१९

ऊनविंशः सर्गः

रास-लीलास्वादनो नाम

प्रसूनचापः स महापराधी
प्रापाधिकारं तव काननेऽस्मिन् ।
त्वं मार्गयन्तीः सुकुमार गात्रीर्
हा मार्गनैर् भर्त्सयति सखीस्ताः ॥१॥

प्रेम्ना सखीनाम् अपि श्रीकृष्णेन सह स्म्भोगार्थं श्रीराधिका युक्तिमुत्तापयति । महापराधीकन्दर्पस्त्व वृन्दावने अधिकारं प्राप । अतस्त्वामन्वेषयन्तीर्मम सखीर्वाणैर् भेत्यस्यति विद्धाः करिष्यति ॥१॥

तत् त्वां त्रातुम् अतोऽर्हसि प्रियतमेत्युक्तोऽच्युतो राधया
त्वं प्रत्याह समाश्वसि ह्यनुपम स्नेहामृत स्नापिते ।
यो मां मृग्यति मात्रमत्र तमहं मृग्यन्हृदैवादधा
म्येतन्मे व्रतमब्रणं तदिह ताः शस्तैः करिष्येऽङ्किताः ॥२॥

इति राधया उक्तः श्रीकृष्णः तां प्रत्याह—हे सखी प्रति अनुपमस्नेहामृतस्नापिते ! राधे ! एतद्व्रतमव्रणमाच्छिद्रं तत् तस्मात् ताः सखीः ! शस्तैर् मङ्गलैर् अङ्किताः करिष्ये ॥२॥

इत्यन्यत्र गते हरौ परिजनैः कैश्चिन्निदिष्टैर् असान्
नेपथ्यानि पुरेव साधु रचितान्यङ्गेषु तस्यास्तथा ।
नूत्नं तल्पमकारि पौष्पम् अपि ताः कृष्णोपभुक्ता यथा
पश्येयु ललितादयो विधुमुखीं तां वास सज्जामिव ॥३॥

अन्यत्र सखीनां निकटे गते सति राधया निदिष्टेः कैश्चित् परिजनैः दासीभिः रसात् रागात् तस्या अङ्गेषु नेपत्यानि रचितानि तथा वासकसज्जासम्पादनार्थं पुष्पसम्बन्धितल्पम् अपि नूत्नं तथा अकारि यथा कृष्णोपभूक्ता ललितादयस्तां राधां वासकसज्जामिव पश्येयुः ॥३॥

अथागतास्ताः कुटिलभ्रुवः सखी
राधाभिनीयैव विषादमब्रवीत् ।
प्रेयान्स नायान्मम किं ततोऽसुभिस्
तन्वाथवा भूषितया किमेतया ॥४॥

श्रीकृष्णेन कृतं यद्बिडम्बनं तस्य हेतुभूतां राधिकां प्रति कुटीलभ्रुवः सखीः राधा विषादमभिनीयाव्रवीत् । प्रेयान्स श्रीकृष्णः यदि न आयात् ततो मम प्राणैः किमथवा वासकसज्जोचितभूषणविशिष्टया तन्वा किम्? ॥४॥

उपालिप्सुरलीः पुनरुपसृत वीक्ष्य पिहित
स्मिता चिल्लीवल्लीं दर चटुलयन्त्याह सुतनुः ।
अहो कष्टं किं वः क्षतमजनि बिम्बाधर कुचे
भुजङ्गं मृग्यन्त्यः कमविशत वा गह्वर वरम् ॥५॥

उपसृता निकटं प्राप्ता आलिः उपालिप्सुः उपालम्भनेच्छुर्वीक्ष्य भ्रूवल्लीमीषच् चञ्चलयन्ती राधा आह—अहो ! वो युष्माकं कष्टं यतो बिम्बाधरकुचे क्षतमजनि । अथवा भुजङ्गं सर्पं पाक्षे कामुकं कृष्णं मृग्यन्त्यः कम् अपि गह्वरवरमविशत् । तत्रस्थकण्टकैर् एव वा किं विद्धा वभूबुरिति भावः ॥५॥

भुजङ्गं स्वाधीनं सुमुखि जनतां दंशयसि यत्
तदास्तां ते ख्यातं व्रजभुवि यशो मा हस पुनः ।
अहं चेद्व्याख्यास्ये किम् अपि चरितं तत् सपदि ते
गिरं तां ह्रीर्देवी विरमयितुम् आवि न भविता ॥६॥

यद्यस्मात् भुजङ्गद्वारा जनतां दंशयति तत् तस्मात् व्रजभुवि तव ख्यातं यश आस्ताम् एव पुनर्मा हस हास्यं मा चकार । सपदि तत्क्षण एव लज्जादेवी तव वाक्यं विरमयितुं स्थगयितुं किं न आविर्भविता ? ॥६॥

इत्येव यावल् ललितावभाषे मध्ये
सभं तावदुपेत्य कृष्णः ।
प्राहालयो वच्मि चरित्रमस्याश्
चित्रं यदेवाद्यतनं सुरम्यम् ॥७॥

मध्येसभं सभामध्ये ॥७॥

आगत्यैव प्रकटमनया याच्यते प्रेष्ठ मह्यं
देहाश्लेषं मदधरसुधां निर्विवादं गृहीत्वा ।
कामाग्निर्मे ज्वलति हृदि तं साधु निर्वापयेति
श्रुत्वैवाहं न्यपतमधिकं विस्मयाम्भोधि मध्ये ॥८॥

श्रीकृष्ण आह—अनया राधया प्रकटमयाच्यत । याच्ज्ञाम् एवाह—हे प्रेष्ठ ! मदधरसुधां गृहीत्वा मह्यमाश्लेषं देहि । स्वधर्मं वाम्यं बिहाय स्वमुखेन अस्याः सम्भोगप्रार्थनां श्रुत्वा विस्मयसमुद्रमध्ये अहं न्यपतम् ॥८॥

ताबद्धैर् यं ह्रियम् अपि बलाद्यमुने सान्द्र पङ्के
मग्निकृत्य स्वयमति मुदालिङ्ग्य तल्पे विवेश्य ।
निर्जित्याहं वितनुयुधि निर्यापितोऽस्मान्न्निकुञ्जाद्
युष्मानेवाश्रयमथ मुखं सावृणोदञ्चलेन ॥९॥

धैर् यलज्जां च यमुनापङ्के मग्नीकृत्य स्वयं मां वलात् आलिङ्ग्य शय्यायां निवेश्य अनन्तरं कन्दर्पयुद्धे निर्जित्य कुञ्जात् निर्यापितो निष्काशितोऽहं युष्मानेव आश्रयम् । अथान्तरं सा लज्जया अञ्चलेन मुखमावृणोत् ॥९॥

ब्रूषे मृषा वा ललिते रवेस्तत्
पृच्छात्र दत्वा शपथं सखीं स्वाम् ।
तथादृता साह न वेद्मि मोहात्
तमालमुद्दिश्य यदप्यवोचम् ॥१०॥

ललिता आह !—हे कृष्ण ! मृषा व्रूषे । कृष्ण आह—हे ललिते ! सुर्यस्य शपथं दत्वा स्वां सखीं राधिकां पृच्छ । तथा तेनैव प्रकारेण ललितया हे सखि ! यथार्थं वदेति आदृता सा राधा आह—मोहात् अज्ज्ञानात् तमालमुद्दिश्य यदप्यवोचत् तत् तु न वेद्मि विस्मृता बभूवेत्य् अर्थः ॥१०॥

हास्य प्लुतास्यलिनासु सखीषु कृष्णः
प्रावोचदर्थनमिदं निभृतं न चित्रम् ।
सिञ्चाङ्ग नस्त्वदधरामृत पूरकेणे
त्यस्या गिरं सदसि तां न हि विस्मराम ॥११॥

हास्यप्लुतमुखकमलासु सखीषु सतीषु कृष्णः प्रावोचत् । श्रीराधिकाया एकान्ते इदं सम्भोगप्रार्थनं न चित्रं किन्तु महारासे व्रजसुन्दरीणां सभामध्ये अस्याः सिञ्चाङ्गनेति वाक्यं नहि विस्मराम ॥११॥

वंशीं लभेय यदि तामिह वादयेयम्
उन्मादयेयमभिकृष्य समानयेयम् ।
स्वस्वप्रकृत्यननु-रूप चरित्र -रूप
वाचस्तदाहम् अपि वो रचयेयमग्रे ॥१२॥

वंशीहेतुक एव स स्वभावविपर्ययः अत एव वंश्या एव दोषो न तु मम इति प्र्तिपादयितुं राधिका आह—अहं यदि वंशीं द्भेय । एवं तां वंशीं यदि वादयेयम् । तेन इव वादनेन यदिउन्मादयेयम् । तेन उन्मादनेन युष्मानभिकृष्य यदि समानयेयम् । तदा स्वस्वप्रकृत्यननु-रूपाणि चरित्र-रूपवचांसि यासां तथा-भूताः रचयेयं करोमीत्यथः ॥१२॥

इत्युक्तवत्यै निज बल्लभायै
कृष्णस्तदैवोमिति वंशिकां स्वाम् ।
दत्वा ततोऽगादपरत्र ताभिः
सार्द्धं सखीभिः कुतुकं विधित्सुः ॥१३॥

ओमिति स्वीकृत्य राधिकायै स्वीयां वंशी दत्वा कौतुकं कर्तुम् इच्छुः श्रीकृष्णः सखीभिः सार्धं ततः सकाशात् अन्यत्रागात् ॥१३॥

अथ जगावधरार्पित वंशिका
विधुमुखी मधुरं हरि वेशभाक् ।
हरिरगात् प्रमदात् प्रमदाकृतिः
परिवृतो ललितादिभिरालिभिः ॥१४॥

श्रीकृष्णं विना अन्यस्य वंश्यापि आकर्षकत्वं नास्तीति निश्चित्य हरिवेशभाक् सा अधरार्पितवंशिका सती मधुरं यथा स्यात् तथा जगौ श्रीकृष्णोऽपि प्रमदात् हर्षात् प्रमदाया राधाया इव कुङ्कुमलेपनेनाऋतिर्यस्य तथा-भूतः सन्सखीभिः सह अगात् अभिकृष्य समानयेयमिति पूर्वोक्त्या तस्या निकटम् इत्यापेक्षेपलद्धम् ॥१४॥

कुलभुवो भुवन प्रथितार्चिषः
कथयतात्र कथं द्रुतमागताः ।
निशि दिशि प्रदिशि भ्रमतादराद्
अयि दरापिदरं कुरुताबलाः ॥१५॥

महारासारम्भे श्रीकृष्णो यथा रजन्येषाघोर-रूपे (भा १०२९२९) त्यादिकं उवाच तथैव श्रीकृष्णवेशधारिणी राधिकाप्याह—त्रिभुबने ख्याता यशो-रूपा कान्तिर्यासां तथा-भूताः कुलाङ्गना भूत्वा कथमत्र वने यूयमागता इति कथयत । कथं वा निशि रात्रौ भ्रमथ आदरात् कस्यापि पुरुषस्यादरं प्राप्य । अयि अवला ! दरापि ईषदपि दरं भयं कुरुत ॥१५॥

तद्यात गोष्ठं नहि तिष्ठतात्र वः
स्त्रीणां स्वधर्मः पति सेवनं यतः ।
किं वा भजध्वे हृदि पुष्प मार्गण
स्पृहामियं निष्कुट एव सेत्स्यति ॥१६॥

किम्वा पुष्पस्यान्वेषणस्पृहां हृदि भजध्वे चेत् तदा इयं स्पृहा निष्कुटे गृहारामास्तु निष्कूटेत्यभिधानात् तत्र इव स्वस्वगृहोद्याने सेत्स्यति सिद्धा भविष्यति न तु अत्र । पुष्पमार्गणः कामः निष्कुटो वृन्दावनम् । किञ्चित् कृष्णमुद्दिश्य स्ववाम्यमालम्ब्यापि सपरिहासमाह—निष्कुट एव निजनन्दीश्वरगृहोद्यान एव स्वगृहदासीभिरेव तां स्पृहां साधय न तु मयेति ॥१६॥

इति तदुदित मात्रादास्य वैर् अस्य भाजो
नख मणि लिखित क्ष्मा ऊचिरे साश्रुकान्ताः ।
प्रियतम रसमूर्ते मैव वक्तुं त्वम् एवं
त्वदनुसृति भृतोऽस्मानर्हसि प्रेम सिन्धो ॥१७॥

महारासे मैवं विभो !ऽहतिभवा ( [भा।पु। १०.२९.३१) नितिवत् राधिकावेशधारी कृष्णप्रभृति ललिताधयोऽप्याहुः—तस्याः कृष्णवेशधारिण्या राधाया उदितमात्रादेव मुखे वैवस्यभाजस्ता अश्रुयुक्ताः कान्ता ऊचिरे । पक्षे कान्तः कृष्णश् च कान्ता ललितादयश्चेत्यकशेषः । तासां वचनम् एवाह—हे प्रियतम ! हे रसमूर्त्ते ! पक्षे प्रियतमा रसमूर्तिर्यस्या हे तादृशे ! राधे त्वदनुगमनधारिणीः अस्मानेवं कठोरं वक्तुं नार्हसि यतः हे प्रेमसिन्धो ! ॥१७॥

मदन दहन दूनाः स्वास्तनूस्त्वन्मुखेन्दोर्
अमृत रस निषेकैः कुर्महे शैत्य भाजः ।
इति चिर जनितां नश्च्छिन्दिमाशां स्व वेणु
ध्वनिभिर् अपि निषिच्यैवानया तीक्ष्ण वाचा ॥१८॥

कन्दर्पाग्निना दूनाः स्वास्तनूस्तवाधरामृतैः वयं शैत्यभाजः कुर्महे । इति चिरकालं व्याप्य उत्पन्नामाशालतां वेणुध्वनिभिर्निषिच्यानया तीक्ष्नया वाचा मा छिन्धि ॥१८॥

अथाननाब्जे स्मित माधुरीं सा
प्रकाश्य वैधुर्यमपास्य सद्यः ।
स्व वेश भाषेक्षण भाव भाजा
कान्तेन रेमे श्रिततन्निसर्गा ॥१९॥

अथ कठोरवचनान्तरं प्रहस्य सदयं गोपीरात्मारामोऽपी [भा।पु। १०.२९.४२] तिवत् सा राधिकामुखकमले स्मितमाधुरीं प्रकाश्य तेन हास्येन इव तासां राधावेषधारि श्रीकृष्णललितादीनां वैधुर्यं विरहदुःखमपास्य दूरीकृत्य श्रीराधिकाया वेषरचनेक्षणभावविशिष्टेन श्रीकृष्णेन सह आश्रितस्तस्य श्रीकृष्णस्य निसर्गः स्वभावो यया सा राधा रेमे ॥१९॥

सस्नुस्ताः कौतुकाब्धौ सरभसमसकृद्वीक्ष्य वीक्ष्यैव सख्यः
कृष्ण श्री राधायोर्या स्मर समर कला वाम्य चापल्य भाजोः ।
स्व अप्याश्लिष्यमाणा व्यधिषत न तनूः किं तया प्रेष्ठ सख्या
वृन्दा दूर स्थितैव स्वममनुत जनुर्धन्यमश्रु प्लुताक्षी ॥२०॥

यथासङ्ख्येन वाम्यचापल्यभाजोः कृष्णराधयोः स्मरसमरकला वारं वारं वीक्ष्य वीक्ष्य ताः सख्यः आनन्दसमुद्रे सस्नुः स्नानं चक्रुः । याः सख्यः स्वास्तनुः तया प्रेष्ठसख्या न किं आलिङ्गिता व्यधिषत अकार्षुः ? अपि तु अकार्षुरेव ॥२०॥

पश्यन्तीनां सखीनाम् अपि निभृतमसौ कान्तमादाय तस्माद्
अन्तर्धायैव देशात् क्वचन रहसि तं क्रीडयन्ती यदाभात् ।
ता अप्यश्वत्थ नीप प्रभृति तरुततीस्तौ विषादेन पृष्ट्वा
दृष्ट्वा दृष्ट्वापि जातार्पित नयन युगाः खेदम् एवाभिनिन्युः ॥२१॥

रासे श्रीकृष्णो यता अन्तर्धानं चकार तथा सापि चकार इत्य् आह—पश्यन्तीनाम् इति । दृष्टो वः कच्चिदश्वत्थ इतिवत् ता ललितादयोऽपि पृष्ट्वा अनन्तरं कुञ्जमन्दिरे तयोः सम्भोगं गवाक्षार्पितननयनाः सत्यः दृष्ट्वा दृष्ट्वा आनन्दमग्ना अपि महारासे केशप्रसाधनं त्वत्र कानिन्याः कमिना कृतमिति वदन्तीनां विपक्षाणां खेदोत्थवचनमनुसृत्य तस्यानुकरणार्थं खेदम् एवाभिनिन्युः ॥२१॥

वनाद्वनं यान्त्यथ मण्डयन्ती
विचित्र माल्याभरणैः प्रियं सा ।
न पारयेऽहं चलितुं क्व चेति
गिरा विहायैव तमाशु लिल्ये ॥२२॥

श्रीकृष्णवेशधारिणी राधा स्ववेशधारिणः प्रियस्य न पारयेऽहं चलितुम् इति वचनं श्रुत्वा बिहायैव सा लिल्ये अन्तर्धानं चकार ॥२२-२३॥

भुवमश्रुभिरार्द्रयन्मुहुः
कृत हा हा स्व एव माधवः ।
ललितादिभिरावृतः पुनर्
विललापोच्चतरं स्वरं सृजन् ॥२३॥
दयितेह समागमेन नोधिनु
यत् त्वच् चरणाम्बुजं हृदि ।
मृदुलं कठिने शनैः शनैर्
निदधे तद्दुनु मा तृणाङ्कुरैः ॥२४॥

ज्यति तेऽधिकं जन्मने तिवत् श्रीकृष्णललितादयोऽप्याहुः । हे दयित ! श्रीकृष्ण इह समागनेन नोऽस्मान्धुनु सुखय । पक्षे हे दयिते ! राधे ! स्पश्टं । यद्वा मा हस परिहासं मा कुरु । आगमेन आगमनेन । यच् चरणकमलमस्माकं कठिने हृदि व्यथाशङ्कया शनैर् निर्दधे तच् चरणं । तृणाङ्कुरैर् मा दुनु मा दुःखय ॥२४॥

साथ स्मितास्यागमदाशु विद्युत्
पीताम्बरा नीरद नीलरोचिः ।
स्व स्वार्चिरन्योन्य समर्पणात् किं
तदङ्ग वस्त्रे दधतुः सुसख्यम् ॥२५॥

तासामाविरभूत् शौरिरितिवत् सापि तत्राविर्भूवेत्याह—श्रीकृष्ण इव विद्युत् तुल्यपीताम्बरा मेघतुल्यारोचिः षा अगमत् । श्रीकृष्णाङ्गं स्वकान्तिं राधाङ्गाय दत्वा तस्या अङ्गकान्तिं स्वयं जग्राह—एवं तयोर्वस्त्रयोर् अपि परस्परकान्तिसमर्पणात् किं राधा-कृष्णयोर्द्वे अङ्गवस्त्रे सुकख्यं दधतुः ॥२५॥

काचित् पाणिं काचन पादाम्बुजमस्यास्
तर्ह्येवैका बाहुमधादुत्पुलकेऽंशे ।
कान्तश्चिल्लीचालन भन्गीं यदतानीत्
तामास्वाद्यैवाजनि राधा वितताक्षी ॥२६॥

काचित् कराम्बुजं सौरि रितिवदाहुः—महारासे श्रीराधिक यथा एका भ्रूकुटिमावध्ये ति पद्योक्तभावं चकार । तथात्रापि राधाभावभावितः श्रीकृष्णोऽपि भ्रूचापलभङ्गी यदतानीत् विस्तारयामास । त्वां भङ्गिमास्वाद्य इव श्रीकृष्णभावभाविता राधा विस्मयेन विस्तृताक्षी अजनि ॥२६॥

वृन्दावादीत् तावदुपत्याम्बुजनेत्रौ
राधेऽजैषीस्त्वं निज कान्तं भ्रमयन्ती ।
कृष्ण प्रोद्यद्दुर्गम भावो यदभूस्त्वं
तेनाश्लिष्टस्त्वं च महत्या जयलक्ष्म्या ॥२७॥

अम्बुजनेत्रौ राधा-कृष्णौ वृन्दा आह—हे राधे ! स्वकान्तं विभ्रमन्ती सती अजैषीः जययुक्ता त्वमभूः । हे कृष्ण ! प्रकर्षेण उद्यन्राधाया दुर्गमभावो यत्र तथा-भूत्दस्त्वं अभूस्तेन हेतुना त्वम् अपि महत्या जयशोभया आश्लिष्टः तथा च तवापि जयोऽभूदिति भावः ॥२७॥

तामर्थयित्वां मुरलीं ततः
सा मुकुन्द पाणौ निदधे यदैव ।
तदैव कृष्णोऽहमहो न राधेत्य्
आश्चार्यम् एवाभिनिनाय रङ्गी ॥२८॥

सा वृन्दा । पूर्वोक्तवृन्दावाक्येन इव नाहं राधा अपि तु कृष्ण एव इति ज्ज्ञानं जातम् एव अधुना अभिनयमात्रं चकारेति भावः ॥२८॥

विद्युन्मेघौ यौ मिथो वर्ण
भाव व्यत्यासेनावर्सतां हर्ष धाराः ।
तावासीनौ स्वीकृत स्वस्व-रूपौ देव्य्
अटव्याः सेव्यमानौ व्यथाताम् ॥२९॥

राधा-कृष्ण-रूपौ यौ विद्युन्मघौ परस्परवर्णभावव्य्त्यासेन हर्षधारा अवर्षताम् । स्वीकृतस्वस्व-रूपौ तौ एकत्र आसीनौ वसन्तौ सन्तौ वृन्दया फलपुष्पमालादिभिः सेव्यमानौ विशेषेण अभाताम् ॥२९॥

अप्राणापि प्राणितो मोहयन्ती लब्ध
प्राण स्यान्नव द्वार देहा ।
मध्य यामं द्राग् वशीभूय सारं
मध्ये प्रेम्ना मोदयन्ती त्रिलोकीम् ॥३०॥

भजतोऽनुभजन्त्येक (भा १०३२१६) इतिवत् प्रहेलिकासंलापं रासाङ्गमाह—प्राणरहितापि प्राण सहितान्मोहयन्ती सती स्वयं लव्धप्राणा नवद्वारदेहा च स्यात् । एवं माध्येयामं यामस्य प्रहरस्य मध्ये शीघ्रं वशीभूय प्रेम्ना त्रिलोकीं मोदयन्ती सती सारं धत्ते । वंशीपक्षे मध्येयाममिति या वंशी मध्ये मं मकारं धत्ते । ततश् च वंशी सती कीदृशी भूयसी प्रेम्ना अरं शीघ्रं त्रिलोकीं मोदयन्ती ॥३०॥

तामाली जानीहि मम प्रहेलीम्
इत्युचमाना हरिणाह राधा ।
उत्कोचम् एवाधरशीधु यस्यै
ददासि वंशी तव कुट्टिनीयम् ॥३१॥

हे राधे ! मम एतादृशप्रहेलीं जानीहि इति हरिणा उच्यमाना राधा आह—यसै दूती-रूपायै वंशै अधरामृत-रूपोत्कोचं ददासि ॥३१॥

गायन्ती ततमनुरागिणी यशस्ते या
मूर्च्छां भजति लसद्गुणावलि श्रीः ।
ग्रामस्थाप्यतनु रसेषु या प्रवीणा
तां ब्रूहि प्रणय निधे प्रहेलिकां नः ॥३२॥

अधुना रीधाकिका प्रहेलीमाह—या अनुरागिनी सती ततं विस्तृतं तव यशः गायन्ती मूर्च्छां भजति । कथम्भूता लसद्गूणावलीनां श्रीः शोभा यत्र । सा ग्रामस्था ग्राम्यापि अतनुरसेषु कन्दर्परसेषु प्रवीणा । वीणापक्षे ततं वीणासम्बन्धिवाद्यं गायन्ती कुर्वतीत्यर्थः । वाचमवोचत् इतिवत् सर्वेऽपि धातवः करोत्यर्था एव । अनुरागिणी अनुकूलवसन्तादिरागवती । मूर्च्छां मूर्च्छानां । रसन्त्याः शब्दायन्त्या गुणानां तन्त्रीणां श्रेण्याः शोभा यस्याः । सप्तस्वरास्त्रयो ग्रामा इति गानशास्त्रोक्तास्त्रयोः ग्रामास्तत्रस्था या प्रकृष्ता वीणा श्रेष्ठरसेषु विषये भवति श्रेष्ठरस प्रतिपादिका इत्यर्थः । अर्थे वेदाः प्राणमितिवत् विषयसप्तमी । तां कथम्भूतां प्रहेलिकां श्लाघितां हेतु श्लाघायाम् ॥३२॥

ईर्ष्यन्ती मम मुरलीं कलावलीभिर्
जेत्री मां सुखयति माधुरीं दधाना ।
सा राधे त्वमिव सुवृत पीन तुम्बीस्
तन्यत्र स्फुरति रसेन बलकीयम् ॥३३॥

श्रीकृष्ण आह—कलो मधुरास्फुटध्वनिः कलाश्चतुःषष्टिश्चेत्येकशेषः तस्यः श्रेणीभिर्मुरलीं जेत्री इयं तव वल्लकी वीणा मां रसेन रागेण सुखयति । हे राधे ! त्वं यथा सुवर्तुलपुष्टतुम् व्याविव स्तनौ यस्याः तथा-भूताः ॥३३॥

अथोचिरे श्री ललिता विशाखा
चित्रादयोऽपीहित जैत्र भावाः ।
तमन्वधिन्वन्स्व सखीं पटिम्नो
भङ्ग्यैव याः संसदि वर्णयन्त्यः ॥३४॥

जेतुरयमिति तस्येदम् इत्य्-आदिना जेत्री यो भावस्तथा च ईङ्गितं वाञ्छितं जयित्वं याभिस्तथा-भूता ललितादयोऽप्युचिरे । या ललितादयः पाटवस्य चातुर्यस्य भाङ्ग इव स्वसखीं राधिकां वर्णयन्त्यस्तं श्रीकृष्णमधिन्वन्सुखयामासुः ॥३४॥

बाला अप्यतिवृद्धा येबन्धं मोक्षं च विभ्रति ।
शुद्धानपि तमो धाम्नोवद तान्कुटिलानपि ॥३५॥

विरोधमुद्रयैव प्रहेलीं ललिता आह—वालका अतिवृद्धाः ये वन्धं विभ्रतित एव मोक्षं च विभ्रति । शुद्धानपि तमोगुणाश्रयान्कुटिलान्वद । केशपक्षे अत्यन्त वृद्धिं प्राप्ता वालाः केशाः संस्कारसमये वन्धं विभ्रति पश्चात् श्रीकृष्णकृतं मोक्षं च विभ्रति । धूलिप्रभृतिमालिन्यरहितत्वेन शुद्धानपि तमोस्थानीयश्याम-रूपस्य धाम्नास्तान्कुटिलकेशान् ॥३५॥

प्रति कर्म निबद्धानाम् अपि कृष्णोऽस्मि मोक्षदः ।
येषां रत्युद्गमे केशान्विभक्तांस्तनिमान्भजे ॥३६॥

श्रीकृष्ण आह—तान्विशिष्टभक्तानहं भजे येषां भक्तानां प्रतिकर्म कर्मणि कर्मणि निबद्धानां रत्युद्गमे प्रेमोपक्रमे कृष्णोऽहं ससारात् मोक्षदोऽस्मि । कथम्भूतान्भक्तान्केशान्के सुखे ईशते ऐश्वर्यं कुर्वन्ति अस्य श्लोकस्यार्थान्तरेण प्रहेलिकाया अपि उत्तरमाह—परस्परविभक्तान्केशान्भजे । येषां केशानां प्रतिकर्म आकल्पवेशै नेपथ्यं प्रतिकर्म –प्रसाधन म् इत्यमरात् । केशसंस्कारसमये निबद्धानाम् अपि कृष्णोऽहं रत्युद्गमे सम्भोगारम्बे मोक्षदोऽस्मि ॥३६॥

धृत्वा विभूतिं भ्रमतीह सर्वथा
ध्वन्य्-अर्थ तत्त्व प्रथनेऽति पण्डिता ।
या योगिनी सम्भृत विश्व भाव दृग्
धन्योऽसि तां चेत् प्रिय बोद्धुमीशिषे ॥३७॥

विशाखा प्रहेलीमाह—या योगिनी विभूतिं धृत्वा अध्वनि पथि सर्वथा भ्रमति । कथम्भूता अर्थानां वस्तुभूतानां तत्त्वानां महदाम्भीना तत्त्वविस्तारे पण्डिता । पुनः कथं भूता सम्भृतं धृतं विश्वेषाम् अपि भावज्ज्ञानं यया । हे प्रिय ! तां वोद्धुं समर्थोऽसि चेत् तदा त्वं धन्योऽसि राधिकाया दृक् पक्षे विभूतिं कज्ज्वलं धृत्वा चाञ्चल्यवशात् सर्वथा भ्रमति । कथम्भूता धन्यर्था व्यज्यमानानि वस्तूनि तेषां तत्वप्रथने पण्डिता । योगः कृष्णाङेन सह सम्बन्धस्तद्वती । सम्भृता सम्पूर्णा विश्वे सर्वे अपि भाव औत्सुक्यादयो यस्यां सा चासौ दृक् चेति ॥३७॥

अनङ्ग सौख्य सिद्धये यदुज्ज्वलात्म वेदनं
कृपार्द्रया यया मुहुस्तदेव पाठितोऽभवम् ।
विरज्य सर्व कर्मतो यदाज्ज्ञया वनं गतो
लभेय निर्वृतिं गुरुं प्रियादृशं स्तवीमि ताम् ॥३८॥

श्रीकृष्ण आह—अङ्गस्याभावोऽनङ्गं देहराहित्य-रूपं यत् सुखं मुखिरित्यर्थः । तस्य सिद्धये उज्ज्वलः शुद्धो यो जिवात्मा तदनुभवो भवति । तत् आत्मवेदनं कृपार्द्रया यया योगिन्या अहं मुहुः पाठितोऽभवम् । यस्या योगिन्या आज्ज्ञया सर्वकरमतो विरज्य वनं गतः सनहं निर्वृतिं लभेय । तां गुरुं योगिनीं स्तवीमि । कीदृशीं प्रियं आ सम्यक् दृक् ज्ज्ञानं यतस्तां । दृक् पक्षे कन्दर्पसौख्यसिद्धये यत् उज्ज्वलात्मनः शृङ्गाररसस्व-रूपस्य वेदनं ज्ज्ञानं यया दृशा अहं पठितः । तस्या दृशः कटाक्ष-रूपाया आज्ज्ञया सर्वतो विरज्य वनं गतः सन्निर्वृतिं लभेय । तां राधाया दृशं स्तवीमि ॥३८॥

सदापवर्ग साधनो नितान्त दान्त विग्रहः
शुचि प्रियो रुचिप्रदोऽनुरागिताधुराधरः ।
य एव भाति सौभगैस्तमत्र वर्णयन्नपि
स्वया रसाज्ज्ञयैव तां नयाच्युतासु धन्यताम् ॥३९॥

चित्रा प्रहेलीमाह—सदा अपवर्गार्थं साधनं यस्य नितान्तदान्तः अतिशयेनान्तर्बाह्येन्द्रियनिग्रहो यस्य स चासौ विग्रहस्चेति सः । शुचि शुद्धं वस्तु प्रियं यस्य । अनुरागिताया अनुरागस्य धुरामतिशयं धरति एवं-भूतो यः सौभाग्यैर् भाति तं स्वकीयजिह्वया वर्णयन्नपि किं पुनच् तया जिह्वया आलिङ्गनेन तां जिह्वां धन्यतां नय । अधरपक्षे सदापवर्गं साधयति । प फ व भ मकार-रूपपवर्गाणां ओष्ठाधरेणोच्चारणात् । अतिशयेन दान्तः श्रीकृष्णस्य दन्तसम्बन्धी बिग्रहो युद्धं यस्य तथा-भूतः । शुचिः शृङ्गाररसः प्रियो यस्य । अनुरागिता लालिमा तस्या अतिशयो यस्य तथा-भूतश्चासौ अधरश्चेति ॥३९॥

किं वर्णयित्वैव विरम्यताम्
अहो रसज्ज्ञयाप्यस्य विनोपगूहनम् ।
तदालयो योजयतामुमुत्सुकं
प्रियाधरं सन्ततमुत्कयानया ॥४०॥

श्रीकृष्ण आह—अहो ! रसज्ज्ञया आलिङ्गनं विन इव किं वर्णयित्वैव विरम्यताम् । रसज्ज्ञा विरता भवेद् इत्यर्थः । तस्मात् हे आलयः ! मम जिह्वया सह संयोगे उत्सुकं राधिकाया अमुमधरं सन्ततमुत्कण्ठितया अनया मम रसज्ज्ञया सह यूयं येजयत ॥४०॥

तनुतातनु लम्पटतां कुटिलाः
स्व विट स्फुट कीर्तित कीर्तिभराः ।
इति भीषण भङ्गुर चिल्लि कटु
क्रकचैः स्व सखीः समतर्जदियम् ॥४१॥

श्रीराधा सखीः प्रति प्रणयकोपवती आह—हे कुटिलाः ! सख्यः ! यूयं लम्पटेन सह कन्दर्पलाम्पट्यं तनुत विस्तारयत । अहं तु इतो यामि इति तात्पर्यार्थः । यूयं कथम्भूयाः स्वविटेन स्वईयकामुकेन स्फुटं यथास्यात् तथा कीर्तिताः ख्याथाः कीर्थातिशया यासां ताः । इति प्रकाश्य भीषणा भयोत्पादिकाश् च ता भङ्गुराः कुटिलीकृता याश्चिल्लयो भ्रवस्ता एव करात इति तीक्ष्नक्रकच-रूपास्तैः स्वसखीः समतर्जत् ॥४१॥

न रुषा परुषा भव साध्वि भृशं
रचयाम्यथ निर्वचनां भवतीम् ।
स्व कलामभिरक्ष्य विलक्षणधीः
प्रति वक्ष्यसि चेदयि जेष्यसि माम् ॥४२॥

श्रीकृष्णः रुषाच्छलेन यान्तिं श्रीराधां वारयन्नाह—हे साध्वि ! रुषा कठोरा मा भव । अहं तु भवतीं प्रहेलिकया निर्वचनां करोमि । त्वन्तु स्वीयां कलां वैदग्धीं संरक्ष्य प्रतिवक्ष्यसि प्रत्युत्तरं दास्यसि चेत् तदा विलक्षणधीः अतिसुधीस्त्वं मां जेष्यसि ॥४२॥

एकेन शोभाम् अपि योऽभिधत्ते
द्वाभ्यां दिविष्टांस्त्रिभिरेव वर्णैः ।
तवाप्यभीष्टं द्युनगं चतुर्भिः
श्रोत्राभिरस्यं सखी पञ्चभिर्वः ॥४३॥

राधया ज्ज्ञातार्थाम् अपि लज्जया वक्तुम् अशक्याम् एवं-भूतां दुरूहां प्रहेलीं श्रीकृष्ण आह—एकेनेति । यो वर्णः एकेन स्वास्मकं वर्णेन शोभां अभिदत्ते वदति । एवं यः पदात्मकः शब्दः स्ववयवाभ्यां द्वाभ्यां दिविष्ठान्देवान्वदति । त्रिभिर्वर्णैस्तवाभीष्टं वदति । चतुर्भिः वर्णेः द्युनगं कल्पवृक्षं वदति । पञ्चभिर्विनैर् युस्माकं कर्णाणां रसनीयं किम् अपि वस्तु वदति । प्रहेकिकाया अर्थो यथा । एकेन शोभामपीति प्रश्नेन शोभावाचकः सुशब्दः उक्तः । द्वितीयेन देवतावाचकः अक्षर-द्वयात्मकः सुरशब्दः उक्तः तृतीयप्रश्नेन स्त्रीणां अभीष्टस्य सुरतस्य वाचकः अक्षयत्रयात्मकः सुरतशब्द उक्तः । चतुर्थप्रश्नेन कल्पवृक्षवाचकः चतुरक्षरात्मकसुरतरुश्ब्द उक्तः । पञ्चमप्रश्नेन स्त्रीणां श्रोत्राभिलषणीयस्य सुरतरुतस्य वाचकः सुरतरुतशब्द उक्तः । सम्भोगोत्थध्वनि विशेषवाचकः सुरतरुत शब्दः ॥४३॥

तमाचक्ष्व शब्दं त्वम् इत्युच्यमाना
प्रियेण प्रिय नम्र वक्त्रारविन्दा ।
अनीशापि रोद्धुं स्मितं भङ्गुर भ्रूर्
अमुं सूक्ष्मधीर्व्याजतो व्याजहार ॥४४॥

हे राधे ! तं शब्दं त्वं आचक्ष्व इति श्रीकृष्णेन उच्चमाना प्रिया लज्जयानम्रवक्त्रपद्मा स्मितं रोद्धुमसमर्थापि प्रणयकोपेन भङ्गुरभ्रुः सती व्याजतश्छलतः अमुं श्रीकृष्णमुवाच् । यतः सूक्ष्मविद्धिः ॥४४॥

वदैकेन चारूत्तरेणैव तावत् क्रमाल्
लब्ध वर्णेन मत् प्रश्न वीथीम् ।
त्वमादौ ततः स्वे हितं शब्दमेतं
प्रियां वाचयन्याहि पद्मां सखीं स्वाम् ॥४५॥

हे लव्धवर्णेन विचक्षण श्रेष्ठ ! लव्धवर्णो विचक्षण इत्य् अमरः । इनः सूर्येप्रभाव् इत्य् अमरः । एकेन उत्तरेण मत्प्रश्नवीथीं प्रश्नस्य श्रेणीं क्रमात् त्वं आदौ वद । पश्चात् स्वस्य ईहितं त्वत्प्रश्नविषयीभूतमेतं शब्दं पद्मा सखीं चन्द्रावलीं वाचयन्वाचयितुं तस्या निकटे याहि । पक्षे लव्धवर्णेनेति पदं उत्तरेणेत्यस्य विशेषणम् । अर्थो यथा । सुरतरुतशव्दस्थेन एकेन उत्तरेण अन्त्येन तकारेण सह क्रमात् एकैकेन पूर्वपूर्वलव्धवर्णेन मम प्रश्नवीथीं वद ॥४५॥

गृही कमिच्छेत् तरुणेहितं किं
किं चारु वाद्यं किमु कर्ण वेद्यम् ।
सख्यः किमाकर्णयितुं निलीनास्
तिष्ठन्ति तत् त्वं वद निर्विवादम् ॥४६॥

तां प्रश्नवीथीमाह—गृहस्थः कमिच्छेदिति प्रश्ने सुरतरुतपदस्यान्ततकारेण सह आद्यवर्णसुशब्दस्य योगे सति सुतमिच्छेदिति प्रश्नस्यार्थः । तरुणस्य किमीहितं वाञ्छितमिति प्रश्नेन अन्त्यतकारेण सह द्वितीयवर्णस्य रेफस्य्स योगे सति रतं रमणमिच्छेदिति प्रश्नार्थः । चारु वाद्यं किमिति प्रश्ने अन्त्यतकारेण सह तृतीयवर्णस्य तकरस्य योगे सति ततं वीणादिवाद्यमिति प्रश्नार्थः । कर्णवेद्यं किमिति प्रश्ने अन्त्यतकरेण सह चतुर्थवर्णस्य रुकारस्य योगे सति रुति रुतं शब्दमिति प्रश्नार्थः । सख्यः किं श्रोतुं निलीनाः सत्यस्तिष्ठन्तीति सुरतरुतमिति प्रश्नार्थः ॥४६॥

सुरतरु पूर्वं तमिति मुकुन्दे
वदति तदति पटिमामृतविन्दे ।
सपदि सखीभिरथैधितमाना
युवतिमणिर्मुमुदे स्मयमाना ॥४७॥

सुरतरुपूर्वं तमिति सुर्ततरुतम् इत्यर्थः । तं श्रीकृष्णे वदति सति । कथम्भूते तस्या राधाया अतिपटिमामृतमतिशयवुद्धिकौशल-रूपामृतं विन्दे प्राप्नुवति विदॢ लाभे । शः प्रत्यः । तादृशामृतस्यास्वादनं कुर्वतीत्यर्थः । सपदि तत् क्षणे सखीभिरप्येधितः वर्धितः मानः आदरो यस्याः सा युवतिमणिः राधिका मुमुदे । पज्झट्कच्छन्दः ॥४७॥

शब्दमहो तमवाचयद्
अत्रैवश्विमम् एव भवत्यपि चित्रैः ।
प्रश्न वरैर् मिषतस्तदजेया
कृष्ण धियाप्यसि बाढममेया ॥४८॥

वृन्दा आह—द्वाभ्यां । अहो आश्चर्यं श्रीकृष्णः यं शब्दं तां वाचयिष्यति तम् एव शब्दममुं श्रीकृष्णं बवती मिषतः छलेन चित्रैः प्रश्नवरैर् अवाचयत् । तत् तस्मात् सर्वप्रकानेण भवती अजेया । श्रीकृष्णस्य धियापि वाढमतिशयेन अमेया परिमातुम् अशक्या त्वमसि ॥४८॥

इत्येवमुक्त्वा बहु माल्य गन्ध
ताम्बूल दिव्याभरणेन वृन्दा ।
निषेव्य कृष्णं धृत रस तृष्णं
विज्ज्ञाय विज्ज्ञा प्रणुनाव किञ्चित् ॥४९॥

वृन्दा श्रीकृष्णस्य रासे तृष्णां विज्ज्ञाय किञ्चित् प्रणुनाव प्रस्तावमकरोत् । नुस्तौतौ । प्रपूर्वश्चेत् तदा प्रस्तावे वर्तते ॥४९॥

रसिक सिकता तूलाबल्या तथातुल शिल्पिभिर्
व्यरचि रुचिरं चित्रं मित्रात्मजा पुलिनेऽनिलैः ।
तनुतर तरङ्गाल्यस्तुल्य जलस्थलयोर्यथा
स्युरसित सिते कान्ती भ्रान्तीर्जनस्य तदस्यतः ॥५०॥

हे रसिक ! सिकता वालुका एव रुह इति प्रसिद्धास्तूलास्तेषामावल्य श्रेण्या एवमनिलैर् अपि अतुलशिल्पिभिः यमुनापुलिने रुचिरं चित्रं व्यरचि उच्चनीचभावेन तरङ्गाकारचित्रमकारि इत्यर्थष् । तथा यमुनास्थसूक्ष्मतरङ्गश्रेण्योऽपि चित्र-रूपा एव भवन्ति । अत एव जलस्थलयोस्तुल्याकारा एव यथा स्युः । उत्तरवाक्यस्थयत् पदस्य तत् पदापेक्षाभावान्न दोषः । तस्मात् पुलिनयमुनयोरसितसिते शुक्लश्यामे द्वे कान्ती एव जनस्यैक्यभ्रान्तिः अस्यतः दूरीकुरुतः ॥५०॥

किमति वितता कार्पूरीयां सरिन्निज मध्यतो
मृगमद रसामन्यां काञ्चिद्धूनीं दधतीक्ष्यते ।
किममित यशः सौर्यास्तौर्यत्रिकैः स्वगतैर् इदं
त्रिजगदपि संस्ताव्यैवेमां समाश्लिषदादरात् ॥५१॥

यमुनाया उत्तरदक्षिणकूल-द्वय-स्थितं पुलिनमतिशयश्वेतत्वेन कर्पूरसम्बन्धिनदीत्वेन उत्प्रेक्ष्य यमुनां मृगमदरसमयदीत्वेनोत्प्रेक्षते । किम् इति । अतिविस्तृता कर्पूरसम्बन्धिनी इयं सरीत् स्वस्य मधो कस्तूरीरसमयीं अन्यां धुनीं यमुनास्व-रूपां नदीं दधती किं जनैर् ईक्ष्यते । तथा च तादृशपुलिन-रूपां नदीं जनाः पश्यन्तीत्यर्थः । किम्बा इदं पुलिनं सौर्याः सूर्यपुत्र्या यमुनाया अपरिमितयश एव स्वगतं तौर्यत्रिकं राससम्बन्धि नृत्यगीतवाद्यादिकम् एव तैः करणैः त्रिजगत् इमां यमुनां संस्ताव्य स्तवं कारयित्वा समाश्लिषत् आलिङ्गनमकरोत् । तथा च यमुनायाः पुलिन-रूपयश एव आदरात् यमुनामालिङ्ग्य तिष्ठतीत्यर्थः ॥५१॥

एह्येहि कान्ते विलसाम हन्तेत्य्
उपात्त तत् पाणिदलः कलावान् ।
आगत्य मध्ये पुलिनं वितेने
हल्लीशकोल्लासमुदार लीलाः ॥५२॥

वृन्दावचनेन स्मृत्यारूढं रासं चिकीर्षुः श्रीकृष्णः श्रीराधामाह—हन्त हर्षे । उपात्तं गृहीतं तस्या राधायाः पाणिदलं येन सः । मध्येपुलिनं पुलिनस्य मध्ये । हल्लीषकस्य उल्लासं वितेने विस्तारयामास । नारीणां मण्डलीनृत्यं बुधा हल्लीसकं विदुरिति तल्लक्षणम् ॥५२॥

कलयत कलधौत नीरधौतं
व्यधित क एतदहो महोज्ज्वलं नः ।
स्थल मल सदृशो भृशोत्सुकानामिह
बहु रास विलास साधु सिद्ध्यैः ॥५३॥

हे अलसदृशो गोप्यः ! विलासे उत्सुकानां नोऽस्माकं रासविलाससिद्ध्यर्थं कोऽपि जनः कलधौतनीरैः -रूप्यघर्षणैर् उत्पन्नजलैः उज्ज्वलमिदं पुलिन-रूपस्थलं धौतं व्यधित अकार्षीत् इति यूयं कलयत पश्यत । कलधौतं रुप्यहेम्नोर् इत्य् अमरः ॥५३॥

मधुरिम सरसं विधाय शुक्लं
गुणमखिलं विधिरेव वस्त्र पूतम् ।
पुलिनमिदमथाशु तेन सिक्त्वा जगति
कलां प्रभयां चकार किं स्वाम् ॥५४॥

उत्प्रेक्षान्तरमाह—विधाता अखिलजगद्वर्तिशुक्लगुणं चूर्णं कृत्वा माधुर्य-रूपजलेन सरसं विधाय च पश्चात् वस्त्रेण पूतं छानितं च कृत्वा तेन शुक्लगुणेन पुलिनमिदं सिक्त्वा सेचनं कृत्वा किं स्वीयां कलां वैदग्धीं प्रथयाञ्चकार ॥५४॥

सान्द्रस्तु तच् छानित शिष्ट भागः
सक्षेपनिः क्षेपवशादितः किम् ।
खेऽभूत् शशङ्कः कणिका समूहो
नक्षत्र लक्षत्वमवाप राधे ॥५५॥

तस्य छानितगुणस्य सान्द्रो निविडो यो हेय-रूपावशिष्टभागः स एव पुलिनस्य मालिन्याशङ्कया ऊर्धप्रदेशे एव अत्र स्थले हेयभागं मा त्यज । पुलिनं मलिनं भविष्यतीत्याक्षेपसहितनिःक्षेपवशात् एव आकाशे चन्द्रेऽभूत् अवशिष्टभागस्थमलिनांशः कलङ्कोऽभूत् निःक्षेपसमये तस्मान्निःसृतोः यः कणिकासमूहः स तु नक्षत्राणां लक्षत्वं लक्षसङ्ख्याविशिष्तत्वमवाप ॥५५॥

इति वर्णयन्तमनुरागिणी गणाः
समया विधाय निज कान्तमग्रतः ।
इतरेतरात भुजवल्लि मण्डलीं रचनाति
शोभमवतस्थिरे क्षणम् ॥५६॥

इति वर्णयन्तं निजकान्तं गोपीगणाः समया विधाय मध्ये कृत्वा इतरेतरमात्ता गृहीता भुजवल्ली यत्र तद्यथा स्यात् एवं मण्डलीरचनया शोभा यत्र तद्यथा स्यात् तथा क्षणमवतस्थिरे ॥५६॥

किमनङ्ग कीर्ति रस पूरिते सरस्युदितं
महद्विकचमेकमद्भुतम् ।
कनकाम्बुजं मधुर नील कर्णिकं
विबुधाङ्गनाक्षि मधुपावलि स्तुतम् ॥५७॥

इदानीं पुलिनं कन्दर्पस्य यशो-रूपजलपूर्णसरेवरत्वेनोत्प्रेक्ष्य गोपीमण्डलीं च तादृशसरोवरोत्पन्नस्वर्ण-कमलत्वेन श्रीकृष्णं च तादृशकमलस्य नीलकर्णिकारत्वेनोत्प्र्क्ष्यते । कन्दर्पस्य कीर्ति-रूपजलपूरिते सरसि महत् अनन्तदलविशिष्टं विकसितमेकं स्वर्ण-कमलमुदितं कथम्भूतं श्रीकृष्ण-रूपनीलकर्णिका यत्र । पुनः कथम्भूतं देवाङ्गनानां नेत्रान्येव भ्रमरश्रेण्यः तैः स्तुतं ॥५७॥

किं वा धरण्यैव धृतं निजालिके
महोत्सवे चन्दन चन्द्र चर्चिते ।
कस्तूरिकाचा तमाल कं काश्मीर
चित्रावलि वेष्टितं बभौ ॥५८॥

अधुना तु पुलिनं पृथिव्याश्चन्दनयुक्तललाटत्वेन उत्प्रेक्षस्य श्रीकृष्णं च तादृशललाटस्थ मण्डलाकर कस्तुरिकातिलकत्वेन गोपीमण्डलीं च तादृशतिलकस्य चतुर्दिक्षु केशरनिर्मितचित्रत्वेनोत्प्रेक्षते । कस्मिंश्चिन्महोत्सवे पृथिव्या स्त्रिया चन्दनकर्पूरचर्चिते पुलिन-रूपनिजललाटे धृतं कस्तूरिकयाश्चारुतमालपत्रकं तिलकं किं बभौ ? कथम्भूतं गोपी-रूपकेसरचित्राविलिभिर्वेष्टितम् ॥५८॥

काणक्योऽमूरम्भाः शम्भाः
कार्पूरेऽस्मिन्नव्ये भव्ये ।
वप्रे सप्रेमैवावब्रुः किं
तापिञ्छं पिञ्छोत्तंसम् ॥५९॥

पुनः पुलिनं कर्पूरकेदारत्वेनोत्प्रेक्ष्य गोपीमण्डलीं च तादृशकेदारोत्पन्न कदलीत्वेन कृष्णं चा तादृशकदलीमण्डलमध्य-स्थिततमालवृक्षत्वेनोत्प्रेक्षते । अस्मिन्कर्पूरमये वप्रे केयारीतिप्रसिद्धकेदारे कथम्भूते नव्ये स्तव्ये । पुनश् च कथम्भूते भव्ये मङ्गल-रूपे । तस्मिनुत्पन्ना अमूः गोप्य एव कानक्यो रम्भाः कनकमयः कदल्यः कथम्भूताः शम्भाः मङ्गलयुक्ता अस्त्यर्थे भ प्रत्ययः । तथा-भूताः कदल्यः किं सप्रेम यथा स्यात् तथा श्रीकृष्ण-रूपतापिञ्छं तमालमावव्रुः ॥५९॥

शारद्या किं सौर ज्वाला
बल्याश्लिष्टं त्यक्त्वाकाशम् ।
हैमे देशे स्निग्धाम्भोदो
विद्युन्माला मध्ये रेजे ॥६०॥

पुनश् च पुलिनं हिमकलामयत्वेन श्रीकृष्णं मेघत्वेन गोपीमण्डलीं च विद्युन्मालाव्तेन च्योत्प्रेक्षयते । शारद्या शरत् काओत्पन्नया सूर्युअसम्बन्धीकिरणश्रेण्या युक्त अत एव तप्तमाकाशं त्यक्त्वा पुलिन-रूपहैमं हिमसम्बन्धिनि देशे किं स्निग्धमेगो विद्युम्मालामध्ये रेजे ॥६०॥

षड्ज स्वरेणाथ चतुः श्रुति
स्पृशारोहावरोहौ गतकैर् विभूषयन् ।
केदार रागं रसिकेन्द्र शेखरस्
तेनेति तेनेति यदा ललाप सः ॥६१॥

रसिकेन्रशेखरः श्रीकृष्णः अष्तादशश्रुतीनां मध्ये चतुःश्रुतीः स्पृशतीति चतुःश्रुति स्पृक् तेन षड्जस्वरेण तेन तेन इति अनुकरणशब्देन यदा केदाररागमाललाप किं कुर्वन्स्वरस्यारोहावरोहौ गमकैः करणैर् भूषयन् ॥६१॥

तदमित माधुरी सुरसतीः सपतीर् अपि खे
व्यधित विमानगा विवशयन्त्यतनु ज्वरिताः ।
अभजतह् दर्पकः सललनोऽपि तदीय
महा मदन शर प्रहा विधुरो बहु मोहमहो ॥६२॥

तस्य श्रीकृष्णस्यापरिमितमाधुरीकर्त्री सपतीः पत्या वर्तमाना विमानगताः सुरसतीर्देवाङ्गनाः विवशयन्ती कन्दर्पज्वरविशिष्टा व्यधित अकार्षीत् । ललनया रत्यासह वर्तमानः कन्दर्पः प्राकृतकन्दर्पः श्रीकृष्णस्याप्राकृतमहाकन्दर्पस्य शरप्रहारेण विधुरो दुःखितः सन्महामोहमभजत ॥६२॥

अथ ललितादि कण्ठ मिलनात् किल गान धुरां
नटनम् अपि प्रति प्रियतमा द्वय मध्यगतः ।
विनिहित तद्तदंस भुज स्व जवेन यदारभत
विधातुम् अद्भुत विलास कला सकला जलधिः ॥६३॥

अथानन्तरं प्रतिप्रियतमेति द्वै द्वै प्रियतमयोर्मध्यगतः श्रीकृष्णः विनिहिता अर्पिता रासां रासां स्कन्धदेशे भुजा येन तथा-भूतः सन्ललितादिकण्ठस्वरमिलनाद्धेतोर्गानातिशयम् एवं नृत्यम् अपि विधातुं कर्तुं यदारभत तर्हि तद इव वाद्याद्यधिष्ठातृ देवताः स्वस्वक्रियाश्चक्रुरिति प्रश्लोकेनान्वयः ॥६३॥

वादित्र राग स्वर मूर्च्छना श्रुति
ग्राम क्रिया हस्तक ताल देवताः ।
स्वस्वक्रियाश्चक्रुरुदित्य सम्भ्रमान्
मूर्ताः प्रतीता इव तर्हि संहताः ॥६४॥

क्रिया गानशास्त्रे प्रसिद्धा वाद्यादीनामवान्तरक्रिया । तेषामधिष्ठातृ देवताः अलक्षिताः सत्यः उदित्य उदयं कृत्वा स्वस्ववाद्यादिक्रियाश्चक्रुः ॥६४॥

कच्छपिकाभिस्तत्र मृदङ्गेष्वनुपदमुदयति नव नव निनदे
नृत्य गतीः क्वाप्यश्रुत दृष्टा विदधति सह युवतिभिरघमथने ।
थै तथ थैय ता तथ थैया दृमिकि दृमिकि तृकि तृकि तृकि तृकि था
इत्थमुदीयस्ताल तरङ्गा मधुर वदन सरसिज कुल कलिताः ॥६५॥

कच्छपिकाभिर्वीणाभिः सह मृदङ्गेषु अनुपदं प्रतिक्षणं नवनवशब्दे उदयति सती अघमथने श्रीकृष्णे अश्रुतदृष्टा नृत्यगतीः युवतीभिः सह विदधति कुर्वति सति । थै तथ तैया इत्य्-आदितालतरङ्गाः तालवोधकोद्घटनशब्दाः मधुरवदनकमलसमूहैः कलिता उत्पन्नाः उदीयुः उदयं प्राप्नुयुः ॥६५॥

कङ्कण किङ्किण्याद्यलि वाद्यै झणद्
इति झणदिति मधुरिम लहरीम् ।
काञ्चन भेजुः काञ्चन वल्ल्यः
किमुदित शुचिरस मृदुल सुमनसः ॥६६॥

इदानीं गोपीश्रेणीं स्वर्ण-वल्लीत्वेनोत्प्रेक्ष्य तासां कङ्कणकिङ्किण्यादि ध्वनिं भ्रमरझारत्वेन मनांसि च पुष्पत्वेनोत्प्रेक्षते । गोपी-रूपाः काञ्चणवल्ल्यः कङ्कणकिङ्किण्यादिऋऊपा अलय एव वाद्याः वाद्याश्रयोऽपि वाद्यपदेनोच्यते । चतुर्विधमिदं वाद्यम् इत्यमरोक्तेः । तथा च तादृशालिवाद्यैर् जातं झणदिति काञ्चनमधुरिमलहरीं किं भेजुः । कथम्भूताः तत्कालोत्पन्नशृङ्गाररस-रूपजलेन मृदुलालिशोभनमनांस्येव सुमनांसि पुष्पाणि यासां ताः ॥६६॥

किं सुषमाब्धेरेत्य विरेजुः स्मर
कृत मथन रभस भर जनिताः ।
लक्ष्म्य इमाः स्वां कीर्तिमचैषुर्
विधि जगदविदित नटन पटिमभिः ॥६७॥

उतप्रेक्ष्यान्तरमाह—शोभासमुद्रस्य कन्दर्पकृतमथनवेगातिशयेन जनिताः इमा गोपी-रूपा लक्ष्म्यः अत्रागत्य कि विरेजुः ? विधिनिर्मित जगद्वर्तिजनैर् अज्ज्ञातनृत्यचातुर्यैः करणैः स्वां कीर्थिं अचैषुः चयनं कृतवत्यः ॥६७॥

न विद्युदभ्रै कनकेन्द्र रत्नैर्
न वा न वा चम्पक नील पङ्कजैः ।
रसैस्तु काश्मीर मदाञ्चितैः सा
मालैव रेजे स्मर जप्य माला ॥६८॥

अधुना श्रीकृष्णघटितगोपीश्रेणीं केसरमृगमदलिप्तरसमयगोलिकानिर्मितजपमालात्वेनोत्प्रेक्षते । सा गोपीश्रेणी-रूप माला विद्युन्मेघैर् निमिता न भवति । न वा सर्णेन्द्रनीलरत्ननिर्मिता भवति । न वा चम्पकनीलकमलैर् निर्मिता भवति किन्तु काश्मीरमृगमदाभ्यामञ्जितैर् लिप्तैः शृङ्गारर सैनिर्मिता कन्दर्पस्य जप्यमाल सती रेजे ॥६८॥

हस्तक शस्त पदर्थ विभेद
ख्यापन ताल गतिक्रम नाट्यात् ।
ये परिरम्भ कुचग्रह चुम्बास्
तेन ततः पृथग् आसन रासात् ॥६९॥

रासाङ्गैर् अपि सम्भोगाङ्गान्यपि सिद्धन्तीत्याह—ये आलिङ्गनकुचग्रहणचुम्बास्ते रासात् पृथक् न आसत । रासात् कथम्भूतात् हस्तकेनाभिनयविषयीक्र्ता ये प्रशस्तचन्द्रकमलादिपदार्थप्रभेदास्तेषां ख्यापनम् एवं तालगतीनां क्रमेण नाट्यं च यत्र तस्मात् ॥६९॥

त्वद्वदनं सदनं लवनिम्नां
तत्र च हन्त दृगन्त विलासाः ।
तेष्वसमां सुषमामुपजग्मुः
सुन्दरि कामकलाः सकलास्ताः ॥७०॥

श्रीकृष्णः आह—हे सुन्दरि ! त्वद्वदनं लावण्यगृहं तत्र वदने कटाक्षविलासाः सन्ति । हन्त हर्षे । तेषु दृग् अन्तविलासेषु ताः सकलाः कामकला अनुपमां शोभामुपजग्मुः प्रापुः ॥७०॥

कान्ते त्वदास्योदय दत्तमिन्दुर्
मृगच्छलद्दुर्यश एव धत्ते ।
जनोपहासासहनोऽथ वा किं
द्विजोऽपि मूढो गरलं जघास ॥७१॥

हे कान्ते ! त्वन्मुखोदयेन दत्तं दुर्यश एव चन्द्रः मृगच्छालात् धत्ते । कुष्ठी जनो यथा स्वगात्रस्थं श्वित्रं क्षतादिचिह्नख्यापनेन आच्छादयति तथा चन्द्रोऽपि स्व-स्थितं दुर्यशः मृगचिह्नख्यापनेनाच्छादयतीत्यर्थः । अथवा जनानामुपहासेनासहनोऽशिष्णुः सन्मरणाकाङ्क्षया द्विजश्चन्द्रः पक्षे ब्राह्मणोऽपि भूत्वा गरलं जघास वुभुजे । ब्राह्मणस्य विषभक्षणमत्यन्तनिषिद्धं तदपि कृतं अमृतमयत्वेन मरणं च न भविष्यत्येतादृशज्ज्ञानाभावात् मूढः ॥७१॥

इत्यघदमनोऽगायत् कान्तां तां सरिगमपैः
साम्यति चतुरा गीतैस्तैस्तैस्किमु न जगौ ।
तत्र तु यदभूत् सम्बुद्ध्यन्तं तद्पदमनया
गीयत रभसादन्त न्यस्ताद्य स्वर सुरसम् ॥७२॥

इति अनेन प्रकारेण कृष्ण कान्तामगायत् । सापि कान्तापि सरिगमपैः ष्ड्जर्षभः गान्धारमध्यमपञ्चमैः स्वरैः कान्तेन गीतैस्तैस्तैः पदैश् च तं कान्तम् एव किं न जगौ यतोऽतिचतुरा । चातुर्यम् एवाह—सुन्दरि इति कान्ते इति यत् स्म्बुद्ध्यन्तं पदं श्रीकृष्णेन गीतं तदेवान्ते न्यस्तेनाद्यस्वरेणाकारेण सुरसं सत् अनया रभसात् वेगात् अगीयत । सुन्दरि इत्यत्र सुन्दर, कान्ते इत्यत्र कान्त इति । पक्षे सम्यक् वुद्ध्रन्तः अवधिर्यत्र तत्पदम् । अन्ते न्यस्तेनाद्यस्वरेण षड्जेन स्वरेण सुरसं कृत्वा अगीयत ॥७२॥

मण्डल रचनां तासामस्यन्नाह स कुतुकी
नृत्यति महिला एकैकश्येनाद्भुतमधुना ।
ओमिति ललिता तास्वादौ सा व्यन्जित पटिमा
धिद्धी द्रां द्रां द्रां कुटु तृकिथेत्युद्भटमनटत् ॥७३॥

स कुतुकी कृष्णः तासां मण्डलरचनामस्यन्दूरीकुर्वन्सनाह—हे महिलाः सुन्दरीस्त्रियः अधुना एकैकशो भावः एकैकश्यमेकैकत्वेनेतियावत् । तथा च एकैकत्वसङ्ख्यया विशिष्टा यूयं नृत्यत । विशेषणे तृतीया । तासु मध्ये आदौ ललिता उमिति स्वीकृत्य व्यञ्जितं व्यक्तीकृतं नृत्ये चातुर्यं यया तथा-भूता सती धिद्धीत्यादितालवोधकानुकरणशब्दं प्रकाश्य उद्भटं यथा स्यात् तथा अनटत् ॥७३॥

इत्थं विशाखादि सखीततेः क्रमात्
पृथक् पृथङ्नाट्यकला विदग्धताम् ।
आस्वादयन्मूर्ध्न विधूननैर् मुहुः
कान्तः सकान्तः सफलीचकार ताम् ॥७४॥

इत्थं अनेन प्रकारेण विशाखादिसखीश्रेण्याः पृथक्पृथक् नाट्यकलाविदग्धीं कान्तया सह वर्तमानः श्रीकृष्णः मस्तकविधुननैः करणै मुहुरास्वादयन्तां वैदग्धीं सफलीचकार ॥७४॥

ताः सभ्यत्वं दधुरथ निखिलाः
सख्यः काश्चिज् जगुरति मधुरम् ।
तत्रानद्ध ध्वनि धृत रभसौ
राधा-कृष्णौ ननृततुरतुलम् ॥७५॥

अथ सखीनां नृत्यानन्तरं मृदङ्गध्वनिना धृतो रभसो वेगो याभ्यां तथा-भूतौ राधा-कृष्णौ अतुलं यथा स्यात् ननृतुः । ताः सख्यस्तु सभ्यत्वं नृत्यास्वादनकर्त्रीत्वं दधुः । तसां मध्ये काश्चित् सख्यो जगुः ॥७५॥

तत्ता धिद्धी तति कट घृघि तत्
तत् तधिद्धी ततिकट घृघि तत् ।
इत्यन्वास्याम्बुज युगमनटन्वर्णाः
कर्णामृत सम मधुरः ॥७६॥

तत् ता धिद्धीत्यादि तालवोधकवर्णाः अन्वास्याम्बुजयुगं आस्यकमलयुगे आनटन्कथम्भूताः कर्णानाममृतसममधुराः ॥७६॥

परस्परोपत्त कराब्जयोस्तयोर्
भुजोद्धति द्योतित रत्न भूषयोः ।
ताटङ्क तारल्य धुरोररी कृत ज्योत्स्ना
मुखेन्दू स्नपयन्त्य आवभुह् ॥७७॥

परस्परं गृहीतं कराव्जं याभ्यां तथा-भूतयो राधा-कृष्णयोः कथम्भूतयोः भूजकम्पनेन द्योतितानि कान्त्युच्छलनेन प्रकाशितानि हस्तस्थरत्नभूषणानि ययोस्तयोः मुखचन्द्रो कर्मनृत्यसमये ताटङ्कानां कुण्डलानां चाञ्चल्यातिशयेन उररीकृताः स्वईकृताः ज्योत्स्नाः कर्त्र्यः स्नपयन्त्यः सत्यः आवभुः ॥७७॥

मिथो हस्तालम्बार्पित तनुभरो तौ तथा वेगनुन्नौ
जुघूर्णति येन स्मर घटकृतो रत्न चक्रैक रुप्यम् ।
तदागतां वेणी-द्वयम् अपि तयोः पृष्ठ सङ्गं विहाय
भ्रमन्नील श्रीमत् परिधि वरतां तद्बहिः प्राप्य रेजे ॥७८॥

अधुना परस्परं हस्तावलम्बं कृत्वा भ्रमणकौशलेन तयोश्चक्राकृतिनृत्यमाह—परस्परहन्तावलम्बे अर्पितभावो याभ्यां तथा-भूतौ राधा-कृष्णौ वेगेन नुन्मौ प्रेरितौ सन्तौ तथा जुघूर्णाते भ्रमणं चक्रतूः । येन भ्रमणेन कन्दर्प-रूपघटकृतः कुम्भकारस्य पीतनीलरत्नमयचक्रैक-रूपामगातां प्रापुः । तदा तादृशभ्रमणसमये तयोर्वेणी-द्वयम् अपि भ्रमत् सत् पृष्ठसङ्गं बिहाय नीलशोभायुक्तपरिधिवरतां मण्डलश्रेष्ठतां बहिः प्राप्य रेजे ॥७८॥

ततस्तालोपान्तं समयमनु तावङ्गुलिग्रन्थिमुक्तौ
पृथङ्नाना भेदं सममनटतां दुर्ग मार्गाधिरोहम् ।
समाप्तौ तु प्रेष्ठोरसि हरिरधाद्दक्षिणं पाणिपद्मं
स्वरामेनैतेन स्पृशदिव कुचं वारितं तत् तयापि ॥७९॥

तद्-अनन्तरं चक्रभ्रमिनृत्यजनकभूततालस्योपान्तं ताल समाप्त्यव्यवहितपूर्वसमीप समयमनुलक्षीकृत्य तौ राधा-कृष्णौ अङ्गुलिग्रन्थितो मुक्तौ पृथक् नृत्यानां नानाभेदं यथास्यात् समं एकदैव दुर्गमार्गस्याधिरोहो यत्र तद्यथा स्यात् तथा अनटतां । तालसमाप्ति समये तु श्रीराधिकाया उरसि वक्षःस्थले दक्षिनं पाणिपद्मं अधात् दधार । तस्मिन्समये तया राधायापि वामेन एतेन पानीपद्मेन स्वकुचं स्पृशदिव तत् कृष्णस्य पाणिपद्मं बारितम् । तथा च परस्परं सम्मुखतया नृत्यसमये यदा श्रीकृष्णः तलसपाप्तिमिषेण लक्षिणहस्तेन कुचं स्पृशति तदैव तयापि तालसपाप्तिमिषेण पाणिपद्मं बारितम् इत्यर्थः ॥७९॥

काचित् तदा वीजयति स्म भूष
व्यत्यासमस्यत्यपरा लिलेप ।
श्री खण्ड कर्पूररसैस्तदङ्गान्य्
एकास्ययोरर्पयति स्म वीटिम् ॥८०॥

तदा नृत्यसमाप्त्यनन्तरं काचित् सखी तौ वीजयति स्म । काचित् अङ्गदहारादि भूषाणां व्यस्ततां अस्यतो दूरीकुर्वतो चन्दन कर्पूररसैस्तयोरङ्गानि लिलेप । एका तयोरास्ययोवीटीः अर्पयति स्म ॥८०॥

लिहन्त्वर्वाचीना निजरसनया रासं कथं तं हठान्
न गीर्यत्रेशाना सफलितदृशां तात्कालिकानाम् अपि ।
प्रभुस्तं प्रेमा चेत् कम् अपि चतुरं स्वाधारमाख्यापयेत्
तदीयैर् माधुर्यैर् अपहृतधिया तेनापि वर्ण्यो न सः ॥८१॥

अधुना प्रेमभक्तिं विना रासवर्णनं न सम्भवेद् इत्य् आह—अर्वाचीना आधुनिका जनाः स्वरसनया तं रासं कथं हठात् लिहन्तु वर्णयन्तु इति यावत् ।

तात्कालिकानां श्रीकृष्णस्य प्रकटलीलालोत्पन्नानां, अत एव तादृशलीलादर्शनेन सफलितदृशां गीर्वचनं यत्र रासवर्णने न ईशाना न समर्था । प्रेमा यदि कृपया प्रभुर्भवति, तदा स्वाश्रयीभूतं कम् अपि चतुरं जनं तं रासमाख्यापयेत् व्याख्यातुं वक्तुं प्रेरयेत् । तथा च प्रेमभक्तिं विना रासवर्ण्नं न भवेदिति भावः । तदीयैः राससम्बन्धिभिर्माधुर्यैर् प्रेमवैवश्येन अपहृता धीर्यस्य तेन जातप्रेम्णा जनेनापि स रासो वर्ण्यो न भवति ॥८१॥

किन्तु शक्तिरतुला कृपा तयोः
सा स्वयं शुकमुखेन्दुना जगत् ।
द्योतयन्त्यलमवैक्षयद्दिशं
धाम विन्दति तयैव सेक्षणः ॥८२॥

किन्तु तयोः राधा-कृष्णयोरतुला कृपाशक्तिः शुकदेवस्य मुख-रूपचन्द्रेण जगत् अलमतिशयेन द्योतयन्ती सती यदि दिशमेकदेशमैक्षयत् दिग्दर्शनं कारयामासेत्यर्थः, तदा तयैव दिशा सेक्षणः ईक्षणेन ज्ज्ञानेन सह वर्तमानो जनः धाम रासस्व-रूपं विन्दति प्राप्नोति ॥८२॥

इति श्री-कृष्ण-भावनामृते महा-काव्ये

रास-लीलास्वादनो नाम

ऊनविंशः सर्गः

॥१९॥

—ओ)०(ओ—

(२०)