पद्यावली
श्री-रूप-गोस्वामि-पादैः समाहृता।
Tहे एदितिओन् उसेद् हेरे wअस् S।K। Dएऽस् च्रितिचल्ल्य् एदितेद् तेxत् फ़िर्स्त् पुब्लिस्हेद् फ़्रोम् थे Uनिवेर्सित्य् ओफ़् Dअच्च, १९३४। Rएप्रिन्तेद्, Kओल्कत- Sअन्स्क्रित् Bओओक् Dएपोत्, २००२।
Aब्ब्रेविअतिओन्स्-
BRK = Bहक्ति-रत्नाकर BRS = Bहक्ति-रसामृत-सिन्धु CC = Cऐतन्य-चरितामृत (Kऋष्णदास) CCMK = Cऐतन्य-चरितामृत-महा-काव्य (Kअर्णपूर) DCP = DKK = Dआन-केलि-कौमुदी DR = Dअश-रूपक HBV = Hअरि-भक्ति-विलास Kऋष्णS = Kऋष्ण-सन्दर्भ KK = Kऋष्ण-कर्णामृत MSN NK = Nआम-कौमुदी RKAD = Rआधा-कृष्णार्चन-दीपिका RSAK = Rअसार्णव-सुधाकर SD = Sआहित्य-दर्पण SKM = Sअद्-उक्ति-कर्णामृत Sम्क् = Sऊक्ति-मुक्तावली Sप्द् = Śआर्ङ्गधर-पद्धति Sर्क् = Sउभाषित-रत्न-कोश ST = Śऋङ्गार-तिलक
॥ श्रीः ॥
पद्यावली
श्री-श्री-राधा-कृष्णाभ्यां नमः
पद्यावली विरचिता रसिकैर् मुकुन्द-
सम्बन्ध-बन्धुर-पदा प्रमोदोर्मि-सिन्धुः ।
रम्या समस्त-तमसां दमनी क्रमेण
सङ्गृह्यते कृति-कदम्बक-कौतुकाय ॥१॥
ग्रन्थ-प्रारम्भे मङ्गलाचरणम् ।
नमो नलिन-नेत्राय
वेणु-वाद्य-विनोदिने ।
राधाधर-सुधापान-
शालिने वन-मालिने ॥२ ॥
कस्यचित् ॥
भक्ति-प्रह्व-विलोकन-प्रणयिनी नीलोत्पल-स्पर्धिनी
ध्यानालम्बनतां समधि-निरतैर् नीते हित-प्राप्तये ।
लावण्यैक-महा-निधौ रसिकतां राधा-दृशोस् तन्वती
युष्माकं कुरुतां भवार्ति-शमनं नेत्रे तनुर् वा हरेः ॥३॥
श्री-सारङ्गस्य ॥
ये गोवर्धन-मूल-कर्दम-रस-व्यादष्ट-बर्ह-च्छदा
ये वृन्दावन-कुक्षिषु व्रज-वधू-लीलोपधानानि च ।
ये चाभ्यङ्ग-सुगन्धयः कुवलयापीडस्य दानाम्भसा
ते वो मङ्गलम् आदिशन्तु सततं कंस-द्विषो बाहवः ॥४॥
शुभाङ्कस्य ॥(SKM १.५९.३)
सायं व्यावर्तमानखिल-सुरभि-कुलाह्वान-सङ्केत-नामान्य्
अभीरी-वृन्द-चेतो हठ-हरण-कला-सिद्ध-मन्त्राक्षराणि ।
सौभाग्यं वः समन्ताद् दधतु मधु-भिदः केलि-गोपाल-मूर्तेः
सानन्दकृष्ट-वृन्दावन-रसिक-मृग-श्रेणयो वेणु-नादाः ॥५॥
उमापतिधरस्य ॥(SKM १.५७.३)
अथ श्री-कृष्णस्य महिमा ।
अम्भोभिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां
शैली मृत्-कणतां तृणं कुलिशतां वज्रं तृण-क्षीणताम् ।
वह्निः शीतलतां हिमं वहनताम् आयाति यस्येच्छया
लीला-दुर्ललिताद्भुत-व्यसनिनं कृष्णाय तस्मै नमः ॥६॥
कस्यचित् ॥
वात्सल्याद् अभय-प्रदान-समयाद् आर्तार्ति-निर्वापणाद्
औदार्याद् अघ-शोषणाद् अगणित-श्रेयः-पद-प्रापणात् ।
सेव्यः श्री-पतिर् एव सर्व-जगताम् एते यतः साक्षिणः
प्रह्लादश् च विभीषणश् च करिराट् पाञ्चल्य-हल्या ध्रुवः ॥७॥
कस्यचित् ॥
अथ भजन-माहात्म्यम् ।
व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का
कुब्जायाः किम् उ नाम रूपम् अधिकं किं तत् सुदाम्नो धनम् ।
वंशः को विदुरस्य यादवपतेर् उग्रस्य किं पौरुषं
भक्त्या तुष्यति केवलं न च गुणैर् भक्ति-प्रियो माधवः ॥८ ॥
श्री-दाक्षिणात्यस्य ॥
अनुचितम् उचितं वा कर्म कोऽयं विभागो
भगवति परम् आस्तां भक्ति-योगो द्रढीयान् ।
किरति विष-महीन्द्रः सान्द्र-पीयूषम् इन्दुर्
द्वयम् अपि स महेशो निर्विशेषं बिभर्ति ॥९॥
श्री-विष्णुपुरी-पादानाम् ॥
यदि मधु-मथन त्वद्-अङ्घ्रि-सेवां
हृदि विदधाति जहाति वा विवेकी ।
तद्-अखिलम् अपि दुष्कृतं त्रिलोके
कृतम् अकृतं न कृतं कृतं च सर्वम् ॥१०॥
तेषम् एव ॥
काषायान् न च भोजनादि-नियमान् नो वा वने वासतो
व्याख्यानाद् अथ वा मुनि-व्रत-भराच् चित्तोद्भवः क्षीयते ।
किन्तु स्फीत-कलिन्द-शैल-तनया-तीरेषु विकीडतो
गोविन्दस्य पदारविन्द-भजनारम्भस्य लेशाद् अपि ॥११॥
कस्यचित् ॥
अलम् अलम् इयम् एव प्राणिनां पातकानां
निरसन-विषये या कृष्ण कृष्णेति वाणी ।
यदि भवति मुकुन्दे भक्तिर् आनन्द-सान्द्रा
विलुठति चरणाब्जे मोक्ष-साम्राज्य-लक्ष्मीः ॥१२ ॥
श्री-सर्वज्ञस्य ॥
नानोपचार-कृत-पूजनम् आर्त-बन्धोः
प्रेम्णैव भक्त-हृदयं सुख-विद्रुतं स्यात् ।
यावत् क्षुद् अस्ति जठरे जरठा पिपासा
तावत् सुखाय भवतो ननु भक्ष्य-पेये ॥१३॥
श्री-रामानन्दरायस्य । (CCMK १३.४२; CC २.८.६९)
कृष्ण-भक्ति-रस-भावित-मतिः
क्रियतां यदि कुतोऽपि लभ्यते
तत्र लौल्यम् अपि मूल्यम् एकलं
जन्म-कोटि-सुकृतैर् न लभ्यते ॥१४॥
तस्यैव । (CC २.८.७०)
ज्ञानम् अस्ति तुलितं च तुलायां
प्रेम नैव तुलितं तु तुलायाम् ।
सिद्धिर् एव तुलितात्र तुलायां
कृष्ण-नाम तुलितं न तुलायाम् ॥१५॥
श्री-श्रीधर-स्वामि-पादानाम् ॥
अथ नाम-माहात्म्यम् ।
अंहः संहरद् अखिलं सकृद्
उदयाद् एव सकल-लोकस्य ।
तरणिर् इव तिमिर-जलधिं
जयति जगन्-मङ्गलं हरेर् नाम ॥१६॥
श्री-लक्ष्मीधराणाम् ॥(NK १.२; CC ३.३.१८०)
चतुर्णां वेदानां हृदयम् इदम् आकृष्य हरिणा
चतुर्भिर् यद् वर्णैः स्फुटम् अघटि नारायण-पदम् ।
तद् एतद् गायन्तो वयम् अनिशम् आत्मानम् अधुना
पुनीमो जानीमो न हरि-परितोषाय किम् अपि ॥१७॥
कस्यचित् ॥
योग-श्रुत्य्-उपपत्ति-निर्जन-वन-ध्यानाध्व-सम्भावित-
स्वाराज्यं प्रतिपद्य निर्भयम् अमी मुक्ता भवन्तु द्विजाः ।
अस्माकं तु कदम्ब-कुञ्ज-कुहर-प्रोन्मीलद्-इन्दीवर-
श्रेणी-श्यामल-धाम-नाम जुषतां जन्मास्तु लक्षावधि ॥१८॥
श्री- ईश्वर-पुरी-पादानाम् ॥
कल्याणानां निधानं कलि-मल-मथनं पावनं पावनानां
पाथेयं यन् मुमुक्षोः सपदि परपदप्राप्तये प्रोच्यमानम् ।
विश्राम-स्थानम् एकं कवि-वर-वचसां जीवनं सज्जनानां
बीजं धर्म-द्रुमस्य प्रभवतु भवतां भूतये कृष्ण-नाम ॥१९॥
कस्यचित् ॥
वेपन्ते दुरितानि मोह-महिमा सम्मोहम् आलम्बते
सातङ्कं नख-रजनीं कलयति श्री-चित्रगुप्तः कृती ।
सानन्दं मधुपर्क-सम्भृति-विधौ वेधाः करोत्य् उद्यमं
वक्तुं नाम्नि तवेश्वराभिलषिते ब्रूमः किम् अन्यत् परम् ॥२०॥
कस्यचित् ॥
कः परेत-नगरी-पुरन्दरः
को भवेद् अथ तदीय-किङ्करः ।
कृष्ण-नाम जगद्-एक-मङ्गलं
कण्ठ-पीठम् उररीकरोति चेत् ॥२१॥
श्री- आनन्दाचार्यस्य ।
चेतो-दर्पण-मार्जनं भव-महा-दावाग्नि-निर्वापणं
श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम् ।
आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं
सर्वात्म-स्नपनं परं विजयते श्री-कृष्ण-सङ्कीर्तनम् ॥२२॥
श्री-श्री-भगवतः ॥(CC ३.२०.१२)
ब्रह्माण्डानां कोटि-सङ्ख्याधिकानाम्
ऐश्वर्यं यच् चेतना वा यद् अंशः ।
आविर्भूतं तन्-महः कृष्ण-नाम
तन् मे साध्यं साधनं जीवनं च ॥२३॥
केषाञ्चित् ॥
विष्णोर् नामैव पुंसाः शमलम् अपहरत् पुण्यम् उत्पादयच् च
ब्रह्मादि-स्थान-भोगाद् विरतिम् अथ गुरोः श्री-पद-द्वन्द्व-भक्तिम् ।
Tअत्त्व-ज्ञानं च विष्णोर् इह मृति-जनन-भ्रान्ति-बीजं च दग्ध्वा
सम्पूर्णानन्द-बोधे महति च पुरुषं स्थापयित्वा निवृत्तम् ॥२४॥
श्री-भगवद्-व्यास-पादानाम् ॥
नाम चिन्तामणिः कृष्णश्
चैतन्य-रस-विग्रहः ।
पूर्णः शुद्धो नित्य-मुक्तो
ऽभिन्नत्वान् नाम-नामिनोः ॥२५ ॥
तेषाम् एव ॥(Pअद्मपुराण, CC २.१७.१३३, HBV ११.५०३)
मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां
सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् ।
सकृदपि परिगीतं श्रद्धया हेलया वा
भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥२६ ॥
तेषाम् एव ॥(HBV ११.४५१; Sकान्दपुराण, Pरभास-खण्डे)
स्वर्गार्थीया व्यवसितिर् असौ दीनयत्य् एव लोकान्
मोक्षापेक्षा जनयति जनं केवलं क्लेशभाजम् ।
योगाभ्यासः परम-विरसस् तादृशैः किं प्रयासैः
सर्वं त्यक्त्वा मम तु रसना कृष्ण कृष्णेति रौतु ॥२७॥
कस्यचित् ॥
सदा सर्वत्रास्ते ननु विमलम् आद्यं तव पदं
तथाप्य् एकं स्तोकं न हि भव-तरोः पत्रम् अभिनत् ।
क्षणं जिह्वाग्र-स्थं तव तु भगवन्-नाम निखिलं
स-मूलं सम्भारं कषति कतरत् सेव्यम् अनयोः ॥२८॥
श्री-श्रीधर-स्वामि-पादानाम् ॥
आकृष्टिः कृत-चेतसां सुमनसाम् उच्चांअनं चांहसाम्
आचण्डालम् अमूक-लोक-सुलभो वश्यश् च मुक्ति-श्रियः ।
नो दीक्षां न च सत्-क्रियां न च पुरश्चर्यां मनाग् ईक्षते
मन्त्रो ऽयं रसना-स्पृग् एव फलति श्री-कृष्ण-नामात्मकः ॥२९॥
श्री-लक्ष्मीधराणाम् ॥(NK १३३; CC २.१५.११०)
विचेयानि विचार्याणि विचिन्त्यानि पुनः पुनः ।
कृपणस्य धनानीव त्वन्-नामानि भवन्तु नः ॥३०॥
श्री-भवानन्दस्य ॥
नाम्नाम् अकारि बहुधा निज-सर्व-शक्तिस्
तत्रार्पिता नियमितः स्मरणे न कालः ।
एतादृशी तव कृपा भगवन् ममापि
दुर्दैवम् ईदृशम् इहाजनि नानुरागः ॥३१॥
श्री-भगवतः । (CC ३.२०.१६)
अथ नामकीर्तनम् ।
तृणाद् अपि सुनीचेन
तरोर् इव सहिष्णुना ।
अमानिना मानदेन
कीर्तनीयः सदा हरिः ॥३२॥ तस्यैव ॥(CC ३.२०.२१)
श्री-रामेति जनार्दनेति जगतां नाथेति नारायणेत्य्
आनन्देति दया-परेति कमला-कान्तेति कृष्णेति च ।
श्री-मन्-नाम-महामृताब्धि-लहरी-कल्लोल-मग्नं मुहुर्
मुह्यन्तं गलद्-अश्रु-नेत्रम् अवशं मां नाथ नित्यं कुरु ॥३३॥
श्री-लक्ष्मीधराणाम् ॥(DCP २)
श्री-कान्त कृष्ण करुणा-मय कञ्जनाभ
कैवल्य-वल्लभ मुकुन्द मुरान्तकेति ।
नामावलीं विमल-मौक्तिक-हार-लक्ष्मी-
लावण्य-वञ्चन-करीं करवाणि कण्ठे ॥३४॥
तेषाम् एव ॥(DCP ३)
कृष्ण राम मुकुन्द वामन वासुदेव जगद्-गुरो
मत्स्य कच्छप नारसिंह वराह राघव पाहि माम् ।
देव-दानव-नारदादि-मुनीन्द्र-वन्द्य दया-निधे
देवकी-सुत देहि मे तव पाद-भक्तिम् अचञ्चलाम् ॥३५॥
कस्यचित् ॥(DCP ४)
हे गोपालक हे कृपा-जल-निधे हे सिन्धु-कन्या-पते
हे कंसान्तक हे गजेन्द्र-करुणा-पारीण हे माधव ।
हे रामानुज हे जगत्-त्रय-गुरो हे पुण्डरीकाक्ष मां
हे गोपीजन-नाथ पालय परं जानामि न त्वां विना ॥३६॥
श्री-वैष्णवस्य ॥(KK २.१०८, DCP ५)
श्री-नारायण पुण्डरीक-नयन श्री-राम सीता-पते
गोविन्दाच्युत नन्द-नन्दन मुकुन्दानन्द दामोदर ।
विष्णो राघव वासुदेव नृ-हरे देवेन्द्र-चूडामणे
संसारार्णव-कर्ण-धारक हरे श्री-कृष्ण तुभ्यं नमः ॥३७॥
तस्यैव ॥
मुकुन्द विष्णो जगदीश शौरे
प्रभो हरे माधव दीन-नाथ ।
अनाथ-नाथाच्युत वासुदेव
भवाब्धि-पारं कुरु माम् अनाथम् ॥*॥
श्री-कृष्ण-देव-शर्मणः ।
भाण्डीरेश शिखण्ड-मण्डन वर श्री-खण्ड-लिप्ताङ्ग हे
वृन्दारर्ण्य-पुरन्दर स्फुरद्-अमन्देन्दीवर-श्यामल ।
कालिन्दी-प्रिय नन्द-नन्दन परानन्दारविन्देक्षण
श्री-गोविन्द मुकुन्द सुन्दर-तनो मां दीनम् आनन्दय ॥३८॥
श्री-गोपाल-भट्टानाम् ॥
श्री-कृष्णकथामाहात्म्यम् ।
श्रुतम् अप्य् औपनिषदं दूरे हरि-कथामृतात् ।
यन् न सन्ति द्रवच्-चित्त-कम्पाश्रु-पुलकादयः ॥३९॥
श्री-भगवद्-व्यास-पादानाम् ॥[Bहक्ति-सन्दर्भ ६९]
नैव दिव्य-सुख-भोगम् अर्थये
नापवर्गम् अपि नाथ कामये ।
यान्तु कर्ण-विवर दिने दिने
कृष्ण-केलि-चरितामृतानि मे ॥४०॥
श्री-कविरत्नस्य ॥
अहो अहोभिर् न कलेर् विदूयते
सुधा-सुधाराम् अधुरं पदे पदे ।
दिने दिने चन्दन-चन्द्र-शीतलं
यशो यशोदा-तनयस्य गीयते ॥४१॥
तस्यैव ॥
नन्द-नन्दन-कैशोर-
लीलामृत-महाम्बुधौ ।
निमग्नानां किम् अस्माकं
निर्वाण-लवणाम्भसा ॥४२॥
श्री-यादवेन्द्र-पुरी-पादानाम् ॥
त्वत्-कथामृत-पाथोधौ
विहरन्तो महा-मुदः ।
कुर्वन्ति कृतिनः केचिच्
चतुर्-वर्गं तृणोपमम् ॥४३॥
श्री-श्रीधर-स्वामि-पादानाम् (Bहावार्थ-दीपिका १०.८७.२१, BRS १.१.४०)
तत्रैव गङ्गा यमुना च तत्र
तत्र गोदावरी तत्र सरस्वती च ।
सर्वाणि तीर्थानि वसन्ति तत्र
यत्राच्युतोदार-कथा-प्रसङ्गः ॥४४॥
कस्यचित् ॥
या भुक्ति-लक्ष्मीर् भुवि कामुकानां
या मुक्ति-लक्ष्मीर् हृदि योग-भाजाम् ।
यानन्द-लक्ष्मी रसिकेन्द्र-मौलेः
सा कापि लीलावतु माधवस्य ॥४५॥
श्री-शङ्करस्य ॥
अथ श्री-कृष्ण-ध्यानम् ।
फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं
श्री-वत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं
गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे ॥४६ ॥
श्री-शारदाकारस्य ॥[KK ३.८२; Kऋष्णS १०६ (प्४९फ़्न्) अत्त्रिबुतेद् तो Mऋत्यु-सञ्जय-तन्त्र; इबिद्। HBV ३.११४ (सारदा-तिलके च)। Iन् RKAD तो Sवायम्भुवागम।]
अंसालम्बित-वाम-कुण्डल-धरं मन्दोन्नत-भ्रू-लतं
किञ्चित्-कुञ्चित-कोमलाधर-पुटं साचि-प्रसारेक्षणम् ।
आलोलाङ्गुलि-पल्लवैर् मुरलिकाम् आपूरयन्तं मुदा
मुले कल्प-तरोस् त्रिभङ्ग-ललितं ध्यायेज् जगन्-मोहनम् ॥४७॥
कस्यचित् ॥(KK २.१०२)
अधरे विनिहित-वंशं
चम्पक-कुसुमेन कल्पितोत्तंसम् ।
विनतं दधानम् अंसं
वामं सततं नमामि जितकंसम् ॥४८॥
श्री-पुरुषोत्तम-देवस्य ।
व्यत्यस्त-पाद-कमलं ललित-त्रिभङ्गी-
सौभाग्यम् अंस-विरलीकृत-केश-पाशम् ।
पिञ्छावतंसम् उररीकृत-वंश-नालम्
अव्याज-मोहनम् उपैमि कृपा-विशेषम् ॥४९॥
श्री-नारदस्य ।
अथ भक्त-वात्सल्यम् ।
अतन्द्रित-चमू-पति-प्रहित-हस्तम् अस्वीकृत-
प्रणीत-मणि-पादुकं किम् इति विस्मृतान्तः पुरम् ।
अवाहन-परिष्क्रियं पतग-राजम् आरोहतः
करि-प्रवर-बृंहिते भगवतस् त्वरायै नमः ॥५०॥
श्री-दाक्षिणात्यस्य ।
श्री-द्रौपदी-त्राणे तद्-वाक्यम् ।
तमसि रविर् इवोद्यन्-मज्जताम् अप्लवानां
प्लव इव तृषितानां स्वादु-वऋसीव मेघः ।
निधिर् इव निधनानां तीव्र-दुःखामयानां
भिषग् इव कुशलं नो दातुम् आयाति शौरिः ॥५१॥
श्री-व्यास-पादानाम् ।
अथ तद्-भक्तानां माहात्म्यम् ।
प्रह्लाद-नारद-पराशर-पुण्डरीक-
व्यासाम्बरीष-शुक-शौनक-भीष्म-दाल्भ्यान् ।
रुक्माङ्गदोद्धव-विभीषण-फाल्गुनादीन्
पुण्यानिमान् परमभागवतान् नमामि ॥५२॥
श्री-दाक्षिणात्यस्य ॥
श्री-विष्णोः श्रवणे परीक्षिद् अभवद् वैयासकिः कीर्तने
प्रह्लादः स्मरणे तद्-अङ्घ्रि-भजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस् त्व् अभिवन्दने कपि-पतिर् दास्ये ऽथ सख्ये ऽर्जुनः
सर्वस्वात्म-निवेदने बलिर् अभूत् कृष्णाप्तिर् एषां परा ॥५३॥
कस्यचित् ॥(CC २.२२.१३६; BRS १.२.३६५)
तेभ्यो नमोऽस्तु भव-वारिधि-जीर्ण-पङ्क-
संलग्न-मोक्षण-विचक्षण-पादुकेभ्यः ।
कृष्णेति वर्ण-युगल-श्रवणेन येषाम्
आनन्दथुर् भवति नर्तित-रोम-वृन्दः ॥५४॥
औत्कलस्य ॥
हरि-स्मृत्याह्लाद-स्तिमित-मनसो यस्य कृतिनः
स-रोमाञ्चः कायो नयनम् अपि सानन्द-सलिलम् ।
तम् एवाचन्द्रार्कं वह पुरुष-धौरेयम् अवने
किम् अन्यैस् तैर् भारैर् यम-सदन-गत्यागति-परैः ॥५५॥
श्री-सर्वानन्दस्य ।
त्वद्-भक्तः सरितां पतिं चुलुकवत् खद्योतवद् भास्करं
मेरुं पश्यति लोष्ट्रवत् किम् अपरं भूमेः पतिं भृत्यवत् ।
चिन्तारत्न-चयं शिला-शकलवत् कल्प-द्रुमं काष्ठवत्
संसारं तृण-राशिवत् किम् अपरं देहं निजं भारवत् ॥५६॥
श्री-सर्वज्ञस्य ।
मीमांसा-रजसा मलीमस-दृशां तावन् न धीर् ईश्वरे
गर्वोदर्क-कुतर्क-कर्कश-धियां दूरेऽपि वार्ता हरेः ।
जानन्तोऽपि न जानते श्रुति-सुखं श्री-रङ्गि-सङ्गाद् ऋते
सुस्वादुं परिवेषयन्त्य् अपि रसं गुर्वी न दर्वी स्पृशेत् ॥५७॥
श्री-माधव-सरस्वती-पादानाम् ।
ज्ञानावलम्बकाः केचित्
केचित् कर्मावलम्बकाः ।
वयं तु हरि-दासानां
पाद-त्राणावलम्बकाः ॥५८॥
कस्यचित् ।
**अथ भक्तानां दैन्योक्तिः **
नामानि प्रणयेन ते सुकृतिनां तन्वन्ति तुण्डोत्सवं
धामानि प्रथयन्ति हन्त जलदश्यामानि नेत्राञ्जनम् ।
सामानि श्रुतिशुष्कलीं मुरलिकाजातान्यलङ्कुर्वते
कामानिर्वृतचेतसाम् अपि विभो नाशापि नः शोभते ॥५९॥
समाहर्तुः ॥
संसाराम्भसि सम्भृत-भ्रम-भरे गम्भीर-ताप-त्रय-
ग्राहेणाभिगृहीतम् उग्रगतिना क्रोशन्तम् अन्तर्-भयात् ।
दीप्रेणाद्य सुदर्शनेन विबुध-क्लान्ति-च्छिदाकारिणा
चिन्ता-सन्तति-रुद्धम् उद्धर हरे मच्-चित्त-दन्तीश्वरम् ॥६०॥
समाहर्तुः ॥
विवृत-विविध-बाधे भ्रान्ति-वेगाद् अगाधे
बलवति भव-पूरे मज्जतो मे विदूरे ।
अशरण-गण-बन्धो हा कृपा-कौमुदीन्दो
सकृद् अकृत-विलम्बं देहि हस्तावलम्बम् ॥६१॥
समाहर्तुः ।
नृत्यन् वायु-विघूर्णितैः स्व-विटपैर् गायन्न् अलीनां रुतैर्
मुञ्चन्न् अश्रु मरन्द-बिन्दुभिर् अलं रोमाञ्चवान् अङ्कुरैः ।
माकन्दोऽपि मुकुन्द मूर्च्छति तव स्मृत्या तु वृन्दावने
ब्रूहि प्राणसमान चेतसि कथं नामापि नायाति ते ॥६२॥
श्री- ईश्वरपुरी-पादानाम् ।
या द्रौपदी-परित्राणे
या गजेन्द्रस्य मोक्षणे ।
मय्य् आर्ते करुणामूर्ते
सा त्वरा क्व गता हरे ॥६३॥
श्री- औत्कलस्य
दीन-बन्धुर् इति नाम ते स्मरन्
यादवेन्द्र पतितोऽहम् उत्सहे ।
भक्त-वत्सलतया त्वयि श्रुते
मामकं हृदयम् आशु कम्पते ॥६४॥
श्री-जगन्नाथसेनस्य ।
स्तावकास् तव चतुर्मुखादयो
भावकास् तु भगवन् भवादयः ।
सेवकाः शतमुखादयः सुरा
वासुदेव यदि के तदा वयम् ॥६५॥
श्री-धनञ्जयस्य ।
परम-कारुणिको न भवत्-परः
परम-शोच्यतमो न च मत्-परः ।
इति विचिन्त्य हरेः मयि पामरे
यद् उचितं यदुनाथ तद् आचर ॥६६॥
कस्यचित् ।
भवोद्भव-क्लेश-कशा-शताहतः
परिभ्रमन्न् इन्द्रिय-कापथान्तरे ।
नियम्यतां माधव मे मनो-हयस्
त्वद्-अङ्घ्रि-शङ्कौ दृढ-भक्ति-बन्धने ॥६७॥
कस्यचित् ।
न ध्यातोऽसि न कीर्तितोऽसि न मनाग् आराधितोऽसि प्रभो
नो जन्मान्तर-गोचरे तव पदाम्भोजे च भक्तिः कृता ।
तेनाहं बहु-दुःख-भाजनतया प्राप्तो दशाम् ईदृशीं
त्वं कारुण्य-निधे विधेहि करुणां श्री-कृष्ण दीने मयि ॥६८॥
श्री-शङ्करस्य ।
शरणम् असि हरे प्रभो मुरारे
जय मधुसूदन वासुदेव विष्णो
निरवधि-कलुषौघ-कारिणं मां
गति-रहितं जगदीश रक्ष रक्ष ॥६९॥
कस्यचित् ॥
दिनादौ मुरारे निशादौ मुरारे
दिनार्धे मुरारे निशार्धे मुरारे ।
दिनान्ते मुरारे निशान्ते मुरारे
त्वम् एको गतिर् नस् त्वम् एको गतिर् नः ॥७०॥
श्री-दाक्षिणात्यस्य ॥
अयि नन्द-तनुज किङ्करं
पतितं मां विषमे भवाम्बुधौ
कृपया तव पाद-पङ्कज-
स्थित-धूली-सदृशं विचिन्तय ॥७१॥
श्री-भगवतः । (CC ३.२०.३२)
**अथ भक्तानां निष्ठा **
न वयं कवयो न तार्किका
न च वेदान्तनितान्तपारगाः ।
न च वादिनिवारकाः परं
कपटाभीरकिशोरकिङ्कराः ॥७२॥
श्री-सार्वभौम-भट्टाचार्याणाम् ॥
परिवदतु जनो यथा तथा वा
ननु मुखरो न वयं विचारयामः
हरि-रस-मदिरा मदातिमत्ता
भुवि विलुठाम नटाम निर्विशाम ॥७३॥
तेषाम् एव ॥(BRS २.२.१५)
नाहं विप्रो न च नरपतिर् नापि वैश्यो न शूद्रो
नाहं वर्णी न च गृहपतिर् नो वनस्थो यतिर् वा ।
किन्तु प्रोद्यन्-निखिल-परमानन्द-पूर्णामृताब्धेर्
गोपी-भर्तुः पद-कमलयोर् दास-दासानुदासः ॥७४॥
श्री-भगवतः । (CC २.१३.८०)
धन्यानां हृदि भासतां गिरि-वर-प्रत्यग्र-कुञ्जौकसां
सत्यानन्द-रसं विकार-विभव-व्यावृत्तम् अन्तर्-महः ।
अस्माकं किल वल्लवी-रति-रसो वृन्दाटवी-लालसो
गोपः कोऽपि महेन्द्र-नील-रुचिरश् चित्ते मुहुः क्रीडतु ॥७५॥
श्री- ईश्वर-पुरी-पादानाम् ।
रसं प्रशंसन्तु कविता-निष्ठा
ब्रह्मामृतं वेद-शिरो-निविष्ठाः ।
वयं तु गुञ्जा-कलितावतंसं
गृहीत-वंशं कम् अपि श्रयामः ॥७६॥
श्री-यादवेन्द्र-पुरी-पादानाम् ॥
ध्यानातीतं किम् अपि परमं ये तु जानन्ति तत्त्वं
तेषाम् आस्तां हृदय-कुहरे शुद्ध-चिन्-मात्र आत्मा ।
अस्माकं तु प्रकृति-मधुरः स्मेर-वक्त्रारविन्दो
मेघ-श्यामः कनक-परिधिः पङ्कजाक्षोऽयम् आत्मा ॥७७॥
श्री-कवि-रत्नस्य ॥(BRS ३.२.२८)
जातु प्रार्थयते न पार्थिव-पदं नेन्द्रे पदे मोदते
सन्धत्ते न च योग-सिद्धिषु धियं मोक्षं च नाकाङ्क्षति ।
कालिन्दी-वन-सीमनि स्थिर-तडिन्-मेघ-दूतौ केवलं
शुद्धे ब्रह्मणि वल्लवी-भुज-लता-बद्धे मनो धावति ॥७८॥
तस्यैव ॥
सन्ध्या-वन्दन भद्रम् अस्तु भवतो भोः स्नान तुभ्यं नमो
भो देवाः पितरश् च तर्पण-विधौ नाहं क्षमः क्षम्यताम् ।
यत्र क्वापि निषद्य यादव-कुलोत्तमस्य कंस-द्विषः
स्मारं स्मारम् अघं हरामि तद् अलं मन्ये किम् अन्येन मे ॥७९॥
श्री-माधवेन्द्र-पुरी-पादानाम् ॥
देवकी-तनय-सेवकीभवन्
यो भवानि स भवानि किं ततः ।
उत्पथे क्वचन सत्पथेऽपि वा
मानसं व्रजतु दैव-देशितं ॥८०॥
कस्यचित् ॥
मुग्धं मां निगदन्तु नीति-निपुणा भ्रान्तं मुहुर् वैदिकाः
मन्दं बान्धव-सञ्चया जड-धियं मुक्तादराः सोदराः ।
उन्मत्तं धनिनो विवेक-चतुराः कामं महा-दाम्भिकं
मोक्तुं न क्षमते मनाग् अपि मनो गोविन्द-पाद-स्पृहाम् ॥८१॥
श्री-माधवस्य ॥
श्यामम् एव परं रूपं
पुरी मधु-पुरी वरा ।
वयः कैशोरकं ध्येयम्
आद्य एव परो रसः ॥८२॥
रघुपत्य्-उपाध्यायस्य । (CC २.१९.१०६)
पुरतः स्फुरतु विमुक्तिश्
चिरम् इह राज्यं करोतु वैराज्यम् ।
पशुपाल-बालक-पतेः
सेवाम् एवाभिवाञ्छामि ॥८३॥
श्री-सुरोत्तमाचार्यस्य ॥
क्षौणी-पतित्वम् अथवैकम् अकिञ्चनत्वं
नित्यं ददासि बहु-मानम् अथापमानम् ।
वैकुण्ठ-वासम् अथवा नरके निवासं
हा वासुदेव मम नास्ति गतिस् त्वद्-अन्या ॥८४॥
श्री-गर्भकवीन्द्रस्य ॥
दिशतु स्वाराज्यं वा
वितरतु ताप-त्रयं वापि ।
सुखितं दुःखितम् अपि मां
न विमुञ्चतु केशवः ॥८५ ॥
श्री-कविराज-मिश्रस्य ॥
अथ भक्तानां सोत्कण्ठा-प्रार्थना ।
नन्दनन्दन-पदारविन्दयोः
स्यन्दमान-मकरन्द-बिन्दवः ।
सिन्धवः परम-सौख्य-सम्पदां
नन्दयन्तु हृदयं ममानिशम् ॥८६॥
श्री-कराचार्याणाम् ।
इह वत्सान् समचारयद्
इह नः स्वामी जगौ वंशीम् ।
इति सास्रं गदतो मे
यमुना-तीरे दिनं यायात् ॥८७॥
श्री-रघुपत्य्-उपाध्यायस्य ।
अनुशीलन-कुञ्ज-वाटिकायां
जघनालम्बित-पीत-शाटिकायाम् ।
मुरली-कल-कूजिते रतायां
मम चेतोऽस्तु कदम्ब-देवतायाम् ॥८८॥
श्री-गोविन्दस्य ।
आरक्त-दीर्घ-नयनो नयनाभिरामः
कन्दर्प-कोटि-ललितं वपुर् आदधानः ।
भूयात् स मेऽद्य हृदयाम्बुरुहाधिवर्ती
वृन्दाटवी-नगर-नागर-चक्रवर्ती ॥८९॥
श्री-भवानन्दस्य ।
लावण्यामृत-वन्या
मधुरिम-लहरी-परीपाकः ।
कारुण्यानां हृदयं
कपट-किशोरः परिस्फुरतु ॥९०॥
श्री-सार्वभौम-भट्टाचार्याणाम् ।
भवन्तु तत्र जन्मानि
यत्र ते मुरलीकलः ।
कर्णपेयस्त्वम् आयाति
किं मे निर्वाणवार्तया ॥९१॥
तेषम् एव ।
आस्वाद्यं प्रमदारद-च्छदम् इव श्रव्यं नवं जल्पितं
बालाया इव दृश्यम् उत्तम-वधू-लावण्य-लक्ष्मीर् इव ।
प्रोद्घोष्यं चिर-विप्रयुक्त-वनिता-सन्देश-वाणीव मे
नैवेद्यं चरितं च रूपम् अनिशं श्री-कृष्ण नामास्तु मे ॥९२॥
केषाञ्चित् ।
नयनं गलद्-अश्रु-धारया
वदनं गद्गद-रुद्धया गिरा ।
पुलकैर् निचितं वपुः कदा
तव नाम-ग्रहणे भविष्यति ॥९३॥
श्री-भगवतः । (CC ३.२०.३६)
न धनं न जनं न सुन्दरीं
कवितां वा जगद्-ईश कामये
मम जन्मनि जन्मनीश्वरे
भवताद् भक्तिर् अहैतुकी त्वयि ॥९४॥
तस्यैव । (CC ३.२०.२९)
गोवर्धन-प्रस्थ-नवाम्बुवाहः
कलिन्द-कन्या-नव-नील-पद्मम् ।
वृन्दावनोदार-तमाल-शाखी
ताप-त्रयस्याभिनवं करोतु ॥९५॥
श्री-गौडीयस्य ।
अनङ्ग-रस-चातुरी-चपल-चारु-नेत्राञ्चलश्
चलन्-मकर-कुण्डल-स्फुरित-कान्ति-गण्ड-स्थलः ।
व्रजोल्लसित-नागरी-निकर-रास-लास्योत्सुकः
स मे सपदि मानसे स्फुरतु कोऽपि गोपालकः ॥९६॥
श्री-माधवेन्द्र-पुरी-पादानाम् ।
अथ भक्तानाम् उत्कण्ठा ।
श्रुतयः पलालकल्पाः
किम् इह वयं साम्प्रतं चिनुमः ।
आह्रियत पुरैव नयनैर्
आभीरीभिः परं ब्रह्म ॥९७॥
श्री-रघुपत्युपाध्ययस्य ॥
कं प्रति कथयितुम् ईशे
सम्प्रति को वा प्रतीतिम् आयातु
गो-पति-तनया-कुञ्जे
गोप-वध्ãंई-विंअं ब्रह्म ॥९८॥
तस्यैव ॥(CC २.१९.९८)
ज्ञातं काण-भुजं मतं परिचितैवान्वीक्षिकी शिक्षिता
मीमांसा विदितैव साङ्ख्य-सरणिर् योगे वितीर्णा मतिः ।
वेदान्तां परिशीलिताः सरभसं किं तु स्फुरन्-माधुरी-
धारा काचन नन्दसूनु-मुरली मच्-चित्तम् आकर्षति ॥९९॥
श्री-सार्वभौम-भट्टाचार्याणाम् ।
अमरी-मुख-सीधु-माधुरीणां
लहरी काचन चातुरी कलानाम् ।
तरलीकुरुते मनो मदीयं
मुरली-नाद-परम्परा मुरारेः ॥१००॥
तेषाम् एव ।
अपहरति मनो मे कोऽप्य् अयं कृष्ण-चौरः
प्रणत-दुरित-चोरः पूतना-प्राण-चौरः ।
वलय-वसन-चौरो बाल-गोपी-जनानां
नयन-हृदय-चौरः पश्यताम् सज्जनानाम् ॥१०१॥
कस्यचित् ।
अलं त्रि-दिव-वार्तया किम् इति सार्वभौम-श्रिया
विदूरतर-वर्तिनी भवतु मोक्ष-लक्ष्मीर् अपि ।
कलिन्द-गिरि-नन्दिनी-तट-निकुञ्ज-पुञ्जोदरे
मनो हरति केवलं नव-तमाल-नीलं महः ॥१०२॥
श्री-हरि-दासस्य ।
अवलोकितमनुमोदितम्
आलिङ्गितम् अङ्गनाभिर् अनुरागैः ।
अधिवृन्दावन-कुञ्जं
मरकत-पुञ्जं नमस्यामः ॥१०३॥
श्री-सर्व-विद्या-विनोदानाम् ।
कदा द्रक्ष्यामि नन्दस्य
बालकं नीप-मालकम् ।
पालकं सर्व-सत्त्वानां
लसत्-तिलक-भालकम् ॥१०४॥
श्री-माधवेन्द्र-पुरी-पादानाम् ।
कदा वृन्दारण्ये मिहिर-दुहितुः सङ्ग-माहिते
मुहुर् भ्रामं भ्रामं चरित-लहरीं गोकुल-पतेः ।
लपन्न् उच्चैर् उच्चैर् नयन-पयसां वेणिभिर् अहं
करिष्ये सोत्कण्ठं निविडम् उपसेकं विटपिनाम् ॥१०५॥
समाहर्तुः ।
दुरारोहे लक्ष्मीवति भगवतीनाम् अपि पदं
दधाना धम्मिल्ले नटति कठिने योपनिषदाम् ।
रुतिर् वंशी-जन्मा धृत-मधुरिमा सा मधुरिपोर्
अकस्माद् अस्माकं श्रुति-शिखरम् आरोक्ष्यति ॥१०६॥
समाहर्तुः ।
उत्फुल्लता-पिञ्छ-मनोरम-श्री-र्
मातुः स्तन-न्यस्त-मुखारविन्दः ।
सञ्चालयन् पाद-सरोरुहाग्रं
कृष्णः कदा यास्यति दृक्-पथं मे ॥१०७॥
कस्यचित् ।
अथ मोक्षानादरः ।
भक्तिः सेवा भगवतो
मुक्तिस् तत्-पद-लङ्घनम् ।
को मूढो दासतां प्राप्य
प्राभवं पदमिच्छति ॥११०॥
श्री-शिव-मौनिनाम् ।
भव-बन्ध-च्छिदे तस्यै
स्पृहयामि न मुक्तये ।
भवान् प्रभुर् अहं दास
इति यत्र विलुप्यते ॥१११॥
श्री-हनुमतः ।
हन्त चित्रीयते मित्र
स्मृत्वा तान् मम मानसम् ।
विवेकित्नोऽपि ये कुर्युस्
तृष्णाम् आत्यन्तिके लये ॥११२॥
केषाञ्चित् ।
का त्वं मुक्तिर् उपागतास्मि भवती कस्माद् अकस्माद् इह
श्री-कृष्ण-स्मरणेन देव भवती दासी-पदं प्रापिता ।
दूरे तिष्ठ मनाग् अनागसि कथ कुर्याद् अनार्यं मयि
त्वद्-गन्धान् निज-नाम-चन्दन-रसालेपस्य लोपो भवेत् ॥११३॥
कस्यचित् ।
अथ श्री-भगवद्-धर्म-तत्त्वम् ।
अर्च्ये विष्णौ शिला-धीर् गुरुषु नर-मतिर् वैष्णवे जाति-बुद्धिर्
विष्णोर् वा वैष्णवानां कलि-मल-मथने पाद-तीर्थे ऽम्बु-बुद्धिः ।
श्री-विष्णोर् नाम्नि मन्त्रे सकल-कलुष-हे शब्द-सामान्य-बुद्धिर्
विष्णौ सर्वेश्वरेशे तद्-इतर-सम-धीर् यस्य वा नारकी सः ॥११४॥
श्री-दाक्षिणात्यस्य ॥
हत्यां हन्ति यद्-अङ्घ्रि-सङ्ग-तुलसी स्तेयं च तोयं पदोर्
नैवेद्यं बहु-मद्य-पान-दुरितं गुर्व्-अङ्गना-सङ्गजम् ।
श्री-शाधिन-मतिः स्थितिर् हरि-जनैस् तत्-सङ्गजं किल्बिषं
शालाग्राम-शिला-नृसिंह-महिमा कोऽप्य् एष लोकोत्तरः ॥११५॥
श्री-आगमस्य । (HBV ५.४४६)
अथ नैवेद्यार्पणे विज्ञप्तिः ।
द्विज-स्त्रीणां भक्ते मृदुनि विदुरान्ने व्रज-गवां
दधिक्षेरे सख्युः स्फुट-चिपिट-मृष्टौ मुररिपो ।
यशोदायाः स्तन्ये व्रज-युवति-दत्ते मधुनि ते
यथासीद् आमोदस् तम् इमम् उपहारेऽपि कुरुताम् ॥११६॥
श्री-रामानुजस्य ।
या प्रीतिर् विदुरार्पिते मुररिपो कुन्त्य्-अर्पिते यादृशी
या गोवर्धन-मूर्ध्नि या च पृथुके स्तने यशोदार्पिते ।
भारद्वाज-समर्पिते शबरिका-दत्तेऽधरे योषितां
या वा ते मुनि-भामिनी-विनिहितेऽन्नेऽत्रापि ताम् अर्पये ॥११७॥
कस्यचित् ।
क्षीरे श्यामलयार्पिते कमलया विश्राणिते फाणिते
दत्ते लड्डूनि भद्रया मधुरसे सोभाभया लम्भिते ।
तुष्टिर्या भवतस् ततः शतगुणां राधा-निदेशान् मया
नस्तेऽस्मिन् पुरतस् त्वम् अर्पय हरे रम्योपहारे रतिम् ॥११८॥
समाहर्तुः ॥
अथ श्री-मथुरा-महिमा ।
हे मातुर् मथुरे त्वम् एव नियतं धन्यासि भूमी-तले
निर्व्याजं नतयः शतं सविधयस् तुभ्यं सदा सन्तु नः ।
हित्वा हन्त नितान्तम् अद्भुत-गुणं वैकुण्ठम् उत्कण्ठया
त्वय्य् अम्भोज-विलोचनः स भगवान् येनावतीर्णो हरिः ॥११९॥
कस्यचित् ।
अत्रासीत् किल नन्द-सद्म शकटस्यात्राभवद् भञ्जनं
बन्ध-च्छेद-करोऽपि दामभिर् अभूद् बद्धोऽत्र दामोदरः ।
इत्थं मथुरा-वृद्ध-वक्त्र-विगलत्-पीयूष-धारां पिबन्
नान्दाश्रु-धरः कदा मधु-पुरीं धन्यश् चरिष्याम्य् अहम् ॥१२०॥
श्री-कवि-शेखरस्य । (BRS १.३.४०)
यत्राखिलादि-गुरुर् अम्बुज-सम्भवोऽपि
स्तम्बात्मना जनुर् अनुस्पृहयाम्बभूव ।
चक्रध्वजाङ्कुश-लसत्-पद-राजि-रम्या
सा राजतेऽद्य मथुरा हरि-राज-धानी ॥१२१॥
कस्यचित् ॥
बीजं मुक्ति-तरोर् अनर्थ-पटली-निस्तारकं तारकं
धाम प्रेम-रसस्य वाञ्छित-धुरा-सम्पारकं पारकम् ।
एतद् यत्र निवासिनाम् उदयते चिच्-छक्ति-वृत्ति-द्वयं
मथ्नातु व्यसनानि माथुर-पुरी सा वः श्रियं च क्रियात् ॥१२२॥
समाहर्तुः ॥
वितरति मुर-मर्दनः प्रभुस्ते
न हि भजमान-जनाय यं कदापि ।
वितरसि बत भक्ति-योगम् एतं
तव मथुरे महिमा गिराम् अभूमिः ॥१२३॥
तस्यैव ॥
श्रवणे मथुरा नयने मथुरा
वदने मथुरा हृदये मथुरा ।
पुरतो मथुरा परतो मथुरा
मधुरा मधुरा मथुरा मथुरा ॥१२४॥
श्री-गोविन्द-मिश्राणाम् ।
अथ श्री-वृन्दाटवी-वन्दनम् ।
त्वं भज हिरण्यगर्भं
त्वम् अपि हरं त्वं च तत्-परं ब्रह्म ।
विनिहित-कृष्णानन्दाम्
अहं तु वृन्दाटवीं वन्दे ॥१२५॥
कस्यचित् ।
अथ श्री-नन्द-प्रणामः ।
श्रुतिम् अपरे स्मृतिम् इतरे
भारतम् अन्ये भजन्तु भव-भीताः
अहम् इह नन्दं वन्दे
यस्यालिन्दे परं ब्रह्म ॥१२६॥
रघुपत्युपाध्यायस्य । (CC २.१९.९६)
बन्धूकारुण-वसनं
सुन्दर-कूर्चं मुकुन्द-हृत-नयनम् ।
नन्दं तुन्दिल-वपुषं
चन्दन-गौर-त्विषं वन्दे ॥१२७॥
समाहर्तुः ।
अथ श्री-यशोदावन्दनम् ।
अङ्कग-पङ्कज-नाभां
नव-घनाभां विचित्र-रुचि-सिचयाम् ।
विरचित-जगत्-प्रमोदां
मुहुर् यशोदां नमस्यामि ॥१२८॥
समाहर्तुः ।
अथ श्री-कृष्णशैशवम् ।
अतिलोहित-कर-चरणं
मञ्जुल-गोरोचना-तिलकम् ।
हठ-परिवर्तित-शकटं
मुररिपुम् उत्तान-शायिनं वन्दे ॥१२९॥
कस्यचित् ।
अर्धोन्मीलित-लोचनस्य पिबतः पर्याप्तम् एकं स्तनं
सद्यः प्रस्तुत-दुग्ध-दिग्धम् अपरं हस्तेन सम्मार्जतः ।
मात्रा चाङ्गुलि-लासितस्य वदने स्मेरायमाने मुहुर्
विष्णोः क्षीर-कणोरु-धाम-धवला दन्त-द्युतिः पातु वः ॥१३०॥
श्री-मङ्गलस्य । (BRK ५.१७३६)
गोपेश्वरी-वदन-फूत्-कृति-लोल-नेत्रं
जानु-द्वयेन धरणीम् अनु सञ्चरन्तम् ।
कञ्चिन् नव-स्मित-सुधा-मधुराधराभं
बालं तमाल-दल-नीलम् अहं भजामि ॥१३१॥
श्री-रघुनाथ-दासस्य । (BRK ५.१७३८)
क्वाननं क्व नयनं क्व नासिका
क्व श्रुतिः क्व शिखेति देशितः ।
तत्र तत्र निहिताङ्गुली-दलो
वल्लवी-कुलम् अनन्दयत् प्रभुः ॥१३२॥
कवि-सार्वभौमस्य ॥(BRK ५.१७४०)
इदानीम् अङ्गम् अक्षालि
रचितं चानुलेपनम् ।
इदानीम् एव ते कृष्ण
धूलि-धूसरितं वपुः ॥१३३॥
सार्वभौम-भट्टाचार्याणाम् । (BRK ५.१७४२)
पञ्च-वर्षम् अतिलोलम् अङ्गने
धावमानम् अलकाकुलेक्षणम् ।
किञ्किणी-वलय-हार-नूपुरं
रञ्जितं नमत नन्द-नन्दनम् ॥१३४॥
आगमस्य । (BRK ५.१७४९)
अथ शैशवे तारुण्यम्
अधर-मधुरे कण्ठं कण्ठे सचाटु दृशौ दृशोर्
अलिकम् अलिके कृत्वा गोपीजनेन स-सम्भ्रमम् ।
शिशुर् इति रुदन् कृष्णो वक्षः-स्थले निहितश् चिरान्
निभृत-पुलकः स्मेरः पायात् स्मरालस-विग्रहः ॥१३५॥
दिवाकरस्य । (SKM १.५१.४; BRK ५.१७५१)
ब्रूमस् त्वच्-चरितं तवाधिजननि च्छद्मातिबाल्याकृते
त्वं यादृग् गिरि-कन्दरेषु नयनानन्दः कुरङ्गी-दृशाम् ।
इत्य् उक्तः परिलेहन-च्छलतया न्यस्ताङ्गुलिः स्वानने
गोपीभिः पुरतः पुनातु जगतीम् उत्तान-सुप्तो हरिः ॥१३६॥
वनमालिनः ॥(SKM १.५१.५)
वनमालिनि पितुर् अङ्के
रचयति बाल्योचितं चरितम् ।
नवनव-गोप-वधूटी-
स्मित-परिपाटी परिस्फुरति ॥१३७॥
श्री-मुकुन्द-भट्टाचार्यस्य । (BRK ५.१७५२)
नीतं नवनवनीतं कियद्
इति कृष्णो यशोदया पृष्टः ।
इयद् इति गुरु-जन-सविधे
विधृत-धनिष्ठा-पयोधरः ॥१३८॥
कस्यचित् ॥(राङ्गस्य) (BRK ५.१७५३)
क्व यासि ननु चौरिके प्रमुषितं स्फुटं दृश्यते
द्वितीयम् इह मामकं वहसि कञ्चुके कन्दुकम् ।
त्यजेति नव-गोपिका-कुच-युगं निमथ्नन् बलाल्
लसत्-पुलक-मण्डलो जयति गोकुले केशवः ॥१३९॥
दीपकस्य ॥(Sप्द् ७४, Sम्व्; BRK ५.१७५४)
अथ गव्य-हरणम्
दूर-दृष्ट-नव-नीत-भाजनं
जानु-चङ्क्रमण-जात-सम्भ्रमम् ।
मातृ-भीति-परिवर्तिताननं
केशवं किम् अपि शैशवं भजे ॥१४०॥
कस्यचित् ॥(BRK ५.१७५६)
सम्मुष्णन् नवनीतम् अन्तिक-मणि-स्तम्भे स्व-बिम्बोद्गमं
दृष्ट्वा मुग्धतया कुमारम् अपरं सञ्चिन्तयन् शङ्कया ।
मन्-मित्रं हि भवान् मयात्र भवतो भागः समः कल्पितो
मा मां सूचय सूचयेत्य् अनुनयन् बालो हरिः पातु वः ॥१४१॥
केषाञ्चित् ॥
दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते
निभृतपदमगारं वल्लवीनां प्रविष्टः ।
मुखकमलसमीरैराशु निर्वाप्य दीपान्
कवलितनवनीतः पातु मां बालकृष्णः ॥१४२ ॥
कस्यचित् ॥
सव्ये पाणौ नियमित-रवं किञ्किणी-दाम धृत्वा
कुब्जीभूय प्रपद-गतिभिर् मन्द-मन्दं विहस्य ।
अक्ष्णोर् भङ्ग्या विहसित-मुखीर् वारयन् सम्मुखीना
मातुः पश्चाद् अहरत हरिर् जातु हैयङ्गवीनम् ॥१४३ ॥
श्री-श्रीमतः ॥
पद-न्यासान् द्वाराञ्चल-भुवि विधाय त्रि-चतुरान्
समन्ताद् आलोलं नयन-युगलं दिक्षु विकिरन् ।
स्मितं बिभ्रद् व्यक्तं दधि-हरण-लीला-चटुल-धीः
सशङ्कं गोपीनां मधुरिपुर् अगारं प्रविशति ॥१४४ ॥
समाहर्तुः ॥
मृद्नन् क्षीरादि-चौर्यान् मसृण-सुरभिणी सृक्वणी पाणि-धर्षैर्
आघ्रायाघ्राय हस्तं सपदि परुषयन् किङ्किणी-मेखलायाम् ।
वारं वारं विशाले दिशि दिशि विकिरन् लोचने लोलतारे
मन्दं मन्दं जनन्याः परिसरम् अयते कूट-गोपाल-बालः ॥१४५ ॥
कस्यचित् ॥
अथ हरेः स्वप्नायितम्
शम्भो स्वागतम् आस्यताम् इत इतो वामेन पद्मोद्भव
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यते ।
इत्थं स्वप्न-गतस्य कैटभ-रिपोः श्रुत्वा जनन्या गिरः
किं किं बालक जल्पसीत्य् अनुचितं थूथूत्-कृतं पातु वः ॥१४६॥
मयूरस्य ॥(SKM १.५३.१; BRK ५.१७५८)
धीरा धरित्रि भाव भारम् अवेहि शान्तं
नन्व् एष कंस-हतकं विनिपातयामि ।
इत्य् अद्भुत-स्तिमित-गोप-वधू-श्रुतानि
स्वप्नायितानि वसुदेव-शिशोर् जयन्ति ॥१४७॥
सुदेवस्य ॥(SKM १.५३.२)
अथ पित्रोर् विस्मापन-शिक्षणादि
कालिन्दी-पुलिने मया न न मया शीलोपशल्ये न न
न्यग्रोधस्य तले मया न न मया राधा-पितुः प्राङ्गने ।
दृष्टः कृष्ण इतीरिते सनियमं गोपैर् यशोदा-पतेर्
विस्मेरस्य पुरो हसन् निज-गृहान् निर्यन् हरिः पातु वः ॥१४८॥
उमापतिधरस्य ॥(SKM १.५२.४)
वत्स स्थवर-कन्दरेषु विचरन् दूर-प्रचारे गवां
हिंस्रान् वीक्ष्य पुरः पुराण-पुरुषं नारायणं ध्यास्यसि ।
इत्य् उक्तस्य यशोदया मुरारिपोर् अव्याज् जगन्ति स्फुरद्-
बिम्बोष्ठ-द्वय-गाढ-पीडन-वशाद् अव्यक्त-भावं स्मितम् ॥१४९॥
अभिनन्दस्य ॥(SKM १.५२.१)
रामो नाम बभूव हुं तद् अबला सीतेति हुं तां पितुर्
वाचा पञ्चवटी-वने निवसतस् तस्याहरद् रावणः ।
कृष्णस्येति पुरातनीं निज-कथाम् आकर्ण्य मात्रेरितां
सौमित्रे क्व धनुर् धनुर् धनुर् इति व्यग्रा गिरः पान्तु वः ॥१५०॥
कस्यचित् । (KK २.७२; RSAK २.९४; BRK ५.१७६०)
श्यामोच्चन्द्रा स्वपिति न शिशो नैति माम् अम्ब निद्रा
निद्राहेतोः शृणु कथां काम् अपूर्वां कुरुष्व ।
व्यक्तः स्तम्भान् नरहरिर् अभूद् दानवं दारयिष्यन्न्
इत्य् उक्तस्य स्मितम् उदयते देवकी-नन्दनस्य ॥१५१॥
सर्वानन्दस्य । (SRK १२३; SKM १.५२.२; शतानन्दस्य; BRK ५.१७६१)
अथ गोरक्षादिलीला
देवस् त्वाम् एक-जङ्घावलयित-गुडी-मूर्ध्नि विन्यस्त-बाहु-
र्गायन् गोयुद्धगीतिर् उपरचित-शिरःशेखरः प्रग्रहेण ।
दर्प-स्फूर्जन् महोक्ष-द्वय-समर-कला-बद्ध-दीर्घानुबन्धः
क्रीडा-गोपाल-मूर्तिर् मुररिपुर् अवताद् आत्त-गोरक्ष-लीलः ॥१५२॥
योगेश्वरस्य । (SKM १.५८.३)
यावद् गोपा मधुर-मुरली-नाद-मत्ता मुकुन्दं
मन्द-स्पन्दैर् अहह सकलैर् लोचनैर् आपिबन्ति ।
गावस् तावन् मसृण-यवस-ग्रास-लुब्धा विदूरं
याता गोवर्धन-गिरि-दरी-द्रोणिकाभ्यन्तरेषु ॥१५३॥
श्री-केशव-च्छत्रिणः ।
अथ गोपीनां प्रेमोत्कर्षः ।
धैर्यं नाम-परिग्रहेऽपि जघने यद्य् अंशुकालम्बनं
गोपीनां च विवेचनं निधुवनारम्भे रहो-मार्गणम् ।
साध्वी-सच्-चरितं विलास-विरतौ पत्युर् गृहान्वेषणं
तत् तद् रौरव-रक्षणं मुररिपोर् वंशी-रवापेक्षणम् ॥१५४॥
सर्व-विद्याविनोदानाम् ।
विलोक्य कृष्णं व्रज-वाम-नेत्राः
सर्वेन्द्रियाणां नयनत्वम् एव ।
आकर्ण्य तद्-वेणु-निनाद-भङ्गीम्
ऐच्छन् पुनस् ताः श्रवणत्वम् एव ॥१५५॥
कस्यचित् ।
अथ गोपीभिः सह लीला
कालिन्दी-जल-केलि-लोल-तरुणीर् आवीत-चीनांशुका
निर्गत्याङ्ग-जलानि सारितवतीर् आलोक्य सर्वा दिशः ।
तीरोपान्त-मिलन्-निकुञ्ज-भवने गूढं चिरात् पश्यतः
शौरेः सम्भ्रमयन्न् इमा विजयते साकूत-वेणुर् ध्वनिः ॥१५६॥
पुरुषोत्तम-देवस्य ।
तासु कृष्णस्य भावः ।
स्वेदाप्लावित-पाणि-पद्म-मुकुल-प्रक्रान्त-कम्पोदयाद्
विस्रस्ताम् अविजानतो मुरलिकां पादारविन्दोपरि ।
लीला-वेल्लित-वल्लवी-कवलित-स्वान्तस्य वृन्दावने
जीयात् कंसरिपोस् त्रिभङ्ग-वपुषः शून्योदयः फूत्कृतिः ॥१५७॥
चिरञ्जीवस्य ।
**श्री-कृष्णस्य प्रथम-दर्शने राधा-प्रश्नः **
भ्रूवल्लि-ताण्डव-कला-मधुरानन-श्री-ः
कङ्केल्लि-कोरक-करम्बित-कर्ण-पूरः ।
कोऽयं नवीन-निकषोपल-तुल्य-वेषो
वंशीरवेण सखि माम् अवशीकरोति ॥१५८॥
कस्यचित् । (BRS ३.५.२०)
इन्दीवरोदर-सहोदर-मेदुर-श्री-र्
वासो द्रवत्-कनक-वृन्द-निभं दधानः ।
आमुक्त-मौक्तिक-मनोहर-हार-वक्षाः
कोऽयं युवा जगद्-अनङ्ग-मयं करोति ॥१५९॥
सर्व-विद्या-विनोदानाम् ॥(UN १५.७)
सख्या उत्तरम्
अस्ति कोऽपि तिमिर-स्तनन्धयः
किञ्चिद् अञ्चित-पदं स गायति ।
यन् मनाग् अपि निशम्य का वधूर्
नावधूत-हृदयोपजायते ॥१६०॥
कस्यचित् ।
श्री-राधायाः पूर्व-रागः
मनोगतां मन्मथ-बाण-बाधाम्
आवेदयन्तीव तनोर् विकारैः ।
दीनानना वाचम् उवाच राधा
तदा तदाली-जन-सम्मुखे सा ॥१६१॥
श्री-पुरुषोत्तम-देवस्य ।
यदवधि यामुन-कुञ्जे
घन-रुचिर् अवलोकितः कोऽपि ।
नलिनी-दल इव सलिलं
तदवधि तरलायते ॥१६२॥
कविचन्द्रस्य ॥
अकस्माद् एकस्मिन् पथि सखि मया यामुन-तटं
व्रजन्त्या दृष्टो यो नव-जलधर-श्यामल-तनुः ।
स दृग्-भङ्ग्या किं वाकुरुत न हि जाने तत इदं
मनो मे व्यालोलं क्वचन गृहकृत्यो न लगते ॥१६३॥
जयन्तस्य । (Bहक्ति-रसायन; BRS ३.५.२७)
पुरो नील-ज्योत्स्ना तद् अनु मृगनाभी-परिमलस्
ततो लीला-वेणु-क्वणितम् अनु काण्ची-कल-रवः ।
ततो विद्युद्-वल्ली-वलयित-चमत्कार-लहरी-
तरङ्गाल् लावण्यं तद् अनु सहजानन्द उदगात् ॥१६४॥
कस्यचित् ।
अद्य सुन्दरि कलिन्द-नन्दिनी-
तीर-कुञ्ज-भुवि केलि-लम्पटः ।
वादयन् मुरलिकां मुहुर् मुहुर्
माधवो हरति मामकं मनः ॥१६५॥
कस्यचित् । (सिमिलर् Pरेमामृत ४.१३)
यदवधि यमुनायास् तीर-वानीर-कुञ्जे
मुररिपु-पद-लीला लोचनाभ्याम् अलोकि ।
तदवधि मम चित्तं कुत्रचित् कार्य-मात्रे
न हि लगति मुहूर्तं किं विधेयं न जाने ॥१६६॥
कविचन्द्रस्य ।
यदवधि यदुनन्दनाननेन्दुः
सहचरि लोचन-गोचरीबभूव ।
तदवधि मलयानिलेऽनले वा
सहज-विचार-पराङ्मुखं मनो मे ॥१६७॥
सञ्जय-कविशेखरस्य ।
असमञ्जसम् असमञ्जसम्
असमञ्जसम् एतद् आपतितम् ।
वल्लव-कुमार-बुद्ध्या
हरि हरि हरिर् ईक्षितः कुतुकात् ॥१६८॥
शरणस्य ॥
शुष्यति मुखम् ऊरु-युगं पुष्यति
जडतां प्रवेपते हृदयम् ।
स्विद्यति कपोलपाली सखि
वनमाली किम् आलोकि ॥१६९॥
मुकुन्द-भट्टाचार्यस्य ।
उपरि तमाल-तरोः सखि
परिणत-शरद्-इन्दु-मण्डलः कोऽपि ।
तत्र च मुरली-खुरली
कुल-मर्यादाम् अधो नयति ॥१७०॥
सञ्जय-कविशेखरस्य ।
हन्त कान्तम् अपि तं दिदृक्षते
मानसं मम न साधु यत्-कृते ।
इन्दुर् इन्दुमुखि मन्द-मारुतश्
चन्दनं च वितनोति वेदनां ॥१७१॥
कस्यचित् ।
गुरु-जन-गञ्जनम् अयशो
गृहपतिचरितं च दारुणं किम् अपि ।
विस्मारयति समस्तं
शिव शिव मुरली मुरारातेः ॥१७२ ॥
सर्व-विद्या-विनोदानाम् । (BRS ३.५.१२)
द्रविणं भवनम् अपत्यं तावन्
मित्रं तथाभिजात्यं च ।
उपयमुनं वनमाली
यावन् नेत्रे न नर्तयति ॥१७३॥
तेषाम् एव ।
तृप्यन्तु मे छिद्रम् अवाप्य शत्रवः
करोतु मे शास्ति-भरं गृहेश्वरः ।
मणिस् तु वक्षोरुह-मध्य-भूषणं
ममास्तु वृन्दावन-कृष्ण-चन्द्रमा ॥१७४॥
कस्यचित् ।
स्वामी निहन्तु विहसन्तु पुरः सपत्न्यो
भर्तुर् भजन्तु गुरवः पितरश् च लज्जाम् ।
एतावता यदि कलङ्कि कुलं तथास्तु
रामानुजे मम तनोतु मनोऽनुरागम् ॥१७५॥
कस्यचित् ।
स्वामी कुप्यति कुप्यतां परिजना निन्दन्ति निन्दन्तु माम्,
अन्यत् किं प्रथताम् अयं च जगति प्रौढो ममोपद्रवः ।
आशास्यं पुनर् एतद् एव यद् इदं चक्षुश् चिरं वर्धतां
येनेदं परिपीयते मुररिपोः सौन्दर्य-सारं वपुः ॥१७६ ॥
पुष्कराक्षस्य ।
किं दुर्मिलेन मम दूति मनोरथेन
तावन्ति हन्त सुकृतानि कया कृतानि ।
एतावद् एव मम जन्म-फलं मुरारिर्
यन् नेत्रयोः पथि बिभर्ति गतागतानि ॥१७७॥
कस्यचित् ॥
सखि मम नियति-हतायास्
तद्-दर्शन-भाग्यम् अस्तु वा मा वा ।
पुनर् अपि स वेणु-नादो
यदि कर्णपथे पतेत् तद् एवालम् ॥१७८॥
कस्यचित् ।
ताराभिसारक चतुर्थ-निशा-शशाङ्क
कामाम्बु-राशि-परिवर्धन देव तुभ्यम् ।
अर्घो नमो भवतु मे सह तेन यूना
मिथ्यापवाद-वचसाप्य् अभिमान-सिद्धिः ॥१७९॥
कस्यचित् । (UN १४.१२८)
अथान्य-चतुर-सखी-वितर्कः
सिद्धान्तयति न किञ्चिद्
भ्रमयति दृशाम् एव केवलं राधा ।
तद् अवगतं सखि लग्नं
कदम्ब-तरु-देवतामरुता ॥१८०॥
राङ्गस्य ।
अथ राधां प्रति प्रश्नः ।
कामं वपुः पुलकितं नयने धृतास्रे
वाचः सगद्गदपदाः सखि कम्पि वक्षः ।
ज्ञातं Mउकुन्द-मुरली-रव-माधुरी ते
चेतः सुधांशु-वदने तरलीकरोति ॥१८१॥
तस्यैव । (BRS ३.५.१५)
गतं कुल-वधू-व्रतं विदितम् एव तत्-तद्-वचस्
तथापि तरलाशये न विमतासि को दुर्ग्रहः ।
करोमि सखि किं श्रुते दनुज-वैरि-वंशी-रवे
मनाग् अपि मनो न मे सुमुखि धैर्यम् आलम्बते ॥१८२॥
कस्यचित् ।
आस्तां तावद् अकीर्तिर् मे
त्वया तथ्यं तु कथ्यताम् ।
चित्तं कथम् इवासीत् ते
हरिर् वंशी-रव-श्रुतौ ॥१८३॥
कस्यचित् ।
सत्यं जल्पसि दुःसहाः खल-गिरः सत्यं कुलं निर्मलं
सत्यं निष्करुणोऽप्य् अयं सहचरः सत्यं सुदूरे सरित् ।
तत् सर्वं सखि विस्मरामि झटिति श्रोत्रातिथिर् जायते
चेद् उन्माद-मुकुन्द-मञ्जु-मुरली-निस्वान-रागोद्गतिः ॥१८४ ॥
गोविन्द-भट्टस्य ।
अथ राधां प्रति सखी-नर्माश्वासः ।
निशा जलद-सङ्कुला तिमिर-गर्भ-लीनं जगद्-
द्वयस् तव नवं नवं वपुर् अपूर्व-लीलामयम् ।
अलं सुमुखि निद्रया व्रज गृहेऽपि नक्तं चरी
कदम्ब-वन-देवता नव-तमाल-नील-द्युतिः ॥१८५॥
सर्वविद्याविनोदानाम् ।
कृष्णं प्रति राधानुराग-कथनम् ।
त्वाम् अञ्जनीयति फलासु विलोकयन्ती
त्वां शृण्वती कुवलयीयति कर्णपूरम् ।
त्वां पूर्णिमा-विधु-मुखी हृदि भावयन्ती
वक्षो-निलीन-नव-नीलमणिं करोति ॥१८६॥
कस्यचित् । (MSN ५.१२)
गृहीतं ताम्बूलं परिजन-वचोभिर् न सुमुखी
स्मरत्य् अन्तःशून्या मुरहर गतायाम् अपि निशि ।
ततेवास्ते हस्तः कलित-फणि-वल्ली-किसलयस्
तथवास्यं तस्याः क्रमुक-फल-फाली-परिचितम् ॥१८७॥
हरिहरस्य । (UN १३.५९)
प्रेम-पावक-लीढाङ्गी
राधा तव जगत्-पते ।
शय्यायाः स्खलिता भूमौ
पुनस् तां गन्तुम् अक्षमा ॥१८८॥
मुरहर साहस-गरिमा
कथम् इव वाच्यः कुरङ्ग-शावाक्ष्याः ।
खेदार्णव-पतितापि
प्रेम-मधुरां ते न सा त्यजति ॥१८९॥
कविचन्द्रस्येमौ । (UN ८.१००) \
गायति गीते शंसति वंशे
वादयति सा विपञ्चीषु
पाठयति पञ्जर-शुकं तव
सन्देशाक्षरं राधा ॥१९०॥
गोवर्धनाचार्यस्य । (Āर्य-शतक २११.२६५)
राधां प्रति कृष्णानुराग-कथनम्
केलिकलासु कुशला नगरे मुरारेर्
आभीर-नीरज-दृशः कति वा न सन्ति ।
राधे त्वया महद् अकारि तपो यद् एष
दामोदरस् त्वयि परं परमानुरागः ॥१९१॥
कस्यचित् ॥(UN ८.१०१)
वत्सान् न चारयति वादयते न वेणुम्
आमोदते न यमुना-वन-मारुतेन ।
कुञ्जे निलीय शिथिलं वलितोत्तमाङ्गम्
अन्तस् त्वया श्वसिति सुन्दरि नन्द-सूनुः ॥१९२॥
दैत्यारि-पण्डितस्य ॥
सर्वाधिकः सकल-केलि-कला-विदग्धः
स्निग्धः स एष मुर-शत्रुर् अनर्घ-रूपः ।
त्वां याचते यदि भज व्रज-नागरि त्वं
साध्यं किम् अन्यद् अधिकं भुवने भवत्याः ॥१९३॥
राङ्गस्य ॥
अथ राधाभिसारः ।
मन्दं निधेहि चरणौ परिधेहि नीलं
वासः पिधेहि वलयावलिम् अञ्चलेन ।
मा जल्प साहसिनि शारद-चन्द्र-कान्ति-
दन्तांशवस् तव तमांसि समापयन्ति ॥१९४ ॥
षाण्मासिकस्य ॥(SKM २.६१.२ नालस्य, Sप्द् ३६२०, Sम्व् ७१.८ हरिहरस्य)
किम् उत्तीर्णः पन्थाः कुपित-भुजगी-भोग-विषमो
विषोढा भूयस्यः किम् इति कुलपाली-कटु-गिरः ।
इति स्मारं स्मारं दरदलित-शीत-द्युति-रुचौ
सरोजाक्षी शोणं दिशि नयन-कोणं विकिरति ॥१९५॥
सर्वविद्याविनोदानाम् ॥
चित्रोत्कीर्णाद् अपि विषधराद् भीतिभाजो रजन्यां
किं वा ब्रूमस् त्वद्-अभिसरणे साहसं माधवास्याः ।
ध्वान्ते यान्त्या यद् अतिनिभृतं राधयात्म-प्रकाश-
त्रासात् पाणिः पथि फणि-फणारत्न-रोधी व्यधायी ॥१९६॥
कस्यचित् ॥(Sप्द् ३४९४, हरिहरस्य)
राधां प्रति सखी-वाक्यम्
मन्मथोन्मथितम् अच्युतं प्रति
ब्रूहि किञ्चन समुल्लसत्-स्मितम् ।
किं च सिञ्च मृग-शाव-लोचने
लोचनेङ्गित-सुधौघ-निर्झरैः ॥१९७॥
कस्यचित् ॥
गोविन्दे स्वयम् अकरोः सरोजनेत्रे
प्रेमान्धा वरवपुर् अर्पणं सखि ।
कार्पण्यं न कुरु दरावलोक-दाने
विक्रीते करिणि किम् अञ्कुशे विवादः ॥१९८॥
कस्यचित् । (BRS २.४.११४, Bहक्ति-रसायन; DKK; MSN ५.१५)
अथ क्रीडा ।
परमानुराग-परयाथ राधया
परिरम्भ-कौशल-विकाशि-भावया ।
स तया सह स्मर-सभाजनोत्सवं
निरवाहयच् छिखि-शिखण्ड-शेखरः ॥१९९॥
कविराज-मिश्रस्य । (BRS ३.५.३५)
अस्मिन् कुञ्जे विनापि प्रचलति पवनं वर्तते कोऽपि नूनं
पश्यामः किं न गत्वेत्य् अनुसरति गणे भीत-भीतेऽर्भकाणाम् ।
तस्मिन् राधासखो वः सुखयतु विलसन् क्रीडया कैटभारिर्
व्यातन्वानो मृगारि-प्रवल-घुरघुराराव-रौद्रोच्चनादान् ॥२००॥
कस्यचित् ॥(Sप्द् ११६)
**अथ क्रीडानन्तरं तत्र जानतीनां सखीनां नर्मोक्तिः **
इह निचुल-निकुञ्जे मध्य-मध्यास्य रन्तुर्
विजनम् अजनि शय्या कस्य बाल-प्रवालैः ।
इति निगदति वृन्दे योषितां पान्तु युष्मान्
स्मित-शवलित-राधा-माधवालोकितानि ॥२०१ ॥
रूप-देवस्य ॥(SKM १.५५.१)
अथ मुग्ध-बाल-वाक्यम्
कृष्ण त्वद्-वनमालया सह कृतं केनापि कुञ्जान्तरे
गोपी-कुन्तल-बर्ह-दाम तद् इदं प्राप्तं मया गृह्यताम् ।
इत्थं दुग्ध-मुखेन गोप-शिशुनाख्याने त्रपानम्रयो
राधा-माधवयोर् जयन्ति बलित-स्मेरालसा दृष्टयः ॥२०२॥
लक्ष्मण-सेन-देवस्य ॥(SKM १.५५.२)
अथ राधया सह दिनान्तरे केलिः तत्र सखी-वाक्यम्
अधुना दधि-मन्थनानुबन्धं
कुरुषे किं गुरु-विभ्रमालसाङ्गि ।
कलस-स्तनि लालसीति कुञ्जे
मुरली-कोमल-काकली मुरारेः ॥२०३॥
समाहर्तुः ॥
अथ तस्याः साकूत-वाक्यम् ।
श्वश्रूर् इङ्गित-दैवतं नयनयोर् ईहालिहो यातरः
स्वामी निःश्वसितेऽप्य् असूयति मनोजिघ्रः सपत्नी-जनः ।
तद्-दूराद् अयम् अञ्जलिः किम् अधुना दृग्भङ्गि-भावेन ते
वैदग्धी-विविध-प्रबन्ध-रसिक व्यर्थोऽयम् अत्र श्रमः ॥२०४॥
कस्यचित् ॥
सङ्केतीकृत-कोकिलादि-निनदं कंस-द्विषः कुर्वतो
द्वारोन्मोचन-लोल-शङ्ख-वलय-क्वाणं मुहुः शृण्वतः ।
केयं केयम् इति प्रगल्भ-जरती-वाक्येन दूनात्मनो
राधा-प्राङ्गण-कोण-कोलि-विटपि-क्रोडे गता शर्वरी ॥२०५॥
हरस्य । (SKM १.५५.५ आचार्य गोपीकस्य; BRK ५.११५९)
आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता
क्षीवः प्रेष्यजनः कथं कुलवधूर् एकाकिनी यास्यति ।
वत्स त्वं तद् इमां नयालयम् इति श्रुत्वा यशोदा-गिरो
राधा-माधवयोर् जयन्ति मधुर-स्मेरालसा दृष्टयः ॥२०६॥
श्री-मत्-केशव-सेन-देवस्य ॥(SKM १.५४.५)
गच्छाम्य् अच्युत दर्शनेन भवतः किं तृप्तिर् उत्पद्यते
किं त्व् एवं विजन-स्थयोर् हत-जनः सम्भावयत्य् अन्यथा ।
इत्य् आमन्त्रण-भङ्गि-सूचित-वृथावस्थान-खेदासलाम्
आश्लिष्यन् पुलकोत्कराञ्चित-तनुर् गोपीं हरिः पातु वः ॥२०७॥
कस्यचित् दाक्षिणात्यस्य । (RASK १.४७९, Nआटक-चन्द्रिका २६०)
अथ सखी-नर्म ।
सखि पुलकिनी सकम्पा
बहिः-स्थलीतस् त्वम् आलयं प्राप्ता ।
विक्षोभितासि नूनं
कृष्ण-भुजङ्गेन कल्याणि ॥२०८॥
समाहर्तुः ॥
अथ पुनर् अन्येद्युर् अभिसारिका तत्र सखी-वाक्यम् ।
अक्लान्त-द्युतिभिर् वसन्त-कुसुमैर् उत्तंसयन् कुन्तला-
नन्तः खेलति खञ्जरीट-नयने कुञ्जेषु कुञ्जेक्षणः ।
अस्मान् मन्दिर-कर्मतस् तव करौ नाद्यापि विश्राम्यतः
किं ब्रूमो रसैकाग्रणीर् असि घटी नेयं विलम्ब-क्षमा ॥२०९ ॥
तस्यैव । (MSN ५.१६)
परीक्षण-कारिणीं सखीं प्रति राधा-वाक्यम् ।
लज्जैवोद्घटिता किम् अत्र कुल्शोद्बद्धा कपाट-स्थितिर्
मर्यादैव विलङ्घिता पथि पुनः केयं कलिन्दात्मजा ।
आक्षिप्ता खल-दृष्टिर् एव सहसा व्यालावली कीदृशी
प्राणा एव समर्पिताः सखि चिरं तस्मै किम् एषा तनुः ॥२१०॥
कस्यचित् ।
द्वित्रैः केलि-सरोरुहं त्रि-चतुरैर् धम्मिल्ल-मल्ली-स्रजं
कण्ठान् मौक्तिक-मालिकां तद् अनु च त्यक्त्वा पदैः पञ्चमैः ।
कृष्ण-प्रेम-विघूर्णितान्तरतया दूराभिसारातुरा
तन्वङ्गी निरुपायम् अध्वनि परं श्रेणीभरं निन्दति ॥२११ ॥
कस्यचित् । (UN १३.१९)
अथ वासक-सज्जा ।
तल्पं कल्पय दूति पल्लव-कुलेर् अन्तर्लता-मण्डपे
निर्बन्धं मम पुष्प-मण्डन-विधौ नाद्यापि किं मुञ्चति ।
पश्य क्रीडद्-अमन्दम् अन्ध-तमसं वृन्दाटवीं तस्तरे
तद् गोपेन्द्र-कुमारम् अत्र मिलित-प्रायं मनः शङ्कते ॥२१२॥
श्री-रघुनाथस्य ॥
अथोत्कण्ठिता ।
सखि स विजितो वीणा-वाद्यैः कयाप्य् अपर-स्त्रिया
पणितम् अभवत् ताभ्यां तव क्षपा-ललितं ध्रुवम् ।
कथम् इतरथा शेफालीषु स्खलत्-कुसुमास्व् अपि
प्रसरति नभो-मध्येऽपीन्दौ प्रियेण विलम्ब्यए ॥२१३॥
कस्यचित् । (SKM २.३९.३ रुद्रटस्य; DR २.२३; ST १.७८अद्)
अरतिर् इयम् उपैति मां न निद्रा
गणयति तस्य गुणान् मनो न दोषान् ।
विरमति रजनी न सङ्गम् आशा
व्रजति तनुस् तनुतां न चानुरागः ॥२१४॥
कङ्कस्य ॥(SKM २.३७.५ प्रवरसेनस्य, Sप्द् ३४२७ बिल्हणस्य, Sर्क् ७२३)
अथ विप्रलब्धा ।
उत्तिष्ठ दूति यामो यामो
यातस् तथापि नायातः ।
याऽतः परम् अपि जीवेज्
जीवितनाथो भवेत् तस्याः ॥२१५ ॥
तस्यैव । (SD ३.८३, DR २.२६फ़्)
अथ खण्डिता ।
लाक्षा-लक्ष्म-ललाट-पट्टम् अभितः केयूर-मुद्रा गले
वक्त्रे कज्जल-कालिमा नयनयोर्स् ताम्बूल-रागो घनः ।
दृष्टा कोप-विधायि मण्डनम् इदं प्रातश् चिरं प्रेयसो
लीला-तामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥२१६॥
औत्कलस्य ॥(Aमरु ७१.६०; SKM २.२४.४; Sप्द् ३७४०, Sभ्व् २२१५; Sम्व् ८२.१७; DR २.६)
तस्या वाक्यम्
कृतं मिथ्या-जल्पैर् विरम विदितं कामुक चिरात्
प्रियां ताम् एवोच्चैर् अभिसर यदीयैर् नख-पदैः ।
विलासैश् च प्राप्तं तव हृदि पदं रग-बहुलैर्
मया किं ते कृत्यं ध्रुवम् अकुटिलाचार-परया ॥२१७॥
रुद्रटस्य ॥(ST १.८०; Sम्व् ५८.८)
सार्धं मनोरथ-शतैस् तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिम-भाव-रम्या ।
अस्माकम् अस्ति न हि कश्चिद् इहावकाशस्
तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥२१८॥
तस्यैव ॥(ST १.४१द्; SKM २.२३.२; Sप्द् ३५६३; Sम्व् ५७.१६)
अनलङ्कृतोऽपि माधव
हरसि मनो मे सदा प्रसभम् ।
किं नालङ्कृतस् त्वं
सम्प्रति नख-क्षतैस् तस्याः ॥२१९॥
विश्वनाथस्य । (SD ३.६३)
खण्डनाप्त-निर्वेदायास् तस्या वाक्यम् ।
वय्तीताः प्रारम्भाः प्रणय-बहुमानो विगलितो
दुराशा याता मे परिणतिर् इयं प्राणितुम् अपि ।
यथेष्ठं चेष्टन्तां विरहि-वध-विह्यात-यशसो
विभावा मय्य् एते पिक-मधु-सुधांशु-प्रभृतयः ॥२२०॥
पुरुषोत्तम-देवस्य ॥
मा मुञ्च पञ्चशर पञ्चशरीं शरीरे
मा सिञ्च सान्द्र-मकरन्द-रसेन वायो ।
अङ्गानि तत्-प्रणय-भङ्ग-विगर्हितानि
नालम्बितुं कथम् अपि क्षमतेऽद्य जीवः ॥२२१ ॥
तस्यैव । (BRS ३.५.१७)
पुनः सायम् आयाति माधवे
कञ्चन वञ्चन-चतुरे
प्रपञ्चय त्वं मुरान्तके मानम् ।
बहु-वल्लभे हि पुरुषे
दाक्षिण्यं दुःखम् उद्वहति ॥२२२॥
समाहर्तुः ॥(UN ८.३३)
अथ मानिनी
भवतु विदितं छद्मालापैर् अलं प्रिय गम्यतां
तनुर् अपि न ते दोषोऽस्माकं विधिस् तु पराङ्मुखः ।
तव यथा तथाभूतं प्रेम प्रपन्नम् इमां दशां
प्रकृति-चपले का नः पीडा गते हत-जीविते ॥२२३॥
अमरोः ॥(Aमरु २८.३०; SKM २.४७.३)
कस् त्वं तासु यदृच्छया कितव यास् तिष्ठन्ति गोपाङ्गनाः
प्रेमाणं न विदन्ति यास् तव हरे किं तासु ते कैतवम् ।
एषा हन्त हताशया यद् अभवं त्वय्य् एकताना परं
तेनास्याः प्रणयोऽधुना खलु मम प्राणैः समं यास्यति ॥२२४॥
पुरुषोत्तम-देवस्य ।
निष्क्रामति कृष्णे सखी-वाक्यम्
साचि-कन्धरम् अमुं किम् ईक्षसे
यातु यातु सखि पूतनार्दनः ।
वामरीतिचतुरां हि पाम्रीं
सेवतां परम-देवताम् इव ॥२२५॥
समाहर्तुः ।
कृष्ण-दूती-वाक्यम्
प्रेमावगाहन-कृते मानं मा कुरु चिराय करभोरु ।
नाकर्णि किं नु मुग्धे जातं पीयूष-मन्थने गरलम् ॥२२६॥
विधुमुखि विमुखीभावं भाविनि मद्-भाषणे मा गाः ।
मूढे निगम-निगूढः कतिपय-कल्याणतो मिलति ॥२२७॥
राङ्गस्यैतौ ॥
दूतीं प्रति राधा-वाक्यम्
अलम् अलम् अघृणस्य तस्य नाम्ना
पुनर् अपि सैव कथ गतः स कालः ।
कथय कथय वा तथापि दूति
प्रतिवचनं द्विषतोऽपि माननीयम् ॥२२८॥
अङ्गदस्य ॥(Sभ्व् १४१८; Sप्द् ३५१३; Sम्व् ४७.३)
अथ कलहान्तरिता ।
तां प्रति दक्षिण-सखी-वाक्यम्
अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदस्
त्वयाकाण्डे मानः किम् इति सरले प्रेयसि कृतः ।
समाकृष्टा ह्य् एते विरह-दहनोद्भासुर-शिखाः
स्व-हस्तेनाञ्गारास् तद् अलम् अधुनारण्य-रुदितैः ॥२२९॥
अमरोः ॥(Aमरु ११२.८०; Sभ्व् ११७०; SKM २.४२.१, Sम्व् ५६.९, Sर्क् ६५९ Vइकटनितम्बा)
अथ कर्कश-सखी-वाक्यम्
मान-बन्धम् अभितः श्लथयन्ती
गौरवं न खलु हारय गौरि ।
आर्जवं न भजते दनुजारिर्
वञ्चके सरलता न हि साध्वी ॥२३०॥
समाहर्तुः ॥
तां प्रति राधा-वाक्यम्
भ्रू-भङ्गो गुणितश् चिरं नयनयोर् अभ्यस्तम् आमीलनं
रोद्धुं शिक्षितम् आदरेण हसितं मौनेऽभियोगः कृतः ।
धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथञ्चिन् मया
बद्धो मान-परिग्रहे परिकरः सिद्धिस् तु दैवे स्थिता ॥२३१॥
अमरोः ॥(Aमरु ११८.९७)
ज्âनामि मौनम् अलसाञ्गि वचो-विभङ्गीर्
भञ्गी-शतं नयनयोर् अपि चातुरीं च ।
आभीर-नन्दन-मुखाम्बुज-सङ्ग-शंसी
वंशीरवो यदि न माम् अवशीकरोति ॥२३२॥ कस्यचित् ॥
सत्यं शृणोमि सखि नित्य-नव-प्रियोऽसौ
गोपस् तथापि हृदयं मदनो दुनोति ।
युक्त्या कथञ्चन समं गमितेऽपि तस्मिन्
मां तस्य काल-मुरली कवलीकरोति ॥२३३॥
श्री-मत्-प्रभूनाम् ।
न जाने सम्मुखायाते
प्रियाणि वदति प्रिये ।
प्रयान्ति मम गात्राणि
श्रोत्रतां किम् उ नेत्रताम् ॥२३४॥
कस्यचित् ॥(Aमरु ६३.६४)
मुरारिं पश्यन्त्याः सखि सकलम् अङ्गं न नयनं
कृतं यच् छृण्वन्त्याः हरि-गुण-गणं श्रोत्र-निचितम् ।
समं तेनालापं सपदि रचयन्त्या मुखम् अयं
विधातुर् नैवायं घटन्-परिपाटी-मधुरिमा ॥२३५॥
शरणस्य ।
अथ सख्याः साभ्युसूया-वाक्यम् ।
त्वम् असि विशुद्धा सरले
मुरली-वक्त्रस् त्रिधा वक्रः ।
भङ्गुरया खलु सुलभअ
तद् उरः सखि वेजयन्त्य् एव ॥२३६ ॥
समाहर्तुः ।
अथ क्षुभित-राधिकोक्तिः ।
निःश्वासा वदनं दहन्ति हृदयं निर्मूलम् उन्मथ्यते
निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते ।
अङ्गं शोषम् उपैति पाद-पतितः प्रेयांस् तथोपेक्षितः
सख्यः कं गुणम् आकलय्य दयिते मानं वयं कारिताः ॥२३७॥
अमरोः । (Aमरु ९८.९२; SKM २.४१.२)
मानज-विरहेण ध्यायन्तीं तां प्रति कस्याश्चिद् वाक्यम् ।
आहारे विरतिः समस्त-विषय-ग्रामे निवृत्तिः परा
नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः ।
मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते
तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वियोगिन्य् अपि ॥२३८॥
(SKM २.२५.२, Sर्क् ७०३ Rअजसेखर, UN १३.७५)
तं प्रति राधा-वाक्यम् ।
सङ्गम-विरह-विकल्पे
वरम् इह विरहो न तु सङ्गमस् तस्य ।
एकः स एव सङ्गे
त्रिभुवनम् अपि तन्मयं विरहे ॥२३९॥
कस्यचित् । (SKM २.९९.४)
अथ कृष्ण-विरहः ।
सञ्जाते विरहे कयापि हृदये सन्दानिते चिन्तया
कालिन्दी-तट-वेतसी-वन-घन-च्छाया-निषण्णात्मनः ।
पायासुः कलकण्ठ-कूजित-कला गोपस्य कंस-द्विषो
जिह्वा-वर्जित-तालु-मूर्च्छित-मरुद्-विस्फारिता गीतयः ॥२४०॥
कस्यचित् ॥(SKM १.५८.१)
अथ राधा-प्रसादनम् ।
शिरश् छायां कृष्णः स्वयम् अकृत राधा-चरणयोर्
भुजावल्ली-च्छायाम् इयम् अपि तदीय-प्रतिकृतौ ।
इति क्रीडा-कोपे निभृतम् उभयोर् अप्य् अनुनय-
प्रसादौ जीयास् ताम् अपि गुरु-समक्षं स्थितवतोः ॥२४१॥
हरस्य ।
कृष्णं प्रति राधा-सखी-वाक्यम् ।
सा सर्वथैव रक्ता रागं
गुञ्जेव न तु मुखे वहति ।
वचन-पटोस् तव रागः
केवलम् आस्ये शुकस्येव ॥२४२॥
गोवर्धनाचार्यस्य । (Aर्यस् ६४९.७०३)
सुभग भवता हृद्ये तस्या ज्वलत्-स्मर-पावकेऽप्य्
अभिनिवेशता प्रेमाधिक्यं चिरात् प्रकटीकृतम् ।
तव तु हृदये शीतेऽप्य् एवं सदैव सुखाप्तये
मम सहचरी सा निःस्नेहा मनाग् अपि न स्थिता ॥२४३॥
रुद्रस्य । (ST २.१०८)
अथ दिनान्तर-वार्ता ।
आगत्य प्रणिपात-सान्त्वित-सखी-दत्तान्तरं सागसि
स्वैरं कुर्वति तल्प-पार्श्व-निभृते धूर्तेऽङ्ग-संवाहनम् ।
ज्ञात्वा स्पर्श-वशात् तया किल सखी-भ्रान्त्य् एव वक्षः शनैः
खिन्नासीत्य् अभिधाय मीलित-दृशा सानन्दम् आरोपितः ॥२४४॥
कस्यचित् । (Sप्द् ३५७६; Sभ्व् २०८३; Sम्व् ५८.५)
वस्तुतस् तु गुरु-भीतया तया
व्यञ्जिते कपटमान-कुट्मले ।
पेशल-प्रिय-सखी-दृशा हरिर्
बोधितस् तट-लता-गृहं ययौ ॥२४५॥
माधवो मधुर-माधवी-लता-
मण्डपे पटु-रटन्-मधुव्रते ।
सञ्जगौ श्रवण-चारु गोपिका-
मान-मीन-वडिशेन वेणुना ॥२४६॥
कयोश्चिद् इमौ । (RSAK १.१००फ़्, UN १०.६४)
पुष्प-च्छलेन कृष्णम् अन्वेषयन्तीं राधां प्रति कस्याश्चिद् उक्तिः ।
पन्थाः क्षेममयोऽस्तु ते परिहर प्रत्यूह-सम्भावनाम्
एतन्-मात्रम् अधारि सुन्दरि मया नेत्र-प्रणाली-पथे ।
नीरे नील-सरोजम् उज्ज्वल-गुणं तीरे तमालालङ्कारः
कुञ्जे कोऽपि कलिन्द-शैल-दुहितुः पुंस्कोकिलः खेलति ॥२४७॥
सर्व-विद्याविनोदानाम् ।
तत्र यमुना-तीरे गतया राधया सह सङ्कथा ।
का त्वं माधव-दूतिका वदसि किं मानं जहीति प्रिये
धूर्तः सोऽन्यमना मनाग् अपि सखि त्वय्य् आदरं नोज्झति ।
इत्य् अन्योन्य-कथा-रसैः प्रमुदितां राधां सखी-वेशवान्
नीत्वा कुञ्ज-गृहं प्रकाशिततनुः स्मेरो हरिः पातु वः ॥२४८॥
वासवस्य ॥
वसन्तः सन्नद्धो विपिनम् अजनं त्वं च तरुणी
स्फुरत्-कामावेशे वयसि वयम् अप्य् आहित-पदाः ।
व्रज त्वं वा राधे क्षणम् अथ विलम्बस्व यदि वा
स्फुटं जातस् तावच् चतुर-वचनानाम् अवसरः ॥२४९॥ कस्यचित् ॥
तत्र राधा-वाक्यम्
स्वामी मुग्धतरो वनं घनम् इदं बालाहम् एकाकिनी
क्षौणीम् आवृणुते तमाल-मलिन-च्छाया-तमः-सन्ततिः ।
तन् मे सुन्दर कृष्ण मुञ्च सहसा वर्त्मेति राधा-गिरः
श्रुत्वा तां परिरभ्य मन्मथ-कलासक्तो हरिः पातु वः ॥२५० ॥
कस्यचित् ॥
अथ स्वाधीन-भर्तृका ।
मकरी-विरचन-भङ्ग्या
राधा-कुच-कलस-मर्दन-व्यसनी ।
ऋजुम् अपि रेखां लुम्पन्
वल्लव-वेशो हरिर् जयति ॥२५१।
कस्यचित् ॥(Sप्द् ७७ हरिहरस्य)
क्रीडानन्तरं कृष्णस्य स्वप्नायितम् ।
एते लक्ष्मण जानकी-विरहिणं मां खेदयन्त्य् अम्बुदा
मर्माणीव च घट्टयन्त्य् अलम् अमी क्रूराः कदम्बानिलाः ।
इत्थं व्याहृत-पूर्व-जन्म-विरहो यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥२५२॥
शुभाङ्कस्य । (KK २.६९(७०); Sर्क् १३१)
अथ वंशी-चौर्यम् ।
नीचैर् न्यासाद् अथ चरणयोर् नूपुर मूकयन्ती
धृत्वा धृत्वा कतक-वलयान्य् उत्क्षिपन्ती भुजान्ते ।
मुद्राम् अक्ष्णोश् चकितं शश्वद् आलोकयन्ती
स्मित्वा स्मित्वा हरति मुरलीम् अङ्कतो माधवस्य ॥२५३॥
दैत्यारि-पण्डितस्य । (UN १५.२३८)
तां प्रति राधा-वाक्यम् ।
अच्छिद्रम् अस्तु हृदयं परिपूर्णम् अस्तु
मौखर्यम् अस्तमितम् अस्तु गुरुत्वम् अस्तु ।
कृष्ण-प्रिये सखि दिशामि सदाशिषस् ते
यद् वासरे मुरलि मे करुणां करोषि ॥२५४॥
श्री-गोविन्द-मिश्राणाम् ॥
शून्यत्वं हृदये सलाघवम् इदं शुष्कत्वम् अङ्गेषु मे
मौखर्यं व्रज-नाथ-नाम-कथने दत्तं भवत्या निजम् ।
तत् किं नो मुरलि प्रयच्चसि प्नर् गोविन्द-वक्त्रासवं
यं पीत्वा भुवनं वशे विदधती निर्लज्जम् उद्गायसि ॥२५५॥
तेषाम् एव ॥
अथ सायं हरेर् व्रजागमनम् ।
मन्द्र-क्वाणित-वेणुर् अह्नि शिथिले व्यावर्तयन् गोकुलं
बर्हापीडकम् उत्तमाङ्ग-रचितं गोधूलि-धुम्रं दधत् ।
म्लायन्त्या वन-मालया परिगतः श्रान्तोऽपि रम्याकृतिर्
गोप-स्त्री-नयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥२५६॥
कस्यचित् ॥(Kव्स् २२, SKM १.५७.४, Sर्क् ११०)
तत्र कस्याश्चिद् उक्तिः ।
दृष्ट्या केशव गोप-राग-हतया किञ्चिन् न दृष्टं मया
तेनाद्य स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।
एकस् त्वं विषमेषु खिन्न-मनसां सर्वाबलानां गतिर्
गोप्यैवं गदितः सलेशम् अवताद् गोष्ठे हरिर् वश् चिरम् ॥२५७ ॥
कस्यचित् ॥(Dह्वन्, Vअक्रो, SD ४.१४; Sम्व् २.९३; दिफ़्फ़ेरेन्त् किन्द्स् ओफ़् व्यङ्ग्य)
नाभि-देश-विनिवेशित-वेणुर्
धेनु-पुच्छ-निहितैक-कराब्जः ।
अन्य-पाणि-परिमण्डित-दण्डः
पुण्डरीक-नयनो व्रजम् आप ॥२५८॥
कस्यचित् ॥
तत्रैव राधायाः सौभाग्यम् ।
भ्रूवल्ली-चलनैः कयापि नयनोन्मेषैः कयापि स्मित-
ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि ।
गर्वाद् भेद-कृतावहेल-विनय-श्री-भाजि राधानने
सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥२५९॥
उमापतिधरस्य ॥(SKM १.५५.३, RKAD १२९)
तिर्यक्-कन्धरम् अंसदेश-मिलित-श्रोत्रावतंसं स्फुरद्-
बर्होत्तम्भित-केश-पाशम् अनृजु-भ्रू-वल्लरी-विभ्रमम् ।
गुञ्जद्-वेणु-निवेशिताधर-पुटं साकूत-राधानन-
न्यस्तामीलित-दृष्टि गोप-वपुषो विष्णोर् मुखं पातु वः ॥२६०॥
लक्ष्मण-सेन-देवस्य ॥(SKM १.५५.२)
अंसासक्त-कपोल-वंश-वदन-व्यासक्त-बिम्बाधर-
द्वन्द्वोदीरित-मन्द-मन्द-पवन-प्रारब्ध-मुग्ध-ध्वनिः ।
ईषद्-वक्रिम-लोल-हार-निकरः प्रत्येकरोकानन-
न्यञ्चच्-चञ्चद्-उदञ्चद्-अङ्गुलि-चयस् त्वां पातु राधा-धवः ॥२६१॥
नाथोकस्य ॥(SKM १.५७.५ केशर-कीलीय-नाथोकस्य)
अङ्गुष्ठाग्रिम-यन्त्रिताङ्गुलिर् असौ पादार्थ-नीरुद्ध-भूर्
आर्द्रीकृत्य पयोधराञ्चलम् अलं सद्यः पयो-बिन्दुभिः ।
न्यग्-जानु-द्वय-मध्य-यन्त्रित-गह्टी-वक्त्रान्तराल-स्खलद्-
धाराध्वान-मनोहरं सखि पयो गां दोग्धि दामोदरः ॥२६२ ॥
शरणस्य ॥(SKM ५.१.१; Sर्क् ११५७, Uपाध्याय Dआमरस्य; UN १०.५०)
शाठान् यस्याः काञ्ची-मणि-रणितम् आकर्ण्य सहसा
यद् आश्लिष्यन्न् एव प्रशिथिल-भुज-ग्रन्थिर् अभवः ।
तद् एतत् क्वाचक्षे घृतमधुमय त्वद्-बहु-वचो-
विषेणाघूर्णन्ती किम् अपि न सखी मे गणयति ॥२६३॥
कस्यचित् ॥(Aमरु ७३.१०९, SD ३.३७) शठ-नायक
अथ गोवर्धनोद्धरणम् ।
सत्रासर्ति यशोदया प्रिय-गुण-प्रीतेक्षणं राधया
लग्नैर् वल्लव-सूनुभिः सरभसं सम्भावितात्मोर्जितैः ।
भीतानन्दित-विस्मितेन विषमं नन्देन चालोकितः
पायाद् वः कर-पद्म-सुस्थित-महा-शैलः सलीलो हरिः ॥२६४॥
सोह्नोकस्य । (SKM १.६०.१ सोल्लोकस्य; Sर्क् १४० सोन्नोकस्य)
एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः
श्रान्तोऽसि क्षणम् आस्स्व साम्प्रतम् अमी सर्वे वयं दध्महे ।
इत्य् उल्लासित-दोष्णि गोप-निवहे किञ्चिद् भुजाकुञ्चन-
न्यञ्चच्-छैल-भरार्दिते विरुवति स्मेरो हरिः पातु वः ॥२६५॥
शरणस्य ॥(SKM १.६०.२)
खिन्नोऽसि मुञ्च शैलं
बिभृमो वयम् इति वदत्सु शिथिल-भुजः ।
भर-भुग्न-वितत-
बाहुषु गोपेषु हसन् हरिर् जयति ॥२६६ ॥
सुबन्धोः ॥(Vआसवदत्त, २; Sप्द् ७८; Sम्व् १.४१ हरिहरस्य)
दूरं दृष्टि-पथात् तिरोभव हरेर् गोवर्धनं विभ्रतस्
त्वय्य् आसक्त-दृशः कृशोदरि कर-स्रस्तोऽस्य मा भूद् अयम् ।
गोपीनाम् इति जल्पितं कलयतो राधा-निरोधाश्रयं
श्वासाः शैल-भर-श्रम-भ्रम-कराः कंस-द्विषः पान्तु वः ॥२६७ ॥शुभाङ्कस्य । (SKM १.६०.४)
अथ नौ-क्रीडा ।
कुरु पारं यमुनाया
मुहुर् इति गोपीभिर् उत्कराहूतः ।
तरि-तट-कपट-शयालुर्
द्विगुणालस्यो हरिर् जयति ॥२६८॥
सञ्जय-कविशेखरस्य । (BRK ५.१७०६)
उत्तिष्ठारात् तरौ मे तरुणि मम तरोः शक्तिर् आरोहणे का
साक्षाद् आख्यामि मुग्धे तरणिम् इह रवेर् आख्यया का रतिर् मे ।
वार्तेयं नौ-प्रसङ्गे कथम् अपि भविता नावयोः सङ्गमार्था
वार्तापीति स्मितास्यं जित-गिरिम् अजितं राधयाराधयामि ॥२६९॥
(UN ११.८६)
मुक्ता तरङ्ग-निवहेन पतङ्ग-पुत्री
नव्या च नौर् इति वचस् तव तथ्यम् एव ।
शङ्का-निदानम् इदम् एव ममातिमात्रं
त्वं चञ्चलो यद् इह माधव नाविकोऽसि ॥२७०॥
समाहर्तुर् इमौ । (UN १५.२३६)
जीर्णा तरिः सरिद् अतीव-गभीर-नीरा
बाला वयं सकलम् इत्थम् अनर्थ-हेतुः ।
निस्तार-बीजम् इदम् एव कृशोदराणां
यन् माधव त्वम् असि सम्प्रति कर्णधारः ॥२७१॥
जगदाननद-रायस्य । (BRK ५.१७०९)
अम्भसि तरणि-सुतायाः
स्तम्भित-तरणिः स देवकी-सुतः ।
आतर-विरहित-गोप्याः
कातर-मुखम् ईक्षते स्मेरः ॥२७२॥
सूर्यदासस्य ।
वाचा तवैव यदुनन्दन गव्य-भारो
हारोऽपि वारिणि मया सहसा विकीर्णः ।
दूरीकृतं च कुचयोर् अनयोर् दुकूलं
कूलं कलिन्द-दुहितुर् न तथाप्य् अदूरम् ॥२७३॥
कस्यचित् । (Pरेमामृत ३.१८; BRK ५.१७१०)
पयः-पूरैः पूर्णा सपदि गतघूर्णा च पवनैर्
गभीरे कालिन्दी-पयसि तरिर् एषा प्रविशति ।
अहो मे दुर्दैवं परम-कुतुकाक्रान्त-हृदयो
हरिर् वारं वारं तद् अपि करतालिं रचयति ॥२७४॥
मनोहरस्य । (Pरेमामृत ३.१९; BRK ५.१७११)
पानीय-सेचन-विधौ मम नैव पाणी
विश्राम्यतस् तद् अपि ते परिहास-वाणी ।
जीवामि चेत् पुनर् अहं न तदा कदापि
कृष्ण त्वदीय-तरणौ चरणौ ददामि ॥२७५॥
तस्यैव । (Pरेमामृत ३.१२; BRK ५.१७१२)
इदम् उद्दिश्य वयस्याः
स्व-समीहित-दैवतं नमत ।
यमुनैव जानु-दध्नी
भवतु न वा नाविकोऽस्त्व् अपरः ॥२७६॥
मुकुन्द-भट्टाचार्यस्य ।
तरिर् उत्तरला सरिद् गभीरा
तरलो नन्द-सुतश् च कर्ण-धारः ।
अबलाहम् उपैति भानुर् अस्तं
सखि दूरे नगरीह किं करोमि ॥२७७॥
कस्च्यचित् ॥
नापेक्षते स्तुति-कथां न शृणोति काकुं
शश्वत् कृतं न मनुते प्रणिपात-जातम् ।
हा किं विधेयम् अधुना सखि नन्द-सूनुर्
मध्ये-तरङ्गिणि तरिं तरलो धुनोति ॥२७८॥
तस्यैव ।
Exत्र वेर्से फ़ोउन्द् इन् ओन्ल्य् ओने एदितिओन्।
आतर-लाघव-हेतोर्
मुरहर तरिं तवावलम्बे ।
अपणं पणम् इह कुरुषे
नाविक-पुरुषे न विश्वासः ॥
कस्यचित् ।
एषोत्तुङ्ग-तरङ्ग-लङ्घित-तटोत्सङ्गा पतङ्गात्मजा
पूर्णेयं तरिर् अम्बुभिर् न हि हरेः शङ्का कलङ्काद् अपि ।
काठिण्यं भज नाद्य सुन्दरि वयं राधे प्रसादेन ते
जीवामः स्फुटम् आतरीकुरु गिरि-द्रोणी-विनोदोत्सवम् ॥२७९॥
काकुं करोषि गृह-कोण-करीष-पुञ्ज-
गूढाङ्ग किं ननु वृथा कितव प्रयाहि ।
कुत्राद्य जीर्ण-तरणि-भ्रमणातिभीत-
गोपाङ्गना-गण-विडम्बन-चातुरी ॥२८०॥
त्रयः समाहर्तुः । (UN ५.४९)
अथ राधया सह हरेर् वाकोवाक्यम् ।
अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो
नो चक्री किं कुलालो न हि धरणी-धरः किं द्विजिह्वः फणीन्द्रः ।
नाहं घोराहि-मर्दी किम् असि खग-पतिर् नो हरिः किं कपीशो
राधा-वाणीभिर् इत्थं प्रहसित-वदनः पातु वश् चक्र-पाणिः ॥२८१॥
कस्यचित् ॥(Sभ्व् १३०; KK ३.१०५; Sर्क् ७.१९)
कस् त्वं भो निशि केशवः शिरसिजै-य् किं नाम गर्वायसे
भद्रे शौरिर् अहं गुणैः पितृ-गतैः पुत्रस्य किं स्याद् इह ।
चक्री चन्द्रमुखि प्रयच्छसि न मे कुण्डीं घटीं दोहनीम्
इत्थं गोप-वधू-जितोत्तरतया ह्रीणो हरिः पातु वः ॥२८२॥
चक्रपाणेः ॥(SKM १.५६.३)
वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्व् इदं
वासं ब्रूहि शठ प्रकाम-सुभगे त्वद्-गात्र-संसर्गतः ।
यामिन्याम् उषितः क्व धूर्त वितनुर् मुष्णाति किं यामिनी
शौरिर् गोपवधूं छलैः परिहसन्न् एवंविधैः पातु वः ॥२८३॥
कस्यचित् ॥(SKM १.५६.४; BRS २.१.८३)
राधे त्वं कुपिता त्वम् एव कुपिता रुष्टासि भूमेर् यतो
माता त्वं जगतां त्वम् एव जगतां माता न विज्ञोऽपरः ।
देवि त्वं परिहास-केलि-कलहेऽनन्ता त्वम् एवेत्य् असौ
स्मेरो वल्लव-सुन्दरीम् अवनमच् छौरिः श्रियः वः क्रियात् ॥२८४॥
हरिहरस्य ॥(SKM १.५६.१ वाक्पतेः; Sर्क् १०८)
अथ रासः ।
वृन्दारण्ये प्रमद-सदने मल्लिका-पुष्प-मोदे
श्री-शुभ्रांशोः किरण-रुचिरे कोकिलाद्यैर् मनोज्ञे ।
रात्रौ चित्रे पशुप-वनिता-चित्त-देहापहारी
कंसारातेर् मधुर-मुरली-वाद्य-राजो रराज ॥२८५॥
कस्यचित् ।
अधरामृत-माधुरी-धुरीणो
हरि-लीला-मुरली-निनाद एषः ।
प्रततान मनःप्रमोदम् उच्चैर्
हरिणीनां हरिणी-दृशां मुनीनाम् ॥२८६॥
श्री-माधवेन्द्रपुरी-पादानाम् ।
लीला-मुखरित-मुरली-
कृत-गोप-भाविनी-निवहः ।
तद्-अधर-मधुनि सतृष्णः
कृष्णः पायाद् अपायतो भवतः ॥२८७॥
माधव-चक्रवर्तिनः ॥
कारय नाम्ब विलम्बं
मुञ्च करं मे हरिं यामि ।
न सहे स्थातुं यद् असौ
गर्जति मुरली प्रगल्भ-दूतीव ॥२८८॥
समाहर्तुः ॥
चूडा-चुम्बित-चारु-चन्द्र-कचयं चामीकराभाम्बरं
कर्णोत्तंसित-कर्णिकार-कुसुमं कन्दर्प-कल्लोलितम् ।
वंशी-वादन-वावदूक-वदनं वक्री-भवद्-वीक्षणं
भाग्यं भङ्गुर-मध्यमाः परिणतं कुञ्जान्तरं भेजिरे ॥२८९॥
जीव-दास-वाहिनी-पतेः ।
श्री-कृष्ण-वाक्यम् ।
दुष्टः कोऽपि करोति वः परिभवं शङ्के मुहुर् गोकुले
धावन्त्यः स्खलद्-अम्बरं निशि वने यूयं यद्-अभ्यागताः ।
आः का भीतिर् अमन्द-दानव-वधू-सिन्दूर-मुद्राहरे
दोर्-दण्डे मम भाति दीव्यत पति-क्रोडे कुरङ्गी-दृशः ॥२९०॥
धूतोत्तापे वहति गहने धर्म-पूरे व्रजान्तः
का वस् तृष्णा वलति हृदये दुर्मदेयं सतीनाम् ।
सीमन्तिन्यः स्पृहयत गृहान् मा विरुद्धं कुरुध्वं
नायं दृष्टौ मम विघटते हन्त पुण्यस्य पन्थाः ॥२९१॥
अथ व्रजदेवीनाम् उत्तरम् ।
कथं वीथीम् अस्मान् उपदिशसि धर्म-प्रणयिनीं
प्रसीद स्वां शिष्याम् अतिखिलमुखीं शाधि मुरलीम् ।
हरन्ती मर्यादां शिव शिव परे पुंसि हृदयं
नयन्ती धृष्टेयं यदुवर यथा नाह्वयति नः ॥२९२॥
त्रयः समाहर्तुः ॥
गोपीजनालिङ्गित-मध्य-भागं
वेणुं धमन्तं भृश-लोल-नेत्रम् ।
कलेवरे प्रस्फुट-रोम-वृन्दं
नमामि कृष्णं जगद्-एक-कन्दम् ॥२९३॥
श्री-पुरुषोत्तम-देवस्य ॥
कालिन्द्याः पुलिनेषु केलि-कुपिताम् उत्सृज्य रासे रसं
गच्छन्तीम् अनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् ।
तत्-पाद-प्रतिमानिवेशित-पदस्योद्भूतरोमोद्गतेर्
अक्षुण्णोऽनुनयः प्रसन्न-दयिता-दृष्टस्य पुष्णातु वः ॥२९४॥
भट्ट-नारायणस्य ॥(Vएणिसंहार १.२)
कृष्णान्तर्धाने तासां प्रश्नः ।
तुलसि विलससि त्वं मल्लि जातासि फुल्ला
स्थल-कमलिनि भृङ्गे सङ्गताङ्गी विभासि ।
कथयत बत सख्यः क्षिप्रम् अस्मासु कस्मिन्
वसति कपट-कन्दः कन्दरे नन्द-सूनुः ॥२९५॥
समाहर्तुः । (UN १०.९४)
दृष्टः क्वापि स माधवो व्रज-वधूम् आदाय काञ्चिद् गतः
सर्वा एव हि वञ्चिताः सखि वयं सोऽन्वेषणीयो यदि ।
द्वे द्वे गच्छतम् इत्य् उदीर्य सहसा राधां गृहीत्वा करे
गोपी-वेश-धरो निकुञ्ज-कुहरं प्राप्तो हरिः पातु वः ॥२९६॥
कस्यचित् ॥(Sभ्व् १००)
राधा-सखी-वाक्यम् ।
अदोषाद् दोषाद् वा त्यजति विपिने तां यदि भवान्
अभद्रं भद्रं वा त्रिभुवन-पते त्वां वदतु कः ।
इदं तु क्रूरं मे स्मरति हृदयं यत् किल तया
त्वद्-अर्थं कान्तारे कुल-तिलक नात्मापि गणितः ॥२९७॥
रामचन्द्रदासस्य । (UN ८.४०)
लक्ष्मीं मध्य-गतेन रास-वलये विस्तारयन्न् आत्मना
कस्तूरी-सुरभिर् विलास-मुरली-विन्यस्त-वक्त्रेन्दुना ।
क्रीडा-ताण्डव-मण्डलेन परितो दृष्टेन तुष्यद् दृशा
त्वां हल्लीशक-शङ्कु-सङ्कुल-पदा पायाद् विहारी हरिः ॥२९८॥
कस्यचित् ।
तत्र खेचराणाम् उक्तिः ।
मुक्त-मुनीनां मृग्यं
किम् अपि फलं देवकी फलति ।
तत् पालयति यशोदा
निकामम् उपभुञ्जते गोप्यः ॥२९९॥
दाक्षिणात्यस्य ॥
तप्तं तपोभिर् अन्यैः
फलितं तद् गोप-बालानाम् ।
आसां यत् कुच-कुम्भे
नील-निचोलयति ब्रह्म ॥३००॥
श्री-रघुपत्युपाध्यायस्य ॥
अथ जल-क्रीडा ।
जल-केलि-तरल-करतल-
मुक्त-पुनः-पिहित-राधिका-वदनः ।
जगद् अवतु कोक-यूनोर्
विघटन-सङ्घटन-कौतुकी कृष्णः ॥३०१॥
कस्यचित् । (UN १५.२३५)
राधासखीं प्रति चन्द्रावली-सख्याः सासूय-वाक्यम्
मा गर्वम् उद्वह कपोल-तले चकास्ति
कृष्ण-स्वहस्त-लिखिता नव-मञ्जरीति ।
अन्यापि किं न सखि भाजनम् ईदृशीनां
वैरी न चेद् भवति वेपथुर् अन्तरायः ॥३०२॥
दामोदरस्य । (Aमरु ५५; SKM २.१४०.५ केशटस्य; Sम्व् ८६.१४; SD ३.१०५ मद; DR २.२२, एत्च्।; BRS २.४.१६५)
राधा-सख्याः साकूत-वाक्यम् ।
यदवधि गोकुलम् अभितः
समजनि कुसुमाचितासन-श्रेणी ।
पीतांशुक-प्रियेयं
तदवधि चन्द्रावली जाता ॥३०३॥
गोवर्धनाचार्यस्य । (Aर्यस् ४३६.५३१)
चन्द्रावलीं प्रति सखी-वाक्यम्
सौजन्येन वशीकृता वयम् अतस् त्वां किञ्चिद् आचक्ष्महे
कालिन्दीं यदि यासि सुन्दरि पुनर् मा गाः कदम्बाट्वईम् ।
कश्चित् तत्र नितान्त-निर्मल-तमः-स्तोमोऽस्ति यस्मिन् मनाग्
लग्ने लोचनसीम्नि नोत्पलदृशः पश्यन्ती पत्युर् गृहम् ॥३०४॥
गोविन्द-भट्टस्य ॥
श्यामोऽयं दिवसः पयोद-पटलैः सायं तथाप्य् उत्सुका
पुष्पार्थं सखि यासि यामुन-तटं याहि व्यथा का मम ।
किन्त्व् एकं खर-कण्टक-कक्षतम् उरस्य् आलोक्य सद्योऽन्यथा
शङ्कां यत् कुटिलः करिष्यति जनो जातास्मि तेनाकुला ॥३०५ ॥
कर्णपूरस्य ॥
गन्तव्या ते मनसि यमुना वर्तते चेत् तदानीं
कुञ्जं मा गाः सहज-सरले वाञ्जुलं मद्-वचोभिः ।
गच्छेस् तत्राप्य् अहह यदि वा मा मुरारेर् उदारे
कुत्राप्य् एका रहसि मुरली-नादम् आकर्णयेथाः ॥३०६॥
तैरभुक्त-कवेः ।
तरले न कुरु विलम्बं
कुम्भं संस्मृत्य मन्दिरं याहि ।
यावन् न मोहन-मन्त्रं
शंसति कंसद्विषो वंशी ॥३०७॥
समाहर्तुः ॥
पृष्ठेन नीपम् अवलम्ब्य कलिन्दजायाः
कूले विलास-मुरलीं क्वणयन् मुकुन्दः ।
प्राक् पूरणात् कलसम् अम्भसि लोलयन्त्या
वक्त्रं विवर्तयति गोपकुलाङ्गनायाः ॥३०८॥
कस्यचित् ॥
सख्यो यय्र् गृहम् अहं कलसीं वहन्ती
पूर्णाम् अतीव-महतीम् अनुलम्बितास्मि ।
एकाकिनीं स्पृशसि मां यदि नन्दसूनो
मोक्ष्यामि जीवनम् इदं सहसा पुरस् ते ॥३०९॥
समाहर्तुः ॥
तां प्रति कस्याश्चिद् उक्तिः ।
वल्गन्त्या वन-मालया तव हृतं वक्षोजयोश् चन्दनं
गण्डस्था मकरीघटा च मकरान्दोलेन विध्वंसिता ।
क्लान्ता स्वैर-तरङ्ग-केलिभिर् इयं तन्वी च धूर्ते तनुः
सत्यं जल्पसि भानुजाम् अभि रसे मग्नाद्य हर्षाद् अभूः ॥३१०॥
समाहर्तुः ॥
तद्-भर्तारं प्रति सखी-वाख्यम् ।
सुभग मम प्रिय-सख्याः
किम् इव सशङ्कं मुहुर् विलोकयसि ।
यामुन-पवन-विकीर्ण-
प्रिय-करजः-पिञ्जरं पृष्ठम् ॥३११॥
समाहर्तुः ॥
चन्द्रावलीं प्रति तस्या वाक्यम्
कात्यायनी-कुसुम-कामनया किम् अर्थं
कान्तार-कुक्षि-कुहरं कुतुकाद् गतासि ।
पश्य स्तन-स्तवकयोस् तव कण्टकाङ्कं
गोपः सुकण्ठि बत पश्यसि जात-कोपः ॥३१२॥
समाहर्तुर् इमे । (UN ३.३८)
अथ नित्य-लीला
वृन्दावने मुकुन्दस्य नित्य-लीला विराजते ।
स्पष्टम् एषा रहस्यत्वाज् जानद्भिर् अपि नोच्यते ॥
ताभिर् नित्य-विहारम् एव तनुते वृन्दावने माधवो
गोष्ठाम्भोजमुखीभिर् इत्य भि मनाक् प्रोचे प्रियायै हरः ।
लीलारत्न-रहस्यता व्रजपतेर् भूयस्य् अहो पश्य यत्
तत्त्वज्ञोऽपि पुरान्तरे च गमनं व्याचष्ट वैयासकिः ॥
तथा हि पाद्मे पार्वत्यै व्याजहार हरो रहः ।
गोगोपगोपिकासङ्गे यत्र क्रीडति कंसहा ॥
अथ भाविनि हरेर् मथुरा-प्रस्थाने राधा-सखी-वाक्यम्
अद्यैव यत् प्रतिपद्-उद्गत-चन्द्र-लेखा-
सख्यं त्वया वपुर् इदं गमितं वराक्याः ।
कृष्णे गते कुसुम-सायक तत् प्रभाते
बाणावलिं कथय कुत्र विमोक्ष्यसि त्वम् ॥३१३॥
रुद्रस्य ॥(ST २.८७)
प्रस्थानं वलयैः कृतं प्रियसखैर् अजस्रं गतं
धृत्या न क्षणम् आसितं व्यवसितं चित्तेन गन्तुं पुरः ।
गन्तुं निश्चित-चेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवित-प्रिय-सुहृत्-सार्थः किम् उ त्यज्यते ॥३१४ ॥
अमरोः । (Aमरु ३१.३६; Sभ्व् ११५१; Sप्द् ३४२४; SKM २.५४.१; Sम्व् ३७.१९)
हरेर् मथुरा-प्रवेशे
छायापि लोचन-पथं न जगाम यस्याः
सेयं वधूर् नगर-मध्यम् अलङ्करोति ।
किं चापकलय्य मथुरा-नगरे मुकुन्दम्
अन्धोऽपि बन्धुकरदत्तकरः प्रयाति ॥३१५॥
वाणीविलासस्य ।
तत्र पुर-स्त्री-वाक्यम् ।
अस्रम् अजस्रं मोक्तुं
धिङ् नः कर्णायते नयने ।
द्रष्टव्यं परिदृष्टं
तत् कैशोरं व्रज-स्त्रीभिः ॥३१६॥
तैरभुक्तस्य ॥
सान्द्रानन्दम् अनन्तम् अव्ययम् अजं यद् योगिनोऽपि क्षणं
साक्षात् कर्तुम् उपासते प्रतिदिनं ध्यानैकतानाः परम् ।
धन्यास् ता व्रजवासिनां युवतयस् तद् ब्रह्म याः कौतुकाद्
आलिङ्गन्ति समालपन्ति शतधाकर्षन्ति चुम्बन्ति च ॥३१७॥
वाहिनीपतेः ॥(SD ६.३१४अ)
Exत्र वेर्से-
आनन्द-कन्दम् अखिल-श्रुति-सारम् एकम्
अध्यात्म-दीपम् अतिदुस्तरम् अञ्जनाभम् ।
आकृष्य सान्द्र-कुचयोः परिरभ्य कामं
सम्प्राप्य गोपवनिता बत पुण्य-पुञ्जाः ॥
प्रियसखि न जगाम वामशीलः
स्फुटम् अमुना नागरेण नन्दसूनुः ।
अदलित-नलिनी-दलैव वापी
यद् अहत-पल्लव एव काननान्तः ॥३१८॥
कुमारस्य ॥
यास्यामीति समुद्यतस्य वचनं विस्रब्धम् आकर्णितं
गच्छन् दूरम् अपेक्षितो मुहुर् असौ व्यावृत्य पश्यन्न् अपि ।
तच् छून्ये पुनर् आगतास्मि भवने प्राणास् त एव स्थिताः
सख्यः पश्यत जीवित-प्रणयिनी दम्भाद् अहं रोदिमि ॥३१९॥
रुद्रटस्य ।
गतो यामो गतौ यामौ
गता यामा गतं दिनम् ।
हा हन्त किं करिष्यामि
न पश्यामि हरेर् मुखम् ॥३२०॥
शङ्करस्य ॥
यमुना-पुलिने समुत्क्षिपन्
नटवेशः कुसुमस्य कन्दुकम् ।
न पुनः सखि लोकयिष्यते
कपटाभीर-किशोर-चन्द्रमाः ॥३२१ ॥
षष्ठी-दासस्य ॥
याः पश्यन्ति प्रियं स्वप्ने
धन्यास्ताः सखि योषितः
अस्माकं तु गते कृष्णे
गता निद्रापि वैरिणी ॥३२२॥
धन्यस्य । (UN १५.१६९)
सोऽयं वसन्त-समयो विपिनं तद् एतत्
सोऽयं निकुञ्ज-विटपी निखिलं तदास्ते
हा हन्त किं तु नव-नीरद-कोमलाङ्गो
नलोकि पुष्प-धनुषः प्रथमावतारः ॥३२३॥
सञ्जय-कविशेखरस्य ॥
युगायितं निमेषेण चक्षुषा प्रावृषायितम् ।
शून्यायितं जगत् सर्वं गोविन्द-विरहेण मे ॥३२४॥
श्री-भगवतः ॥(CC ३.२०.४६, Śइक्षाष्टक, ७)
दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते
वहति विकलः कायो मूर्च्छां न मुञ्चति चेतनाम् ।
ज्वलयति तनूम् अन्तर्दाहः करोति न भस्मसात्
प्रहरति विधिर् मर्मच्छेदी न कृन्तति जीवितम् ॥३२५॥
(Mआलतीमाधव ९.११, Uत्तररामचरित ३.३१, Bर्क्; Sम्व् ४३.३९)
भ्रमय जलदान् अम्भोगर्भान् प्रमोदय चातकान्
कलय शिखिनः केकोत्कण्ठान् कठोरय केतकान् ।
विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा-
मकरुण पुनः सञ्ज्ञा-व्याधिं विधाय किम् ईहसे ॥३२६ ॥
एतौ भवभूतेः । (Mआलतीमाधव ९.४२, Sप्द् ३४५३; Sम्व् ४३.३४)
दृष्टं केतक-धूलि-धूसरम् इदं व्योम क्रमाद् वीक्षिताः
कच्चान्ताश् च शिलीन्ध्र-कन्दल-भृतः सोढाः कदम्बानिलाः ।
सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान् मुदेवाकुला
एतान् अप्य् अधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥३२७॥
रुद्रस्य ॥(SKM २.५५.३, ST २.६०अ)
सेयं नदी कुमुद-बद्न्हुकरास् त एव
तद् यामुनं तटम् इदं विपिनं तद् एतत् ।
ते मल्लिका-सुरभयो मरुतस् त्वम् एव
हा प्राण-वल्लभ सुदुर्लभतां गतोऽसि ॥३२८॥
हरिभट्टस्य ॥
यदुनाथ भवन्तम् आगतं
कथयिष्यन्ति कदा मदालयः ।
युगपत् परितः प्रधावितः
विकसद्भिर् वदनेन्दु-मण्डलैः ॥३२९ ॥
तैरभुक्तकवेः ॥
अयि दीनदयार्द्र नाथ हे,
मथुरानाथ कदावलोक्यसे ।
हृदयं त्वद्-अलोक-कातरं
दयित भ्राम्यति किं करोम्य् अहम् ॥३३०॥
श्री-माधवेन्द्र-पुरी-पादानाम् । (CC २.४.१९७, ३.८.३२)
प्रथयति न तथा ममार्तिम् उच्चैः
सहचरि वल्लव-चन्द्र-विप्रयोगः ।
कटुभिर् असुर-मण्डलैः परीते
दनुजपतेर् नगरे यथास्य वासः ॥३३१॥
श्री-रघुनाथ-दासस्य । (BRS २.४.५२)
चूताङ्कुरे स्फुरति हन्त नवे नवेऽस्मिन्
जीवोऽपि यास्यतितरां तरल-स्वभावः ।
किं त्व् एकम् एव मम दुःखम् अभूद् अनल्पं
प्राणेश्वरेण सहितो यद् अयं न यातः ॥३३२॥।
राङ्गस्य ।
आशैक-तन्तुम् अवलम्ब्य विलममाना
रक्षामि जीवम् अवधिर् नियतो यदि स्यात् ।
नो चेद् विधिः सकल-लोक-हितैककारी
यत् काल-कूटम् असृजत् तद् इदं किम् अर्थम् ॥३३३॥
हरेः ।
प्रसर शिशिरामोदं कौन्दं समीर समीरय
प्रकटय शशिन्न् आशाः कामं मनोज समुल्लस ।
अवधि-दिवसः पूर्णः सख्यो विमुञ्चत तत्-कथां
हृदयम् अधुना किञ्चित् कर्तुं ममान्यद् इहेच्छति ॥३३४ ॥
रुद्रस्य ॥(SKM २.५५.५; ST २.५८ए, Sम्व् ४०.१८)
नायाति चेद् यदुपतिः सखि नैतु कामं
प्राणास् तदीय-विरहाद् यदि यान्ति यान्तु ।
एकः परं हृदि महान् मम वज्र-पातो
भूयो यद् इन्दुवदनं न विलोकितं तत् ॥३३५ ॥
हरि-भट्टस्य ॥
पञ्चत्वं तनुर् एतु भूत-निवहाउ स्वांशे विशन्तु स्फुटं
धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् ।
तद्-वापीषु पयस् तदीय-मुकुरे ज्योतिस् तदीयाङ्गन-
व्योम्नि व्योम तदीय-वर्त्मनि धरा तत्-ताल-वृन्तेऽनिलः ॥३३६ ॥
षण्मासिकस्य । (Sप्द् ३४२८; Sम्व् ४३.३२; Sभ्व् १३५५; UN १४.१८९)
आश्लिष्य वा पाद-रतां पिनष्टु माम्
अदर्शनान् मर्म-हतां करोतु वा ।
यथा तथा वा विदधातु लम्पटो
मत्-प्राण-नाथस् तु स एव नापरः ॥३३७॥
श्री-भगवतः ॥(CC ३.२०.४७, UN १३.७९)
मथुरायां यशोदा-स्मृत्या कृष्ण-वाक्यम् ।
ताम्बूलं स्व-मुखार्धं चर्वितम् इतः को मे मुखे निक्षिपेद्
उन्मार्ग-प्रसृतं च चाटु-वचनैः को मां वशे स्थापयेत् ।
एह्य् एहीति विदूर-सारित-भुजः स्वाङ्के निद्यायाधुना
केलि-स्रस्त-शिखण्डकं मम पुनर् व्याधूय बध्नातु कः ॥३३८॥ तैरभुक्तस्य ॥
अथ श्री-राधा-स्मृत्या हरेर् वाक्यम् ।
यदि निभृतम् अरण्यं प्रान्तरं वाप्य् अपान्थं
कथम् अपि चिरकालं पुण्यपाकेन लप्स्ये ।
अविरल-गलद्-अस्रैर् घघर-ध्वान-मिश्रैः
शशिमुखि तव शोकैः प्लावयिष्ये जगन्ति ॥३३९॥
तैरभुक्तकवेः ॥
उद्धवं प्रति हरेर् वाक्यम् ।
विषयेषु तावद् अबलास्
तास्व् अपि गोप्यः स्वभाव-मृदु-वाचः ।
मध्ये तासाम् अपि सा
तस्याम् अपि साचिवीक्षितं किम् अपि ॥३४०॥
कस्यचित् ॥
उद्धवेन राधायां हरेः सन्देशः ।
आविर्भाव-दिने न येन गणितो हेतुस् तनीयान् अपि
क्षीयेतापि न चापराध-विधिना नत्या नयो वर्धते ।
पीयूष-प्रतिवेदिनस् त्रिजगती-दुःख-द्रुहं साम्प्रतं
प्रेम्णस् तस्य गुरोः कथं नु करवै वाङ्-निष्ठता-लाघवम् ॥३४१॥
केषाञ्चित् ॥
आस्तां तावद् वचन-रचना-भाजनत्वं विदूरे
दूरे चास्तां तव तनु-परीरम्भ-सम्भावनापि ।
भूयो भूयः प्रणतिभिर् इदं किं तु याचे विधेया
स्मारं स्मारं स्वजन-गणने क्वापि रेखा ममापि ॥३४२॥
केशव-भट्टाचार्याणाम् ॥
वृन्दावनं गच्छत उद्धवस्य वाक्यम् ।
इयं सा कालिन्दी कुवलय-दल-स्निग्ध-मधुरा
मदान्ध-व्याकूज-तरल-जल-रङ्कु-प्रणयिनी ।
पुरा यस्यास् तीरे सरभस-सतृष्णं मुरभिदो
गताः प्रायो गोपी-निधुवन-विनोदेन दिवसाः ॥३४३ ॥
दशरथस्य । (SKM ५.११.४ शरणस्य)
पुरेयं काल्लिन्दी व्रज-जन-वधूनां स्तन-तटी-
तनूरागैर् भिन्ना चबल-सलिलाभूद् अनुदिनम् ।
अहो तासां नित्यं रुदित-गलितैः कज्जल-जलैर्
इदानीं यातेऽस्मिन् द्विगुण-मल्लिनाभून् मुररिपौ ॥३४४ ॥
सर्वानन्दस्य ॥
इदं तत् कालिन्दी-पुलिनम् इह कंसासुरभिदो
यशः शृण्वद् वक्त्र-स्खलित-कवलं गोकुलम् अभूत् ।
भ्रमद्-वेणु-क्वाण-श्रवण-मसृणोत्तार-मधुर-
स्वराभिर् गोपीभिर् दिशि दिशि समुद्घूर्णम् अनिशम् ॥३४५ ॥
मोटकस्य ॥(SKM ५.११.५ केशटस्य)
ताभ्यो नमो वल्लव-वल्लभाभ्यो
यासां गुणैस् तैर् अभिचिन्त्यमानैः ।
वक्षःस्थले निःश्वसितैः कदुष्णैर्
लक्ष्मीपतेर् म्लायति वैजयन्ती ॥३४६ ॥कस्यचित् ॥
व्रजदेवीकुलं प्रत्य् उद्धव-वाक्यम् ।
वियोगिनीनाम् अपि पद्धतिं वो
न योगिनो गन्तुम् अपि क्षमन्ते ।
यद् ध्येयरूपस्य परस्य पुंसो
यूयं गता ध्येय-पदं दुरापम् ॥३४७॥
कस्यचित् ॥
उद्धवे दृष्टे सखीं प्रति राधा-वाक्यम् ।
कल्याणं कथयामि किं सहचरि स्वैरेषु शश्वत् पुरा
यस्या नाम समीरितं मुररिपोः प्राणेश्वईति त्वया ।
साहं प्रेमभिदाभयात् प्रियतमं दृष्ट्वापि दूतं प्रभोः
सन्दिष्टास्मि न वेति संशयवती पृच्छामि नो किञ्चन ॥३४८॥
रामचन्द्र-दासस्य ॥
श्री-राधां प्रति उद्धव-वाक्यम् ।
मलिनं नयनाञ्जनाम्बुभिर्
मुखचन्द्रं करभोरु मा कुरु ।
करुणावरुणालयो हरिस्
त्वयि भूयः करुणां विधास्यति ॥३४९॥
षष्ठी-दासस्य ॥(UN १२.३०)
उद्धवं प्रति राधा-सखी-वाक्यम् ।
हस्तोदरे विनिहितैककपोलपालेर्
अश्रान्तलोचनजलस्नपिताननायाः ।
प्रस्थानमङ्गलदिनावधि माधवस्य
निद्रालवोऽपि कुत एव सरोरुहाक्ष्याः ॥३५०॥
हरिहरस्य ॥(BRS ३.५.३२)
राधा-सख्या एव कृष्णे सन्देशः ।
निश्चन्दनानि वणिजाम् अपि मन्दिराणि
निष्पल्लवानि च दिगन्तर-काननानि ।
निष्पङ्कजान्य् अपि सरित्-सरसीकुलानि
जातानि तद्-विरह-वेदनया न शान्तम् ॥३५१॥
तस्यैव ॥
प्राणस् त्वं जगतां हरेर् अपि पुरा सङ्केत-वेणु-स्वनान्
आदाय व्रज-सुभ्रुवाम् इह भवान् मार्गोपदेशे गुरु ।
हंहो मथुरा-निष्कुटानिल सखे सम्प्रत्य् अपि श्री-पतेर्
अङ्ग-स्पर्श-पवित्र-शीतिल-तनुस् त्राता त्वम् एकोऽसि नः ॥३५२॥
रामचन्द्र-दासस्य ॥
राधासख्या एव कृष्णे सन्देशः ।
त्वद्-देशागत-मारुतेन मृदुना सञ्जात-रोमाञ्चया
त्वद्-रूपाङ्कित-चारु-चित्र-फलके सन्तर्पयन्त्या दृशम् ।
त्वन्-नामामृत-सिक्त-कर्ण-पुटया त्वन्-मार्ग-वातायने
तन्व्या पञ्चम-गीत-गर्भित-गिरा रात्रिन्दिवं स्थीयते ॥३५३॥
त्रिविक्रमस्य ॥(Nअलचम्पू ६.२३; Sम्व् ४४.५)
अङ्गेऽनङ्ग-ज्वर-हुत-वहश् चक्षुषि ध्यान-मुद्रा
कण्ढे जीवः करकिशलये दीर्घ-शायी कपोलः ।
अंसे वेणी कुच-परिसरे चन्दनं वाचि मौनं
तस्याः सर्वं स्थितम् इति न च त्वां विना क्वापि चेतः ॥३५४॥
क्षेमेन्द्रस्य ॥(Sप्द् ३४७४; Sम्व् ४४.६; Kअविकण्ठाभरण ३.२)
दृष्टे चन्द्रमसि प्रलुप्त-तमसि व्योमाङ्गन-स्थेयसि
स्फूर्जन्-निर्मल-तेजसि त्वयि गते दूरं निज-प्रेयसि ।
श्वासः कैरव-कोरकीयति मुखं तस्याः सरोजीयति
क्षीरोदीयति मन्मथो दृगपि च द्राक् चन्द्रकान्तीयति ॥३५५॥
भीमभट्टस्य ॥(Sप्द् ३४८०, Sम्व् ४४.१०; SKM २.३६.१ फ़िर्स्त् त्wओ लिनेस् सोमेwहत् दिफ़्फ़ेरेन्त्)
अस्यास् तापम् अहं मुकुन्द कथयाम्य् एणीदृशस् ते कथं
पद्मिन्याः सरसं दलं विनिहितं यस्याः सतापे हृदि ।
आदौ शुष्यति सङ्कुचत्य् अनु ततश् चूर्णत्वम् आपद्यते
पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतः शिखी ॥३५६॥
शान्तिकरस्य । (Sम्व् ४४.२५; SKM २.३१.१; Sर्क् ५५३ कस्यचित्; उत्पलराज)
उद्धूयेत तनू-लतेति नलिनी-पत्रेण नो बीज्यते
स्फोटः स्याद् इति नाङ्गकं मलयज-क्षोदाम्भसा सिच्यते ।
स्याद् अस्यातिभरात् पराभव इति प्रायो न वा पल्लवा-
रोपो वक्षसि तत् कथ कृशतनोर् अधिः समाधीयताम् ॥३५८ ॥
आनन्दस्य ॥
निवससि यदि तव हृदये
सा राधा वज्र-घटितेऽस्मिन्
तत् खलु कुशलं तस्याः
स्मर-विशिखैस् ताड्यम् आनयोः ॥३५९॥
कस्यचित् ॥(Sम्व् ४४.११)
उन्मीलन्ति नखैर् लुनीहि वहति क्षौमाञ्चलेनावृणु
क्रीडा-काननम् आविशन्ति वलय-क्वाणैः समुत्रासय ।
इत्थं पल्लव-दक्षिणानिल-कुहू-कण्ठीषु साङ्केतिक-
व्याहाराः सुभग त्वदीय-विरहे राधा-सखीनां मिथः ॥३६०॥
शम्भोः ॥(SKM २.३०.४ अमरोः; Sप्द् ३४८९ सत्कविचन्द्रस्य; Sम्व् ४४.१३; SD १०.७९)
गलत्य् एका मूर्च्छा भवति पुनर् अन्या यद् अनयोः
किम् अप्य् आसीन् मध्यं सुभग निखिलायाम् अपि निशि ।
लिखन्त्यास् तत्रास्याः कुसुम-शर-लेखं तव कृते
समाप्तिं स्वस्तीति प्रथम-पद-भागोऽपि न गतः ॥३६१ ॥
शचीपतेः ॥(Sप्द् ३४७७; Sम्व् ४४.२०)
चित्राय त्वयि चिन्तिते तनुभुवा चक्रे ततज्यं धनुर्-
वर्तिं धर्तुम् उपागतेऽङ्गुलि-युगे बाणो गुणे योजितः ।
प्रारब्धे तव चित्र-कर्मणि धनुर् मुक्तास्त्र-भिन्ना भृशं
भित्तिं द्रग् अवलम्ब्य केशव चिरं सा तत्र चित्रायते ॥३६२॥
बाणस्य ॥(Sम्व् ४४.२१ सिंहलपतेः)
त्वाम् अन्तःस्थिरभावना-परिणतं मत्वा पुरोऽवस्थितं
यावद् दोर्वलयं करोति रभसाद् अग्रे समालिङ्गितुम् ।
तावत् तं निजम् एव देहम् अचिराद् अलिङ्ग्य रोमाञ्चितां
दृष्ट्वा वृष्टिजलच्छलेन रुदितं मन्ये पयोदैर् अपि ॥३६३॥
कस्यचित् ॥(Sम्व् ४४.२२)
अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीष्व् आहितो
दैन्यं न्यस्तम् अशेषतः परिजने चिन्ता गुरुभ्योऽर्पिता ।
अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परैः खिद्यते
विस्रब्धो भव विप्रयोग-जनितं दुःखं विभक्तं तया ॥३६४॥
(Aमरु ७८.११०; Sभ्व् १४०७; Sम्व् ४४.२०; Sप्द् ३४८६; SKM २.३२.२; DR ४.२७)
अथास्या एव स्प्रणयेर्ष्यं जल्पितम् ।
मुख-माधुर्य-समृद्ध्या
परहृदयस्य ग्रहीतरि प्रसभम् ।
कृष्णात्मनि पर-पुरुषे
सौहृदकामस्य का शरीराशा ॥३६५॥
जगन्नाथ-सेनस्य ।
अथ व्रजदेवीनां सोत्प्रासः सन्देशः ।
वाचा तृतीय-जन-सङ्कट-दुःस्थया किं
किं वा निमेष-विरसेन विलोकितेन ।
हे नाथ नन्द-सुत गोकुल-सुन्दरीणाम्
अन्तश्चरी सहचरी त्वयि भक्तिर् एव ॥३६६ ॥
कस्यचित् ।
अथ यथार्थ-सन्देशः ।
मुरली-कल-निक्वणैर् या
गुरु-लज्जा-भरम् अप्य् अजीगणत् ।
विरहे तव गोपिकाः कथं
समयं ता गमयन्तु माधव ॥३६७ ॥
षष्ठीदासस्य ॥
मथुरा-पथिक मुरारेर्
उपगेयं द्वारि वल्लवी-वचनम् ।
पुनर् अपि यमुना-सलिले
कालिय-गरलानलो ज्वलति ॥३६८ ॥
वीरसरस्वत्याः ॥(SKM १.६२,५; UN १०.९८)
अथ द्वारवतीस्थस्य हरेर् विरहः ।
कलिन्दीम् अनुकूल-कोमल-रयाम् इन्दीवर-श्यामलाः
शैलोपान्तभुवः कदम्ब-कुसुमैर् आमोदिनः कन्दरात् ।
राधां च प्रथमाभिसार-मधुरां जातानुताâः स्मरन्न्
अस्तु द्वारवती-पतिस् त्रिभुवनामोदाय दामोदरः ॥३६९ ॥
शरणस्य ॥(SKM १.६१.२)
कामं कामयते न केलि-नलिनीं नामोदते कौमुदी-
निस्यन्दैर् न समीहते मृग-दृशाम् आलाप-लीलाम् अपि ।
सीदन्न् एष निशासु निःसह-तनुर् भोगाभिलाषालसैर्
अङ्गैस् ताम्यति चेतसि व्रजवधूम् आधाय मुग्धो हरिः ॥३७० ॥
तस्यैव ॥(SKM १.६१.३)
रत्न-च्छाया-च्छुरित-जलधौ मन्दिरे द्वारकाया
रुक्मिण्यापि प्रबल-पुलकोद्भेदम् आलिङ्गितस्य ।
विश्वं पायान् मसृण-यमुना-तीर-वानीर-कुञ्जे
राधा-केली-परिमल-भर-ध्यान-मूर्च्छा मुरारेः ॥३७१॥
उमापतिधरस्य ॥(SKM १.६१.१; UN १४.१८४; Jईव अन्द् VCT तो BRS २.४.१७८)
निर्मग्नेन मयाम्भसि प्रणयतः पाली समालिङ्गिता
केनालीकम् इदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्य् उत्सवप्न-परम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणो
रुक्मिण्या शिथिलीकृतः सकपतं कण्ठ-ग्रहः पातु वः ॥३७२॥
उमापतिधरस्य ॥(SKM १.५३.५, कस्यचित्)
SKM वेर्सिओन्-
निर्मग्नेन मयाम्भसि स्मर-भयाद् आली समालिङ्गिता
केनालीकम् इदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्थं स्वप्न-परम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः
सव्याजं शिथिलीकृतः कमलया कण्ठ-ग्रहः पातु वः ॥
अथ वृन्दावनाधीश्वरी-विरह-गीतम् ।
याते द्वारवती-पुरं मुररिपौ तद्-वस्त्र-संव्यानया
कालिन्दी-तट-कुञ्ज-वञ्जुल-लताम् आलाम्ब्य सोत्कण्ठया ।
उद्गीतं गुरु-बाष्प-गद्गद-गलत्-तारस्वरं राधया
येनान्तर्जलचारिभिर् जलचरैर् अप्य् उत्कम् उत्कूजितम् ॥३७३॥
अपराजितस्य ॥(SKM १.५८.४ कस्यचित्; Dह्व्, Vअक् २.५९; एत्च्।; UN १४.१८८)
अथ व्रज-देवीनां सन्देशः ।
पान्थ द्वारवतीं प्रयासि यदि हे तद् देवकीनन्दनो
वक्तव्यः स्मर-मोहमन्त्र-विवशो गोप्योऽपि नामोज्झिताः ।
एताः केलि-कदम्ब-धूलि-पटलैर् आलोक-शून्या दिशः
कालिन्दी-तट-भूमयो भवतो नायान्ति चित्तास्पदम् ॥३७४॥
गोवर्धनाचार्यस्य ॥(SKM १.६२.२; Śऋङ्गार-प्रकाश, छेच्क् Sर्क्)
ते गोवर्धन-कन्दराः स यमुना-कच्छः स चेष्टारसो
भाण्डीरः स वमस्पतिः सहचरास् ते तच् च गोष्ठाङ्गनम् ।
किं द्वारवती-भुजङ्ग हृदयं नायाति दोषैर् अपीत्य्
अव्याद् वो हृदि दुःसहं व्रज-वधू-सन्देश-शल्यं हरेः ॥३७५ ॥
नीलस्य ॥(SKM १.६२.१)
कालिन्द्याः पुलिनं प्रदोष-मरुतो रम्याः शशङ्कांशवः
सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात् पुनः ।
सन्दिष्टं व्रज-योषिताम् इति हरेः संशृण्वतोऽन्तःपुरे
निःश्वासाः प्रसृता जयन्ति रमणी-सौभाग्य-गर्व-च्छिदः ॥३७६॥
पञ्चतन्त्र-कृतः ॥(SKM १.६२.४, UN १५.१६४)
मुदामानं प्रति श्री-द्वारकेश्वर-वचनम्
मा गा इत्य् अपमङ्गलं व्रज सखे स्नेहेन शून्यं वचः
तिष्ठेति प्रभुता यथाभिलपितं कुर्व् इत्य् उदासीनता ।
ब्रूमो हन्त मुदाम मित्र वचनं नैवोपचाराद् इदं
स्मर्तव्या वयम् आदरेण भवता यावद् भवद्-दर्शनम् ॥३७७॥
हरेः ॥
स्व-गृहादिकं दृष्ट्वा तस्य वचनम् ।
तद्-गेहं नत-भित्ति मन्दिरम् इदं लब्धावकाशं दिवः
सा धेनुर् जरती चरन्ति करिणाम् एता घनाभा घटाः ।
स क्षुद्रो मुषल-ध्वनिः कलम् इदं सङ्गीतकं योषितां
चित्रं हन्त कथं द्विजोऽयम् इयतीं भूमिं समारोपितः ॥३७८॥
कस्यचित् ॥
**अथ कुरुक्षेत्रे श्री-वृन्दावनाधीश्वर-चेष्टितम् **
येनैव सूचित-नवाभ्युदय-प्रसङ्गा
मीनाहति-स्फुरित-तामरसोपमेन ।
अन्यन् निमील्य नयनं मुदितैव राधा
वामेन तेन नयनेन ददर्श कृष्णम् ॥३७९ ॥
हरस्य ॥(Sम्व् ५४.८ उत्प्रेक्षावल्लभस्य)
आनन्दोद्गत-बाष्प-पूर-पिहितं चक्षुः क्षमं नेक्षितुं
बाहू सीदत एव कम्प-विधुरौ शक्तौ न कण्ठ-ग्रहे ।
वाणी सम्भ्रम्-गद्गदाक्षर-पदा सङ्क्षोभ-लोलं मनः
सत्यं वल्लभ-सङ्गमोऽपि सुचिराज् जातो वियोगायते ॥३८०॥
शुभ्रस्य ॥(SKM २.१३२.१ कस्यचित्; Sभ्व् २०६५ श्री-डामरस्य; Sम्व् ५४.१० कस्यापि)
अथ रहस्य् अनुनयन्तं कृष्णं प्रति ।
किं पादान्ते लुठसि विमनाः स्वामिनो हि स्वतन्त्राः
कञ्चित् कालं क्वचिद् अभिरतस् तत्र कस् तेऽपराधः ।
आगस्कारिण्य् अहम् इह यया जीवितं तद्-वियोगे
भर्तृ-प्राणाः स्त्रिय इति ननु त्वं ममैवानुनेयः ॥३८१॥
कस्यचित् ॥(SKM २.४७.१ भावदेव्याः; Sर्क् ६४३ वाक्कूटस्य; Sम्व् ५७.१४)
यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास्
ते चोन्मीलित-मालती-सुरभयः प्रौ‚ हाः कदम्बानिलाः
सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ
रेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ंहते ॥३८२॥
कस्यचित् (SKM २.१२.३; Sप्द् ३७६८; Sम्व् ८७.९; SD १.२, CC २.१.५८, २.१३.१२१, ३.१.७८।)
प्रियः सोऽयं कृष्णः सहचरि कुरुक्षेत्र-मिलितस्
तथाहं सा राधा तद् इदम् उभयोः सङ्गम-सुखम् ।
तथाप्य् अन्तः-खेलन्-मधुर-मुरली-पञ्चम-जुषे
मनो मे कालिन्दी-पुलिन-विपिनाय स्पृहयति ॥३८३॥
समाहर्तुः ॥(CC २.१.७६)
समाप्तौ मङ्गलाचरणम् ।
मुग्धे मुञ्च विषादम् अत्र बलभित् कम्पो गुरुस् त्यज्यतां
सद्-भावं भज पुण्डरीक-नयने मान्यान् इमान् मानय ।
लक्ष्मीं शिक्षयतः स्वयंवर-विधौ धन्वन्तरेर् वाक्छलाद्
इत्य् अन्य-प्रतिषेधम् आत्मनि विधिं शृण्वन् हरिः पातु वः ॥३८४॥
कस्यचित् ॥(Sभ्व् ८४ दाक्षिणात्यस्य कस्यापि, SKM १.६७.५ पुण्डरीकस्य)
यदुवंशावतंसाय
वृन्दावन-विहारिणे ।
संसार-सागरोत्तार-
तारये हरये नमः ॥३८५ ॥
अविलम्ब-सरस्वत्याः ॥
भ्राम्यद्-भास्वर-मन्दराद्रि-शिखर-व्याघट्टनाद् विस्फुरत्
केयूराः पुरुहूत-कुञ्जर-कर-प्राग्-भार-संवर्धिनः ।
दैत्येन्द्र-प्रमदा-कपोल-विलसत्-पत्राङ्कुर-च्छेदिनो
दोर्-दण्डाः कलिल्-काल-कल्मष-मुषः कंस-द्विषो पातु वः ॥३८६॥
योगेश्वरस्य॥ (SKM १.५९.१ कस्यचित्)
जयदेव-बिल्वमङ्गल-मुखैः
कृता येऽत्र सन्ति सन्दर्भाः ।
तेषां पद्यानि विना
समाहृतानीतराण्य् अत्र ॥३८७॥
लसद्-उज्ज्वल-रसस्तमना
गोकुल-कुल-पालिकालिनी-वलितः ।
यद् अभीप्सितम् अभिदद्यात्
तरुण-तमाल-कल्प-पादपः कोऽपि ॥३८८॥
**इति श्री-मद्-रूप-गोस्वामि-समाहृता पद्यावली समाप्ता ।
Exत्र वेर्सेस्- **
कृतं न सुकृतं मया कृतम् अहो महा-दुष्कृतं
कृतान्त-नगरे गतिर् भवतु मे तत्र कीदृशी ।
न भो न दिनभोग-दिग्-भ्रमणम् अस्मात् परं पुनस्
तथा कुरु यथा तटे तव घटेत वासो मम ॥
राधाधर-सुधाधार-
धरायाद्य-रस-श्रिये
गोपाल-पुर-राज्ञाय
नमः पीताम्बराय ते ॥