सप्तदशः सर्गः
सायन्तन-लीलास्वादनो नाम
द्वौ भवन्तौ विधुरतुलयत् पद्मिनी नित्य बन्धु
कृष्णस्तत्रावनिमय मयात् पाण्डुरं खं लघिष्टः ।
धातैवाप प्रथितमधिकं किन्तु मौढ्यं स एकः
को वा हैमं गणयति सुधीः सर्षपार्द्धेन सार्धम् ॥१॥
श्रीकृष्णस्य गोष्ठप्रवेशसमये स्वर्गाङ्गनानां परस्परोक्तिम् आह—द्वाविति । मन्दाक्रान्ता छन्दः । श्रीकृष्णसूर्यस्व-रूपौ द्वौ भास्वन्तौ पद्मिनीनित्यबन्धुस्व-रूपसमधर्मं दृष्ट्वा विधिरतुलयत् । पाण्डरः श्वेतः सूर्यः आकाशमयात् यतो लघिष्ठः । अत्र तोलने स एको धाता एव विस्तृतमधिकमाप । तत्र हेतुः को वेति ॥१॥
उद्यन्नक्तन्दिवम् अपि जगल् लोचनानन्द धारा
निर्माणार्थं स्थिरचरततेः प्रेम धर्म प्रकाशी ।
माधुर्याब्धिर्मृदुल किरणो गो परार्द्ध प्रचारी
हारो लोकान्तर सुतमसमानभ्र विभ्रजित श्रीः ॥२॥
विधातुर्मौढ्ये तयोर्वैधर्म्य-रूपहेतुम् आह—लोचनानामानन्दधारानिर्माणार्थं नक्तन्दिनं व्याप्य उद्यन् । सूर्यस्तु लोचनमात्रप्रकाशार्थं दिनमात्रं व्याप्य उद्यन् । स्थिरवरेति । सूर्यस्तु मनुष्यस्यैव वर्णाश्रमधर्मप्रकाशी । मृदुलेति । स तु चण्डकिरणः । सूर्यस्तु गोसहस्रप्रचारी । किरणपरोऽपि गोशब्दः । अत एव सहस्रगुरिति तस्य सञ्ज्ज्ञा । लोकानां जनानां अन्तःकरणस्य सूक्ष्मभूतानां वासना-रूपाणाम् अपि तमसां हारी । सूर्यस्तु लोकानां बाह्यतमोमात्रहारी । अभ्रस्येव अभ्रादपि वा विभ्राजिता श्रीर्यस्य । सूर्यस्तु अभ्रेण विगतभ्राजिता आच्छादिता शोभा यस्य ॥२॥
कष्टाम्भोधेः परमतरणीर्भीरुहृच्चक्रवाक
-द्वन्द्वस्यारात् करवितरणेनावनेर्भाग्यराशिः ।
मित्रश्चित्रातुलगुणखनिः किं गवाधीश्वराशा
पूर्त्यै गच्छन्हतभगदृशो हा जिहासत्ययं नः ॥३॥
सूर्यस्तु भीरुहृत् विरहभययुक्तं हृदयं यस्य तस्य चक्रवाक-द्वन्द्वस्य किरणदानेन कष्टसमुद्रस्य नाममात्रेणैव तरणिः, न तु परमतरणिः । यतो रात्रिगतविरहदुःखस्य नाशसामर्थ्यात्, स तु भीरूणां स्त्रीणां हृत्स्थस्य चक्रेत्यतिशयोक्त्या स्तन-द्वयस्य हस्तदानेन कष्टसमुद्रस्य परमनौका-रूपः । गवाधीश्वरयोर्नन्दयशोदयोर्वाञ्छापूर्त्यै गच्छन्नयं कृष्णः हतभगदृशो नोऽस्मान्किं जिहासति? पक्षे, गवाधीश्वरो वरुणस्तदाशायास्तद्दिशः पालनाय । गोशब्दोऽत्र पक्षे जलवाची ॥३॥
इत्थं स्वःस्त्रीजन कलकलैर् लाघवं स्वं
विवस्वान्मेने श्रोत्रामृतमिव कृती यत् तदाशानुगामी ।
मूढाऽमंस्तात्मनि वरुण दिङ्नागरी सौभगं स्यन्
मन्ये तेनाप्रकटयदिदं हन्त मिथ्यानुरागम् ॥४॥
इत्थं स्वर्गस्त्रीणां कलकलशब्दैर् जातं स्वीयं लाघवं कृती सूर्यः श्रोत्रेन्द्रियस्यामृतमिव मेने । तत्र हेतुर्यद्यस्मात् तस्मिन्श्रीकृष्णे या आशा अभिलाषस्तदनुगामी । स्वर्गाङ्गनोक्तस्य गवाधिश्वराशापूर्त्यैः इति शब्दस्य पश्चिमदिक्पालनायेत्यर्थं मत्वा पश्चिमदिक्स्व-रूपा नागरी मूढा प्रकृतार्थमजानती कृष्णस्यागमनसम्भावनया आत्मनि यत् सौभगममन्यत तेन इव हेतुना अन्तःकरणस्य मिथ्यानुरागमप्रकटयत् । अत एव सन्ध्याकाले पश्चिमदिशि रक्तवर्णं दृश्यते ॥४॥
कृष्णोऽगच्छद्यदनु विशिख हर्म्यग्र स्त्रीजनेऽ
श्रुस्तिम्यत् पुष्पाञ्जलिकिरि दरोदञ्चयन्लोचनान्तम् ।
स्वः सुन्दर्यः पुलकित नवोऽमंसत स्व स्वभाग्यं
तेन स्थाने क्वचन सुदृशां मुग्धता दोग्धि मुदम् ॥५॥
हर्म्यगतस्त्रीजने श्रीकृष्णोपरि अश्रुस्तिम्यत् पुष्पाञ्जलिकिरि सति । पुष्पाञ्जलीन्किरतीति पुष्पाञ्जलिकिः क्विवन्तं तस्मिन् । सजलपुष्पस्पर्शेन श्रीकृष्णः लोचनान्तमीषदूर्धमञ्चयननुविशिखं गलीतिप्रसिद्धायां प्रतिविशिखायां यदगच्छत् तेनैवास्मान्पश्यतीति मत्वा स्वर्गस्थसुन्दर्यः स्वभाग्यममंसत । इदं स्थाने युक्तम् एव यतः सुदृशां क्वचन विषये मुग्धता अज्ज्ञानम् अपि आनन्दं दोग्धि ॥५॥
याते पित्रोर्नयनपदवीं तत्पुरान्तःप्रविष्टे
तद्वात्सल्यामृतजलनिधौ मज्जति श्रीमुकुन्दे ।
तं ज्ज्ञात्वाक्ष्णोरविषयमभूद्भानुरङ्गारतुल्यास्
तत्प्राप्त्यर्थं किमनु लवणाम्बोधिमासीन्मिमङ्क्षुः ॥६॥
पित्रोरन्तःपुरं प्रविष्टे श्रीकृष्णे वात्सल्यसमुद्रे मज्जति सति सूर्यास्तं नेत्रयोरविषयं मत्वा अनुरागेणाङ्गारतुल्यः सन्, पुनस्तत्प्राप्त्यर्थं लवणसमुद्रं मिमङ्क्षुर्मग्नेच्छुरासीत् ॥६॥
तद्विश्लेषज्वरशमलवेऽप्यक्षमा यर्ह्यभूवन्
गान्धर्वाया विसकिसलयोशीरचन्द्राम्बुजाद्याः ।
काप्यागत्य व्यधित ललितादेशतस्तर्हि तस्यास्
तद्वृत्तान्तामृतरसपृशत्सेचनं कर्णरन्ध्रे ॥७॥
श्रीकृष्णस्य विश्लेषज्वरशान्तिलवेऽपि यर्हि एते अक्षमा अभूवन्, तदानीम् एव नन्दीश्वरात् कापि आगत्य ललितानिदेशेन राधायाः कर्णरन्ध्रे श्रीकृष्णस्य वृत्तान्तामृतबिन्दुसेचनं व्यधित ॥७॥
सञ्ज्ज्ञां लब्ध्वा हरिणनयना सम्भ्रमादुत्थितोचे
तप्ताश्रान्तं श्रवन मरुभूरालि धन्य ममाभूत् ।
अस्यां स्वप्नेऽन्वभवमधुनापूर्व पीयूष वृष्टिं
धिन्वत्येषा तदिह सखि मां शीतलीवो भवीति ॥८॥
हे आलि ! अश्रान्तं निरन्तरं तप्ता मम श्रवण-रूपा मरुभूमिः धन्या अभूत् । अस्यां मरुभुवि अधुना स्वप्ने अपूर्वामृतवृष्टिमहमन्वभवम् । एषा मरुभूमिः मां धिन्वती सती स्वयं शीतलीवोभवीति अतिशयेन पुनःपुनर्भवति ॥८॥
आयातेयं सुमुखि तुलसी मञ्जरी गोष्ठराज्ज्ञ्या
गेहात् सख्युस्तव यदवदद्वृत्तमस्मादजागः ।
इत्युक्त्वाल्या वद पुनरपीत्यम्बुजाक्ष्यादिदेश
प्रेयः सायन्तन गुणकथां प्राह मध्ये सभं सा ॥९॥
तव सख्युः श्रीकृष्नस्य यद्वृत्तान्तमवदत् तस्मादेव त्वम्वद इत्य्-आदिदेश सा तुलसीमञ्जरी मध्ये सभं सभाया मध्ये ॥९॥
तातस्याक्ष्णोः पदमुपययावादितो गोपुराग्रे
कृष्णो दोर्भ्यां पुलकित तनोरुद्गृहीतोऽथ सद्यः ।
निस्पन्दस्योरसि चिरमयं भ्राजते स्म स्थिराङ्गः
कैलासान्तः सरसि विकशन्नीलपद्मं यथैकम् ॥१०॥
कैलाशस्थानियो नन्दः सरोवरस्थानीयं वक्षः ॥१०॥
उष्णीषाग्रं दर विघट्यन्नश्रुभिः सिच्यमानं
शीर्षं जिघ्रन्पिहितमकरोदास्यमस्य व्रजेश ।
मन्ये चन्द्रं विमल शरदम्भोद आवृत्य तस्य
ज्योत्स्न जालैः स्व मलमकरोदात्म तापापुनुत्यै ॥११॥
वक्षःस्थल-स्थितस्य श्रीकृष्णस्य उष्णीषाग्रमीषद्विघटयन्शीर्षं जिघ्रन्व्रजेशः मस्तकघ्राणसमये स्वमुखेन श्रीकृष्णस्य मुखं पिहितं आच्छादितमकरोत् । अत्रोत्प्रेक्षामाह—जलाभावेन सूर्यातपतप्तः शरत्कालीन्श्वेतमेघः चन्द्रस्य ज्योत्स्नाजालैः स्वीयतापदुरीकरणाय चन्द्रमावृत्य स्वमलमकरोदिति अहं मन्ये ॥११॥
यान्ती गेहादजिरमजिराद्गेहमायान्त्यथ या
शुष्यद्वक्त्रानयदति रुजैवान्तिमं याममह्नः ।
सा गोष्ठेशा तरणि तनये नेत्रयुग्मात् कुचाभ्यां
जह्नोः कन्ये असृजदिव तं प्रेक्ष्य सूनुं समीपे ॥१२॥
सा यशोदा श्रीकृष्णस्य विरहेण गेहात् अजिरं यान्ती अजिरात् गेहं यान्ती सति अतिरुजा अतिकष्टेन इव दिवसस्यान्तिमं याममनयत् । सा समीपे श्रीकृष्णं प्रेक्ष्य नेत्र-द्वयात् तरणितनये द्वे यमुने असृजत् । एवं स्तनाभ्यां जह्नोः कन्ये द्वे गङ्गे असृजत् ॥१२॥
नाङ्के कर्तुं बलित जडिमा सन्नकण्ठी न वार्तां
प्रष्टुं नापीक्षितुम् अपि यदि प्राभवत् साश्रुपूर्ण ।
दीपावल्या कलित ललितारात्रिकं राम मातैवास्याः
क्रोढे कर धृतमुपवेशयत् तर्हि कृष्णम् ॥१३॥
सा यदि अङ्के करणवार्ता प्रश्नदर्शनादिकं कर्तुम् इत्य्-आदिषु न प्राभवत् तदा कलितं रोहिण्या कृतमारात्रिकं यस्य तं श्रीकृष्णं करे धृत्वा रोहिण्येवास्या यशोदाया अङ्के उपावेशयत् ॥१३॥
किं वात्सल्यामृत जलनिधिं जन्मभूमिं विधुस्ताम्
अध्यास्ताहो किमु निज खनिं प्रेम माणिक्य राजः ।
किं कस्तुरी द्रव चित तनोः स्नेह पीयूष पुत्र्याः
कुक्षेर्भूषा हरिमणिरभादर्पितः साधु धात्रा ॥१४॥
विधुः कृष्णः चन्द्रश् च वात्सल्यामृतसमुद्र-रूपजन्मभूमिं किं अध्यास्त । किम्बा स्नेह-रूपपीयूषस्य श्यामवर्णकस्तूरीद्रेवेण युक्ता या पुत्तलीतिख्याता पुत्री तस्याः कुक्षेः विधात्रा अर्पितः भूषा-रूपहरिमणिः अभात् ॥१४॥
यावन्मामाकलय जननीत्यक्षिधारां स्वहस्ते
नोन्मृज्यास्याः स मुदमतनोन्नीति हंसी तडागः ।
गो धूलीनां तातमधि तनु क्षालयद्भिः पयोभिः
स्तन्यैर् एव व्यरचि रुचिरं लालनं तस्य तावत् ॥१५॥
हे जननि ! मामाकलय इत्युक्त्वा मातुरक्षि धारां स्वहस्तेन अस्याः मातुः स श्रीकृष्णः यावत् मुदमतनोत् । तस्यैतदुचितम् एव यतो नीति-रूपहंस्यास्तडागस्व-रूपः । तावत् लालनं कर्तुम् असमर्थाया यशोदायास्तन्यैर् एव स्वे पयोभिर्लालनं व्यरचि । कथम्भूतैः गोधूलीनां ततिमधितनु तनौ क्षालयद्भिः ॥१५॥
आनन्दोर्मिष्वनुप रमणीष्वप्यमुं चेतयन्ती
कृत्ये प्रवर्त्तयदभिमते यर्हि वात्सल्य लक्ष्मीः ।
तर्ह्येवासौ स्व तनय तनुं पाणिनामृज्य दासीर्
अस्याभ्यङ्ग स्वपन लपनोन्मार्जनादौ न्ययुङ्क्त ॥१६॥
आनन्दोर्मिषु अनुपरमणीषु उपरामाभावं प्राप्तासु अनिवृत्तासु सतीस्वित्यर्थः । यदा वात्सल्यलक्ष्मीः अमू यशोदां चेतयन्ती सती वात्सल्योचितकृत्ये प्रावर्तयत् तदा असौ यशोदाः, दासीः अस्य अभ्यङ्गादौ न्ययुङ्क्त ॥१६॥
वत्स स्वच्छ प्रणय सदने वर्तते या निषण्णा
मन्ये नास्यां तव दर दयाप्युद्भवेदाकुलायाम् ।
यातस्तात स्व कुल कमल त्वं वनं यत् स्मृतेर्
अप्येनां सङ्गे न हत जननी मानयस्ये कदापि ॥१७॥
हे स्वच्छप्रणय ! हे वत्स ! गृहे निषण्णा या माता वर्तते तस्याम् । हे स्वकुल कमल ! वनं यातस्तं स्वसङ्गे नेतुम् उचितां हतजननीं स्मृतेर् अपि न आनयसि ॥१७॥
अह्नि प्राप्तेऽप्युपरममिहात्यन्त दैर् घ्येऽपि जात
त्वं नायासि स्व गृहमदराम्रेडितोऽपि स्व पित्रा ।
क्षामो व्यामोहयसि यदमून्क्षुत् पिपासासहः
स्वद्रष्ट्वन्बन्धुंस्तदलमसुभिर्मातुरेतेः कठोरैः ॥१८॥
अत्यन्तदैर् घ्येऽपि अह्नि उपरमं प्राप्तेऽपि त्वं पित्रा आम्रेडितो द्विस्त्रीरुक्तोऽपि गृहं नायासि । यतस्त्वं क्षुत्पिपासासहः अतः क्षामः कृशः सन्बन्धून्मोऽयसि ॥१८॥
अम्बावेहि त्वमति चटुलं प्लावितं खेलनाब्धौ
बालालीभिर्मम सवयसं स्वं च न स्मर्तुम् ईशम् ।
शिष्टोऽस्म्येको न यदिममितोऽवारयिष्यं तदायं
नैष्यत् सम्प्रत्यपि गृहमिति प्राह राज्ज्ञीं बटुः सः ॥१९॥
मधुमङ्गल आह—अम्ब ! त्वमवेहि । वालकानां पक्षे स्त्रीणां श्रेणीभिः खेलनाव्धौ प्लावितं मम सवयसमात्मानं स्मर्तुं न ईशं समर्थं किं पुनस्त्वामत एवं-भूतं इमं शिष्टोऽहं यदि इतः खेलनात् न अवारयिष्यं तदा अयं सम्प्रत्यपि सन्ध्याकालेऽपि गृहं न ऐष्यत् ॥१९
तथ्यं ब्रुषे कथम् अपि न मे मन्यमाना निषेधं
बाला एव प्रखर नखराः प्रत्यहं बाहु युद्धे ।
नीलाम्भजादपि मृदु बलादङ्कयन्त्यस्य गात्रं
तत् किं कुर्वे चपल तनये नात्र कोऽप्यस्त्युपायः ॥२०॥
सरस्वती पक्षे वाला स्त्रीयः । नीलकमलादपि मृदु गात्रम् ॥२०॥
इत्थं तत्संलपितम् अपि तत्राहमाकर्णयन्ती
कृत्यं तात्कालिकमकरवं यत् तयादिष्टमिष्टम् ।
रोहिण्यागादथ रसवतीं पौर्णमासी किलिम्बा
धात्री गार्ग्यादिभिर् अपि सहालालयत् सा स्वसूनुम् ॥२१॥
इत्थमनेन प्रकारेण तस्य यशोदायाः संलपितमाकर्णयन्ती अहं यशोदया आदिष्टं कृष्णस्य तात्कालिकं तैलाभ्यङ्गादिकृत्यमकरवम् । धात्री मुखरा ॥२१॥
स्नातः पीताम्बरभृदलिकप्रान्तसन्नद्धकेशः
कॢप्तां चर्चां मलयजरसैर् वैजयन्तीं च बिभ्रत् ।
काञ्चीहाराङ्गदवलयवान्कौस्तुभी नूपुराढ्यस्
ताटङ्कश्रीरमलतिलकस्तर्हि कृष्णो व्यराजीत् ॥२२॥
न व्याख्यातम् ।
सार्धं मित्रैः सपदि विहितस्नानभूषानुलेपं
रामं कृष्णं बटुम् अपि सुखेनोपवेश्य व्रजेशा ।
आदाविष्टं सुरभिशिशिरं पानकं पाययित्वा
नानाभेदं त्रिविधमथ सा भोजयामास भक्ष्यम् ॥२३॥
न व्याख्यातम् ।
एतद्वोऽतिप्रियमिति यदा सीधुकेल्यादि तेभ्यो
युष्मत्पक्कं बटकपटलं पञ्चभेदं ददौ सा ।
सस्नौ पञ्चेन्द्रियम् अपि तदैवासु तेषां प्रमोदैस्
तत्सौरभ्यम्रदिमसुरसाख्यान-रूपामृताब्धौ ॥२४॥
एतद्बटकं वो युष्माकमतिप्रियम् इत्युक्त्वा तदा तेभ्यो ददौ । तदैव तेषां पज्ञेन्द्रियम् अपि कर्तृ सौरभाद्यब्धौ सस्नौ । आख्यानं सीधुकेलिप्रभृतिसञ्ज्ज्ञा ॥२४॥
एतद्गन्धोऽप्यनुभवपथं यस्य भाग्योदयासीत्
तस्मै स्वर्गो जननि किमितो रोचते वापवर्गः ।
धिग् धातरं यदयमुदरं नैव चक्रे विभुं मे
ये मा देहीत्यभिदधति तान्सागसोऽत्र ब्रवीमि ॥२५॥
हे जननि ! तस्मै किं स्वर्गो रोच्यतेऽपि तु न । यद्यस्मादयं धाता मे उदरं विभुं न चक्रे । ये भोजने असमर्थोऽपि मा देहीत्यभिदधति, तानहं सागसः सापराधान्ब्रवीमि ॥२५॥
इत्थं सग्धिं कलितबटुगीर्व्यावहास्यासमाप्य
प्रक्षाल्यास्यं सुरसखपुराः प्राश्य ताम्बूलवीटीः ।
विश्रम्यैव क्षणमनुमतो मित्रवृन्देन यावद्
दोग्धुं धेनुर्निरगमदसौ तावदत्राहमागाम् ॥२६॥
कलिता श्रुता बटोर्गीर्येन स श्रीकृष्णः परस्परपरिहासवचनं व्यवहारसीतया सग्धिं सहभोजनं समाप्य ॥२६॥
इत्येतस्या मुखविधुवरादञ्चलग्रन्थितश्च
प्राप्तै राधा सहसवयसा प्रेयसस्तैर् अभीष्टैः ।
लीलाफेलामृतरसभरैः श्रावणीरासनीभ्यां
मुद्भ्यां सिक्तानकृत शिशिरान्निम्नगाभ्यामिवासून् ॥२७॥
एतस्यास्तुलस्याः मुखविधुवरात् प्राप्तैः लीलामृतरसैर् एवं तस्याः अञ्चलग्रन्थितश् च प्राप्तैः श्रीकृष्णस्य भुक्तावशिष्टामृतरसभवैश्जाता या श्रवणसम्बन्धिनी मुदेवं रसनासम्बन्धिनी मुत् ताभ्यामसून्प्राणान्सिक्तानकृत । निम्नगाभ्यां नदीभ्यामिव ॥२७॥
निःसृत्यासावथ गुरु पुरादेत्या कासार तीरं
तत्रोद्यानान्तर गत वर क्षौममारुह्य सालिः ।
वक्त्र ज्योत्स्नामधयदपराऽलक्षिता यन्मुरारेस्
तेनाविन्दन्मुदमुदयिनीं चक्षुषीमप्यपाराम् ॥२८॥
कासारतीरं पावनसरोवरतीरं । आटालीति प्रसिद्धं क्षौमम् । अपरैर् अलक्षिता सती श्रीकृष्णस्य यत् वक्त्रज्योत्स्नामधयत् तेन इव चाक्षुषीम् अपि मुदमविन्दत् ॥२८॥
आस्योदञ्चत् कुटिल चिकुराच्छादकोष्णीष राजे
मुक्ता मुक्तादर चलति किं कानकी सूत्रपङ्क्ति ।
किं वा चन्द्रोपरि घन तमो ग्रासकोद्यत् द्युरत्न
द्योते विद्युऌ लसति चपला भावलि प्रोतमूला ॥२९॥
मुखस्य ऊर्धमञ्चन्तः ये कुटिलालकास्तेषामाच्छादकोष्णीषराजे मुक्तया आमुक्त बद्धा तोर्रा इति प्रसिद्धा कनकसम्बन्धिनी सूत्रपङ्क्तिः किमीषच् चलति । किम्बा मुखचन्दोपरि केशस्थानीयघनतमसो ग्रासको यः रक्तोष्णीषस्थानीयोद्यद्द्युरत्नः उदयकालीनसूर्यस्तस्य द्योते प्रकाशे चपला चञ्चला विद्युल् लसति । कथम्भूता भावल्या मुक्तास्थानीयनक्षत्रश्रेण्या प्रोतं मूलं यस्याः सा ॥२९॥
धर्म ध्वान्तं व्रज कुलभुवां भिन्दती स्वैर् मयूखैर्
एते गण्ड-द्वयमनुचले कुण्डले नाघशत्रोः ।
अग्रे स्थातुं तरणियुगलं नेशम् एवाननेन्दोः
पार्श्व -द्वन्द्वं भजति नटनैः प्रीणनार्थं यदस्य ॥३०॥
कुण्डद-द्वयचाञ्चल्यं वर्णयति श्लोकाभ्यां । व्र्जसुन्दरीणां धर्म-रूपान्धकारं भिन्दती चञ्चले कुण्डले न भवतः गण्ड-द्वयमनु गण्ड-द्वये । मुखचन्द्रस्याग्रे स्थातुं नेशं न समर्थं सूर्ययुगलमस्य चन्द्रस्य नटनैः प्रीणनार्थं यद्यस्मात् पार्श्व-द्वन्द्वं भजति तस्मात् कुण्डले न भवत इति पूर्वेणान्वयः ॥३०॥
कन्दर्पो यत् स्व मकरयुगं कर्णबद्ध व्याधान्नो
विध्यन्नस्येक्षणशित शरैर् बाढमेकाग्र चित्तः ।
तत्रोत्तंस स्तुवदलिघटा झङ्कृति त्रस्तमेतद्
अयत्नान्मौग्ध्यादपसृतिकृते हन्त किं वा विधत्ते ॥३१॥
स्वस्य बाहन-रूपं मकरयुगं कन्दर्पः श्रीकृष्णस्य कर्णनद्धं व्यधात् । किमर्थं नद्धं तत्राह—नोऽस्मान्कृष्णस्येक्षण-रूपशितशरैर् विद्धन्वेद्धुम् । तस्मात् वेधने स्वस्यैकाग्रचित्तार्थं बाहनस्य बन्धनं ज्ञेयम् ॥३१॥
स्वच्छं स्निग्धं नयन युगलं प्राप ये हन्त कान्ते
ते तारे सम्भृतमदभरे चञ्चले द्राग् अभूताम् ।
ताभ्यां ये वा जनिषत सुतास्ते जनान्तः पुरेभ्यः
कृष्ट्वा कृष्ट्वा धृति कुलवधूर्दूषयन्ते कटाक्षाः ॥३२॥
श्रीकृष्णस्य नयनयुगलं ये तारा स्व-रूपे द्वेकान्ते प्राप ते तारे सम्भृतमदभरे अत एव चञ्चले अभूतां ताभ्यां ताराभ्यां ये कटाक्षाद्याश्चञ्चलाः सुता अजनिषत ते जनान्तःपुरेभ्य धृतिकुलवधूः कृष्ट्वा कृष्ट्वा दूषयन्ते ॥३२॥
सर्वाशोद्यत् तरसि दृशि यद्दस्यवोऽनङ्ग नद्यां
हर्षोत्सुक्या धृति मदमुखाः सन्ति सञ्चारिणोऽमी ।
तारा नाम्नीं हरिमणिमयीं नावमाश्रित्य लोलां
तद्रामाणां नयन वणिजां लुण्ठनायेति विद्मः ॥३३॥
पुनश्चकृष्णस्य दृशं कन्दर्पनदीत्वेन वर्णयति— कन्दर्पस्य नदी-रूपायां दृशि । हर्षाद्याः सञ्चारिभाव-रूपा दस्यवो यत् सन्ति । पक्षे सर्वत्र सञ्चारिणः । दृशि कथम्भूतायां सर्वासु आशासु उद्यन्तरोवेगो यस्याः । तस्मात् तारानाम्नीं नावमाश्रित्य व्रजसुन्दरीणां नयन-रूपवणिजां लुण्ठनाय विद्मः ॥३३॥
नैतन्मन्द स्मितमुदयते शोण बिम्बाधरौष्ठात्
बन्धूकाभ्यां जगदलिकृते च्योतिते नो मरन्दः ।
लक्ष्यीभूते मम सखि दृशौ वैद्रुम स्मारयन्त्रोन्
मुक्तं पश्य प्रविशति बलात् किन्तु कार्पूरनीलम् ॥३४॥
जगद्-रूपभ्रमरनिमित्ते बन्धुकाभ्यां मकरन्दो न च्योतते । किन्तु विद्रुमनिर्मितकन्दर्पयन्त्रात् मुक्तं कर्पूरसम्बन्धिजलं लक्ष्यीभूते मम दृशौ वलात् प्रविशति ॥३४॥
निर्वर्ण्यैवं प्रिय मुखविधुं तं ह्रियेवोर्मि मध्ये
हर्षाम्भोधेः सपदि विशतीं चेतयन्ती विशाखा ।
प्रोचे पश्य प्रिय सखी हरेर्दोह लीलां यदर्थं
सायं श्वश्रु गिरमति कटुं वेत्सि पीयूष कल्पम् ॥३५॥
हर्षसमुद्रस्य उर्मिमध्ये सखीनामग्रे स्पृहाव्यञ्जककान्तमुखवर्णनजातया लज्जया इव विशतीं तां श्रीराधां विशाखा चेतयन्ति प्रोचे । पीयूषकल्पमिति अनुरागस्थायि कार्यम् ॥३५॥
उत्कर्णानां धवलि शबलीत्येवमाहूयते या सा
गौर्हम्वेत्युदित विदितोल्लङ्घ्य सर्वाः समीपम् ।
आयाताश्रु स्तिमित नयन पाणिना मृष्ट पृष्ठा
कण्डुयाभिर्दर गिरिभृत प्रीणितादौ बभूव ॥३६॥
श्रीकृष्णोक्तिश्रवणार्थमुत्कर्णानाम्गवां शवलिधवलीत्येवं कृष्णेन या आहूता हम्बेति शब्देन ज्ज्ञाता सा गौर्दरकण्डूयादिभिरादौ श्रीकृष्णेन पृईणिता बभूव । ईषदर्थे दराव्ययम् इत्य् अमरः ॥३६॥
उद्यत् पाऋष्णिः प्रकट युगलालम्बितष्मोधि जानु
न्यस्तेऽमत्रे सखि मणिमये बिम्बित श्री मुखेन्दुः ।
गो तुन्द स्पृग् दर शिथिलितोष्णीष निर्यन्मदालि
श्रेणि जिष्णु द्युति मदलकस्त्यक्त लास्येक्षनाब्जः ॥३७॥
पादाग्रयुगलेनालम्बिता पृथ्वी येन । अधिजानु जानूपरि न्यस्ते मणिमये अमत्रे पात्रे प्रतिबिम्बतो मुखचन्द्रो यस्य । गोरुदरस्पर्शेन दरशिथिलितो य उष्णीषस्तस्मान्निर्यन्तो मत्तभ्रमरश्रेणीजिष्णवो द्युतिमदलका यस्य ॥३७॥
इष्ट्वा क्षौणीं प्रथम पयसो धारया ताभिरेव
द्वि त्राभिः स्वाङ्गुलि कुलमथोदोन्चलीं चोन्दयित्वा ।
तां तेनैवान्न मदवनमत् पाणिपद्मं दधानो
दोहन्त्यन्तः शन शन शनद्घस्म घस्मेति घोषैः ॥३८॥
प्रथमया धारया क्षौणीमिष्ट्वा पश्चात् द्वित्राभिर्धाराभिः स्वस्याङ्गुलिकुलम् एवमूधोऽञ्चलीं उन्दयित्वा क्लेदयित्वा तेनाङ्गुलिकुलेन उन्नमदवनमत् पानिपद्मं यथा स्यात् तथा तां ऊधोऽञ्चलीं दधानः । ऊधस्तु क्लीवमापीनम् इत्य् अमरः । तदन्तरं दोहनीमध्ये शनशनद्शब्दः पश्चाद्दोहनीपूर्तिसमये घम्मघम्मेति घोषैः ॥३८॥
उद्यत् कर्णाः शशिमुखि परास्तत्र सोत्कण्ठयन्गाः
सद्यः प्रोद्यत् तदमल कणैश्चित्रतस्वोरु जङ्घः ।
ग्रीव भङ्गोदित रुचि गवा तर्णकेनापि सश्रैर् नेत्रैः
पीत द्युति नव सुधो दोग्धिं दुग्ध प्रियस्ते ॥३९॥
तस्या दोहनसमाप्तिसमयज्ज्ञानात् अन्या गाः उत्कण्ठयन्मम दोहनसमयो जात इत्युत्कण्टां कारयन् । दोहनसमये गवा वत्सेनापि ग्रीवाभङ्गोदितरुचि यथास्यात् तथा सास्रैर् नेत्रैः पीता कान्ति-रूपा नवसुधा यस्य तथा-भूतस्ते प्रियः दुग्धं दोग्धि ॥३९॥
मुष्णोपेहि त्वरय नय मे देहि याहीति गावो
नाना वर्णाः परम विषद दुह्यमानश् च गावः ।
तत्रत्या या गिरिधर तनोः श्यामल याश् च गावस्
ता दुष्पार इह परिमिताः किं कवेर्मान्ति गावः ॥४०॥
मुञ्चेत्यादि गोपीनां गावो वाचः नानावर्णाः नानाक्षराः परमविषदा निर्मलाः तथा जनैर् दुह्यमानाः पूर्यमानाः एवं गावोऽपि श्क्लपीतादि नानावर्णाः निर्मला दुह्यमानाश् च एवं तत्र स्थिताया गिरिधरतनोः श्यामला या गावः किरणा याश् च गावस्ताः सर्वा दुष्पारा अपरिमिताः । अत एव इह एतासां वर्णने परिमिताः कवेर्गावः वाचः किं मान्ति ॥४०॥
दुग्ध्वा कृष्णः प्रियसख दृशा सूच्यमानां कदाचित्
राधां याति प्रणयभरतः कर्हिचित् स्वालयाय ।
ग्रीष्मे सायं सरसि रसिकास्तापशान्त्यै कदापीत्य्
एवं लीलामृत जलनिधौ तस्य मज्जन्ति धन्याः ॥४१॥
गोदोहानन्तरं श्रीकृष्णः प्रणयभरतः कदाचित् राधिकां याति कदाचित् स्वगृहे याति । कदापि ग्रीष्मसमये स्नानार्थं पावनसरोवरे याति ॥४१॥
किरणहरि सहस्रं सर्वतो व्याश्नुवानं
व्यधितदिवसभर्तुः खण्डशो यन्विदीर्णान् ।
वियति वियति तस्मिन्नस्तमेतत् पुनस्तैस्
तिमित करिमिरेव ग्रस्यमानं निलिल्ये ॥४२॥
दिवसभर्तुः सूर्यस्य सर्वतो व्याप्नुवान्किरण-रूपसिंहसहस्रं वियति आकाशे यान्तिमिरहस्तिनः विदीर्णान्व्यधित । तस्मिन्सूर्ये अस्तं वियति गच्छति सति एतत् किरण-रूपसिंहसहस्रं करिभिरेव ग्रस्यमानं सत् निलिल्ये । तथा च श्रीकृष्णस्य गोदोहनादि लीलानन्तरं रात्रिर्भूवेति भावः ॥४२॥
इति श्री-कृष्ण-भावनामृते महा-काव्ये
सायन्तन-लीलास्वादनो नाम
सप्तदशः सर्गः
॥१७॥
—ओ)०(ओ—
(१८)