आदि-राहित्यं नैश्चल्यं शून्यतादयः ॥ र्भ्र्स्_२,३।२१ ॥

तत्र हर्षाद्, यथा तृतीये (३।२।१४)–
यस्यानुराग-प्लुत-हास-रास-
लीलावलोक-प्रतिलब्ध-मानाः ।
व्रज-स्त्रियो दृग्भिर् अनुप्रवृत्त-
धियो ऽवतस्थुः किल कृत्य-शेषाः ॥ र्भ्र्स्_२,३।२२ ॥

भयाद्, यथा–
गिरि-सन्निभ-मल्ल-चक्र-रुद्धं
पुरतः प्राण-परार्धतः परार्ध्यम् ।
तनयं जननी समीक्ष्य शुष्यन्
नयना हन्त बभूव निश्चलाङ्गी ॥ र्भ्र्स्_२,३।२३ ॥

आश्चर्याद्, यथा श्री-दशमे (१०।१३।५६)–
ततो ऽतिकुतुकोद्वृत्य- स्तिमितैकादशेन्द्रियः ।
तद्-धाम्नाभूद् अजस् तूष्णीं पूर्-देव्य्-अन्तीव पुत्रिका ॥ र्भ्र्स्_२,३।२४ ॥

यथा वा–
शिशोः श्यामस्य पश्यन्ती शैलम् अभ्रंलिहं करे ।
तत्र चित्रार्पितेवासीद् गोष्ठी गोष्ठ-निवासिनाम् ॥ र्भ्र्स्_२,३।२५ ॥

विषादाद्, यथा–
बक-सोदर-दानवोदरे
पूरतः प्रेक्ष्य विशन्तम् अच्युतम् ।
दिविषन्-निकरो विषण्ण-धीः
प्रकटं चित्रपटायते दिवि ॥ र्भ्र्स्_२,३।२६ ॥

अमर्षाद्, यथा–
कर्तुम् इच्छति मुर-द्विषे पुरः
पत्रि-मोक्षम् अकृपे कृपी-सुते ।
सत्वरो ऽपि रिपु-निष्क्रये रुषा
निष्क्रियः क्षणम् अभूत् कपि-ध्वजः ॥ र्भ्र्स्_२,३।२७ ॥

अथ स्वेदः–
स्वेदो हर्ष-भय-क्रोधादि-जः क्लेद-करस् तनोः ॥ र्भ्र्स्_२,३।२८ ॥

तत्र हर्षाद्, यथा–
किम् अत्र सूर्यातपम् आक्षिपन्ती
मुग्धाक्षि चातुर्यम् उरीकरोषि ।
ज्ञातं पुरः प्रेक्ष्य सरोरुहाक्षं
स्विन्नासि भिन्ना कुसुमायुधेन ॥ र्भ्र्स्_२,३।२९ ॥

भयाद्, यथा–
कुतुकाद् अभिमन्यु-वेषिणं
हरिम् आक्रुश्य गिरा प्रगल्भया ।
विदिताकृतिर् आकुलः क्षणाद्
अजनि स्विन्न-तनुः स रक्तकः ॥ र्भ्र्स्_२,३।३० ॥

क्रोधाद्, यथा–
यज्ञस्य भङ्गाद् अतिवृष्टि-कारिणं
समीक्ष्य शक्रं सरुषो गरुत्मतः ।
घनोपरिष्टाद् अपि तिष्ठतस् तदा
निपेतुर् अङ्गाद् घन-नीर-बिन्दवः ॥ र्भ्र्स्_२,३।३१ ॥

अथ रोमाञ्चः–
रोमाञ्चो ऽयं किलाश्चर्य-हर्षोत्साह-भयादिजः ।
रोम्णाम् अभ्युद्गमस् तत्र गात्र-संस्पर्शनादयः ॥ र्भ्र्स्_२,३।३२ ॥
तत्र आश्चर्याद्, यथा–
डिम्भस्य जृम्भां भजतस् त्रीलोकीं
विलोक्य वैलक्ष्यवती मुखान्तः ।
बभूव गोष्ठेन्द्र-कुटुम्बिनीयं
तनु-रुहैः कुड्मलिताङ्ग-यष्टिः ॥ र्भ्र्स्_२,३।३३ ॥

हर्षाद्, यथा श्री-दशमे (१०।३०।१०)–
किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि-
स्पर्शोत्सवोत्पुलकिताङ्ग-रुहैर् विभासि ।
अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा
आहो वराह-वपुषः परिरम्भणेन ॥ र्भ्र्स्_२,३।३४ ॥

उत्साहाद्, यथा–
शृङ्गं केलिर् अणारम्भे रणयत्य् अघ-मर्दने ।
श्रीदाम्नो योद्धु-कामस्य रेमे रोमाञ्चितं वपुः ॥ र्भ्र्स्_२,३।३५ ॥

भयाद्, यथा–
विश्व-रूप-धरम् अद्भुताकृतिं
प्रेक्ष्य तत्र पुरुषोत्तमं पुरः ।
अर्जुनः सपदि शुष्यद्-आननः
शिश्रिये विकट-कण्टकां तनुम् ॥ र्भ्र्स्_२,३।३६ ॥

अथ स्वर-भेदः–
विसाद-विस्मयामर्ष-हर्ष-भीत्य्-आदि-सम्भवम् ।
वैस्वर्यं स्वर-भेदः स्याद् एष गद्गदिकादिकृत् ॥ र्भ्र्स्_२,३।३७ ॥

तत्र विषादाद्, यथा–
व्रज-राज्ञि रथात् पुरो हरिं
स्वयम् इत्य् अर्ध-विशीर्ण-जल्पया ।
ह्रियम् एणदृशा गुराव् अपि
श्लथयन्त्या किल रोदिता सखी ॥ र्भ्र्स्_२,३।३८ ॥

विस्मयाद्, यथा श्री-दशमे (१०।१३।६४)–
शनैर् अथोत्थाय विमृज्य लोचने
मुकुन्दम् उद्वीक्ष्य विनम्र-कन्धरः ।
कृताञ्जलिः प्रश्रयवान् समाहितः
स-वेपथुर् गद्गदयैलतेलया ॥ र्भ्र्स्_२,३।३९ ॥
अमर्षाद्, यथा तत्रैव (१०।२९।३०)–
प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं
कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः ।
नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्
संरम्भ-गद्गद-गिरो ऽब्रुवतानुरक्ताः ॥ र्भ्र्स्_२,३।४० ॥

हर्षाद्, यथा तत्रैव (१०।३९।५६-५७)–
हृष्यत्-तनूरुहो भाव-परिक्लिन्नात्म-लोचनः ॥
गिरा गद्गदयास्तौषीत् सत्त्वम् आलम्ब्य सात्वतः ।
प्रणम्य मूर्ध्नावहितः कृताञ्जलि-पुटः शनैः ॥ र्भ्र्स्_२,३।४१ ॥

भीतेर्, यथा–
त्वय्य् अर्पितं वितर वेणुम् इति प्रमादी
श्रुत्वा मद्-ईरितम् उदीर्ण-विवर्ण-भावः ।
तूर्णं बभूव गुरु-गद्गद-रुद्ध-कण्ठः
पत्री मुकुन्द तद् अनेन स हारितो ऽस्ति ॥ र्भ्र्स्_२,३।४२ ॥

अथ वेपथुः–
वित्रासामर्ष-हर्षाद्यैर् वेपथुर् गात्र-लौल्य-कृत् ॥ र्भ्र्स्_२,३।४३ ॥

तत्र वित्रासेन, यथा–
शङ्ख-चूडम् अधिरूढ-विक्रमं
प्रेक्ष्य विस्तृत-भुजं जिघृक्षया ।
हा व्रजेन्द्र-तनयेति-वादिनी
कम्प-सम्पदम् अधत्त राधिका ॥ र्भ्र्स्_२,३।४४ ॥

अमर्षेण, यथा–
कृष्णाधिक्षेप-जातेन व्याकुलो नकुलाम्बुजः ।
चकम्पे द्राग् अमर्षेण भू-कम्पे गिरिराड् इव ॥ र्भ्र्स्_२,३।४५ ॥

हर्षेण, यथा–
विहससि कथं हताशे पश्य भयेनाद्य कम्पमानास्मि ।
चञ्चलम् उपसीदन्तं निवारय व्रज-पतेस् तनयम् ॥ र्भ्र्स्_२,३।४६ ॥

अथ वैवर्ण्यम्–
विषाद-रोष-भीत्य्-आदेर् वैवर्ण्यं वर्ण-विक्रिया ।
भाव-ज्ञैर् अत्र मालिन्य-कार्श्याद्याः परिकीर्तिताः ॥ र्भ्र्स्_२,३।४७ ॥

तत्र विषादाद्, यथा–
श्वेतीकृताखिल-जनं विरहेण तवाधुना ।
गोकुलं कृष्ण देवर्षेः श्वेतद्वीप-भ्रमं दधे ॥ र्भ्र्स्_२,३।४८ ॥

रोषाद्, यथा–
कंस-शत्रुम् अभियुञ्जतः पुरो
वीक्ष्य कंस-सहजान् उदायुधान् ।
श्री-बलस्य सखि तस्य रुष्यतः
प्रोद्यद्-इन्दु-निभम् आननं बभौ ॥ र्भ्र्स्_२,३।४९ ॥

भीतेर्, यथा–
रक्षिते व्रज-कुले बकारिणा
पर्वतं वर-मुदस्य लीलया ।
कालिमा बल-रिपोर् मुखे भवन्न्
ऊचिवान् मनसि भीतिम् उत्थिताम् ॥ र्भ्र्स्_२,३।५० ॥

विषादे श्वेतिमा प्रोक्ता धौसर्यं कालिमा क्वचित् ।
रोषे तु रक्तिमा भीत्यां कालिमा क्वापि शुक्लिमा ॥ र्भ्र्स्_२,३।५१ ॥
रक्तिमा लक्ष्यते व्यक्तो हर्षोद्रेके ऽपि कुत्रचित् ।
अत्रासार्वत्रिकत्वेन नैवास्योदाहृतिः कृता ॥ र्भ्र्स्_२,३।५२ ॥

अथ अश्रु–
हर्ष-रोष-विषादाद्यैर् अश्रु नेत्रे जलोद्गमः ।
हर्षजे ऽश्रुणि शीतत्वम् औष्ण्यं रोषादि-सम्भवे ।
सर्वत्र नयन-क्षोभ-राग-सम्मार्जनादयः ॥ र्भ्र्स्_२,३।५३ ॥

अत्र हर्षेण, यथा–
गोविन्द-प्रेक्षणाक्षेपि-बाष्प-पूराभिवर्षिणम् ।
उच्चैर् अनिन्दद् आनन्दम् अरविन्द-विलोचना ॥ र्भ्र्स्_२,३।५४ ॥

रोषेण, यथा हरि-वंशे (२।६६।२४)–
तस्याः सुस्राव नेत्राभ्यां वारि प्रणय-कोपजम् ।
कुशेशय-पलाशाभ्याम् अवश्याय-जलं यथा ॥ र्भ्र्स्_२,३।५५ ॥

यथा वा–
भीमस्य चेदीश-वधं विधित्सो
रेजे ऽश्रु-विस्रावि रुषोपरक्तम् ।
उद्यन्-मुखं वारि-कणावकीर्णं
सान्ध्य-त्विषा ग्रस्तम् इवेन्दु-बिम्बम् ॥ र्भ्र्स्_२,३।५६ ॥

विषादेन, यथा श्री-दशमे (१०।६०।२३)–
पदा सुजातेन नखारुण-श्रिया
भुवं लिखन्त्य् अश्रुभिर् अञ्जनासितैः ।
आसिञ्चती कुङ्कुम-रूषितौ स्तनौ
तस्थाव् अधो-मुख्य् अतिदुःख-रुद्ध-वाक् ॥ र्भ्र्स्_२,३।५७ ॥

अथ प्रलयः–
प्रलयः सुख-दुःखाभ्यां चेष्टा-ज्ञान-निराकृतिः ।
अत्रानुभावाः कथिता मही-निपतनादयः ॥ र्भ्र्स्_२,३।५८ ॥

तत्र सुखेन, यथा–
मिलन्तं हरिम् आलोक्य लता-पुञ्जाद् अतर्कितम् ।
ज्ञप्ति-शून्य-मना रेजे निश्चलाङ्गी व्रजाङ्गना ॥ र्भ्र्स्_२,३।५९ ॥

दुःखेन, यथा श्री-दशमे (१०।३९।१५)–
अन्याश् च तद्-अनुध्यान-निवृत्ताशेष-वृत्तयः ।
नाभ्यजानन् इमं लोकम् आत्म-लोकं गता इव ॥ र्भ्र्स्_२,३।६० ॥

सर्वे हि सत्त्व-मूलत्वाद् भावा यद्यपि सात्त्विकाः ।
तथाप्य् अमीषां सत्त्वैक-मूलत्वात् सात्त्विक-प्रथा ॥ र्भ्र्स्_२,३।६१ ॥
सत्त्वस्य तारतम्यात् प्राण-तनु-क्षोभ-तारतम्यं स्यात् ।
तत एव तारतम्यं सर्वेषां सात्त्विकानां स्यात् ॥ र्भ्र्स्_२,३।६२ ॥
धूमायितास् ते ज्वलिता दीप्ता उद्दीप्त-सञ्ज्ञिताः ।
वृद्धिं यथोत्तरं यान्तः सात्त्विकाः स्युश् चतुर्-विधाः ॥ र्भ्र्स्_२,३।६३ ॥
सा भूरि-काल-व्यापित्वं बह्व्-अङ्ग-व्यापिताऽपि च ।
स्वरूपेण तथोत्कर्ष इति वृद्धिस् त्रिधा भवेत् ॥ र्भ्र्स्_२,३।६४ ॥
तत्र नेत्राम्बु-वैस्वर्य-वर्जानाम् एव युज्यते ।
बह्व्-अङ्ग-व्यापितामीषां तयोः कापि विशिष्टता ॥ र्भ्र्स्_२,३।६५ ॥
तत्राश्रूणां दृग्-औच्छून्य-कारित्वम् अवदातता ।
तथा तारातिवैचित्री-वैलक्षण्य-विधायिता ।
वैस्वर्ण्यस्य तु भिन्नत्वे कौण्ठ्य-व्याकुलतादयः ॥ र्भ्र्स्_२,३।६६ ॥
भिन्नत्वं स्थान-विभ्रंशः कौण्ठ्यं स्यात् सन्न-कण्ठता ।
व्याकुलत्वं तु नानोच्च-नीच-गुप्त-विलुप्तता ॥ र्भ्र्स्_२,३।६७ ॥
प्रायो धूमायिता एव रुक्षास् तिष्ठन्ति सात्त्विकाः ।
स्निग्धास् तु प्रायशः सर्वे चतुर्धैव भवन्त्य् अमी ॥ र्भ्र्स्_२,३।६८ ॥
महोत्सवादि-वृत्तेषु सद्-गोष्ठी-ताण्डवादिषु ।
ज्वलन्त्य् उल्लासिनः क्वापि ते रुक्षा अपि कस्यचित् ॥ र्भ्र्स्_२,३।६९ ॥
सर्वानन्द-चमत्कार-हेतुर् भावो वरो रतिः ।
एते हि तद्-विनाभावान् न चमत्कारिताश्रयाः ॥ र्भ्र्स्_२,३।७० ॥

तत्र धूमायिताः–
अद्वितीया अमी भावा अथवा स-द्वितीयकाः ।
ईषद्-व्यक्ता अपह्नोतुं शक्या धूमायिता मताः ॥ र्भ्र्स्_२,३।७१ ॥

यथा–
आकर्णयन्न् अघहराम् अघ-वैरि-कीर्तिं
पक्ष्माग्र-मिश्र-विरलाश्रुर् अभूत् पुरोधाः ।
यष्टा दरोच्छ्वसित-लोम-कपोलम् ईषत्-
प्रस्विन्न-नासिकम् उवाह मुखारविन्दम् ॥ र्भ्र्स्_२,३।७२ ॥

अथ ज्वलिताः–
ते द्वौ त्रयो वा युगपद् यान्तः सुप्रकटां दशाम् ।
शक्याः कृच्छ्रेण निह्नोतुं ज्वलिता इति कीर्तिताः ॥ र्भ्र्स्_२,३।७३ ॥

यथा–
न गुञ्जाम् आदातुं प्रभवति करः कम्प-तरलो
दृशौ सास्रे पिञ्छं न परिचिनुतं सत्वर-कृति ।
क्षमाव् ऊरू स्तब्धौ पदम् अपि न गन्तुं तव सखे
वनाद् वंशी-ध्वाने परिसरम् अवाप्ते श्रवणयोः ॥ र्भ्र्स्_२,३।७४ ॥

यथा वा–
निरुद्धं बाष्पाम्भः कथम् अपि मया गद्गद-गिरो
ह्रिया सद्यो गूढाः सखि विघटितो वेपथुर् अपि ।
गिरि-द्रोण्यां वेणौ ध्वनति निपुणैर् इङ्गित-मये
तथाप्य् ऊहाञ्चक्रे मम मनसि रागः परिजनैः ॥ र्भ्र्स्_२,३।७५ ॥

अथ दीप्ताः–
प्रौढां त्रि-चतुरा व्यक्तिं पञ्च वा युगपद्-गताः ।
संवरीतुम् अशक्यास् ते दीप्ता धीरैर् उदाहृताः ॥ र्भ्र्स्_२,३।७६ ॥

यथा–
न शक्तिम् उपवीणने चिरम् अधत्त कम्पाकुलो
न गद्गद-निरुद्ध-वाक् प्रभुर् अभूद् उपश्लोकने ।
क्षमो ऽजनि न वीक्षणे विगलद्-अश्रु-पुरः पुरो
मधु-द्विषि परिस्फुरत्य् अवशम्-मूर्तिर् आसीन् मुनिः ॥ र्भ्र्स्_२,३।७७ ॥

यथा वा–
किम् उन्मीलत्य् अस्रे कुसुमज-रजो गञ्जसि मुधा
स-रोमाञ्चे कम्पे हिमम् अनिलम् आक्रोशसि कुतः ।
किम् ऊरु-स्तम्भे वा वन-विहरणं द्वेक्षि सखि ते
निराबाधा राधे वदति मदनाधिं स्वर-भिदा ॥ र्भ्र्स्_२,३।७८ ॥

अथ उद्दीप्ताः–
एकदा व्यक्तिम् आपन्नाः पञ्च-षाः सर्व एव वा ।
आरूढा परमोत्कर्षम् उद्दीप्ता इति कीर्तिताः ॥ र्भ्र्स्_२,३।७९ ॥

यथा–
अद्य स्विद्यति वेपते पुलकिभिर् निस्पन्दताम् अङ्गकैर्
धत्ते काकुभिर् आकुलं विलपति म्लायत्य् अनल्पोष्मभिः ।
स्तिम्यत्य् अम्बुभिर् अम्बक-स्तवकितैः पीताम्बरोड्डामरं
सद्यस् तद्-विरहेण मुह्यति मुहुर् गोष्ठाधिवासी जनः ॥ र्भ्र्स्_२,३।८० ॥

उद्दीप्ता एव सूद्दिप्ता महा-भावे भवन्त्य् अमी ।
सर्व एव परां कोटिं सात्त्विका यत्र बिभ्रति ॥ र्भ्र्स्_२,३।८१ ॥

किं च–
अथात्र सात्त्विकाभासा विलिख्यन्ते चतुर्-विधाः ॥ र्भ्र्स्_२,३।८२ ॥
रत्य्-आभास-भवास् ते तु सत्त्वाभास-भवास् तथा ।
निःसत्त्वाश् च प्रतीपाश् च यथा-पूर्वम् अमी वराः ॥ र्भ्र्स्_२,३।८३ ॥

तत्र आद्याः–
मुमुक्षु-प्रमुखेष्व् आद्या रत्य्-आभासात् पुरोदितात् ॥ र्भ्र्स्_२,३।८४ ॥

यथा–
वाराणसी-निवासी कश्चिद् अयं व्याहरन् हरेश् चरितम् ।
यति-गोष्ठ्याम् उत्पुलकः सिञ्चति गण्ड-द्वयीम् अस्रैः ॥ र्भ्र्स्_२,३।८५ ॥

अथ सत्त्वाभास-भवाः–
मुद्-विस्मयादेर् आभासः प्रोद्यन् जात्या श्लथे हृदि ।
सत्त्वाभास इति प्रोक्तः सत्त्वाभास-भवास् ततः ॥ र्भ्र्स्_२,३।८६ ॥

यथा–
जरन्-मीमांसकस्यापि शृण्वतः कृष्ण-विभ्रमम् ।
हृष्टायमान-मनसो बभूवोत्पुलकं वपुः ॥ र्भ्र्स्_२,३।८७ ॥

यथा वा–
मुकुन्द-चरितामृत-प्रसर-वर्षिणस् ते मया
कथं कथन-चातुरी-मधुरिमा गुरुर् वर्ण्यताम् ।
मुहूर्तम् अतद्-अर्थिनो ऽपि विषयिणो ऽपि यस्याननान्
निशम्य विजयं प्रभोर् दधति बाष्प-धाराम् अमी ॥ र्भ्र्स्_२,३।८८ ॥

अथ निःसत्त्वाः–
निसर्ग-पिच्छिल-स्वान्ते तद्-अभ्यास-परे ऽपि च ।
सत्त्वाभासं विनापि स्युः क्वाप्य् अश्रु-पुलकादयः ॥ र्भ्र्स्_२,३।८९ ॥

यथा–
निशमयतो हरि-चरितं न हि सुख-दुःखादयो ऽस्य हृदि भावाः ।
अनभिनिवेशाज् जाता कथम् अस्रवद् अस्रम् अश्रान्तम् ॥ र्भ्र्स्_२,३।९० ॥

प्रकृत्या शिथिलं येषां मनः पिच्छिलम् एव वा ।
तेष्व् एव सात्त्विकाभासः प्रायः संसदि जायते ॥ र्भ्र्स्_२,३।९१ ॥

अथ प्रतीपाः–
हिताद् अन्यस्य कृष्णस्य प्रतीपाः क्रुद्-भयादिभिः ॥ र्भ्र्स्_२,३।९२ ॥

तत्र क्रुधा, यथा हरि-वंशे (२।३०।६३) {*च्रितिचल् एदितिओन्, ७६।१६}–
तस्य प्रस्फुरितौष्ठस्य रक्ताधर-तटस्य च ।
वक्त्रं कंसस्य रोषेण रक्त-सूर्यायते तदा ॥ र्भ्र्स्_२,३।९३ ॥

भयेन, यथा–
म्लानाननः कृष्णम् अवेक्ष्य रङ्गे
सिष्वेद मल्लस् त्व् अधि-भाल-शुक्ति ।
मुक्ति-श्रियां सुष्ठु पुरो मिलन्त्याम्
अत्यादरात् पाद्यम् इवाजहार ॥ र्भ्र्स्_२,३।९४ ॥

यथा वा–
प्रवाच्यमाने पुरतः पुराणे
निशम्य कंसस्य भयातिरेकम् ।
परिप्लवान्तःकरणः समन्तात्
परिम्लान-मुखस् तदासीत् ॥ र्भ्र्स्_२,३।९५ ॥
नास्त्य् अर्थः सात्त्विकाभास-कथने को ऽपि यद्यपि ।
सात्त्विकानां विवेकाय दिक् तथापि प्रदर्शिता ॥ र्भ्र्स्_२,३।९६ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे सात्त्विक-लहरी तृतीया ।


[२।४]
व्यभिचार्याख्या चतुर्थ-लहरी

अथोच्यन्ते त्रयस्-त्रिंशद्-भावा ये व्यभिचारिणः ।
विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति ॥ र्भ्र्स्_२,४।१ ॥
वाग्-अङ्ग-सत्त्व-सूच्या ज्ञेयास् ते व्यभिचारिणः ।
सञ्चारयन्ति भावस्य गतिं सञ्चारिणो ऽपि ॥ र्भ्र्स्_२,४।२ ॥
उन्मज्जन्ति निमज्जन्ति स्थायिन्य् अमृत-वारिधौ ।
ऊर्मिवद् वर्धयन्त्य् एनं यान्ति तद्-रूपतां च ते ॥ र्भ्र्स्_२,४।३ ॥
निर्वेदो ऽथ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ ।
शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥ र्भ्र्स्_२,४।४ ॥
मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च ।
स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥ र्भ्र्स्_२,४।५ ॥
औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च ।
सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥ र्भ्र्स्_२,४।६ ॥

तत्र (१) निर्वेदः–
महार्ति-विप्रयोगेर्ष्या-सद्-विवेकादि-कल्पितम् ।
स्वावमाननम् एवात्र निर्वेद इति कथ्यते ।
अत्र चिन्ताश्रु-वैवर्ण्य-दैन्य-निःश्वसितादयः ॥ र्भ्र्स्_२,४।७ ॥

तत्र महार्त्या, यथा–
हन्त देह-हतकैः किम् अमीभिः
पालितैर् विफल-पुण्य-फलैर् नः ।
एहि कालिय-ह्रदे विष-वह्नौ
स्वं कुटुम्बिनि हठाज् जुहवाम ॥ र्भ्र्स्_२,४।८ ॥

विप्रयोगेण, यथा–
असङ्गमान् माधव-माधुरीणाम्
अपुष्पिते नीरसतां प्रयाते ।
वृन्दावने शीर्यति हा कुतो ऽसौ
प्राणित्य् अपुण्यः सुबलो द्विरेफः ॥ र्भ्र्स्_२,४।९ ॥

यथा वा, दान-केलि-कौमुद्याम् (२०)–
भवतु माधव-जल्पम् अशृण्वतोः
श्रवणयोर् अलम् अश्रवणिर् मम ।
तम् अविलोकयतोर् अविलोचनिः
सखि विलोचनयोश् च किलानयोः ॥ र्भ्र्स्_२,४।१० ॥

ईर्ष्यया, यथा हरि-वंशे (२।६७।११) {*इन् च्रितिचल् एदितिओन्, अप्पेन्दिx २९।} सत्यादेवी-वाक्यम्–
स्तोतव्या यदि तावत् सा नारदेन तवाग्रतः ।
दुर्भगो ऽयं जनस् तत्र किम् अर्थम् अनुशब्दितः ॥ र्भ्र्स्_२,४।११ ॥

सद्-विवेकेन, यथा श्री-दशमे (१०।५१।४७)–
ममैष कालो ऽजित निष्फलो गतो
राज्य-श्रियोन्नद्ध-मदस्य भूपतेः ।
मर्त्यात्म-बुद्धेः सुत-दार-कोष-भूष्व्
आसज्जमानस्य दुरन्त-चिन्तया ॥ र्भ्र्स्_२,४।१२ ॥

अमङ्गलम् अपि प्रोच्य निर्वेदं प्रथमं मुनिः ।
मेने ऽमुं स्थायिनं शान्त इति जल्पन्ति केचन ॥ र्भ्र्स्_२,४।१३ ॥

अथ (२) विषादः–
इष्टानवाप्ति-प्रारब्ध-कार्यासिद्धि-विपत्तितः ।
अपराधादितो ऽपि स्याद् अनुतापो विषण्णता ॥ र्भ्र्स्_२,४।१४ ॥
अत्रोपाय-सहायानुसन्धिश् चिन्ता च रोदनम् ।
विलाप-श्वास-वैवर्ण्य-मुख-शोषादयो ऽपि च ॥ र्भ्र्स्_२,४।१५ ॥

तत्र इष्टानवाप्तितो, यथा–
जरां याता मूर्तिर् मम विवशतां वाग् अपि गता
मनो-वृत्तिश् चेयं स्मृति-विधुरता-पद्धतिम् अगात् ।
अघ-ध्वंसिन् दूरे वसतु भवद्-आलोकन-शशी
मया हन्त प्राप्तो न भजन-रुचेर् अप्य् अवसरः ॥ र्भ्र्स्_२,४।१६ ॥
प्रारब्ध-कार्यासिद्धेः, यथा–
स्वप्ने मयाद्य कुसुमानि किलाहृतानि
यत्नेन तैर् विरचिता वन-मालिका च ।
यावन् मुकुन्द-हृदि हन्त निधीयते सा
हा तावद् एव तरसा विरराम निद्रा ॥ र्भ्र्स्_२,४।१७ ॥

विपत्तितेः, यथा–
कथम् अनायि पुरे मयका सुतः
कथम् असौ न निगृह्य गृहे धृतः ।
अमुम् अहो बत दन्ति-विधुन्तुदो
विधुरितं विधुम् अत्र विधित्सति ॥ र्भ्र्स्_२,४।१८ ॥

अपराधात्, यथा श्री-दशमे (१०।१४।९)–
पश्येश मे ऽनार्यम् अनन्त आद्ये
परात्मनि त्वय्य् अपि मायि-मायिनि
मायां वितत्येक्षितुम् आत्म-वैभवं
ह्य् अहं कियान् ऐच्छम् इवार्चिर् अग्नौ ॥ र्भ्र्स्_२,४।१९ ॥

यथा वा–
स्यमन्तकम् अहं हृत्वा गतो घोरास्यम् अन्तकम् ।
करवै तरणीं कां वा क्षिप्तो वैतरणीयम् अनु ॥ र्भ्र्स्_२,४।२० ॥

अथ (३) दैन्यम्–
दुःख-त्रासापराधाद्यैर् अनौर्जित्यं तु दीनता ।
चाटु-कृन्-मान्द्य-मालिन्य-चिन्ताङ्ग-जडिमादि-कृत् ॥ र्भ्र्स्_२,४।२१ ॥

तत्र दुःखेन, यथा श्री-दशमे (१०।५१।५७)–
चिरम् इह वृजिनार्तस् तप्यमानो ऽनुतापैर्
अवितृष-षड-मित्रो लब्ध-शान्तिः कथङ्चित् ।
शरणद समुपेतस् त्वत्-पदाब्जं परात्मन्न्
अभयम् ऋतम् अशोकं पाहि मापन्नम् ईश ॥ र्भ्र्स्_२,४।२२ ॥

त्रासेन, यथा प्रथमे (१।८।१०) –
अभिद्रवति माम् ईश शरस् तप्तायसो विभो ।
कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ र्भ्र्स्_२,४।२३ ॥

अपराधेन, यथा श्री-दशमे (१०।१४।१०) –
अतः क्षमस्वाच्युत मे रजो-भुवो
ह्य् अजानतस् त्वत्-पृथगीश-मानिनः
अजावलेपान्धतमो ऽन्धचक्षुष
एषो ऽनुकम्प्यो मयि नाथवान् इति ॥ र्भ्र्स्_२,४।२४ ॥

आद्य-शब्देन लज्जयापि, यथा तत्रैव (१०।२२।१४)–
माऽनयं भोः कृथास् त्वां तु नन्द-गोप-सुतं प्रियम् ।
जानीमो ऽङ्ग व्रज-श्लाघ्यं देहि वासांसि वेपिताः ॥ र्भ्र्स्_२,४।२५ ॥

अथ (४) म्लानिः–
ओजः सोमात्मकं देहे बल-पुष्टि-कृद् अस्य तु ।
क्षयाच्छम् आधि-रत्य्-आद्यैर् ग्लानिर् निष्प्राणता मता ।
कम्पाङ्ग-जाड्य-वैवर्ण्य-कार्श्य-दृग्-भ्रमणादि-कृत् ॥ र्भ्र्स्_२,४।२६ ॥

तत्र श्रमेण, यथा–
आघूर्णन्-मणि-वलयोज्ज्वल-प्रकोष्ठा
गोष्ठान्तर्-मधुरिपु-कीर्ति-नर्तितौष्ठी ।
लोलाक्षी दधि-कलसं विलोडयन्ती
कृष्णाय क्लम-भर-निःस्पृहा बभूव ॥ र्भ्र्स्_२,४।२७ ॥

यथा वा–
गुम्फितुं निरुपमां वन-स्रजं
चारु पुष्प-पटलं विचिन्वती ।
दुर्गमे क्लम-भरातिदुर्बला
कानने क्षणम् अभून् मृगेक्षणा ॥ र्भ्र्स्_२,४।२८ ॥

आधिना, यथा–
सा रस-व्यतिकरेण विहीना
क्षीण-जीवनतयोच्चल-हंसा ।
माधवाद्य विरहेण तवाम्बा
शुष्यति स्म सरसी शुचिनेव ॥ र्भ्र्स्_२,४।२९ ॥

रत्या, यथा रस-सुधाकरे (२।१३फ़्)–
अति-प्रयत्नेन रतान्त-तान्ता
कृष्णेन तल्पावरोपिता सा ।
आलम्ब्य तस्यैव करं करेण
ज्योत्स्ना-कृतानन्दम् अलिन्दम् आप ॥ र्भ्र्स्_२,४।३० ॥

अथ (५) श्रमः–
अध्व-नृत्य-रताद्य्-उत्थः खेदः श्रम इतीर्यते ।
निद्रा-स्वेदाङ्ग-सम्मर्द-जृम्भाश्वासादि-भाग् असौ ॥ र्भ्र्स्_२,४।३१ ॥

अथ अध्वनो, यथा–
कृतागसं पुत्रम् अनुव्रजन्ती
व्रजाजिरान्तर् व्रज-राज-राज्ञी ।
परिस्खलत्-कुन्तल-बन्धनेयं
बभूव घर्माम्बु-करम्बिताङ्गी ॥ र्भ्र्स्_२,४।३२ ॥

नृत्यादेः, यथा–
विस्तीर्योत्तरलित-हारम् अङ्ग-हारं
सङ्गीतोन्मुख-मुखरैर् वृतः सुहृद्भिः ।
अस्विद्यद् विरचित-नन्द-सूनुर् वा
कुर्वाणस् तट-भुवि ताण्डवानि रामः ॥ र्भ्र्स्_२,४।३३ ॥

रताद्, यथा श्री-दशमे (१०।३३।२०)–
तासाम् अतिविहारेण श्रान्तानां वदनानि सः ।
प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ र्भ्र्स्_२,४।३४ ॥

अथ (६) मदः–
विवेक-हर उल्लासो मदः स द्वि-विधो मतः ।
मधु-पान-भवो ऽनङ्ग-विक्रिया-भर-जो ऽपि च ।
गत्य्-अङ्ग-वाणी-स्खलन-दृग्-घूर्णा-रक्तिमादि-कृत् ॥ र्भ्र्स्_२,४।३५ ॥

तत्र मधु-पान-भवो, यथा ललित-माधवे (५।४१)–
बिले क्व नु विलिल्यिरे नृप-पिपीलिकाः पीडिताः
पिनस्मि जगद्-अण्डकं ननु हरिः क्रुधं धास्यति ।
शची-गृह-कुरङ्ग रे हससि किं त्वम् इत्य् उन्नदन्न्
उदेति मद-डम्बर-स्खलित-चूडम् अग्रे हली ॥ र्भ्र्स्_२,४।३६ ॥

यथा वा प्राचाम् {*पुरुषोत्तम-देवस्य। स्र्क् १२७, स्क्म् २३८।}–
भ-भ-भ्रमति मेदिनी ल-ल-लन्दते चन्द्रमाः
कृ-कृष्ण ववद द्रुतं ह-ह-हसन्ति किं वृष्णयः ।
सिसीधु मु-मु-मुञ्च मे प-प-प-पान-पात्रे स्थितः
मद-स्खलितम् आलपन् हल-धरः श्रियः वः क्रियात् ॥ र्भ्र्स्_२,४।३७ ॥

उत्तमस् तु मदाच् छेते मध्यो हसति पायति ।
कनिष्ठः क्रोशति स्वैरं पुरुषं वक्ति रोदिति ॥ र्भ्र्स्_२,४।३८ ॥
मदो ऽपि त्रि-विधः प्रोक्तस् तरुणादि-प्रभेदतः ।
अत्र नात्युपयोगित्वाद् विस्तार्य न हि वर्णितः ॥ र्भ्र्स्_२,४।३९ ॥

अनङ्ग-विक्रिया-भरजो, यथा–
व्रजपति-सुतम् अग्रे विक्ष्य भुग्नीभवद्-भ्रूर्
भ्रमति हसति रोदित्य् आस्यम् अन्तर्दधाति ।
प्रलपति मुहुर् आलीं वन्दते पश्य वृन्दे
नव-मदन-मदान्धा हन्त गान्धर्विकेयम् ॥ र्भ्र्स्_२,४।४० ॥

अथ (७) गर्वः–
सौभाग्य-रूप-तारुण्य-गुण-सर्वोत्तमाश्रयैः ।
इष्ट-लाभादिना चान्य-हेलनं गर्व ईर्यते ॥ र्भ्र्स्_२,४।४१ ॥
अत्र सोल्लुण्ठ-वचनं लीलानुत्तर-दायिता ।
स्वाङ्गेक्षा निह्नवो ऽन्यस्य वचनाश्रवणादयः ॥ र्भ्र्स्_२,४।४२ ॥

तत्र सौभाग्येन, यथा श्री-कृष्ण-कर्णामृते (३।९३)–
हस्तम् उत्क्षिप्य यातो ऽसि बलात् कृष्ण किम् अद्भुतम् ।
हृदयाद् यदि निर्यासि पौरुषं गणयामि ते ॥ र्भ्र्स्_२,४।४३ ॥

रूप-तारुण्येन, यथा–
यस्याः स्वभाव-मधुरां परिषेव्य मूर्तिं
धन्या बभूव नितराम् अपि यौवन-श्रीः ।
सेयं त्वयि व्रज-वधू-शत-भुक्त-मुक्ते
दृक्-पातम् आचरतु कृष्ण कथं सखी मे ॥ र्भ्र्स्_२,४।४४ ॥

गुणेन, यथा–
गुम्फन्तु गोपाः कुसुमैः सुगन्धिभिर्
दामानि कामं धृत-रामणीयकैः ।
निधास्यते किन्तु स-तृष्णम् अग्रतः
कृष्णो मदीयां हृदि विस्मितः स्रजम् ॥ र्भ्र्स्_२,४।४५ ॥

सर्वोत्तमाश्रयेण, यथा श्री-दशमे (१०।२।३३)
तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकप-मूर्धसु प्रभो ॥ र्भ्र्स्_२,४।४६ ॥

इष्ट-लाभेन, यथा–
वृन्दावनेन्द्र भवतः परमं प्रसादम्
आसाद्य नन्दित-मतिर् मुहुर् उद्धतो ऽस्मि ।
आशंसते मुनि-मनोरथ-वृत्ति-मृग्यां
वैकुण्ठ-नाथ-करुणाम् अपि नाद्य चेतः ॥ र्भ्र्स्_२,४।४७ ॥

अथ (८) शङ्का–
स्वीय-चौर्यापराधादेः पर-क्रौर्यादितस् तथा ।
स्वानिष्टोत्प्रेक्षणं यत् तु सा शङ्केत्य् अभिधीयते ।
अत्रास्य-शोष-वैवर्ण्य-दिक्-प्रेक्षा-लीनतादयः ॥ र्भ्र्स्_२,४।४८ ॥

तत्र चौर्याद्, यथा–
स-तर्णकं डिम्भ-कदम्बकं हरन्
स-दम्भम् अम्भोरुह-सम्भवस् तदा ।
तिरोभविष्यन् हरितश् चलेक्षणैर्
अष्टाभिर् अष्टौ हरितः समीक्षते ॥ र्भ्र्स्_२,४।४९ ॥

यथा वा–
स्यमन्तकं हन्त वमन्तम् अर्थं
निह्नुत्य दूरे यद् अहं प्रयातः ।
अवद्यम् अद्यापि तद् एव कर्म
शर्माणि चित्ते मम निर्भिनत्ति ॥ र्भ्र्स्_२,४।५० ॥

अपराधाद्, यथा–
तद्-अवधि मलिनो ऽसि नन्द-गोष्ठे
यद्-अवधि वृष्टिम् अचीकरः शचीश ।
शृणु हितम् अभितः प्रपद्य कृष्णं
श्रियम् अविशङ्कम् अलङ्कुरु त्वम् ऐन्द्रीम् ॥ र्भ्र्स्_२,४।५१ ॥

पर-क्रौर्येण, यथा पद्यावल्याम् (३३१)–
प्रथयति न तथा ममार्तिम् उच्चैः
सहचरि वल्लव-चन्द्र-विप्रयोगः ।
कटुभिर् असुर-मण्डलैः परीते
दनुजपतेर् नगरे यथास्य वासः ॥ र्भ्र्स्_२,४।५२ ॥

शङ्का तु प्रवर-स्त्रीणां भीरुत्वाद् भय-कृद् भवेत् ॥ र्भ्र्स्_२,४।५३ ॥

अथ (९) त्रासः–
त्रासः क्षोभो हृदि तडिद्-घोर-सत्त्वोग्र-निस्वनैः ।
पार्श्वस्थालम्ब-रोमाञ्च-कम्प-स्तम्भ-भ्रमादि-कृत् ॥ र्भ्र्स्_२,४।५४ ॥

तत्र तडिता, यथा–
बाढं निविडया सद्यस् तडिता ताडितेक्षणः ।
रक्ष कृष्णेति चुक्रोश को ऽपि गोपी-स्तनन्धयः ॥ र्भ्र्स्_२,४।५५ ॥

घोर-सत्त्वेन, यथा–
अदूरम् आसेदुषि वल्लवाङ्गना
स्वं पुङ्गवीकृत्य सुरारि-पुङ्गवे ।
कृष्ण-भ्रमेणाशु तरङ्गद्-अङ्गिका
तमालम् आलिङ्ग्य बभूव निश्चला ॥ र्भ्र्स्_२,४।५६ ॥

उग्र-निस्वनेन, यथा–
आकर्ण्य कर्ण-पदवी-विपदं यशोदा
विस्फूर्जितं दिशि दिशि प्रकटं वृकाणाम् ।
यामान् निकाम-चतुरा चतुरः स्व-पुत्रं
सा नेत्र-चत्वर-चरं चिरम् आचचार ॥ र्भ्र्स्_२,४।५७ ॥

गात्रोत्कम्पी मनः-कम्पः सहसा त्रास उच्यते ।
पूर्वापर-विचारोत्थं भयं त्रासात् पृथग् भवेत् ॥ र्भ्र्स्_२,४।५८ ॥

अथ (१०) आवेगः–
चित्तस्य सम्भ्रमो यः स्याद् आवेगो ऽयं स चाष्टधा ।
प्रियाप्रियानल-मरुद्-वर्षोत्पात-गजारितः ॥ र्भ्र्स्_२,४।५९ ॥
प्रियोत्थे पुलकः सान्त्वं चापल्याभ्युद्गमादयः ।
अप्रियोत्थे तु भू-पात-विक्रोश-भ्रमणादयः ॥ र्भ्र्स्_२,४।६० ॥
व्यत्यस्त-गति-कम्पाक्षि-मीलनास्रादयो ऽग्निजे ।
वातजे ऽजावृति-क्षिप्र-गति-दृङ्-मार्जनादयः ॥ र्भ्र्स्_२,४।६१ ॥
वृष्टिजो धावन-च्छत्र-गात्र-सङ्कोचनादि-कृत् ।
औत्पाते मुख-वैवर्ण्य-विस्मयो ऽकण्ठितादयः ॥ र्भ्र्स्_२,४।६२ ॥
गाजे पलायनोत्कम्प-त्रास-पृष्ठेक्षणादयः ।
अरिजो वर्म-शस्त्रादि-ग्रहापसरणादिकृत् ॥ र्भ्र्स्_२,४।६३ ॥

अत्र प्रिय-दर्शनजो, यथा–
प्रेक्ष्य वृन्दावनात् पुत्रम् आयान्तं प्रस्नुत-स्तनी ।
सङ्कुला पुलकैर् आसीद् आकुला गोकुलेश्वरी ॥ र्भ्र्स्_२,४।६४ ॥
प्रिय-श्रवणजो, यथा श्री-दशमे (१०।२३।१८)–
श्रुत्वाच्युतम् उपायातं नित्यं तद्-दर्शनोत्सुकाः ।
तत्-कथाक्षिप्त-मनसो बभूवुर् जात-सम्भ्रमाः ॥ र्भ्र्स्_२,४।६५ ॥

अप्रिय-दर्शनजो, यथा–
किम् इदं किम् इदं किम् एतद् उच्चैर्
इति घोर-ध्वनि-घूर्णिता लपन्ती ।
निशि वक्षति वीक्ष्य पूतनायास्
तनयं भ्राम्यति सम्भ्रमाद् यशोदा ॥ र्भ्र्स्_२,४।६६ ॥

अप्रिय-श्रवणजो, यथा–
निशम्य पुत्रं क्रटतोस् तटान्ते
महीजयोर् मध्यगम् ऊर्ध्व-नेत्रा ।
आभीर-राज्ञी हृदि सम्भ्रमेण
बिद्धा विधेयं न विदाञ्चकार ॥ र्भ्र्स्_२,४।६७ ॥

अग्निजो, यथा–
धीर् व्यग्राजनि नः समस्त-सुहृदां तां प्राण-रक्षा-मणिं
गव्या गौरवतः समीक्ष्य निविडे तिष्ठन्तम् अन्तर्-वने ।
वह्निः पश्य शिखण्ड-शेखर खरं मुञ्चन्न् अखण्ड-ध्वनिं
दीर्घाभिः सुर-दीर्घिकाम्बु-लहरीम् अर्चिभिर् आचामति ॥ र्भ्र्स्_२,४।६८ ॥

वातजो, यथा–
पांशु-प्रारब्ध-केतौ बृहद्-अटवि-कुटोन्माथि-शौटीर्य-पुञ्जे
भाण्डीरोद्दण्ड-शाखा-भुज-ततिषु गते ताण्डवाचार्य-चर्याम् ।
वात-व्राते करीषङ्-कषतर-शिखरे शार्करे झात्करिष्णौ
क्षौण्याम् अप्रेक्ष्य पुत्रं व्रजपति-गृहिणी पश्य सम्बम्भ्रमीति ॥ र्भ्र्स्_२,४।६९ ॥

वर्षजो, यथा श्री-दशमे (१०।२५।११)–
अत्यासारातिवातेन पशवो जात-वेपनाः ।
गोपा गोप्यश् च शीतार्ता गोविन्दं शरणं ययुः ॥ र्भ्र्स्_२,४।७० ॥

यथा वा–
समम् उरु-करकाभिर् दन्ति-शुण्डा-सपिण्डाः
प्रतिदिशम् इह गोष्ठे वृष्टि-धाराः पतन्ति ।
अजनिषत युवानो ऽप्य् आकुलास् त्वं तु बालः
स्फुटम् असि तद्-अगारान् मा स्म भूर् निर्यियासुः ॥ र्भ्र्स्_२,४।७१ ॥

उत्पातजो, यथा–
क्षितिर् अतिविपुला टलत्य् अकस्माद्
उपरि घुरन्ति च हन्त घोरम् उल्काः ।
मम शिशुर् अहि-दूषितार्क-पुत्री-
तटम् अटतीत्य् अधुना किम् अत्र कुर्याम् ॥ र्भ्र्स्_२,४।७२ ॥

गाजो, यथा–
अपसरापसर त्वरया गुरुर्
मुदिर-सुन्दर हे पुरतः करी ।
म्रदिम-वीक्षणतस् तव नश् चलं
हृदयम् आविजते पुर-योषिताम् ॥ र्भ्र्स्_२,४।७३ ॥

गजेन दुष्ट-सत्त्वो ऽन्यः पश्व्-आदिर् उपलक्ष्यते ॥ र्भ्र्स्_२,४।७४ ॥

यथा वा–
चण्डांशोस् तुरगान् सटाग्र-नटनैर् आहत्य विद्रावयन्
द्राग् अन्धङ्करणः सुरेन्द्र-सुदृशां गोष्ठोद्धूतैः पांशुभिः ।
प्रत्यासीदतु मत्-पुरः सुर-रिपुर् गर्वान्धम् अर्वाकृतिर्
द्रगिष्ठे मुहुर् अत्र जाग्रति भुजे व्यग्रासि मातः कथम् ॥ र्भ्र्स्_२,४।७५ ॥

अरिजो, यथा ललित-माधवे (२।२९)–
स्थूलस् ताल-भुजान् नतिर् गिरितटी-वक्षाः क्व यक्षाधमः
क्वायं बाल-तमाल-कन्दल-मृदुः कन्दर्प-कान्तः शिशुः ।
नास्त्य् अन्यः सह-कारिता-पटुर् इह प्राणी न जानीमहे
हा गोष्ठेश्वरि कीदृग् अद्य तपसां पाकस् तवोन्मीलति ॥ र्भ्र्स्_२,४।७६ ॥

यथा वा तत्रैव (५।३०)–
सप्तिः सप्ती रथ इह रथः कुञ्जरो मे
तूणस् तूणो धनुर् उत धनुर् भोः कृपाणी कृपाणी ।
का भीः का भीर् अयम् अयम् अहं हा त्वरध्वं त्वरध्वं
राज्ञः पुत्री बत हृत-हृता कामिना वल्लवेन ॥ र्भ्र्स्_२,४।७७ ॥

आवेगाभास एवायं पराश्रयतापि चेत् ।
नायकोत्कर्ष-बोधाय तथाप्य् अत्र निदर्शितः ॥ र्भ्र्स्_२,४।७८ ॥

अथ (११) उन्मादः–
उन्मादो हृद्-भ्रमः प्रौढानन्दापद्-विरहादिजः ॥ र्भ्र्स्_२,४।७९ ॥
अत्राट्ट-हासो नटनं सङ्गीतं व्यर्थ-चेष्टितम् ।
प्रलाप-धावन-क्रोश-विपरीत-क्रियादयः ॥ र्भ्र्स्_२,४।८० ॥

तत्र प्रौढानन्दाद्, यथा कर्णामृते (२।२५)–
राधा पुनातु जगद् अच्युत-दत्त-चित्ता
मन्थानकं विदधती दधि-रिक्त-पात्रे ।
यस्याः स्तन-स्तवक-चञ्चल-लोचनालिर्
देवो ऽपि रुद्ध-हृदयो धवलं दुदोह ॥ र्भ्र्स्_२,४।८१ ॥

आपदो, यथा–
पशून् अपि कृताञ्जलिर् नमति मान्त्रिका इत्य् अलं
तरून् अपि चिकित्सका इति विषौषधं पृच्छति ।
ह्रदं भुजग-भैरवं हरि हरि प्रविष्टे हरौ
व्रजेन्द्र-गृहिणी मुहुर् भ्रम-मयीम् अवस्थां गता ॥ र्भ्र्स्_२,४।८२ ॥

विरहाद्, यथा श्री-दशमे (१०।३०।४)–
गायन्त्य उच्चैर् अमुम् एव संहता
विचिक्युर् उन्मत्तकवद् वनाद् वनम् ।
पप्रच्छुर् आकाशवद् अन्तरं बहिर्
भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ र्भ्र्स्_२,४।८३ ॥

उन्मादः पृथग् उक्तो ऽयं व्याधिष्व् अन्तर्भवन्न् अपि ।
यत् तत्र विप्रलम्भादौ वैचित्रीं कुरुते पराम् ॥ र्भ्र्स्_२,४।८४ ॥
अधिरूढे महा-भावे मोहनत्वम् उपागते ।
अवस्थान्तरम् आप्तो ऽसौ दिव्योन्माद इतीर्यते ॥ र्भ्र्स्_२,४।८५ ॥

अथ (१२) अपस्मारः–
दुःखोत्थ-धातु-वैषम्याद्य्-उद्भूतश् चित्त-विप्लवः ।
अपस्मारो ऽत्र पतनं धावनास्फोटन-भ्रमाः ।
कम्पः फेन-स्रुतिर् बाहु-क्षेपण-विक्रोशनादयः ॥ र्भ्र्स्_२,४।८६ ॥

यथा–
फेनायते प्रतिपदं क्षिपते भुजोर्मिम्
आघूर्णते लुठति कुजति लीयते च ।
अम्बा तवाद्य विरहे चिरम् अम्बुराज-
बेलेव वृष्णि-तिलक व्रज-राज-राज्ञी ॥ र्भ्र्स्_२,४।८७ ॥

यथा वा–
श्रुत्वा हन्त हतं त्वया यदु-कुलोत्तंसात्र कंसासुरं
दैत्यस् तस्य सुहृत्तमः परिणतिं घोरां गतः काम् अपि ।
लाला-फेन-कदम्ब-चुम्बित-मुख-प्रान्तस् तरङ्गद्-भुजो
घूर्णन्न् अर्णव-सीम्नि मण्डलतया भ्राम्यन् न विश्राम्यति ॥ र्भ्र्स्_२,४।८८ ॥

उन्मादवद् इह व्याधि-विशेषो ऽप्य् एष वर्णितः ।
परां भयानकाभासे यत् करोति चमत्कृतिम् ॥ र्भ्र्स्_२,४।८९ ॥

अथ (१३) व्याधिः–
दोषोद्रेक-वियोगाद्यैर् व्याधयो ये ज्वरादयः ।
इह तत्-प्रभवो भावो व्याधिर् इत्य् अभिधीयते ।
अत्र स्तम्भः श्लथाङ्गत्व-श्वासोत्ताप-क्लमादयः ॥ र्भ्र्स्_२,४।९० ॥

यथा–
तव चिर-विरहेण प्राप्य पीडाम् इदानीं
दधद्-उरु-जडिमानि ध्मापितान्य् अङ्गकानि ।
श्वसित-पवन-धाटी-घट्टित-घ्राण-वाटं
लुठति धरणि-पृष्ठे गोष्ठ-वाटी-कुटुम्बम् ॥ र्भ्र्स्_२,४।९१ ॥

अथ (१४) मोहः–
मोहो हृन्-मूढता हर्षाद् विश्लेषाद् भयतस् तथा ।
विषादादेश् च तत्र स्याद् देहस्य पतनं भुवि ।
शून्येन्द्रियत्वं भ्रमणं तथा निश्चेष्टता-मयः ॥ र्भ्र्स्_२,४।९२ ॥

तत्र हर्षाद्, यथा श्री-दशमे (१०।१२।४४)–
इत्थं स्म पृष्टः स तु बादरायणिस्
तत्-स्मारितानन्त-हृताखिलेन्द्रियः ।
कृच्छ्रात् पुनर् लब्ध-बहिर्-दृशिः शनैः
प्रत्याह तं भागवतोत्तमोत्तमम् ॥ र्भ्र्स्_२,४।९३ ॥

यथा वा–
निरुच्छ्वसित-रीतयो विघटिताक्षिप-क्ष्म-क्रिया
निरीह-निखिलेन्द्रियाः प्रतिनिवृत्त-चिद्-वृत्तयः ।
अवेक्ष्य कुरु-मण्डले रहसि पुण्डरीकेक्षणं
व्रजाम्बुज-दृशो ऽभजन् कनक-शालभञ्जी-श्रियम् ॥ र्भ्र्स्_२,४।९४ ॥

विश्लेषाद्, यथा हंसदूते (४)–
कदाचित् खेदाग्निं विघटयितुम् अन्तर्-गतम् असौ
सहालीभिर् लेभे तरलित-मना यामुन-तटीम् ।
चिराद् अस्याश् चित्तं परिचित-कुटीर-कलनाद्
अवस्था तस्तार स्फुटम् अथ सुषुप्तेः प्रिय-सखी ॥ र्भ्र्स्_२,४।९५ ॥

भयाद्, यथा–
मुकुन्दम् आविष्कृत-विश्व-रूपं
निरूपयन् वानर-वर्य-केतुः ।
करारविन्दात् पुरतः स्खलन्तं
न गाण्डीवं खण्डित-धीर् विवेद ॥ र्भ्र्स्_२,४।९६ ॥

विषादाद्, यथा श्री-दशमे (१०।११।४९)–
कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयो ऽर्भकाः ।
बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः ॥ र्भ्र्स्_२,४।९७ ॥

अस्यान्यत्रात्म-पर्यन्ते स्यात् सर्वत्रैव मूढता ।
कृष्ण-स्फूर्ति-विशेषस् तु न कदाप्य् अत्र लीयते ॥ र्भ्र्स्_२,४।९८ ॥

अथ (१५) मृतिः–
विषाद-व्याधि-सन्त्रास-सम्प्रहार-क्लमादिभिः ।
प्राण-त्यागो मृतिस् तस्याम् अव्यक्ताक्षर-भाषणम् ।
विवर्ण-गात्रता-श्वास-मान्द्य-हिक्कादयः क्रियाः ॥ र्भ्र्स्_२,४।९९ ॥

यथा–
अनुल्लास-श्वासा मुहुर् असरलोत्तानित-दृशो
विवृण्वन्तः काये किम् अपि नव-वैवर्ण्यम् अभितः ।
हरेर् नामाव्यक्तीकृतम् अलघु-हिक्का-लहरीभिः
प्रजल्पन्तः प्राणान् जहति मथुरायां सुकृतिनः ॥ र्भ्र्स्_२,४।१०० ॥

यथा वा–
विरमद्-अलघु-कण्ठोद्घोष-घुत्कार-चक्रा
क्षण-विघटित-ताम्यद्-दृष्टि-खद्योत-दीप्तिः ।
हरि-मिहिर-निपीत-प्राण-गाढान्धकारा
क्षयम् अगमद् अकस्मात् पूतना काल-रात्रिः ॥ र्भ्र्स्_२,४।१०१ ॥

प्रायो ऽत्र मरणात् पूर्वा चित्त-वृत्तिर् मृतिर् मता ।
मृतिर् अत्रानुभावः स्याद् इति केनचिद् उच्यते ।
किन्तु नायक-वीर्यार्थं शत्रौ मरणम् उच्यते ॥ र्भ्र्स्_२,४।१०२ ॥

अथ (१६) आलस्यम्–
सामर्थ्यस्यापि सद्-भावे क्रियानुन्मुखता हि या ।
तृप्ति-श्रमादि-सम्भूता तद्-आलस्यम् उदीर्यते ॥ र्भ्र्स्_२,४।१०३ ॥
अत्राङ्ग-भजो जृम्भा च क्रिया द्वेषो ऽक्षि-मर्दनम् ।
शय्यासनैक-प्रियता तन्द्रा-निद्रादयो ऽपि च ॥ र्भ्र्स्_२,४।१०४ ॥

तत्र तृप्तेर्, यथा–
विप्राणां नस् तथा तृप्तिर् आसीद् गोवर्धनोत्सवे ।
नाशीर्वादे ऽपि गोपेन्द्र यथा स्यात् प्रभविष्णुता ॥ र्भ्र्स्_२,४।१०५ ॥

श्रमाद्, यथा–
सुष्ठु निःसह-तनुः सुबलो ऽभूत्
प्रीतये मम विधाय नियुद्धम् ।
मोटयन्तम् अभितो निजम् अङ्गं
नाहवाय सहसाह्वयताम् अमुम् ॥ र्भ्र्स्_२,४।१०६ ॥

अथ (१७) जाड्यम्–
जाड्यम् अप्रतिपत्तिः स्याद् इष्टानिष्ठ-श्रुतीक्षणैः ।
विरहाद्यैश् च तन्-मोहात् पूर्वावस्थापरापि च ।
अत्रानिमिषता तूष्णीम्-भाव-विस्मरणादयः ॥ र्भ्र्स्_२,४।१०७ ॥

तत्र इष्ट-श्रुत्या, यथा श्री-दशमे (१०।२१।१३)–
गावश् च कृष्णमुख-निर्गत-वेणु-गीत-
पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः ।
शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुर्
गोविन्दम् आत्मनि दृशाश्रु-कुलाः स्पृशन्त्यः ॥ र्भ्र्स्_२,४।१०८ ॥

अनिष्ट-श्रुत्या, यथा–
आकलय्य परिवर्तित-गोत्रां
केशवस्य गिरम् अर्पित-शल्याम् ।
बिद्ध-धीर् अधिक-निर्निमिषाक्षी-
लक्ष्मणा क्षणम् अवर्तत तूष्णीम् ॥ र्भ्र्स्_२,४।१०९ ॥

इष्टेक्षणेन, यथा श्री-दशमे (१०।७१।४०)–
गोविन्दं गृहम् आनीय देव-देवेशम् आदृतः ।
पूजायां नाविदत् कृत्यं प्रमादोपहतो नृपः ॥ र्भ्र्स्_२,४।११० ॥

अनिष्टेक्षणेन, यथा तत्रैव (१०।३९।३६)–
यावद् आलक्ष्यते केतुर् यावद् रेणू रथस्य च ।
अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ र्भ्र्स्_२,४।१११ ॥

विरहेण, यथा–
मुकुन्द विरहेण ते विधुरिताः सखायश् चिराद्
अलङ्कृतिभिर् उज्झिता भुवि निविश्य तत्र स्थिताः ।
स्खलन्-मलिन-वाससः शवल-रुक्ष-गात्र-श्रियः
स्फुरन्ति खल-देवल-द्विज-गृहे सुरार्चा इव ॥ र्भ्र्स्_२,४।११२ ॥

अथ (१८) व्रीडा–
नवीन-सङ्गमाकार्य-स्तवावज्ञादिना कृता ।
अधृष्टता भवेद् व्रीडा तत्र मौनं विचिन्तनम् ।
अवगुण्ठन-भू-लेखौ तथाधोमुखतादयः ॥ र्भ्र्स्_२,४।११३ ॥

तत्र नवीन-सङ्गमेन, यथा पद्यावल्याम् (१९८)–
गोविन्दे स्वयम् अकरोः सरोज-नेत्रे
प्रेमान्धा वर-वपुर् अर्पणं सखि ।
कार्पण्यं न कुरु दरावलोक-दाने
विक्रीते करिणि किम् अङ्कुशे विवादः ॥ र्भ्र्स्_२,४।११४ ॥

अकार्येण, यथा–
त्वम् अवाग् इह मा शिरः कृथा
वदनं च त्रपया शची-पते ।
नय कल्प-तरुं न चेच् छचीं
कथम् अग्रे मुखम् ईक्षयिष्यसि ॥ र्भ्र्स्_२,४।११५ ॥

स्तवेन, यथा–
भूरि-साद्गुण्य-भारेण स्तूयमानस्य शौरिणा ।
उद्धवस्य व्यरोचिष्ट नम्री-भूतं तदा शिरः ॥ र्भ्र्स्_२,४।११६ ॥

अवज्ञया, यथा हरि-वंशे (२।६७।१९) {*इन् च्रितिचल् एदितोन्, अप्पेन्दिx २९।} सत्यादेवी-वाक्यम्–
वसन्त-कुसुमैश् चित्रं सदा रैवतकं गिरिम् ।
प्रिया भूत्वाऽप्रिया भूता कथं द्रक्ष्यामि तं पुनः ॥ र्भ्र्स्_२,४।११७ ॥

अथ (१९) अवहित्था–
अवहित्थाकार-गुप्तिर् भवेद् भावेन केनचित् ॥ र्भ्र्स्_२,४।११८ ॥
अत्राङ्गादेः पराभ्यूह-स्थानस्य परिगूहनम् ।
अन्यत्रेक्षा वृथा-चेष्टा वाग्-भङ्गीत्य्-आदयः क्रियाः ॥ र्भ्र्स्_२,४।११९ ॥

तथा चोक्तम्–
अनुभाव-पिधानार्थो ऽवहित्थं भाव उच्यते ॥ र्भ्र्स्_२,४।१२० ॥

तत्र जैह्म्येन, यथा श्री-दशमे (१०।३२।१५)–
सभाजयित्वा तम् अनङ्ग-दीपनं
सहास-लीलेक्षण-विभ्रम-भ्रुवा ।
संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः
संस्तुत्य ईषत् कुपिता बभाषिरे ॥ र्भ्र्स्_२,४।१२१ ॥

दाक्षिण्येन, यथा–
सात्राजिती-सदन-सीमनि पारिजाते
नीते प्रणीत-महसा मधुसूदनेन ।
द्राघीय-सीमनि विदर्भ-भुवस् तदेर्ष्यां
सौशील्यतः किल न को ऽपि विदाम्बभूव ॥ र्भ्र्स्_२,४।१२२ ॥

ह्रिया, यथा प्रथमे (१।११।३३)–
तम् आत्मजैर् दृष्टिभिर् अन्तरात्मना
दुरन्त-भावाः परिरेभिरे पतिम् ।
निरुद्धम् अप्य् आस्रवद् अम्बु नेत्रयोर्
विलज्जतीनां भृगु-वर्य वैक्लवात् ॥ र्भ्र्स्_२,४।१२३ ॥

जैह्म्य-ह्रीभ्याम्, यथा–
का वृषस्यति तं गोष्ठ-भुजङ्गं कुल-पालिका ।
दूति यत्र स्मृते मूर्तिर् भीत्या रोमाञ्चिता मम ॥ र्भ्र्स्_२,४।१२४ ॥

सौजन्येन, यथा–
गूढा गाभीर्य-सम्पद्भिर् मनो-गह्वर-गर्भगा ।
प्रौढाप्य् अस्या रतिः कृष्णे दुर्वितर्का परैर् अभूत् ॥ र्भ्र्स्_२,४।१२५ ॥

गौरवेण, यथा–
गोविन्दे सुबल-मुखैः समं सुहृद्भिः
स्मेरास्यैः स्फुटम् इह नर्म निर्मिमाणे ।
आनम्रीकृत-वदनः प्रमोद-मुग्धो
यत्नेन स्मितम् अथ संववार पत्री ॥ र्भ्र्स्_२,४।१२६ ॥

हेतुः कश्चिद् भवेत् कश्चिद् गोप्यः कश्चन गोपनः ।
इति भाव-त्रयस्यात्र विनियोगः समीक्ष्यते ॥ र्भ्र्स्_२,४।१२७ ॥
हेतुत्वं गोपनत्वं च गोप्यत्वं चात्र सम्भवेत् ।
प्रायेण सर्व-भावानाम् एकशो ऽनेकशो ऽपि च ॥ र्भ्र्स्_२,४।१२८ ॥

अथ (२०) स्मृतिः–
या स्यात् पूर्वानुभूतार्थ-प्रतीतिः सदृशेक्षया ।
दृढाभ्यासादिना वापि सा स्मृतिः परिकीर्तिता ।
भवेद् अत्र शिरः-कम्पो भ्रू-विक्षेपादयो ऽपि च ॥ र्भ्र्स्_२,४।१२९ ॥

तत्र सदृशेक्षणा, यथा–
विलोक्य श्यामम् अम्भोदम् अम्भोरुह-विलोचना ।
स्मारं स्मारं मुकुन्द त्वां स्मारं विक्रमम् अन्वभूत् ॥ र्भ्र्स्_२,४।१३० ॥

दृढाभ्यासेन, यथा–
प्रणिधान-विधिम् इदानीम् अकुर्वतो ऽपि प्रमादतो हृदि मे ।
हरि-पद-पङ्कज-युगलं क्वचित् कदाचित् परिस्फुरति ॥ र्भ्र्स्_२,४।१३१ ॥

अथ (२१) वितर्कः–
विमर्षात् संशयादेश् च वितर्कस् तूह उच्यते ।
एष भ्रू-क्सेपण-शिरो ऽङ्गुलि-सञ्चालनादि-कृत् ॥ र्भ्र्स्_२,४।१३२ ॥

तत्र विमर्षाद्, यथा विदग्ध-माधवे (२।२७)–
न जानीषे मूर्ध्नश् च्युतम् अपि शिखण्डं यद् अखिलं
न कण्ठे यन् माल्यं कलयसि पुरस्तात् कृतम् अपि ।
तद् उन्नीतं वृन्दावन-कुहर-लीला-कलभ हे
स्फुटं राधा-नेत्र-भ्रमर-वर वीर्योन्नतिर् इयम् ॥ र्भ्र्स्_२,४।१३३ ॥

संशयात्, यथा–
असौ किं तापिञ्छो न हि तद्-अमल-श्रीर् इह गतिः
पयोदः किं वामं न यद् इह निरङ्को हिमकरः ।
जगन्-मोहारम्भोद्धूर-मधुर-वंशी-ध्वनिर् इतो
ध्रुवं मूर्धन्य् अद्रेर् विधु-मुखि मुकुन्दो विहरति ॥ र्भ्र्स्_२,४।१३४ ॥

विनिर्णयान्त एवायं तर्क इत्य् ऊचिरे परे ॥ र्भ्र्स्_२,४।१३५ ॥

अथ (२२) चिन्ता–
ध्यानं चिन्ता भवेद् इष्टानाप्त्य्-अनिष्टाप्ति-निर्मितम् ।
श्वासाधोमुख-भूलेख-वैवर्ण्यान् निद्रता इह ।
विलापोत्ताप-कृशता-बाष्प-दैन्यादयो ऽपि च ॥ र्भ्र्स्_२,४।१३६ ॥

तत्र इष्टानाप्त्या, यथा श्री-दशमे (१०।२९।२९)
कृत्वा मुखान्य् अवशुचः श्वसनेन शुष्यद्
बिम्बाधराणि चरणेन लिखन्त्यः ।
अस्रेर् उपात्त-मसिभिः कुच-कुङ्कुमानि
तस्थुर् मृजन्त्य उरु-दुःख-भराः स्म तूष्णीम् ॥ र्भ्र्स्_२,४।१३७ ॥

यथा वा–
अरतिभिर् अतिक्रम्य क्षामा प्रदोषम् अदोष-धीः
कथम् अपि चिराद् अध्यासीना प्रघाणम् अघान्तक ।
विधूरित-मुखी घूर्णत्य् अन्तः प्रसूस् तव चिन्तया
किम् अहह गृहं क्रीडा-लुब्ध त्वयाद्य विसस्मरे ॥ र्भ्र्स्_२,४।१३८ ॥

अनिष्टाप्त्या, यथा–
गृहिणि गहनयान्तश्चिन्तयोन्निद्र-नेत्रा
ग्लपय न मुख-पद्मं तप्त-बाष्प-प्लवेन ।
नृप-पुरम् अनुविन्दन् गान्दिनेयेन सार्धं
तव सुतम् अहम् एव द्राक् परावर्तयामि ॥ र्भ्र्स्_२,४।१३९ ॥

अथ (२३) मतिः–
शास्त्रादीनां विचारोत्थम् अर्थ-निर्धारणं मतिः ॥ र्भ्र्स्_२,४।१४० ॥
अत्र कर्तव्य-करणं संशय-भ्रमयोश् छिदा ।
उपदेशश् च शिष्याणाम् ऊहापोहादयो ऽपि च ॥ र्भ्र्स्_२,४।१४१ ॥

यथा पाद्मे वैशाख-माहात्म्ये–
व्यामोहाय चराचरस्य जगतस् ते ते पुराणागमास्
तां ताम् एव हि देवतां परमिकां जल्पन्तु कल्पावधि ।
सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम-
व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयते ॥ र्भ्र्स्_२,४।१४२ ॥

यथा वा श्री-दशमे (१०।६०।३९)–
त्वं न्यस्त-दण्डमुनिभिर् गदितानुभाव
आत्मात्मदश् च जगताम् इति मे वृतो ऽसि ।
हित्वा भवद्-भ्रुव उदीरित-काल-वेग-
ध्वस्ताशिषो ऽब्ज-भवनाकपतीन् कुतो ऽन्ये ॥ र्भ्र्स्_२,४।१४३ ॥

अथ (२४) धृतिः–
धृतिः स्यात् पूर्णता ज्ञान-दुःखाभावोत्तमाप्तिभिः ।
अप्राप्तातीत-नष्टार्थान् अभिसंशोचनादि-कृत् ॥ र्भ्र्स्_२,४।१४४ ॥
तत्र ज्ञानेन, यथा वैराग्य-शतके (५५) भर्तृहरिः–
अश्नीमहि वयं भिक्षाम् आशावासो वसीमहि ।
शयीमहि मही-पृष्ठे कुर्वीमहि किम् ईश्वरैः ॥ र्भ्र्स्_२,४।१४५ ॥

दुःखाभावेन, यथा–
गोष्ठं रमा-केलि-गृहं चकास्ति
गावश् च धावन्ति परः-परार्धाः ।
पुत्रस् तथा दीव्यति दिव्य-कर्मा
तृप्तिर् ममाभूद् गृहमेधि-सौख्ये ॥ र्भ्र्स्_२,४।१४६ ॥

उत्तमाप्त्या, यथा–
हरि-लीला-सुधा-सिन्धोस् तटम् अप्य् अधितिष्ठतः ।
मनो मम चतुर्-वर्गं तृणायापि न मन्यते ॥ र्भ्र्स्_२,४।१४७ ॥

अथ (२५) हर्षः–
अभीष्टेक्षण-लाभादि-जाता चेतः-प्रसन्नता ।
हर्षः स्याद् इह रोमाञ्चः स्वेदो ऽश्रु मुख-फुल्लता ।
आवेगोन्माद-जडतास् तथा मोहादयो ऽपि च ॥ र्भ्र्स्_२,४।१४८ ॥

तत्र अभीष्टेक्षणेन, यथा श्री-विष्णु-पुराणे [वि।पु। ५।१७।२५]–
तौ दृष्ट्वा विकसद्-वक्त्र-सरोजः स महामतिः ।
पुलकाञ्चित-सर्वाङ्गस् तदाक्रूरो ऽभवन् मुने ॥ र्भ्र्स्_२,४।१४९ ॥

अभीष्ट-लाभेन, यथा श्री-दशमे (१०।३३।१२)–
तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।
चन्दनालिप्तम् आघ्राय हृष्टरोमा चुचुम्ब ह ॥ र्भ्र्स्_२,४।१५० ॥

अथ (२६) औत्सुक्यम्–
कालाक्षमत्वम् औत्सुक्यम् इष्टेक्षाप्ति-स्पृहादिभिः ।
मुख-शोष-त्वरा-चिन्ता-निःश्वास-स्थिरतादिकृत् ॥ र्भ्र्स्_२,४।१५१ ॥

तत्र इष्टेक्षा-स्पृहया, यथा श्री-दशमे (१०।७१।३४)
प्राप्तं निशम्य नर-लोचन-पान-पात्रम्
औत्सुक्य-विश्लथित-केश-दुकूल-बद्धाः ।
सद्यो विसृज्य गृह-कर्म पतींश् च तल्पे
द्रष्टुं ययुर् युवतयः स्म नरेन्द्र-मार्गे ॥ र्भ्र्स्_२,४।१५२ ॥

यथा वा, स्तवावल्यां श्री-राधिकाष्टके (१४।७)–
प्रकटित-निज-वासं स्निग्ध-वेणु-प्रणादैर्
द्रुत-गति हरिम् आरात् प्राप्य कुञ्जे स्मिताक्षी ।
श्रवण-कुहर-कण्डुं तन्वती नम्र-वक्त्रा
स्नपयति निज-दास्ये राधिका मां कदा नु ॥ र्भ्र्स्_२,४।१५३ ॥

इष्टाप्ति-स्पृहया, यथा–
नर्म-कर्मठतया सखी-गणे
द्राघयत्य् अघहराग्रतः कथाम् ।
गुच्छक-ग्रहण-कैतवाद् असौ
गह्वरं द्रुत-पद-क्रमं ययौ ॥ र्भ्र्स्_२,४।१५४ ॥

अथ (२७) औग्र्यम्–
अपराध-दुरुक्त्य्-आदि- जातं चण्डत्वम् उग्रता ।
वध-बन्ध-शिरः-कम्प-भर्त्सनोत्ताडनादि-कृत् ॥ र्भ्र्स्_२,४।१५५ ॥

तत्र अपराधाद्, यथा–
स्फुरति मयि भुजङ्गी-गर्भ-विश्रंसि-कीर्तौ
विरचयति मद्-ईशे किल्बिषं कालियो ऽपि ।
हुत-भुजि बत कुर्यां जाठरे वौषड् एनं
सपदि दनुज-हन्तुः किन्तु रोषाद् बिभेमि ॥ र्भ्र्स्_२,४।१५६ ॥

दुरुक्तितो, यथा सहदेवोक्तिः–
प्रभवति विबुधानाम् अग्रिमस्याग्र-पूजां
न हि दनुज-रिपोर् यः प्रौङ्ध-कीर्तेर् विसोढुम् ।
कटुतर-यम-दण्डोद्दण्ड-रोचिर् मयासौ
शिरसि पृथुनि तस्य न्यस्यते सव्य-पादः ॥ र्भ्र्स्_२,४।१५७ ॥

यथा वा बलदेवोक्तिः–
रताः किल नृपासने क्षितिप-लक्ष-भुक्तोज्झिते
खलाः कुरु-कुलाधमाः प्रभुम् अजाण्ड-कोटिष्व् अमी ।
हहा बत विडम्बना शिव शिवाद्य नः शृण्वतां
हठाद् इह कटाक्षयन्त्य् अखिल-वन्द्यम् अप्य् अच्युतम् ॥ र्भ्र्स्_२,४।१५८ ॥

अथ (२८) अमर्षः–
अधिक्षेपापमानादेः स्याद् अमर्षो ऽसहिष्णुता ॥ र्भ्र्स्_२,४।१५९ ॥
तत्र स्वेदः शिरःकम्पो विवर्णत्वं विचिन्तनम् ।
उपायान्वेषणाक्रोश-वैमुख्योत्ताडनादयः ॥ र्भ्र्स्_२,४।१६० ॥

तत्र अधिक्षेपाद्, यथा विदग्ध-माधवे (२।५३)–
निर्धौतानाम् अखिल-धरणी-माधुरीणां धूरीणा
कल्याणी मे निवसति वधूः पश्य पार्श्वे नवोढा ।
अन्तर्गोष्ठे चटुल नटयन्न् अत्र नेत्र-त्रिभागं
निःशङ्कस् त्वं भ्रमसि भविता नाकुलत्वं कुतो मे ॥ र्भ्र्स्_२,४।१६१ ॥

अपमानाद्, यथा पद्मोक्तिः–
कदम्ब-वन-तस्कर द्रुतम् अपेहि किं चाटुभिर्
जने भवति मद्-विधे परिभवो हि नातः परः ।
त्वया व्रज-मृगी-दृशां सदसि हन्त चन्द्रावली
वरापि यद् अयोग्यया स्फुटम् अदूषि ताराख्यया ॥ र्भ्र्स्_२,४।१६२ ॥

आदि-शब्दाद् वञ्चनाद् अपि, यथा श्री-दशमे (१०।३१।१६)–
पति-सुतान्वय-भार्तृ-बान्धवान्
अतिविलङ्घ्य ते ऽन्त्य् अच्युतागताः ।
गति-विदस् तवोद्गीत-मोहिताः
कितव योषितः कस् त्यजेन् निशि ॥ र्भ्र्स्_२,४।१६३ ॥

अथ (२९) असूया–
द्वेषः परोदये ऽसूयान्य-सौभाग्य-गुणादिभिः ।
तत्रेर्ष्यानादराक्षेपा दोषारोपो गुणेष्व् अपि ।
अपवृत्तिस् तिरो-वीक्षा भ्रुवोर् भङ्गुरतादयः ॥ र्भ्र्स्_२,४।१६४ ॥

तत्र अन्य-सौभाग्येन, यथा पद्यावल्याम् (३०२) {*अत्त्रिबुतेद् तो दामोदर इन् पद्यावली। अल्सो फ़ोउन्द् इन् अमरु ५५; स्क्म् २।१४०।५ केशटस्य; स्म्व् ८६।१४; साह्द् ३।१०५ (अस् अन् एxअम्प्ले ओफ़् मद); दश २।२२।}–
मा गर्वम् उद्वह कपोल-तले चकास्ति
कृष्ण-स्वहस्त-लिखिता नव-मञ्जरीति ।
अन्यापि किं न सखि भाजनम् ईदृशीनां
वैरी न चेद् भवति वेपथुर् अन्तरायः ॥ र्भ्र्स्_२,४।१६५ ॥

यथा वा श्री-दशमे (१०।३०।३०)–
तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् ।
यैकापहृत्य गोपीनां रहो भुङ्क्ते ऽच्युताधरम् ॥ र्भ्र्स्_२,४।१६६ ॥

गुणेन, यथा–
स्वयं पराजयं प्राप्तान् कृष्ण-पक्षान् विजित्य नः ।
बलिष्ठा बल-पक्षाश् चेद् दुर्बलाः के ततः क्षितौ ॥ र्भ्र्स्_२,४।१६७ ॥

अथ (३०) चापल्यम्–
राग-द्वेषादिभिश् चित्त-लाघवं चापलं भवेत् ।
तत्राविचार-पारुष्य-स्वच्छन्दाचरणादयः ॥ र्भ्र्स्_२,४।१६८ ॥

तत्र रागेण, यथा श्री-दशमे (१०।५२।४१)–
श्वो भाविनि त्वम् अजितोद्वहने विदर्भान्
गुप्तः समेत्य पृतना-पतिभिः परीतः ।
निर्मथ्य चैद्य-मगधेश-बलं प्रसह्य
मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम् ॥ र्भ्र्स्_२,४।१६९ ॥

द्वेषेण, यथा–
वंशी-पूरेण कालिन्द्याः सिन्धुं विन्दतु वाहिता ।
गुरोर् अपि पुरो नीवीं या भ्रंशयति सुभ्रुवाम् ॥ र्भ्र्स्_२,४।१७० ॥

अथ (३१) निद्रा–
चिन्तालस्य-निसर्ग-क्लमादिभिश् चित्त-मीलनं निद्रा ।
तत्राङ्ग-भङ्ग-जृम्भा-जाड्य-श्वासाक्षि-मीलनानि स्युः ॥ र्भ्र्स्_२,४।१७१ ॥

तत्र चिन्तया, यथा–
लोहितायति मार्तण्डे वेणु-ध्वनिम् अशृण्वती ।
चिन्तयाक्रान्त-हृदया निदद्रौ नन्द-गेहिनी ॥ र्भ्र्स्_२,४।१७२ ॥

आलस्येन, यथा–
दामोदरस्य बन्धन-कर्मभिर् अतिनिःसहाङ्ग-लतिकेयम् ।
दर-विघूर्णितोत्तमाङ्गा कृताङ्ग-भङ्गा व्रजेश्वरी स्फुरति ॥ र्भ्र्स्_२,४।१७३ ॥

निसर्गेण, यथा–
अघहर तव वीर्य-प्रोषिताशेष-चिन्ताः
परिहृत-गृह-वास्तु-द्वार-बन्धानुबद्धाः ।
निज-निजम् इह रात्रौ प्राङ्गनं शोभयन्तः
सुखम् अविचलद्-अङ्गाः शेरते पश्य गोपाः ॥ र्भ्र्स्_२,४।१७४ ॥

क्लमेन, यथा–
सङ्क्रान्त-धातु-चित्रा सुरतान्ते सा नितान्त-तान्ताऽद्य ।
वक्षसि निक्षिप्ताङ्गी हरेर् विशाखा ययौ निद्राम् ॥ र्भ्र्स्_२,४।१७५ ॥

युक्तास्य स्फूर्ति-मात्रेण निर्विशेषेण केनचित् ।
हृन्-मीलनात् पुरो ऽवस्था निद्रा भक्तेषु कथ्यते ॥ र्भ्र्स्_२,४।१७६ ॥
अथ (३२) सुप्तिः–
सुप्तिर् निद्रा-विभावा स्यान् नानार्थानुभवात्मिका ।
इन्द्रियोपरति-श्वास-नेत्र-सम्मीलनादि-कृत् ॥ र्भ्र्स्_२,४।१७७ ॥

यथा–
कामं तामरसाक्ष केलि-विततिः प्रादुष्कृता शैशवी
दर्पः सर्प-पतेस् तद् अस्य तरसा निर्धूयताम् उद्धूरः ।
इत्य् उत्स्वप्न-गिरा चिराद् यदु-सभां विस्मापयन् स्मेरयन्
निःश्वासेन दरोत्तरङ्गद्-उदरं निद्रां गतो लाङ्गली ॥ र्भ्र्स्_२,४।१७८ ॥

अथ (३३) बोधः–
अविद्या-मोह-निद्रादेर् ध्वंसोद्बोधः प्रबुद्धता ॥ र्भ्र्स्_२,४।१७९ ॥

तत्र अविद्या-ध्वंसतः–
अविद्या-ध्वंसतो बोधो विद्योदय-पुरःसरः ।
अशेष-क्लेश-विश्रान्ति-स्वरूपावगमादि-कृत् ॥ र्भ्र्स्_२,४।१८० ॥

यथा–
विन्दन् विद्या-दीपिकां स्व-स्वरूपं
बुद्ध्वा सद्यः सत्य-विज्ञान-रूपम् ।
निष्प्रत्यूहस् तत् परं ब्रह्म मूर्तं
सान्द्रानन्दाकारम् अन्वेषयामि ॥ र्भ्र्स्_२,४।१८१ ॥

मोह-ध्वंसतः–
बोधो मोह-क्षयाच् छब्द-गन्ध-स्पर्श-रसैर् हरेः ।
दृग्-उन्मीलन-रोमाञ्च-धरोत्थानादि-कृद् भवेत् ॥ र्भ्र्स्_२,४।१८२ ॥

तत्र शब्देन, यथा–
प्रथम-दर्शन-रूढ-सुखावली-
कवलितेन्द्रिय-वृत्तिर् अभूद् इयम् ।
अघ-भिदः किल नाम्न्य् उदिते श्रुतौ
ललितयोदमिमीलद् इहाक्षिणी ॥ र्भ्र्स्_२,४।१८३ ॥

गन्धेन, यथा–
अचिरम् अघ-हरेण त्यागतः स्रस्त-गात्री
वन-भुवि शवलाङ्गी शान्त-निःश्वास-वृत्तिः ।
प्रसरति वन-माला सौरभे पश्य राधा
पुलकित-तनुर् एषा पांशु-पुञ्जाद् उदस्थात् ॥ र्भ्र्स्_२,४।१८४ ॥
स्पर्शेन, यथा–
असौ पाणि-स्पर्शो मधुर-मसृणः कस्य विजयी
विशीर्यन्त्याः सौर-पुलिन-वनम् आलोक्य मम यः ।
दुरन्ताम् उद्धूय प्रसभम् अभितो वैशस-मयीं
द्रुतं मूर्च्छाम् अन्तः सखि सुख-मयीं पल्लवयति ॥ र्भ्र्स्_२,४।१८५ ॥

रसेन, यथा–
अन्तर्हिते त्वयि बलानुज रास-केलौ
स्रस्ताङ्ग-यष्टिर् अजनिष्ट सखी विसञ्ज्ञा ।
ताम्बूल-चर्वितम् अवाप्य तवाम्बुजाक्षी
न्यस्तं मया मुख-पुटे पुलकोज्ज्वलासीत् ॥ र्भ्र्स्_२,४।१८६ ॥

निद्राध्वंसतः–
बोधो निद्राक्षयात् स्वप्न-निद्रा-पूर्ति-स्वनादिभिः ।
तत्राक्षि-मर्दनं शय्या-मोक्षो ऽङ्ग-वलनादयः ॥ र्भ्र्स्_२,४।१८७ ॥

तत्र स्वप्नेन, यथा–
इयं ते हास-श्रीर् विरमतु विमुञ्चाञ्चलम् इदं
न यावद्-वृद्धायै स्फुटम् अभिदधे त्वच्-चटुलताम् ।
इति स्वप्ने जल्पन्त्य् अचिरम् अवबुद्धा गुरुम् असौ
पुरो दृष्ट्वा गौरी नमित-मुख-बिम्बा मुहुर् अभूत् ॥ र्भ्र्स्_२,४।१८८ ॥

निद्रा-पूर्त्या, यथा–
दूती चागात् तद्-आगारं जजागार च राधिका ।
तूर्णं पुण्यवतीनां हि तनोति फलम् उद्यमः ॥ र्भ्र्स्_२,४।१८९ ॥

स्वनेन, यथा–
दूराद् विद्रावयन् निद्रा-मरालीर् गोप-सुभ्रुवाम् ।
सारङ्ग-रङ्गदं रेजे वेणु-वारिद-गर्जितम् ॥ र्भ्र्स्_२,४।१९० ॥

इति भावास् त्रयस्-त्रिंशत् कथिता व्यभिचारिणः ।
श्रेष्ठ-मध्य-कनिष्ठेषु वर्णनीया यथोचितम् ॥ र्भ्र्स्_२,४।१९१ ॥
मात्सर्योद्वेग-दम्भेर्ष्या विवेको निर्णयस् तथा ।
क्लैब्यं क्षमा च कुतुकम् उत्कण्ठा विनयो ऽपि च ॥ र्भ्र्स्_२,४।१९२ ॥
संशयो धार्ष्ट्यम् इत्य् आद्या भावा ये स्युः परे ऽपि च ।
उक्तेष्व् अन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः ॥ र्भ्र्स्_२,४।१९३ ॥

तथा हि–
असूयायां तु मात्सर्यं त्रासे ऽप्य् उद्वेग एव तु ।
दम्भस् तथावहित्थायाम् ईर्ष्यामर्षे मताव् उभौ ।
विवेको निर्णयश् चेमौ दैन्ये क्लैब्यं क्षमा धृतौ ॥ र्भ्र्स्_२,४।१९४ ॥
औत्सुक्ये कुतुकोत्कण्ठे लज्जायां विनयस् तथा ।
संशयो ऽन्तर्भवेत् तर्के तथा धार्ष्ट्यं च चापले ॥ र्भ्र्स्_२,४।१९५ ॥
एषां सञ्चारि-भावानां मध्ये कश्चन कस्यचित् ।
विभावश् चानुभावश् च भवेद् एव परस्परम् ॥ र्भ्र्स्_२,४।१९६ ॥
निर्वेदे तु यथेर्ष्याया भवेद् अत्र विभावता ।
असूयायां पुनस् तस्या व्यक्तम् उक्तानुभावता ॥ र्भ्र्स्_२,४।१९७ ॥
औत्सुक्यं प्रति चिन्तायाः कथितात्रानुभावता ।
निद्रां प्रति विभावत्वम् एवं ज्ञेयः परे ऽप्य् अमी ॥ र्भ्र्स्_२,४।१९८ ॥
एषां च सात्त्विकानां च तथा नाना-क्रिया-ततेः ।
कार्य-कारण-भावस् तु ज्ञेयः प्रायेण लोकतः ॥ र्भ्र्स्_२,४।१९९ ॥
निन्दायास् तु विभावत्वं वैवर्ण्यामर्षयोर् मतम् ।
असूयायां पुनस् तस्याः कथितैवानुभावता ॥ र्भ्र्स्_२,४।२०० ॥
प्रहारस्य विभावत्वं सम्मोह-प्रलयौ प्रति ।
औग्र्यं प्रत्यनुभावत्वम् एवं ज्ञेयाः परे ऽपि च ॥ र्भ्र्स्_२,४।२०१ ॥
त्रास-निद्रा-श्रमालस्य-मद-भिद्-बोध-वर्जिनाम् ।
सञ्चारिणाम् इह क्वापि भवेद् रत्य्-अनुभावता ॥ र्भ्र्स्_२,४।२०२ ॥
साक्षाद्-रतेर् न सम्बन्धः षड्भिस् त्रासादिभिः सह ।
स्यात् परस्परया किन्तु लीलानुगुणताकृते ॥ र्भ्र्स्_२,४।२०३ ॥
वितर्क-मति-निर्वेद-धृतीनां स्मृति-हर्षयोः ।
बोध-भिद्-दैन्य-सुप्तीनां क्वचिद् रति-विभावता ॥ र्भ्र्स्_२,४।२०४ ॥
परतन्त्राः स्वतन्त्राश् चेत्य् उक्ताः सञ्चारिणो द्विधा ॥ र्भ्र्स्_२,४।२०५ ॥

तत्र परतन्त्राः–
वरावरतया प्रोक्ताः परतन्त्रा अपि द्विधा ॥ र्भ्र्स्_२,४।२०६ ॥

तत्र वरः–
साक्षाद् व्यवहितश् चेति वरो ऽप्य् एष द्विधोदितः ॥ र्भ्र्स्_२,४।२०७ ॥

तत्र साक्षात्–
मुख्याम् एव रतिं पुष्णन् साक्षाद् इत्य् अभिधीयते ॥ र्भ्र्स्_२,४।२०८ ॥

यथा–
तनुरुहाली च तनुश् च नृत्यं
तनोति मे नाम निशम्य यस्य ।
अपश्यतो माथुर-मण्डलं तद्-
व्यर्थेन किं हन्त दृशोर् द्वयेन ॥ र्भ्र्स्_२,४।२०९ ॥

अथ व्यवहितः–
पुष्णाति यो रतिं गौणीं स व्यवहितो मतः ॥ र्भ्र्स्_२,४।२१० ॥

यथा–
धिग् अस्तु मे भुज-द्वन्द्वं भीमस्य परिघोपमम् ।
माधवाक्षेपिणं दुष्टं यत् पिनष्टि न चेदिपम् ॥ र्भ्र्स्_२,४।२११ ॥

निर्वेदः क्रोध-वश्यत्वाद् अयं व्यवहितो रतेः ॥ र्भ्र्स्_२,४।२१२ ॥

अथ अवरः–
रस-द्वयस्याप्य् अङ्गत्वम् अगच्छन्न् अवरो मतः ॥ र्भ्र्स्_२,४।२१३ ॥

यथा–
लेलिह्यमानं वदनैर् ज्वलद्भिर्
जगन्ति दंष्ट्रास्फुटद्-उत्तमाङ्गैः ।
अवेक्ष्य कृष्णं धृत-विश्वरूपं
न स्वं विशुष्यन् स्मरति स्म जिष्णुः ॥ र्भ्र्स्_२,४।२१४ ॥

घोर-क्रियाद्य्-अनुभावाद् आच्छाद्य सहजां रतिम् ।
दुर्वराविरभूद् भीतिर् मोहो ऽयं भी-वशस् ततः ॥ र्भ्र्स्_२,४।२१५ ॥

अथ स्वतन्त्राः–
सदैव पारतन्त्र्ये ऽपि क्वचिद् एषां स्वतन्त्रता ।
भूपाल-सेवकस्येव प्रवृत्तस्य कर-ग्रहे ॥ र्भ्र्स्_२,४।२१६ ॥
भावज्ञै रति-शून्यश् च रत्य्-अनुस्पर्शनस् तथा ।
रति-गन्धिश् च ते त्रेधा स्वतन्त्राः परिकीर्तिताः ॥ र्भ्र्स्_२,४।२१७ ॥

तत्र रति-शून्यः–
जनेषु रति-शून्येषु रति-शून्यो भवेद् असौ ॥ र्भ्र्स्_२,४।२१८ ॥

यथा श्री-दशमे (१०।२३।३९)–
धिग् जन्म नस् त्रिवृद्-विद्यां धिग् व्रतं धिग् बहुज्ञताम् ।
धिक् कुलं धिक् क्रिया-दीक्षां विमुखा ये त्व् अधोक्षजे ॥ र्भ्र्स्_२,४।२१९ ॥
अत्र स्वतन्त्रो निर्वेदः ।

तत्र रत्य्-अनुस्पर्शनः–
यः स्वतो रति-गन्धेन विहीनो ऽपि प्रसङ्गतः ।
पश्चाद् रतिं स्पृशेद् एष रत्य्-अनुस्पर्शनो मतः ॥ र्भ्र्स्_२,४।२२० ॥

यथा–
गरिष्ठारिष्ट-टङ्कारैर् विधुरा वधिरायिता ।
हा कृष्ण पाहि पाहीति चुक्रोशाभीर-बालिका ॥ र्भ्र्स्_२,४।२२१ ॥
अत्र त्रासः ।

अथ रति-गन्धिः–
यः स्वातन्त्र्ये ऽपि तद्-गन्धं रति-गन्धिर् व्यनक्ति सः ॥ र्भ्र्स्_२,४।२२२ ॥

यथा–
पीतांशुकं परिचिनोमि धृतं त्वयाङ्गे
सङ्गोपनाय न हि नप्त्रि विधेहि यत्नम् ।
इत्य् आर्यया निगदिता नमितोत्तमाङ्गा
राधावगुण्ठित-मुखी तरसा तदासीत् ॥ र्भ्र्स्_२,४।२२३ ॥
अत्र लज्जा ।

आभासः पुनर् एतेषाम् अस्थाने वृत्तितो भवेत् ।
प्रातिकूल्यम् अनौचित्यम् अस्थानत्वं द्विधोदितम् ॥ र्भ्र्स्_२,४।२२४ ॥

तत्र प्रातिकूल्यम्–
विपक्षे वृत्तिर् एतेषां प्रातिकूल्यम् इतीर्यते ॥ र्भ्र्स्_२,४।२२५ ॥

यथा–
गोपो ऽप्य् अशिक्षित-रणो ऽपि तम् अश्व-दैत्यं
हन्ति मे हन्त मम जीवित-निर्विशेषम् ।
क्रीडा-विनिर्जित-सुराधिपतेर् अलं मे
दुर्जीवितेन हत-कंस-नराधिपस्य ॥ र्भ्र्स्_२,४।२२६ ॥
अत्र निर्वेदस्याभासः ।

यथा वा–
डुण्डभो जलचरः स कालियो
गोष्ठ-भूभृद् अपि लोष्ट्र-सोदरः ।
तत्र कर्म किम् इवाद्भुतं जने
येन मूर्ख जगदीशतेर्यते ॥ र्भ्र्स्_२,४।२२७ ॥
अत्रासूयायाः ।

अथ अनौचित्यम्–
असत्यत्वम् अयोग्यत्वम् अनौचित्यं द्विधा भवेत् ।
अप्राणिनि भवेद् आद्यः तिर्यग्-आदिषु चान्तिमम् ॥ र्भ्र्स्_२,४।२२८ ॥

तत्र अप्राणिनि, यथा–
छाया न यस्य सकृद् अप्य् उपसेविताभूत्
कृष्णेन हन्त मम तस्य धिग् अस्तु जन्म ।
मा त्वं कदम्ब विधुरो भव कालियाहिं
मृद्नन् करिष्यति हरिश् चरितार्थतां ते ॥ र्भ्र्स्_२,४।२२९ ॥
अत्र निर्वेदस्य ।

तिरश्चि, यथा–
अधिरोहतु कः पक्षी कक्षाम् अपरो ममाद्य मेध्यस्य ।
हित्वापि तार्क्ष्य-पक्सं भजते पक्षं हरिर् यस्य ॥ र्भ्र्स्_२,४।२३० ॥
अत्र गर्वस्य ।

वहमानेष्व् अपि सदा ज्ञान-विज्ञान-माधुरीम् ।
कदम्बादिषु सामान्य-दृष्ट्य्-आभासत्वम् उच्यते ॥ र्भ्र्स्_२,४।२३१ ॥
भावानां क्वचिद् उत्पत्ति-सन्धि-शावल्य-शान्तयः ।
दशाश् चतस्र एतासाम् उत्पत्तिस् त्व् इह सम्भवः ॥ र्भ्र्स्_२,४।२३२ ॥

यथा–
मण्डले किम् अपि चण्ड-मरीचेर्
लोहितायति निशम्य यशोदा ।
वैणवीं ध्वनि-धुराम् अविदूरे
प्रस्रव-स्तिमित-कञ्चुलिकासीत् ॥ र्भ्र्स्_२,४।२३३ ॥
अत्र हर्षोत्पत्तिः ।

यथा वा–
त्वयि रहसि मिलन्त्यां सम्भ्रम-न्यास-भुग्नाप्य्
उषसि सखि तवाली मेखला पश्य भाति ।
इति विवृत-रहस्ये कुञ्चित-भ्रूर्
दृशम् अनृजु किरन्ती राधिका वः पुनातु ॥ र्भ्र्स्_२,४।२३४ ॥
अत्रासूयोत्पत्तिः ।

अथ सन्धिः–
सरूपयोर् भिन्नयोर् वा सन्धिः स्याद् भावयोर् युतिः ॥ र्भ्र्स्_२,४।२३५ ॥

तत्र सरूपयोः सन्धिः–
सन्धिः सरूपयोस् तत्र भिन्न-हेतूत्थयोर् मतः ॥ र्भ्र्स्_२,४।२३६ ॥

यथा–
राक्षसीं निशि निशाम्य निशान्ते
गोकुलेश-गृहिणी पतिताङ्गीम् ।
तत्-कुचोपरि सुतं च हसन्तं
हन्त निश्चल-तनुः क्षणम् आसीत् ॥ र्भ्र्स्_२,४।२३७ ॥
अत्रानिष्टेष्ट-संवीक्षाकृतयोर् जाड्ययोर् युतिः ।

अथ भिन्नयोः–
भिन्नयोर् हेतुनैकेन भिन्नेनाप्य् उपजातयोः ॥ र्भ्र्स्_२,४।२३८ ॥

अथ एक-हेतु-जयोः, यथा–
दुर्वारचापलो ऽयं धावन्न् अन्तर् बहिश् च गोष्ठस्य ।
शिशुर् अकुतश्चिद् भीतिर् धिनोति हृदयं दुनोति च मे ॥ र्भ्र्स्_२,४।२३९ ॥
तत्र हर्ष-शङ्कयोः ।

तत्र भिन्न-हेतुजयोः, यथा–
विलसन्तम् अवेक्ष्य देवकी
सुतम् उत्फुल्ल-विलोचनं पुरः ।
प्रबलाम् अपि मल्ल-मण्डलीं
हिमम् उष्णं च जलं दृशोर् दधे ॥ र्भ्र्स्_२,४।२४० ॥
अत्र हर्ष-विषादयोः सन्धिः ।

एकेन जायमानानाम् अनेकेन च हेतुना ।
बहूनाम् अपि भावानां सन्धिः स्फुटम् अवेक्ष्यते ॥ र्भ्र्स्_२,४।२४१ ॥

तत्र एक-हेतुजानाम्, यथा–
निरुद्धा कालिन्दी-तट-भुवि मुकुन्देन बलिना
हठाद् अन्तः-स्मेरां तरलतर-तारोज्ज्वल-कलाम् ।
अभिव्यक्तावज्ञाम् अरुण-कुटिलापाङ्ग-सुषमां
दृशं न्यस्यन्त्य् अस्मिन् जयति वृषभानोः कुल-मणिः ॥ र्भ्र्स्_२,४।२४२ ॥
अत्र हर्षौत्सुक्य-गर्वामर्षासूयानां सन्धिः ।

अनेक-हेतुजानाम्, यथा–
परिहित-हरि-हारा वीक्ष्य राधा सवित्रीं
निकट-भुवि तथाग्रे तर्क-भाक् स्मेर-पद्माम् ।
हरिम् अपि दर-दूरे स्वामिनं तत्र चासीन्
महसि विनत-वक्र-प्रस्फुर-म्लान-वक्त्रा ॥ र्भ्र्स्_२,४।२४३ ॥
अत्र लज्जामर्ष-हर्ष-विषादानां सन्धिः ।

अथ शावल्यम्–
शवलत्वं तु भावानां सम्मर्दः स्यात् परस्परम् ॥ र्भ्र्स्_२,४।२४४ ॥

यथा–
शक्तः किं नाम कर्तुं स शिशुर् अहह मे मित्र-पक्षानधाक्षीद्
आतिष्ठेयं तम् एव द्रुतम् अथ शरणं कुर्युर् एतन् न वीराः ।
आं दिव्या मल्ल-गोष्ठी विहरति स करेणोद्दधाराद्रि-वर्यं
कुर्याम् अद्यैव गत्वा व्रज-भुवि कदनं हा ततः कम्पते धीः ॥ र्भ्र्स्_२,४।२४५ ॥
अत्र गर्व-विषाद-दैन्य-मति-स्मृति-शङ्कामर्ष-त्रासानां शावल्यम् ।

यथा वा–
धिग् दीर्घे नयने ममास्तु मथुरा याभ्यां न सा प्रेक्ष्यते
विद्येयं मम किङ्करी-कृत-नृपा कालस् तु सर्वङ्करः ।
लक्ष्मी-केलि-गृहं गृहं मम हहा नित्यं तनुः क्षीयते
सद्मन्य् एव हरिं भजेय हृदयं वृन्दाटवी कर्षति ॥ र्भ्र्स्_२,४।२४६ ॥
अत्र निर्वेद-गर्व-शङ्का-धृति-विषाद-मत्य्-औत्सुक्यानां शावल्यम् ।

अथ शान्तिः–
अत्यारूढस्य भावस्य विलयः शान्तिर् उच्यते ॥ र्भ्र्स्_२,४।२४७ ॥

यथा–
विधुरित-वदना विदून-भासस्
तम् अघहरं गहने गवेषयन्तः ।
मृदु-कल-मुरलीं निशम्य शैले
व्रज-शिशवः पुलकोज्ज्वला बभूवुः ॥ र्भ्र्स्_२,४।२४८ ॥
अत्र विषाद-शान्तिः ।

शब्दार्थ-रस-वैचित्री वाचि काचन नास्ति मे ।
यथा-कथञ्चिद् एवोक्तं भावोदाहरणं परम् ॥ र्भ्र्स्_२,४।२४९ ॥
त्रयस्त्रिंशद् इमे ऽष्टौ च वक्ष्यन्ते स्थायिनश् च ये ।
मुख्य-भावाभिधास् त्व् एक-चत्वारिंशद् अमी स्मृताः ॥ र्भ्र्स्_२,४।२५० ॥
शरीरेन्द्रिय-वर्गस्य विकारणां विधायकाः ।
भावाविर्भाव-जनिताश् चित्त-वृत्तय ईरिताः ॥ र्भ्र्स्_२,४।२५१ ॥
क्वचित् स्वाभाविको भावः कश्चिद् आगन्तुकः क्वचित् ।
यस् तु स्वाभाविको भावः स व्याप्यान्तर्-बहिः-स्थितः ॥ र्भ्र्स्_२,४।२५२ ॥
मञ्जिष्ठाद्ये यथा द्रव्ये रागस् तन्-मय ईक्ष्यते ।
अत्र स्यान् नाम-मात्रेण विभावस्य विभावता ॥ र्भ्र्स्_२,४।२५३ ॥
एतेन सहजेनैव भावेनानुगता रतिः ।
एक-रूपापि या भक्तेर् विविधा प्रतिभात्य् असौ ॥ र्भ्र्स्_२,४।२५४ ॥
आगन्तुकस् तु यो भावः पटादौ रक्तिमेव सः ।
तैस् तैर् विभावैर् एवायं धीयते दीप्यते ऽपि च ॥ र्भ्र्स्_२,४।२५५ ॥
विभावनादि-वैशिष्ट्याद् भक्तानां भेदतस् तथा ।
प्रायेण सर्व-भावानां वैशिष्ट्यम् उपजायते ॥ र्भ्र्स्_२,४।२५६ ॥
विविधानां तु भक्तानां वैशिष्ट्याद् विविधं मनः ।
मनो ऽनुसाराद् भावानां तारतम्यं किलोदये ॥ र्भ्र्स्_२,४।२५७ ॥
चित्ते गरिष्ठे गम्भीरे महिष्ठे कर्कशादिके ।
सम्यग्-उन्मीलिताश् चामी न लक्ष्यन्ते स्फुटं जनैः ॥ र्भ्र्स्_२,४।२५८ ॥
चित्ते लघिष्ठे चोत्ताने क्षोदिष्ठे कोमलादिके ।
मनाग्-उन्मीलिताश् चामी लक्ष्यन्ते बहिर् उल्बणाः ॥ र्भ्र्स्_२,४।२५९ ॥
गरिष्ठं स्वर्ण-पिण्डाभं लघिष्ठं तुल-पिण्डवत् ।
चित्त-युग्मे ऽत्र विज्ञया भावस्य पवनोपमा ॥ र्भ्र्स्_२,४।२६० ॥
गम्भीरं सिन्धुवच् चित्तम् उत्तानं पल्वलादिवत् ।
चित्त-द्वये ऽत्र भावस्य महाद्रि-शिखरोपमा ॥ र्भ्र्स्_२,४।२६१ ॥
पत्तनाभं महिष्ठं स्यात् क्षोदिष्ठं तु कुटिरवत् ।
चित्त-युग्मे ऽत्र भावस्य दीपेनेभेन वोपमा ॥ र्भ्र्स्_२,४।२६२ ॥
कर्कशं त्रिविधं प्रोक्तं वज्रं स्वर्णं तथा जतु ।
चित्त-त्रये ऽत्र भावस्य ज्ञेया वैश्वानरोपमा ॥ र्भ्र्स्_२,४।२६३ ॥
अत्यन्त-कठिनं वज्रम् अकुतश्चन मार्दवम् ।
ईदृशं तापसादीनां चित्तं तावद् अवेक्ष्यते ॥ र्भ्र्स्_२,४।२६४ ॥
स्वर्णं द्रवति भावाग्नेस् तापेनातिगरीयसा ।
जतु द्रवत्वम् आयाति ताप-लेशेन सर्वतः ॥ र्भ्र्स्_२,४।२६५ ॥
कोमलं च त्रिधैवोक्तं मदनं नवनीतकम् ।
अमृतं चेति भावो ऽत्र प्रायः सूर्यातपायते ॥ र्भ्र्स्_२,४।२६६ ॥
द्रवेद् अत्राद्य-युगलम् आतपेन यथायथम् ।
द्रवीभूतं स्वभावेन सर्वदैवामृतं भवेत् ।
गोविन्द-प्रेष्ठ-वर्याणां चित्तं स्याद् अमृतं किल ॥ र्भ्र्स्_२,४।२६७ ॥
कृष्ण-भक्ति-विशेषस्य गरिष्ठत्वादिभिर् गुणैः ।
समवेतं सदामीभिर् द्वित्रैर् अपि मनो भवेत् ॥ र्भ्र्स्_२,४।२६८ ॥
किन्तु सुष्ठु महिष्ठत्वं भावो बाढम् उपागतः ।
सर्व-प्रकारम् एवेदं चित्तं विक्षोभयत्य् अलम् ॥ र्भ्र्स्_२,४।२६९ ॥

यथा दान-केलि-कौमुद्याम् (४)–
गभीरो ऽप्य् अश्रान्तं दुरधिगम-पारो ऽपि नितराम्
अहार्यां मर्यादां दधद् अपि हरेर् आस्पदम् अपि ।
सतां स्तोमः प्रेमण्य् उदयति समग्रे स्थगयितुं
विकारं न स्फारं जल-निधिर् इवेन्दौ प्रभवति ॥ र्भ्र्स्_२,४।२७० ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे व्यभिचारि-लहरी चतुर्थी ॥


(२।५)
स्थायि-भावाख्या पञ्चम-लहरी

अविरुद्धान् विरुद्धांश् च भावान् यो वशतां नयन् ।
सु-राजेव विराजेत स स्थायी भाव उच्यते ॥ र्भ्र्स्_२,५।१ ॥
स्थायी भावो ऽत्र स प्रोक्तः श्री-कृष्ण-विषया रतिः ।
मुख्या गौणी च सा द्वेधा रस-ज्ञैः परिकीर्तिता ॥ र्भ्र्स्_२,५।२ ॥

तत्र मुख्या–
शुद्ध-सत्त्व-विशेषात्मा रतिर् मुख्येति कीर्तिता ।
मुख्यापि द्वि-विधा स्वार्था परार्था चेति कीर्त्यते ॥ र्भ्र्स्_२,५।३ ॥

तत्र स्वार्था–
अविरुद्धैः स्फुटं भावैः पुष्णात्य् आत्मानम् एव या ।
विरुद्धैर् दुःख-ग्लानिः सा स्वार्था कथिता रतिः ॥ र्भ्र्स्_२,५।४ ॥

अथ परार्था—
अविरुद्धं विरुद्धं च सङ्कुचन्ती स्वयं रतिः ।
या भावम् अनुगृह्णाति सा परार्था निगद्यते ॥ र्भ्र्स्_२,५।५ ॥
शुद्धा प्रीतिस् तथा सख्यं वात्सल्यं प्रियतेत्य् असौ ।
स्वपरार्थ्यैव सा मुख्या पुनः पञ्च-विधा भवेत् ॥ र्भ्र्स्_२,५।६ ॥
वैशिष्ट्यं पात्र-वैशिष्ट्याद् रतिर् एषोपगच्छति ।
यथार्कः प्रतिबिम्बात्मा स्फटिकादिषु वस्तुषु ॥ र्भ्र्स्_२,५।७ ॥

तत्र शुद्धा–
सामान्यासौ तथा स्वच्छा शान्तिश् चेत्य् आदिमा त्रिधा ।
एषाङ्ग-कम्पता-नेत्रामीलनोन्मीलनादि-कृत् ॥ र्भ्र्स्_२,५।८ ॥

तत्र सामान्या–
कञ्चिद् विशेषम् अप्राप्ता साधारण-जनस्य या ।
बालिकदैश् च कृष्णे स्यात् सामान्या सा रतिर् मता ॥ र्भ्र्स्_२,५।९ ॥

यथा–
अस्मिन् मथुरा-वीथ्याम् उदयति मधुरे विरोचने पुरतः ।
कथस्व सखे म्रदिमानं मानस-मदनं किम् एति मम ॥ र्भ्र्स्_२,५।१० ॥

यथा वा–
त्रि-वर्षा बालिका सेयं वर्षीयसि समीक्ष्यताम् ।
या पुरः कृष्णम् आलोक्य हुङ्कुर्वत्य् अभिधावति ॥ र्भ्र्स्_२,५।११ ॥

अथ स्वच्छा–
तत्-तत्-साधनतो नाना-विध-भक्ति-प्रसङ्गतः ।
साधाकानां तु वैविध्यं यान्ती स्वच्छा रतिर् मता ॥ र्भ्र्स्_२,५।१२ ॥
यदा यादृशी भक्ते स्याद् आसक्तिस् तादृशं तदा ।
रूपं स्फटिकवद् धत्ते स्वच्छासौ तेन कीर्तिता ॥ र्भ्र्स्_२,५।१३ ॥

यथा–
क्वचित् प्रभुर् इति स्तुवन् क्वचन मित्रम् इत्य् उद्धसन्
क्वचित् तनय इत्य् अवन् क्वचन कान्त इत्य् उल्लसन् ।
क्वचिन् मनसि भावयन् परम एष आत्मेत्य् असाव्
अभूद् विविध-सेवया विविध-वृत्तिर् आर्यो द्विजः ॥ र्भ्र्स्_२,५।१४ ॥

अनाचान्त-धियां तत्-तद्-भाव-निष्ठा सुखार्णवे ।
आर्याणाम् अतिशुद्धानां प्रायः स्वच्छा रतिर् भवेत् ॥ र्भ्र्स्_२,५।१५ ॥

अथ शान्तिः–
मानसे निर्विकल्पत्वं शम इत्य् अभिधीयते ॥ र्भ्र्स्_२,५।१६ ॥

तथ चोक्तम्–
विहाय विषयोन्मुख्यं निजानन्द-स्थितिर् यतः ।
आत्मनः कथ्यते सो ऽत्र स्वभावः शम इत्य् असौ ॥ र्भ्र्स्_२,५।१७ ॥

प्रायः शम-प्रधानानां ममता-गन्ध-वर्जिता ।
परमात्मतया कृष्णे जाता शान्त-रतिर् मता ॥ र्भ्र्स्_२,५।१८ ॥

यथा–
देवर्षि-वीणया पीते हरि-लीला-महोत्सवे ।
सनकस्य तनौ कम्पो ब्रह्मानुभविनो ऽप्य् अभूत् ॥ र्भ्र्स्_२,५।१९ ॥

यथा वा–
हरि-वल्लभ-सेवया समन्ताद्
अपर-वर्गानुभवं किलावधीर्य ।
घन-सुन्दरम् आत्मनो ऽप्य् अभीष्टं
परमं ब्रह्म दिदृक्षते मनो मे ॥ र्भ्र्स्_२,५।२० ॥

अग्रतो वक्ष्यमाणैस् तु स्वादैः प्रीत्य्-आदि-संश्रयैः ।
रतेर् अस्या असम्पर्काद् इयं शुद्धेति भण्यते ॥ र्भ्र्स्_२,५।२१ ॥
अथ भेद-त्रयी हृद्या रतेः प्रीत्य्-आदिर् ईर्यते ।
गाढानुकूलतोत्पन्ना ममत्वेन सदाश्रिता ॥ र्भ्र्स्_२,५।२२ ॥
कृष्ण-भक्तेष्व् अनुग्राह्य-सखि-पूज्येष्व् अनुक्रमात् ।
त्रि-विधेषु त्रयी प्रीतिः सख्यं वत्सलतेत्य् असौ ॥ र्भ्र्स्_२,५।२३ ॥
अत्र नेत्रादि-फुल्लत्व-जृम्भणोद्घूर्णनादयः ।
केवला सङ्कुला चेति द्वि-विधेयं रति-त्रयी ॥ र्भ्र्स्_२,५।२४ ॥

तत्र केवला–
रत्य्-अन्तरस्य गन्धेन वर्जिता केवला भवेत् ।
व्रजानुगे रसालादौ श्रीदामादौ वयस्यके ।
गुरौ च व्रजनाथादौ क्रमेणैव स्फुरत्य् असौ ॥ र्भ्र्स्_२,५।२५ ॥

तत्र सङ्कुला–
एषां द्वयोस् त्रयाणां वा सन्निपातस् तु सङ्कुला ।
उद्भवादौ च भीमादौ मथुरादौ क्रमेण सा ।
यस्याधिक्यं भवेद् यत्र स तेन व्यपदिश्यते ॥ र्भ्र्स्_२,५।२६ ॥

अथ प्रीतिः–
स्वस्माद् भवन्ति ये न्यूनास् ते ऽनुग्राह्या हरेर् मताः ।
आराध्यत्वात्मिका तेषां रतिः प्रीतिर् इतीरिता ॥ र्भ्र्स्_२,५।२७ ॥
तत्रासक्ति-कृद् अन्यत्र प्रीति-संहारिणी ह्य् असौ ॥ र्भ्र्स्_२,५।२८ ॥

यथा मुकुन्द-मालायाम् (८)û
दिवि वा भुवि वा ममास्तु वासो
नरके वा नरकान्तक प्रकामम् ।
अवधीरित-शारदारविन्दौ
चरणौ ते मरणे ऽपि चिन्तयामि ॥ र्भ्र्स्_२,५।२९ ॥

अथ सख्यम्–
ये स्युस् तुल्या मुकुन्दस्य ते सखायः सतां मताः ।
साम्याद् विश्रम्भ-रूपैषां रतिः सख्यम् इहोच्यते ।
परिहास-प्रहासादि-कारिणीयम् अयन्त्रणा ॥ र्भ्र्स्_२,५।३० ॥

यथा–
मां पुष्पितारण्य-दिदृक्षयागतं
निमेष-विश्लेष-विदीर्ण-मानसाः ।
ते संस्पृशन्तः पुलकाञ्चित-श्रियो
दूराद् अहम्पूर्विकयाद्य रेमिरे ॥ र्भ्र्स्_२,५।३१ ॥

यथा वा–
श्रीदाम-दोर्-विलसितेन कृतो ऽसि कामं
दामोदर त्वम् इह दर्प-धुरा दरिद्रः ।
सद्यस् त्वया तद् अपि कथनम् एव कृत्वा
देव्यै ह्रिये त्रयम् अदायि ज्वलाञ्जलीनाम् ॥ र्भ्र्स्_२,५।३२ ॥

अथ वात्सल्यम्–
गुरवो ये हरेर् अस्य ते पूज्या इति विश्रुताः ।
अनुग्रह-मयी तेषां रतिर् वात्सल्यम् उच्यते ।
इदं लालन-भव्याशीश् चिबुक-स्पर्शनादि-कृत् ॥ र्भ्र्स्_२,५।३३ ॥

यथा–
अग्रासि यन्-निरभिसन्धि-विरोध-भाजः
कंसस्य किङ्कर-गणैर् गिरितो ऽप्य् उदग्रैः ।
गास् तत्र रक्षितुम् असौ गहने मृदुर् मे
बालः प्रयात्य् अविरतं बत किं करोमि ॥ र्भ्र्स्_२,५।३४ ॥

यथा वा–
सुतम् अङ्गुलिभिः स्नुत-स्तनी
चिबुकाग्रे दधती दयार्द्र-धीः ।
समलालयद् आलयात् पुरः
स्थिति-भाजं व्रज-राज-गेहिनी ॥ र्भ्र्स्_२,५।३५ ॥

मिथो हरेर् मृगाक्ष्याश् च सम्भोगस्यादि-कारणम् ।
मधुरापर-पर्याया प्रियताख्योदिता रतिः ।
अस्यां कटाक्ष-भ्रू-क्षेप-प्रिय-वाणी-स्मितादयः ॥ र्भ्र्स्_२,५।३६ ॥

यथा गोविन्द-विलासे–
चिरम् उत्कुण्ठित-मनसो राधा-मुर-वैरिणोः को ऽपि ।
निभृत-निरीक्षण-जन्मा प्रत्याशा-पल्लवो जयति ॥ र्भ्र्स्_२,५।३७ ॥

यथोत्तरम् असौ स्वाद-विशेषोल्लास-मय्य् अपि ।
रतिर् वासनया स्वाद्वी भासते कापि कस्यचित् ॥ र्भ्र्स्_२,५।३८ ॥

अथ गौणी–
विभावोत्कर्षजो भाव-विशेषो यो ऽनुगृह्यते ।
सङ्कुचन्त्या स्वयं रत्या स गौणी रतिर् उच्यते ॥ र्भ्र्स्_२,५।३९ ॥
हासो विस्मय उत्साहः शोकः क्रोधो भयं तथा ।
जुगुप्सा चेत्य् असौ भाव-विशेषः सप्तधोदितः ॥ र्भ्र्स्_२,५।४० ॥
अपि कृष्ण-विभावत्वम् आद्य-षट्कस्य सम्भवेत् ।
स्याद् देहादि-विभावत्वं सप्तम्यास् तु रतेर् वशात् ॥ र्भ्र्स्_२,५।४१ ॥
हासादाव् अत्र भिन्ने ऽपि शुद्ध-सत्त्व-विशेषतः ।
परार्थाया रतेर् योगाद् रति-शब्दः प्रयुज्यते ॥ र्भ्र्स्_२,५।४२ ॥
हासोत्तरा रतिर् या स्यात् सा हास-रतिर् उच्यते ।
एवं विस्मय-रत्य्-आद्या विज्ञेया रतयश् च षट् ॥ र्भ्र्स्_२,५।४३ ॥
कञ्चित् कालं क्वचिद् भक्ते हासाद्याः स्थायिताम् अमी ।
रत्या चारु-कृता यान्ति तल्-लीलाद्य्-अनुसारतः ॥ र्भ्र्स्_२,५।४४ ॥
तस्माद् अनियताधाराः सप्त सामयिका इमे ।
सहजा अपि लीयन्ते बलिष्ठेन तिरस्कृताः ॥ र्भ्र्स्_२,५।४५ ॥
काप्य् अव्यभिचरन्ती सा स्वाधारान् स्व-स्वरूपतः ।
रतिर् आत्यन्तिक-स्थायी भावो भक्त-जने ऽ खिले ।
स्युर् एतस्या विना-भावाद् भावाः सर्वे निरर्थकाः ॥ र्भ्र्स्_२,५।४६ ॥
विपक्षादिषु यान्तो ऽपि क्रोधाद्याः स्थायितां सदा ।
लभन्ते रति-शून्यत्वान् न भक्ति-रस-योग्यताम् ॥ र्भ्र्स्_२,५।४७ ॥
अविरुद्धैर् अपि स्पृष्टा भावैः सञ्चारिणो ऽखिलाः ।
निर्वेदाद्या विलीयन्ते नार्हन्ति स्थायितां ततः ॥ र्भ्र्स्_२,५।४८ ॥
इत्य् अतो मति-गर्वादि-भावानां घटते न हि ।
स्थायिता कैश्चिद् इष्टापि प्रमाणं तत्र तद्-विदः ॥ र्भ्र्स्_२,५।४९ ॥
सप्त हासादयस् त्व् एते तैस् तैर् नीताः सुपुष्टताम् ।
भक्तेषु स्थायितां यान्तो रुचिर् एभ्यो वितन्वते ॥ र्भ्र्स्_२,५।५० ॥

तथा चोक्तम्–
अष्टानाम् एव भावानां संस्काराधायिता मता ।
तत्-तिरस्कृत-संस्काराः परे न स्थायितोचिताः ॥ र्भ्र्स्_२,५।५१ ॥

तत्र हास-रतिः–
चेतो-विकासो हासः स्याद् वाग्-वेषेहादि-वैकृतात् ।
स दृग्-विकासन-सौष्ठ-कपोल-स्पन्दनादिकृत् ॥ र्भ्र्स्_२,५।५२ ॥
कृष्ण-सम्बन्धि-चेष्टोत्थः स्वयं सङ्कुचद्-आत्मना ।
प्रत्यानुगृह्यमाणो ऽयं हासो हास-रतिर् भवेत् ॥ र्भ्र्स्_२,५।५३ ॥

यथा–
मया दृग् अपि नार्पिता सुमुखि दध्नि तुभ्यं शपे
सखी तव निरर्गला तद् अपि मे मुखं जिघ्रति ।
प्रशाधि तद् इमां मुधा च्छलित-साधुम् इत्य् अच्युते
वदत्य् अजनि दूतिका हसित-रोधने न क्षमा ॥ र्भ्र्स्_२,५।५४ ॥

अथ विस्मय-रतिः–
लोकोत्तरार्थ-वीक्षादेर् विस्मयश् चित्त-विस्तृतिः ।
अत्र स्युर् नेत्र-विस्तार-साधूक्ति-पुलकादयः ।
पूर्वोक्त-रीत्या निष्पन्नः स विस्मय-रतिर् भवेत् ॥ र्भ्र्स्_२,५।५५ ॥

यथा–
गवां गोपालानाम् अपि शिशु-गणः पीत-वसनो
लसच्-छ्रीवत्साङ्कः पृथु-भुज-चतुष्कैर् धृत-रुचिः ।
कृत-स्तोत्रारम्भः स विधिभिर् अजाण्डालिभिर् अलं
पर-ब्रह्मोल्लासान् वहति किम् इदं हन्त किम् इदम् ॥ र्भ्र्स्_२,५।५६ ॥

अथ उत्साह-रतिः–
स्थेयसी साधुभिः श्लाघ्य-फले युद्धादि-कर्मणि ।
सत्वरा मानसासक्तिर् उत्साह इति कीर्त्यते ॥ र्भ्र्स्_२,५।५७ ॥
कालानवेक्षणं तत्र धैर्य-त्यागोद्यमादयः ।
सिद्धः पूर्वोक्त-विधिना स उत्साह रतिर् भवेत् ॥ र्भ्र्स्_२,५।५८ ॥

यथा–
कालिन्दी-तट-भुवि पत्र-शृङ्ग-वंशी
निक्वाणैर् इह मुखरी-कृताम्बरायाम् ।
विस्फूर्जन्न् अघ-दमनेन योद्धु-कामः
श्रीदामा परिकरम् उद्भटं बबन्ध ॥ र्भ्र्स्_२,५।५९ ॥
अथ शोक-रतिः–
शोकस् त्व् इष्ट-वियोगाद्यैश् चित्त-क्लेश-भरः स्मृतः ।
विलाप-पात-निःश्वास-मुख-शोष-भ्रमादि-कृत् ।
पूर्वोक्त-विधिनैवायं सिद्धः शोक-रतिर् भवेत् ॥ र्भ्र्स्_२,५।६० ॥

यथा श्री-दशमे (१०।७।२५)–
रुदितम् अनु निशम्य तत्र गोप्यो
भृशम् अनुतप्त-धियो ऽश्रु-पूर्ण-मुख्यः ।
रुरुदुर् अनुपलभ्य नन्द-सूनुं
पवन उपारत-पांशु-वर्ष-वेगे ॥ र्भ्र्स्_२,५।६१ ॥

यथा वा–
अवलोक्य फणीन्द्र-यन्त्रितं
तनयं प्राण-सहस्र-वल्लभम् ।
हृदयं न विदीर्यति द्विधा
धिग् इमां मर्त्य-तनोः कठोरताम् ॥ र्भ्र्स्_२,५।६२ ॥

अथ क्रोध-रतिः–
प्रातिकूल्यादिभिश् चित्त-ज्वलनं क्रोध ईर्यते ।
पारुष्य-भ्रू-कुटी-नेत्र-लौहित्यादि-विकार-कृत् ॥ र्भ्र्स्_२,५।६३ ॥
एवं पूर्वोक्तवत्-सिद्धं विदुः क्रोध-रतिं बुधाः ।
द्विधासौ कृष्ण-तद्-वैरि-भावत्वेन कीर्तिता ॥ र्भ्र्स्_२,५।६४ ॥

अथ कृष्ण-विभावाः, यथा–
कण्ठ-सीमनि हरेर् द्युति-भाजं
राधिका-मणि-सरं परिचित्य ।
तं चिरेण जटिला विकट-भ्रू-
भङ्ग-भीमतर-दृष्टिर् ददर्श ॥ र्भ्र्स्_२,५।६५ ॥

तद्-वैरि-विभावाः, यथा–
अथ कंस-सहोदरोग्र-दावे
हरिम् अभ्युद्यति तीव्र-हेति-भाजि ।
रभसाद् अलिकाम्बरे प्रलम्ब-
द्विषतो ऽभूद् भ्रू-कुटी-पयोद-रेखा ॥ र्भ्र्स्_२,५।६६ ॥

अथ भय-रतिः–
भयं चित्तातिचाञ्चल्यं मन्तु-घोरेक्षणादिभिः ।
आत्म-गोपन-हृच्छोष-विद्रव-भ्रमणादिकृत् ॥ र्भ्र्स्_२,५।६७ ॥
निष्पन्नं पूर्ववद् इदं बुधा भय-रतिं विदुः ।
एषापि क्रोध-रतिवद् द्वि-विधा कथिता बुधैः ॥ र्भ्र्स्_२,५।६८ ॥

तत्र कृष्ण-विभावाः–
याचितः पटिमभिः स्यमन्तकं
शौरिणा सदसि गान्दिनी-सुतः ।
वस्त्र-गूढ-मणिर् एष मूढ-धीस्
तत्र शुष्यद्-अधरः क्लमं ययौ ॥ र्भ्र्स्_२,५।६९ ॥

दुष्ट-विभाव-जाः, यथा–
भैरवं ब्रुवति हन्त हन्त गोकुल-
द्वारि वारिद-निभे वृषासुरे ।
पुत्र-गुप्ति-धृत-यत्न-वैभवा
कम्प्र-मूर्तिर् अभवद् व्रजेश्वरी ॥ र्भ्र्स्_२,५।७० ॥

अथ जुगुप्सा-रतिः–
जुगुप्सा स्याद् अहृद्यानुभवाच् चित्त-निमीलनम् ।
तत्र निष्ठीवनं वक्त्र-कूणनं कुत्सनादयः ।
रतेर् अनुग्रहाज् जाता सा जुगुप्सा-रतिर् मता ॥ र्भ्र्स्_२,५।७१ ॥

यथा–
यदवधि मम चेतः कृष्ण-पादारविन्दे
नव-नव-रस-धामन्य् उद्यतं रन्तुम् आसीत् ।
तदवधि बत नारी-सङ्गमे स्मर्यमाने
भवति मुख-विकारः सुष्ठु-निष्ठीवनं च ॥ र्भ्र्स्_२,५।७२ ॥

रतित्वात् प्रथमैकैव सप्त हासादयस् तथा ।
इत्य् अष्टौ स्थायिनो यावद् रसावस्थां न संश्रिताः ॥ र्भ्र्स्_२,५।७३ ॥
चेत् स्वतन्त्रास् त्रयस्-त्रिंशद् भवेयुर् व्यभिचारिणः ।
इहाष्टौ सात्त्विकाश् चैते भावाख्यास् तान् असङ्ख्यकाः ॥ र्भ्र्स्_२,५।७४ ॥
कृष्णान्वयाद् गुणातीत-प्रौढानन्द-मया अपि ।
भान्त्य् अमी त्रिगुणोत्पन्न-सुख-दुःख-मया इव ॥ र्भ्र्स्_२,५।७५ ॥
तत्र स्फुरन्ति ह्री-बोधोत्साहाद्याः सात्त्विका इव ।
तथा राजसवद्-गर्व-हर्ष-सुप्ति-हसादयः ।
विषाद-दीनता-मोह-शोकाद्यास् तामसा इव ॥ र्भ्र्स्_२,५।७६ ॥
प्रायः सुख-मयाः शीता उष्णा दुःख-मया इह ।
चित्रेयं परमानन्द-सान्द्राप्य् उष्णा रतिर् मता ॥ र्भ्र्स्_२,५।७७ ॥
शीतैर् भावैर् बलिष्ठैस् तु पुष्टा शीतायते ह्य् असौ ।
उष्णैस् तु रतिर् अत्युष्णा तापयन्तीव भासते ॥ र्भ्र्स्_२,५।७८ ॥
रतिर् द्विधापि कृष्णाद्यैः श्रुतैर् अवगतैः स्मृतैः ।
तैर् विभावादितां यद्भिस् तद्-भक्तेषु रसो भवेत् ॥ र्भ्र्स्_२,५।७९ ॥
यथा दध्य्-आदिकं द्रव्यं शर्करा-मरिचादिभिः ।
संयोजन-विशेषेण रसालाख्यो रसो भवेत् ॥ र्भ्र्स्_२,५।८० ॥
तद् अत्र सर्वथा साक्षात् कृष्णाद्य्-अनुभवाद्भुतः ।
प्रौढानन्द-चमत्कारो भक्तैः को ऽप्य् अनुरस्यते ॥ र्भ्र्स्_२,५।८१ ॥
स रत्य्-आदि-विभावाद्यैर् एकीभाव-मयो ऽपि सन् ।
ज्ञप्त-तत्-तद्-विशेषश् च तत्-तद्-उद्भेदतो भवेत् ॥ र्भ्र्स्_२,५।८२ ॥

यथा चोक्तम्–
प्रतीयमानाः प्रथमं विभावाद्यास् तु भागशः ।
गच्छन्तो रस-रूपत्वं मिलिता यान्त्य् अखण्डताम् ॥ र्भ्र्स्_२,५।८३ ॥
यथा मरिच-खण्डादेर् एकीभावे प्रपानके ।
उद्भासः कस्यचित् क्वापि विभावादेस् तथा रसे ॥ र्भ्र्स्_२,५।८४ ॥

रते कारण-भूता ये कृष्ण-कृष्ण-प्रियादयः ।
स्तम्भाद्याः कार-भूताश् च निर्वेदाद्याः सहायकाः ॥ र्भ्र्स्_२,५।८५ ॥
हित्वा कारण-कार्यादि-शब्द-वाच्यत्वम् अत्र ते ।
रसोद्बोधे विभावादि-व्यपदेशत्वम् आप्नुयुः ॥ र्भ्र्स्_२,५।८६ ॥
रतेस् तु तत्-तद्-आस्वाद-विशेषायातियोग्यताम् ।
विभावयन्ति कुर्वन्तीत्य् उक्ता धीरैर् विभावकाः ॥ र्भ्र्स्_२,५।८७ ॥
तां चानुभावयन्त्य् अन्तस् तद्वन्त्य् आस्वाद-निर्भराम् ।
इत्य् उक्ता अनुभावास् ते कटाक्षाद्याः स-सात्त्विकाः ॥ र्भ्र्स्_२,५।८८ ॥
सञ्चारयन्ति वैचित्रीं नयन्ते तां तथा-विधाम् ।
ये निर्वेदादयो भावास् ते तु सञ्चारिणो मताः ॥ र्भ्र्स्_२,५।८९ ॥
एतेषां तु तथा-भावे भगवत्-काव्य-नाट्ययोः ।
सेवाम् आहुः परं हेतुं केचित् तत्-पक्ष-रागिणः ॥ र्भ्र्स्_२,५।९० ॥
किन्तु तत्र सुदुस्तर्क-माधुर्याद्भुत-सम्पदः ।
रतेर् अस्याः प्रभावो ऽयं भवेत् कारणम् उत्तमम् ॥ र्भ्र्स्_२,५।९१ ॥
महा-शक्ति-विलासात्मा भावो ऽचिन्त्य-स्वरूप-भाक् ।
रत्य्-आख्या इत्य् अयं युक्तो न हि तर्केण बाधितुम् ।
भारताद्य्-उक्तिर् एषा हि प्राक्तनैर् अप्य् उदाहृता ॥ र्भ्र्स्_२,५।९२ ॥

यथोक्तम् उद्यम-पर्वणि [म।भा। ६।६।११]–
अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत्
प्रकृतिभ्यः परं यच् च तद् अचिन्त्यस्य लक्षणम् ॥ र्भ्र्स्_२,५।९३ ॥

विभावतादीन् आनीय कृष्णादीन् मञ्जुला रतिः ।
एतैर् एव तथाभूतैः स्वं संवर्धयति स्फुटम् ॥ र्भ्र्स्_२,५।९४ ॥
यथा स्वैर् एव सलिलैः परिपूर्य बलाहकान् ।
रत्नालयो भवत्य् एभिर् वृष्टैस् तैर् एव वारिधिः ॥ र्भ्र्स्_२,५।९५ ॥
नवे रत्य्-अङ्कुरे जाते हरि-भक्तस्य कस्यचित् ।
विभावत्वादि-हेतुत्वं किञ्चित् तत् काव्य-नाट्ययोः ॥ र्भ्र्स्_२,५।९६ ॥
हरेर् ईषच्-छ्रुति-विधौ रसास्वादः सतां भवेत् ।
रतेर् एव प्रभावो ऽयं हेतुस् तेषां तथाकृतौ ॥ र्भ्र्स्_२,५।९७ ॥
माधुर्याद्य्-आश्रयत्वेन कृष्णादींस् तनुते रतिः ।
तथानुभूयमानास् ते विस्तीर्णां कुर्वते रतिम् ॥ र्भ्र्स्_२,५।९८ ॥
अतस् तस्य विभावादि-चतुष्कस्य रतेर् अपि ।
अत्र साहायिकं व्यक्तं मिथो ऽजस्रम् अवेक्ष्यते ॥ र्भ्र्स्_२,५।९९ ॥
किन्त्व् एतस्याः प्रभावो ऽपि वैरूप्ये सति कुञ्चति ।
वैरूप्यस् तु विभावादेर् अनौचित्यम् उदीर्यते ॥ र्भ्र्स्_२,५।१०० ॥
अलौकिक्या प्रकृत्येयं सुदुरूहा रस-स्थितिः ।
यत्र साधारणतया भावाः साधु स्फुरन्त्य् अमी ॥ र्भ्र्स्_२,५।१०१ ॥
एषां स्व-पर-सम्बन्ध-नियमानिर्णयो हि यः ।
साधारण्यं तद् एवोक्तं भावानां पूर्व-सूरिभिः ॥ र्भ्र्स्_२,५।१०२ ॥

तद् उक्तं श्री-भरतेन–
शक्तिर् अस्ति विभावादेः कापि साधारणी-कृतौ ।
प्रमाता तद्-अभेदेन स्वं यया प्रतिपद्यते ॥ र्भ्र्स्_२,५।१०३ ॥ इति ।

दुःखादयः स्फुरन्तो ऽपि जातु भान्तः स्वीयतया हृदि ।
प्रौढानन्द-चमत्कार-चर्वणाम् एव तन्वते ॥ र्भ्र्स्_२,५।१०४ ॥
पराश्रयतयाप्य् एते जातु भान्तः सुखादयः ।
हृदये परमानन्द-सन्दोहम् उपचिन्वते ॥ र्भ्र्स्_२,५।१०५ ॥
सद्-भावश् चेद् विभावादेः किञ्चिन्-मात्रस्य जायते ।
सद्यश् चतुष्टयाक्षेपात् पूर्णतैवोपपद्यते ॥ र्भ्र्स्_२,५।१०६ ॥

किं च–
रतिः स्थितानुकार्येषु लौकिकत्वादि-हेतुभिः ।
रसः स्यान् नेति नाट्य-ज्ञा यद् आहुर् युक्तम् एव तत् ॥ र्भ्र्स्_२,५।१०७ ॥
अलौकिकी त्व् इयं कृष्ण-रतिः सर्वाद्भुताद्भुता ।
योगे रस-विशेषत्वं गच्छन्त्य् एव हरि-प्रिये ॥ र्भ्र्स्_२,५।१०८ ॥
वियोगे त्व् अद्भुतानन्द-विवर्तत्वं दधत्य् अपि ।
तनोत्य् एषा प्रगाढार्ति-भराभासत्वम् ऊर्जिता ॥ र्भ्र्स्_२,५।१०९ ॥
तत्रापि वल्लवाधीश-नन्दनालम्बना रतिः ।
सान्द्रानन्द-चमत्कार-परमावधिर् इष्यते ॥ र्भ्र्स्_२,५।११० ॥
यत्-सुखौघ-लवागस्त्यः पिबत्य् एव स्व-तेजसा ।
रेमश-माधुरी-साक्षात्कारानन्दाब्धिम् अप्य् अलम् ॥ र्भ्र्स्_२,५।१११ ॥

किं च–
परमानन्द-तादात्म्याद् रत्यादेर् अस्य वस्तुतः ।
रसस्य स्व-प्रकाशत्वम् अखण्डत्वं च सिध्यति ॥ र्भ्र्स्_२,५।११२ ॥
पूर्वम् उक्ताद् द्विधा भ्देदान् मुख्य-गौणतया रतेः ।
भवेद् भक्ति-रसो ऽप्य् एष मुख्य-गौणतया द्विधा ॥ र्भ्र्स्_२,५।११३ ॥
पञ्चधापि रतेर् ऐक्यान् मुख्यस् त्व् एक इहोदितः ।
सप्तधात्र तथा गौण इति भक्ति-रसो ऽष्टधा ॥ र्भ्र्स्_२,५।११४ ॥

तत्र मुख्यः–
मुख्यस् तु पञ्चधा शान्तः प्रीतः प्रेयांश् च वत्सलः ।
मधुरश् चेत्य् अमी ज्ञेया यथा-पूर्वम् अनुत्तमाः ॥ र्भ्र्स्_२,५।११५ ॥

अथ गौणः–
हास्यो ऽद्भुतस् तथा वीरः करुणो रौद्र इत्य् अपि ।
भयानकः स बीभत्स इति गौणश् च सप्तधा ॥ र्भ्र्स्_२,५।११६ ॥
एवं भक्ति-रसो भेदाद् द्वयोर् द्वादशधोच्यते ।
वस्तुतस् तु पुराणादौ पञ्चधैव विलोक्यते ॥ र्भ्र्स्_२,५।११७ ॥
श्वेतश् चित्रो ऽरुणः शोणः श्यामः पाण्डुर-पिङ्गलौ ।
गौरो धूम्रस् तथा रक्तः कालो नीतः क्रमाद् अमी ॥ र्भ्र्स्_२,५।११८ ॥
कपिलो माधवोपेन्द्रौ नृसिंहो नन्द-नन्दनः ।
बलः कूर्मस् तथा कल्की राघवो भार्गवः किरिः ।
मीन इत्य् एषु कथिताः क्रमाद् द्वादश देवताः ॥ र्भ्र्स्_२,५।११९ ॥
पूर्तेर् विकार-विस्तार-विक्षेप-क्षोभतस् तथा ।
सर्व-भक्ति-रसास्वादः पञ्चधा परिकीर्तितः ॥ र्भ्र्स्_२,५।१२० ॥
पूर्तिः शान्ते विकाशस् तु प्रीतादिष्व् अपि पञ्चसु ।
वीरे ऽद्भुते च विस्तारो विक्षेपः करुणोग्रयोः ।
भयानके ऽथ बीभत्से क्षोभो धीरैर् उदाहृतः ॥ र्भ्र्स्_२,५।१२१ ॥
अखण्ड-सुख-रूपत्वे ऽप्य् एषाम् अस्ति क्वचित् क्वचित् ।
रसेषु गहनास्वाद-विशेषः को ऽप्य् अनुत्तमः ॥ र्भ्र्स्_२,५।१२२ ॥
प्रतीयमाना अप्य् अज्ञैर् ग्राम्यैः सपदि दुःखवत् ।
करुणाद्या रसाः प्राज्ञैः प्रौढानन्द-मया मताः ॥ र्भ्र्स्_२,५।१२३ ॥
अलौकिक-विभावत्वं नीतेभ्यो रति-लीलया ।
सद्-उक्त्या च सुखं तेभ्यः स्यात् सुव्यक्तम् इति स्थितिः ॥ र्भ्र्स्_२,५।१२४ ॥

तथा च नाट्यादौ–
करुणादाव् अपि रसे जायते यत् परं सुखम् ।
सुचेतसाम् अनुभवः प्रमाणं तत्र केवलम् ॥ र्भ्र्स्_२,५।१२५ ॥

सर्वत्र करुणाख्यस्य रसस्यैवोपपादनात् ।
भवेद् रामायणादीनाम् अन्यथा दुःख-हेतुता ॥ र्भ्र्स्_२,५।१२६ ॥
तथात्वे राम-पादाब्ज-प्रेम-कल्लोल-वारिधिः ।
प्रीत्या रामायणं नित्यं हनुमान् शृणुयात् कथम् ॥ र्भ्र्स्_२,५।१२७ ॥

अपि च–
सञ्चारी स्यात् समानो वा कृष्ण-रत्याः सुहृद्-रतिः ।
अधिका पुष्यमाणा चेद् भावोल्लासा रतिः ॥ र्भ्र्स्_२,५।१२८ ॥
फल्गु-वैराग्य-निर्दग्धाः शुष्क-ज्ञानाश् च हैतुकाः ।
मीमांसका विशेषेण भक्त्यास्वाद-बहिर्मुखाः ॥ र्भ्र्स्_२,५।१२९ ॥
इत्य् एष भक्ति-रसिकश् चौराद् इव महा-निधिः ।
जरन्-मीमांसकाद् रक्ष्यः कृष्ण-भक्ति-रसः सदा ॥ र्भ्र्स्_२,५।१३० ॥
सर्वथैव दुरूहो ऽयम् अभक्तैर् भगवद्-रसः ।
तत्-पादाम्बुज-सर्वस्वैर् भक्तैर् एवानुरस्यते ॥ र्भ्र्स्_२,५।१३१ ॥
व्यतीत्य भावना-वर्त्म यश् चमत्कार-कार-भूः ।
हृदि सत्त्वोज्ज्वले बाढं स्वदते स रसो मतः ॥ र्भ्र्स्_२,५।१३२ ॥
भावनायाः पदे यस् तु बुधेनानन्य-बुद्धिना ।
भाव्यते गाढ-संस्कारैश् चित्ते भावः स कथ्यते ॥ र्भ्र्स्_२,५।१३३ ॥

गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी ।
तुष्यतु सनातनात्मा दैक्षिण-विभागे सुधाम्बुनिधेः ॥ र्भ्र्स्_२,५।१३४ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे स्थायि-भाव-लहरी पञ्चमी ।

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
सामान्य-भगवद्-भक्ति-रस-निरूपको नाम
दक्षिण-विभागः समाप्तः ॥


(३)
मुख्य-भक्ति-रस-निरूपकः
पश्चिम-विभागः

(३।१)
शान्ति-भक्ति-रसाख्या
प्रथम-लहरी

धृत-मुग्ध-रूप-भारो भागवतार्पित-पृथु-प्रेमा ।
स मयि सनातन-मूर्तिस् तनोतु पुरुषोत्तमस् तुष्टिम् ॥ र्भ्र्स्_३,१।१ ॥
रसामृताब्धेर् भागे ऽत्र तृतीये पश्चिमाभिधे ।
मुख्यो भक्ति-रसः पञ्चविधः शान्तादीर् ईर्यते ॥ र्भ्र्स्_३,१।२ ॥
अतो ऽत्र पाञ्चविध्येन लहर्यः पञ्च कीर्तिताः ।
अथामी पञ्च लक्ष्यन्ते रसाः शान्तादयः क्रमात् ॥ र्भ्र्स्_३,१।३ ॥

तत्र शान्त-भक्ति-रसः–
वक्ष्यमाणैर् विभावाद्यैः शमिनां स्वाद्यतां गतः
स्थायी शान्ति-रतिर् धीरैः शान्त-भक्ति-रसः स्मृतः ॥ र्भ्र्स्_३,१।४ ॥
प्रायः स्व-सुख-जातीयं सुखं स्याद् अत्र योगिनाम् ।
किन्त्व् आत्म-सौख्यम् अघनं घनं त्व् ईशम् अयं सुखम् ॥ र्भ्र्स्_३,१।५ ॥
तत्रापीश-स्वरूपानुभवस्यैवोरु-हेतुता ।
दासादि-वन्-मनो-ज्ञत्व-लीलादेर् न तथा मता ॥ र्भ्र्स्_३,१।६ ॥

तत्र आलम्बनाः–
चतुर्भुजश् च शान्ताश् च अस्मिन्न् आलम्बना मताः ॥ र्भ्र्स्_३,१।७ ॥

तत्र चतुर्भुजः–
श्यामाकृतिः स्फुरति चारु-चतुर्भुजो ऽयम्
आनन्द-राशिर् अखिलात्म-सिन्धु-तरङ्गः ।
यस्मिन् गते नयनयोः पथि निर्जिहीते
प्रत्यक्-पदात् परमहंस-मुनेर् मनो ऽपि ॥ र्भ्र्स्_३,१।८ ॥

सच्चिदानन्द-सान्द्राङ्ग आत्माराम-शिरोमणिः ।
परमात्मा परं ब्रह्म शमो दान्तः शुचिर् वशी ॥ र्भ्र्स्_३,१।९ ॥
सदा स्वरूप-सम्प्राप्तो हतारि-गति-दायकः ।
विभुर् इत्य् आदि गुणवान् अस्मिन्न् आलम्बनो हरिः ॥ र्भ्र्स्_३,१।१० ॥

अथ शान्ताः–
शान्ताः स्युः कृष्ण-तत्-प्रेष्Ṇह-कारुण्येन रतिं गताः ।
आत्मारामास् तदीयाध्व-बद्ध-श्रद्धाश् च तापसाः ॥ र्भ्र्स्_३,१।११ ॥

अथ आत्मारामाः–
आत्मारामास् तु सनक-सनन्द-मुखा मताः ।
प्राधान्यात् सनकादीनां रूपं भक्तिश् च कथ्यते ॥ र्भ्र्स्_३,१।१२ ॥

तत्र रूपम्–
ते पञ्चषाब्द-बालाभाश् चत्वारस् तेजसोज्ज्वलाः ।
गौराङ्गा वात-वसनाः प्रायेण सहचारिणः ॥ र्भ्र्स्_३,१।१३ ॥

तत्र च भक्तिः–
समस्त-गुण-वर्जिते करणतः प्रतीचीनतां
गते किम् अपि वस्तुनि स्वयम् अदीपि तावत् सुखम् ।
न यावद् इयम् अद्भुता नव-तमाल-नील-द्युतेर्
मुकुन्द सुख-चिद्-घना तव बभूव साक्षात्-कृतिः ॥ र्भ्र्स्_३,१।१४ ॥

अथ तापसाः–
भक्तिर् मुक्त्यैव निर्विघ्नेत्य् आत्त-युक्त-विरक्तताः ।
अनुज्झित-मुमुक्षा ये भजन्ते ते तु तापसाः ॥ र्भ्र्स्_३,१।१५ ॥

यथा–
कदा शैल-द्रोण्यां पृथुल-विटपि-क्रोड-वसतिर्
वसानः कौपीनं रचित-फल-कन्दाशन-रुचिः ।
हृदि ध्यायं ध्यायं मुहुर् इह मुकुन्दाभिधम् अहं
चिदानन्दं ज्योतिः क्षणम् इव विनेष्यामि रजनीः ॥ र्भ्र्स्_३,१।१६ ॥

भक्तात्माराम-करुणा प्रपञ्चेनैव तापसाः ।
शान्ताख्य-भाव-चन्द्रस्य हृद्-आकाशे कलां श्रिताः ॥ र्भ्र्स्_३,१।१७ ॥

अथ उद्दीपनाः–
श्रुतिर् महोपनिषदां विविक्त-स्थान-सेवनम् ।
अन्तर्-वृत्ति-विशेषो ऽस्य स्फूर्तिस् तत्त्व-विवेचनम् ॥ र्भ्र्स्_३,१।१८ ॥
विद्याशक्ति-प्रधानत्वं विश्व-रूप-प्रदर्शनम् ।
ज्ञानि-भक्तेन संसर्गो ब्रह्म-सत्रादयस् तथा ।
एष्व् असाधारणाः प्रोक्ता बुधैर् उद्दीपना अमी ॥ र्भ्र्स्_३,१।१९ ॥

अत्र महोपनिषच्-छ्रुतिः, यथा–
अक्लेशाः कमल-भुवः प्रविश्य गोष्ठीं
कुर्वन्तः श्रुति-शिरसां श्रुतिं श्रुत-ज्ञाः ।
उत्तुङ्गं यद्-उपरसङ्गमाय रङ्गं
योगीन्द्राः पुलक-भृतो नवाप्य् अवापुः ॥ र्भ्र्स्_३,१।२० ॥

पादाब्ज-तुलसी-गन्धः शङ्ख-नादो मुर-द्विषः ।
पुण्य-शैलः शुभारण्यं सिद्ध-क्षेत्रं स्वरापगा ॥ र्भ्र्स्_३,१।२१ ॥
विषयादि-क्षयिष्णुत्वं कालस्याखिल-हारिता ।
इत्याद्य् उद्दीपना साधारणास् तेषां किलाश्रितैः ॥ र्भ्र्स्_३,१।२२ ॥

अथ पादाब्ज-तुलसी-गन्धो, यथा तृतीये (३।१५।४३)–
तस्यारविन्द-नयनस्य पदारविन्द-
किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः ।
अन्तर्-गतः स्व-विवरेण चकार तेषां
सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥ र्भ्र्स्_३,१।२३ ॥

अथ अनुभावाः–
नासाग्र-न्यस्त-नेत्रत्वम् अवधूत-विचेष्टितम् ।
युग-मात्रेक्षित-गतिर् ज्ञान-मुद्रा-प्रदर्शनम् ॥ र्भ्र्स्_३,१।२४ ॥
हरेर् द्विष्य् अपि न द्वेषो नातिभक्तिः प्रियेष्व् अपि ।
सिद्धतायास् तथा जीवन्-मुक्तेश् च बहु-मानिता ॥ र्भ्र्स्_३,१।२५ ॥
नैरपेक्ष्यं निर्ममता निरहङ्कारिता कथा ।
मौनम् इत्य् आदयः शीताः स्युर् असाधारणाः क्रियाः ॥ र्भ्र्स्_३,१।२६ ॥

तत्र नासाग्र-नयनत्वम्, यथा–
नासिकाग्र-दृग् अयं पुरो मुनिः
स्पन्द-बन्धुर-शिरा विराजते ।
चित्त-कन्दर-तटीम् अनाकुलाम्
अस्य नूनम् अवगाहते हरिः ॥ र्भ्र्स्_३,१।२७ ॥

जृम्भाङ्ग-मोटनं भक्तेर् उपदेशो हरेर् नतिः ।
स्तवादयश् च दासाद्यैः शीताः साधारणाः क्रियाः ॥ र्भ्र्स्_३,१।२८ ॥

तत्र जृम्भा, यथा–
हृदयाम्बरे ध्रुवं ते
भावाम्बर-मणिर् उदेति योगीन्द्र ।
यद् इदं वदनाम्भोजं
जृम्भाम् अवलम्बते भवतः ॥ र्भ्र्स्_३,१।२९ ॥

अथ सात्त्विकाः–
रोमाञ्च-स्वेद-कम्पाद्याः सात्त्विकाः प्रलयं विना ॥ र्भ्र्स्_३,१।३० ॥

अथ रोमाञ्चो, यथा–
पाञ्चजन्य-जनितो ध्वनिर् अन्तः
क्षोभयन् सपदि बिद्ध-समाधिः ।
योगिनां गिरि-गुहा-निलयानां
पुद्गले पुलक-पालिम् अनैषीत् ॥ र्भ्र्स्_३,१।३१ ॥

एषां निरभिमानानां शरीरादिषु योगिनाम् ।
सात्त्विकास् तु ज्वलन्त्य् एव न तु दीप्ता भवन्त्य् अमी ॥ र्भ्र्स्_३,१।३२ ॥

अथ सञ्चारिणः–
सञ्चारिनो ऽत्र निर्वेदो धृतिर् हर्षो मतिः स्मृतिः ।
विषादोत्सुकतावेग-वितर्काद्याः प्रकीर्तिताः ॥ र्भ्र्स्_३,१।३३ ॥

तत्र निर्वेदो, यथा–
अस्मिन् सुख-घन-मूर्तौ
परमात्मनि वृष्णि-पत्तने स्फुरति
आत्मारामतया मे
वृथा गतो बत चिरं कालः ॥ र्भ्र्स्_३,१।३४ ॥

अथ स्थायी–
अत्र शान्ति-रतिः स्थायी समा सान्द्रा च सा द्विधा ॥ र्भ्र्स्_३,१।३५ ॥

तत्र आद्या, यथा–
समाधौ योगिनस् तस्मिन्न् असम्प्रज्ञात-नामनि ।
लीलया मयि लब्धे ऽस्य बभूवोत्कम्पिनी तनुः ॥ र्भ्र्स्_३,१।३६ ॥

सान्द्रा, यथा–
सर्वाविद्या-ध्वंसतो यः समस्ताद्
आविर्भूतो निर्विकल्पे समाधौ ।
जाते साक्षाद् यादवेन्द्रे स विन्दन्
मय्य् आनन्दः सान्द्रतां कोटिधासीत् ॥ र्भ्र्स्_३,१।३७ ॥

शान्तो द्विधैष पारोक्ष्य-साक्षात्कार-विभेदतः ॥ र्भ्र्स्_३,१।३८ ॥

अथ परोक्ष्यम्, यथा–
प्रयास्यति महत्-तपः सफलतां किम् अष्टाङ्गिका
मुनीश्वर पुरातनी परम-योगचर्याप्य् असौ ।
नराकृति-नवाम्बुद-द्युति-धरं परं ब्रह्म मे
विलोचन-चमत्कृतिं कथय किं नु निर्मास्यति ॥ र्भ्र्स्_३,१।३९ ॥

यथा वा–
क्षेत्रे कुरोः किम् अपि चण्डकरोपरागे
सान्द्रं महः पथि विलोचनयोर् यदासीत् ।
तन् नीरद-द्युति-जयि स्मरद् उत्सुकं मे
न प्रत्यग्-आत्मनि मनो रमते पुरेव ॥ र्भ्र्स्_३,१।४० ॥

साक्षात्कारो, यथा–
परमात्मतयातिमेदुराद्
बत साक्षात्-करण-प्रमोदतः ।
भगवन्न् अधिकं प्रयोजनं
कतरद् ब्रह्म-विदो ऽपि विद्यते ॥ र्भ्र्स्_३,१।४१ ॥

यथा वा–
हृष्टः कम्बु-पति-स्वनैर् भुवि लुठच्-चीराञ्चलः सञ्चलन्
मूर्ध्ना रुद्ध-दृग्-अश्रुभिः पुलकितो द्राग् एष लीन-व्रतः ।
अक्ष्णोर् अङ्गनम् अञ्जन-त्विषि पर-ब्रह्मण्य् अवाप्ते मुदा
मुद्राभिः प्रकटीकरोत्य् अवमतिं योगी स्वरूप-स्थितौ ॥ र्भ्र्स्_३,१।४२ ॥

भवेत् कदाचित् कुत्रापि नन्द-सूनोः कृपा-भरः ।
प्रथमं ज्ञान-निष्ठो ऽपि सो ऽत्रैव रतिम् उद्वहेत् ॥ र्भ्र्स्_३,१।४३ ॥

यथा बिल्वमङ्गलोक्तिः–
अद्वैत-वीथी-पथिकैर् उपास्याः
स्वानन्द-सिंहासन-लब्ध-दीक्षाः ।
शठेन केनापि वयं हठेन
दासी-कृता गोप-वधू-विटेन ॥ र्भ्र्स्_३,१।४४ ॥

तत्-कारुण्य-श्लथीभूत-ज्ञान-संस्कार-सन्ततिः ।
एष भक्ति-रसानन्द-निपुणः स्याद् यथा शुकः ॥ र्भ्र्स्_३,१।४५ ॥
शमस्य निर्विकारत्वान् नाट्यज्ञैर् नैष मन्यते ।
शान्त्य्-आख्याया रतेर् अत्र स्वीकारान् न विरुध्यते ॥ र्भ्र्स्_३,१।४६ ॥
शमो मन्-निष्ठता बुद्धेर् इति श्री-भगवद्-वचः* ।
तन्-निष्ठा दुर्घटा बुद्धेर् एतां शान्त-रतिं विना ॥ र्भ्र्स्_३,१।४७ ॥
{*११।१९।३६}

केवल-शान्तो ऽपि, श्री-विष्णु-धर्मोत्तरे यथा–
नास्ति यत्र सुखं दुःखं न द्वेषो न च मत्सरः ।
समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥ र्भ्र्स्_३,१।४८ ॥

सर्वथैवम् अहङ्कार-रहितत्वं व्रजन्ति चेत् ।
अत्रान्तर्भावम् अर्हन्ति धर्म-वीरादयस् तदा ॥ र्भ्र्स्_३,१।४९ ॥
स्थायिनम् एके तु निर्वेद-स्थायिनं परे ।
शान्तम् एव रसं पूर्वे प्राहुर् एकम् अनेकधा ॥ र्भ्र्स्_३,१।५० ॥
निर्वेदो विषये स्थायि तत्त्व-ज्ञानोद्भवः स चेत् ।
इष्टानिष्ट-वियोगाप्ति-कृतस् तु व्यभिचार्य् असौ ॥ र्भ्र्स्_३,१।५१ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे
शान्त-भक्ति-रस-लहरी प्रथमा ।


(३।२)
प्रीति-भक्ति-रसाख्या
द्वितीय-लहरी

श्रीधर-स्वामिभिः स्पष्टम् अयम् एव रसोत्तमः ।
रङ्ग-प्रसङ्गे स-प्रेमकाख्यः प्रकीर्तितः ॥ र्भ्र्स्_३,२।१ ॥
रति-स्थायितया नाम-कौमुदी-कृद्भिर् अप्य् असौ ।
शान्तत्वेनायम् एवाद्धा सुदेवाद्यैश् च वर्णितः ॥ र्भ्र्स्_३,२।२ ॥
आत्मोचितैर् विभावाद्यैः प्रीतिर् आस्वादनीयताम् ।
नीता चेतसि भक्तानां प्रीति-भक्ति-रसो मतः ॥ र्भ्र्स्_३,२।३ ॥
अनुग्राह्यस्य दासत्वाल् लाल्यत्वाद् अप्य् अयं द्विधा ।
भिद्यते सम्भ्रम-प्रीतो गौरव-प्रीत इत्य् अपि ॥ र्भ्र्स्_३,२।४ ॥
दासाभिमानिनां कृष्णे स्यात् प्रीतिः सम्भ्रमोत्तरा ।
पूर्ववत् पुष्यमाणो ऽयं सम्भ्रम-प्रीत उच्यते ॥ र्भ्र्स्_३,२।५ ॥

तत्र आलम्बनाः–
हरिश् च तस्य दासाश् च ज्ञेया आलम्बना इह ॥ र्भ्र्स्_३,२।६ ॥
तत्र हरिः–
आलम्बनो ऽस्मिन् द्विभुजः कृष्णो गोकुल-वासिषु ।
अन्यत्र द्वि-भुजः क्वापि कुत्राप्य् एषु चतुर्-भुजः ॥ र्भ्र्स्_३,२।७ ॥

तत्र व्रजे–
नवाम्बुधर-बन्धुरः कर-युगेन वक्त्राम्बुजे
निधाय मुरलीं स्फुरत्-पुरट-निन्दि पट्टाम्बरः ।
शिखण्ड-कृत-शेखरः शिखरिणस् तटे पर्यटन-
प्रभुर् दिवि दिवौकसो भुवि धिनोति नः किङ्करान् ॥ र्भ्र्स्_३,२।८ ॥

अन्यत्र द्वि-भुजो, यथा–
प्रभुर् अयम् अनिशं पिशङ्ग-वासाः
कर-युग-भाग् अरिकम्बुर् अम्बुदाभः ।
नव-घन इव चञ्चलापिनद्धो
रवि-शशि-मण्डल-मण्डितश् चकास्ति ॥ र्भ्र्स्_३,२।९ ॥

तत्र चतुर्भुजो, यथा ललित-माधवे (५।१५)–
चञ्चत्-कौस्तुभ-कौमुदी-समुदयः कौमोदकी-चक्रयोः
सख्येनोज्ज्वलितैस् तथा जलजयोर् आढ्यश् चतुर्भिर् भुजैः ।
दिव्यालङ्करणेन सङ्कट-तनुः सङ्गी विहङ्गेशितुर्
मां व्यस्मारयद् एष कंस-विजयी वैकुण्ठ-गोष्ठी-श्रियम् ॥ र्भ्र्स्_३,२।१० ॥

ब्रह्माण्ड-कोटि-धामैक-रोम-कूपः कृपाम्बुधिः ।
अविचिन्त्य-महा-शक्तिः सर्व-सिद्धि-निषेवितः ॥ र्भ्र्स्_३,२।११ ॥
अवतारावली-बीजं सदात्माराम-हृद्-गुणः ।
ईश्वरः परमाराध्यः सर्वज्ञः सुदृढ-व्रतः ॥ र्भ्र्स्_३,२।१२ ॥
समृद्धिमान् क्षमा-शीलः शरणागत-पालकः ।
दक्षिणः सत्य-वचनो दक्षः सर्व-शुभङ्करः ॥ र्भ्र्स्_३,२।१३ ॥
प्रतापी धार्मिकः शास्त्र-चक्षुर् भक्त-सुहृत्तमः ।
वदान्यस् तेजसा युक्तः कृतज्ञः कीर्ति-संश्रयः ॥ र्भ्र्स्_३,२।१४ ॥
वरीयान् बलवान् प्रेम-वश्य इत्य् आदिभिर् गुणैः ।
युतश् चतुर्-विधेष्व् एष दासेष्व् आलम्बनो हरिः ॥ र्भ्र्स्_३,२।१५ ॥

अथ दासाः–
दासास् तु प्रश्रितास् तस्य निदेश-वश-वर्तिणः ।
विश्वस्ताः प्रभुता-ज्ञान-विनम्रित-धियश् च ते ॥ र्भ्र्स्_३,२।१६ ॥

यथा–
प्रभुर् अयम् अखिलैर् गुणैर् गरीयान्
इह तुलनाम् अपरः प्रयाति नास्य ।
इति परिणत-निर्णयेन नम्रान्
हित-चरितान् हरि-सेवकान् भजध्वम् ॥ र्भ्र्स्_३,२।१७ ॥

चतुर्धामी अधिकृताश्रित-पारिषदानुरागाः ॥ र्भ्र्स्_३,२।१८ ॥

तत्र अधिकृताः–
ब्रह्म-शङ्कर-शक्राद्याः प्रोक्ता अधिकृता बुधैः ।
रूपं प्रसिद्धम् एवैषां तेन भक्तिर् उदीर्यते ॥ र्भ्र्स्_३,२।१९ ॥

यथा–
का पर्येत्य् अम्बिकेयं हरिम् अवकलयन् कम्पते कः शिरो ऽसौ
तं कः स्तौत्य् एष धाता प्रणमति विलुठन् कः क्षितौ वासवो ऽयम् ।
कः स्तब्धो हस्यते ऽद्धा दनुजभिद्-अनुजैः पूर्वजो ऽयं ममेत्थं
कालिन्दी जाम्बवत्यां त्रिदश-परिचयं जाल-रन्ध्राद् व्यतानीत् ॥ र्भ्र्स्_३,२।२० ॥

अथ आश्रिताः–
ते शरण्या ज्ञानि-चराः सेवा-निष्ठास् त्रिधाश्रिताः ॥ र्भ्र्स्_३,२।२१ ॥

यथा–
केचिद् भीताः शरणम् अभितः संश्रयन्ते भवन्तं
विज्ञातार्थास् त्वद्-अनुभवतः प्रास्य केचिन् मुमुक्षाम् ।
श्रावं श्रावं तव नव-नवां माधुरीं साधु-वृन्दाद्
वृन्दारण्योत्सव किल वयं देव सेवेमहि त्वाम् ॥ र्भ्र्स्_३,२।२२ ॥

तत्र शरण्याः–
शरण्याः कालिय-जरासन्ध-बद्ध-नृपादयः ॥ र्भ्र्स्_३,२।२३ ॥

यथा–
अपि गहनागसि नागे
प्रभु-वर मय्य् अद्भुताद्य ते करुणा ।
भक्तैर् अपि दुर्लभया
यद् अहं पद-मुद्रयोज्ज्वलितः ॥ र्भ्र्स्_३,२।२४ ॥

यथा वा अपराध-भञ्जने–
कामादीनां कति न कतिधा पालिता दुर्निदेशास्
तेषां जाता मयि न करुणा न त्रपा नोपशान्तिः ।
उत्सृज्यैतान् अथ यदु-पते साम्प्रतं लब्ध-बुद्धिस्
त्वाम् आयातः शरणम् अभयं मां नियुङ्क्ष्वात्म-दास्ये ॥ र्भ्र्स्_३,२।२५ ॥

अथ ज्ञानि-चराः–
ये मुमुक्षां परित्यज्य हरिम् एव समाश्रिताः ।
शौनक-प्रमुखास् ते तु प्रोक्ता ज्ञानि-चराः बुधैः ॥ र्भ्र्स्_३,२।२६ ॥

यथा वा हरि-हक्ति-सुधोदये–
अहो महात्मन् बहु-दोष-दुष्टो ऽप्य्
एकेन भात्य् एष भवो गुणेन ।
सत्-सङ्गमाख्येन सुखावहेन
कृताद्य नो येन कृशा मुमुक्षा ॥ र्भ्र्स्_३,२।२७ ॥

यथा वा पद्यावल्याम् (७७)–
ध्यानातीतं किम् अपि परमं ये तु जानन्ति तत्त्वं
तेषाम् आस्तां हृदय-कुहरे शुद्ध-चिन्मात्र आत्मा ।
अस्माकं तु प्रकृति-मधुरः स्मेर-वक्त्रारविन्दो
मेघ-श्यामः कनक-परिधिः पङ्कजाक्षो ऽयम् आत्मा ॥ र्भ्र्स्_३,२।२८ ॥

अथ सेवा-निष्ठाः–
मूलतो भजनासक्ताः सेवा-निष्ठा इतीरिताः ।
चन्द्रध्वजो हरिहयो बहुलाश्वस् तथा नृपाः ।
इक्ष्वाकुः श्रुतदेवाश् च पुण्डरीकादयश् च ते ॥ र्भ्र्स्_३,२।२९ ॥

यथा–
आत्मारामान् अपि गमयति त्वद्-गुणो गान-गोष्ठीं
शून्योद्याने नयति विहगान् अप्य् अलं भिक्षु-चर्याम् ।
इत्य् उत्कर्षं कम् अपि स-चमत्कारम् आकर्ण्य चित्रं
सेवायां ते स्फुटम् अघहर श्रद्धया गर्धितो ऽस्मि ॥ र्भ्र्स्_३,२।३० ॥

अथ पारिषदाः–
उद्धवो दारुको जैत्रः श्रुतदेवश् च शत्रुजित् ।
नन्दोपनन्द-भद्राद्याः पार्षदा यदु-पत्तने ॥ र्भ्र्स्_३,२।३१ ॥
नियुक्ताः सन्त्य् अमी मन्त्र-सारथ्यादिषु कर्मसु ।
तथापि क्वाप्य् अवसरे परिचर्यां च कुर्वते ।
कौरवेषु तथा भीष्म-परीक्षिद्-विदुरादयः ॥ र्भ्र्स्_३,२।३२ ॥

तेषां रूपम्, यथा–
सरसाः सरसीरुहाक्ष-वेषास्
त्रिदिवेशावलि-जैत्र-कान्ति-लेशाः ।
यदु-वीर-सभासदः सदामी
प्रचुरालङ्करणोज्ज्वला जयन्ति ॥ र्भ्र्स्_३,२।३३ ॥

भक्तिः, यथा–
शंसन् धुर्जटि-निर्जयादि-विरुदं बाष्पावरुद्धाक्षरं
शङ्का-पञ्च-लवं मदाद् अगणयन् कालाग्नि-रुद्राद् अपि ।
त्वय्य् एवार्पित-बुद्धिर् उद्धव-मुखस् त्वत्-पार्षदानां गणो
द्वारि द्वारवती-पुरस्य पुरतः सेवोत्सुकस् तिष्ठति ॥ र्भ्र्स्_३,२।३४ ॥

एतेषां प्रवरः श्रीमान् उद्धवः प्रेम-विक्लवः ॥ र्भ्र्स्_३,२।३५ ॥

तस्य रूपं–
कालिन्दी-मधुर-त्विषं मधुपतेर् माल्येन निर्माल्यतां
लब्धेनाञ्चितम् अम्बरेण च लसद्-गोरोचना-रोचिषा ।
द्वन्द्वेनार्गल-सुन्दरेण भुजयोर् जिष्णुम् अब्जेक्षणं
मुख्यं पारिषदेषु भक्ति-लहरी-रुद्धं भजाम्य् उद्धवम् ॥ र्भ्र्स्_३,२।३६ ॥

भक्तिः, यथा–
मूर्धन्य् आहुक-शासनं प्रणयते ब्रह्मेशयोः शासिता
सिन्धुं प्रार्थयते भुवं तनुतरां ब्रह्माण्ड-कोटीश्वरः ।
मन्त्रं पृच्छति माम् अपेशल-धियं विज्ञान-वारां निधिर्
विक्रीडत्य् असकृद् विचित्र-चरितः सो ऽयं प्रभुर् मादृशाम् ॥ र्भ्र्स्_३,२।३७ ॥

अथ अनुगाः–
सर्वदा परिचर्यासु प्रभोर् आसक्त-चेतसः ।
पुरस्थाश् च व्रजस्थाश् चेत्य् उच्यते अनुगा द्विधा ॥ र्भ्र्स्_३,२।३८ ॥

तत्र पुरस्थाः–
सुचन्द्रो मण्डनः स्तम्बः सुतम्बाद्याः पुरानुगाः ।
एषां पार्षदवत् प्रायो रूपालङ्कारणादयः ॥ र्भ्र्स्_३,२।३९ ॥

सेवा यथा–
उपरि कनक-दण्डं मण्डनो विस्तृणीते
धुवति किल सुचन्द्रश् चामरं चन्द्र-चारुम् ।
उपहरति सुतम्बः सुष्ठु ताम्बूल-वीटीं
विदधति परिचर्याः साधवो माधवस्य ॥ र्भ्र्स्_३,२।४० ॥

अथ व्रज-स्थाः–
रक्तकः पत्रकः पत्री मधुकण्ठो मधुव्रतः ।
रसाल-सुविलासाश् च प्रेमकन्दो मरन्दकः ॥ र्भ्र्स्_३,२।४१ ॥
आनन्दश् चन्द्रहासश् च पयोदो वकुलस् तथा ।
रसदः शारदाद्याश् च व्रजस्था अनुगा मताः ॥ र्भ्र्स्_३,२।४२ ॥

एषां रूपम्, यथा–
मणि-मय-वर-मण्डनोज्ज्वलाङ्गान्
पुरट-जवा-मधुलिट्-पटीर-भासः ।
निज-वपुर्-अनुरूप-दिव्य-वस्त्रान्
व्रज-पति-नन्दन-किङ्करान् नमामि ॥ र्भ्र्स्_३,२।४३ ॥

सेवा, यथा–
द्रुतं कुरु परिष्कृतं बकुल पीत-पट्टांशुकं
वरैर् अगुरुभिर् जलं रचय वासितं वारिद ।
रसाल परिकल्पयोर् अगलतादलैर् वीटिकाः
पराग-पटली गवां दिशम् अरुन्ध पौरन्दरीम् ॥ र्भ्र्स्_३,२।४४ ॥

व्रजानुगेषु सर्वेषु वरीयान् रक्तको मतः ॥ र्भ्र्स्_३,२।४५ ॥

अस्य रूपम्, यथा–
रम्य-पिङ्ग-पटम् अङ्ग-रोचिषा
खर्वितोरु-शत-पर्विका-रुचम् ।
सुष्ठु गोष्ठ-युवराज-सेविनं
रक्त-कण्ठम् अनुयामि रक्तकम् ॥ र्भ्र्स्_३,२।४६ ॥

भक्तिः, यथा–
गिरिवर-भृति भर्तृ-दारके ऽस्मिन्
व्रज-युवराजतया गते प्रसिद्धिम् ।
शृणु रसद सदा पदाभिसेवा-
पट्टिमरता रतिर् उत्तमा ममास्तु ॥ र्भ्र्स्_३,२।४७ ॥

धूर्यो धीरश् च वीरश् च त्रिधा पारिषद्-आदिकः ॥ र्भ्र्स्_३,२।४८ ॥

तत्र धूर्यः–
कृष्णे ऽस्य प्रेयसी-वर्गे दासादौ च यथायथम् ।
यः प्रीतिं तनुते भक्तः स धूर्य इह कीर्त्यते ॥ र्भ्र्स्_३,२।४९ ॥

यथा–
देवः सेव्यतया यथा स्फुरति मे देव्यस् तथास्य प्रियाः
सर्वः प्राण-समानतां प्रचिनुते तद्-भक्ति-भाजां गणः ।
स्मृत्वा साहसिकं बिभेमि तम् अहं भक्ताभिमानोन्नतं
प्रीतिं तत्-प्रणते खरे ऽप्य् अविदधद् यः स्वास्थ्यम् आलम्बते ॥ र्भ्र्स्_३,२।५० ॥

अथ धीरः–
आश्रित्य प्रेयसीम् अस्य नातिसेवापरो ऽपि यः ।
तस्य प्रसाद-पात्रं स्यान् मुख्यं धीरः स उच्यते ॥ र्भ्र्स्_३,२।५१ ॥

यथा–
कम् अपि पृथग्-अनुच्चैर् नाचरामि प्रयत्नं
यदुकुल-कमलार्क त्वत्-प्रसाद-श्रिये ऽपि ।
समजनि ननु देव्याः पारिजातार्चितायाः
परिजन-निखिलान्तः-पातिनी मे यद्-आख्या ॥ र्भ्र्स्_३,२।५२ ॥

अथ वीरः–
कृपां तस्य समाश्रित्य प्रौढां नान्यम् अपेक्षते ।
अतुलां यो वहन् कृष्णे प्रीतिं वीरः स उच्यते ॥ र्भ्र्स्_३,२।५३ ॥

यथा–
प्रलम्ब-रिपुर् ईश्वरो भवतु का कृतिस् तेन मे
कुमार-मकर-ध्वजाद् अपि न किञ्चिद् आस्ते फलम् ।
किम् अन्यद् अहम् उद्धतः प्रभु-कृपा-कटाक्ष-श्रिया
प्रिया परिषद्-अग्रिमां न गणयामि भामाम् अपि ॥ र्भ्र्स्_३,२।५४ ॥

चतुर्थे च (४।२०।२८)–
जगज्-जनन्यां जगद्-ईश वैशसं
स्याद् एव यत्-कर्मणि नः समीहितम्
करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः
स्व एव धिष्ण्ये ऽभिरतस्य किं तया ॥ र्भ्र्स्_३,२।५५ ॥

एतेषु तस्य दासेषु त्रिविधेष्व् आश्रितादिषु ।
नित्य-सिद्धाश् च सिद्धाश् च साधकाः परिकीर्तितः ॥ र्भ्र्स्_३,२।५६ ॥

अथ उद्दीपनाः–
अनुग्रहस्य सम्प्राप्तिस् तस्याङ्घ्रि-रजसां तथा ।
भुक्तावशिष्ट-भक्तादेर् अपि तद्-भक्त-सङ्गतिः ।
इत्य् आदयो विभावाः स्युर् एष्व् असाधारणा मताः ॥ र्भ्र्स्_३,२।५७ ॥

तत्र अनुग्रह-सम्प्राप्तिः, यथा–
कृष्णस्य पश्यत कृपां कृपाद्याः कृपणे मयि ।
ध्येयो ऽसौ निधने हन्त दृशोर् अध्वानम् अभ्यगात् ॥ र्भ्र्स्_३,२।५८ ॥

मुरली-शृङ्गयोः स्वानः स्मित-पूर्वावलोकनम् ।
गुणोत्कर्ष-श्रुतिः पद्म-पदाङ्क-नव-नीरदाः ।
तद्-अङ्ग-सौरभाद्यास् तु सर्वैः साधारणा मताः ॥ र्भ्र्स्_३,२।५९ ॥

अत्र मुरली-स्वनो, यथा विदग्ध-माधवे (१।३०)–
सोत्कण्ठं मुरली-कला-परिमलान् आकर्ण्य घूर्णत्-तनोर्
एतस्याक्षि-सहस्रतः सुरपतेर् अश्रूणि सस्रुर् भुवि ।
चित्रं वारि-धरान् विनापि तरसा यैर् अद्य धारा-मयैर्
दूरात् पश्यत देव-मातृकम् अभूद् वृन्दाटवी-मण्डलम् ॥ र्भ्र्स्_३,२।६० ॥

अथ अनुभावाः–
सर्वतः स्वनियोगानाम् आधिक्येन परिग्रहः ।
ईर्ष्या-लवेन चास्पृष्टा मैत्री तत्-प्रणते जने ।
तन्-निष्ठाद्याः शीताः स्युर् एष्व् असाधारणाः क्रियाः ॥ र्भ्र्स्_३,२।६१ ॥

तत्र स्वनियोगस्य सर्वत आधिक्यम्, यथा–
अङ्ग-स्तम्भारम्भम् उत्तुङ्गयन्तं
प्रेमानन्दं दारुको नाभ्यनन्दत्
कंसारातेर् वीजने येन साक्षाद्
अक्षोदीयान् अन्तरायो व्यधायि ॥ र्भ्र्स्_३,२।६२ ॥

उद्भास्वराः पुरोक्ता ये तथास्य सुहृद्-आदयः ।
विरागाद्याश् च ये शीताः प्रोक्ताः साधारणास् तु ते ॥ र्भ्र्स्_३,२।६३ ॥

तत्र नृत्यम्, यथा श्री-दशमे (१०।८६।३८)–
श्रुतदेवो ऽच्युतं प्राप्तं स्वगृहान् जनको यथा ।
नत्वा मुनींश् च संहृष्टो धुन्वन् वासो ननर्त ह ॥ र्भ्र्स्_३,२।६४ ॥

यथा वा–
त्वं कलासु विमुखो ऽपि नर्तनं
प्रेम-नाट्य-गुरुणासि पाठितः ।
यद् विचित्र-गति-चर्ययाञ्चितश्
चित्रयस्य् अहह चारणान् अपि ॥ र्भ्र्स्_३,२।६५ ॥

अथ सात्त्विकाः–
स्तम्भाद्याः सात्त्विकाः सर्वे प्रीतादि-त्रितये मताः ॥ र्भ्र्स्_३,२।६६ ॥

यथा,
गोकुलेन्द्र-गुण-गान-रसेन
स्तम्भम् अद्भुतम् असौ भजमानः ।
पश्य भक्ति-रस-मण्डप-मूल-
स्तम्भतां वहति वैष्णव-वर्यः ॥ र्भ्र्स्_३,२।६७ ॥

श्री-दशमे (१०।८५।३८)–
स इन्द्रसेनो भगवत्-पदानुजं
बिभ्रन् मुहुः प्रेम-विभिन्नया धिया ।
उवाच हानन्द-जलाकुलेक्षणः
प्रहृष्ट-रोमा नृप गद्गदाक्षरम् ॥ र्भ्र्स्_३,२।६८ ॥

अथ व्यभिचारिणः–
हर्षो धृतिश् चात्र निर्वेदो ऽथ विषण्णता ।
दैन्यं चिन्ता स्मृतिः शङ्का मतिर् औत्सुक्य-चापले ॥ र्भ्र्स्_३,२।६९ ॥
वितर्कावेग-ह्री-जाड्य-मोहोन्मादावहित्थिकाः ।
बोधः स्वप्नः क्लमो व्याधिर् मृतिश् च व्यभिचारिणः ॥ र्भ्र्स्_३,२।७० ॥
इतरेषां मदादीनां नातिपोषकता भवेत् ।
योगे त्रयः स्युर् धृत्य्-अन्ता अयोगे तु क्लमादयः ।
उभयत्र परे शेषा निर्वेदाद्याः सतां मताः ॥ र्भ्र्स्_३,२।७१ ॥

तत्र हर्षो, यथा प्रथमे (१।११।५)–
प्रीत्य्-उत्फुल्ल-मुखाः प्रोचुर् हर्ष-गद्गदया गिरा ।
पितरं सर्व-सुहृदम् अवितारम् इवार्भकाः ॥ र्भ्र्स्_३,२।७२ ॥

यथा वा–
हरिम् अवलोक्य पुरो भुवि
पतितो दण्ड-प्रणाम-शत-कामः ।
प्रमद-विमुग्धो नृपतिः
पुनर् उत्थानं विसस्मार ॥ र्भ्र्स्_३,२।७३ ॥
क्लमो, यथा स्कान्दे–
अशोषयन् मनस् तस्य म्लापयन् मुख-पङ्कजम् ।
आधिस् तद्-विरहे देव ग्रीष्मे सर इवांशुमान् ॥ र्भ्र्स्_३,२।७४ ॥

निर्वेदो, यथा–
धन्याः स्फुरति तव सूर्य कराः सहस्रं
ये सर्वदा यदुपतेः पदयोः पतन्ति ।
बन्ध्यो दृशां दर्शशती ध्रियते ममासौ
दूरे मुहूर्तम् अपि या न विलोकते तम् ॥ र्भ्र्स्_३,२।७५ ॥

अथ स्थायी–
सम्भ्रमः प्रभुता-ज्ञानात् कम्पश् चेतसि सादरः ।
अनेनैक्यं गता प्रीतिः सम्भ्रम-प्रीतिर् उच्यते ।
एषा रसे ऽत्र कथिता स्थायि-भावतया बुधैः ॥ र्भ्र्स्_३,२।७६ ॥
आश्रितादेः पुरैवोक्तः प्रकारो रति-जन्मनि ।
तत्र पारिषदादेस् तु हेतुः संस्कार एव हि ।
संस्कारोद्बोधकास् तस्य दर्शन-श्रवणादयः ॥ र्भ्र्स्_३,२।७७ ॥
एषा तु सम्भ्रम-प्रीतिः प्राप्नुवत्य् उत्तरोत्तरम् ।
वृद्धिं प्रेमा ततः स्नेहस् ततो राग इति त्रिधा ॥ र्भ्र्स्_३,२।७८ ॥

तत्र सम्भ्रम-प्रीतिः, यथा श्री-दशमे (१०।३८।६)–
ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः ।
यन् नमस्ये भगवतो योगि-ध्येयाङ्घ्रि-पङ्कजम् ॥ र्भ्र्स्_३,२।७९ ॥

यथा वा–
कलिन्द-नन्दिनी-कुल-कदम्ब-वन-वल्लभम् ।
कदा नमस्करिषामि गोप-रूपं तम् ईश्वरम् ॥ र्भ्र्स्_३,२।८० ॥

अथ प्रेमा–
ह्रास-शङ्का-च्युता बद्ध-मूला प्रेमेयम् उच्यते ।
अस्यानुभावाः कथितास् तत्र व्यसनितादयः ॥ र्भ्र्स्_३,२।८१ ॥

यथा–
अणिमादि-सौख्य-वीचीम् अवीचि-दुःख-प्रवाहं वा ।
नय मां विकृतिर् न हि मे त्वत्-पद-कमलावलम्बस्य ॥ र्भ्र्स्_३,२।८२ ॥

यथा वा–
रुषाज्वलित-बुद्धिना भृगु-सुतेन शप्तो ऽप्य् अलं
मया हृत-जगत्-त्रयो ऽप्य् अतनु-कैतवं तन्वता ।
विनिन्द्य कृत-बन्धनो ऽप्य् उरग-राज-पाशैर् बलाद्
अरज्यत स मय्य् अहो द्विगुणम् एव वैरोचनिः ॥ र्भ्र्स्_३,२।८३ ॥

अथ स्नेहः–
सान्द्रश् चित्त-द्रवं कुर्वन् प्रेमा स्नेह इतीर्यते ।
क्षणिकस्यापि नेह स्याद् विस्लेषस्य सहिष्णुता ॥ र्भ्र्स्_३,२।८४ ॥

यथा–
दम्भेन बाष्पाम्बु-झरस्य केशवं
वीक्ष्य द्रवच्-चित्तम् असुस्रुवत् तव ।
इत्य् उच्चकैर् धारयतो विचित्ततां
चित्रा न ते दारुक दारु-कल्पता ॥ र्भ्र्स्_३,२।८५ ॥

यथा वा–
पत्नीं रत्न-निधेः पराम् उपहरन् पूरेण बाष्पाम्भसां
रज्यन्-मञ्जुल-कण्ठ-गर्भ-लुठित-स्तोत्राक्षरोपक्रमः ।
चुम्बन् फुल्ल-कदम्ब-डम्बर-तुलाङ्गैः समीक्ष्याच्युतं
स्तब्धो ऽप्य् अभ्यधिकां श्रियं प्रणमतां वृन्दाद् दधारोद्धवः ॥ र्भ्र्स्_३,२।८६ ॥

अथ रागः–
स्नेहः स रागो येन स्यात् सुखं दुःखम् अपि स्फुटम् ।
तत्-सम्बन्ध-लवे ऽप्य् अत्र प्रीतिः प्राण-व्ययैर् अपि ॥ र्भ्र्स्_३,२।८७ ॥

यथा–
गुरुर् अपि भुजगाद् भीस् तक्षकात् प्राज्य-राज्य-
च्युतिर् अतिशयिनी च प्राय-चर्या च गुर्वी ।
अतनुत मुदम् उच्चैः कृष्ण-लीला-सुधान्तर्-
विहरण-सचिवत्वाद् औत्तरेयस्य राज्ञः ॥ र्भ्र्स्_३,२।८८ ॥

यथा वा–
केशवस्य करुणा-लवे ऽपि चेद्
बाडवो ऽपि किल षाडवो मम ।
अस्य यद्य् अदयता-कुश-स्थली
पूर्ण-सिद्धिर् अपि मे कुशस्थली ॥ र्भ्र्स्_३,२।८९ ॥

प्राय आद्य-द्वये प्रेमा स्नेहः पारिषदेष्व् असौ ।
परीक्षिति भवेद्-रागो दारुके च तथोद्धवे ॥ र्भ्र्स्_३,२।९० ॥
व्रजानुगेष्व् अनेकेषु रक्तक-प्रमुखेषु च ।
अस्मिन्न् अभ्युदिते भावः प्रायः स्यात् सख्य-लेश-भाक् ॥ र्भ्र्स्_३,२।९१ ॥

यथा–
शुद्धान्तान् मिलितं बाष्प-रुद्ध-वाग् उद्धवो हरिम् ।
किञ्चित्-कुञ्चित-नेत्रान्तः स्वान्तेन परिषस्वजे ॥ र्भ्र्स्_३,२।९२ ॥

अयोग-योगाव् एतस्य प्रभेदौ कथिताव् उभौ ॥ र्भ्र्स्_३,२।९३ ॥

अथ अयोगः–
सङ्गाभावो हरेर् धीरैर् अयोग इति कथ्यते ।
अयोगे तन्-मनस्कत्वं तद्-गुणाद्य्-अनुसन्धयः ॥ र्भ्र्स्_३,२।९४ ॥
तत्-प्राप्त्य्-अपाय-चिन्ताद्याः सर्वेषां कथिताः क्रियाः ।
उत्कण्ठितं वियोगश् चेत्य् अयोगे ऽपि द्विधोच्यते ॥ र्भ्र्स्_३,२।९५ ॥

तत्र उत्कण्ठितम्–
अदृष्ट-पूर्वस्य हरेर् दिदृक्षोत्कण्ठितं मतम् ॥ र्भ्र्स्_३,२।९६ ॥

यथा नारसिंहे–
चकार मेघे तद्-वर्णे बहु-मान-रतिं नृपः ।
पक्षपातेन तन्-नाम्नि मृगे पद्मे च तद्-दृशि ॥ र्भ्र्स्_३,२।९७ ॥

यथा व, श्री-दशमे (१०।३८।१०)–
अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषोर्
भारावताराय भुवो निजेच्छया
लावण्य-धाम्नो भवितोपलम्भनं
मह्यं न न स्यात् फलम् अञ्जसा दृशः ॥ र्भ्र्स्_३,२।९८ ॥

अत्रायोग-प्रसक्तानां सर्वेषाम् अपि सम्भवे ।
औत्सुक्य-दैन्य-निर्वेद-चिन्तानां चापलस्य च ।
जडतोन्माद-मोहानाम् अपि स्याद् अतिरिक्तता ॥ र्भ्र्स्_३,२।९९ ॥

तत्र औत्सुक्यम्, यथा श्री-कृष्ण-कर्णामृते (४१)–
अमून्य् अधन्यानि दिनान्तराणि
हरे त्वद्-आलोकनम् अन्तरेण ।
अनाथ-बन्धो करुणैक-सिन्धो
हा हन्त हा हन्त कथं नयामि ॥ र्भ्र्स्_३,२।१०० ॥

यथा वा,
विलोचन-सुधाम्बुधेस् तव पदारविन्द-द्वयी
विलोचन-रस-च्छटाम् अनुपलभ्य विक्षुभ्यतः ।
मनो मम मनाग् अपि क्वचिद् अनाप्नुवन् निर्वृतिं
क्षणार्धम् अपि मन्यते व्रज-महेन्द्र वर्ष-व्रजम् ॥ र्भ्र्स्_३,२।१०१ ॥

दैन्यम्, यथा तत्रैव {*कर्णामृत? नोत् फ़ोउन्द् इन् अन्य् ओफ़् थे थ्रेए चेन्तुरिएस्।}–
निबद्ध-मूर्धाञ्जलिर् एष याचे
नीरन्ध्र-दैन्योन्नति-मुक्त-कण्ठम् ।
दयाम्बुधे देव भवत्-कटाक्ष-
दाक्षिण्य-लेशेन सकृन् निषिञ्च ॥ र्भ्र्स्_३,२।१०२ ॥

यथा वा–
असि शशि-मुकुटाद्यैर् अप्य् अलभ्येक्षणस् त्वं
लघुर् अघहर कीटाद् अप्य् अहं कूट-कर्मा ।
इति विसदृशतापि प्रार्थने प्रार्थयामि
स्नपय कृपण-बन्धो माम् अपाङ्ग-च्छटाभिः ॥ र्भ्र्स्_३,२।१०३ ॥

निर्वेदो, यथा–
स्फुटं श्रितवतोर् अपि श्रुति-निषेवया श्लाघ्यतां
ममाभव-निरतयोर् भवतु नेत्रयोर् मन्दयोः ।
भवेन् न हि ययोः पदं मधुरिम-श्रियाम् आस्पदं
पदाम्बुजनखाङ्कुराद् अपि विसारि रोचिस् तव ॥ र्भ्र्स्_३,२।१०४ ॥

चिन्ताम्, यथा–
हरि-पद-कमलावलोक-तृष्णा
तरलमतेर् अपि योग्यताम् अवीक्ष्य ।
अवनत-वदनस्य चिन्तया मे
हरि हरि निःश्वसतो निशाः प्रयाति ॥ र्भ्र्स्_३,२।१०५ ॥

चापलम्, यथा श्री-कृष्ण-कर्णामृते (३२)–
त्वच्-छैशवं त्रि-भुवनाद्भुतम् इत्य् अवेहि
मच्-चापलं च तव वा मम वाधिगम्यम् ।
तत् किं करोमि विरलं मुरली-विलासि
मुग्धं मुखाम्बुजम् उदीक्षितुम् ईक्षणाभ्याम् ॥ र्भ्र्स्_३,२।१०६ ॥

यथा वा–
ह्रियम् अघहर मुक्त्वा दृक्-पतङ्गी ममासौ
भयम् अपि दमयित्वा भक्त-वृन्दात् तृषार्ता ।
निरवधिम् अविचार्य स्वस्य च क्षोदिमानं
तव चरण-सरोजं लेढुम् अनिव्च्छतीश ॥ र्भ्र्स्_३,२।१०७ ॥

जडता, यथा सप्तमे (७।४।३७)–
न्यस्त-क्रीडनको बालो जडवत् तन्-मनस्तया ।
कृष्ण-ग्रह-गृहीतात्मा न वेद जगद् ईदृशम् ॥ र्भ्र्स्_३,२।१०८ ॥

यथा वा–
निमेषोन्मुक्ताक्षः कथम् इह परिस्पन्द-विधुरां
तनुं बिभ्रद् भव्यः प्रतिकृतिर् इवास्ते द्विज-पतिः ।
अये ज्ञातं वंशी-रसिक-नव-राग-व्यसनिना
पुरः श्यामाम्भोदे बत विनिहिता दृष्टिर् अमुना ॥ र्भ्र्स्_३,२।१०९ ॥

उन्मादो, यथा सप्तमे (७।४।४०)–
नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् ।
क्वचित् तद्-भावना-युक्तस् तन्मयो ऽनुचकार ह ॥ र्भ्र्स्_३,२।११० ॥

यथा वा–
क्वचिन् नटति निष्पटं क्वचिद् असम्भवं स्तम्भते
क्वचिद् विहसति स्फुटं क्वचिद् अमन्दम् आक्रन्दति ।
लसत्य् अनलसं क्वचित् क्वचिद् अपार्थम् आर्तायते
हरेर् अभिनवोद्धुर-प्रणय-सीधुम् अत्तो मुनिः ॥ र्भ्र्स्_३,२।१११ ॥

मोहो, यथा हरि-भक्ति-सुधोदये–
अयोग्यम् आत्मानम् इतीश-दर्शने
स मन्यमानस् तद्-अनाप्ति-कातरः ।
उद्बेल-दुःखार्णव-मग्न-मानसः
श्रुताश्रुधारो द्विज मूर्च्छितापतत् ॥ र्भ्र्स्_३,२।११२ ॥

यथा वा–
हरि-चरण-विलोकाब्धि-तापावलीभिर्
बत विधूत-चिद्-अम्भस्य् अत्र नस् तीर्थ-वर्ये ।
श्रुति-पुट-परिवाहेनेशनामामृतानि
क्षिपत ननु सतीर्थाश् चेष्टतां प्राण-हंसः ॥ र्भ्र्स्_३,२।११३ ॥

अथ वियोगः–
वियोगो लब्ध-सङ्गेन विच्छेदो दनुज-द्विषा ॥ र्भ्र्स्_३,२।११४ ॥
यथा–
बलि-सुत-भुज-षण्ड-खण्डनाय
क्षतज-पुरं पुरुषोत्तमे प्रयाते ।
विधूत-विधुर-बुद्धिर् उद्धवो ऽयं
विरह-निरुद्ध-मना निरुद्धवो ऽभूत् ॥ र्भ्र्स्_३,२।११५ ॥

अङ्गेषु तापः कृशता जागर्यालम्ब-शून्यता ।
अधृतिर् जडता व्याधिर् उन्मादो मूर्च्छितं बुधैः ।
वियोगे सम्भ्रम-प्रीतेर् दशावस्थाः प्रकीर्तिताः ॥ र्भ्र्स्_३,२।११६ ॥
अनवस्थितिर् आख्याता चित्तस्यालम्ब-शून्यता ।
अरागिता तु सर्वस्मिन्न् अधृतिः कथिता बुधैः ।
अन्ये ऽष्टौ प्रकटार्थत्वात् तापाद्या न हि लक्षिताः ॥ र्भ्र्स्_३,२।११७ ॥

तत्र तापो, यथा–
अस्मान् दुनोति कमलं तपनस्य मित्रं
रत्नाकरश् च बडवानल-गूढ-मूर्तिः ।
इन्दीवरं विधु-सुहृत् कथम् ईश्वरं वा
तं स्मारयन् मुनिपते दहतीह सभ्यान् ॥ र्भ्र्स्_३,२।११८ ॥

कृशता, यथा–
दधति तव तथाद्य सेवकानां
भुज-परिघाः कृशतां च पाण्डुतां च ।
पतति बत यथा मृणाल-बुद्ध्या
स्फुटम् इह पाण्डव-मित्र पाण्डु-पक्षः ॥ र्भ्र्स्_३,२।११९ ॥

जागर्या, यथा–
विरहान् मुर-द्विषश् चिरं विधुराङ्गे परिखिन्न-चेतसि ।
क्षणदाः क्षण-दायितोज्झिता बहुलाश्वे बहुलास् तदाभवन् ॥ र्भ्र्स्_३,२।१२० ॥

आलम्बन-शून्यता, यथा–
विजय-रथ-कुटुम्बिना विनान्यन्
न किल कुटुम्बम् इहास्ति नस् त्रिलोक्याम् ।
भ्रमद् इदम् अनवेक्ष्य यत्-पदाब्जं
क्वचिद् अपि न व्यवतिष्ठते ऽद्य चेतः ॥ र्भ्र्स्_३,२।१२१ ॥

अधृतिः, यथा–
प्रेक्ष्य पिञ्छ-कुलम् अक्षि पिधत्ते
नैचिकी-निचयम् उज्झति दूरे ।
वष्टि यष्टिम् अपि नाद्य मुरारे
रक्तकस् तव पदाम्बुज-रक्तः ॥ र्भ्र्स्_३,२।१२२ ॥

जडता, यथा–
यौधिष्ठिरं पुरम् उपेयुषि पद्मनाभे
खेदानल-व्यतिकरैर् अतिविक्लवस्य ।
स्वेदाश्रुभिर् न हि परं जलताम् अवापुर्
अङ्गानि निष्क्रियतया च किलोद्धवस्य ॥ र्भ्र्स्_३,२।१२३ ॥

व्याधिर्, यथा–
चिरयति मणिम् अन्वेष्टुं
चलिते मुरभिदि कुशस्थली-पुरतः ।
समजनि धृत-नव-व्याधिः
पवन-व्याधिर् यथार्थाख्यः ॥ र्भ्र्स्_३,२।१२४ ॥

उन्मादो, यथा–
प्रोषिते बत निजाधिदैवते
रैवते नवम् अवेक्ष्य नीरदम् ।
भ्रान्त-धीर् अयम् अधीरम् उद्धवः
पश्य रौति* रमते नमस्यति ॥ र्भ्र्स्_३,२।१२५ ॥
{*नौतीति विश्वनाथः}

मूर्च्छितम्, यथा–
समजनि दशा विश्लेषात् ते पदाम्बुज-सेविनां
व्रज-भुवि तथा नासीन् निद्रा-लवो ऽपि यथा पुरा ।
यदु-वर दर-श्वासेनामी वितर्कित-जीविताः
सततम् अधुना निश्चेष्टाङ्गास् तटान्य् अधिशेरते ॥ र्भ्र्स्_३,२।१२६ ॥

मृतिः, यथा–
दनुज-दमन याते जीवने त्वय्य् अकस्मात्
प्रचुर-विरह-तापैर् ध्वन्त-हृत्-पङ्कजायाम् ।
व्रजम् अभि परितस् ते दास-कासार-पङ्क्तौ
न किल वसतिम् आर्ताः कर्तुम् इच्छन्ति हंसाः ॥ र्भ्र्स्_३,२।१२७ ॥

अशिवत्वान् न घटते भक्ते कुत्राप्य् असौ मृतिः ।
क्षोभकत्वाद् वियोगस्य जात-प्रायेति कथ्यते ॥ र्भ्र्स्_३,२।१२८ ॥

अथ योगः–
कृष्णेन सङ्गमो यस् तु स योग इति कीर्त्यते ।
योगे ऽपि कथितः सिद्धिस् तुष्टिः स्थितिर् इति त्रिधा ॥ र्भ्र्स्_३,२।१२९ ॥

तत्र सिद्धिः–
उत्कण्ठिते हरेः प्राप्तिः सिद्धिर् इत्य् अभिधीयते ॥ र्भ्र्स्_३,२।१३० ॥

यथा श्री-कृष्ण-कर्णामृते (५७)–
मौलिश् चन्द्रक-भूषणो मरकत-स्तम्भाभिरामं वपुर्
वक्त्रं चित्र-विमुग्ध-हास-मधुरं बाले विलोले दृशौ ।
वाचः शैशव-शीतया मद-गज-श्लाघ्या विलास-स्थितिर्
मन्दं मन्दम् अये क एष मथुरा-वीथीं मिथो गाहते ॥ र्भ्र्स्_३,२।१३१ ॥

यथा वा श्री-दशमे (१०।३८।३४)–
रथात् तूर्णम् अवप्लुत्य सो ऽक्रूरः प्रेम-विह्वलः ।
पपात चरणोपान्ते दण्डवद् राम-कृष्णयोः ॥ र्भ्र्स्_३,२।१३२ ॥

तुष्टिः–
जाते वियोगे कंसारेः सम्प्राप्तिस् तुष्टिर् उच्यते ॥ र्भ्र्स्_३,२।१३३ ॥

यथा प्रथमे (१।११।१०)–
कथं वयं नाथ चिरोषिते त्वयि
प्रसन्न-दृष्ट्याखिल-ताप-शोषणम् ।
जीवेम ते सुन्दर-हास-शोभितम्
अपश्यमाना वदनं मनोहरम् ॥ र्भ्र्स्_३,२।१३४ ॥

यथा वा–
समक्षम् अक्षमः प्रेक्ष्य हरिम् अञ्जलि-बन्धने ।
दारुको द्वारका-द्वारि तत्र चित्र-दशां ययौ ॥ र्भ्र्स्_३,२।१३५ ॥

स्थितिः–
सह-वासो मुकुन्देन स्थितिर् निगदिता बुधैः ॥ र्भ्र्स्_३,२।१३६ ॥

यथा हंसदूते (५०) {*थिस् अच्तुअल्ल्य् अप्पेअर्स् तो बे अ मिx ओफ़् वेर्सेस् ५०-५१। छेच्क् म्य् चोम्मेन्त् इन् म्य्स्तिच् पोएत्र्य्।}–
पुरस्ताद् आभीरी-गण-भयद-नामा स कठिनो
मणि-स्तम्भालम्बी कुरु-कुल-कथां सङ्कलयिता ।
स जानुभ्याम् अष्टापद-भुवनम् अवष्टभ्य भविता
गुरोः शिष्यो नूनं पद-कमल-संवाहन-रतः ॥ र्भ्र्स्_३,२।१३७ ॥

निजावसर-शुश्रूषा-विधाने सावधानता ।
पुरस् तस्य निवेशाद्या योगे ऽमीषां क्रिया मताः ॥ र्भ्र्स्_३,२।१३८ ॥
केचिद् अस्या रतेः कृष्ण-भक्त्य्-आस्वाद-बहिर्मुखाः ।
भवत्वम् एव निश्चित्य न रसावस्थतां जगुः ॥ र्भ्र्स्_३,२।१३९ ॥
इति तावद् असाधीयो यत् पुराणेषु केषुचित् ।
श्रीमद्-भागवते चैष प्रकटो दृश्यते रसः ॥ र्भ्र्स्_३,२।१४० ॥

तथा हि एकादशे (११।३।३२)–
क्वचित् रुदन्त्य् अच्युत-चिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः ।
नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं
भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ र्भ्र्स्_३,२।१४१ ॥

सप्तमे च (७।७।३४)–
निशम्य कर्माणि गुणान् अतुल्यान्
वीर्याणि लीला-तनुभिः कृतानि ।
यदातिहर्षोत्पुलकाश्रु-गद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ र्भ्र्स्_३,२।१४२ ॥

एषात्र भक्त-भावानां प्रायिकी प्रक्रियोदिता ।
किन्तु कालादि-वैशिष्ट्यात् क्वचित् स्यात् सीम-लङ्घनम् ॥ र्भ्र्स्_३,२।१४३ ॥

अथ गौरव-प्रीतिः–
लाल्याभिमानिनां कृष्णे स्यात् प्रीतिर् गौरवोत्तरा ।
सा विभावादिभिः पुष्टा गौरव-प्रीतिर् उच्यते ॥ र्भ्र्स्_३,२।१४४ ॥

तत्र आलम्बनाः–
हरिश् च तस्य लाल्याश् च भवन्त्य् आलम्बना इह ॥ र्भ्र्स्_३,२।१४५ ॥

तत्र हरिः, यथा–
अयम् उपहित-कर्णः प्रस्तुते वृष्णि-वृद्धैर्
यदुपतिर् इतिहासे मन्द-हासोज्ज्वलास्यः ।
उपदिशति सुधर्मा-मध्यम् अध्यास्य दीव्यन्
हितम् इह निजयाग्रे चेष्टयैवात्मजान् नः ॥ र्भ्र्स्_३,२।१४६ ॥

महा-गुरुर् महा-कीर्तिर् महा-बुद्धिर् महा-बलः ।
रक्षी लालक इत्य् आद्यैर् गुणैर् आलम्बनो हरिः ॥ र्भ्र्स्_३,२।१४७ ॥

अथ लाल्याः–
लाल्याः किल कनिष्ठत्व-पुत्रत्वाद्य्-अभिमानिनः ।
कनिष्ठाः सारण-गद-सुभद्र-प्रमुखाः स्मृताः ।
प्रद्युम्न-चारुदेष्णाद्याः साम्बाद्याश् च कुमारकाः ॥ र्भ्र्स्_३,२।१४८ ॥

एषां रूपम्, यथा–
अपि मुरान्तक-पार्षद-मण्डलाद्
अधिक-मण्डन-वेश-गुण-श्रियः ।
आसत-पीत-सित-द्युतिभिर् युता
यदु-कुमार-गणाः पुरि रेमिरे ॥ र्भ्र्स्_३,२।१४९ ॥

एषां भक्तिः, यथा–
सग्धिं भजन्ति हरिणा मुखम् उन्नमय्य
ताम्बूल-चर्वितम् अदन्ति च दीयमानम् ।
घ्राताश् च मूर्ध्नि परिरभ्य भवन्त्य् अदस्राः
साम्बादयः कति पुरा विदधुस् तपांसि ॥ र्भ्र्स्_३,२।१५० ॥

रुक्मिणी-नन्दनस् तेषु लाल्येषु प्रवरो मतः ॥ र्भ्र्स्_३,२।१५१ ॥

तस्य रूपम्–
स जयति शम्बर-दमनः सुकुमारो यदु-कुमार-कुल-मौलिः ।
जनयति जनेषु जनक-भ्रान्तिं यः सुष्ठु रूपेण ॥ र्भ्र्स्_३,२।१५२ ॥

अस्य भक्तिः–
प्रभावति समीक्ष्यतां दिवि कृपाम्बुधिर् मादृशां
स एष परमो गुरुर् गरुड-गो यदूनां पतिः ।
यतः किम् अपि लालनं वयम् अवाप्य दरोद्धुराः
पुरारिम् अपि सङ्गरे गुरु-रुषं तिरस्कुर्महे ॥ र्भ्र्स्_३,२।१५३ ॥

उभयेषां सदाराध्य-धियैव भजताम् अपि ।
सेवकानाम् इहैश्वर्य-ज्ञानस्यैव प्रधानता ॥
लाल्यानां तु स्व-सम्बन्ध-स्फूर्तेर् एव समन्ततः ॥ र्भ्र्स्_३,२।१५४ ॥
व्रज-स्थानां परैश्वर्य-ज्ञान-शून्य-धियाम् अपि ।
अस्त्य् एव वल्लवाधीश-पुत्रत्वैश्वर्य-वेदनम् ॥ र्भ्र्स्_३,२।१५५ ॥

अथ उद्दीपनाः–
उद्दीपनास् तु वात्सल्य-स्मित-प्रेक्षादयो हरेः ॥ र्भ्र्स्_३,२।१५६ ॥

यथा–
अग्रे सानुग्रहं पश्यन्न् अग्रजं व्यग्र-मानसः ।
गदः पदारविन्दे ऽस्य विदधे दण्डवन्-नतिम् ॥ र्भ्र्स्_३,२।१५७ ॥

अथ अनुभावाः–
अनुभावास् तु तस्याग्रे नीचासन-निवेशनम् ।
गुरोर् वर्त्मानुसारित्वं धुरस् तस्य परिग्रहः ।
स्वैराचार-विमोक्षाद्याः शीता लाल्येषु कीर्तिताः ॥ र्भ्र्स्_३,२।१५८ ॥

तत्र नीचासन-निवेशनम्, यथा–
यदु-सदसि सुरेन्द्रैर् द्राग् उपव्रज्यमानाः
सुखद-करक-वार्भिर् ब्रह्मणाभ्युक्षिताङ्गः ।
मधुरिपुम् अभिवन्द्य स्वर्ण-पीठानि मुञ्चन्
भुवम् अभि मकराङ्को राङ्कवं स्वीचकार ॥ र्भ्र्स्_३,२।१५९ ॥

दासैः साधाराणाश् चान्ये प्रोच्यन्ते ऽमीषु केचन ।
प्रणामो मौन-बाहुल्यं सङ्कोचं प्रश्रयाढ्यता ।
निज-प्राण-व्ययेनापि तद्-आज्ञा-परिपालनम् ॥ र्भ्र्स्_३,२।१६० ॥
अधो-वदनता स्थैर्यं कास-हासादि-वर्जनम् ।
तदीयातिरहः-केलि-वार्ताद्य्-उपरमादयः ॥ र्भ्र्स्_३,२।१६१ ॥

अथ सात्त्विकाः–
कन्दर्प विन्दति मुकुन्द-पदारविन्द-
द्वन्द्वे दृशोः पदम् असौ किल निष्प्रकम्पा ।
प्रालेय-बिन्दु-निचितं धृत-कण्टका ते
स्विन्नाद्य कण्टकि-फलं तनुर् अन्वकार्षीत् ॥ र्भ्र्स्_३,२।१६२ ॥

अथ व्यभिचारिणः–
अनन्तरोक्ताः सर्वे ऽत्र भवन्ति व्यभिचारिणः ॥ र्भ्र्स्_३,२।१६३ ॥

तत्र हर्षो, यथा–
दूरे दरेन्द्रस्य नभस्य् उदीर्णे
ध्वनौ स्थितानां यदु-राजधन्याम् ।
तनूरुहैस् तत्र कुमारकाणां
नटैश् च हृष्यद्भिर् अकारि नृत्यम् ॥ र्भ्र्स्_३,२।१६४ ॥

निर्वेदो, यथा–
धन्यः साम्ब भवान् स-रिङ्गणम् अयन् पार्श्वे रजः-कर्बूरो
यस् तातेन विकृष्य वत्सलतया स्वोत्सङ्गम् आरोपितः ।
धिङ् मां दुर्भगम् अत्र शङ्कर-मयैर् दुर्दैव-विस्फूर्जितैः
प्राप्ता न क्षणिकापि लालन-रतिः सा येन बाल्ये पितुः ॥ र्भ्र्स्_३,२।१६५ ॥

अथ स्थायी–
देह-सम्बन्धितामानाद् गुरु-धीर् अत्र गौरवम् ।
तन्मयी लालके प्रीतिर् गौरव-प्रीतिर् उच्यते ॥ र्भ्र्स्_३,२।१६६ ॥
स्थायि-भावो ऽत्र सा चैषाम् आमूलात् स्वयम् उच्छ्रिता ।
कञ्चिद् विशेषम् आपन्ना प्रेमेति स्नेह इत्य् अपि ।
राग इत्य् उच्यते चात्र गौरव-प्रीतिर् एव सा ॥ र्भ्र्स्_३,२।१६७ ॥

तत्र गौरव-प्रीतिः, यथा–
मुद्रां भिनत्ति न रद-च्छदयोर् अमन्दां
वक्त्रं च नोन्नमयति स्रवद्-अस्र-कीर्णम् ।
धीरः परं किम् अपि सङ्कुचतीं झषाङ्को
दृष्टिं क्षिपत्य् अघभिदश् चरणारविन्दे ॥ र्भ्र्स्_३,२।१६८ ॥

प्रेमा, यथा–
द्विषद्भिः क्षोदिष्ठैर् जगद्-अविहितेच्छस्य भवतः
कराद् आकृष्यैव प्रसभम् अभिमन्याव् अपि हते ।
सुभद्रायाः प्रीतिर् दनुज-दमन त्वद्-विषयिका
प्रपेदे कल्याणी न हि मलिनिमानं लवम् अपि ॥ र्भ्र्स्_३,२।१६९ ॥

स्नेहो, यथा–
विमुञ्च पृथु-वेपथुं विसृज कण्ठाकुःठायितं
विमृज्य मयि निक्षिप प्रसरद्-अश्रु-धारे दृशौ ।
करं च मकर-ध्वज प्रकट-कण्टकालङ्कृतं
निधेहि सविधे पितुः कथय वत्स कः सम्भ्रमः ॥ र्भ्र्स्_३,२।१७० ॥

रागो, यथा–
विषम् अपि सहसा सुधाम् इवायं
निपिबति चेत् पितुर् इङ्गितं झषाङ्कः ।
विसृजति तद्-असम्मतिर् यदि स्याद्
विषम् इव तां तु सुधां स एव सद्यः ॥ र्भ्र्स्_३,२।१७१ ॥

त्रिष्व् एवायोग-योगाद्या भेदाः पूर्ववद् ईरिताः ॥ र्भ्र्स्_३,२।१७२ ॥

तत्र उत्कण्ठितम्, यथा–
शम्बरः सुमुखि लब्ध-दुर्विपड्-
डम्बरः स रिपुर् अम्बरायितः ।
अम्बु-राज-महसं कदा गुरुः
कम्बु-राज-करम् ईक्षितास्महे ॥ र्भ्र्स्_३,२।१७३ ॥

अथ वियोगः–
मनो ममेष्टाम् अपि गेण्डु-लीलां
न वष्टि योग्यां च तथास्त्र-योग्याम् ।
गुरौ पुरं कौरवम् अभ्युपेते
काराम् इव द्वारवतीम् अवैति ॥ र्भ्र्स्_३,२।१७४ ॥

सिद्धिः–
मिलितः शम्बर-पुरतो मदनः पुरतो विलोकयन् पितरम् ।
को ऽहम् इति स्वं प्रमदान् न धीर् अधीर् अप्य् असौ वेद ॥ र्भ्र्स्_३,२।१७५ ॥

तुष्टिः–
मिलितम् अधिष्ठित-गरुडं प्रेक्ष्य युधिष्ठिर-पुरान् मुरारातिम् ।
अजनि मुदा यदु-नगरे सम्भ्रम-भूमा कुमाराणाम् ॥ र्भ्र्स्_३,२।१७६ ॥

स्थितिः–
कुञ्चयन्न् अक्षिणी किञ्चिद् बाष्प-निष्पन्दि-पक्षिणी ।
वन्दते पादयोर् द्वन्द्वं पितुः प्रति-दिनं स्मरः ॥ र्भ्र्स्_३,२।१७७ ॥

उत्कण्ठित-वियोगाद्ये यद् यद् विस्तारितं न हि ।
सम्भ्रम-प्रीतिवज् ज्ञेयं तत् तद् एवाखिलं बुधैः ॥ र्भ्र्स्_३,२।१७८ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे
प्रीति-भक्ति-रस-लहरी द्वितीया ।


(३।३)
प्रेयो-भक्ति-रसाख्या तृतीय-लहरी

स्थायि-भावो विभावाद्यैः सख्यम् आत्मोचितैर् इह ।
नीतश् चित्ते सतां पुष्टिं रसः प्रेयान् उदीर्यते ॥ र्भ्र्स्_३,३।१ ॥

तत्र आलम्बनाः–
हरिश् च तद्-वयस्याश् च तस्मिन्न् आलम्बना मताः ॥ र्भ्र्स्_३,३।२ ॥

तत्र हरिः–
द्विभुजत्वादि-भाग् अत्र प्राग्वद् आलम्बनो हरिः ॥ र्भ्र्स्_३,३।३ ॥

तत्र व्रजे, यथा–
महेन्द्र-मणि-मञ्जुल-द्युतिर् अमन्द-कुन्द-स्मितः
स्फुरत्-पुरट-केतकी-कुसुम-रम्य-पट्टाम्बरः ।
स्रग्-उल्लसद्-उरः-स्थलः क्वणित-वेणुर् अत्राव्रजन्
व्रजाद् अघहरो हरत्य् अहह नः सखीनां मनः ॥ र्भ्र्स्_३,३।४ ॥

अन्यत्र, यथा–
चञ्चत्-कौस्तुभ-कौमुदी-समुदयं कौमोदकी-चक्रयोः
सख्येनोज्ज्वलितैस् तथा जलजयोर् आढ्यं चतुर्भिर् भुजैः ।
दृष्ट्वा हारि-हरिन्-मणि-द्युति-हरं शौरिं हिरण्याम्बरं
जग्मुः पाण्डु-सुताः प्रमोद-सुधया नैवात्म-सम्भावनाम् ॥ र्भ्र्स्_३,३।५ ॥

सुवेषः सर्व-सल्-लक्ष्म-लक्षितो बलिनां वरः ।
विविधाद्भुत-भाषा-विद् वावदूकः सुपण्डितः ॥ र्भ्र्स्_३,३।६ ॥
विपुल-प्रतिभो दक्षः करुणो वीर-शेखरः ।
विदग्धो बुद्धिमान् क्षन्ता रक्त-लोकः समृद्धिमान् ।
सुखी वरीयान् इत्य् आद्या गुणास् तस्येह कीर्तिता ॥ र्भ्र्स्_३,३।७ ॥

अथ तद्-वयस्याः–
रूप-वेष-गुणाद्यैस् तु समाः सम्यग्-अयन्त्रिताः ।
विश्रम्भ-सम्भृतात्मानो वयस्यास् तस्य कीर्तिताः ॥ र्भ्र्स्_३,३।८ ॥

यथा–
साम्येन भीति-विधुरेण विधीयमान-
भक्ति-प्रपञ्चम् अनुदञ्चद्-अनुग्रहेण ।
विश्रम्भ-सार-निकुरम्ब-करम्बितेन
वन्देतराम् अघहरस्य वयस्य-वृन्दम् ॥ र्भ्र्स्_३,३।९ ॥

ते पुर-व्रज-सम्बन्धाद् द्वि-विधाः प्राय ईरिताः ॥ र्भ्र्स्_३,३।१० ॥

तत्र पुर-सम्बन्धिनः–
अर्जुनो भीमसेनश् च दुहिता द्रुपदस्य च ।
श्रीदाम-भूसुराद्याश् च सखायः पुर-संश्रयाः ॥ र्भ्र्स्_३,३।११ ॥

एषां सख्यम्, यथा–
शिरसि नृपतिर् द्रग् अघ्रासीद् अघारिम् अधीर-धीर्
भुज-परिघयोः श्लिष्टौ भीमार्जुनौ पुलकोज्ज्वलौ ।
पद-कमलयोः सास्रौ दस्रात्मजौ च निपेततुस्
तम् अवशाधियः प्रौढानन्दाद् अरुन्धत पाण्डवाः ॥ र्भ्र्स्_३,३।१२ ॥

श्रेष्ठः पुर-वयस्येषु भगवान् वानरध्वजः ॥ र्भ्र्स्_३,३।१३ ॥

अस्य रूपम्, यथा–
गाण्डीव-पाणिः करि-राज-शुण्डा-
रम्योरुर् इन्दीवर-सुन्दराभः ।
रथाङ्गिना रत्न-रथाधिरोही
स रोहिताक्षः सुतराम् अराजीत् ॥ र्भ्र्स्_३,३।१४ ॥

सख्यम्, यथा–
पर्यङ्के महति सुरारि-हन्तुर् अङ्के
निःशङ्क-प्रणय-निसृष्ट-पूर्व-कायः ।
उन्मीलन्-नव-नर्म-कर्मठो ऽयं
गाण्डीवी स्मित-वदनाम्बुजो व्यराजीत् ॥ र्भ्र्स्_३,३।१५ ॥

अथ व्रज-सम्बन्धिनः–
क्षणादर्शनतो दीनाः सदा सह-विहारिणः ।
तद्-एक-जीविताः प्रोक्ता वयस्या व्रज-वासिनः ।
अतः सर्व-वयस्येषु प्रधानत्वं भजन्त्य् अमी ॥ र्भ्र्स्_३,३।१६ ॥

एषां रूपम्, यथा–
बलानुज-सदृग्-वयो-गुण-विलास-वेष-श्रियः
प्रियङ्करण-वल्लकी-दल-विषाण-वेण्व्-अङ्किताः ।
महेन्द्र-मणि-हाटक-स्फटिक-पद्म-राग-त्विषः
सदा प्रणय-शालिनः सहचरा हरेः पान्तु वः ॥ र्भ्र्स्_३,३।१७ ॥

सख्यम्, यथा–
उन्निद्रस्य ययुस् तवात्र विरतिं सप्त-क्षपास् तिष्ठतो
हन्त श्रान्त इवासि निक्षिप सखे श्रीदाम-पाणौ गिरिम् ।
आधिर् विध्यति नस् त्वम् अर्पय करे किं वा क्षणं दक्षिणे
दोष्णस् ते करवाम कामम् अधुना सव्यस्य संवाहनम् ॥ र्भ्र्स्_३,३।१८ ॥

यथा वा श्री-दशमे (१०।१२।११)–
इत्थं सतां ब्रह्म-सुखानुभूत्या
दास्यं गतानां पर-दैवतेन ।
मायाश्रितानां नर-दारकेण
साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥ र्भ्र्स्_३,३।१९ ॥

एषु कृष्णस्य सख्यम्, यथा–
सहचर-निकुरम्बं भ्रातर् आर्य प्रविष्टं
द्रुतम् अघ-जठरान्तः-कोटरे प्रेक्षमाणः ।
स्खलद्-अशिशिर-बाष्प-क्षालित-क्षाम-गण्डः
क्षणम् अहम् अवसीदन् शून्य-चित्तस् तदासम् ॥ र्भ्र्स्_३,३।२० ॥

सुहृदश् च सखायश् च तथा प्रिय-सखाः परे ।
प्रिय-नर्म-वयस्याश् चेत्य् उक्ता गोष्ठे चतुर्-विधाः ॥ र्भ्र्स्_३,३।२१ ॥

तत्र सुहृदः–
वात्सल्य-गन्धि-सख्यां तु किञ्चित् ते वयसाधिकाः ।
सायुधास् तस्य दुष्टेभ्यः सदा रक्षा-परायणाः ॥ र्भ्र्स्_३,३।२२ ॥
सुभद्र-मण्डलीभद्र-भद्रवर्धन-गोभटाः ।
यक्षेन्द्रभट-भद्राङ्ग-वीरभद्रा महा-गुणाः ।
विजयो बलभद्राद्याः सुहृदस् तस्य कीर्तिताः ॥ र्भ्र्स्_३,३।२३ ॥

एषां सख्यम्, यथा–
धुन्वन् धावसि मण्डलाग्रम् अमलं त्वं मण्डलीभद्र किं
गुर्वीं नार्य गदां गृहाण विजय क्षोभं वृथा मा कृथाः ।
शक्तिं न क्षिप भद्रवर्धन पुरो गोवर्धनं गाहते
गर्जन्न् एष घनो बली न तु बलीवर्दाकृतिर् दानवः ॥ र्भ्र्स्_३,३।२४ ॥

सुहृत्सु मण्डलीभद्र-बलभद्रौ किलोत्तमौ ॥ र्भ्र्स्_३,३।२५ ॥

अत्र मण्डलीभद्रस्य रूपम्, यथा–
पाटल-पटल-सद्-अङ्गो लकुट-करः शेखरी शिखण्डेन ।
द्युति-मण्डली-मलि-निभां भाति दधन् मण्डलीभद्रः ॥ र्भ्र्स्_३,३।२६ ॥

अस्य सख्यम्, यथा–
वन-भ्रमण-केलिभिर् गुरुभिर् अह्नि खिन्नीकृतः
सुखं स्वपितु नः सुहृद् व्रज-निशान्त-मध्ये निशि ।
अहं शिरसि मर्दनं मृदु करोमि कर्णे कथां
त्वम् अस्य विसृजन्न् अलं सुबल सक्थिनी लालय ॥ र्भ्र्स्_३,३।२७ ॥

बलदेवस्य रूपम्, यथा–
गण्डान्तः-स्फुरद्-एक-कुण्डलम् अलि-च्छन्नावतंसोत्पलं
कस्तूरी-कृत-चित्रकं पृथु-हृदि भ्राजिष्णु गुञ्जा-स्रजम् ।
तं वीरं शरद्-अम्बुद-द्युति-भरं संवीत-कालाम्बरं
गम्भीर-स्वनितं प्रलम्ब-भुजम् आलम्बे प्रलम्ब-द्विषम् ॥ र्भ्र्स्_३,३।२८ ॥

अस्य सख्यम्, यथा–
जनि-तिथिर् इति पुत्र-प्रेम-संवीतयाहं
स्नपयितुम् इह सद्मन्य् अम्बया स्तम्भितो ऽस्मि ।
इति सुबल गिरा मे सन्दिश त्वं मुकुन्दं
फणि-पति-ह्रद-कच्छे नाद्य गच्छेः कदापि ॥ र्भ्र्स्_३,३।२९ ॥

अत्र सखायः–
कनिष्ठ-कल्पाः सख्येन सम्बन्धाः प्रीति-गन्धिना ।
विशाल-वृषभौर्जस्वि-देवप्रस्थ-वरूथपाः ॥ र्भ्र्स्_३,३।३० ॥
मरन्द-कुसुमापीड-मणिबन्ध-करन्धमाः ।
इत्य्-आदयः सखायो ऽस्य सेवा-सख्यैक-रागिणः ॥ र्भ्र्स्_३,३।३१ ॥

एषां सख्यम्, यथा–
विशाल विसिनी-दलैः कलय वीजन-प्रक्रियां
वरूथप विलम्बितालक-वरूथम् उत्सारय ।
मृषा वृषभ जल्पितं त्यज भजाङ्ग-संवाहनं
यद् उग्र-भुज-सङ्गरे गुरुम् अगात् क्लमं नः सखा ॥ र्भ्र्स्_३,३।३२ ॥

सर्वेषु सखिषु श्रेष्ठो देवप्रस्थो ऽयम् ईरितः ॥ र्भ्र्स्_३,३।३३ ॥

तस्य रूपम्, यथा–
बिभ्रद् गेण्डुं पाण्डुरोद्भास-वासाः
पाशा-बद्धोत्तुङ्ग-मौलिर् बलीयान् ।
बन्धूकाभः सिन्धुर् अस्पर्धि-लीलो
देवप्रस्थः कृष्ण-पार्श्वं प्रतस्थे ॥ र्भ्र्स्_३,३।३४ ॥

अस्य सख्यम्, यथा–
श्रीदाम्नः पृथुलां भुजाम् अभि शिरो विन्यस्य विश्रामिणं
दाम्नः सव्य-करेण रुद्ध-हृदयं शय्या-विराजत्-तनुम् ।
मध्ये सुन्दरि कन्दरस्य पदयोः संवाहनेन प्रियं
देवप्रस्थ इतः कृती सुखयति प्रेम्णा व्रजेन्द्रात्मजम् ॥ र्भ्र्स्_३,३।३५ ॥

अथ प्रिय-सखाः–
वयस्-तुल्याः प्रिय-सखा सख्यं केवलम् आश्रिताः ।
श्रीदामा च सुदामा च दामा च वसुदामकः ॥ र्भ्र्स्_३,३।३६ ॥
किङ्किणि-स्तोककृष्णांशु-भद्रसेन-विलासिनः ।
पुण्डरीक-विटङ्काक्ष-कलविङ्कादयो ऽप्य् अमी ॥ र्भ्र्स्_३,३।३७ ॥
रमयन्ति प्रिय-सखाः केलिभिर् विविधैः सदा ।
नियुद्ध-दण्ड-युद्धादि-कौतुकैर् अपि केशवम् ॥ र्भ्र्स्_३,३।३८ ॥

एषां सख्यम्, यथा–
सगद्गद-पदैर् हरिं हसति को ऽपि वक्रोदितैः
प्रसार्य भुजयोर् युगं पुलकि कश्चिद् आश्लिष्यति ।
करेण चलता दृशौ निभृतम् एत्य रुन्धे परः
कृशाङ्गि सुखयन्त्य् अमी प्रिय-सखाः सखायं तव ॥ र्भ्र्स्_३,३।३९ ॥

एषु प्रिय-वयस्येषु श्रीदामा प्रवरो मतः ॥ र्भ्र्स्_३,३।४० ॥

तस्य रूपम्, यथा–
वासः पिङ्गं बिभ्रतं शृङ्ग-पाणिं
बद्ध-स्पर्धं सौहृदान् माधवेन ।
ताम्रोष्णीषं श्याम-धामाभिरामं
श्रीदामानं दाम-भाजं भजामि ॥ र्भ्र्स्_३,३।४१ ॥

सख्यम्, यथा–
त्वं नः प्रोज्झ्य कठोर यामुन-तटे कस्माद् अकस्माद् गतो
दिष्ट्या दृष्टिम् इतो ऽसि हन्त निविडाश्लेषैः सखीन् प्रीणय ।
ब्रूमः सत्यम् अदर्शने तव मनाक् का धेनवः के वयं
किं गोष्ठं किम् अभीष्टम् इत्य् अचिरतः सर्वं विपर्यस्यति ॥ र्भ्र्स्_३,३।४२ ॥

अथ प्रिय-नर्म-वयस्याः–
प्रिय-नर्म-वयस्यास् तु पूर्वतो ऽप्य् अभितो वराः ।
आत्यन्तिक-रहस्येषु युक्ता भाव-विशेषिणः ।
सुबलार्जुन-गन्धर्वास् ते वसन्तोज्ज्वलादयः ॥ र्भ्र्स्_३,३।४३ ॥

एषां सख्यम्, यथा–
राधा-सन्देश-वृन्दं कथयति सुबलः पश्य कृष्णस्य कर्णे
श्यामा-कन्दर्प-लेखं निभृतम् उपहरत्य् उज्ज्वलः पाणि-पद्मे ।
पाली-ताम्बूलम् आस्ये वितरति चतुरः कोकिलो मूर्ध्नि धत्ते
तारा-दामेति नर्म-प्रणयि-सहचरास् तन्वि तन्वन्ति सेवाम् ॥ र्भ्र्स्_३,३।४४ ॥

प्रिय-नर्म-वयस्येषु प्रबलौ सुबलार्जुनौ ॥ र्भ्र्स्_३,३।४५ ॥

तत्र सुबलस्य रूपम्, यथा–
तनु-रुचि-विजित-हिरण्यं
हरि-दयितं हारिणं हरिद्-वसनम् ।
सुबलं कुवलय-नयनं
नय-नन्दित-बान्धवं वन्दे ॥ र्भ्र्स्_३,३।४६ ॥

अस्य सख्यम्, यथा–
वयस्य-गोष्ठ्याम् अखिलेङ्गितेषु
विशारदायाम् अपि माधवस्य ।
अन्यैर् दुरूहा सुबलेन सार्धं
सञ्ज्ञा-मयी कापि बभूव वार्ता ॥ र्भ्र्स्_३,३।४७ ॥

उज्ज्वलस्य रूपम्, यथा–
अरुणाम्बरम् उच्चलेक्षणं
मधु-पुष्प-बलिभिः प्रसाधितम् ।
हरि-नील-रुचिं हरि-प्रियं
मणि-हारोज्ज्वलम् उज्ज्वलं भजे ॥ र्भ्र्स्_३,३।४८ ॥

अस्य सख्यम्, यथा–
शक्तास्मि मानम् अवितुं कथम् उज्ज्वलो ऽयं
दूतः समेति सखि यत्र मिलत्य् अदूरे ।
सापत्रपापि कुलजापि पतिव्रतापि
का वा वृषस्यति न गोप-वृषं किशोरी ॥ र्भ्र्स्_३,३।४९ ॥

उज्ज्वलो ऽयं विशेषेण सदा नर्मोक्ति-लालसः ॥ र्भ्र्स्_३,३।५० ॥

यथा–
स्फुरद्-अतनु-तरङ्गावर्धितानल्प-वेलः
सुमधुर-रस-रूपो दुर्गमावार-पारः ।
जगति युवति-जातिर् निम्नगा त्वं समुद्रस्
तद् इयम् अघहर त्वाम् एति सर्वाध्वनैव ॥ र्भ्र्स्_३,३।५१ ॥

एतेषु के ऽपि शास्त्रेषु के ऽपि लोकेषु विश्रुताः ॥ र्भ्र्स्_३,३।५२ ॥
नित्य-प्रियाः सुर-चराः साधकाश् चेति ते त्रिधा ।
केचिद् एषु स्थिरा जात्या मन्त्रिवत् तम् उपासते ॥ र्भ्र्स्_३,३।५३ ॥
तं हासयन्ति चापलाः केचिद् वैहासिकोपमाः ।
केचिद् आर्जव-सारेण सरलाः शीलयन्ति तम् ॥ र्भ्र्स्_३,३।५४ ॥
वामा वक्रिम-चक्रेण केचिद् विस्माययन्त्य् अमुम् ।
केचित् प्रगल्भाः कुर्वन्ति वितण्डाम् अमुना ।
सौम्याः सूनृतया वाचा धन्या धिन्वन्ति तं परे ॥ र्भ्र्स्_३,३।५५ ॥
एवं विविधया सर्वे प्रकृत्या मधुरा अमी ।
पवित्र-मैत्री-वैचित्री-चारुताम् उपचिन्वते ॥ र्भ्र्स्_३,३।५६ ॥

अथ उद्दीपनाः–
उद्दीपना वयो-रूप-शृङ्ग-वेणु-दरा हरेः ।
विनोद-नर्म-विक्रान्ति-गुणाः प्रेष्ठ-जनास् तथा ।
राज-देवावतारादि-चेष्टानुकरणादयः ॥ र्भ्र्स्_३,३।५७ ॥

अथ वयः–
वयः कौमार-पौगण्ड-कैशोरं चेह सम्मतम् ।
गोष्ठे कौमार-पौगण्डे कैशोरं पुर-गोष्ठयोः ॥ र्भ्र्स्_३,३।५८ ॥

तत्र कौमारम्, यथा–
कौमारं वत्सले वाच्यं ततः सङ्क्षिप्य लिख्यते ॥ र्भ्र्स्_३,३।५९ ॥

यथा श्री-दशमे (१०।१३।११)–
बिभ्रद् वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे
वामे पाणौ मसृण-कवलं तत्-फलान्य् अङ्गुलीषु ।
तिष्ठन् मध्ये स्व-परिसुहृदो हासयन् नर्मभिः स्वैः
स्वर्गे लोके मिषति बुभुजे यज्ञ-भुग् बाल-केलिः ॥ र्भ्र्स्_३,३।६० ॥

अथ पौगण्डम्–
आद्यं मध्यं तथा शेषं पौगण्डं च त्रिधा भवेत् ॥ र्भ्र्स्_३,३।६१ ॥

तत्र आद्यं पौगण्डं–
अधरादेः सुलौहित्यं जठरस्य च तानवम् ।
कम्बु-ग्रीवोद्गमाद्यं च पौगण्डे प्रथमे सति ॥ र्भ्र्स्_३,३।६२ ॥

यथा–
तुन्दं विन्दति ते मुकुन्द शनकैर् अश्वत्थ-पत्र-श्रियं
कण्ठं कम्बुवद् अम्बुजाक्ष भजते रेखा-त्रयीम् उज्ज्वलाम् ।
आरुन्धे कुरुविन्द-कन्दल-रुचिं भू-चन्द्र दन्त-च्छदो
लक्ष्मीर् आधुनिकी धिनोति सुहृदाम् अक्षीणि सा काप्य् असौ ॥ र्भ्र्स्_३,३।६३ ॥

पुष्प-मण्डन-वैचित्री चित्राणि गिरि-धातुभिः ।
पीत-पट्ट-दुकूलाद्यम् इह प्रोक्तं प्रसाधनम् ॥ र्भ्र्स्_३,३।६४ ॥
सर्वाटवी-प्रचारेण नैचिकी-चय-चारणम् ।
नियुद्ध-केलि-नृत्यादि-शिक्षारम्भो ऽत्र चेष्टितम् ॥ र्भ्र्स्_३,३।६५ ॥

यथा–
वृन्दारण्ये समस्तात् सुरभिणि सुरभी-वृन्द-रक्षा-विहारी
गुञ्जाहारी शिखण्ड-प्रकटित-मुकुटः पीत-पट्टाम्बर-श्रीः ।
कर्णाभ्यां कर्णिकारे दधद् अलम् उरसा फुल्ल-मल्लीक-माल्यं
नृत्यन् दोर्-युद्ध-रङ्गे नटवद् इह सखीन् नन्दयत्य् एष कृष्णः ॥ र्भ्र्स्_३,३।६६ ॥

अथ मध्य-पौगण्डम्–
नासा सुशिखरा तुङ्गा कपोलौ मण्डलाकृती ।
पार्श्वाद्य्-अङ्गं सुवलितं पौगण्डे सति मध्यमे ॥ र्भ्र्स्_३,३।६७ ॥

यथा–
तिल-कुसुम-विहासि-नासिका-श्रीर्
नव-मणि-दर्पण-दर्प-नाशि-गण्डः ।
हरिर् इह परिमृष्ट-पार्श्व-सीमा
सुखयति सुष्ठु सखीन् स्व-शोभयैव ॥ र्भ्र्स्_३,३।६८ ॥

उष्णीषं पट्ट-सूत्रोत्थ-पाशेनात्र तडित्-त्विषा ।
यष्टिः श्यामा त्रि-हस्तोच्चा स्वर्णाग्रेत्य् आदि-मण्डनम् ।
भाण्डीरे क्रीडनं शैलोद्धारणाद्यं च चेष्टितम् ॥ र्भ्र्स्_३,३।६९ ॥

यथा–
यष्टिं हस्त-त्रय-परिमितां प्रान्तयोः स्वर्ण-बद्धां
बिभ्रल्-लीलां चटुल-चमरी-चारु-चूडोज्ज्वल-श्रीः ।
बद्धोष्णीषः पुरट-रुचिना पट्टि-पाशेन पार्श्वे
पश्य क्रीडन् सुखयति सखे मित्र-वृन्दं मुकुन्दः ॥ र्भ्र्स्_३,३।७० ॥

पौगण्ड-मध्य एवायं हरिर् दीव्यन् विराजते ।
माधुर्याद्भुत-रूपत्वात् कैशोराग्रांश-भाग् इव ॥ र्भ्र्स्_३,३।७१ ॥

अथ शेष-पौगण्डम्–
वेणी नितम्ब-लम्बाग्रा लीलालक-लता-द्युति ।
अंसयोस् तुङ्गतेत्य् आदि पौगण्डे चरमे सति ॥ र्भ्र्स्_३,३।७२ ॥

यथा–
अग्रे लीलालक-लतिकयालङ्कृतं बिभ्रद् आस्यं
चञ्चद्-वेणी-शिखर-शिखया चुम्बित-श्रेणि-बिम्बः ।
उत्तुङ्गांस-च्छविर् अघहरो रङ्गम् अङ्ग-श्रियैव
न्यस्यन्न् एव प्रिय-सवयसां गोकुलान् निर्जिहीते ॥ र्भ्र्स्_३,३।७३ ॥

उष्णीषे वक्रिमा लीला-सरसी-रुह-पाणिता ।
काश्मीरेणोर्ध्व-पुण्ड्राद्यम् इह मण्डनम् ईरितम् ॥ र्भ्र्स्_३,३।७४ ॥

यथा–
उष्णीषे दर-वक्रिमा कर-तले व्याजृम्भि-लीलाम्बुजं
गौर-श्रीर् अलिके किलोर्ध्व-तिलकः कस्तूरिका-बिन्दुमान् ।
वेषः केशव पेशलः सुबलम् अप्य् आघूर्णयत्य् अद्य ते
विक्रान्तं किम् उत स्वभाव-मृदुलां गोष्ठाबलानां ततिम् ॥ र्भ्र्स्_३,३।७५ ॥

अत्र भङ्गी गिरां नर्म-सखैः कर्ण-कथा-रसः ।
एषु गोकुल-बालानां श्री-श्लाघेत्य्-आदि-चेष्टितम् ॥ र्भ्र्स्_३,३।७६ ॥

यथा–
धूर्तस् त्वं यद् अवैषि हृद्-गतम् अतः कर्णे तव व्याहरे
केयं मोहनता-समृद्धिर् अधुना गोधुक्-कुमारी-गणे ।
अत्रापि द्युति-रत्न-रोहण-भुवो बालाः सखे पञ्च-षाः
पञ्चेषुर् जगतां जये निज-धुरां यत्रार्पयन् माद्यति ॥ र्भ्र्स्_३,३।७७ ॥

अथ कैशोरम्–
कैशोरं पूर्वम् एवोक्तं सङ्क्षेपेणोच्यते ततः ॥ र्भ्र्स्_३,३।७८ ॥

यथा–
पश्योत्सिक्त-बली-त्रयी-वर-लते वासस् तडिन्-मञ्जुले
प्रोन्मीलद्-वन-मालिका-परिमल-स्तोमे तमाल-त्विषि ।
उक्षत्य् अम्बक-चातकान् स्मित-रसैर् दामोदराम्भोधरे
श्रीदामा रमणीय-रोम-कलिकाकीर्णाङ्ग-शाखी बभौ ॥ र्भ्र्स्_३,३।७९ ॥
प्रायः किशोर एवायं सर्व-भक्तेषु भासते ।
तेन यौवन-शोभास्य नेह काचित् प्रपञ्चिता ॥ र्भ्र्स्_३,३।८० ॥

अथ रूपम्, यथा–
अलङ्कारम् अलङ्कृत्वा तवाङ्गं पङ्कजेक्षण ।
सखीन् केवलम् एवेदं धाम्ना धीमन् धिनोति नः ॥ र्भ्र्स्_३,३।८१ ॥

अथ शृङ्गम्, यथा–
व्रज-निज-वडभी-वितर्दिकायाम्
उषसि विषाण-वरे रुवत्य् उदग्रम् ।
अहह सवयसां तदीय-रोम्णाम्
अपि निवहाः समम् एव जाग्रति स्म ॥ र्भ्र्स्_३,३।८२ ॥

वेणुर्, यथा–
सुहृदो न हि यात कातरा
हरिम् अन्वेष्टुम् इतः सुतां रवेः ।
कथयन्न् अमुम् अत्र वैणव-
ध्वनि-दूतः शिखरे धिनोति नः ॥ र्भ्र्स्_३,३।८३ ॥

शङ्खो, यथा–
पाञ्चाली-पतयः श्रुत्वा पाञ्चजन्यस्य निस्वनम् ।
पञ्चास्य पश्य मुदिताः पञ्चास्य-प्रतिमां ययुः ॥ र्भ्र्स्_३,३।८४ ॥

विनोदो, यथा–
स्फुरद्-अरुण-दुकूलं जागुडैर् गौर-गात्रं
कृत-वर-कवरीकं रत्न-ताटङ्क-कर्णम् ।
मधुरिपुम् इह राधा-वेषम् उद्वीक्ष्य साक्षात्
प्रिय-सखि सुबलो ऽभूद् विस्मितः स-स्मितश् च ॥ र्भ्र्स्_३,३।८५ ॥

अथानुभावाः–
नियुद्ध-कन्दुक-द्यूत-वाह्य-वाहादि-केलिभिः ।
लगुडालगुडि-क्रीडा-सङ्गरैश् चास्य तोषणम् ॥ र्भ्र्स्_३,३।८६ ॥
पल्यङ्कासन-दोलासु सह-स्वापोपवेशनम् ।
चारु-चित्र-परीहासो विहारः सलिलाशये ॥ र्भ्र्स्_३,३।८७ ॥
युग्मत्वे लास्य-गानाद्याः सर्व-साधारणाः क्रियाः ॥ र्भ्र्स्_३,३।८८ ॥

तत्र नियुद्धेन तोषणम्, यथा–
अघहर जितकाशी युद्ध-कण्डूल-बाहुस्
त्वम् अटसि सखि-गोष्ठ्याम् आत्म-वीर्यं स्तुवानः ।
कथय किम् उ ममोच्चैश् चण्ड-दोर्-दण्ड-चेष्टा-
विरमित-रण-रङ्गो निःसहाङ्गः स्थितो ऽसि ॥ र्भ्र्स्_३,३।८९ ॥

युक्तायुक्तादि-कथनं हित-कृत्ये प्रवर्तनम् ।
प्रायः पुरःसरत्वाद्याः सुहृदाम् ईरिताः क्रियाः ॥ र्भ्र्स्_३,३।९० ॥
ताम्बुलाद्य्-अर्पणं वक्त्रे तिलक-स्थासक-क्रिया ।
पत्राङ्कुर-विलेखादि सखीनां कर्म कीर्तितम् ॥ र्भ्र्स्_३,३।९१ ॥
निर्जिती-करणं युद्धे वस्त्रे धृत्वास्य कर्षणम् ।
पुष्पाद्य्-आच्छेदनं हस्तात् कृष्णेन स्व-प्रसाधनम् ।
हस्ताहस्ति-प्रसङ्गाद्याः प्रोक्ताः प्रिय-सख-क्रियाः ॥ र्भ्र्स्_३,३।९२ ॥
दूत्यं व्रज-किशोरीषु तासां प्रणय-गामिता ।
ताभिः केलि-कलौ साक्षात् सख्युः पक्ष-परिग्रहः ॥ र्भ्र्स्_३,३।९३ ॥
असाक्षात् स्व-स्व-यूथेशा-पक्ष-स्थापन-चातुरी ।
कर्णाकर्णि-कथाद्याश् च प्रिय-नर्म-सख-क्रियाः ॥ र्भ्र्स्_३,३।९४ ॥
वन्य-रत्नालङ्कारैर् माधवस्य प्रसाधनम् ।
पुरस् तौर्यत्रिकं तस्य गवां सम्भालन-क्रियाः ॥ र्भ्र्स्_३,३।९५ ॥
अङ्ग-संवाहनं माल्य-गुम्फनं बीजनादयः ।
एताः साधारणा दासैर् वयस्यानां क्रिया मताः ।
पूर्वोक्तेष्व् अपराश् चात्र ज्ञेया धीरैर् यथोचितम् ॥ र्भ्र्स्_३,३।९६ ॥

अथ सात्त्विकाः, तत्र स्तम्भो, यथा–
निष्क्रामन्तं नागम् उन्मथ्य कृष्णं
श्रीदामायं द्राक् परिष्वक्तु-कामः ।
लब्ध-स्तम्भौ सम्भ्रमारम्भ-शाली
बाहु-स्तम्भौ पश्य नोत्क्षेप्तुम् ईष्टे ॥ र्भ्र्स्_३,३।९७ ॥

स्वेदो, यथा–
क्रीडोत्सवानन्द-रसं मुकुन्दे
स्वात्य्-अम्बुदे वर्षति रम्य-घोषे ।
श्रीदाम-मूर्तिर् वर-शुक्तिर् एषा
स्वेदाम्बु-मुक्ता-पटलीं प्रसूते ॥ र्भ्र्स्_३,३।९८ ॥

रोमाञ्चो, यथा दान-केलि-कौमुद्याम् (३७)–
अपि गुरु-पुरस् त्वाम् उत्सङ्गे निधाय विसङ्कटे
विपुल-पुलकोल्लासं स्वरा परिष्वजते हरिः ।
प्रणयति तव स्कन्धे चासौ भुजं भुजगोपमं
क्व सुबल पुरा सिद्ध-क्षेत्रे चकथ कियत्-तपः ॥ र्भ्र्स्_३,३।९९ ॥
स्वर-भेदादि चतुष्कम्, यथा–
प्रविष्टवति माधवे भुजग-राज-भाजं ह्रदं
तदीय-सुहृदस् तदा पृथुल-वेपथु-व्याकुलाः ।
विवर्ण-वपुषः क्षणाद् विकट-घर्घर-ध्मायिनो
निपत्य निकट-स्थली-भुवि सुषुप्तिम् आरेभिरे ॥ र्भ्र्स्_३,३।१०० ॥

अश्रु, यथा–
दावं समीक्ष्य विचरन्तम् इषीक-तुलैस्
तस्य क्षयार्थम् इव बाष्प-झरं किरन्ती ।
स्वाम् अप्य् उपेक्ष्य तनुम् अम्बुज-माल-भारिण्य्
आभीर-वीथिर् अभितो हरिम् आवरिष्ट ॥ र्भ्र्स्_३,३।१०१ ॥

अथ व्यभिचारिणः–
औग्र्यं त्रासं तथालस्यं वर्जयित्वाखिलाः परे ।
रसे प्रेयसि भाव-ज्ञैः कथिता व्यभिचारिणः ॥ र्भ्र्स्_३,३।१०२ ॥
तत्रायोगे मदं हर्षं गर्वं निद्रां धृतिं विना ।
योगे मृतिं क्लमं व्याधिं विनापस्मृति-दीनते ॥ र्भ्र्स्_३,३।१०३ ॥

तत्र हर्षो, यथा–
निष्क्रमय्य किल कालियोरगं
वल्लवेश्वर-सुते समीयुषि ।
सम्मदेन सुहृदः स्खलत्-पदास्
तद्-गिरश् च विवशाङ्गतां दधुः ॥ र्भ्र्स्_३,३।१०४ ॥

अथ स्थायी–
विमुक्त-सम्भ्रमा या स्याद् विश्रम्भात्मा रतिर् द्वयोः ।
प्रायः समानयोर् अत्र सा सख्य-स्थायि-शब्द-भाक् ॥ र्भ्र्स्_३,३।१०५ ॥
विश्रम्भो गाढ-विश्वास-विशेषः यन्त्रणोज्झितः ।
एषा सख्य-रतिर् वृद्धिं गच्छन्ती प्रणयः क्रमात् ।
प्रेमा स्नेहस् तथा राग इति पञ्च-भिदोदिता ॥ र्भ्र्स्_३,३।१०६ ॥

तत्र सख्य-रतिः, यथा–
मुकुन्दो गान्दिनी-पुत्र त्वया सन्दिश्यताम् इति ।
गरुडाङ्क गुडाकेशस् त्वां कदा परिरप्स्यते ॥ र्भ्र्स्_३,३।१०७ ॥

प्रणयः–
प्राप्तायां सम्भ्रमादीनां योग्यतायाम् अपि स्फुटम् ।
तद्-गन्धेनाप्य् असंस्पृष्टा रतिः प्रणय उच्यते ॥ र्भ्र्स्_३,३।१०८ ॥
यथा–
सुरैस् त्रिपुर-जिन् मुखैर् अपि विधीयमान-स्तुतेर्
अपि प्रथयतः पराम् अधिक-पारमेष्ठ्य-श्रियम् ।
दधत्-पुलकिनं हरेर् अधि-शिरोधि सव्यं भुजं
समस्कुरुत पांशुमान् शिरसि चन्द्रकान् अर्जुनः ॥ र्भ्र्स्_३,३।१०९ ॥

प्रेम, यथा–
भवत्य् उदयतीश्वरे सुहृदि हन्त राज्य-च्युतिर्
मुकुन्द वसतिर् वने पर-गृहे च दास्य-क्रिया ।
इयं स्फुटम् अमङ्गला भवतु पाण्डवानां गतिः
परन्तु ववृधे त्वयि द्वि-गुणम् एव सख्यामृतम् ॥ र्भ्र्स्_३,३।११० ॥

स्नेहो, यथा श्री-दशमे (१०।१५।१८)–
अन्ये तद्-अनुरूपाणि मनोज्ञानि महात्मनः ।
गायन्ति स्म महाराज स्नेह-क्लिन्न-धियः शनैः ॥ र्भ्र्स्_३,३।१११ ॥

यथा वा–
आर्द्राङ्ग-स्खलद्-अच्छ-धातुषु सुहृद्-गोत्रेषु लीला-रसं
वर्षत्य् उच्छ्वसितेषु कृष्ण-मुदिरे व्यक्तं बभूवाद्भुतम् ।
या प्राग् आस्त सरस्वती द्रुतम् असौ लीनोपकण्ठ-स्थले
या नासीद् उदगाद् दृशोः पथि सदा नीरोरुधावात्र सा ॥ र्भ्र्स्_३,३।११२ ॥

रागो, यथा–
अस्त्रेण दुष्परिहरा हरये व्यकारि
या पत्रि-पङ्क्तिर् अकृपेण कृपी-सुतेन ।
उत्प्लुत्य गाण्डिव-भृता हृदि गृह्यमाणा
जातास्य सा कुसुम-वृष्टिर् इवोत्सवाय ॥ र्भ्र्स्_३,३।११३ ॥

यथा वा–
कुसुमान्य् अवचिन्वतः समन्ताद्
वन-माला-रचनोचितान्य् अरण्ये ।
वृषभस्य वृषार्कजा मरीचिर्
दिवसार्धे ऽपि बभूव कौमुदीव ॥ र्भ्र्स्_३,३।११४ ॥

अथ अयोगे उत्कण्ठितम्, यथा–
धनुर्-वेदम् अधीयानो मध्यमस् त्वयि पाण्डवः ।
बाष्प-सङ्कीर्णया कृष्णः गिराश्लेषं व्यजिज्ञपत् ॥ र्भ्र्स्_३,३।११५ ॥

अथ वियोगे, यथा–
अघस्य जठरानलात् फणि-ह्रदस्य च क्ष्वेडतो
दवस्य कवलाद् अपि त्वम् अवितात्र येषाम् अभूः ।
इतस् त्रितयतो ऽप्य् अतिप्रकट-घोर-धाटी-धरात्
कथं न विरह-ज्वराद् अवसितान् सखीन् अद्य नः ॥ र्भ्र्स्_३,३।११६ ॥

अत्रापि पूर्ववत् प्रोक्तास् तापाद्यास् ता दशा दश ॥ र्भ्र्स्_३,३।११७ ॥

तत्र तापः–
प्रपन्नाः भाण्डीरे ऽप्य् अधिक-शिशिरे चण्डिम् अभरं
तुषारे ऽपि प्रौढिं दिनकर-सुता-स्रोतसि गतः ।
अपूर्वः कंसारे सुबल-मुख-मित्रावलिम् असौ
बलीयान् उत्तापस् तव विरह-जन्मा ज्वलयति ॥ र्भ्र्स्_३,३।११८ ॥

कृशता–
त्वयि प्राप्ते कंस-क्षितिपति-विमोक्षाय नगरीं
गभीराद् आभीरावलि-तनुषु खेदाद् अनुदिनम् ।
चतूर्णां भूतानाम् अजनि तनिमा दानव-रिपो
समीरस्य घ्रानाध्वनि पृथुलता केवलम् अभूत् ॥ र्भ्र्स्_३,३।११९ ॥

जागर्या, यथा–
नेत्राम्बुज-द्वन्द्वम् अवेक्ष्य पूर्णं
बाष्पाम्बु-पूरेण वरूथपस्य ।
तत्रानुवृत्तिं किल यादवेन्द्र
निर्विद्य निद्रा-मधुपी मुमोच ॥ र्भ्र्स्_३,३।१२० ॥

आलम्बन-शून्यता–
गते वृन्दारण्यात् प्रिय-सुहृदि गोष्ठेश्वर-सुते
लघु-भृतं सद्यः पतद्-अतितराम् उत्पतद् अपि ।
न हि भ्रामं भ्रामं भजति चटुलं तुलम् इव मे
निरालम्बं चेतः क्वचिद् अपि विलम्बं लवम् अपि ॥ र्भ्र्स्_३,३।१२१ ॥

अधृतिः–
रचयति निज-वृत्तौ पाशुपाल्ये निवृत्तिं
कलयति च कलानां विस्मृतौ यत्न-कोटिम् ।
किम् अपरम् इह वाच्यं जीविते ऽप्य् अद्य धत्ते
यदुवर विरहात् ते नार्थितां बन्धु-वर्गः ॥ र्भ्र्स्_३,३।१२२ ॥

जडता–
अनाश्रित-परिच्छदाः कृश-विशीर्ण-रुक्षाङ्गकाः
सदा विफल-वृत्तयो विरहिताः किल च्छायया ।
विराव-परिवर्जितास् तव मुकुन्द गोष्ठान्तरे
स्फुरति सुहृदां गणाः शिखर-जात-वृक्षा इव ॥ र्भ्र्स्_३,३।१२३ ॥

व्याधिः–
विरह-ज्वर-सञ्ज्वरेण ते ज्वलिता विश्लथ-गात्र-बन्धना ।
यदुवीर तटे विचेष्टते चिरम् आभीर-कुमार-मण्डली ॥ र्भ्र्स्_३,३।१२४ ॥

उन्मादः–
विना भवद्-अनुस्मृतिं विरह-विभ्रमेणाधुना
जगद्-व्यवहृति-क्रमं निखिलम् एव विस्मारिताः ।
लुण्ठन्ति भुवि शेरते बत हसन्ति धावन्त्य् अमी
रुदन्ति मथुरा-पते किम् अपि वल्लवानां गणाः ॥ र्भ्र्स्_३,३।१२५ ॥

मूर्च्छितम्–
दीव्यतीह मधुरे मथुरायां
प्राप्य राज्यम् अधुना मधु-नाथे ।
विश्वम् एव मुदितं रुदितान्धे
गोकुले तु मुहुर् आकुलताभूत् ॥ र्भ्र्स्_३,३।१२६ ॥

मृतिः–
कंसारेर् विरह-ज्वरोर्मि-जनित-ज्वालावली-जर्जरा
गोपाः शैल-तटे तथा शिथिलित-श्वासाङ्कुराः शेरते ।
वारं वारम् अखर्व-लोचन-जलैर् आप्लाव्य तान् निश्चलान्
शोचन्त्य् अद्य यथा चिरं परिचय-स्निग्धाः कुरङ्गा अपि ॥ र्भ्र्स्_३,३।१२७ ॥

प्रोक्तेयं विरहावस्था स्पष्ट-लीलानुसारतः ।
कृष्णेन विप्रयोगः स्यान् न जातु व्रज-वासिनाम् ॥ र्भ्र्स्_३,३।१२८ ॥

तथा च स्कान्दे मथुरा-खण्डे–
वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः ।
वृन्दावनान्तर-गतः स-रामो बालकैर् वृतः ॥ र्भ्र्स्_३,३।१२९ ॥

अथ योगे सिद्धिर्, यथा–
पाण्डवः पुण्डरीकाक्षं प्रेक्ष्य चक्रि-निकेतने ।
चित्राकारं भजन्न् एव मित्राकारम् अदर्शयत् ॥ र्भ्र्स्_३,३।१३० ॥
तुष्टिर्, यथ श्री-दशमे (१०।७१।२७)–
तं मातुलेयं परिरभ्य निर्वृतो
भीमः स्मयन् प्रेम-जवाकुलेन्द्रियः ।
यमौ किरीटी च सुहृत्तमं मुदा
प्रबृद्ध-बाष्पः परिरेभिरे ऽच्युतम् ॥ र्भ्र्स्_३,३।१३१ ॥

यथा वा–
कुरुजाङ्गले हरिम् अवेक्ष्य पुरः
प्रिय-सङ्गमं व्रज-सुहृन्-निकराः ।
भुज-मण्डलेन मणि-कुण्डलिनः
पुलकाञ्चितेन परिषष्वजिरे ॥ र्भ्र्स्_३,३।१३२ ॥

स्थितिर्, यथा श्री-दशमे (१०।१२।१२) –
यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो
धृतात्मभिर् योगिभिर् अप्य् अलभ्यः ।
स एव यद्-दृग्-विषयः स्वयं स्थितः
किं वर्ण्यते दिष्टम् अतो व्रजौकसाम् ॥ र्भ्र्स्_३,३।१३३ ॥

द्वयोर् अप्य् एक-जातीय-भाव-माधुर्य-भाग् असौ ।
प्रेयान् काम् अपि पुष्णाति रसश् चित्त-चमत्कृतिम् ॥ र्भ्र्स्_३,३।१३४ ॥
प्रीते च वत्सले चापि कृष्ण-तद्-भक्तयोः पुनः ।
द्वयोर् अन्योन्य-भावस्य भिन्न-जातीयता भवेत् ॥ र्भ्र्स्_३,३।१३५ ॥
प्रेयान् एव भवेत् प्रेयान् अतः सर्व-रसेष्व् अयम् ।
सख्य-सम्पृक्त-हृदयैः सद्भिर् एवानुबुध्यते ॥ र्भ्र्स्_३,३।१३६ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे
प्रेयो-भक्ति-रस-लहरी तृतीया ।


(३।४)
वत्सल-भक्ति-रसाख्या चतुर्थ-लहरी

विभावाद्यैस् तु वात्सल्यं स्थायी पुष्टिम् उपागतः ।
एष वत्सल-नामात्र प्रोक्तो भक्ति-रसो बुधैः ॥ र्भ्र्स्_३,४।१ ॥
तत्र आलम्बनाः–
कृष्णं तस्य गुरूंश् चात्र प्राहुर् आलम्बनान् बुधाः ॥ र्भ्र्स्_३,४।२ ॥

तत्र कृष्णो, यथा–
नव-कुवलय-दाम-श्यामलं कोमलाङ्गं
विचलद्-अलक-भृङ्ग-क्रान्त-नेत्राम्बुजान्तम् ।
व्रज-भुवि विहरन्तं पुत्रम् आलोकयन्ती
व्रज-पति-दयितासीत् प्रस्नवोत्पीड-दिग्धा ॥ र्भ्र्स्_३,४।३ ॥

श्यामाङ्गो रुचिरः सर्व-सल्-लक्षण-युतो मृदुः ।
प्रिय-वाक् सरलो ह्रीमान् विनयी मान्य-मान-कृत् ।
दातेत्य्-आदि-गुणो कृष्णो विभाव इति कथ्यते ॥ र्भ्र्स्_३,४।४ ॥
एवं गुणस्य चास्यानुग्राह्यत्वाद् एव कीर्तिता ।
प्रभावानास्पदतया वेद्यस्यात्र विभावता ॥ र्भ्र्स्_३,४।५ ॥

तथा श्री-दशमे (१०।८।४५)–
त्रय्या चोपनिषद्भिश् च साङ्ख्य-योगैश् च सात्वतैः ।
उपगीयमान-माहात्म्यं हरिं सामन्यतात्मजम् ॥ र्भ्र्स्_३,४।६ ॥

यथा वा–
विष्णुर् नित्यम् उपास्यते सखि मया तेनात्र नीताः क्षयं
शङ्के पूतनिकादयः क्षिति-रुहौ तौ वात्ययोन्मूलितौ ।
प्रत्यक्षं गिरिर् एष गोष्ट-पतिना रामेण सार्धं धृतस्
तत्-तत्-कर्म दुरन्वयं मम शिशोः केनास्य सम्भाव्यते ॥ र्भ्र्स्_३,४।७ ॥

अथ गुरवः–
अधिकं-मन्य-भावेन शिक्षा-कारितयापि च ।
लालकत्वादिनाप्य् अत्र विभावा गुरवो मताः ॥ र्भ्र्स्_३,४।८ ॥

यथा–
भूर्य्-अनुग्रह-चितेन चेतसा
लालनोत्कम् अभितः कृपाकुलम् ।
गौरवेण गुरुणा जगद्-गुरोर्
गौरवं गणम् अगण्यम् आश्रये ॥ र्भ्र्स्_३,४।९ ॥

ते तु तस्यात्र कथिता व्रज-राज्ञी व्रजेश्वरः ।
रोहिणी ताश् च वल्लव्यो याः पद्मज-हृतात्मजाः ॥ र्भ्र्स्_३,४।१० ॥
देवकी तत्-सपत्न्यश् च कुन्ती चानकदुन्दुभिः ।
सान्दीपनि-मुखाश् चान्ये यथा-पूर्वम् अमी वराः ।
व्रजेश्वरी-व्रजाधीशौ श्रेष्ठौ गुरुजनेष्व् इमौ ॥ र्भ्र्स्_३,४।११ ॥

तत्र व्रजेश्वर्या रूपम्, यथा श्री-दशमे (१०।९।३)–
क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं
पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः ।
रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कबर-विगलन्-मालती निर्ममन्थ ॥ र्भ्र्स्_३,४।१२ ॥

यथा वा–
डोरी-जुटित-वक्र-केश-पटला सिन्दूर-बिन्दूल्लसत्-
सीमान्त-द्युतिर् अङ्ग-भूषण-विधिं नाति-प्रभूतं श्रिता ।
गोविन्दास्य-निसृष्ट-साश्रु-नयन-द्वन्द्वा नवेन्दीवर-
श्याम-श्याम-रुचिर् विचित्र-सिचया गोष्ठेश्वरी पातु वः ॥ र्भ्र्स्_३,४।१३ ॥

वात्सल्यम्, यथा–
तनौ मन्त्र-न्यासं प्रणयति हरेर् गद्गदमयी
स-बाष्पाक्षी रक्षा-तिलकम् अलिके कल्पयति च ।
स्नुवाना प्रत्यूषे दिशति च भुजे कार्मणम् असौ
यशोदा मूर्तेव स्फुरति सुत-वात्सल्य-पटली ॥ र्भ्र्स्_३,४।१४ ॥

व्रजाधीशस्य रूपम्, यथा–
तिल-तण्डुलितैः कचैः स्फुरन्तं
नव-भाण्डीर-पलाश-चारु-चेलम् ।
अति-तुन्दिलम् इन्दु-कान्ति-भाजं
व्रज-राजं वर-कूर्चम् अर्चयामि ॥ र्भ्र्स्_३,४।१५ ॥

वात्सल्यम्, यथा–
अवलम्ब्य कराङ्गुलिं निजां
स्खलद्-अङ्घ्रि प्रसरन्तम् अङ्गने ।
उरसि स्रवद्-अश्रु-निर्झरो
मुमुदे प्रेक्ष्य सुतं व्रजाधिपः ॥ र्भ्र्स्_३,४।१६ ॥

अथ उद्दीपनाः–
कौमारादि-वयो-रूप-वेशाः शैशव-चापलम् ।
जल्पित-स्मित-लीलाद्याः बुधैर् उद्दीपनाः स्मृताः ॥ र्भ्र्स्_३,४।१७ ॥

तत्र कौमारम्–
आद्यं मध्यं तथा शेषं कौमारं त्रि-विधं मतम् ॥ र्भ्र्स्_३,४।१८ ॥

तत्र आद्यम्–
स्थूल-मध्योरुतापाङ्ग-श्वेतिमा स्वल्प-दन्तता ।
प्रव्यक्त-मार्दवत्वं च कौमारे प्रथमे सति ॥ र्भ्र्स्_३,४।१९ ॥

यथा–
त्रि-चतुर-दशन-स्फुरन्-मुखेन्दुं
पृथुतर-मध्य-कटि-रकोरु-सीमा ।
नव-कुवलय-कोमलः कुमारो
मुदम् अधिकां व्रज-नाथयोर् व्यतानीत् ॥ र्भ्र्स्_३,४।२० ॥

अस्मिन् मुहुः पद-क्षेप-क्षणिके रुदित-स्मिते ।
स्वाङ्गुष्ठ-पानम् उत्तान-शयनाद्यं च चेष्टितम् ॥ र्भ्र्स्_३,४।२१ ॥

यथा–
मुख-पुट-कृत-पादाम्भोरुहाङ्गुष्ठ-मूर्ध-
प्रचल-चरण-युग्मं पुत्रम् उत्तान-सुप्तम् ।
क्षणम् इह विरुदन्तं स्मेर-वक्त्रं क्षणं सा
तिलम् अपि विरतासीन् नेक्षितुं गोष्ठ-राज्ञी ॥ र्भ्र्स्_३,४।२२ ॥

अत्र व्याघ्र-नखं कण्ठे रक्षा-तिलक-मङ्गलम् ।
पट्ट-डोरी कटौ हस्ते सूत्रम् इत्य् आदि मण्डनम् ॥ र्भ्र्स्_३,४।२३ ॥

यथा–
तरक्षु-नख-मण्डलं नव-तमाल-पत्र-द्युतिं
शिशुं रुचिर-रोचना-कृत-तमाल-पत्र-श्रियम् ।
धृत-प्रतिसरं कटि-स्फुरित-पट्ट-सूत्र-स्रजं
व्रजेश-गृहिणी सुतं न किल वीक्ष्य तृप्तिं ययौ ॥ र्भ्र्स्_३,४।२४ ॥

अथ मध्यमम्–
दृक्-तटी-भाग्-अलकतानग्नता च्छिद्रि-कर्णता ।
कलोक्ति-रिङ्गनाद्यं च कौमारे सति मध्यमे ॥ र्भ्र्स्_३,४।२५ ॥

यथा–
विचलद्-अलक-रुद्ध-भ्रू-कुटी चञ्चलाक्षं
कल-वचनम् उदञ्चन् नूतन-श्रोत्र-रन्ध्रम् ।
अलघु-रचित-रिङ्गं गोकुले दिग्-दुकूलं
तनयम् अमृत-सिन्धौ प्रेक्ष्य माता न्यमाङ्क्षीत् ॥ र्भ्र्स्_३,४।२६ ॥

घ्राणस्य शिखरे मुक्ता नव-नीतं कराम्बुजे ।
किङ्किण्य्-आदि च कट्यादौ प्रसाधनम् इहोदितम् ॥ र्भ्र्स्_३,४।२७ ॥

यथा–
क्वणित-कनक-किङ्किणी-कलापं
स्मित-मुखम् उज्ज्वल-नासिकाग्रम् उक्तम् ।
कर-धृत-नवनीत-पिण्डम् अग्रे
तनयम् अवेक्ष्य ननन्द नन्द-पत्नी ॥ र्भ्र्स्_३,४।२८ ॥

अथ शेषम्–
अत्र किञ्चित् कृशं मध्यम् ईषत्-प्रथिम-भाग् उरः ।
शिरश् च काक-पक्षाढ्यं कौमारे चरमे सति ॥ र्भ्र्स्_३,४।२९ ॥

यथा–
स मनाग् अपचीयमान-मध्यः
प्रथिमोपक्रम-शिक्षणार्थि-वक्षाः ।
दधद्-आकुल-काक-पक्ष-लक्ष्मीं
जननीं स्तम्भयति स्म दिव्य-डिम्भः ॥ र्भ्र्स्_३,४।३० ॥

धटी फण-पडी चात्र किञ्चिद्-वन्य-विभूषणम् ।
लघु-वेत्रक-रत्नादि मण्डनं परिकीर्तितम् ॥ र्भ्र्स्_३,४।३१ ॥
वत्स-रक्षा व्रजाभ्यर्णे वयस्यैः सह खेलनम् ।
पाव-शृङ्ग-दलादीनां वादनाद्य् अत्र चेष्टितम् ॥ र्भ्र्स्_३,४।३२ ॥

यथा–
शिखण्ड-कृत-शेखरः फण-पटीं दधत्
करे च लगुडीं लघुं सवयसां कुलैर् आवृतः ।
अवन्न् इह शकृत्-करीन् परिसरे व्रजस्य प्रिये
सुतस् तव कृतार्थयत्य् अहह पश्य नेत्राणि नः ॥ र्भ्र्स्_३,४।३३ ॥

अथ पौगण्डम्–
पौगण्डादि पुरैवोक्तं तेन सङ्क्षिप्य लिख्यते ॥ र्भ्र्स्_३,४।३४ ॥

यथा–
पथि पथि सुरभीणान् अंशुकोत्तंसि-मूर्धा
धवलिम् अयुग्-अपाङ्गो मण्डितः कञ्चुकेन ।
लघु लघु परिगुञ्जन्-मञ्जु-मञ्जीर-युग्मं
व्रज-भुवि मम वत्सः कच्च-देशाद् उपैति ॥ र्भ्र्स्_३,४।३५ ॥

अथ कैशोरम्–
अरुणिम-युग्-अपाङ्गस् तुङ्ग-वक्षः-कपाटी-
विलुठद्-अमल-हारो रम्य-रोमावलि-श्रीः ।
पुरुष-मणिर् अयं मे देवकि श्यामलाङ्गस्
त्वद्-उदर-खनि-जन्मा नेत्रम् उच्चैर् धिनोति ॥ र्भ्र्स्_३,४।३६ ॥

नव्येन यौवनेनापि दीव्यन् गोष्ठेन्द्र-नन्दनः ।
भाति केवल-वात्सल्य-भाजां पौगण्ड-भाग् इव ॥ र्भ्र्स्_३,४।३७ ॥
सुकुमारेण पौगण्ड-वयसा सङ्गतो ऽप्य् असौ ।
किशोराभः सदा दास-विशेषाणां प्रभासते ॥ र्भ्र्स्_३,४।३८ ॥

अथ शैशव-चापलम्–
पारीर् भिनत्ति विकिरत्य् अजिरे दधीनि
सन्तानिकां हरति कृन्तति मन्थ-दण्डम् ।
वह्नौ क्षिपत्य् अविरतं नव-नीतम् इत्थं
मातुः प्रमोद-भरम् एव हरिस् तनोति ॥ र्भ्र्स्_३,४।३९ ॥

यथा वा–
प्रेक्ष्य प्रेक्ष्य दिशः स-शङ्कम् असकृन् मन्दं पदं निक्षिपन्
नायात्य् एष लतान्तरे स्फुटम् इतो गव्यं हरिष्यन् हरिः ।
तिष्ठ स्वैरम् अजानतीव मुखरे चौर्य-भ्रमद्-भ्रू-लतं
त्रस्यल्-लोचनम् अस्य शुष्यद्-अधरं रम्यं दिदृक्षे मुखम् ॥ र्भ्र्स्_३,४।४० ॥

अथ अनुभावाः–
अनुभावाः शिरो-घ्राणं करेणाङ्गाभिमार्जनम् ।
आशीर्वादो निदेशश् च लालनं प्रतिपालनम् ।
हितोपदेश-दानाद्या वत्सले परिकीर्तिताः ॥ र्भ्र्स्_३,४।४१ ॥

अत्र शिरो-घ्राणम्, यथा श्री-दशमे (१०।१३।३३)–

तद्-ईक्षणोत्प्रेम-रसाप्लुताशया
जातानुरागा गत-मन्यवो ऽर्भकान् ।
उदुह्य दोर्भिः परिरभ्य मूर्धनि
घ्राणैर् अवापुः परमां मुदं ते ॥ र्भ्र्स्_३,४।४२ ॥

यथा वा–
दुग्धेन दिग्धा कुच-विच्युतेन
समग्रम् आघ्राय शिरः सपिच्छम् ।
करेण गोष्ठेशितुर् अङ्गनेयम्
अङ्गानि पुत्रस्य मुहुर् ममार्ज ॥ र्भ्र्स्_३,४।४३ ॥

चुम्बाश्लेषौ तथाह्वानं नाम-ग्रहण-पूर्वकम् ।
उपालम्भादयश् चात्र मित्रैः साधारणाः क्रियाः ॥ र्भ्र्स्_३,४।४४ ॥

अथ सात्त्विकाः–
नवात्र सात्त्विकाः स्तन्य-स्रावः स्तम्भादयश् च ते ॥ र्भ्र्स्_३,४।४५ ॥

तत्र स्तन्य-स्रावो, यथा श्री-दशमे (१०।१३।२२)–

तन्-मातरो वेणु-रव-त्वरोत्थिता
उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।
स्नेह-स्नुत-स्तन्य-पयः-सुधासवं
मत्वा परं ब्रह्म सुतान् अपाययन् ॥ र्भ्र्स्_३,४।४६ ॥

यथा वा ललित-माधवे (१।४६)–

निचुलित-गिरि-धातु-स्फीत-पत्रावलीकान्
अखिल-सुरभि-रेणून् क्षालयद्भिर् यशोदा ।
कुच-कलस-विमुक्तैः स्नेह-माध्वीक-मध्यैस्
तव नवम् अभिषेकं दुग्ध-पूरैः करोति ॥ र्भ्र्स्_३,४।४७ ॥

स्तम्भादयो, यथा–
कथम् अपि परिरब्धुं न क्षमा स्तब्ध-गात्री
कलयितुम् अपि नालं बाष्प-पुर-प्लुताक्षी ।
न च सुतम् उपदेष्टुं रुद्ध-कण्ठी समर्था
दधतम् अचलम् आसीद् व्याकुला गोकुलेशा ॥ र्भ्र्स्_३,४।४८ ॥

अथ व्यभिचारिणः–
तत्रापस्मार-सहिताः प्रीतोक्ताः व्यभिचारिणः ॥ र्भ्र्स्_३,४।४९ ॥

तत्र हर्षो, यथा श्री-दशमे (१०।१७।१९)–

यशोदापि महाभागा नष्ट-लब्ध-प्रजा सती ।
परिष्वजाङ्कम् आरोप्य मुमोचाश्रु-कलां मुहुः ॥ र्भ्र्स्_३,४।५० ॥

यथा वा विदग्ध-माधवे (१।२०)–

जित-चन्द्र-पराग-चन्द्रिका
नलदेन्दीवर-चन्दन-श्रियम् ।
परितो मयि शैत्य-माधुरीं
वहति स्पर्श-महोत्सवस् तव ॥ र्भ्र्स्_३,४।५१ ॥

अथ स्थायी–
सम्भ्रमादि-च्युता या स्याद् अनुकम्पे ऽनुकम्पितुः ।
रतिः सैवात्र वात्सल्यं स्थायी भावो निगद्यते ॥ र्भ्र्स्_३,४।५२ ॥
यशोदादेस् तु वात्सल्य-रतिः प्रौढा निसर्गतः ।
प्रेमवत् स्नेहवद् भाति कदाचित् किल रागवत् ॥ र्भ्र्स्_३,४।५३ ॥

तत्र वात्सल्य-रतिर्, यथा श्री-दशमे (१०।६।४३)

नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः ।
मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ र्भ्र्स्_३,४।५४ ॥

यथा वा–
विन्यस्त-श्रुति-पालिर् अद्य मुरली-निस्वान-शुश्रूषा
भूयः प्रस्रव-वर्षिणी द्विगुणितोत्कण्ठा प्रदोषोदये ।
गेहाद् अङ्गनम् अङ्गनात् पुनर् असौ गेहं विशन्त्य् आकुला
गोविन्दस्य मुहुर् व्रजेन्द्र-गृहिणी पन्थानम् आलोकते ॥ र्भ्र्स्_३,४।५५ ॥

प्रेमवद्, यथा–
प्रेक्ष्य तत्र मुनि-राज-मण्डलैः
स्तूयमानम् असि मुक्त-सम्भ्रमा ।
कृष्णम् अङ्कम् अभि गोकुलेश्वरी
प्रस्नुता कुरु-भुवि न्यवीविशत् ॥ र्भ्र्स्_३,४।५६ ॥

यथा वा–
देवक्या विवृत-प्रसू-चरितयाप्य् उन्मृज्यमानानने
भूयोभिर् वसुदेव-नन्दनतयाप्य् उद्घूष्यमाणे जनैः ।
गोविन्दे मिहिर-ग्रहोत्सुकतया क्षेत्रं कुरोर् आगते
प्रेमा वल्लव-नाथयोर् अतितराम् उल्लासम् एवाययौ ॥ र्भ्र्स्_३,४।५७ ॥

स्नेहवत्, यथा–
पीयूष-द्युतिभिः स्तनाद्रि-पतितैः क्षीरोत्करैर् जाह्नवी
कालिन्दी च विलोचनाब्ज-जनितैर् जाताञ्जन-श्यामलैः ।
आरान्-मध्यम-वेदिम् आपतितयोः क्लिन्ना तयोः सङ्गमे
वृत्तासि व्रज-राज्ञि तत्-सुत-मुख-प्रेक्षां स्फुटं वाञ्छसि ॥ र्भ्र्स्_३,४।५८ ॥

रागवत्, यथा–
तुषावति तुषानलो ऽप्य् उपरि तस्य बद्ध-स्थितिर्
भवन्तम् अवलोकते यदि मुकुन्द गोष्ठेश्वरी ।
सुधाम्बुधिर् अपि स्फुटं विकट-काल-कूटत्य् अलं
स्थिता यदि न तत्र ते वदन-पद्मम् उद्वीक्ष्यते ॥ र्भ्र्स्_३,४।५९ ॥

अथ अयोगे उत्कण्ठितम्, यथा–
वत्सस्य हन्त शरद्-इन्दु-विनिन्दि-वक्त्रं
सम्पादयिष्यति कदा नयनोत्सवं नः ।
इत्य् अच्युते विहरति व्रज-बाटिकायाम्
ऊर्वी त्वरा जयति देवक-नन्दिनीनाम् ॥ र्भ्र्स्_३,४।६० ॥

यथा वा–
भ्रातस् तनयं भ्रातुर्
मम सन्दिश गान्दिनी-पुत्र ।
भ्रातृव्येषु वसन्ती
दिदृक्षते त्वां हरे कुन्ती ॥ र्भ्र्स्_३,४।६१ ॥

वियोगो, यथा श्री-दशमे (१०।४६।२८)–
यशोदा वर्ण्यमानानि पुत्रस्य चरिताणि च ।
शृण्वत्य् अश्रूण्य् अस्राक्षीत् स्नेह-स्नुत-पयोधरा ॥ र्भ्र्स्_३,४।६२ ॥

यथा वा–
याते राज-पुरं हरौ मुख-तटी व्याकीर्ण-धूम्रालका
पश्य स्रस्त-तनुः कठोर-लुठनैर् देहे व्रणं कुर्वती ।
क्षीणा गोष्ठ-मही-महेन्द्र-महिषी हा पुत्र पुत्रेत्य् असौ
क्रोशन्ती करयोर् युगेन कुरुते कष्टाद् उरस्-ताडनम् ॥ र्भ्र्स्_३,४।६३ ॥

बहूनाम् अपि सद्-भावे वियोगे ऽत्र तु केचन ।
चिन्ता विषाद-निर्वेद-जाड्य-दैन्यानि चापलम् ।
उन्माद-मोहाव् इत्य् आद्या अत्युद्रेकं व्रजन्त्य् अमी ॥ र्भ्र्स्_३,४।६४ ॥

अत्र चिन्ता–
मन्द-स्पन्दम् अभूत् क्लमैर् अलघुभिः सन्दानितं मानसं
द्वन्द्वं लोचनयोश् चिराद् अविचल-व्याभुग्न-तारं स्थितम् ।
निश्वासैः स्रवद् एव पाकम् अयते स्तन्यं च तप्तैर् इदं
नूनं वल्लव-राज्ञि पुत्र-विरहोद्घूर्णाभिर् आक्रम्यसे ॥ र्भ्र्स्_३,४।६५ ॥

विषादः–
वदन-कमलं पुत्रस्याहं निमीलति शैशवे
नव-तरुणिमारम्भोन्मृष्टं न रम्यम् अलोकयम् ।
अभिनव-वधू-युक्तं चामुं न हर्म्यम् अवेशयं
शिरसि कुलिशं हन्त क्षिप्तं श्वफल्क-सुतेन मे ॥ र्भ्र्स्_३,४।६६ ॥

निर्वेदः–
धिग् अस्तु हत-जीवितं निरवधि-श्रियो ऽप्य् अद्य मे
यया न हि हरेः शिरः स्नुत-कुचाग्रम् आघ्रायते ।
सदा नव-सुधा-दुहाम् अपि गवां परार्धं च धिक्
स लुञ्चति न चञ्चलः सुरभि-गन्धि यासां दधि ॥ र्भ्र्स्_३,४।६७ ॥

जाड्यम्–
यः पुण्डरीकेक्षण तिष्ठतस् ते
गोष्ठे कराम्भोरुह-मण्डनो ऽभूत् ।
तं प्रेक्ष्य दण्ड-स्तिमितेन्द्रियाद् यद्
दण्डाकृतिस् ते जननी बभूव ॥ र्भ्र्स्_३,४।६८ ॥

दैन्यम्–
याचते बत विधातर् उदस्रा
त्वां रदैस् तृणम् उदस्य यशोदा ।
गोचरे सकृद् अपि क्षणम् अद्य
मत्सरं त्यज ममानय वत्सम् ॥ र्भ्र्स्_३,४।६९ ॥

चापलम्–
किम् इव कुरुते हर्म्ये तिष्ठन्न् अयं निरपत्रपो
व्रजपतिर् इति ब्रूते मुग्धो ऽयम् अत्र मुदा जनः ।
अहह तनयं प्राणेभ्यो ऽपि प्रियं परिहृत्य तं
कठिन-हृदयो गोष्ठे स्वैरी प्रविश्य सुखीयति ॥ र्भ्र्स्_३,४।७० ॥

उन्मादः–
क्व मे पुत्रो नीपाः कथयत कुरङ्गाः किम् इह वः
स बभ्रामाभ्यर्णे भणत तम् उदन्तं मधुकराः ।
इति भ्रामं भ्रामं भ्रम-भर-विदूना यदुपते
भवन्तं पृच्छन्ती दिशि दिशि यशोदा विचरति ॥ र्भ्र्स्_३,४।७१ ॥

मोहः–
कुटुम्बिनि मनस् तटे विधुरतां विधत्से कथं
प्रसारय दृशं मनाक् तव सुतः पुरो वर्तते ।
इदं गृहिणि गृहं न कुरु शून्यम् इत्य् आकुलं
स शोचति तव प्रसूं यदु-कुलेन्द्र नन्दः पिता ॥ र्भ्र्स्_३,४।७२ ॥

अथ योगे सिद्धिः–
विलोक्य रङ्ग-स्थल-लब्ध-सङ्गमं
विलोचनाभीष्ट-विलोकनं हरिम् ।
स्तन्यैर् असिञ्चन् नव-कञ्चुकाञ्चलं
देव्यः क्षणाद् आनकदुन्दुभि-प्रियाः ॥ र्भ्र्स्_३,४।७३ ॥

तुष्टिर्, यथा प्रथमे (१।११।३०)–

ताः पुत्रम् अङ्कम् आरोप्य स्नेह-स्नुत-पयोधराः ।
हर्ष-विह्वलितात्मानः सिषिचुर् नेत्रजैर् जलैः ॥ र्भ्र्स्_३,४।७४ ॥

यथा वा ललित-माधवे (१०।१४)–

नयनयोः स्तनयोर् अपि युग्मतः
परिपतद्भिर् असौ पयसां झरैः ।
अहह वल्लव-राज-गृहेश्वरी
स्व-तनयं प्रणयाद् अभिषिञ्चति ॥ र्भ्र्स्_३,४।७५ ॥

स्थितिर्, यथा विदग्ध-माधवे (१।१९)–

अहह कमल-गन्धेर् अत्र सौन्दर्य-वृन्दे
विनिहित-नयनेयं त्वन्-मुखेन्दोर् मुकुन्द ।
कुच-कलस-मुखाभ्याम् अम्बर-क्नोपम् अम्बा
तव मुहुर् अतिहर्षाद् वर्षति क्षीर-धाराम् ॥ र्भ्र्स्_३,४।७६ ॥

स्वीकुर्वते रसम् इमं नाट्य-ज्ञा अपि केचन ॥ र्भ्र्स्_३,४।७७ ॥

तथाहुः [सा।द। ३।२०१]–
स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।
स्थायी वत्सलतास्येह पुत्राद्य्-आलम्बनं मतम् ॥ र्भ्र्स्_३,४।७८ ॥

किं च–
अप्रतीतौ हरि-रतेः प्रीतस्य स्याद् अपुष्टता ।
प्रेयसस् तु तिरोभावो वत्सलय्सास्य न क्षतिः ॥ र्भ्र्स्_३,४।७९ ॥
एषा रस-त्रयी प्रोक्ता प्रीतादिः परमाद्भुता ।
तत्र केषुचिद् अप्य् अस्याः सङ्कुलत्वम् उदीर्यते ॥ र्भ्र्स्_३,४।८० ॥
सङ्कर्षणस्य सख्यस् तु प्रीति-वात्सल्य-सङ्गतम् ।
युधिष्ठिरस्य वात्सल्यं प्रीत्या सख्येन चान्वितम् ॥ र्भ्र्स्_३,४।८१ ॥
आहुक-प्रभृतीनां तु प्रीतिर् वात्सल्य-मिश्रिता ।
जरद्-आभीरिकादीनां वात्सल्यं सख्य-मिश्रितम् ॥ र्भ्र्स्_३,४।८२ ॥
माद्रेय-नारदादीनां सख्यं प्रीत्या करम्बितम् ।
रुद्र-तार्क्ष्योद्धवादीनां प्रीतिः सख्येन मिश्रिता ॥ र्भ्र्स्_३,४।८३ ॥
अनिरुद्धापि-नप्तॄणाम् एवं केचिद् बभाषिरे ।
एवं केषुचिद् अन्येषु विज्ञेयं भाव-मिश्रणम् ॥ र्भ्र्स्_३,४।८४ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे
वत्सल-भक्ति-रस-लहरी चतुर्थी ।


(३।५)
मधुर-भक्ति-रसाख्या पञ्चम-लहरी

आत्मोचितैर् विभावाद्यैः पुष्टिं नीता सतां हृदि ।
मधुराख्यो भवेद् भक्ति-रसो ऽसौ मधुरा रतिः ॥ र्भ्र्स्_३,५।१ ॥
निवृत्तानुपयोगित्वाद् दुरूहत्वाद् अयं रसः ।
रहस्यत्वाच् च सङ्क्षिप्य वितताण्गो विलिख्यते ॥ र्भ्र्स्_३,५।२ ॥

तत्र आलम्बनाः–
अस्मिन् आलम्बनः कृष्णः प्रियास् तस्य तु सुभ्रुवः ॥ र्भ्र्स्_३,५।३ ॥

तत्र कृष्णः–
तत्र कृष्णः असमानोर्ध्व-सौन्दर्य-लीला-वैदिग्धी-सम्पदाम् ।
आश्रयत्वेन मधुरे हरिर् आलम्बनो मतः ॥ र्भ्र्स्_३,५।४ ॥

यथा श्री-गीत-गोविन्दे (१।११)–
विश्वेषाम् अनुरञ्जनेन जनयन्न् आनन्दम् इन्दीवर-
श्रेणी-श्यामल-कोमलैर् उपनयन्न् अङ्गैर् अनङ्गोत्सवम् ।
स्वच्छन्दं व्रज-सुन्दरीभिर् अभितः प्रत्य्-अङ्गम् आलिङ्गितः
शृङ्गारः सखि मूर्तिमान् इव मधौ मुग्धो हरिः क्रीडति ॥ र्भ्र्स्_३,५।५ ॥

अथ तस्य प्रेयस्यः–
नव-नव-वर-माधुरी-धुरीणाः
प्रणय-तरङ्ग-करम्बितास् तरङ्गाः ।
निज-रमणतया हरिं भजन्तिः
प्रणमत ताः परमाद्भुताः किशोरीः ॥ र्भ्र्स्_३,५।६ ॥

प्रेयसीषु हरेर् आसु प्रवरा वार्षभानवी ॥ र्भ्र्स्_३,५।७ ॥

अस्या रूपं–
मद-चकित-चकोरी-चारुता-चोर-दृष्टिर्
वदन-दमित-राकारोहिणी-कान्त-कीर्तिः ।
अविकल-कल-धौतोद्धूति-धौरेयक-श्रीर्
मधुरिम-मधु-पात्री राजते पश्य राधा ॥ र्भ्र्स्_३,५।८ ॥

अस्या रतिः–
नर्मोक्तौ मम निर्मितोरु-परमानन्दोत्सवायाम् अपि
श्रोत्रस्यान्त-तटीम् अपि स्फुटम् अनाधाय स्थितोद्यन्-मुखी ।
राधा लाघवम् अप्य् अनादर-गिरां भङ्गीभिर् आतन्वती
मैत्री-गौरवतो ऽप्य् असौ शत-गुणां मत्-प्रीतिम् एवादधे ॥ र्भ्र्स्_३,५।९ ॥

तत्र कृष्ण-रतिर्, यथा श्री-गीत-गोविन्दे (३।१)–
कंसारिर् अपि संसार-वासनाबद्ध-शृङ्खलाम् ।
राधाम् आधाय हृदये तत्याज व्रज-सुन्दरीः ॥ र्भ्र्स्_३,५।१० ॥

अथ उद्दीपनाः ।
उद्दीपना इह प्रोक्ता मुरली-निस्वनादयः ॥ र्भ्र्स्_३,५।११ ॥

यथा पद्यावल्याम् (१७२) {*च्रेदितेद् तो सर्व-विद्या-विनोद}
गुरु-जन-गञ्जनम् अयशो
गृह-पति-चरितं च दारुणं किम् अपि ।
विस्मारयति समस्तं
शिव शिव मुरली मुरारातेः ॥ र्भ्र्स्_३,५।१२ ॥

अथ अनुभावाः–
अनुभावास् तु कथिता दृग्-नतेक्षा-स्मितादयः ॥ र्भ्र्स्_३,५।१३ ॥

यथा ललित-माधवे (१।१४)–
कृष्णापङ्ग-तरङ्गित-द्युमणिजा-सम्भेद-वेणी-कृते
राधायाः स्मित-चन्द्रिका-सुरधुनी-पुरे निपीयामृतम् ।
अन्तस् तोष-तुषार-सम्प्लव-लव-व्यालीढतापोद्गमाः
क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वम् अध्यास्महे ॥ र्भ्र्स्_३,५।१४ ॥

अथ सात्त्विकाः, यथा पद्यावल्याम् (१८१)–
कामं वपुः पुलकितं नयने धृतास्रे
वाचः स-गद्गद-पदाः सखि कम्पि वक्षः ।
ज्ञातं मुकुन्द-मुरली-रव-माधुरी ते
चेतः सुधांशु-वदने तरलीकरोति ॥ र्भ्र्स्_३,५।१५ ॥

अथ व्यभिचारिणः–
आलस्यौग्र्ये विना सर्वे विज्ञेया व्यभिचारिणः ॥ र्भ्र्स्_३,५।१६ ॥

तत्र निर्वेदो, यथा पद्यावल्याम् (२२१)–
मा मुञ्च पञ्चशर पञ्च-शरीं शरीरे
मा सिञ्च सान्द्र-मकरन्द-रसेन वायो ।
अङ्गानि तत्-प्रणय-भङ्ग-विगर्हितानि
नालम्बितुं कथम् अपि क्षमते ऽद्य जीवः ॥ र्भ्र्स्_३,५।१७ ॥

हर्षो, यथा दान-केलि-कौमुद्याम् (३४)–
कुवलय-युवतीनां लेहयन्न् अक्षि-भृङ्गैः
कुवलय-दल-लक्ष्मी-लङ्गिमाः स्वाङ्ग-भासः ।
मद-कल-कलभेन्द्रोल्लङ्घि-लीला-तरङ्गः
कवलयति धृतिं मे क्ष्माधरारण्य-धूर्तः ॥ र्भ्र्स्_३,५।१८ ॥

अथ स्थायी–
स्थायी भावो भवत्य् अत्र पूर्वोक्ता मधुरा रतिः ॥ र्भ्र्स्_३,५।१९ ॥

यथा पद्यावल्याम् (१५८)–
भ्रूवल्लि-ताण्डव-कला-मधुरानन-श्रीः
कङ्केल्लि-कोरक-करम्बित-कर्ण-पूरः ।
को ऽयं नवीन-निकषोपल-तुल्य-वेषो
वंशीरवेण सखि माम् अवशीकरोति ॥ र्भ्र्स्_३,५।२० ॥

राधा-माधवयोर् एव क्वापि भावैः कदाप्य् असौ ।
सजातीय-विजातीयैर् नैव विच्छिद्यते रतिः ॥ र्भ्र्स्_३,५।२१ ॥

यथा–
इतो दूरे राज्ञी स्फुरति परितो मित्र-पटली
दृशोर् अग्रे चन्द्रावलिर् उपरि शैलस्य दनुजः ।
असव्ये राधायाः कुसुमित-लता संवृत-तनौ दृग्-
अन्त-श्रीर् लोला तडिद् इव मुकुन्दस्य वलते ॥ र्भ्र्स्_३,५।२२ ॥

घोरा खण्डित-शङ्खचूडम् अजिरं रुन्धे शिवा तामसी
ब्रह्मिष्ठ-श्वसनः शम-स्तुति-कथा प्रालेयम् आसिञ्चति ।
अग्रे रामः सुधा-रुचिर् विजयते कृष्ण-प्रमोदोचितं
राधायास् तद् अपि प्रफुल्लम् अभजन् म्लानिं न भावाम्बुजम् ॥ र्भ्र्स्_३,५।२३ ॥

स विप्रलम्भ-सम्भोग-भेदेन द्वि-विधो मतः ॥ र्भ्र्स्_३,५।२४ ॥

तत्र विप्रलम्भः–
स पूर्व-रागो मानश् च प्रवासादि-मयस् तथा ।
विप्रलम्भो बहु-विधो विद्वद्भिर् इह कथ्यते ॥ र्भ्र्स्_३,५।२५ ॥

तत्र पूर्व-रागः–
प्राग्-असङ्गतयोर् भावः पूर्व-रागो भवेद् द्वयोः ॥ र्भ्र्स्_३,५।२६ ॥

यथा पद्यावल्याम् (१८१)–
अकस्माद् एकस्मिन् पथि सखि मया यामुन-तटं
व्रजन्त्या दृष्टो यो नव-जलधर-श्यामल-तनुः ।
स दृग्-भङ्ग्या किं वाकुरुत न हि जाने तत इदं
मनो मे व्यालोलं क्वचन गृह-कृत्यो न लगते ॥ र्भ्र्स्_३,५।२७ ॥

यथा श्री-दशमे (१०।५३।२)–
यथा विनिद्रा यच् चित्ता रुक्मिणी कमलेक्षणा ।
तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि ।
वेदाहं रुक्मिण्या द्वेषान् ममोद्वाहो निवारितः ॥ र्भ्र्स्_३,५।२८ ॥

अथ मानः ।
मानः प्रसिद्ध एवात्र ॥ र्भ्र्स्_३,५।२९ ॥

यथा श्री-गीत-गोविन्दे (२।१)–
विहरति वने राधा साधारण-प्रणये हरौ
विगलित-निजोत्कर्षाद् ईऋस्या-वशेन गतान्यतः ।
क्वचिद् अपि लता-कुञ्जे गुञ्जन्-मधु-व्रत-मण्डली-
मुखर-निखरे लीना दीनाप्य् उवाच रहः सखीम् ॥ र्भ्र्स्_३,५।३० ॥

अथ प्रवासः–
प्रवासः सङ्ग-विच्युतिः ॥ र्भ्र्स्_३,५।३१ ॥

यथा पद्यावल्याम् (३५०)–
हस्तोदरे विनिहितैक-कपोल-पालेर्
अश्रान्त-लोचन-जल-स्नपिताननायाः ।
प्रस्थान-मङ्गल-दिनावधि माधवस्य
निद्रा-लवो ऽपि कुत एव सरोरुहाक्ष्याः ॥ र्भ्र्स्_३,५।३२ ॥

यथा प्रह्लाद-संहितायाम् उद्धव-वाक्यम्–
भगवान् अपि गोविन्दः कन्दर्प-शर-पीडितः ।
न भुङ्क्ते न स्वपिति च चिन्तयन् वो ह्य् अहर्निशम् ॥ र्भ्र्स्_३,५।३३ ॥

अथ सम्भोगः–
द्वयोर् मिलितयोर् भोगः सम्भोग इति कीर्त्यते ॥ र्भ्र्स्_३,५।३४ ॥

यथा पद्यावल्याम् (१९९)–
परमानुराग-परयाथ राधया
परिरम्भ-कौशल-विकाशि-भावया ।
स तया सह स्मर-सभाजनोत्सवं
निरवाहयच् छिखि-शिखण्ड-शेखरः ॥ र्भ्र्स्_३,५।३५ ॥

श्रीमद्-भागवताद्य्-अर्ह-शास्त्र-दर्शितया दृशा ।
इयम् आविष्कृता मुख्य-पञ्च-भक्ति-रसा मया ॥ र्भ्र्स्_३,५।३६ ॥
गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी ।
तुष्यतु सनातनात्मा पश्चिम-भागे रसाम्बु-निधेः ॥ र्भ्र्स्_३,५।३७ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मधुराख्य-भक्ति-रस-लहरी चतुर्थी ।

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
मुख्य-भक्ति-रस-निरूपकः पश्चिम-विभागः समाप्तः ।


उत्तर-विभागः

(४।१)
हास्य-भक्ति-रसाख्या
प्रथम-लहरी

भक्ति-भरेण प्रीतिं कलयन्न् उररीकृत-व्रजासङ्गः ।
तनुतां सनातनात्मा भगवान् मयि सर्वदा तुष्टिम् ॥ र्भ्र्स्_४,१।१ ॥
रसामृताब्धेर् भागे ऽत्र तुरीये तूत्ताराभिधे ।
रसः सप्त-विधो गौणो मैत्री-वैर-स्थितिर् मिथः ॥ र्भ्र्स्_४,१।२ ॥
रसाभासाश् च तेनात्र लहर्यो नव कीर्तिताः ।
प्राग् अत्रानियताधाराः कदाचित् क्वाप्य् उदित्वराः ॥ र्भ्र्स्_४,१।३ ॥
गौणा भक्ति-रसाः सप्त लेख्या हास्यादयः क्रमात् ॥ र्भ्र्स्_४,१।४ ॥
भक्तानां पञ्चधोक्तानाम् एषां मध्यत एव हि ।
क्वाप्य् एकः क्वाप्य् अनेकश् च गौणेष्व् आलम्बनो मतः ॥ र्भ्र्स्_४,१।५ ॥

तत्र हास्य-भक्ति-रसः–
वक्ष्यमाणैर् विभावाद्यैः पुष्टिं हास-रतिर् गता ।
हास्य-भक्ति-रसो नाम बुधैर् एष निगद्यते ॥ र्भ्र्स्_४,१।६ ॥
अस्मिन्न् आलम्बनः कृष्णस् तथान्यो ऽपि तद्-अन्वयी ।
वृद्धाः शिशु-मुखाः प्रायः प्रोक्ता धीरैस् तद्-आश्रयाः ।
विभावनादि-वैशिष्ट्यात् प्रवराश् च क्वचिन् मताः ॥ र्भ्र्स्_४,१।७ ॥

तत्र कृष्णो, यथा–
यास्याम्य् अस्य न भीषणस्य सविधं जीर्णस्य शीर्णाकृतेर्
मातर् नेष्यति मां पिधाय कपटाद् आधारिकायाम् असौ ।
इत्य् उक्त्वा चकिताक्षम् अद्भुत-शिशाव् उद्वीक्ष्यमाणे हरौ
हास्यं तस्य निरुद्धतो ऽप्य् अतितरां व्यक्तं तदासीन् मुनेः ॥ र्भ्र्स्_४,१।८ ॥

अथ तद्-अन्वयी—
यच् चेष्टा कृष्ण-विषया प्रोक्तः सो ऽत्र तद्-अन्वयी ॥ र्भ्र्स्_४,१।९ ॥

यथा–
ददामि दधि-फाणितं विवृणु वक्त्रम् इत्य् अग्रतो
निशम्य जरती-गिरं विवृत-कोमलौष्ठे स्थिते ।
तया कुसुमम् अर्पितं नवम् अवेत्य भुग्नानने
हरौ जहसुर् उद्धुरं किम् अपि सुष्ठु गोष्ठार्भकाः ॥ र्भ्र्स्_४,१।१० ॥

यथा वा–
अस्य प्रेक्ष्य करं शिशोर् मुनिपते श्यामस्य मे कथ्यतां
तथ्यं हन्त चिरायुर् एष भविता किं धेनु-कोटीश्वरः ।
इत्य् उक्ते भगवन् मयाद्य परितश् चीरेण किं चारुणा
द्राग् आविर्भवद्-उद्धुर-स्मितम् इदं वक्त्रं त्वया रुध्यते ॥ र्भ्र्स्_४,१।११ ॥

उद्दीपना हरेस् तादृग्-वाग्-वेष-चरितादयः ।
अनुभावास् तु नासौष्ठ-गण्ड-निष्पन्दनादयः ॥ र्भ्र्स्_४,१।१२ ॥
हर्षालस्यावहित्थाद्या विज्ञेया व्यभिचारिणः ।
सा हास-रतिर् एवात्र स्थायि-भावतयोदिता ॥ र्भ्र्स्_४,१।१३ ॥
षोढा हास-रतिः स्यात् स्मित-हसिते विहसितावहसिते च ।
अपहसितातिहसितके ज्येष्ठादीनां क्रमाद् द्वे द्वे ॥ र्भ्र्स्_४,१।१४ ॥
विभावनादि-वैचित्र्याद् उत्तमस्यापि कुत्रचित् ।
भवेद् विहसिताद्यं च भावज्ञैर् इति भण्यते ॥ र्भ्र्स्_४,१।१५ ॥

तत्र स्मितम्–
स्मितं त्व् अलक्ष्य-दशनं नेत्र-गण्ड-विकाश-कृत् ॥ र्भ्र्स्_४,१।१६ ॥

यथा–
क्व यामि जरती खला दधि-हरं दिधीर्षन्त्य् असौ
प्रधावति जवेन मां सुबल मङ्क्षु रक्षां कुरु ।
इति स्खलद्-उदीरिते द्रवति कान्दिशीके हरौ
विकस्वर-मुखाम्बुजं कुलम् अभून् मुनीनां दिवि ॥ र्भ्र्स्_४,१।१७ ॥

हसितम्–
तद् एव दर-संलक्ष्य-दन्ताग्रं हसितं भवेत् ॥ र्भ्र्स्_४,१।१८ ॥

यथा–
मद्-वशेन पुरः-स्थितो हरिर् असौ पुत्रो ऽहम् एवास्मि ते
पश्येत्य् अच्युत-जल्प-विश्वसितया संरम्भ-रज्यद्-दृशा ।
माम् एति स्खलद्-अक्षरे जटिलया व्याक्रुश्य निष्कासिते
पुत्रे प्राङ्गतः सखी-कुलम् अभूद् दन्तांशु-धौताधरम् ॥ र्भ्र्स्_४,१।१९ ॥

विहसितम्–
स-स्वनं दृष्ट-दशनं भवेद् विहसितं तु तत् ॥ र्भ्र्स्_४,१।२० ॥

यथा–
मुषाण दधि मेदुरं विफलम् अन्तरा शङ्कसे
स-निःश्वसित-डम्बरं जटिलयात्र निद्रायते ।
इति ब्रुवति केशवे प्रकट-शीर्ण-दन्त-स्थलं
कृतं हसितम् उत्स्वनं कपट-सुप्तया वृद्धया ॥ र्भ्र्स्_४,१।२१ ॥

अवहसितम्–
तच् चावहसितं फुल्ल-नासं कुञ्चित-लोचनम् ॥ र्भ्र्स्_४,१।२२ ॥

यथा–
लग्नस् ते नितरां दृशोर् अपि युगे किं धातु-रागो घनः
प्रातः पुत्र बलस्य वा किम् असितं वासस् त्वयाङ्गे धृतम् ।
इत्य् आकर्ण्य पुरो व्रजेश-गृहिणी-वाचं स्फुरन्-नासिका
दूती सङ्कुचद्-ईक्षणावहसितं जाता न रोद्धुं क्षमा ॥ र्भ्र्स्_४,१।२३ ॥

अपहसितम्–
तच् चापहसितं साश्रु-लोचनं कम्पितांसकम् ॥ र्भ्र्स्_४,१।२४ ॥

यथा–
उदस्रं देवर्षिर् दिवि दर-तरङ्गद्-भुज-शिरा
यद् अभ्राण्य् उद्दण्डो दशन-रुचिभिः पाण्डरयति ।
स्फुटं ब्रह्मादीनां नटयितरि दिव्ये व्रज-शिशौ
जरत्याः प्रस्तोभान् नटति तद् अनैषीद् दृशम् असौ ॥ र्भ्र्स्_४,१।२५ ॥

अतिहसितम्–
सहस्र-तालं क्षिप्ताङ्गं तच् चातिहसितं विदुः ॥ र्भ्र्स्_४,१।२६ ॥

यथा–
वृद्धे त्वं वलिताननासि वलिभिः प्रेक्ष्य सुयोग्याम् अतस्
त्वाम् उद्वोढुम् असौ बली-मुख-वरो मां साधयत्य् उत्सुकः ।
आभिर् विप्लुत-धीर् वृणे न हि परं त्वत्तो बलि-ध्वंसनाद्
इत्य् उच्चैर् मुखरा-गिरा विजहसुः सोत्तालिका बालिकाः ॥ र्भ्र्स्_४,१।२७ ॥

यस्य हासः स चेत् क्वापि साक्षान् नैव निबध्यते ।
तथाप्य् एष विभावादि-सामर्थ्याद् उपलभ्यते ॥ र्भ्र्स्_४,१।२८ ॥

यथा–
शिम्बी-लम्बि-कुचासि दर्दुर-वधू-विस्पर्धि नासाकृतिस्
त्वं जीर्यद्-दुलि-दृष्टिर् ओष्ठ-तुलिताङ्गारा मृदङ्गोदरी ।
का त्वत्तः कुटिले परास्ति जटिला-पुत्रि क्षितौ सुन्दरी
पुण्येन व्रज-सुभ्रुवां तव धृतिं हर्तुं न वंशी क्षमा ॥ र्भ्र्स्_४,१।२९ ॥

एष हास्य-रसस् तत्र कैशिकी-वृत्ति-विस्तृतौ ।
शृङ्गारादि-रसोद्भेदो बहुधैव प्रपञ्चितः ॥ र्भ्र्स्_४,१।३० ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
हास्य-भक्ति-रस-निरूपणे अद्भुत-भक्ति-रस-लहरी प्रथमा ॥


(४।२)
अद्भुत-भक्ति-रसाख्या
द्वितीय-लहरी

आत्मोचितैर् विभावाद्यैः स्वाद्यत्वं भक्त-चेतसि ।
सा विस्मय-रतिर् नीताद्- भुतो-भक्ति-रसो भवेत् ॥ र्भ्र्स्_४,२।१ ॥
भक्तः सर्व-विधो ऽप्य् अत्र घटते विस्मयाश्रयः ।
लोकोत्तर-क्रिया-हेतुर् विषयस् तत्र केशवः ॥ र्भ्र्स्_४,२।२ ॥
तस्य चेष्टा-विशेषाद्यास् तस्मिन्न् उद्दीपना मताः ।
क्रियास् तु नेत्र-विस्तार-स्तम्भाश्रु-पुलकादयः ॥ र्भ्र्स्_४,२।३ ॥
आवेग-हर्ष-जाड्याद्यास् तत्र स्युर् व्यभिचारिणः ।
स्थायी स्याद् विस्मय-रतिः सा लोकोत्तर-कर्मतः ।
साक्षाद् अनुमितं चेति तच् च द्विविधम् उच्यते ॥ र्भ्र्स्_४,२।४ ॥

तत्र साक्षात्, यथा–
साक्षाद् ऐन्द्रियकं दृष्ट-श्रुत-सङ्कीर्तितादिकम् ॥ र्भ्र्स्_४,२।५ ॥

तत्र दृष्टम्, यथा–
एकम् एव विविधोद्यम-भाजं
मन्दिरेषु युगपन् निखिलेषु ।
द्वारकाम् अभि समीक्स्य मुकुन्दं
स्पन्दनोज्झित-तनुर् मुनिर् आसीत् ॥ र्भ्र्स्_४,२।६ ॥

यथोक्तं श्री-दशमे (१०।६९।२)–
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ र्भ्र्स्_४,२।७ ॥

यथा वा–
क्व स्तन्य-गन्धि-वदनेन्दुर् असौ शिशुस् ते
गोवर्धनः शिखर-रुद्ध-घनः क्व चायम् ।
भोः पश्य सव्य-कर-कन्दूकिताचलेन्द्रः
खेलन्न् इव स्फुरति हन्त किम् इन्द्र-जालम् ॥ र्भ्र्स्_४,२।८ ॥

श्रुतम्, यथा–
यान्य् अक्षिपन् प्रहरणानि भटाः स देवः
प्रत्येकम् अच्छिनदमुनि शर-त्रयेण ।
इत्य् आकलय्य युधि कंसरिपोः प्रभावं
स्फारेक्षणः क्षितिपतिः पुलकी तदासीत् ॥ र्भ्र्स्_४,२।९ ॥

सङ्कीर्तितम्, यथा–
डिम्बाः स्वर्ण-निभाम्बरा घन-रुचो जाताश् चतुर्बाहवो
वत्साश् चेति वदन् कृतो ऽस्मि विवशः स्तम्भ-श्रिया पश्यत ।
आश्चर्यं कथयामि वः शृणुत भोः प्रत्येकम् एकैकशः
स्तूयन्ते जगद्-अण्डवद्भिर् अभितस् ते हन्त पद्मासनैः ॥ र्भ्र्स्_४,२।१० ॥

अनुमितम्, यथा–
उन्मील्य व्रज-शिशवो दृशं पुरस्ताद्
भाण्डीरं पुनर् अतुल्य विलोकयन्तः ।
सात्मानं पशु-पटलीं च तत्र दावाद्
उन्मुक्तां मनसि चमत्क्रियाम् अवापुः ॥ र्भ्र्स्_४,२।११ ॥
अप्रियादेः क्रिया कुर्यान् नालौकिक्य् अपि विस्मयम् ।
असाधारण्य् अपि मनाक् करोत्य् एव प्रियस्य सा ॥ र्भ्र्स्_४,२।१२ ॥

प्रियात् प्रियस्य किम् उत सर्व-लोकोत्तरोत्तरा ।
इत्य् अत्र विस्मये प्रोक्ता रत्य्-अनुग्रह-माधुरी ॥ र्भ्र्स्_४,२।१३ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
गौण-भक्ति-रस-निरूपणे अद्भुत-भक्ति-रस-लहरी द्वितीया ॥


(४।३)
वीर-भक्ति-रसाख्या
तृतीय-लहरी

सैवोत्साह-रतिः स्थायी विभावाद्यैर् निजोचितः ।
आनीयमाना स्वाद्यत्वं वीर-भक्ति-रसो भवेत् ॥ र्भ्र्स्_४,३।१ ॥
युद्ध-दान-दया-धर्मैश् चतुर्धा-वीर उच्यते ।
आलम्बन इह प्रोक्त एष एव चतुर्विधः ॥ र्भ्र्स्_४,३।२ ॥
उत्साहस् त्व् एष भक्तानां सर्वेषाम् एव सम्भवेत् ॥ र्भ्र्स्_४,३।३ ॥

तत्र युद्ध-वीरः–
परितोषाय कृष्णस्य दधद् उत्साहम् आहवे ।
सखा बन्धु-विशेषो वा युद्ध-वीर इहोच्यते ॥ र्भ्र्स्_४,३।४ ॥
प्रतियोद्धा मुकुन्दो वा तस्मिन् वा प्रेक्षके स्थिते ।
तदीयेच्छावेशेनात्र भवेद् अन्यः सुहृद्-वरः ॥ र्भ्र्स्_४,३।५ ॥

तत्र कृष्णो, यथा–
अपराजित-मानिनं हठाच्
चटुलं त्वाम् अभिभूय माधव ।
धिनुयाम् अधुना सुहृद्-गणं
यदि न त्वं समरात् पराञ्चसि ॥ र्भ्र्स्_४,३।६ ॥

यथा वा–
संरम्भ-प्रकटीकृत-प्रतिभटारम्भ-श्रियोः साद्भुतं
कालिन्दी-पुलिने वयस्य-निकरैर् आलोक्यमानस् तदा ।
अव्युत्थापित-सख्ययोर् अपि वराहङ्कार-विस्फूर्जितः
श्रीदाम्नश् च बकी-द्विषश् च समराटोपः पटीयान् अभूत् ॥ र्भ्र्स्_४,३।७ ॥

सुहृद्-वरो, यथा–
सखि-प्रकर-मार्गणान् अगणितान् क्षिपन् सर्वतस्
तथाद्य लगुडं क्रमाद् भ्रमयति स्म दामा कृती ।
अमंस्त रचित-स्तुतिर् व्रजपतेस् तनुजो ऽप्य् अमुं
समृद्ध-पुलको यथा लगुड-पञ्जरान्तः-स्थितम् ॥ र्भ्र्स्_४,३।८ ॥

प्रायः प्रकृत-शूराणां स्व-पक्षैर् अपि कर्हिचित् ।
युद्ध-केलि-समुत्साहो जायते परमाद्भुतः ॥ र्भ्र्स्_४,३।९ ॥

तथा च हरि-वंशे–
तथा गाण्डीव-धन्वानं विक्रीडन् मधुसूदनः ।
जिगाय भरत-श्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥ र्भ्र्स्_४,३।१० ॥ इति ।

कत्थितास्फोट-विस्पर्धा-विक्रमास्त्र-ग्रहादयः ।
प्रतियोध-स्थिताः सन्तो भवन्त्य् उद्दीपना इह ॥ र्भ्र्स्_४,३।११ ॥

तत्र कत्थितम्–
पिण्डीशूरस् त्वम् इह सुबलं कैतवेनाबलाङ्गं
जित्वा दामोदर युधि वृथा मा कृथाः कत्थितानि ।
माद्यन्न् एष त्वद्-अलघु-भुजासर्प-दर्पापहारी
मन्द्रध्वानो नटति निकटे स्तोककृष्णः कलापी ॥ र्भ्र्स्_४,३।१२ ॥

कत्थिताद्याः स्व-संस्थाश् चेद् अनुभावाः प्रकीर्तिताः ।
तथैवाहोपुरुषिका क्ष्वेडिताक्रोश-वल्गनम् ॥ र्भ्र्स्_४,३।१३ ॥
असहाये ऽपि युद्धेच्छा समराद् अपलायनम् ।
भीताभय-प्रदानाद्या विज्ञेयाश् चापरे बुधैः ॥ र्भ्र्स्_४,३।१४ ॥

तत्र कत्थितम्, यथा–
प्रोत्साहयस्यतितरां किम् इवाग्रहेण
मां केशिसूदन विदन्न् अपि भद्रसेनम् ।
योद्धुं बलेन समम् अत्र सुदुर्बलेन
दिव्यार्गला प्रतिभटस् त्रपते भुजो मे ॥ र्भ्र्स्_४,३।१५ ॥
आहोपुरुषिका, यथा–
धृताटोपे गोपेश्वर-जलधि-चन्द्रे परिकरं
निबध्नत्य् उल्लासाद् भुज-समर-चर्या-समुचितम् ।
स-रोमाञ्चं क्ष्वेडा-निविड-मुख-बिम्बस्य नटतः
सुदाम्नः सोत्कण्ठं जयति मुहुर् आहोपुरुषिका ॥ र्भ्र्स्_४,३।१६ ॥

चतुष्टये ऽपि वीराणां निखिला एव सात्त्विकाः ।
गर्वावेग-धृति-व्रीडा-मति-हर्षावहित्थिकाः ।
अमर्षोत्सुकतासूया-स्मृत्य्-आद्या व्यभिचारिणः ॥ र्भ्र्स्_४,३।१७ ॥
युद्धोत्साह-रतिस् तस्मिन् स्थायि-भावतयोदिता ।
या स्वशक्ति-सहायाद्यैर् आहार्या सहजापि वा ।
जिगीषा स्थेयसी युद्धे सा युद्धोत्साह ईर्यते ॥ र्भ्र्स्_४,३।१८ ॥

तत्र स्व-शक्त्या आहार्योत्साह-रतिर्, यथा–
स्व-तात-शिष्ट्या स्फुटम् अप्य् अनिच्छन्न्
आहूयमानः पुरुषोत्तमेन ।
स स्तोक-कृष्णो धृत-युद्ध-तृष्णः
प्रोद्यम्य दण्डं भ्रमयाञ्चकार ॥ र्भ्र्स्_४,३।१९ ॥

स्व-शक्त्या सहजोत्साह-रतिर्, यथा–
शुण्डाकारं प्रेक्ष्य मे बाहु-दण्डं
मा त्वं भैषीः क्षुद्र रे भद्रसेन ।
हेलारम्भेणाद्य निर्जित्य रामं
श्रीदामाहं कृष्णम् एवाह्वयेय ॥ र्भ्र्स्_४,३।२० ॥

यथा व–
बलस्य बलिनो बलात् सुहृद्-अनीकम् आलोडयन्
पयोधिम् इव मन्दरः कृत-मुकुन्द-पक्ष-ग्रहः ।
जनं विकट-गर्जितैर् वधिरयन् स धीर-स्वरो
हरेः प्रमदम् एककः समिति भद्रसेनो व्यधात् ॥ र्भ्र्स्_४,३।२१ ॥

सहायेनाहार्योत्साह-रतिर्, यथा–
मयि वल्गति भीम-विक्रमे
भज भङ्गं न हि सङ्गरादितः ।
इति मित्र-गिरा वरूथपः
स-विरूपं विब्रुवन् हरिं ययौ ॥ र्भ्र्स्_४,३।२२ ॥

सहायेन सहजोत्साह-रतिर्, यथा–
सङ्ग्राम-कामुक-भुजः स्वयम् एव कामं
दामोदरस्य विजयाय कृती सुदामा ।
साहाय्यम् अत्र सुबलः कुरुते बली चेज्
जातो मणिः सुजटितो वर-हाटकेन ॥ र्भ्र्स्_४,३।२३ ॥

सुहृद् एव प्रतिभटो वीरे कृष्णस्य न त्वरिः ।
स भक्त-क्षोभ-कारित्वाद् रौद्रे त्व् आलम्बनो रसे ।
रागाभावो दृग्-आदीनां रौद्राद् अस्य विभेदकः ॥ र्भ्र्स्_४,३।२४ ॥

अथ दान-वीरः–
द्वि-विधो दान-वीरः स्याद् एकस् तत्र बहु-प्रदः ।
उपस्थित-दुरापार्थ-त्यागी चापर उच्यते ॥ र्भ्र्स्_४,३।२५ ॥

तत्र बहु-प्रदः–
सहसा दीयते येन स्वयं सर्वस्वम् अप्य् उत ।
दामोदरस्य सौख्याय प्रोच्यते स बहु-प्रदः ॥ र्भ्र्स्_४,३।२६ ॥
सम्प्रदानस्य वीक्षाद्या अस्मिन्न् उद्दीपना मताः ।
वाञ्छिताधिक-दातृत्वं स्मित-पूर्वाभिभाषणम् ॥ र्भ्र्स्_४,३।२७ ॥
स्थैर्य-दाक्षिण्य-धैर्याद्या अनुभावा इहोदिताः ।
वितर्कौत्सुक्य-हर्षाद्या विज्ञेया व्यभिचारिणः ॥ र्भ्र्स्_४,३।२८ ॥
दानोत्साह-रतिस् त्व् अत्र स्थायि-भावतयोदिता ।
प्रगाढा स्थेयसी दित्सा दानोत्साह इतीर्यते ॥ र्भ्र्स्_४,३।२९ ॥
द्विधा बहु-प्रदो ऽप्य् एष विद्वद्भिर् इह कथ्यते ।
स्याद् आभ्युदयिकस् त्व् एकः परस् तत्-सम्प्रदानकः ॥ र्भ्र्स्_४,३।३० ॥

तत्र आभ्युदायिकः–
कृष्णस्याभ्युदयार्थं तु येन सर्वस्वम् अर्प्यते ।
अर्थिभ्यो ब्राह्मणादिभ्यः स आभ्युदायिको भवेत् ॥ र्भ्र्स्_४,३।३१ ॥

यथा–
व्रजपतिर् इह सूनोर् जातकार्थं तथासौ
व्यतरद् अमल-चेताः सञ्चयं नैचिकीनाम् ।
पृथुर् अपि नृग-कीर्तिः साम्प्रतं संवृतासीद्
इति निजगदुर् उच्चैर् भूसुरा येन तृप्ताः ॥ र्भ्र्स्_४,३।३२ ॥

अथ तत्-सम्प्रदानकः–
ज्ञातये हरये स्वीयम् अहन्ता-ममतास्पदम् ।
सर्वस्वं दीयते येन स स्यात् तत्-सम्प्रदानकः ॥ र्भ्र्स्_४,३।३३ ॥
तद्-दानं प्रीति-पूजाभ्यां भवेद् इत्य् उदितं द्विधा ॥ र्भ्र्स्_४,३।३४ ॥

तत्र प्रीति-दानम्–
प्रीति-दानं तु तस्मै यद् दद्याद् बन्ध्व्-आदि-रूपिणे ॥ र्भ्र्स्_४,३।३५ ॥

यथा–
चार्चिक्यं वैजयन्तीं पटम् उरु-पुरटोद्भासुरं भूषणानां
श्रेणिं माणिक्य-भाजं गज-रथ-तुरगान् कर्बुरान् कर्बुरेण ।
दत्त्वा राज्यं कुटुम्बं स्वम् अपि भगवते दित्सुर् अप्य् अन्यद् उच्चैर्
देयं कुत्राप्य् अदृष्ट्वा मख-सदसि तदा व्याकुलः पाण्डवो ऽभूत् ॥ र्भ्र्स्_४,३।३६ ॥

पुजा-दानं–
पुजा-दानं तु तस्मै यद् विप्र-रूपाय दीयते ॥ र्भ्र्स्_४,३।३७ ॥

यथा अष्टमे (८।२०।११)–
यजन्ति यज्ञं क्रतुभिर् यम् आदृता
भवन्त आम्नाय-विधान-कोविदाः ।
स एव विष्णुर् वरदो ऽस्तु वा परो
दास्याम्य् अमुष्मै क्षितिम् ईप्सितां मुने ॥ र्भ्र्स्_४,३।३८ ॥

यथा वा दश-रूपके {*धनिक तो ४।७२}–
लक्ष्मी-पयोधरोत्सङ्ग-कुङ्कुमारुणितो हरेः ।
बलिनैव स येनास्य भिक्षा-पात्रीकृतः करः ॥ र्भ्र्स्_४,३।३९ ॥

अथ उपस्थित-दुरापार्थ-त्यागी–
उपस्थित-दुरापार्थ-त्यग्य् असौ येन नेष्यते ।
हरिणा दीयमानो ऽपि सार्ष्ट्य्-आदिस् तुष्यता वरः ॥ र्भ्र्स्_४,३।४० ॥
पूर्वतो ऽत्र विपर्यस्त-कारकत्वं द्वयोर् भवेत् ।
अस्मिन्न् उद्दीपनाः कृष्ण-कृपालाप-स्मितादयः ॥ र्भ्र्स्_४,३।४१ ॥
अनुभावास् तद्-उत्कर्ष-वर्णन-द्रढिमादयः ।
अत्र सञ्चारिता भूम्ना धृतेर् एव समीक्ष्यते ॥ र्भ्र्स्_४,३।४२ ॥
त्यागोत्साह-रतिर् धीरैः स्थायी भाव इहोदितः ।
त्यागेच्छा तादृशी प्रौढा त्यागोत्साह इतीर्यते ॥ र्भ्र्स्_४,३।४३ ॥

यथा हरि-भक्ति-सुधोदये (७।२८)–
स्थानाभिलाषी तपसि स्थितो ऽहं
त्वां प्राप्तवान् देव-मुनीन्द्र-गुह्यम् ।
काचं विचिन्वन्न् अपि दिव्य-रत्नं
स्वामिन् कृतार्थो ऽस्मि वरं न याचे ॥ र्भ्र्स्_४,३।४४ ॥

यथा वा तृतीये (३।१५।४८)–
नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं
किं वान्यद् अर्पित-भयं भ्रुव उन्नयैस् ते ।
ये ऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः
कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः ॥ र्भ्र्स्_४,३।४५ ॥

अयम् एव भवन्न् उच्चैः प्रौढ-भाव-विशेष-भाक् ।
धुर्यादीनां तृतीयस्य वीरस्य पदवीं व्रजेत् ॥ र्भ्र्स्_४,३।४६ ॥

अथ दया-वीरः–
कृपार्द्र-हृदयत्वेन खण्डशो देहम् अर्पयन् ।
कृष्णायाच्छन्न-कृपाय दया-वीर इहोच्यते ॥ र्भ्र्स्_४,३।४७ ॥
उद्दीपना इह प्रोक्तास् तद्-आर्ति-व्यञ्जनादयः ।
निज-प्राण-व्ययेनापि विपन्न-त्राण-शीलता ॥ र्भ्र्स्_४,३।४८ ॥
आश्वासनोक्तयः स्थैर्यम् इत्य् आद्यास् तत्र विक्रियाः ।
औत्सुक्यम् अतिहर्षाद्या ज्ञेयाः सञ्चारिणो बुधैः ॥ र्भ्र्स्_४,३।४९ ॥
दयोत्साह-रतिस् त्व् अत्र स्थायि-भाव उदीर्यते ।
दयोद्रेक-भृद् उत्साहो दयोत्साह इहोदितः ॥ र्भ्र्स्_४,३।५० ॥

यथा–
वन्दे कुट्मलिताञ्जलिर् मुहुर् अहं वीरं मयूर-ध्वजं
येनार्धं कपट-द्विजाय वपुषः कंस-द्विषे दित्सता ।
कष्टं गद्गदिकाकुलो ऽस्मि कथनारम्भाद् अहो धीमता
सोल्लासं क्रकचेन दारितम् अभूत् पत्नी-सुताभ्यां शिवः ॥ र्भ्र्स्_४,३।५१ ॥

हरेश् चेत् तत्त्व-विज्ञानं नैवास्य घटते दया ।
तद्-अभावे त्व् असौ दान-वीरे ऽन्तर्-भवति स्फुटम् ॥ र्भ्र्स्_४,३।५२ ॥
वैष्णवत्वाद् रतिः कृष्णे क्रियते ऽनेन सर्वदा ।
कृतात्र द्विज-रूपे च भक्तिस् तेनास्य भक्तता ॥ र्भ्र्स्_४,३।५३ ॥
अन्तर्-भावं वदन्तो ऽस्य दान-वीरे दयात्मनः ।
वोपदेवादयो धीरा वीरम् आचक्षते त्रिधा ॥ र्भ्र्स्_४,३।५४ ॥

अथ धर्म-वीरः–
कृष्णैक-तोषणे धर्मे यः सदा परिनिष्ठितः ।
प्रायेण धीर-शान्तस् तु धर्म-वीरः स उच्यते ॥ र्भ्र्स्_४,३।५५ ॥
उद्दीपना इह प्रोक्ताः सच्-छास्त्र-श्रवणादयः ।
अनुभावा नयास्तिक्य-सहिष्णुत्व-यमादयः ॥ र्भ्र्स्_४,३।५६ ॥
धर्मोत्साह-रतिर् धीरैः स्थायी भाव इहोच्यते ।
धर्मैकाभिनिवेशस् तु धर्मोत्साहो मतः सताम् ॥ र्भ्र्स्_४,३।५७ ॥

यथा–
भवद् अभि रति-हेतून् कुर्वता सप्त-तन्तून्
पुरम् अभि पुरु-हूते नित्यम् एवोपहूते ।
दनुज-दमन तस्याः पाण्डु-पुत्रेण गण्डः
सुचिरम् अरचि शच्याः सव्य-हस्ताङ्क-शायी ॥ र्भ्र्स्_४,३।५८ ॥

यज्ञः पूजा-विशेषो ऽस्य भुजाद्य्-अङ्गानि वैष्णवः ।
ध्यात्वेन्द्राद्य्-आश्रयत्वेन यद् एष्व् आहुतिर् अर्प्यते ॥ र्भ्र्स्_४,३।५९ ॥
अयं तु साक्षात् तस्यैव निदेशात् कुरुते मखान् ।
युधिष्ठिरो ऽम्बुधिः प्रेम्णां महा-भागवतोत्तमः ॥ र्भ्र्स्_४,३।६० ॥
दानादि-त्रिविधं वीरं वर्णयन्तः परिस्फुटम् ।
धर्म-वीरं न मन्यन्ते कतिचिद् धनिकादयः* ॥ र्भ्र्स्_४,३।६१ ॥
{*चोम्मेन्ततोर् ओन् दशरूपक}

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
वीर-भक्ति-रस-निरूपणे अद्भुत-भक्ति-रस-लहरी तृतीया ॥


[४।४]
करुण-भक्ति-रसाख्या चतुर्थ-लहरी

आत्मोचितैर् विभावाद्यैर् नीता पुष्टिं सतां हृदि ।
भवेच् छोक-रतिर् भक्ति-रसो हि करुणाभिधः ॥ र्भ्र्स्_४,४।१ ॥
अव्युच्छिन्न-महानन्दो ऽप्य् एष प्रेम-विशेषतः ।
अनिष्टाप्तेः पदतया वेद्यः कृष्णो ऽस्य च प्रियः ॥ र्भ्र्स्_४,४।२ ॥
तथानवाप्त-तद्-भक्ति-सौख्यश् च स्व-प्रियो जनः ।
इत्य् अस्य विषयत्वेन ज्ञेया आलम्बनास् त्रिधा ॥ र्भ्र्स्_४,४।३ ॥
तत्-तद्-वेदी च तद्-भक्त आश्रयत्वेन च त्रिधा ।
सो ऽप्य् औचित्येन विज्ञेयः प्रायः शान्तादि-वर्जितः ।
तत्-कर्म-गुण-रूपाद्या भवत्य् उद्दीपना इह ॥ र्भ्र्स्_४,४।४ ॥
अनुभावा मुखे शोषो विलापः स्रस्त-गात्रता ।
श्वास-क्रोशन-भूपात-घातोरस् ताडनादयः ॥ र्भ्र्स्_४,४।५ ॥
अत्राष्टौ सात्त्विका जाड्य-निर्वेद-ग्लानि-दीनताः ।
चिन्ता-विषाद-औत्सुक्य-चापलोन्माद-मृत्यवः ।
आलस्यापस्मृति-व्याधि-मोहाद्या व्यभिचारिणः ॥ र्भ्र्स्_४,४।६ ॥
हृदि शोकतयांशेन गता परिणतिं रतिः ।
उक्ता शोक-रतिः सैव स्थायी भाव इहोच्यते ॥ र्भ्र्स्_४,४।७ ॥

तत्र कृष्णो, यथा श्री-दशमे (१०।१६।१०)–
तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम्
आलोक्य तत्-प्रिय-सखाः पशुपा भृशार्ताः ।
कृष्णे ऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा
दुःखानुशोक-भयम् ऊढ-धियो निपेतुः ॥ र्भ्र्स्_४,४।८ ॥

यथा वा–
फणि-ह्रदम् अवगाढे दारुणं पिञ्छ-चूडे
स्खलद्-अशिशिर-बाष्प-स्तोम-धौतोत्तरीया ।
निखिल-करण-वृत्ति-स्तम्भिनीम् आललम्बे
विषम् अगतिम् अवस्थां गोष्ठ-राजस्य राज्ञी ॥ र्भ्र्स्_४,४।९ ॥

तस्य प्रिय-जनो, यथा–
कृष्ण-प्रियाणाम् आकर्षे शङ्ख-चूडेन निर्मिते ।
नीलाम्बरस्य वक्त्रेन्दुर् नीलिमानं मुहुर् दधे ॥ र्भ्र्स्_४,४।१० ॥

स्व-प्रियो, यथा हंसदूते (५४)–
विराजन्ते यस्य व्रज-शिशु-कुल-स्तेय-विकल-
स्वयम्भू-चूडाग्रैर् लुलित-शिखराः पाद-नखराः ।
क्षणं यान् आलोक्य प्रकट-परमानन्द-विवशः
स देवर्षिर् मुक्तान् अपि तनु-भृतः शोचति भृशम् ॥ र्भ्र्स्_४,४।११ ॥

यथा वा–
मातर् माद्रि गता कुतस् त्वम् अधुना हा क्वासि पाण्डो पितः
सान्द्रानन्द-सुधाब्धिर् एष युवयोर् नाभूद् दृशां गोचरः ।
इत्य् उच्चैर् नकुलानुजो विलपति प्रेक्ष्य प्रमोदाकुलो
गोविन्दस्य पदारविन्द-युगल-प्रोद्दाम-कान्ति-च्छटाम् ॥ र्भ्र्स्_४,४।१२ ॥

रतिं विनापि घटते हास्यादेर् उद्गमः क्वचित् ।
कदाचिद् अपि शोकस्य नास्य सम्भावना भवेत् ॥ र्भ्र्स्_४,४।१३ ॥
रतेर् भूम्ना क्रशिम्ना च शोको भूयान् कृशश् च सः ।
रत्या सहाविना-भावात् काप्य् एतस्य विशिष्टता ॥ र्भ्र्स्_४,४।१४ ॥

अपि च–
कृष्णैश्वर्याद्य्-अविज्ञानं कृतं नैषाम् अविद्यया ।
किन्तु प्रेमोत्तर-रस-विशेषेणैव तत् कृतम् ॥ र्भ्र्स्_४,४।१५ ॥
अतः प्रादुर्भवन् शोको लब्धाप्य् उद्भटतां मुहुः ।
दुरूहाम् एव तनुते गतिं सौख्यस्य काम् अपि ॥ र्भ्र्स्_४,४।१६ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
गौण-भक्ति-रस-निरूपणे करुण-भक्ति-रस-लहरी चतुर्थी ॥


४।५
रौद्र-भक्ति-रसाख्या पञ्चम-लहरी

नीता क्रोध-रतिः पुष्टिं विभावाद्यैर् निजोचितैः ।
हृदि भक्त-जनस्यासौ रौद्र-भक्ति-रसो भवेत् ॥ र्भ्र्स्_४,५।१ ॥
कृष्णो हितो ऽहितश् चेति क्रोधस्य विषयस् त्रिधा ।
कृष्णे सखी-जरत्य्-आद्याः क्रोधस्याश्रयतां गताः ।
भक्ताः सर्व-विधा एव हिते चैवाहिते तथा ॥ र्भ्र्स्_४,५।२ ॥

तत्र कृष्णे सख्याः क्रोधः–
सखी-क्रोधे भवेत् सख्याः कृष्णाद् अत्याहिते सति ॥ र्भ्र्स्_४,५।३ ॥

यथा विदग्ध-माधवे (२।३७)
अन्तः-क्लेश-कलङ्किताः किल वयं यामो ऽद्य याम्यां पुरीं
नायं वञ्चन-सञ्चय-प्रणयिनं हासं तथाप्य् उज्झति ।
अस्मिन् सम्पुटिते गभीर-कपटैर् आभीर-पल्ली-विटे
हा मेधाविनि राधिके तव कथं प्रेमा गरीयान् अभूत् ॥ र्भ्र्स्_४,५।४ ॥

तत्र जरत्याः क्रोधः–
क्रोधो जरत्या वध्व्-आदि-सम्बन्धे प्रेक्षिते हरौ ॥ र्भ्र्स्_४,५।५ ॥
यथा–
अरे युवति-तस्कर प्रकटम् एव वध्वाः पटस्
तवोरसि निरीक्ष्यते बत न नेति किं जल्पसि ।
अहो व्रज-निवासिनः शृणुत किं न विक्रोशनं
व्रजेश्वर-सुतेन मे सुत-गृहे ऽग्निर् उत्थापितः ॥ र्भ्र्स्_४,५।६ ॥

गोवर्धनं महा-मल्लं विनान्येषां व्रजौकसाम् ।
सर्वेषाम् एव गोविन्दे रतिः प्रौढा विराजते ॥ र्भ्र्स्_४,५।७ ॥

अथ हितः–
हितस् त्रिधानवहितः साहसी चेर्ष्युर् इत्य् अपि ॥ र्भ्र्स्_४,५।८ ॥

तत्र अनवहितः–
कृष्ण-पालन-कर्तापि तत्-कर्माभिनिवेशतः ।
क्वचित् तत्र प्रमत्तो यः प्रोक्तो ऽनवहितो ऽत्र सः ॥ र्भ्र्स्_४,५।९ ॥

यथा–
उत्तिष्ठ मूढ कुरु मा विलम्बं
वृथैव धिक् पण्डित-मानिनी त्वम् ।
क्रट्यत्-पलाशि-द्वयम् अन्तरा ते
बद्धः सुतो ऽसौ सखि बम्भ्रमीति ॥ र्भ्र्स्_४,५।१० ॥

अथ साहसी–
यः प्रेरको भय-स्थाने साहसी स निगद्यते ॥ र्भ्र्स्_४,५।११ ॥

यथा–
गोविन्दः प्रिय-सुहृदां गिरैव यातस्
तालानां विपिनम् इति स्फुटं निशम्य ।
भ्रू-भेद-स्थपुटित-दृष्टिर् आद्यम् एषां
डिम्भानां व्रज-पति-गेहिनी ददर्श ॥ र्भ्र्स्_४,५।१२ ॥

अथ ईर्ष्युः–
ईर्ष्युर् मान-धना प्रोक्ता प्रौढेर्ष्याक्रान्त-मानसा ॥ र्भ्र्स्_४,५।१३ ॥

यथा–
दुर्मान-मन्थ-मथिते कथयामि किं ते
दूरं प्रयाहि सविधे तव जाज्ज्वलीमि ।
हा धिक् प्रियेण चिकुराञ्चित-पिञ्छ-कोट्या
निर्मञ्छिताग्र-चरणाप्य् अरुणाननासि ॥ र्भ्र्स्_४,५।१४ ॥

अथ अहितः–
अहितः स्याद् द्विधा स्वस्य हरेश् चेति प्रभेदतः ॥ र्भ्र्स्_४,५।१५ ॥

तत्र स्वस्याहितः–
अहितः स्वस्य स स्याद् यः कृष्ण-सम्बन्ध-बाधकः ॥ र्भ्र्स्_४,५।१६ ॥

यथा उद्धव-सन्देशे (७४)–
कृष्णं मुष्णन् अकरुण-बलाद् गोप-नारी-वधार्थी
मा मर्यादाम् यदु-कुल-भुवाम् भिन्धिरे गान्दिनेयः ।
इति उत्तुङ्गा मम मधु-पुरे यात्रया तत्र तासां
वित्रस्तानां परिववलिरे वल्लवीनां विलापाः ॥ र्भ्र्स्_४,५।१७ ॥

अथ हरेर् अहितः–
अहितस् तु हरेस् तस्य वैरि-पक्षो निगद्यते ॥ र्भ्र्स्_४,५।१८ ॥

यथा–
हरौ श्रुति-शिरः-शिखा मणि-मरीचि-नीराजित
स्फुरच्-चरण-पङ्कजे ऽप्य् अवमतिं व्यनक्त्य् अत्र यः ।
अयं क्षिपति पाण्डवः शमन-दण्ड-घोरं हठात्
त्रिर् अस्य मुकुटोपरि स्फुटम् उदीर्य सव्यं पदम् ॥ र्भ्र्स्_४,५।१९ ॥

सोल्लुण्ठ-हास-वक्रोक्ति-कटाक्षानादरादयः ।
कृष्णाहित-हितस्थाः स्युर् अमी उद्दीपना इह ॥ र्भ्र्स्_४,५।२० ॥
हस्त-निस्पेषणं दन्त-घट्टनं रक्त-नेत्रता ।
दष्टौष्ठतातिभ्रू-कुटी भुजास्फालन-ताडनाः ॥ र्भ्र्स्_४,५।२१ ॥
तुष्णीकता नतास्यत्वं निश्वासो भुग्न-दृष्टिता ।
भर्त्सनं मूर्ध-विधूतिर् दृग्-अन्ते पाटल-च्छविः ॥ र्भ्र्स्_४,५।२२ ॥
भ्रू-भेदाधर-कम्पाद्या अनुभावा इहोदिताः ।
अत्र स्तम्भादयः सर्वे प्राकट्यं यान्ति सात्त्विकाः ॥ र्भ्र्स्_४,५।२३ ॥
आवेगो जडता गर्वो निर्वेदो मोह-चापले ।
असूयौग्र्यं तथामर्ष-श्रमाद्या व्यभिचारिणः ॥ र्भ्र्स्_४,५।२४ ॥
अत्र क्रोध-रतिः स्थायी स तु क्रोधस् त्रिधा मतः ।
कोपो मन्युस् तथा रोषस् तत्र कोपस् तु शत्रु-गः ॥ र्भ्र्स्_४,५।२५ ॥
मन्युर् बन्धुषु ते पूज्य-सम-न्यूनास् त्रिधोदिताः ।
रोषस् तु दयिते स्त्रीणाम् अतो व्यभिचरत्य् असौ ॥ र्भ्र्स्_४,५।२६ ॥
हस्त-पेषादयः कोपे मन्यौ तुष्णीकतादयः ।
दृग्-अन्त-पाटलत्वाद्या रोषे तु कथिताः क्रियाः ॥ र्भ्र्स्_४,५।२७ ॥

तत्र वैरिणि, यथा–
निरुध्य पुरम् उन्मदे हरिम् अगाध-सत्त्वाश्रयं
मृधे मगध-भूपतौ किम् अपि वक्त्रम् आक्रोशति ।
दृशं कवलित-द्विषद्-विसर-जाङ्गले नुनोद
दहद्-इङ्गल-प्रवल-पिङ्गलां लाङ्गली* ॥ र्भ्र्स्_४,५।२८ ॥
{*थ्रेए स्य्ल्लब्लेस् मिस्सिन्ग् इन् थे लस्त् लिने। चोप्यिस्त् एर्रोर् ओर् त्य्पो?}

पूज्यो, यथा विदग्ध-माधवे (२।२२)–
क्रोशन्त्यां कर-पल्लवेन बलवान् सद्यः पिधत्ते मुखं
धावन्त्यां भय-भाजि विस्तृत-भुजो रुन्धे पुरः पद्धतिम् ।
पादान्ते विलुठत्य् असौ मयि मुहुर् दष्टाधरायां रुषा
मातश् चण्डि मया शिखण्ड-मुकुटाद् आत्माभिरक्ष्यः कथम् ॥ र्भ्र्स्_४,५।२९ ॥

समे, यथा–
ज्वलति दुर्मुखि मर्मणि मुर्मुरस्
तव गिरा जटिले निटिले च मे ।
गिरिधरः स्पृशति स्म कदा मदाद्
दुहितरं दुहितुर् मम पामरि ॥ र्भ्र्स्_४,५।३० ॥

न्यूने, यथा–
हन्त स्वकीय-कुच-मूर्ध्नि मनोहरो ऽयं
हारश् चकास्ति हरि-कण्ठ-तटी-चरिष्णुः ।
भोः पश्यत स्वकुल-कज्जल-मञ्जरीयं
कुटेन मां तद् अपि वञ्चयते वधूटी ॥ र्भ्र्स्_४,५।३१ ॥

अस्मिन् न तादृशो मन्यौ वर्तते रत्य्-अनुग्रहः ।
उदाहरण-मात्राय तथाप्य् एष निदर्शितः ॥ र्भ्र्स्_४,५।३२ ॥
क्रोधाश्रयाणां शत्रूणां चैद्यादीनां स्वभावतः ।
क्रोधो रति-विनाभावान् न भक्ति-रसतां व्रजेत् ॥ र्भ्र्स्_४,५।३३ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
गौण-भक्ति-रस-निरूपणे रौद्र-भक्ति-रस-लहरी पञ्चमी ॥


[४।६]
भयानक-भक्ति-रसाख्या
षष्ठ-लहरी

वक्ष्यमाणैर् विभावाद्यैः पुष्टिं भय-रतिर् गता ।
भयानकाभिधो भक्ति-रसो धीरैर् उदीर्यते ॥ र्भ्र्स्_४,६।१ ॥
कृष्णश् च दारुणाश् चेति तस्मिन्न् आलम्बना द्विधा ।
अनुकम्प्येषु सागस्सु कृष्णस् तस्य च बन्धुषु ॥ र्भ्र्स्_४,६।२ ॥
दारुणाः स्नेहतः शश्वत्-तद्-अनिष्ठाप्ति-दर्शिषु ।
दर्शनाच् छ्रवणाच् चेति स्मरणाच् च प्रकीर्तिताः ॥ र्भ्र्स्_४,६।३ ॥

तत्र अनुकम्प्येषु कृष्णो, यथा–
किं शुष्यद्-वदनो ऽपि मुञ्च खचितं चित्ते पृथुं वेपथुं
विश्वस्य प्रकृतिं भजस्व न मनाग् अप्य् अस्ति मन्तुं तव ।
उष्म-म्रक्षितम् ऋक्ष-राज रभसाद् विस्तीर्य वीर्यं त्वया
पृथ्वी प्रत्युत युद्ध-कौतुक-मयी सेवैव मे निर्मिता ॥ र्भ्र्स्_४,६।४ ॥

यथा वा–
मुर-मथन पुरस् ते को भुजङ्गस् तपस्वी
लघु-हरम् इति कार्षीर् मा स्म दीनाय मन्युम् ।
गुरुर् अयम् अपराधस् तथ्यम् अज्ञानतो ऽभूद्
अशरणम् अतिमूढं रक्ष रक्ष प्रसीद ॥ र्भ्र्स्_४,६।५ ॥

बन्धुषु दारुणा दर्शनाद्, यथा–
हा किं करोमि तरलं भवनान्तराले
गोपेन्द्र गोपय बलाद् उपरुध्य बालम् ।
क्ष्मा-मण्डलेन सह चञ्चलयन् मनो मे
शृङ्गाणि लङ्घयति पश्य तुरङ्ग-दैत्यः ॥ र्भ्र्स्_४,६।६ ॥

श्रवणाद्, यथा–
शृण्वन्ती तुरग-दानवं रुषा
गोकुलं किल विशन्तम् उद्धुरम् ।
द्राग् अभूत् तनय-रक्षणाकुला
शुष्यद्-आस्य-जलजा व्रजेश्वरी ॥ र्भ्र्स्_४,६।७ ॥

स्मरणाद्, यथा–
विरम विरम मातः पूतनायाः प्रसङ्गात्
तनुम् इयम् अधुनापि स्मर्यमाणा धुनोति ।
कवलयितुम् इवान्धीकृत्य बालं घुरन्ती
वपुर् अतिपुरुषं या घोरम् आविश्चकार ॥ र्भ्र्स्_४,६।८ ॥

विभावस्य भ्रू-कुट्य्-आद्यास् तस्मिन्न् उद्दीपना मताः ।
मुख-शोषणम् उच्छ्वासः परावृत्य विलोकनम् ॥ र्भ्र्स्_४,६।९ ॥
स्व-सङ्गोपनम् उद्घूर्णा शरणान्वेषणं तथा ।
क्रोशनाद्याः क्रियाश् चात्र सात्त्विकाश् चाश्रु-वर्जिताः ॥ र्भ्र्स्_४,६।१० ॥
इह सन्त्रास-मरण-चापलावेग-दीनताः ।
विषाद-मोहापस्मार-शङ्काद्या व्यभिचारिणः ॥ र्भ्र्स्_४,६।११ ॥
अस्मिन् भग्न-रतिः स्थायी भावः स्याद् अपराधतः ।
भीषणेभ्यश् च तत्र स्याद् बहुधैवापराधिता ॥ र्भ्र्स्_४,६।१२ ॥
तज्-जा भीर् नापरत्र स्याद् अनुग्राह्य-जनान् विना ।
आकृत्या ये प्रकृत्या ये ये प्रभावेण भीषणाः ॥ र्भ्र्स्_४,६।१३ ॥
एतद्-आलम्बना भीतिः केवल-प्रेम-शालिषु ।
नारी-बालादिषु तथा प्रायेणात्रोपजायते ॥ र्भ्र्स्_४,६।१४ ॥
आकृत्या पूतनाद्याः स्युः प्रकृत्या दुष्ट-भू-भुजः ।
भीषणास् तु प्रभावेण सुरेन्द्र-गिरिशादयः ॥ र्भ्र्स्_४,६।१५ ॥
सदा भगवतो भीतिं गता आत्यन्तिकीम् अपि ।
कंसाद्या रति-शून्यत्वाद् अत्र नालम्बना मताः ॥ र्भ्र्स्_४,६।१६ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
गौण-भक्ति-रस-निरूपणे भयानक-भक्ति-रस-लहरी षष्ठी ॥


[४।७]
बीभत्स-भक्ति-रसाख्या
सप्तम-लहरी

पुष्टिं निज-विभावाद्यैर् जुगुप्सा-रतिर् आगता ।
असौ भक्ति-रसो धीरैर् बीभत्साख्य इतीर्यते ॥ र्भ्र्स्_४,७।१ ॥
अस्मिन्न् आश्रित-शान्ताद्या धीरैर् आलम्बना मताः ॥ र्भ्र्स्_४,७।२ ॥

यथा–
पाण्डित्यं रत-हिण्डकाध्वनि गतो यः काम-दीक्षा-व्रती
कुर्वन् पूर्वम् अशेष-षिड्ग-नगरी साम्राज्य-चर्याम् अभूत् ।
चित्रं सो ऽयम् उदीरयन् हरि-गुणान् उद्बाष्प-दृष्टिर् जनो
दृष्टे स्त्री-वदने विकूणित-मुखो विष्टभ्य निष्ठीवति ॥ र्भ्र्स्_४,७।३ ॥

अत्र निष्ठीवनं वक्त्र-कूणनं घ्राण-संवृतिः ।
धावनं कम्प-पुलक-प्रस्वेदाद्याश् च विक्रियाः ॥ र्भ्र्स्_४,७।४ ॥
इह ग्लानि-श्रमोन्माद-मोह-निर्वेद-दीनताः ।
विषाद-चापलावेग-जाड्याद्यो व्यभिचारिणः ॥ र्भ्र्स्_४,७।५ ॥
जुगुप्सा-रतिर् अत्र स्यात् स्थायी सा च विवेकजा ।
प्रायिकी चेति कथिता जुगुप्सा द्वि-विधा बुधैः ॥ र्भ्र्स्_४,७।६ ॥

तत्र विवेकजा–
जात-कृष्ण-रतेर् भक्त-विशेषस्य तु कस्यचित् ।
विवेकोत्था तु देहादौ जुगुप्सा स्याद् विवेकजा ॥ र्भ्र्स्_४,७।७ ॥

यथा–
घन-रुधिर-मये त्वचा पिनद्धे
पिशित-विमिश्रित-विस्र-गन्ध-भाजि ।
कथम् इह रमतां बुधः शरीरे
भगवति हन्त रतेर् लवे ऽप्य् उदीर्णे ॥ र्भ्र्स्_४,७।८ ॥

अथ प्रायिकी–
अमेध्य-पूत्य्-अनुभवात् सर्वेषाम् एव सर्वतः ।
या प्रायो जायते सेयं जुगुप्सा प्रायिकी मता ॥ र्भ्र्स्_४,७।९ ॥

यथा–
असृङ्-मूत्राकीर्णे घन-शमल-पङ्क-व्यतिकरे
वसन्न् एष क्लिन्नो जड-तनुर् अहं मातुर् उदरे ।
लभे चेतः-क्षोभं तव भजन-कर्माक्षमतया
तद् अस्मिन् कंसारे कुरु मयि कृपा-सागर कृपाम् ॥ र्भ्र्स्_४,७।१० ॥

यथा वा–
घ्राणोद्घूर्णक-पूत-गन्धि-विकटे कीटाकुले देहली-
स्रस्त-व्याधित-यूथ-गूथ-घटना-निर्धूत-नेत्रायुषि ।
कारा-नामनि हन्त मागध-यमेनामी वयं नारके
क्षिप्तास् ते स्मृतिम् आकलय्य नरक-ध्वंसिन्न् इह प्राणिमः ॥ र्भ्र्स्_४,७।११ ॥

लब्ध-कृष्ण-रतेर् एव सुष्ठु पूतं मनः सदा ।
क्षुभ्यत्य् अहृद्य् अलेशे ऽपि ततो ऽस्यां रत्य्-अनुग्रहः ॥ र्भ्र्स्_४,७।१२ ॥
हास्यादीनां रसत्वं यद् गौणत्वेनापि कीर्तितम् ।
प्राचां मतानुसारेण तद् विज्ञेयं मनीषिभिः ॥ र्भ्र्स्_४,७।१३ ॥
अमी पञ्चैव शान्ताद्या हरेर् भक्ति-रसा मताः ।
एषु हास्यादयः प्रायो बिभ्रति व्यभिचारिताम् ॥ र्भ्र्स्_४,७।१४ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
गौण-भक्ति-रस-निरूपणे बीभत्स-भक्ति-रस-लहरी सप्तमी ॥


[४।८]
रसानां मैत्री-वैर-स्थिति-नाम्नी
अष्टम-लहरी

अथामीषां क्रमेणैव शान्तादीनां परस्परम् ।
मित्रत्वं शात्रवत्वं च रसानाम् अभिधीयते ॥ र्भ्र्स्_४,८।१ ॥
शान्तस्य प्रीत-बीभत्स-धर्म-वीराः सुहृद्-वराः ।
अद्भुतश् चैष प्रीतादिषु चतुःष्व् अपि ॥ र्भ्र्स्_४,८।२ ॥
द्विषन्न् अस्य शुचिर् युद्धवीरो रौद्रो भयानकः ॥ र्भ्र्स्_४,८।३ ॥
सुहृत्-प्रीतस्य बीभत्सः शान्तो वीर-द्वयं तथा ।
वैरी शुचिर् युद्ध-वीरो रौद्रश् चैक-विभावकः ॥ र्भ्र्स्_४,८।४ ॥
प्रेयसस् तु शुचिर् हास्यो युद्ध-वीरः सुहृद्-वराः ।
द्विषो वत्सल-बीभत्स-रौद्रा भीष्मश् च पूर्ववत् ॥ र्भ्र्स्_४,८।५ ॥
वत्सलस्य सुहृद्-धास्यः करुणो भीष्म-भित् तथा ।
शत्रुः शुचिर् युद्ध-वीरः प्रीतो रौद्रश् च पूर्ववत् ॥ र्भ्र्स्_४,८।६ ॥
शुचेर् हास्यस् तथा प्रेयान् सुहृद् अस्य प्रकीर्तितः ।
द्विषो वत्सल-बीभत्स-शान्त-रौद्र-भयानकाः ।
प्राहुर् एके ऽस्य सुहृदं वीर-युग्मं परे रिपुम् ॥ र्भ्र्स्_४,८।७ ॥
मित्रं हास्यस्य बीभत्सः शुचिः प्रेयान् सवत्सलः ।
प्रतिपक्षस् तु करुणस् तथा प्रोक्तो भयानकः ॥ र्भ्र्स्_४,८।८ ॥
अद्भुतस्य सुहृद् वीरः पञ्च शान्तादयस् तथा ।
प्रतिपक्षो भवेद् अस्य रौद्रो बीभत्स एव च ॥ र्भ्र्स्_४,८।९ ॥
वीरस्य त्व् अद्भुतो हास्यः प्रेयान् प्रीतिस् तथा सुहृत् ।
भयानको विपक्षो ऽस्य कस्यचिच् छान्त एव च ॥ र्भ्र्स्_४,८।१० ॥
करुणस्य सुहृद्-रौद्रो वत्सलश् च विलोक्यते ।
वैरी हास्यो ऽस्य सम्भोग-शृङ्गारश् चाद्भुतस् तथा ॥ र्भ्र्स्_४,८।११ ॥
रौद्रस्य करुणः प्रोक्तो वीरश् चापि सुहृद्-वरः ।
प्रतिपक्षस् तु हास्ये ऽस्य शृङ्गारो भीषणो ऽपि च ॥ र्भ्र्स्_४,८।१२ ॥
भयानकस्य बीभत्सः करुणश् च सुहृद्-वरः ।
द्विषन्तु वीर-शृङ्गार-हास्य-रौद्राः प्रकीर्तिताः ॥ र्भ्र्स्_४,८।१३ ॥
बीभत्सस्य भवेच् छान्तो हास्यः प्रीतिस् तथा सुहृत् ।
शत्रुः शुचिस् तथा प्रेयान् ज्ञेया युक्त्या परे च ते ॥ र्भ्र्स्_४,८।१४ ॥

तत्र सुहृत्-कृत्यम्–
कथितेभ्यः परे ये स्युस् ते तटस्थाः सतां मताः ॥ र्भ्र्स्_४,८।१५ ॥
सुहृदा मिश्रणां सम्यग् आस्वादं कुरुते रसम् ॥ र्भ्र्स्_४,८।१६ ॥
द्वयोस् तु मिश्रणे साम्यं दुःशकं स्यात् तुला-धृतम् ।
तस्माद् अङ्गाङ्गि-भावेन मेलनं विदुषां मतम् ॥ र्भ्र्स्_४,८।१७ ॥
भवेन् मुख्यो ऽथ वा गौणो रसो ऽङ्गी किल यत्र यः ।
कर्तव्यं तत्र तस्याङ्गं सुहृद् एव रसो बुधैः ॥ र्भ्र्स्_४,८।१८ ॥
अथाङ्गित्वं प्रथमतो मुख्यानाम् इह लिख्यते ।
अङ्गतां यत्र सुहृदो मुख्या गौणाश् च बिभ्रति ॥ र्भ्र्स्_४,८।१९ ॥

तत्र शान्ते ऽङ्गिनि प्रीतस्याङ्गता, यथा–
जीव-स्फुलिङ्ग-वह्नेर् महसो घन-चित्-स्वरूपस्य ।
तस्य पदाम्बुज-युगलं किं वा संवाहयिष्यामि ॥ र्भ्र्स्_४,८।२० ॥
अत्र मुख्ये ऽङ्गिनि मुख्यस्याङ्गता ।

तत्रैव बीभत्सस्य, यथा–
अहम् इह कफ-शुक्र-शोणितानां
पृथु-कुतुपे कुतुकी रतः शरीरे ।
शिव शिव परमात्मनो दुरात्मा
सुख-वपुषः स्मरणे ऽपि मन्थरो ऽस्मि ॥ र्भ्र्स्_४,८।२१ ॥
अत्र मुख्य एव गौणस्य ।

तत्रैव प्रीतस्याद्भुत-बीभत्सयोश् च, यथा–
हित्वास्मिन् पिशितोपनद्ध-रुधिर-क्लिन्ने मुदं विग्रहे
प्रीत्य्-उत्सिक्त-मनाः कदाहम् असकृद्-दुस्तर्क-चर्यास्पदम् ।
आसीनं पुरटासनोपरि परं ब्रह्माम्बुद-श्यामलं
सेविष्ये चल-चारु-चामर-मरुत्-सञ्चार चातुर्यतः ॥ र्भ्र्स्_४,८।२२ ॥
अत्र मुख्य एव मुख्यस्य गौणयोश् च ।

अथ प्रीते शान्तस्य, यथा–
निरविद्यतया सपद्य् अहं
निरवद्यः प्रतिपद्य-माधुरीम् ।
अरविन्द-विलोचनं कदा
प्रभुमिन्दीवर-सुन्दरं भजे ॥ र्भ्र्स्_४,८।२३ ॥
अत्र मुख्ये मुख्यस्य ।

तत्रैव बीभत्सस्य, यथा–
स्मरन् प्रभु-पादाम्भोजं नटन्न् अटति वैष्णवः ।
यस् तु दृष्ट्या पद्मिनीनाम् अपि सुष्ठु हृणीयते ॥ र्भ्र्स्_४,८।२४ ॥
अत्र मुख्ये गौणस्य ।

तत्रैव बीभत्स-शान्त-वीराणाम्, यथा–
तनोति मुख-विक्रियां युवति-सङ्ग-रङ्गोदये
न तृप्यति न सर्वतः सुख-मये समाधाव् अपि ।
न सिद्धिषु च लालसां वहति लभ्यमानास्व् अपि
प्रभो तव पदार्चने परम् उपैति तृष्णां मनः ॥ र्भ्र्स्_४,८।२५ ॥
अत्र मुख्ये मुख्यस्य गौणयोश् च ।

अथ प्रेयसि शुचेर्, यथा–
धन्यानां किल मूर्धन्याः सुबलामुर् व्रजाबलाः ।
अधरं पिञ्छ-चूडस्य चलाश् चुलूकयन्ति याः ॥ र्भ्र्स्_४,८।२६ ॥
अत्र मुख्ये मुख्यस्य ।

तत्रैव हासस्य, यथा–
दृशोस् तरलितैर् अलं व्रज निवृत्य मुग्धे व्रजं
वितर्कयसि मां यथा न हि तथास्मि किं भूरिणा ।
इतीरयति माधवे नव-विलासिनीं छद्मना
ददर्श सुबलो बलद्-विकच-दृष्टिर् अस्याननम् ॥ र्भ्र्स्_४,८।२७ ॥
अत्र मुख्ये गौणस्य ।

तत्रैव शुचिहास्ययोर्, यथा–
मिहिर-दुहितुर् उद्यद्-वञ्जुलं मञ्जु-तीरं
प्रविशति सुबलो ऽयं राधिका-वेष-गूढः ।
स-रभसम् अभिपश्यन् कृष्णम् अभ्युत्थितं यः
स्मित-विकशित-गण्डं स्वीयम् आस्यं वृणोति ॥ र्भ्र्स्_४,८।२८ ॥
अत्र मुख्ये मुख्य-गौणयोः ।

अथ वत्सले करुणस्य–
निरातपत्रः कान्तारे सन्ततं मुक्त-पादुकः ।
वत्सान् अवति वत्सो मे हन्त सन्तप्यते मनः ॥ र्भ्र्स्_४,८।२९ ॥
अत्र मुख्ये गौणस्य ।

तत्रैव हास्यस्य, यथा–
पुत्रस् ते नवनीत-पिण्डम् अतनुं मुष्णन् ममान्तर्-गृहाद्
विन्यस्यापससार तस्य कणिकां निद्राण-डिम्भानने ।
इत्य् उक्ता कुल-वृद्धया सुत-मुखे दृष्टिं विभुग्न-भ्रुणि
स्मेरां निक्षिपती सदा भवतु वः क्षेमाय गोष्ठेश्वरी ॥ र्भ्र्स्_४,८।३० ॥
अत्रापि मुख्ये गौणस्य ।

तत्रैव भयानकाद्भुत-हास्य-करुणानाम्, यथा–
कम्प्रा स्वेदिनि चूर्ण-कुन्तल-तटे स्फारेक्षणा तुङ्गिते
सव्ये दोष्णि विकाशि-गण्ड-फलका लीलास्य-भङ्गी-शते ।
बिभ्राणस्य हरेर् गिरीन्द्रम् उदयद्-बाष्पा चिरोर्ध्व-स्थितौ
पातु प्रस्नव-सिच्यमान-सिचया विश्वं व्रजाधीश्वरी ॥ र्भ्र्स्_४,८।३१ ॥
अत्रापि मुख्ये चतूर्णां गौणानाम् ।

केवले वत्सले नास्ति मुख्यस्य खलु सौहृदम् ।
अतो ऽत्र वत्सले तस्य नतरां लिखिताङ्गता ॥ र्भ्र्स्_४,८।३२ ॥

अथ उज्ज्वले प्रेयसो, यथा–
मद्-वेष-शीलित-तनोः सुबलस्य पश्य
विन्यस्य मञ्जु-भुज-मूर्ध्नि भुजं मुकुन्दः ।
रोमाञ्च-कञ्चुक-जुषः स्फुटम् अस्य कर्णे
सन्देशम् अर्पयति तन्वि मद्-अर्थम् एव ॥ र्भ्र्स्_४,८।३३ ॥
अत्र मुख्ये मुख्यस्य ।

तत्रैव हास्यस्य, यथा–
स्वसास्मि तव निर्दये परिचिनोषि न त्वं कुतः
कुरु प्रणय-निर्भरं मम कृशाङ्गि कण्ठ-ग्रहम् ।
इति ब्रुवति पेशलं युवति-वेष-गूढे हरौ
कृतं स्मितम् अभिज्ञया गुरु-पुरस् तदा राधया ॥ र्भ्र्स्_४,८।३४ ॥
अत्र मुख्ये गौणस्य ।

तत्रैव प्रेयो-वीरयोर् यथा–
मुकुन्दो ऽयं चन्द्रावलि-वदन-चन्द्रे चटुलभे
स्मर-स्मेराम् आराद् दृशम् असकलाम् अर्पयति च ।
भुजाम् अंसे सख्युः पुलकिनि दधानः फनि-निभाम्
इभारि-क्ष्वेडाभिर् वृष-दनुजम् उद्योजयति च ॥ र्भ्र्स्_४,८।३५ ॥
अत्र मुख्ये मुख्य-गौणयोः ।

अथ गौणानाम् अङ्गिता–
हास्यादीनां तु गौणानां यद्-उदाहरणं कृतम् ।
तेनैषाम् अङ्गिता व्यक्ता मुख्यानां च तथाङ्गता ।
तथाप्य् अल्प-विशेषाय किञ्चिद् एव विलिख्यते ॥ र्भ्र्स्_४,८।३६ ॥

अथ हास्ये ऽङ्गिनि शुचेर् अङ्गता, यथा–
मदनान्धतया त्रि-वक्रया
प्रसभं पीत-पटाञ्चले धृते ।
अदधाद् विनतं जनाग्रतो
हरिर् उत्फुल्ल-कपोलम् आननम् ॥ र्भ्र्स्_४,८।३७ ॥
अत्र गौणे ऽङ्गिनि मुख्यस्याङ्गता ।

वीरे प्रेयसो, यथा–
सेनान्यं विजितम् अवेक्ष्य भद्रसेनं
मां योद्धुं मिलसि पुरः कथं विशाल ।
रामाणां शतम् अपि नोद्भटोरु-धामा
श्रीदामा गणयति रे त्वम् अत्र को ऽसि ॥ र्भ्र्स्_४,८।३८ ॥
अत्रापि गौणे ऽङ्गिनि मुख्यस्य ।

रौद्रे प्रेयो-वीरयोर्, यथा–
यदुनन्दन निन्दनोद्धतं
शिशुपालं समरे जिघांसुभिः ।
अतिलोहित-लोचनोत्पलैर्
जगृहे पाण्डु-सुतैर् वरायुधम् ॥ र्भ्र्स्_४,८।३९ ॥
अत्र गौणे मुख्य-गौणयोः ।

अद्भुते प्रेयो-वीर-हास्यानाम्, यथा–
मित्राणीक-वृतं गदायुधि गुरुं-मन्यं प्रलम्ब-द्विषं
यष्ट्या दुर्बलया विजित्य पुरतः सोल्लुण्ठम् उद्गायतः ।
श्रीदाम्नः किल वीक्ष्य केलि-समराटोपोत्सवे पाटवं
कृष्णः फुल्ल-कपोलकः पुलकवान् विस्फार-दृष्टिर् बभौ ॥ र्भ्र्स्_४,८।४० ॥
अत्र गौणे मुख्यस्य गौणयोश् च ।

एवम् अन्यस्य गौणस्य ज्ञेया कविभिर् अङ्गिता ।
तथा च मुख्य-गौणानां रसानाम् अङ्गतापि च ॥ र्भ्र्स्_४,८।४१ ॥
सो ऽङ्गी सर्वातिगो यः स्यान् मुख्यो गौणो ऽथवा रसः ।
स एवाङ्गं भवेद् अङ्गि-पोषी सञ्चारितां व्रजन् ॥ र्भ्र्स्_४,८।४२ ॥

तथा च नाट्याचार्याः पठन्ति–
एक एव भवेत् स्थायी रसो मुख्यतमो हि यः ।
रसास् तद्-अनुयायित्वाद् अन्ये स्युर् व्यभिचारिणः ॥ र्भ्र्स्_४,८।४३ ॥

श्री-विष्णु-धर्मोत्तरे च–
रसानां समवेतानां यस्य रूपं भवेद् बहु ।
स मन्तव्यो रसः स्थायी शेषाः सङ्चारिणो मताः ॥ र्भ्र्स्_४,८।४४ ॥

स्तोकाद् विभावनाज् जातः सम्प्राप्य व्यभिचारिताम् ।
पुष्णन् निज-प्रभुं मुख्यं गौणस् तत्रैव लीयते ॥ र्भ्र्स्_४,८।४५ ॥
प्रोद्यन् विभावनोत्कर्षात् पुष्टिं मुख्येन लम्भितः ।
कुञ्चता निज-नाथेन गौणो ऽप्य् अङ्गित्वम् अश्नुते ॥ र्भ्र्स्_४,८।४६ ॥
मुख्यस् त्व् अङ्गत्वम् आसाद्य पुष्णन्न् इन्द्रम् उपेन्द्रवत् ।
गौणम् एवाङ्गिनं कृत्वा निगूढ-निज-वैभवः ॥ र्भ्र्स्_४,८।४७ ॥
अनादि-वासनोद्भास-वासिते भक्त-चेतसि ।
भात्य् एव न तु लीनः स्याद् एष सञ्चारि-गौणवत् ॥ र्भ्र्स्_४,८।४८ ॥
अङ्गी मुख्यः स्वम् अत्राङ्गैर् भावैस् तैर् अभिवर्धयन् ।
सजातीयैर् विजातीयैः स्वतन्त्रः सन् विराजते ॥ र्भ्र्स्_४,८।४९ ॥
यस्य मुख्यस्य यो भक्तो भवेन् नित्य-निजाश्रयः ।
अङ्गी स एव तत्र स्यान् मुख्यो ऽप्य् अन्यो ऽङ्गतां व्रजेत् ॥ र्भ्र्स्_४,८।५० ॥

किं च–
आस्वादोद्रेक-हेतुत्वम् अङ्गस्याङ्गत्वम् अङ्गिनि ।
तद् विना तस्य सम्पातो वैफल्यायैव कल्पते ॥ र्भ्र्स्_४,८।५१ ॥
यथा मृष्ट-रसालायां यवसादेः कथञ्चन ।
तच्-चर्वणे भवेद् एव सतृणाभ्यवहारिता ॥ र्भ्र्स्_४,८।५२ ॥

अथ वैरि-कृत्यम्–
जनयत्य् एव वैरस्यं रसानां वैरिणा युतिः ।
सुमृष्ट-पानकादीनां क्षार-तिक्तादिना यथा ॥ र्भ्र्स्_४,८।५३ ॥

यथा हि–
ब्रह्मिष्ठाया निष्फलो मे व्यतीतः
कालो भूयान् हा समाधि-व्रतेन ।
सान्द्रानन्दं तन् मया ब्रह्म मूर्तं
कोणेनाक्ष्णः साचि-सव्यस्य नैक्षि ॥ र्भ्र्स्_४,८।५४ ॥
तत्र शान्तस्योज्ज्वलेन वैरस्यम् ।

क्षणम् अपि पितृ-कोटि-वत्सलं तं
सुर-मुनि-वन्दित-पादम् इन्दिरेशम् ।
अभिलषति वराङ्गना-नखाङ्कैः
प्रभुम् ईक्षितं मनो मे ॥ र्भ्र्स्_४,८।५५ ॥
तत्र प्रीतस्योज्ज्वलेनैव ।

दोर्भ्याम् अर्गल-दीर्घाभ्यां सखे परिरभस्व माम् ।
शिरः कृष्ण तवाघ्राय विहरिष्ये ततस् त्वया ॥ र्भ्र्स्_४,८।५६ ॥
अत्र प्रेयसो वत्सलेन ।

यं समस्त-निगमाः परमेशं
सात्वतास् तु भगवन्तम् उशन्ति ।
तत् सुतेति बत साहसिकीं त्वां
व्याजि-हीर्षतु कथं मम जिह्वा ॥ र्भ्र्स्_४,८।५७ ॥
अत्र वत्सलस्य प्रीतेन ।

तडिद्-विलास-तरला नव-यौवन-सम्पदः ।
अद्यैव दूति तेन त्वं मया रमय माधवम् ॥ र्भ्र्स्_४,८।५८ ॥
अत्रोज्ज्वलस्य शान्तेन ।

चिरं जीवेति संयुज्य काचिद् आशीर्भिर् अच्युतम् ।
कैलास-स्था विलासेन कामुकी परिषष्वजे ॥ र्भ्र्स्_४,८।५९ ॥
अत्र शुचेर् वत्सलेन ।

शुचेः सम्बन्ध-गन्धो ऽपि कथञ्चिद् यदि वत्सले ।
क्वचिद् भवेत् ततः सुष्ठु वैरस्यायैव कल्पते ॥ र्भ्र्स्_४,८।६० ॥

पिशितासृङ्-मयी नाहं सत्यम् अस्मि तवोचिता ।
स्वापाङ्ग-बिद्धां श्यामाङ्ग कृपयाङ्गी-कुरुष्व माम् ॥ र्भ्र्स्_४,८।६१ ॥
अत्र शुचेर् बीभत्सेन ।

एवम् अन्यापि विज्ञेया प्राज्ञै रस-विरोधिता ।
प्रायेणेयं रसाभास-कक्षायां पर्यवस्यति ॥ र्भ्र्स्_४,८।६२ ॥

किं च–
द्वायोर् एकतरस्येह बाध्यत्वेनोपवर्णने ।
स्मर्यमाणतयाप्य् उक्तौ साम्येन वचने ऽपि च ॥ र्भ्र्स्_४,८।६३ ॥
रसान्तरेण व्यवधौ तट-स्थेन प्रियेण वा ।
विषयाश्रय-भेदे च गौणेन द्विषता सह ।
इत्य् आदिषु न वैरस्यं वैरिणो जनयेद् युतिः ॥ र्भ्र्स्_४,८।६४ ॥

तत्र एकतरस्य बाध्यत्वेन वर्णने, यथा विदग्ध-माधवे (२।१८)–
प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन् मनो धित्सते
बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः ।
यस्य स्फूर्ति-लवाय हन्त हृदये योगी सुमुत्कण्ठते
मुग्धेयं किल तस्य पश्य हृदयान् निष्क्रान्तिम् आकाङ्क्षति ॥ र्भ्र्स्_४,८।६५ ॥

बाध्यत्वम् अत्र शान्तस्य शुचेर् उत्कर्ष-वर्णनात् ॥ र्भ्र्स्_४,८।६६ ॥

स्मर्यमाणत्वे, यथा–
स एष वैहासिकता-विनोदैर्
व्रजस्य हासोद्गम-संविधाता ।
फणीश्वरेणाद्य विकृष्यमाणः
करोति हा नः परिदेवनानि ॥ र्भ्र्स्_४,८।६७ ॥

साम्येन वचने, यथा–
विश्रान्त-षोडश-कला निर्विकल्पा निरावृतिः ।
सुखात्मा भवती राधे ब्रह्म-विद्येव राजते ॥ र्भ्र्स्_४,८।६८ ॥

यथा वा–
राधा शान्तिर् इवोन्निद्रं निर्निमेषेक्षणं च माम् ।
कुर्वती ध्यान-लग्नं च वासयत्य् अद्रि-कन्दरे ॥ र्भ्र्स्_४,८।६९ ॥

वसान्तरेण व्यवधौ, यथा–
त्वं कासि शान्ता किम् इहान्तरीक्षे
द्रष्टुं परं ब्रह्म कुतस् तताक्षी ।
अस्यातिरूपात् किम् इवाकुलात्मा
रम्भे समाविश्य भिदा स्मरेण ॥ र्भ्र्स्_४,८।७० ॥
अत्राद्भुतेन व्यवधिः ।

विषय-भिन्नत्वे, यथा श्री-दशमे (१०।६०।४५)–
त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर्
मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् ।
जीवच्-छवं भजति कान्तम् अति-विमूढा
या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥ र्भ्र्स्_४,८।७१ ॥

यथा वा विदग्ध-माधवे (२।३१)–
तस्याः कान्त-द्युतिनि वदने मञ्जुले चाक्षि-युग्मे
तत्रास्माकं यद्-अवधि सखे दृष्टिर् एषा निविष्टा ।
सत्यं ब्रूमस् तद्-अवधि भवेद् इन्दुम् इन्दीवरं च
स्मारं स्मारं मुख-कुटिलता-कारिणीयं हृणीया ॥ र्भ्र्स्_४,८।७२ ॥
उभयत्र शुचि-बीभत्सयोः ।

आश्रय-भिन्नत्वे, यथा–
विजयिनम् अजितः विलोक्य रङ्ग-
स्थल-भुवि सम्भृत-सांयुगीन-लीलम् ।
पशुप-सवयसां वपूंषि भेजुः
पुलक-कुलं द्विषतां तु कालिमानम् ॥ र्भ्र्स्_४,८।७३ ॥
अत्र वीर-भयानकयोः ।

विषयाश्रय-भेदे ऽपि मुख्येन द्विषता सह ।
सङ्गतिः किल मुख्यस्य वैरस्यायैव जायते ॥ र्भ्र्स्_४,८।७४ ॥

तत्र विषय-भेदे, यथा–
विमोचयार्गलाबन्धं विलम्बं तात नाचर ।
यामि काश्य-गृहं यूना मनः श्यामेन मे हृतम् ॥ र्भ्र्स्_४,८।७५ ॥
अत्र शुचेः प्रीतेन ।

आश्रय-भेदे, यथा–
रुक्मिणी-कुच-काश्मीर-पङ्किलोरः-स्थलं कदा ।
सदानन्दं परं ब्रह्म दृष्ट्या सेविष्यते मया ॥ र्भ्र्स्_४,८।७६ ॥
अत्र शान्तस्य शुचिना ।

अनुरक्त-धियो भक्ताः केचन ज्ञान-वर्त्मनि ।
शान्तस्याश्रय-भिन्नत्वे वैरस्यं नानुमन्वते ॥ र्भ्र्स्_४,८।७७ ॥

किं च–
भृत्ययोर् नायकस्येव निसर्ग-द्वेषिणोर् अपि ।
अङ्गयोर् अङ्गिनः पुष्ट्यै भवेद् एकत्र सङ्गतिः ॥ र्भ्र्स्_४,८।७८ ॥

यथा–
कुमारस् ते मल्ली-कुसुम-सुकुमारः प्रियतमे
गरिष्ठो ऽयं केशी गिरिवद् इति मे वेल्लति मनः ।
शिवं भूयात् पश्योन्नमित-भुज-मेधिर् मुहुर् अमुं
खलं क्षुन्दन् कुर्यां व्रजम् अतितरां शालिनम् अहम् ॥ र्भ्र्स्_४,८।७९ ॥
अत्र विद्विषौ वीरभयानकौ वत्सलं पुष्णीतः ।

यथा–
कम्प्रा स्वेदिनि चूर्ण-कुन्तल-तटे इत्य् आदि (ब्र्स् ४।८।३१) ॥ र्भ्र्स्_४,८।८० ॥
तत्र हास्य-करुणौ वत्सलम् एव पुष्णीतः ।

अपि च–
मिथो वैराव् अपि द्वौ यौ भावौ धर्म-सुतादिषु ।
कालादि-भेदत् प्राकट्यं तौ विन्दन्तौ न दुष्यतः ॥ र्भ्र्स्_४,८।८१ ॥
अधिरूढे महा-भावे विरुद्धैर् विरसाः युतिः ।
न स्याद् इत्य् उज्ज्वले राधा-कृष्णयोर् दर्शितं पुरा ॥ र्भ्र्स्_४,८।८२ ॥
क्वाप्य् अचिन्त्य-महा-शक्तौ महा-पुरुष-शेखरे ।
रसावलि-समावेशः स्वादायैवोपजायते ॥ र्भ्र्स्_४,८।८३ ॥

तत्र रसानां विषयत्वे, यथा ललित-माधवे (३।४)–
दैत्याचार्यास् तद्-आस्ये विकृतिम् अरुणतां मल्ल-वर्याः सखायो
गण्डौन्नत्यं खलेशाः प्रलयम् ऋषिगणा ध्यान-मुष्णास्रम् अम्बाः ।
रोमाञ्चं सांयुगीनाः कम् अपि नव-चमत्कारम् अन्तः सुरेशा
लास्यं दासाः कटाक्षं ययुर् असित-दृशः प्रेक्ष्य रङ्गे मुकुन्दम् ॥ र्भ्र्स्_४,८।८४ ॥

आश्रयत्वे, यथा–
स्वस्मिन् धूर्ये ऽप्य् अमानी शिशुषु गरि-धृताव् उद्यतेषु स्मितास्यस्
थूत्कारी दध्नि विस्रे प्रणयिषु विवृत-प्रौढिर् इन्द्रे ऽरुणाक्षः ।
गोष्ठे साश्रुर् विदूने गुरुषु हरि-मखं प्रास्य कम्पः स पायाद्
आसारे स्फार-दृष्टिर् युवतिषु पुलकी बिभ्रद् अद्रिं विभुर् वः ॥ र्भ्र्स्_४,८।८५ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
रसानां मैत्री-वैर-स्थिति-नाम्नी लहरी अष्टमी ॥


४।९
रसाभासाख्या नवम-लहरी

पूर्वम् एवानुशिष्टेन विकला रस-लक्षणा ।
रसा एव रसाभासा रस-ज्ञैर् अनुकीर्तिताः ॥ र्भ्र्स्_४,९।१ ॥
स्युस् त्रिधोपरसाश् चानु-रसाश् चापरसाश् च ते ।
उत्तमा मध्यमाः प्रोक्ताः कनिष्ठाश् चेत्य् अमी क्रमात् ॥ र्भ्र्स्_४,९।२ ॥

अत्र उपरसाः–
प्राप्तैः स्थायि-विभावानु-भावाद्यैस् तु विरूपताम् ।
शान्तादयो रसा एव द्वादशोपरसा मताः ॥ र्भ्र्स्_४,९।३ ॥

तत्र शान्तोपरसाः–
ब्रह्म-भावात् पर-ब्रह्मण्य् अद्वैताधिक्य-योगतः ।
तथा बीभत्स-भूमादेः शान्तो ह्य् उपरसो भवेत् ॥ र्भ्र्स्_४,९।४ ॥

तत्र आद्यम्, यथा–
विज्ञान-सुषमाधौते समाधौ यद् उदञ्चति ।
सुखं दृष्टे तद् एवाद्य पुराण-पुरुषे त्वयि ॥ र्भ्र्स्_४,९।५ ॥

द्वितीयम्, यथा–
यत्र यत्र विषये मम दृष्टिस्
तं तम् एव कलयामि भवन्तम् ।
यन् निरञ्जन परावर-बीजं
त्वां विना किम् अपि नापरम् अस्ति ॥ र्भ्र्स्_४,९।६ ॥

अथ प्रीतोपरसः–
कृष्णस्याग्रे ऽतिधार्ष्ट्येन तद्-भक्तेष्व् अवहेलया ।
स्वाभीष्ट-देवतान्यत्र परमोत्कर्ष-वीक्षया ।
मर्यादातिक्रमाद्यैश् च प्रीतोपरसता मता ॥ र्भ्र्स्_४,९।७ ॥

तत्र आद्यम्, यथा–
प्रणयन् वपुर् विवशतां सतां कुलैर्
अवधीर्यमाण-नटनो ऽप्य् अनर्गलः ।
विकिर प्रभो दृशम् इहेत्य् अकुण्ठ-वाक्
चटुलो बटु-व्यवृणुतात्मनो रतिम् ॥ र्भ्र्स्_४,९।८ ॥

अथ प्रेय-उपरसः–
एकस्मिन्न् एव सख्येन हरि-मित्राद्य्-अवज्ञया ।
युद्ध-भूमादिना चापि प्रेयानुपरसो भवेत् ॥ र्भ्र्स्_४,९।९ ॥

तत्र आद्यम्, यथा–
सुहृद् इत्य् उदितो भिया चकम्पे
छलितो नर्म-गिरा स्तुतिं चकार ।
स नृपः परिरिप्सतो भुजाभ्यां
हरिणा दण्डवद् अग्रतः पपात ॥ र्भ्र्स्_४,९।१० ॥

अथ वत्सलोपरसः–
सामर्थ्याधिक्याभिज्ञानाल् लालनाद्य्-अप्रयत्नतः ।
करुणस्यातिरेकादेस् तुर्याश् चोपरसो भवेत् ॥ र्भ्र्स्_४,९।११ ॥

तत्र आद्यम्, यथा–
मल्लानां यद्-अवधि पर्वतोद्भटानाम्
उन्माथं सपदि तवात्मजाद् अपश्यम् ।
नोद्वेगं तद्-अवधि यामि जामि तस्मिन्
द्राघिष्ठाम् अपि समितिं प्रपद्यमाने ॥ र्भ्र्स्_४,९।१२ ॥

अथ शृङ्गारोपरसः । तत्र स्थायि-वैरूप्यम्–
द्वयोर् एकतरस्यैव रतिर् या खलु दृश्यते ।
यान् एकत्र तथैकस्य स्थायिनः सा विरूपता ।
विभावस्यैव वैरूप्यं स्थायिन्य् अत्रोपचर्यते ॥ र्भ्र्स्_४,९।१३ ॥

तत्र एकत्र रतिर्, यथा ललित-माधवे–
मन्द-स्मितं प्रकृति-सिद्धम् अपि व्युदन्तं
सङ्गोपितश् च सहजो ऽपि दृशोस् तरङ्गः ।
धूमायिते द्विज-वधू-मदनार्ति-वह्नाव्
अह्नाय कापि गैत्रि अङ्कुरिताम् अयासीत् ॥ र्भ्र्स्_४,९।१४ ॥

अत्यन्ताभाव एवात्र रतेः खलु विवक्षितः ।
एतस्याः प्राग्-अभावे तु शुचिर् नोपरसो भवेत् ॥ र्भ्र्स्_४,९।१५ ॥

अनेकत्र रतिर्, यथा–
गान्धर्वि कुर्वाणम् अवेक्ष्य लीलाम्
अग्रे धरण्यां सखि काम-पालम् ।
आकर्णयन्ती च मुकुन्द-रेणुं
भिन्नाद्य साध्वि स्मरतो द्विधासि ॥ र्भ्र्स्_४,९।१६ ॥
केचित् तु नायकस्यापि सर्वथा तुल्य-रागतः ।
नायिकास्व् अप्य् अनेकासु वदन्त्य् उपरसं शुचिम् ॥ र्भ्र्स्_४,९।१७ ॥

विभाव-वैरूप्यम्–
वैदग्ध्यौज्ज्वल्य-विरहो विभावस्य विरूपता ।
लता-पशु-पुलिन्दीषु वृद्धास्व् अपि स वर्तते ॥ र्भ्र्स्_४,९।१८ ॥

तत्र लता, यथा–
सखि मधु किरती निशम्य वंशीं
मधु-मथनेन कटाक्षिताथ मृद्वी ।
मुकुल-पुलकिता लतावलीयं
रतिम् इह पल्लवितां हृदि व्यनक्ति ॥ र्भ्र्स्_४,९।१९ ॥

पशुर्, यथा–
पश्याद्भुतास् तुङ्ग-मदः कुरङ्गीः
पतङ्ग-कन्या-पुलिने ऽद्य धन्याः ।
याः केशवाङ्गे तद्-अपाङ्ग-पूताः
सानङ्ग-रङ्गां दृशम् अर्पयन्ति ॥ र्भ्र्स्_४,९।२० ॥

पुलिन्दी, यथा–
कालिन्दी-पुलिने पश्य पुलिन्दी पुलकाचिता ।
हरेर् दृक्-चापलं वीक्ष्य सहजं या विघूर्णते ॥ र्भ्र्स्_४,९।२१ ॥

वृद्धा, यथा–
कज्जलेन कृत-केश-कालिमा
बिल्व-युग्म-रचितोन्नत-स्तनी ।
पश्य गौरि किरती दृग्-अञ्चलं
स्मेरयत्य् अघहरं जरत्य् असौ ॥ र्भ्र्स्_४,९।२२ ॥

स्थायिनो ऽत्र विरूपत्वम् एक-रागतयापि चेत् ।
घटेतासौ विभावस्य विरूपत्वे ऽप्य् उदाहृतिः ॥ र्भ्र्स्_४,९।२३ ॥
शुचित्वौज्ज्वल्य-वैदिग्ध्यात् सुवेशत्वाच् च कथ्यते ।
शृङ्गारस्य विभावत्वम् अन्यत्राभासता ततः ॥ र्भ्र्स्_४,९।२४ ॥

अथ अनुभाव-वैरूप्यम्–
समयानां व्यतिक्रान्तिर् ग्राम्यत्वं धृष्टापि च ।
वैरूप्यम् अनुभावादेर् मनीषिभिर् उदीरितम् ॥ र्भ्र्स्_४,९।२५ ॥

तत्र समय-व्यतिक्रान्तिः–
समयाः खण्डितादीनां प्रिये रोषोदितादयः ।
पुंसः स्मितादयश् चात्र प्रियया ताडनादिषु ।
एतेषाम् अन्यथा-भावः समयानां व्यतिक्रमः ॥ र्भ्र्स्_४,९।२६ ॥

तत्र आद्यम्, यथा –
कान्ता-नखान्धितो ऽप्य् अद्य परिहृत्य हरे ह्रियम् ।
कैलास-वासिनीं दासीं कृपा-दृष्ट्या भजस्व माम् ॥ र्भ्र्स्_४,९।२७ ॥

अथ ग्राम्यत्वम् –
बाल-शब्दाद्य्-उपन्यासो विरसोक्ति-प्रपञ्चनम् ।
कटी-कण्डूतिर् इत्य् आद्यं ग्राम्यत्वं कथितं बुधैः ॥ र्भ्र्स्_४,९।२८ ॥

तत्र आद्यम्, यथा –
किं नः फणि-किशोरीणां त्वं पुष्कर-सदां सदा ।
मुरली-ध्वनिना नीवीं गोप-बाल विलुम्पसि ॥ र्भ्र्स्_४,९।२९ ॥

अथ धृष्टता–
प्रकट-प्रार्थनादिः स्यात् सम्भोगादेस् तु धृष्टता ॥ र्भ्र्स्_४,९।३० ॥

यथा–
कान्त कैलास-कुञ्जो ऽयं रम्याहं नव-यौवना ।
त्वं विदग्धो ऽसि गोविन्द किं वा वाच्यम् अतः परम् ॥ र्भ्र्स्_४,९।३१ ॥

एवम् एव तु गौणानां हासादीनाम् अपि स्वयम् ।
विज्ञेयोपरसत्वस्य मनीषिभिर् उदाहृतिः ॥ र्भ्र्स्_४,९।३२ ॥

अथ अनुरसाः–
भक्तादिभिर् विभावाद्यैः कृष्ण-सम्बन्ध-वर्जितैः ।
रसा हास्यादयः सप्त शान्तश् चानुरसा मताः ॥ र्भ्र्स्_४,९।३३ ॥

तत्र हास्यानुरसः–
ताण्डवं व्यधित हन्त कक्खटी
मर्कटी भ्रू-कुटीभिस् तथोद्धुरम् ।
येन वल्लव-कदम्बकं बभौ
हास-डम्बर-करम्बिताननम् ॥ र्भ्र्स्_४,९।३४ ॥

अथ अद्भुतानुरसः–
भाण्डीर-कक्षे बहुधा वितण्डां
वेदान्त-तन्त्रे शुक-मण्डलस्य ।
आकर्णयन् निर्निमिषाक्षि-पक्ष्मा
रोमाञ्चिताङ्गश् च सुरर्षिर् आसीत् ॥ र्भ्र्स्_४,९।३५ ॥

एवम् एवात्र विज्ञेया वीरादेर् अप्य् उदाहृतिः ॥ र्भ्र्स्_४,९।३६ ॥
अष्टाव् अमी तटस्थेषु प्राकट्यं यदि बिभ्रति ।
कृष्णादिभिर् विभावाद्यैर् गतैर् अनुभवाध्वनि ॥ र्भ्र्स्_४,९।३७ ॥

अथ अपरसाः–
कृष्ण-तत्-प्रतिपक्षश् चेद् विषयाश्रयतां गताः ।
हासादीनां तदा ते ऽत्र प्राज्ञैर् अपरसा मताः ॥ र्भ्र्स्_४,९।३८ ॥

तत्र हास्यापरसः–
पलायमानम् उद्वीक्ष्य चपलायत-लोचनम् ।
कृष्णम् आराज् जरासन्धः सोल्लुण्ठम् अहसीन् मुहुः ॥ र्भ्र्स्_४,९।३९ ॥

एवम् अन्ये ऽपि विज्ञेयास् ते ऽद्भुतापरसादयः ।
उत्तमास् तु रसाभासाः कैश्चिद् रसतयोदिताः ॥ र्भ्र्स्_४,९।४० ॥

तथा हि–
भावाः सर्वे तद्-आभासा रसाभासाश् च केचन ।
अमी प्रोक्त-रसाभिज्ञैः सर्वे ऽपि रसनाद् रसाः ॥ र्भ्र्स्_४,९।४१ ॥

भारताद्याश् चतस्रस् तु रसावस्थान-सूचिकाः ।
वृत्तयो नाट्य-मातृत्वाद् उक्ता नाटक-लक्षणे ॥ र्भ्र्स्_४,९।४२ ॥

ग्रन्थस्य गौरव-भयाद् अस्या भक्ति-रस-श्रियः ।
समाहृतिः समासेन मया सेयं विनिर्मिता ॥
गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विसारी ।
तुष्यतु सनातनो ऽस्मिन्न् उत्तर-भागे रसामृताम्भोधेः ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
रसाभास-लहरी नवमी ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ गौण-भक्ति-रस-निरूपणो नाम चतुर्थो विभागः समाप्तः ।

रामाङ्ग-शत्रु-गणिते शाके गोकुलम् अधिष्ठितेनायम् ।
भक्ति-रसामृत-सिन्धुर् विटङ्कितः क्षुद्र-रूपेण ॥

समाप्तो ऽयं श्री-श्री-भक्ति-रसामृत-सिन्धुः ॥

थन्क् योउ फ़ोर् उसिन्ग् अ गौदिय ग्रन्थ मन्दिर् तेxत्। रेमेम्बेर्, ग्ग्म् इस् अन् ओपेन् सोउर्चे नेत्wओर्क्।
सो, गिवे बच्क् तो थे wओर्ल्द् चोम्मुनित्य् ओफ़् स्छोलर्स् ब्य् नोतिफ़्यिन्ग् उस् ओफ़् अन्य् मिस्तकेस् ओर् वरिअन्त् रेअदिन्ग्स्, एइथेर् ब्य् एमैलिन्ग् उस् दिरेच्त्ल्य् ओर् ब्य् पोस्तिन्ग् इन् थे ग्ग्म् फ़ोरुम्स्। अन्द् इफ़् योउ अरे wओर्किन्ग् च्लोसेल्य् ओन् थिस् ओर् अन्य् ओथेर् तेxत्, प्लेअसे सेन्द् उस् योउर् एदितेद् वेर्सिओन्।

अन्द्, इफ़् योउ चन्, प्लेअसे हेल्प् ब्य् दोनतिन्ग् तो थे चौसे।
थे wओर्क् दोने हेरे wइल्ल् लस्त् फ़ोर् गेनेरतिओन्स्।

थन्क् योउ, थे एदितोर्स्।