२०

विंशतितमः सर्गः

नक्तन्तन-लीलास्वादनो नाम

अथ प्रबन्धाननुसृत्य चित्रं
तौर्यत्रिक साधु विधाय कान्ताः ।
विहृत्य कृष्णावनयोर्नयोढ
स्व स्वाङ्ग वेशा विविशुर्निकुञ्जम् ॥१॥

अथानन्तरं कान्तश् च कान्तश् च कान्ताः श्रीकृष्णसहितव्रजसुन्दर्यः अनेकतालमिलनात् जातान्प्रवन्धाननुसृत्य आश्चर्यं तौर्यत्रिकं नृत्यगितवादित्रादिकं साधु विधाय कृत्वा पश्चात् कृष्णाया यमुनाया वनयोः जलस्थलयो अर्थात् यमुनाया जले यमुनायाः कुलस्थले च बिहृत्य नयेन स्वस्वोचितनीत्या ऊढा स्वीकृताः स्वस्वाङ्गवेशा याभिस्तानि कुञ्जं विविशुः ॥१॥

खर्जुर रम्भा पनसाम्र जम्बू
प्रभृत्यनिस्वादु फलानिवृन्दा ।
आहृत्य तत् तद्द्युति सौरभाभ्याम्
अस्तावयत् तत् तदगानधीशो ॥२॥

वृन्दा फलानि आहृत्य तेषां तेषां फलानां कान्तिसौरभाभ्यां तान्तानगान्वृक्षानधीशौ राधा-कृष्णौ अस्तावयत् स्तवं कारयामास ॥२॥

सख्यः समानैषुरथाभिरस्याः
कर्पूर केल्यादितया प्रसिद्धाः ।
पीयूष पर्वामृत केलि सीधु
विलासकानङ्ग गुटीवटीस्ताः ॥३॥

सख्यस्तु गृहादानीताः कर्पूरकेल्यादिपञ्च वटकाः राधा-कृष्णयोरग्रे समानैषुः आनीतवत्यः । कथम्भूताः अभिरस्याः अभि सर्वतोभावेन रसनीयाः ॥३॥

आस्वाद्य तत् तत् प्रियया सहास्यः
सहास्यमास्ये द्युति लब्ध लास्ये ।
दास्यार्पिताः स्वर्ण-सुवर्ण पर्ण
वीटीर्दधे कुन्दरदो मुकुन्दः ॥४॥

प्रियया सह आस्या उपवेशो यस्य । स्यादास्या त्वासना स्थितिर् इत्य् अमरः । तथा-भूतः कृष्णः सहास्यं यथा स्थात् तथा तत् तत् वटकादिकं आस्वाद्य कान्तिभिर्लव्धं लास्यं नृत्यं यत्र तथा-भूते आस्ये मुखे दासीभिरर्पिताः स्वर्ण-वत् सुष्ठु वर्णपर्णनिर्मिताः विटीर्दधार ॥४॥

धात्रार्पितो नील निधौ विधौतश्
चन्द्रौ नु माधुर्य रसेन योऽसौ ।
स्वान्तर्धृतोडु प्रचयोऽनुरागैस्
तिम्यंस्तदीयननतामगात् किम् ॥५॥

श्रीकृष्णस्य मुखं वर्णयति— विधात्रा श्रीकृष्णस्य स्कन्धपर्यन्तं शरीर-रूपनीलनिधौ अर्पितो यश्चन्द्रो माधुर्य-रसेन नितरां धौतऽसौ स्वान्तर्धृतदन्त-रूपनक्षत्रसमूहो येन तथा-भूतः सन श्रीकृष्णस्य मुख-रूपतां किमगात् । कथम्भूतः अनुरागैस्तिम्मनार्द्रीभवन् ॥५॥

धैर् यं तदास्यास्तिमिरी बभूव
त्रपा तु भेजे नलिनीव नीत्वम् ।
स्मारोः विकारः कुमुदायितोऽभूद्दृग्
इन्दुकान्तेन दधार साम्यम् ॥६॥

यदा श्रीकृष्णस्य मुख-रूपचन्द्रस्य उदयो बभूव तदा अस्या राधाया अपि धर्यं तिमिरीबभूब । धैर् य-रूपान्धकारस्य चन्द्रोदयनाश्यत्वादिति भावः । अस्या लज्जा तु नलिनीवनीत्वं कमलिन्याः क्षुद्रवनत्वं भेजे । चन्द्रदये कमलिन्या अपि म्लानत्वं प्रत्यक्षसिद्धम् । तदानीं कन्दर्पविकारः कुमुद इवाचरितोऽभूत् । चन्द्रोदये कुमुदं प्रफुल्लीभवतीति भावः । तस्या दृक् नेत्रं चन्द्रकान्तमणिना सह साम्यं दधार । चन्द्रोदये सति चन्द्रकान्तमणेर् अपि धारा निःसरति । तथैव श्रीकृष्णस्य मुखचन्द्रदर्शनात् श्रीराधिकया नेत्रात् आनन्दाश्रुधारा निःसरतीति भावः ॥६॥

एषां तरूणामति सूक्ष्म पत्रच्
छिद्र च्युतान्मारुत वेल्लितानाम् ।
लोलेक्षणे लोकय चन्द्रिकाणां
कणान्जनान्मानयतो मनोजम् ॥७॥

श्रीकृष्णस्तदा प्रियायाः कन्दर्पभावोद्गमं अनुमाया तादृशभावपोषकमुद्दीपनं दर्शयति । हे कन्दर्पभावोत्पन्नचाञ्चल्यविशिष्टेक्षणे ! राधे ! एषां पवनेन वेल्लितानां कम्पितानां सघनवृक्षाणां पत्राणां परस्परं निविडसंयोगात् सूक्ष्मा ये पत्रछिद्रास्तस्मात् च्युतान्ज्योस्नानां कणान्त्वमलोकय पश्य । कथम्भूतान्जनान्मनोजं कन्दर्पं मानतः ज्ज्ञापयतः अनुभावयत इति यावत् ॥७॥

वृन्दावनस्यापचितिं विधित्सुर्या
याः स्वभासः प्रजिधाय चन्द्रः ।
तः किं पलाशावलि चालनीभिः संशोध्य
घृनात्यत्यनिलोऽस्मदाप्तः ॥८॥

पत्रच्छिद्रद्वारा निःसृतज्योस्नाकणात् सच्छिद्रपत्रसमूह-रूपचालन्या छानितत्वेनोत्प्रेक्षते । वृण्दावनस्यापचितिं परिचर्यां कर्तुम् इच्छुश्चन्द्रः याः याः स्वज्योत्स्नाः प्र्जिघाय प्रस्थापयामस । हि गतौ । प्रपूर्वहिधातुः प्रस्थापनार्थकः । ता एव ज्योत्स्ना अस्माकमाप्तः पवनः । किं पत्रश्रेणी-रूपचालनीभिः संशोध्य छानिताः कृत्वा गृह्नाति ॥८॥

तत् कौसुमं तल्पमनल्प कौशलं
कल्पद्रु कुञ्जे क्षणमाश्रिता वयम् ।
भजाम विश्राममिति ब्रुवन्धृत
प्रियाकरः केलिकलानिधिर्बभौ ॥९॥

तत् तस्मात् हे प्रिये ! कल्पवृक्षस्य कुञ्जे कुसुमतल्पमाश्रिता वयं क्षणं विश्रामं भजाम इति व्रुवन्शयनार्थं धृतः प्रियायाः करो ये तथा-भूतः सम्बभौ ॥९॥

स्व बाहु सन्दानित कण्ठया तया
संविश्य पर्यङ्कवरे हरौ स्थिते ।
तत् पाद सम्वाहन शर्म कर्मणां
तत् किङ्करीणां समपूरि वाञ्छिताम् ॥१०॥

स्वस्य कृष्णस्य वामबाहुना सन्दानिरो बद्धः कण्ठो यस्याः तया प्रियया सह पर्यङ्कश्रेष्ठे संविश्य राधायाः किङ्करीणां कदा राधा-कृष्णयोः शयनं भविष्यति कदा वा पादसम्बाहनं प्राप्स्याम इति वाञ्छितं समपूरि पूर्णं बभूव ॥१०॥

ऊर्वोः स्वयो कनक पीठयोः
क्रमान्निधाय पदाम्बुरुहे निजेशयोः ।
द्वे दासिके तच् छयनान्त सङ्गते दृग्
बिन्दुभिः पाद्यमिवोपजह्रतुः ॥११॥

अधुना किङ्करीणां ये उरुदेशास्तान्स्वर्ण-पीठत्वेनोत्प्रेक्ष्य सम्बाहनार्थं उरुदेशे-स्थितानि तयोः पादकमलानि एवतात्वेन चरणस्पर्शजन्यं तासामष्टसात्विकं षोडशोपचारपूजासामग्रीघटकत्वेन चोत्प्रेक्ष्यते । निजेशयोः राधा-कृष्णयोः पादकमले स्वर्ण-निर्मितपीठस्व-रूपयोः स्वीयोरुदेशयोः क्रमात् निधाय द्वे दासिके तयोः शयनस्य शय्याया अन्तदेशं सङ्गते सम्बाहनार्थं प्राप्ते सत्यौ आनन्दाश्रिभिः करणैः पाद्यमिवोपजहृतुः ॥११॥

उद्भिन्न रोमाङ्कुरपालिरेव
प्रापर्घ्यतां किन्तु तयापि शङ्काम् ।
तन्मार्दवालोचनया दधत्यौ
पाण्यम्बुजैर् आर्चयतामिवैते ॥१२॥

उद्भिन्ना उद्गता रोमाङ्कुरश्रेणीरेवार्घ्यतां प्राप । एते किङ्कर्यौ चरणयोर्मार्दवालोचनया तयापि उरुदेशस्थरोमाञ्चश्रेण्यापि चरणयोर्व्यथा भविष्यतीति शङ्कां दधौ स्वपाणिकमलैर् एवार्चयमिव । तथा वेदनाश्ङ्कया तयोश्चरणकमले स्वीयरुदेशात् स्वपाणिकमलेषु दधतुरित्यर्थः ॥१२॥

गन्धं तु कस्तूर्यमृत सुपङ्कैर्
वक्सःस्थलस्थैर् उपकल्प्य सद्यः ।
निःश्वास धूपैर् नख रत्नदीपैर्
आलोक माल्यैर् धिनुतः स्म नीत्या ॥१३॥

अधुना आनन्दवैवश्येन स्ववक्षःस्थलधृताभ्यां चरणकमलाभ्यां गन्धोपहारमाह—वक्षस्थलस्थैः कस्तूरीकर्पूरपङ्कैर् गन्धमुपकल्प्य तयोरानन्दाधिक्यजन्यश्वासातिशया एव धूपास्तैः । एवं नखरत्नान्येव दीपास्तै । एवं आलोकोऽवलोकनं तद्-रूपैर् माल्यैश् च षोडशोपचारपूजाबोधकशास्त्रनीत्या धिनुतः स्म सुखयतः स्म ॥१३॥

नैवेद्यतायां करकावुरोजौ
संस्पर्शनेनाभिमतौ विधाय ।
प्राण प्रदीपैः स्मित चन्द्र मिश्रः
निर्मञ्छनं प्रेमभरद्व्यधत्ताम् ॥१४॥

कदाचित् आनन्दातिशयेन स्तनोपरिधृताभ्यां चरणकमलाभ्यां नैवेद्योपहार्दमाह—उरोजौ तासां स्तनावेव करकौ दाडिमौ स्तनाभ्यां सह चरणकमलस्य स्पर्शेन हेतुना नैवेद्यतायामभिमतौ सम्मतौ विधाय कृत्वा । तासां नासाद्वारा निःसृताः पञ्चप्राणा एव निकटस्थस्मितकर्पूरमिश्रिताः सन्तः कर्पूरवर्तिका बभूवुस्तैर् एव प्रेमभरात् निर्मञ्छनमारात्रिकं व्यधत्तामकुरुताम् ॥१४॥

हिरण्य रम्भोपरि वर्ति पल्लवेष्व्
आसज्य रक्तोत्पल कोरकोत्तमाः ।
भृङ्गालि झङ्कार भृतोऽनटन्नहो
तत् पाद सम्वाहनदम्भतोऽसकृद् ॥१५॥

किङ्करीणामुरुदेशौ स्वर्ण-कदलीत्वेनोत्प्रेक्ष्य तयोः तत्र-स्थितपादौ पल्लवत्वेन पादमर्दनार्थं मुष्टीकृतहस्तं रक्तोत्पलकलिकात्वेन मर्दनार्थमुत्क्षेपणा वक्षेपणक्रियाः नृत्यत्वेन च उत्प्रेक्षते—उरुदेश-रूप स्वर्ण-रम्भोपरि वर्तमाना ये राधा-कृष्णयोः पादपल्लवास्तेष्वासज्य आसक्तीभूयः मुष्टीकृतहस्त-रूपरक्तोत्पलकलिकाः उत्तमाः तयोः पादसम्बाहनच्छलतः असकृत् अनटन्नृत्यं चक्रुः । कथम्भूताः मणिवन्धस्थाः चूडी इति ख्याता वलयास्त एव भ्रमरश्रेणयस्तासासाञ्झङ्कारभृतः ॥१५॥

तौ वीजयन्त्यो वलयानि झङ्कृति
स्तुतैः प्रसून व्यजनैः परा वभूः ।
मूर्तैर् यशोभिः कविवृन्द वर्णितैः
किं स्वैर् अधिन्वन्नधिपौ नटीकृतैः ॥१६॥

पराः किङ्कर्यः हस्तस्थवलय-रूपभ्रमरझङ्कारेण स्तुतैः पुष्पमयव्यजनैस्तौ राधा-कृष्णौ वीजयन्त्यः सत्यः वभुः दीप्तिं चक्रुः । पुनः श्वेतपुष्पमयव्यजनश्रेणीं किङ्करीनां यशो-रूपत्वेनोत्प्रेक्ष्य व्यजनानां चालनक्रियाश् च नृत्यत्वेनोत्प्रेक्षत । किङ्कर्यः कविसमूह्यवर्णितैर् व्यजन-रूपमूर्तिमद्भिर्यशोभिः किमधिपौ राधा-कृष्णौ अधिन्वनसुखयन् । कथम्भूतैः ताभिरेव नृत्यार्थं नटीकृतैः ॥१६॥

सुवर्ण वर्णाः क्रमुकेन्दु जाती
लबङ्ग चूर्नाद्युतितांशभाजः ।
ताम्बूल वीटीरपरे न्यधत् तां
तदास्ययोः पार्श्वगते कराभ्याम् ॥१७॥

क्रमुकः गुवाकः इन्दुः कर्पूरः । तेषां चूर्णीकृतानामधिकांशनिवेशे वैर् अस्यं स्यादितिहेतोः उचितांशं भजन्ति यास्तास्तामूलवीटीः अपरे किङ्कर्यौ तयोमुखमध्ये निधत्ताम् । कथम्भूते वीटीप्रार्थनार्थं तयोः पार्श्वं गते ॥१७॥

यौ पूर्ण चन्द्रावुदितौ निरङ्कौ
तदंशु पीयूष रसाभिषिक्ते ।
स्व पल्लवाभ्यां कलिके गृहीत्वा गाङ्गेय
वल्ल्यौ मुहुरीजतुः किम् ॥१८॥

किङ्कर्यौ स्वर्ण-वल्लीत्वेनोत्प्रेक्षते । राधा-कृष्णयोर्यौ निष्कलङ्कौ पूर्णमुखचन्द्रौ उदितौ तयोः किरणामृतरसाभिषिक्ते गाङ्गेयवल्ल्यौ किङ्करी-रूपस्वर्ण-वल्ल्यौ स्वीयहस्त-रूपपल्लवाभ्यां वीटिका-रूपे कलिके गृहीत्वा मुखचन्द्रौ किं मुहुरीजतुः पूजयाञ्चक्रतुः ॥१८॥

कन्ते दिशैताः शयनाय गन्तुं
घूर्णद्दृशः सम्प्रति स्विन्न गात्रीः ।
श्रान्तिह् पदोस्तेः न शमं ययौ चेद्
तदर्थमेतावहम् एव धास्ये ॥१९॥

श्रीकृष्णः श्रीराधिकामाह—हे प्रिये ! एताः किङ्करीः शयनाय गन्तुम् आज्ज्ञापय । यतो निद्रया घूर्णदृशः सम्प्रति रासबिहारेण खिन्नगारीश् च तन्वि खिन्ना इति पाठे तन्वीति सम्बोधनम् । ते तव पादयोः श्रान्तिः समं शान्तिमुपशममिति यावत् न ययौ न प्राप । रासबिहारजन्यपदश्रमो यदि न गत इत्यर्थः । तदर्थः । श्रमदूरीकरणाय एतौ तव पादौ अहम् एव धास्ये धरिष्यामीति परिहासो द्योतितः ॥१९॥

इत्युक्ति मात्रेण समीहितस्यैवा
अर्थस्य सिद्धिं किल ता विदुष्यः ।
सम्पूज्य देवाविव पूजयित्र्यास्
तन्मन्दिराल् लब्धवरा निरीयुः ॥२०॥

श्रीकृष्णस्य इत्युक्तिमात्रेण ताः किङ्कर्यः वाञ्छितार्थस्य सम्भोगस्य सिद्धिं विदुष्यः ज्ज्ञानवत्यः सत्यः तस्स्थलात् निरीयुः निर्जग्मुः । तत्र दृष्टान्तमाह—पूजयित्र्यः स्त्रियो यथा देवौ सम्पूज्य लव्धवराः सत्यस्तन्मन्दिरान्निरीयुः ॥२०॥

निष्णात एवातनु तीर्थसरे
रोमाञ्च पूर्णः स्फुरितोज्ज्वलाङ्गः ।
स्मृत्युद्भवाशेष विशेष धर्मानु
ष्ठान दक्षो रभसं स भेजे ॥२१॥

अधुना श्लेषेण सम्भोगं वर्णयति— स श्रीकृष्णः अतनुतीर्थसारे महातीर्थश्रेष्ठे निष्णातः नितरां स्नातः तद्-अनन्तरं स्नानोत्तशीतेन रोमाञ्चपूर्ण अङ्गमार्जनेन स्फुरितोज्वलाङ्गश् च एवं स्मृतिशास्त्रोद्भवाशेष विशेष दर्मानुष्ठाने दक्षः सन्रभसं हर्षं भेजे । सम्भोगपक्षे कन्दर्प-रूप सरोवरस्य गाअट इति प्रसिद्धे तीर्थश्रेष्ठे निष्णातः पारङ्गतः कन्द्र्पभावोदयेन रोमाञ्चपूर्णः । स्फुरितानि उज्वलरसस्याङ्गानि यस्य सः । स्मृत्युद्भवः कन्दर्पः तस्याशेषविशेषधर्मास्तेषामनुष्ठाने स निपुणः । रभसं सम्भोगार्थं वेगं भेजे ॥२१॥

प्रारम्भ एवाघभिदस्तदस्या
‘मृतं त्रिराचम्य त एव यासीत् ।
श्रद्धा तयैवाशु विधिर्बभूवा
‘नङ्गोऽपि साङ्गो निरपायमिष्ट ॥२२॥

कर्मणः प्रारम्भ एवामृतं जलं त्रिराचम्यतः त्रिराचमनं कुर्वतः अस्य अघभिदः कृष्णस्य कर्मणि या श्रद्धा तयैवाभीष्टो विधिः विधिवोधितकर्ऽम अनङ्गोऽपि अङ्गरहितोऽपि निरपायं निर्विघ्नं यथा स्यात् तथा साङ्गो बभूव । पक्षे सम्भोगारम्भ एव तस्या राधाया आस्यामृतमधरामृतं त्रिराचम्यतः त्रिःपानं कुर्वतः श्रीकृष्णस्य सम्भोगे या श्रद्धा आसीत् तयैवानङ्गो विधिः कन्दर्पविधिः प्रियाया वाम्यादिविघ्नसत्त्वेऽपि कृष्णवलाधिक्येन निरपायं निर्विघ्नं यथा स्यात् तथा ष्ङ्गो बभूव ॥२२॥

नानोपचारान्कलयन्मुदाशा
बन्धं वितन्वन्नपसार्य विघ्नान् ।
स शातकुम्भातनु रत्नकुम्भे कृत्वा
कर न्यासमुपात्त कान्तौ ॥२३॥

कर्मारम्भे प्रथमतो यज्ज्ञेश्वरपूजामाह—पूजायाः पूर्वं नानोपचारान्कलयन्सङ्गृह्ननाशावन्धं छोटिकया दशदिग्वन्धं वितन्वन्विस्तारयन्तेन दिग्बन्धने विघ्नानपसार्य दूरीकृत्य स्वर्ण-घटितमहद्रत्नमयकुम्भे करन्यासं कृत्वा देवमभजदिति परश्लोकेनान्वयः । कुम्भे कीदृशे उपात्ता स्वीकृता कान्तिर्येन तथा-भूते । पक्षे नाना उप समीपे चारयन्वात्स्यायन्शास्त्रोक्तहस्तादिचालनान्कलयन्कुर्वन्प्रत्याशावन्धं विस्तारयन्विघ्नान्स्तने हस्तदानसमये प्रियाकृतवारणान्वलादपसार्य दूरीकृत्य अतिशयोक्त्या कुम्भस्थानीये हारादिरत्नविशिष्टस्वर्ण-वर्णस्तने हस्तार्पणं कृत्वा ॥२३॥

सोमं लिखित्वाभजदेव देवं
कृत द्विजाच्छादन दान मानः ।
स्मितम्यन्निवानन्द धुरा तरङ्गैर्
ऐक्यं प्रियाङ्गेन सहात्मनोऽगात् ॥२४॥

घटोपरि उमया सह देवं महादेवं लिखित्वा अभजदेव । कथम्भूतः कृतो द्विजेभ्यः आच्छादनवस्त्रदानैर् मानः आदरः येन सः । महादेवभजनानन्तरं आनन्दातिशयतरङ्गैः प्रियाया उमाया अङ्गेन सह आत्मनो महादेवस्य ऐक्यमगात् । पक्षे स्तनघटोपरिनखचिह्न-रूपं सोमं चन्द्रं लिखित्वा देवं क्रीडामभजदेव । दिवु क्रीदायाम् । कथम्भूतः कृतं यद्दन्ताच्छादनस्याधरस्य चुम्बन-रूपदानं तेनैव मान आदरो यस्य । पश्चात् सम्भोगातिशयात् प्रियाया अङ्गेन सह आत्मनः स्वस्य ऐक्यग् अगात् ॥२४॥

दीव्यन्ति ता मे कथम् एवमालयः
प्रेम्नेति राधा स्वगतं यदाब्रवीत् ।
तदा प्रकाशान्गमितेन तावतस्
तदिच्छयां ऊर् अपि तेन रेमिरे ॥२५॥

श्रीराधिका प्रियेन सह सम्भोगसुखमनुभूय प्रेम्ना सखीर् अपि तादृशसुखमनुभावयितुं स्वगतम् आह !—मम ताः सख्यः कथं कृष्णेन सह दीव्यन्ति क्रीडन्ति तदैव प्रियाया अभिप्रायमनुमाय जाता या कृष्णस्येच्छा तयैव यावत्यः सख्यस्तवतः प्रकाशान्गमितेन प्रापितेन तेन कान्तेन सह अमूः सखोऽपि रेमिरे ॥२५॥

यास्त्वेतयोः केलि विलोकनं विना
नैवश्वसन्त्यासु गवाक्ष सञ्चयम् ।
श्रितासु काचिन्निजगाद पश्यतानयोर्
दशा केयमभूदिहाद्भुता ॥२६॥

एतयोः राधा-कृष्णयोः केलिविलोकनं विना याः नैव श्वसन्ति नैव जीवन्ति आसु किङ्करीषु सम्भोगदर्शनार्थं झरोका इति प्रशिद्धं गवाक्षसमूहं श्रीतासु सतीसु काचित् किङ्करी निजगाद, हे सख्यः ! अनयोः कापि अद्भूता दशा अभूदिति यूयं पश्यत । अयमभिप्रायः । अनुरागो यदा उत्कर्षमाप्नोति तदा प्रेमवैचित्य्-आदशा जायते प्रेमवैचित्त्यस्यायं स्वभावो यत् सन्निकृष्टेऽपि कान्ते अदर्शनमुत्पाद्य मत्कान्तो मां बिहाय कुत्रापि गतः अहं किं करोमीति विरहपीडामुत्पादयति, तथैव सम्भोगसमये आलिङ्गनेन परस्परं दृढस्पर्शेऽपि स्पर्शस्याज्ज्ञानमुत्पाद्य मत् कान्तो मां बिहाय कुत्र गतः, एवं मत्कान्ता मां बिहाय कुत्र गता इति परस्परं द्वयोर्विरहपीडामुत्पादयति । एवं सति काचित् किङ्करी सम्भोगेऽपि तयोः प्रेमवैचित्त्यजन्यविरहपीडां दृष्ट्वा तकलोत्पन्नेन खेदेन सहसा तादृशसिद्धान्तास्फूर्त्या सन्दिहाना सती पृच्छति इति ॥२६॥

अन्योन्य दोः सन्दित विग्रहौ क्षणं
निष्पन्दतामेत्य पुनः स वेपथू ।
हा हेति वैस्वर्य भरास्फुटोदिताव्
उष्णाश्रुभिर्हन्त मिथोऽभ्यसिन्चताम् ॥२७॥

परस्परं दोर्भ्यां सन्दितौ बद्धौ विग्रहौ ययोस्तौ आलिङ्गनजन्यानन्दातिशयेन क्षणं निष्पन्दतां प्राप्य पुनर्विरहपीडया सवेपथुसकम्पौ सन्तौ विरहपीडावोधकहाहेति शब्दोच्चाराणकाले वैस्वर्यभरेण विस्वरतातिशयेन अस्फुटं गद्गदं वचनं ययोस्तौ विरहजन्योष्णाश्रुभिर्मिथोऽभ्यषिञ्चताम् ॥२७॥

पराह हा स्वस्वकराहतालिका
वाश्लेष मुक्तौ श्रित सम्मुख स्थिती ।
अजस्रमस्र श्रवणैः परस्परं
न वीक्ष्य दूनौ कृशिमानमीयतुः ॥२८॥

परा किङ्करी ययोर्विरहपीडां दर्शयन्ती आह—हा खेदे स्वस्वकरेण आहतौ ललाटौ याभ्यां तौ परपरान्वेषनार्थमालिङ्गनात् मुक्तौ पश्चात् आश्रिता सम्मुख-स्थितिर्याभ्यां तौ निरन्तराशुश्रवणैः परस्परमदृष्ट्वा दूनौ कुःखितौ सन्तौ कृशिमानं विरहजन्यकर्श्यमीयतुः ॥२८॥

तत् प्रेम वैचित्त्य भराति वीचयः
प्रत्यूहमानङ्गरसेऽत्र तेनिरे ।
धिन्वन्ति दुन्वन्ति च सम्पदो न
किं द्रागानुराग्यो रस वक्रिमोर्मिभिः ॥२९॥

ग्रन्थकर्ता कविराह—तयोः प्रेमवैचित्त्यस्यतिशयतरङ्गाः आनङ्गरसे कन्दर्पसम्बन्हिनि रसे प्र्त्यूहं विघ्नं तेनिरे विस्तारयामासुः । यतः आनुराग्यः अनुरागसम्बन्धिन्यः सम्पदः रसस्य वक्रिमा-रूपतरङ्गैः द्राक् शीघ्रं धिन्वन्ति सुखयन्ति अनन्तरं दुन्वन्ति दुःखयन्ति च ॥२९॥

क्षणादथान्याऽवददालयोऽधुना
मा खिद्यतालोकयतानयोर्मुदा ।
अन्योन्यमालिङ्गतयोः पुनर्दृशां
ता एव धारा दधिरेऽति शीतताम् ॥३०॥

क्षणानन्तरमन्या किङ्करी अवदत् । हे आलयः अधुना यूयं मा खिद्यत । मुदा अन्योन्यमालिङ्गितयोरनयोः पुनर्दृशां ता एव अश्रुधाराः संयोगेन शीतलतां दधिरे ॥३०॥

क्वासीः प्रिये मानिनि हा विहाय मां
किं पर्य्यहासीः प्रिय निह्नुती भवम् ।
संलापमित्थं रसयन्त्य एतयोर्
आल्यो निभाल्योल्लसिता स्मितावभुः ॥३१॥

मिलनानन्तरं श्रीकृष्णः प्रियामाह—हे प्रिये ! मानिनि ! मां बिहाय त्वं कुत्र आसीः । तद्-अनन्तरं श्रीराधा प्रियमाह—हे कान्त ! निह्नुतीभवन्सन्किं मां पर्यहासीः ? परिहासमकार्षीः ॥३१॥

एकाह तत्र वैकयापि पृष्ठा
सिद्धान्तयन्ती रस वस्तु तत्त्वम् ।
हार्द्दं तयोः सर्वमियं विदग्धा
वेधैव तद्भाव विभावितात्मा ॥३२॥

एकत्र-स्थितयोस्तयोः कथं वा विरहो जातः ? जाते चेद्विरहे कयापि मिलनं न कारितम्? अकस्मात् कथं वा संयोगो जातः ? इति कयापि किङ्कर्य पृष्टा एका किङ्करी रसवस्तुतत्वं सिद्धान्तयन्ती सती आह—यतः इयं विदग्धा किङ्करी तयोः सर्वं हार्दं वेद । कथम्भूता, तयोर्भाव-रूपपुष्पेन भाविता वासितः आत्मा अन्तःकारणं यस्याः सा ॥३२॥

वैश्लेषज ध्यान धुराधिरूढयोः
स्फूर्त्यानयोराशु मिथः प्रतीतयोः ।
श्लेषार्थमुत्सारित बाहुभिर्मिथः
स्पर्शानुभूत्या विरहः शमं ययौ ॥३३॥

सिद्धान्तो यथा । प्रेमवैचित्यात् विच्छेदो जायते विच्छेदे च सति निरन्तरं चिन्तया ध्यानातिशयो जायते तद्-अनन्तरं ध्यानविषयस्य कान्तादेः स्फूर्तौ प्राप्तिः प्राप्तौ च सत्यामालिङ्गनार्थमुद्यमः स्फूर्तिविषयस्य वस्तुनस्तदानीं तत् स्थले सत्ताया अलीउकत्वेन न आलिङ्गनसिद्धिस्तदा तु कान्तादिप्राप्तिज्ज्ञानस्य भ्रमत्वं निश्चित्य पुनर्विरहपीडा इति सर्वत्र रीतिः । अत्र प्रेवैचित्त्यजन्यविरहस्थले तु स्फूर्तिविषयस्य तदानीं सत्ताया यथार्थत्वेन आलिङनम् अपि यथार्थम् एवातो न पुनर्विरहपीडेत्याह—वैश्लेषध्यानातिशये अधिरूढयोः अर्थात् तादृशध्यानविशिष्टयोरनयो राधा-कृष्णयोर्मिथः परस्परं स्फूर्त्या प्रतीतयोर्ज्ज्ञातयोरालिङ्गनार्थं प्रसारितबाहुभिः परस्परं स्पर्शानुभवेन हेतुना विरहः शमं शान्तिं ययौ ॥३३॥

पश्यैनयोस्तत् फलमेतदाराद्
उत्कण्ठया कोटि गुणी भवन्त्या ।
पुनश् च सम्भोग धुरातिदैर् घ्यात्
समृद्धिमत् त्वं रभसादवाप ॥३४॥

न च विरहजकत्वेन प्रेमवैचित्त्यं हेयमिति, यतो न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते इति नियमेन प्रेमवैचित्त्यस्याप्युपादेयत्वम् इत्य् आह—एतयोः राधा-कृष्णयोस्तस्य प्रेमवैचित्त्यजन्यविरहस्य एतत् फलं पश्य । फलम् एवाह—विरहेण कोटिगुणीभवन्त्या उत्कण्ठया पुनर्मिलने सति जातः सम्भोगातिशयः स्वस्यातिदैर् घात् दीर्घकालं व्याप्य स्थायित्वां समृद्धिमत्त्वं वेगात् अवाप । तथा च समृद्धिमान्सम्भोगो जात इति भवः ॥३४॥

निःसारिताच्छादनमात्म वल्लभौ
वियोग भीत्यैव तयेतरेतरम् ।
रुद्ध्वा भुजैः स्वस्वहृदन्तरं
बलात् प्रवेशयताविव राजतः प्रियौ ॥३५॥

प्रियौ राधा-कृष्णौ तया पूर्वोक्तया वियोगभीत्या आत्मवल्लभौ वल्लभा च वल्लभश् च परस्परं भुजरुद्धा स्वस्वहृदयमध्ये वलात् प्रवेशयन्ताविव वर्तमानौ सम्भोगसमये निःसारितं दूरीकृतमाच्छादनं वस्त्रं यत्र तथा-भूतं यथा स्यात् तथा राजतः ॥३५॥

दधासि मा यत्र सदा तद्
एतत् विशामि मध्ये हृदयं विहर्तुम् ।
इत्येवं संलप्य किमद्य
गाढाश्लेषैर् इमौ तत्र विधौ यतेते ॥३६॥

तादृशदृढालिङ्गनमुत्प्रेक्षते—यत्र चित्ते सदा मां धरसि तदेतत् मध्येहृदयं हृदयस्य मध्ये अहं विहर्तुं विशामीति संलप्य परस्परं सम्भाष्य इमौ राधा-कृष्णौ किमद्य गाढाश्लेषैः करणैः तत्र विधौ प्रवेशविधौ यतेते यत्नं कुरुतः ॥३६॥ \

आत्मा च चेतश् च यदेकमेतयोर्
द्वित्वेन तन्वास्तदलं विलासिनोः ।
इतीत्थमेकीकुरुतेऽद्य किं जवाद्
अनङ्ग एवैष मनीषिणां वरः ॥३७॥

तादृशगाढालिङ्गनं पुनरन्यथा उत्प्रेक्षते—विलासिनोः राधा-कृष्णयोः यत् यस्मात् आत्मा च चेतश् च एकम् एव तत् त्स्मात् अनयोस्तन्वोः शरीरयोर् अपि द्वित्वे न अलं व्यर्थमित्थमनेन प्रकारेण इति विचार्य मनीषिणां बुद्धिमतां श्रेष्टः कन्दर्प एव किं वेगात् अद्य एकीकुरुते ? ॥३७॥

एकं जगत्यत्र भवामि तुङ्गं
कुम्भाविमौ माम् अपि यज् जिगीषू ।
तद्वामनीकुर्व इतीव गर्वाद्वक्षो
हरेरर्दयते कुचौ किम् ॥३८॥

गाढालिङ्गनसमये वक्षसा स्तनमर्दनमुत्प्रेक्षते—अत्र जगति एकमहम् एव तुङ्गं भवामि कुम्भसदृशा द्वौ इमौ स्तनौ तु माम् अपि यत् यस्माज् जिगीषू भवतः तत् तस्मात् तौ अहं वामनीकुर्वे इति विचार्येव श्रीकृष्णस्य वक्षःस्थलं किं कुचौ अर्दयते ? ॥३८॥

दृष्ट्वा स्मरः शीतकरारविन्दयोः
स्व मित्रयोः शात्रवमब्जयोर् अपि ।
परस्पराश्लेष रस ग्रहैर् बलात्
स्वकारितैर् मैत्र्यमिदं ससर्ज किम् ॥३९॥

श्रीकृष्णस्य मुखचन्द्रत्वेन श्रीराधाया मुखं कमलत्वेन च वर्णयित्वा तयोरधरआनमुत्प्रेक्षते—कन्दर्पः उद्दीपकत्वेन स्वमित्र्योः शीतकरारविन्दयोश्चन्द्रकमलयोः अव्जयोर्जलात् उत्पन्नयोः अतः सहोदरयोर् अपि परस्परं शात्रवं दृष्ट्वा तयोमिलनार्थं स्वेनैव वलात्कारितैः परस्पर्सरालिङ्गन-रूपरसग्रहणैः किं तयोर्मैत्र्यं ससर्ज ? ॥३९॥

अत्रोज्ज्वलागाध सरस्युदञ्चतोः
किं वा सुखाश्लेषनमब्जयोरिदम् ।
कन्दर्प वात्या जनितं यदन्तरे
शीत्कार भृङ्गं ध्वनिरेष लक्ष्यते ॥४०॥

पुनरधरपानमन्यथा उत्प्रेक्षते—किम्बा राधा-कृष्णयोः श्रीरस्यैक्येन तादृशशरीर-रूपोज्ज्वलागाधसरसि पक्षे उज्ज्वलरसस्यागधसरसि उदष्णतोः उदयं प्राप्नुवतोस्तयोर्मुखाव्जयोर्वघूरा इति प्रसिद्धा या कन्दर्प-रूपवात्या तया जनितमिदं सुखाश्लेषणम् । ननु मुखयोः कमलत्वे किं प्रमाणम्? तत्रानुमानालङ्कारमाह—ययोर्मुखयोरन्तरे मध्ये सम्भोगसमये शीत्कर-रूपभ्रमरध्वनिर्लक्ष्यते । तथा च मध्य-स्थितभ्रमरध्वनिहेतुना मुखयोः कमलत्वं सिद्धमिति भावः ॥४०॥

यौ स्मार सृष्टावुदितौ विधू सदा
पूर्णौ निरङ्कावनयोः परस्परम् ।
विभाति युद्धं किमिदं यदुच्चलः
प्रगल्भते बालतमश्चयोऽभितः ॥४१॥

अधुना मुखयोश्चन्द्रत्वं नि-रूप्य पुनरप्यधरपानमन्यथा उत्प्रेक्षते—ब्रह्मणा सृष्टश्चन्द्र एक एव तत्रापि सदा न पूर्णः सकलङ्कश्चात एव न विवादावकाशः । कन्दर्पेण तु यौ द्वौ चन्द्रौ सृष्टौ तत्रापि सदा पूर्णौ कलङ्करहितौ चातः अनयोः परस्परं मात्सर्येण किमिदं युद्धं विभाति ? अन्धकाराणां शत्रुः चन्द्रो भवति अतो विपक्षयोस्तयोर्युद्ध-रूपविपत्ति दर्शनात् प्रवीणान्धकारस्य का वार्ता वालतमः समूहोऽपि अतिचञ्चलः सनभितश्चतुर्दिक्षु आनन्देन प्रगल्भते । पक्षे वाला अलका एव तमः समूहः । तथा चाधरपानसमये अलकाश्चञ्चला भवन्तीति भावः ॥४१॥

केनार्पिता चन्द्रवदत्र मञ्जुले
मसी सरोजेऽप्यहहेति विह्वलम् ।
तदञ्जनं बिम्बयुगं प्रगृह्य
किं स्वेनानुरागेन तदन्वरञ्जयत् ॥४२॥

इदादीं श्रीकृष्णस्याधरे लग्नं राधिकायाः नेत्राञ्जनं मसीत्वेन उत्प्रेक्ष्य राधिकाकर्तृकाधरपानसमये श्रीकृष्णस्याधरे लग्नं राधिकाया अधरसम्न्बन्धिताम्बूलरागमनुरागत्वेन उत्प्रेक्षते—चन्द्रवत् चन्द्रे यथा कलङ्क-रूपाम्मसी वर्तते तथा अहह खेदे श्रीकृष्णस्याधर-रूपे मनोज्ज्ञे कमद्लेऽपि केनापि मसी अर्पिता इति हेतोर्विह्वलं राधिकाया उष्ठाधर-रूपबिम्बयुगं कर्तृ श्रीकृष्णयाधरलग्नं तदञ्जनं प्रगृह्य किं स्वेन ताम्बूलराग-रूपानुरागेण तत् कमलं अनुरञ्जयत् ॥४२॥

एकत्र बन्धूक चतुष्टयं कथं
मरन्द लुण्टाकमिति नियुद्ध्यते ।
इतीव राजा मदनः सितेषुभिः कुन्दैर्
इदं विध्यति पश्यतां लयः ॥४३॥

अधुना परस्पराधरे दन्तक्षतं वर्णयति— हे आलय ! एकत्र द्वयोरोष्टाद्गरचतुष्टय-रूपवन्धूकचतुष्टयमधरामृत-रूपमकरन्दलुण्टाकमित एव हेतोः किं परस्परं युद्ध्यते इति अन्यायं विज्ज्ञायेव राजा मदनः सितेषुभिः तीक्ष्नशरस्व-रूपैर् दन्त-रूपकुन्दैर् इदं वन्धूकचतुष्टयं विध्यति ॥४३॥

शम्भू स्मरः पल्लव नव्य पाश
द्वयेन बद्ध्वा किमिहार्द्ध चन्द्रैः ।
शरैर् विभेदेति भयेन गङ्गा
पृषत् शताथा पतिता भुवीतः ॥४४॥

स्तनोपरिनखक्षतं कन्दर्पस्यार्धचन्द्रशरत्वेनोत्प्रेक्ष्य मर्दनसमये स्तनोपरि-स्थितहारस्य त्रोटनात् मुक्तानामेकैकतया भुवि पतनं गङ्गाया विन्दुविन्दुतया पतनत्वेनोत्प्रेक्षते । कन्दर्पः स्वशत्रु स्तन-रूपौ द्वौ श्म्भू श्रीकृष्णस्य हस्त-रूपनव्यपाश-द्वयेन बद्धा किमिह नखाघात-रूपार्धचन्द्रशरैर् विभेद । इति भयेन स्तन-द्वय-रूपमहादेवस्य मस्तकस्थमुक्ताहार-रूपगङ्गा सङ्कुचितिभूय पृषत्शतैर् विन्दुशतैर् आभा कान्तीर्यस्यास्तथा-भूता सती भुवि पतिता ॥४४॥

विद्युद्घनार्चि क्रमिषां यदोपरि
स्मराद्दधान बबलेऽवलेपतः ।
तदा तु जालानि सखीदृशां बलाज्
जालावलीं हर्ष जलैः प्लुतां व्यधुः ॥४५॥

अधुना सम्भोगस्य वैपरीत्यं वर्णयति ! विद्युत्स्व-रूपा नायिका मेघस्व-रूपनायकस्य आचिक्रमिषां आक्रमणेच्छां दधाना सती स्मारादवलेपतः नायिका कन्द्रपसम्बन्ध्यहङ्कारात् यदा मेघोपरि ववले वलं प्रकाशयामास । तदा तु सखीदृशां जालानि समूहाः जालावलिं गवाक्षश्रेणीं हर्षजलैः प्लुतां व्यप्तां चक्रुः ॥४५॥

बहिस्तु यन्त्र व्यजननेन दास्यस्
तौ वीजयां चक्रुरजस्रमस्रैः ।
प्लुतेक्षाणाश्चुक्रुधुरप्रमेय
प्रेम्णे तदात्वानवलोक दीनाः ॥४६॥

बहिः-स्थिता दास्यः डोरीबद्धयन्त्रव्यजनेन राधा-कृष्णौ वीजयाञ्चक्रुः । अजस्रमस्रैः निरन्तरानन्दाश्रुधाराभिर्व्याप्तेक्षणास्ता दास्यः तदात्वे तत्काले प्रेमाश्रुधारायाः प्रतिवन्धकत्वेन योऽनवलोकः सम्भोगदर्शनाभावस्तेन दीनाः दुःखिताः सत्यः अपरिमितप्रेम्ने चक्रुधुः । अस्माकं प्रेमा एवास्मान्दुःखयति अत एव स तु मास्तु इति प्रेमाणं प्रति क्रोधं चक्रुः ॥४६॥

प्रफुल्ल नीलाम्बुज सीधु चन्द्रः
कामं पपावित्यसहिष्णु सद्यः ।
तत्रत्यमिन्दिन्दिरयोर्युगं
किं बलात् तदायामृतमप्यधासीत् ॥४७॥

श्रीकृष्णस्य मुख-रूपकमलस्याधरामृत-रूपं सीधु राधिकाया मुखचन्द्रः विपरीतसम्भोगसमये कामं यथेष्टं पपौ । मत्पेयं वस्तुं चन्द्रेण पितम् इत्यसहिष्णु इन्दिन्दिरयोर्युगं तत्रत्यं प्रफुल्लनीलाम्बुजस्थं श्रीकृष्णस्य नेत्र-रूपभ्रमर-द्वयं तदीयामृतं चन्द्रसम्बन्ध्यमृतम् अपि सद्यस्तत्क्षण एव वलात् अधासीत् पानमकार्षीत् । धेट् पाने । तथा च श्रीराधिककर्तृकाधरपानसमये श्रीकृष्णेन विस्मयात् तस्या मुखावलोकनं कृतं अतस्तादृशावलोकनम् एवामृतपानत्वेनोप्रेक्षितमिति भावः ॥४७॥

अभ्रान्तरुद्यच् चल सूर्यमण्डले
ननर्त मुक्तावलिरात्त सम्मदा ।
हंसावधूताः कनकावलीं श्रिता
वाद्यं विचित्रं रभसादवीवदम् ॥४८॥

अधुना ज्ज्ञानसिद्धानां सूर्यमण्डलद्वारा अर्चिरादिमार्गं वर्णयन्तादृशशब्दानां श्लेषेण विपरीतसम्भोगमप्याह—अभ्रान्तः मेघस्य मध्ये उद्यच्चञ्चलसूर्यमण्डलं तत्र मुखश्रेणी मोक्षप्राप्त्यानन्देन ननर्त । कथम्भूताः आत्तो गृहीतः सम्मदो हर्षो यया सा । तदैव परमहंसा एवं अवधूताश् च ज्ज्ञानिप्रभेदाः तेषां नर्तनं दृष्ट्वा रभसात् हर्षात् विचित्रं वाद्यमवीवदन्वादयाञ्चक्रुः । कथम्भूताः स्वयोगवलपरीक्षार्थं कनकावलीं वस्तुम् अत्रागम्यां पञ्चमस्कन्धोक्तकाञ्चनीभूमिं श्रिताः तत्रैव स्थित्वा वाद्यं चक्रौरित्यर्थः । विपरीतसम्भोगपक्षे श्रीकृष्णस्य वक्षःस्थल-रूपाभ्रस्य मध्ये कौस्तुभ-रूपसूर्यमण्डले मुक्तावलिः राधिकाया मुक्ताहारो ननर्त । तस्मिन्समये हंसाः राधिकायाः पादकटकाः अवस्याकारलोपात् वधूताः कम्पिताः सन्तः विचित्रं वाद्यमवीवदन् । कथम्भूताः कनकावलीं राधिकायाश्चरण-रूपकनकस्थलीमाश्रिताः ॥४८॥

तत्रागत श्री मधुसूदनोद्यद्
गानं श्रुति प्रेष्ठमभूदपूर्वम् ।
येनैव सभ्या रसिकाङ्गवल्ली
द्रौत्यं दधे स्वेद मिषात् सवेपम् ॥४९॥

तत्र काञ्चनीभूमौ अन्येषागमनासम्भवादत एवागतस्य भगवतो मधुसूदनस्य कर्णप्रेष्ठमुद्यद्गानमभूत् येन गानेन शुकदेवनारदप्रभृतिरसिकानामङ्गवल्येव सभ्या सात्विकविकारवशाद्द्रौत्यं दधे । सम्भोगपक्षे तत् समये द्वयोरङ्गयोः सुगन्धाधिक्य प्रकाशनेन तत्रगता ये मधुसूदना भ्रमरातेषां कर्णप्रेष्ठं गानमभूत् । येन गानेन रसिकानां किङ्करीणां अङ्गवल्ल्येव सभ्या ॥४९॥

बालास्तु कौटिल्यभृतोऽति लौल्याद्
इतस्ततः संसरण भजन्तः ।
श्रुति प्रसक्ता प्रतिकर्मभातास्
तस्थुर्मदादैन्दव मण्डलान्तः ॥५०॥

ज्ज्ञानिनां सूर्यमण्डलद्वारा अर्चिरादिमार्गमुक्त्वा कर्मिणां चन्द्रमण्डलद्वारा धूममार्गमाह—कौटिल्ययुक्ता वाला अज्ज्ञास्तु विषयभोगे अतिलौल्यात् इतस्ततः संसारं भजन्तः सन्तः मदात् अहङ्कारात् ऐन्दवमण्डलान्तः चन्द्रमण्डलमध्ये एव तस्थुः । कथम्भूता ! श्रूतौ श्रुत्युक्तकर्ममार्गे प्रसक्ताः अत एव प्रतिकर्मभाताः कर्मणि कर्मणि ख्याता कर्मठत्वेन प्रसिद्धा इत्यर्थः । विपरीतसम्भोगपक्षे कौटिल्यभृतो वालाः कुटिलालकाः अतिलौल्यात् चाञ्चल्यात् इतस्ततो गमनं भजन्तः सन्तः ऐन्दवमण्डलान्तः श्रीकृष्णस्य मुख-रूपचन्द्रमण्डलमध्ये तस्थुः । श्रुतौ कर्णपर्यन्तस्थले प्रसक्ताः । प्रतिकर्मप्रसाधनं केशसंस्कार इति यावत् तत्र भाताः प्रकाशिताः ॥५०॥

अवार्यमानामृत पान दृप्तयो
विखण्डित स्थासक नव्य वर्मणोः ।
प्रयुक्त चञ्चद्भुज नाग पाशयो
यूनोर्जिगीषा समवर्द्धतर्द्धिभिः ॥५१॥

यूनोर्युव-द्वयोः कन्दर्पयुद्धे । ऋद्धिभिः प्रतिक्षणं नवनवायमानसम्भोगेच्छासम्पत्तिभिर्जिगीषा सम्यगवर्धत । क्थम्भूतयोः वाम्याद्यभावेन अवार्यमाणं वारणरहितमधर-रूपामृतपानं तेन दृप्तयोः अन्ये योद्धारोऽपि अमृतपानेन निःशङ्का सन्तः युद्धं कुर्वन्तीति सर्वत्र रीतिः । पुनः कथम्भूतयोः युद्धसम्मर्देन विखण्डितौ चन्दनादिनिर्मितखोर इति प्रसिद्धस्थासक-रूपौ कवचौ ययोस्तयोः । पुनश् च कथम्भूतयोः प्रयुक्तौ परस्परं निक्षिप्तौ चञ्चलभुज-रूपनागापाशौ ययोस्तयोः ॥५१॥

तयोर्मिथःपुष्पशराजि चातुरी
धूरीणतावेदनया विवादिनोः ।
श्रान्तिं स्वयं कापि निमन्त्र्य तत्क्षणान्
निद्रामुपानीय समादधे कलिम् ॥५२॥

राधा-कृष्णयोराष्टयामिकलीलासमूह एव जपमालास्व-रूपस्तस्याः मालायाः प्रत्येकलीलाः मणि या इति प्रसिद्धाः प्रत्येकमणयः । तथा च यं मणिमाश्रित्य वर्णनारम्भः कृतस्तस्मिन्नेव मणौ समाप्तिमाह—तयोर्मिथ इति । अस्य श्लोकस्य व्याख्या प्रथमतः एव कृता ॥५२॥

सनातनं -रूपमुदीयुषोः क्षितौ
हृदा दधानो व्रजकाननेशयोः ।
तत्केलिकल्पागमसङ्गतीलिताः
सदालिवीथीरनुरागिणीर्भजे ॥५३॥

मालायाः सुमेरुस्थानीयं प्रथमत एव मङ्गलाचरणत्वेन कृतं श्लोक-त्रयमन्त्यमङ्गलेऽपि तदेवाह—सनातनमिति अस्यापि व्याख्या कृता एव ॥५३॥

श्रीकृष्णचैतन्यघनं प्रपद्ये
सपद्यपध्वस्ततमः प्रपञ्चम् ।
पञ्चेषुकोट्यर्बुदकान्तिधारा
परम्पराप्यायितसर्वविश्वम् ॥५४॥

न व्याख्यातम् ।

सोऽयं श्री-लोकनाथः स्फुरतु पुरु-कृपा-रश्मिभिः स्वैः समुद्यन्न्
उद्धृत्योद्धृत्य यो नः प्रचुरतम-तमः-कूपतो दीपिताभिः ।
दृग्भिः स्व-प्रेम-वीथ्या दिशम् अदिशम् अहो यां श्रिता दिव्य-लीला
रत्नाढ्यां विन्दमाना वयम् अपि निभृतं श्रील-गोवर्धनं स्मः ॥५५॥

न व्याख्यातम् ।

इति श्री-कृष्ण-भावनामृते महा-काव्ये

नक्तन्तन-लीलास्वादनो नाम

विंशतितमः सर्गः

॥२०॥

सम्पूर्णं श्री-कृष्ण-भावनामृतं काव्यम् इति ।