१८

अष्टादशः सर्गः

प्रादोषिक-विलासास्वादनो नाम

अधिधरमधिपस्यानन्दसिन्धोरघारेर्
मुख रुचिकणमेकं गोपुराग्र स्थितस्य ।
स्वमनुमुकुरमच्छं बिम्बितं वीक्ष्य लोका
विधुरयमुदगाद् इत्युद्ययुर्वर्णयन्तः ॥१॥

इदानीं रात्रौ उदितं चन्द्रं श्रीकृष्णमुखकान्तिकणत्वेन उत्प्रेक्षते—अधिधरम् इति । अघारेरेकं मुखरुचिकणं निर्मलं मुकुरतुल्यं मुखमनुलक्ष्यीकृत्य बिम्बितं वीक्ष्य एतादृशविशेषानुसन्धानं विना मुग्धा लोका विधुरयमुद्गादिति हेतोः अधिधरं धरायां वर्णयितुम् उद्ययुः उद्यमं चक्रुः । कथम्भूतस्य आनन्दसिन्धोरधिपस्य आनन्दसमुद्रराजस्य ॥१॥

तदवकलन जातापत्रपां पद्मिनीनां ततिम्
अथ बलभीस्थां वीक्ष्य वस्त्रावृतास्याम् ।
समकुचदहह स्वैः पद्मिनीत्वाभिमानैः
सरसि च जलजाली तर्हि मूढेति शङ्के ॥२॥

तस्मिन्नेवं समये चन्द्रोदयं वीक्ष्य जातं कमलानां मुद्रणं श्रीकृष्णकर्तृकदर्शनाधीनलज्जयोत्पन्नगोपीमुखाच्छादनदर्शनहेतुकत्वेन उत्प्रेक्षते—तदवकलनेति । तदवलोकनेन अघारिकर्तृकावलोकनेन जातापत्रपां वलभीस्थां पद्मिनीनां ततिं वस्त्रावृतमुखां वीक्ष्य अहह खेदे सरसि च जलजाली कमलश्रेणी । श्लेषेण जडोत्पन्नश्रेणीयम् अपि पद्मिन्य इति स्वीयैः पद्मिनीत्वाभिमानैः समकुचत् इति हेतोर्जलजाली मूढा इति अहं शङ्के यतो व्रजसुन्दरीभिः सह तासां वृथैव स्पर्धेति भावः ॥२॥

मुदितवति चकोर स्तोम एकत्र शस्तैर्
उदितवति परत्रामङ्गलैश्चक्र सङ्घे ।
धृतमुदि कुमुदान्तर्मुच्यमानेऽलिवृन्दे
मलिन नलिन मध्ये बध्यमाने च तस्मिन् ॥३॥

प्रदोषसमये दिनरात्रिकलयोः राज्ज्ञोरधिकारनिश्चयेन जातं प्रजानां सुखं दुःखं च वर्णयति त्रिभिः । एकत्र प्रदेशे शस्तैश्चन्द्रोदय-रूपमङ्गलैः चकोर स्तोमे मुदितवति सति । एवमपरत्र प्रदेशे चन्द्रोदय-रूपैर् अमङ्गलै चक्रवाकसमूहैर् उदितवति सति । रुदिरश्रुविमोचने । एवं कुमुदान्तःसकाशात् मुच्यमाने अलिवृन्दे धृतमुदि जातानन्दे सति । तस्मिन्नेवालीवृन्दे मुदितकमलमध्ये बध्यमाने च सति तेषां दुःखम् ॥३॥

तमसि विपिनमाप्ते सादने दीप दूने
विशति सदन राजीं वैपिने पुष्पगन्धे ।
वरतनु हृदगारे धैर् य लज्जे प्रविश्य
द्यति समुदित दर्पे दर्पके सर्पकेलौ ॥४॥

सादने सदनसम्बन्धिनि तमसि अन्धकारे वनं विशति सति कथम्भूते दीपालोकेन दूने । गृहे स्थितस्य दुर्जनदत्तदुःखेन इव वैर् आग्यवशात् वनवासो जायत इति रीतिः । एवं वैपिने विपिनसम्बन्धिनि रात्रिविकाशिनः पुष्पस्य गन्धे सदनराजीं गृहश्रेणीं प्रविशति सति । तथा च तेषां वैर् आग्यलोपात् वनवासं बिहाय गृहवासो जातेति भावः । रात्रिसमये समुदितो दर्पो यस्य अत एव सर्पकलौ दर्पके कन्दर्पे गोपीनां हृदयागारे प्रविश्य धैर् यलज्जेद्यति खण्डयति सति ॥४॥

इति बत दिन रात्र्योर्निश्चिते नाधिकारे
विगलित कुलजाति ज्ज्ञान धर्मे तदा यः ।
व्रजभुवि बलितोऽभूत् स प्रदोषो व्यरंसीत्
किमु भवति चिरस्थ तामसी कापि सम्पत् ॥५॥

इति दिनरात्र्योरधिकारनिश्चयाभावेन कुलजातिज्ज्ञानधर्मे विगलति सति पक्षे कुलजानां अतिज्ज्ञाने धर्मे च विगलति सति तदा व्रजभुवि यः प्रदोषो वलितोऽभूत् स वलितप्रदोषो व्यरंसीत् विरतोऽभूत् । प्रदोषस्य वलितत्व-रूपोत्कर्षस्य नाश-रूपांशे अर्थान्तरन्यासम् आह—तामसी तमोगुणजन्या । पक्षे तमःसम्बन्धिनी ॥५॥

अपि गुरुपुर मध्ये दृक् कबाटावरुद्ध
स्व तनु कनक वेश्माभ्यन्तर स्वान्त तल्पे ।
प्रियतममधिवेश्यारीरमद्या तदा तां
सुखयितुम् अथ राधामागतेन्दुप्रभोचे ॥६॥

इदानीं श्रीकृष्णस्य गोष्ठागमनसमये पथि प्रियतमं दृष्ट्वा आनन्दमूर्छादाशा मध्ये एव स्फूर्तिप्राप्तेन श्रीकृष्नेन सह रममाणां श्रीराधां प्रति तत्रागत्य इन्दुप्रभा आह—गुरुपुर मध्य्द्ऽपि मुदितनेत्रत्वेन दृक्कवाटावरुद्धस्वतनु-रूपकनकगृहस्याभ्यन्तरे स्वान्तःकरण-रूपतल्पे या प्रियतममधिवेश्य अरीरमत् तां राधाम् । आगता इन्दुप्रभा ऊचे ॥६॥

विधुर रुचिरसि त्वं यं विना हन्त राधे
विधुर रुचिरभूत् स त्वमृतेऽन्यस्तथापि ।
भवति हृदय हारी स त्रिलोक्यास्तवहो
भवति हृदयहारी भूततां लब्धमुत्कः ॥७॥

हे राधे ! यं विना त्वं विधुररुचिः खण्डितकान्तिरभूत् स विधुः श्रीकृष्नः त्वां विना अन्यासु अरुचिरभूत् । तत्र शब्दविरोधो व्यङ्ग्यः । यः श्रीकृष्णः त्रिलोक्या हृदयं हर्तुं शीलं यस्य तथा-भूतो भवति । हे भवति ! भो राधे ! सः श्रीकृष्णः तव हृदयस्य हारतुल्यभावं लव्धुमुत्कः । अत्रापि शब्दमात्रविरोधो व्यङ्ग्यः ॥७॥

रचय सखि तदस्योदन्त पीयूष वृष्टिर्
इति रहसि विशाखा प्रार्थ्यमाना तदा सा ।
यदवददिदमालीसंहते रंहसारात्
पपुरजर तृषस्ताः कर्णपाली चकोर्यः ॥८॥

हे सखि ! इन्दुप्रभे ! तत् तस्मादस्य श्रीकृष्णस्तद्वार्ता-रूपपीयूषवृष्टी रचय इति विशाखया प्रार्त्यमाना सा यदवदत् इदमारात् निकटे आलीसंहतेः कर्णपालीचकोर्यः रंहसा वेगात् पपुः । क्थम्भूता अजरा तरुणी तृट् यासां ताः ॥८॥

गिरिधर बलदेवालङ्कृतात्म द्वि पार्श्वो
व्रज धरणी वरेण्य भोजनायोपविष्टः ।
धनपतिरिव शोभामाप नन्दीश्वरान्तः
पुरसदसि निधिभ्यां पद्म शङ्खाभिधाभ्याम् ॥९॥

तद्वृत्तान्तं इन्दुप्रभा आह—श्रीकृष्णवलदेवालङ्कृतात्मद्विशार्श्वः व्रजधरणीवरेण्यो नन्दः । धनपिः कुवेरः नीलपद्मशङ्खनिधिभ्यां यथा शोभामाप । नन्दीश्वरग्रामस्यान्तःपुरसदसि । कुवेरपक्षे नन्दीश्वरस्य महादेवस्य ॥९॥

प्रति रजनि निमन्त्र्यानीयमानैः सपुत्रैर्
हरि वदन चकोरैः सादरैर् आवृतोऽसौ ।
परित उपविशद्भिः प्रेम भूभृद्भिरुच्चैस्
तुहिन गिरिरिवाभान्मूर्त आनन्दपुञ्जः ॥१०॥

व्रजराजस्य उपनन्दादीन्भ्रातॄन्प्रतिरजन्येव स्वस्वगृहे कृष्णं भोजयितुम् उद्यतान्वीक्ष्य व्रजराजस्तानेव श्रीकृष्णं भोजयितुम् उपनन्दादिभिः कृता या या सामग्री तत् सहितान्कृत्वा स्वगृहे निमन्त्र्यानीय श्रीकृष्णस्य वदन-रूपचन्द्रस्य चकोरैः अत एव तस्य दर्शनं विना जीवितुम् असमर्थैः प्रेमपर्वतैस्तैः सह तुहिनगिरिर्हिमालय इव व्रजराज उपविष्टः ॥१०॥

बहुविध मधुरान्न व्यन्जनादीनि तेभ्यो
लघु लघु परिवेश्य द्विस्त्रिरेकैकशः सा ।
सखि बलय नयित्री निर्वृतिं प्राप काञ्चित्
स्वकर कलित पाक श्लाघया तन्मुखेभ्यः ॥११॥

वलजनयत्री रोहिणी तेभ्यो नन्दादिभ्यः एकैकशः एकस्मै एकस्मै लघु द्विः त्रिः यथा स्यात् द्विवारं त्रिवारं प्रिवेश्य तेषां मुखेभ्यः स्वकरकलितपाकश्लाघया काञ्चित् निर्वृतिं प्राप ॥११॥

तनय जनयतीदं पुष्टिमोजश् च भुङ्क्ष्वे
त्यनुपदम् अपि तैस्तैः स्नेह विक्लिन्न चित्तैः ।
अपि निज निज पात्राद्दीयमानं तदाद
प्रणिहित रुचि कृष्णो धेनुकारिश् च कामम् ॥१२॥

हे तनय ! इदं वस्तु पुष्टिं ओजो वलं च जनयति अतो भुङ्क्ष्व इत्युक्त्वा अनुपदं प्रतिक्षणम् अपि तैर् निजपात्रादपि दीयमानं तद्वस्तु कृष्णोबलदेवश् च प्रणिहितरुचि यथास्यात्तथा आद बभुजे ॥१२॥

त्वमयि कियदशानेत्यक्षिभङ्ग्यैव मात्रा
सदसि पितृ पितृव्यैः शश्वदुक्तो गिरापि ।
स सपदि यदभुङ्क्तापूरितेनैव तृप्तिर्
निशि निशि तदिहैषां सग्धिराचार मात्रम् ॥१३॥

अयि हे कृष्ण ! गुरुजनसमक्षे स्पष्टं वक्तुम् असमर्थया मात्रा यशोदया अक्षिभङ्ग्य इव पित्रादिभिर्गिरा स्पष्टमुक्तः श्रीकृष्णः सपदि तत् क्षणे यत् अभुङ्क्त तन इव श्रीकृष्णकर्तृकभोजनेन इव एषां नन्दादीनां तृप्तिरपूरिपूर्णा बभूव । सग्धिः सहभोजनं तु तेषां लोकाचारमात्रं तॄप्तिस्तु श्रीकृष्णक्रर्तृकभोजनेन इव न तु स्वस्वभोजनेनेति ज्ञेयम् ॥१३॥

हरि मुख मकरन्दै दृग्भिरादीयमानैः
कलित नवसपीति प्रीतिमद्बन्धुवृन्दम् ।
अथ निज निज दास्यान्यात्त ताम्बूल वीटी
प्रति निज भवनान्तः संविवेश प्रविश्य ॥१४॥

प्र्तिमद्बन्धुवृन्दं स्वस्वदृष्टि-रूपपरिचारकैर् आदीयमानैः श्रीकृष्णमुखकमलस्य माधुर्य-रूपमकरन्दैः करणैः कलिता कृता नवा सपीतिः सहपानं येन तथा-भूतम् । अथ भोजनानन्तरं मुखानि निरनिजत् जलेन शोधायामास । तद्-अनन्तरमात्ता गृहिता ताम्बूलवीटीर्येन तथा-भूतम्सत् निजनिजभवनान्तः प्रविश्य संविवेश सुष्वाप ॥१४॥

अधि बलभिवलक्षे सक्षाणं पुष्पतल्पे
रहसि स हसितास्यैर् आवृतः स्वैर् वयस्यैः ।
यदवददवसाद प्रस्तुतौ ते स्तुवानो
मधुरिम गरिमाणं श्रुयतां तच् च राधे ॥१५॥

हे राधे ! अधिवलभिः वलभ्यां वलक्षे धवले पुष्पतल्पे सक्षणं सोत्सवं यथास्यात्तथा हास्ययुक्तमुखैर् वयस्यैर् आवृतः सन्ते तव विरहजन्यावसादप्रस्तुतौ यत् अवोचत् तत् श्रूयताम् । कथम्भूतः तव माधुर्यस्य गरिमाणं स्तुवानः ॥१५॥

सरसमनुगवीनस्यापराह्ने भवद्भिः
सममसम महिम्नोऽप्यञ्जसा गच्छतो याः ।
मम धृतिततिमद्यन्नद्य गोष्ठप्रदेशे
कथय सुबल ता मां मोहयित्र्यो रुचः काः ॥१६॥

अपराह्ने भवद्भिः सह अनुगवीनस्य गवां पश्चाद्वर्तमानस्य असममहिम्नोऽपि मम धृतिततिं या रुचः अद्य अद्यन्खण्डितवत्यः । हे सुवल ! मां मोहयित्र्यस्ता रुचः काः कुत्रताः ॥१६॥

अहह मधुरिमाब्धेः किं सुधा मथ्यमानात्
किमिति ललित विद्युद्वीचयो वस्त्र पूताः ।
किमु परिमल नीवृन्मूर्ति संराज्य लक्ष्म्यः
किमतनु विशिखानां राशयश्चम्पकानाम् ॥१७॥

ता रुचः किं मथ्यमानात् माधुर्य-समुद्रादुत्पन्नाः सुधा-रूपाः ? वस्त्रेण पूताः छानिता इति लोके प्रसिद्धाः अत एवातिललितविध्युद्वीचयः । किंवा परिमलस्य नीवृत् देश-रूपा मूर्तिमत्यः साम्राज्यशोभाः ॥१७॥

तदुपरि घुसृणाक्तां किं सरोजं प्रफुल्लं
शुचि जलधि जनिर्वा क्षोभनः कश्चनेन्दुः ।
मणिमय मदिराभ्यां तस्य चाङ्के नटद्भ्यां
मम दृग् उपसरन्त्येवादिता पुच्छघातैः ॥१८॥

तस्या रुचः उपरि मुखस्थानीयं कुङ्कुमाक्तं किं सरोजं प्रफुल्लम् । किम्बा शुचिः शृङ्गाररसः स एव जलधिस्तदुत्पन्नश्चन्द्र एव कन्दर्पजन्यक्षोभजनकः । तस्य चन्द्रस्य अङ्के नटद्भ्यां मणिमदिराभ्यां खञ्जनाभ्यां स्वस्य कटाक्ष-रूपपुच्चाघातैः तन्निकटे उपसरन्ती मम दृक् अर्दिता ॥१८॥

किमिदमहह वस्त्वित्यूढ सम्भ्रान्ति मूढे
तदनुभव लवस्यापंशमारब्ध कामे ।
मयि घन जलदाल्येवावृतं सद्य एव
व्रतति ततिषु लीनं प्राभवं तन्न लेढुम् ॥१९॥

इदमद्भूतं वस्तु किमिति प्राप्तसम्भ्रान्त्या मूढे मयि तादृशवस्तुनोऽनुभवलवस्याप्यंशमारव्धुकामे सति सद्यस्तत्क्षण एव अतिशयोक्त्या नीलशाटीस्थानीय या निविडमेघश्रेण्या इवावृतं वल्लीश्रेणीषु लीनं तद्वस्तु लेढुमास्वादयितुम् अहं न प्राभवम् ॥१९॥

सपदि नयन युग्मोद्दिष्ट वर्त्मा तदागान्
मम हृदय बटन्तन्मार्गणार्थं समर्थः ।
न पुनरयमिदानीं यत् परावर्तते तद्
वनभुवि कुसुमेषो बन्धमापेति बुध्ये ॥२०॥

मम नयनयुग्मेन उद्दिष्टवर्त्मा मम हृदय-रूपभटस्तद्वस्तुम् आर्गणार्थमगात् । यद्यस्मात् पुनरिदानीम् अपि न परावर्तते तत् तस्मात् मम हृदयभटः वनभुवि कन्दर्पस्य बन्धमाप इति अहं बुध्ये ॥२०॥

अघहर भवत यालोक्यते श्लाघ्य-रूपा
तदवधि धुत धैर् या सापि राधाधिधारा ।
विविध दवथुपात्री स्वाः सखी रोदयित्री
विलुठति गलदक्ष्णोर्धारया धौत गात्री ॥२१॥

तद्-अनन्तरं श्रीकृष्णं प्रति सुवल आह !—हे अघहर ! भवता श्लाघ्य-रूपा या राधा अलोक्यत तदवधि आधिधारा आध्र्मनःपीडाया धारा-रूपा सा राधा विविधपीडापात्री सती विलुठति ॥२१॥

अयमयमयते त्वां तन्वि धिन्वन्मुकुन्दो
रसनिधिरथ स क्व क्वेति संलापशेषे ।
प्रथमरजनिजातं ध्वान्तमालक्षयन्ती
शमयति रुजमस्या व्रीडयाथावृताङ्ग्याः ॥२२॥

तस्या वैक्लव्य आलक्ष्य सखीनां यत् सन्त्वनवाक्यं तत् सुबल आह—अयमयं श्रीकृष्णः धिन्वन्सुखयितुं त्वामयते प्राप्तेति । अथ सखीवाक्यानन्तरं स श्रीकृष्णः क्व क्वेति राधायाः संलापस्य शेषे अन्ते सति प्रथमरजन्युत्पन्नमन्धकारं श्रीकृष्णत्वेन दर्शयन्ती सखी श्रीकृष्णागमनसम्भावनया जाता या लज्जा तया संवृताङ्ग्या अस्या रुजं पीडां शमयति ॥२२॥

इति सुबलवचोभिः कृष्णनेत्राम्बुजाभ्यां
प्रणयिणि पृषता द्राग् आनुपूर्वा निपेतुः ।
हिमकरकरराजिभ्रान्तितो भूक्तपूर्वां
ववमतुरिव मुक्तां मञ्जुचञ्चुचकोरौ ॥२३॥

(विशेषकम्) हे प्रणयिणि राधे! कृष्णनेत्राम्बुजाभ्यां सकाशात् पृषता बिन्दवः । अत्र दृष्टान्तमाह—हिमकरश्चन्द्रस्तस्य किरणराजिभ्रान्त्या चकोरौ भूक्तपूर्वां मुक्तां ववमतुरिव ॥२३॥

परिचरणपरां मां तस्थूषीं तत्र दृष्ट्वा
न्यदिशदयममन्दोत्कण्ठया कुण्ठितास्यः ।
उपसुरतरु राधा भानुपुत्र्यास्तटे माम्
अभिसरतु रसेनेत्याशु तां ब्रूहि गत्वा ॥२४॥

पुनरिन्दुप्रभा आह—व्रजराजस्य दासीत्वेन परिचरणपरां, अत एव तत्र श्रीकृष्णनिकटे तस्थूषीं मां दृष्ट्वा, अयं श्रीकृष्णः न्यदिशत् आज्ज्ञां चकार आज्ज्ञाम् एवाह—भानुपुत्र्या यमुनायास्तटे उपसुरतरु सुरतरोः कल्पवृक्षस्य निकटे रसेन साहजिकानुरागेणाभिसरतु इति तां राधां ब्रूहि ॥२४॥

श्रुतमुरजनिनादः स्वं दिदृक्षून्ससभ्यान्
बहिरुपविशतोऽगात् साम्प्रतं नाट्यरङ्गम् ।
क्षणमथकृततत्तत्तृष्णापूर्तिर्वलभ्यां
शयितुम् अयमुपैष्यत्यम्बया लाल्यमानः ॥२५॥

मद्गमनानन्तरं श्रीकृष्णो यत् करिष्यति तदपि शृणु । स्वस्वगुणं दर्शयितुकामानां बहिः-स्थितानां गायकादीनां श्रीओ मृदङ्गस्य शब्दो येन स श्रीकृष्णो नाट्यरङ्गमुपविशतस्तान्साम्प्रतमगात् प्राप । अथ क्षणं तेषां गानादिश्रवणेन तृष्णापूर्तिं कृत्वा शयितुं वलभ्यामट्टालिकायामुपैष्यति गमिष्यति । यतः पुत्रस्य वनभ्रमणश्रमज्ज्ञानेन व्याकुलया अम्बया लाल्यमानः ॥२५॥

अतुलचतुरिमाणं तं जनालक्ष्यमाणं
गतमिव निजकान्तं विद्धि सौर्यास्तटान्तम् ।
त्वमयि कियदशित्वा स्वान्गुरून्वञ्चयित्वा
द्रुतमभिसर रागाद् इत्युदित्वैव सागात् ॥२६॥

हे राधे ! निजकान्तं यमुनायास्तटान्तं गतमिव विद्धि ॥२६॥

सपदि जटिलया सा भोजनायाह्वयन्त्या
सविधमनुसृतोचे सङ्कुचस्यत्र चेत् त्वम् ।
प्रियम् अपि निज भक्तं तद्गृहीत्वा व्रजेतो
अहसि सह सखीभिः साध्वि साधूपभुङ्क्ष्व ॥२७॥

सपदि तत्क्ष्ण एव भोजनायाह्वयन्त्या जटिलया सविधं निकटमनुसृता प्राप्ता राधा ऊचे । हे राधे ! मन्निकटे भोक्तुं सङ्कुचसि चेत् प्रियं निजभक्तं स्वईयमोदनं गृहीत्वा इतो व्र्ज । सरस्वतीपक्षे निजभक्तं स्वाधीनं प्रियं व्रज ॥२७॥

स्मित मधुर दृग् अढ्यं लेहयन्ती तदालीं
विनयनय महिम्ना धिन्वती तां च राधा ।
वदसि यदिदमार्ये कुर्व इत्येवमुक्त्वा
शयनगृहमगात्तमन्नादि नीत्वा ॥२८॥

सरस्वत्या कृतो योऽर्थस्तस्य स्मरणेन स्मितमध्रदृग् अव्जमालीं सखीं पक्षे अलिं भ्रमरं तदास्वादयन्ती राधा विनयनयमहिम्ना तां च जटीलां धिन्वती सती शयनगृहमगात् ॥२८॥

प्रिय मुख मकरन्दामोद धामौद नादौ
कृत मिलनतया तत् स्वाद्यतामाप तासाम् ।
सुर सरिति गतं चेद्यत्र तत्रत्यमम्भो
जगदघम् अपि भिन्दत् वन्द्यतां याति लोके ॥२९॥

इदानीं चातुर्येण सख्यानीतेन श्रीकृष्णभुक्तावशिष्टान्नादौ जटिलया दत्तान्नेन सह कृतमिलनतया तत् अन्नादि स्वाद्यतामाप । ननु क्थं तन्मिलनेन सर्वेषामन्नानां स्वादु सुगन्धत्वं स्यात् तत्र दृष्टान्तदर्शनेनाह—गङ्गायां यत्र तत्रत्य जलं गतं चेत् जगतामघं भिन्दत् सत् लोके व्न्द्यतां याति ॥२९॥

शृणु सखि गुरवोऽन्तः शेरते साम्प्रतं ते
सदनमनुगवां सोऽप्यस्ति दूरेऽभिमन्युः ।
स्मृति मति धृति लज्जाः शाययित्वा स्व तल्पे
तदभिसर रसेन स्व प्रियं केलि कुञ्जे ॥३०॥

गुरवोऽन्तःपुरे श्रते साम्प्रतम् । अभिमन्युस्तु दूरे गवां सदनमनु सदने अस्ति, अतः स्मृतिधृतिलज्जादिकं बिहायाभिसरेत्य् अर्थः ॥३०॥

अनुपद बलमान प्रेम सन्दर्शिताध्वा
कुसुम शर भटेनैवाभितः पाल्यमाना ।
हृदि पुनरुपगूढोत्कण्ठयाल्या चलन्ती
श्रम लवम् अपि राधे नाध्वनो ज्ज्ञास्यसि त्वम् ॥३१॥

उत्कण्ठया च आल्या हृदि आलिङ्गिता सती चलन्ती त्वमध्वनः श्रमलवम् अपि न ज्ज्ञास्यसि ॥३१॥

यदि जनतति नेत्र श्रोत्रदंशाद्विभेषि
व्रज धवल निचोलेनावृति कृत्य गात्रम् ।
मुखर जगदिव स्वं नूपुरं चानपेक्ष्य
श्रित विचकिल माल्या तारहारा स्मितास्ये ॥३२॥

जनततीनां नेत्रश्रोत्रे एव दंशौ डांस इति प्रसिद्धौ ताभ्यां विभेषि चेत् शुक्लाभिसारोचितश्वेतनिचोलेन स्वगात्रमावृतीकृत्य व्रज । एतेन नेत्रदंशात् आवरणं कृतम् । श्रोत्र-रूपदंशात् आवरणमाह—त्वां निन्दतां मुखरजनानामुपेक्षा यथा कृता तथा मुखरनूपुरस्यापि त्यागेन उपेक्षा कर्तव्येत्य् अर्थः । विचिकिलं रायवेल इति प्रसिद्धश्वेतपुष्पम् ॥३२॥

तव चरण नखेन्दोश्चन्द्रिकैकापि सर्वं
जगदिदमवदातं सख्यलङ्कर्तुम् ईष्टे ।
विधुरविधुरयं तत् पौनरुक्त्यं जगामे
त्यकृत विधिरशुद्धं किं मसी रेखयामुम् ॥३३॥

अलमतिशयेनावदातं श्वेतीकर्तुम् ईष्टे । तस्मात् अयं विधुर्विधुः मलिनचन्द्रः पौनरुक्त्यं जगाम । इति हेतोर्विधातापि अमुं चन्द्रं कलङ्कस्थानीयया मसीरेखया किमशुद्धमकृत ॥३३॥

इति निज सहचर्या दीपित स्मार चर्य्या
निरुपम गुणधुर्या निर्यती गोष्ठपुर्याः ।
अगणित गुरुवाधा काननं प्राप राधा
प्रणय सरिदिवारादूढमाधुर्य धारा ॥३४॥

निरुपमानां गुणानां धुर्या भारबाहिका । गोष्ठपुर्याः सकाशात् निर्यती निर्गच्छती सती राधा आरात् दूरे स्थितं काननं प्राप । कथम्भूता प्रणयस्रिदिव । यत् ऊढा माधुर्याणां धारा यया तथा-भूता ॥३४॥

परिजन निकुरम्बैर् आत्त किञ्चिद्विलम्बैर्
अधिगत गुरुवार्तैः स्वस्वसेवार्थमार्त्तैः ।
त्वरितमनुसरद्भिर्दाक्ष्य चातुर्यवद्भिर्
विपिनभुवि निजेशालम्भि सा मुग्धवेशा ॥३५॥

परिजननिकुरम्बैर् दासीसमूहैः आत्तो गृहीतः किञ्चिद्विलम्बो यै । ननु कथं विलम्बः कृतस्तत्राह—अधिगता गुरूणां वार्तायैस्तथा-भूतदासीवर्गैः सा निजेशा राधा अलम्भि प्राप्ता । मुग्धः सुन्दरः ॥३५॥

यदि पुनरवरोधेऽन्विष्यते सा विरोधे
गुरुभिरुदित रोषैः कर्हिचिद्दृष्ट दोषैः ।
व्रजपति सुत लीला पर्व निर्वाह शीला
विरचित तदुपाया स्यात् तदा योगमाया ॥३६॥

ग्रन्थकर्ता एव कामप्यनुपपत्तिमाशङ्क्य समादधति । यदीति । अवरोधे अन्तःपुरे सा राधिका यदि गुरुभिः अन्विष्यते । अथवा गुरुभिः कर्तृभिस्तया सह विरोधे सति श्रीकृष्णस्य लीलोत्सवनिर्बाहशीला योगमाया एव विरचिततदुपाया स्यात् ॥३६॥

निखिलम् अपि निनादं वंशिका वाद्यम् एव
प्रियकम् अपि पुरस्थं स्वप्रियं भावयन्ती ।
परिमलम् अपि सर्वं तत् प्रतीकौत्थम् एवे
त्यमुमभिमनुते स्म प्राप्तम् एवाध्वनीयम् ॥३७॥

निखिलश्ब्दम् एव वंशिकावाद्यम् एव भावयन्ती प्रियकं कदम्बम् । तस्य प्रतीकोत्थं शरीरोत्थम् । इयं राधिका अध्वनि अमुं श्रीकृष्णं प्राप्तम् एव मनुते ॥३७॥

कलयसि ललिते किं कौतुकं त्वद्भुजङ्गो
भुजमधित बलान्मे वेष्टयन्कण्ठमेषः ।
इति चपलमुदञ्चच् चिल्लिचापा चकम्पे
वरतनुरवलोक्यैवांसगां स्वीय वेणीम् ॥३८॥

पृष्ठ-स्थितां वेणीम् अकस्मात् स्कन्धगतामालक्ष्य ताम् एव श्रीकृष्णस्य हस्त्वेन निश्चित्य ललितां प्रति सप्रणयकोपमाह—त्वद्भुजङ्गः त्वयि विषये कामुकः एष श्रीकृष्णः मे कण्ठं वेष्टयन्वलात् मे भुजमधित दधार । इति चपलं यथास्यात् तथा उदञ्चत् उदयं प्राप्नुवन्भ्रूचापो यस्यास्तथा-भूता ॥३८॥

प्रियसखि परमार्थी माधवः स्यादुदारात्
त्वम् अपि भवसि तस्मै चित्त वित्तादि दत्त्वा ।
कथमहमिह मध्ये वारयित्री द्वयोः स्यां
स्मृतिभव बहु धर्माधर्म विज्ज्ञापि भूत्वा ॥३९॥

ललिता आह—हे राधे ! माधवः परमार्थी परमयाचकः । त्वम् अपि तस्मै कृष्णाय चित्तवित्तादि दत्वा उदारा भवसि । अतः कथं द्वयोर्मध्ये अहं वारयित्री स्याम । तत्रापि स्मृतिशास्तात् भव उत्पत्तिर्ययोस्तथा-भूतयोर्बहुधर्माधर्मयोर्विज्ज्ञापि भूत्वा । पक्षे स्मृतिभवः कन्दर्पः तस्मादुत्पन्नबहुधर्माधर्मविरोधयोर्विज्ज्ञा भूत्वा ॥३९॥

भुवि भवति स एकः कर्ण एवात्र दाता
त्वममलमुखि कर्णौ द्वौ च दत्तावकर्षीः ।
बलिम् अपि किमजैषीर्न त्रिबल्यर्पणैषिण्य्
अतनु शत विराजद्विक्रमेऽस्मिन्नघारौ ॥४०॥

पुनः परिहासान्तरमाह—पृथिव्यां एकः कर्ण एअव दाता प्रसिद्धः त्वं तादृशदातारौ द्वौ कर्णौ कृष्णाय दत्तौ अकार्षीः । एवं वलिम् अपि दातारं किं नाजैषीः अपि तु अजैषीः । यत एक एव वलिस्त्रिविक्रमे दाता अभूत् । त्वन्तु अतनवः महान्तः शतपरिमिता विराजन्तो विक्रमा यस्य तस्मिनघारौ पापनाशकेऽस्मिन्त्रीन्वलिनेव अर्पयितुं दातुम् इच्छसीत्यर्थः । पक्षे कन्दर्पशततोऽपि विराजद्विक्रमो यस्य तस्मिन् ॥४०॥

नयन युगलमेतद्-रूप सात् कृत्य नासे
अपि परिमल सिन्धौ प्रक्षिपन्त्या त्वयास्य ।
व्यरचि सखि वितीर्णा या तयैवैष वेण्या
हरिर् अपि निज बाहु भूतया त्वां सिनोति ॥४१॥

इदानीं परिहासं कृत्वा भ्रमदूरीकरणार्थं यथार्थवृत्तान्तम् अपि परिहासमुद्रयैवाह—नयनेति । एतस्य श्रीकृष्णस्य -रूपसात्कृत्य -रूपाय नयनयुगलं दत्वा त्वया या वेणी वितीर्णा व्यरचि यस्मै दत्ता कृता एष हरिः तां वेणीं स्वीयां मत्वा निजबाहुभूतया सिनोति बध्नाति ॥४१॥

इति पथि हसिता सा तत्रपे तत्र सख्या
प्रसभमुदयमानैस्तर्ष लक्षैर् अजस्रम् ।
विगलितम् अपि धैर् यं धर्तुम् अभ्यस्यमाना
बकुल वनमुपागान्मन्द मन्दं चलन्ती ॥४२॥

इति सख्या हसिता सा तत्रपे हठात् अजस्र उदयमानैस्तृष्णालक्षैर् विगदितम् अपि धैर् यं धर्तुम् अभ्यस्यमाना सतीओ उपागात् । सोपसर्गा दस्यतेर्विकल्पे आत्मनेपदम् ॥४२॥

किमिदमहह तस्याः शिञ्चितं भूषणानां
भ्रममगममहं वा चाटकैर् एव रावैः ।
श्रुतिपथ गतम् एवाक्षोभयन्मां यदैतत्
तदजनि फलितो वा मामको भाग्यशाखी ॥४३॥

अहह आश्चर्ये तस्या राधिकायाः किं भूषणानां शिञ्जितं किम्बा चटकसम्बन्धिशब्दैर् एवासौ राधिकाया भूषणशब्द इति भ्रममगमं प्रेमोन्मादेन रात्रावपि चटकशब्दस्य सम्भावना जातेति भावः । यद्यस्मादेतत् शिञ्जितं श्रुतिपथगतमात्रम् एव मामक्षोभयत् । अत एव तस्या भूषणशब्दएव तस्मात् मदीयो भाग्य-रूपवृक्ष एव वा फलितोऽभूत् ॥४३॥

इति तरुण तमालाश्लिष्ट पृष्ठं मुकुन्दं
मुहुर् अपि विमृशन्तं काचिदादौ विलोक्य ।
प्रमुदित मतिराशु व्याजहाराम्बुजाक्षीं
कलय सुमुखि राधे माधवं तस्थिवांसाम् ॥४४॥

इति राधिकाया आगमनं मृशन्तं तरुणतमालाश्लिष्टपृष्ठं श्रीकृष्णं विलोक्य काचित् सखी राधिकां व्याजहार । तस्थिवांसं स्थितवन्तम् ॥४४॥

अहमिह कतिशो वा नैवमालोकयं तन्
न मम रमण एष स्यादिति स्वान्त मध्ये ।
निरचिनुत कृशाङ्गी तं पुरो वीक्ष्य राधा
द्रुत हृदतनु घूर्णाकीर्ण धीरप्यधीरा ॥४५॥

श्रीराधिका सखीं प्रत्याह—पुर-स्थितं तमालम् एव कृष्णत्वेन अहं कतिवारान्नेवालोकयं तस्मान्न एष मम रमण इति स्वीयान्तःकरणमध्ये निरचिनुत निश्चयं कृतवती सा कृष्णं वीक्ष्य द्रुतहृदपि कन्दर्पघूर्णाकीर्णधीर् अपि ॥४५॥

मम भृशम् अपि मुग्धां यद्दृशं त्वं विशाखे
भ्रमयसि तदिदं ते हास्यमास्तां विदूरे ।
भ्रमयसि न च यद्वा माधवोऽयं तमालः
स्थिर इति तव सत्यैवाभवद्गीर्विदग्धे ॥४६॥

हे विशाखे ! यद्यस्मात् मुग्धां मूढाम् अपि मम दृशं वारं भ्रमयसि तत् तस्मादिदं हे हास्यं दूरे आस्ताम् । किम्बा मां नभ्रमयसि किन्तु यथार्थम् एव वदसि यतः स्थिरतमाल एव माधवशब्देनोक्तः मधैवसन्ते उत्पन्न इति व्युत्पत्तेः ॥४६॥

न हसितमयि किन्तु त्वत् समाश्वासनार्थं
गदितमिदमिहानालोकयन्त्या मया तम् ।
त्वमति चतुरिमाब्धिर्मा भ्रमस्तत्र राधे
भवतु तदपि तुष्ट्यै रोचिरस्य क्षणं ते ॥४७॥

विशाखा आह ! अयि राधे ! इयं हास्यं न भवति किन्तु तं श्रीकृष्णमनालोकयन्त्या मया तव आश्वासनार्थमिदं गदितमुक्तम् । तथापि त्वन्तु अतिचतुरिमाव्धिरतो न अभ्रमः न भ्रमयुक्ता भवसि । तदपि अस्य तमालवृक्षस्य रोचिः कान्तिरेव ते तव क्षणं तुष्ट्ये भवतु ॥४७॥

इति सरसिज मुख्योर्वाचमाचम्य सख्यो
हरिरथ समुदञ्चद्दोः करोपत्त शाखाः ।
पिहित मणि विभूषः कौतुकी तत्र साक्षात्
तरुवर इव तस्थौ त्यक्त पीतोत्तरीयः ॥४८॥

इति सख्योर्विशाखाराधयोर्वाचमाचम्य आसाद्य सम्यक् उदञ्चन्हस्तो येन तथा-भूतो हरिः कराभ्यां गृहीतशाखः । आच्छादितमणिमयभूषणः सन्साक्षात् तरुरिव तस्तौ ॥४८॥

सुरतरुतल तस्तं कृष्णमन्विष्य दूराद्
इह बकुल निकुञ्जे यावदेवानयामः ।
नलिनमुखि तमाल स्कन्ध विन्यस्त हस्ता
धृति लवम् अपि धृत्वा तावदत्रास्व राधे ॥४९॥

सख्यः परिहसन्त्यः श्रीकृष्णम् एव तमालत्वेनोपदिश्य तेन सहेकान्ते मिलनार्थं युक्तिमुत्थापयन्ति । सुरतर्विति । सुरतरुतलात् यावत् कृष्णमन्विष्य वयं अत्रानयामः तावत् तमालस्य स्मन्धे हस्तं न्यस्य अत्र क्ष्णं आस्व तिष्ठ ॥४९॥

इति स ललितमालीवृन्दमुक्त्वा प्रयातं
वरतनुरवलोक्यामन्द कन्दर्प चिन्ता ।
लघु लघु सविधेऽस्यागत्य सा विस्मयाब्धौ
न्यपतदतनु हर्ष क्ष्माधरं चारुरोह ॥५०॥

सखीवृन्दं ततोऽन्यत्र प्रयातम् । तद्-अनन्तरंसा वरतनुर् अपि अमन्दकन्दर्पचिन्तायुक्ता सती तस्य तमालत्वेन निश्चितस्य श्रीकृष्णस्य निकटे आगत्य अहो ! तमालोऽयं साक्षात् श्रीकृष्ण एव इति विस्मयसमुद्रे न्यपतत् । एवं वस्तुस्वभावेन तद्दर्शनजन्योऽतनुर्महान्हर्ष-रूपो यः पर्वतस्तं चारुरोह । एकस्मिन्नेव काले समुद्रपतनपर्वतारोहण-रूपशब्दविरोधो द्रष्टव्यः ॥५०॥

कति न कति तमालालोकिताः सन्त्ययं तु
व्रजपति सुत कान्तीर्हन्त ता एव धत्ते ।
मधुरिमभरम् एवं स्थावरेष्वप्यपारम्
यदसृजदतमेकं नौमि धातारम् एव ॥५१॥

मया आलोकिताः कति तमाला न सन्ति अयन्तु तमालः साक्षात् श्रीकृष्णस्य ता एव कान्तीर्धत्ते । तस्मात् य एव विधाता एवं माधुर्यातिशयं स्थावरेष्वप्यसृजत् । तां एकं विधातारम् एवाहं नौमि ॥५१॥

भवतु निकटमेत्य स्वेक्षणे तर्पयामीत्य्
अमित मृदुपगम्यैवाश्रु पूर्णेदं ऊचे ।
निरुपम रुचि जाले त्वं स्तुवे किं तमाल
त्वमयि नहि नगः श्री कृष्ण एवासि साक्षात् ॥५२॥

अपरिमिता मुत् हर्षो यथा स्यात् तथा-भूता सती ऊचे । हे निरुपमरुचिसमूहो यस्य तथा-भूत ! ॥५२॥

तदति दवथु शीर्णां मामिहाश्लिष्य बाढं
निज मधुर मरन्दैः सिञ्च भूमिरूहेन्द्र ।
सुख जलधि तरङ्गैः साधु तैर् एव तावत्
क्षणमतनु दावार्त प्लावयामि स्व चेतः ॥५३॥

यस्मात् साक्षात् श्रीकृष्ण एव त्वं तस्मात् कन्दर्पपीडया शीर्णां मां वाढं अतिशयेनाश्लिष्य निजमधुरमकरन्द-रूपैर् अधरामृतैः सिञ्च । कन्दर्पदवार्तं चेतः अहं प्लावयामि ॥५३॥

इति सपदि निभाल्याप्यस्य गात्राणि मौग्ध्यान्
न च परिचिनुते स्म प्रौढ शुद्धानुराग ।
परिहितम् अपि पीतं तस्य वासो मृगाक्षी
निज तनु रुचि पुञ्जं बिम्बितं मन्यते स्म ॥५४॥

पौढशुद्धानुरागा इति । अनुरागस्य स्वभावोऽयं यत् प्रतिक्षणं कान्तस्याप्राप्तिं सम्भावयति इति भावः ॥५४॥

स चकितमवलोक्यैवाभितः सा यदोद्यन्
निज भुज लतिकाभ्यां तं बलादालिलिङ्ग ।
स्मर मद घन घूर्णः सोऽपि दोर्भ्यां प्रगाढं
प्रति परिरभते स्म प्रेम रत्नाकरस्ताम् ॥५५॥

सखीनामागमनशङ्कया अभितः सचकितमालोक्य सा यदा श्रीकृष्णमालिलिङ्ग । स्मरमदघनघूर्णः स कृष्णोऽपि तां प्रति परिरभते स्म ॥५५॥

तनुयुगमतनुर्यत् कीलितीकृत्य बाणैर्
अति रुचिरममुष्णाच् चित्त रत्नं प्रयत्नैः ।
तदृत इव तमालो माधवोऽभूच् चिरं सा
प्यजनि कनकवल्ली तं बलाद्वेष्टयन्ती ॥५६॥

यस्मात् अतनु कन्दर्पः राधाक्र्ष्णयोस्तनुयुगं वाणैर् विद्धा कीलितीकृत्य एकत्रीकृत्यातिरुचिरं चित्तरत्मं अमुष्णात् अचोरयत् । चोरो हि राज्ज्ञि फुत्काराशङ्कया तं वाणैर् विद्धेव तस्य द्रव्यं गृह्नतीति रीतिः । तस्मात् प्रेमावेशेन जाड्योदयात् श्रीकृष्णः सत्य एव तमाल इवाभूत् सापि जाड्येन कनकवल्ली अजनि ॥५६॥

अथ कथम् अपि कान्ता प्रत्यभिज्ज्ञात कान्ता
धृत रतिरण रङ्गाप्यूढ लज्जा तरङ्गा ।
स्वमतुल सरलत्वं तस्य चातुर्यवत् त्वं
मुहुर् अपि रसयन्ती सिस्मिय कुन्ददन्ती ॥५७॥

नायं तमालः किन्तु मम कान्त एव इति प्रत्यभिज्ज्ञातः कान्तो यया तथा-भूता कान्ता राधा अनन्तरं धृतो रतिरणरङ्गः सम्भोगो यया तथा-भूतापि स्वधर्मवाम्यमकृत्वा प्रत्युत स्वकार्तृकालिङ्गनेन ऊढः प्राप्तो लज्जातरङ्गो यया तथा-भूता । किन्तु स्वीयमतुलसारल्यं श्रीकृष्णस्य च चातुर्यवत्त्वं मुहुरास्वादयन्ती सती सिस्मिये स्मितं चकार ॥५७॥

पौष्पं तुल्यमुपेत्य पुष्पधनुषः साम्राज्य संसिद्धये
यद्यत् प्रारभत प्रिय-द्वयमिदं साक्षात् सरस्वत्यपि ।
आलीनां नयनेभ्य एव चिरम् एवाधीत्य चेद्वर्णये यत्
किञ्चिन्न समापयेत् तदपि सा स्तम्भाश्रु चैस्वर्य भाक् ॥५८॥

राधा-कृष्ण-रूपप्रिय-द्वयं पुष्पशय्यां प्राप्य कन्दर्पस्य साम्राज्यसिद्धये यद्यत् प्रारभत साक्षात् सरस्वत्यपि सखीनां नयनेभ्य एव सकाशात् इदं चिरम् एवाधीत्य यत् किञ्चित् वर्णयेत् चेत् तदपि वर्णनं न समापयेत् न समाप्तं वभूब यतो वर्णनारम्भत एवानन्देन स्तम्भाश्रुगद्गद्स्वरभाक् सा भवति ॥५८॥

इति श्री-कृष्ण-भावनामृते महा-काव्ये

प्रादोषिक-विलासास्वादनो नाम

अष्टादशः सर्गः

॥१८॥

—ओ)०(ओ—

(१९)