१६

षोडशः सर्गः

आपराह्निक-लीलास्वादनो नाम

अथ प्रेम्णः स्थेमन्यपि समजनि स्थैर् यरहिता
प्रिया प्रेयस्यक्ष्णोरमलकमल-द्वन्द्वमहसोः ।
तटात् स्वस्यावासात् प्रवसति विदूरे दवथवो
बलादाक्रम्यास्या हृदयनगरीं भेत्तुम् अविशन् ॥१॥

प्रेम्नः स्थेमनि स्थैर् येऽपि सति प्रिया धैर् यरहिता अजनीति विरोधाभासालङ्कारः । राधिकाया अमलकमल-द्वन्द्वतुल्यकान्तिविशिष्टयोरक्ष्णोस्तटात् । कथम्भूतात् ? श्रीकृष्णस्य वासगृहात् तस्मात् प्रेयसि श्रीकृष्णे विदूरे प्रवसति प्रवासं गतवति सति । दवथवश्चित्तविषादादि-रूपास्तापाः । अल्याः श्रीराधिकाया हृदयनगरीं बलादक्रम्य भेत्तुम् अविशन् ॥१॥

सखीसङ्घाश्वासौषधम् अपि निरोजो विदधतीं
दधाना स्व प्राणप्रिय विरहजां सञ्ज्वररुजम् ।
क्षणार्धं कल्पानां शतममनुतेयं गुरुगृहं
निरम्भस्कं कूपं ह्रियमशनिजं जालपटलम् ॥२॥

सखीसमूहश्चाश्वासौषधम् अपि निरोजो निर्बलं विदधतीं श्रीकृष्णस्य विरहजन्यां सञ्ज्वरजं दधाना श्रीराधा क्षणार्धं कल्पानां शतम् । एवं गुरुगृहं निर्जलकूपम्, एवं ह्रियमशनिनिर्मितजालपटलममनुत ॥२॥

तदालीनां पाल्या समुचितसपर्याकुलधियां
द्रवैः पौनःपुण्यान्मलयजभवैर् लिप्त वपुषः ।
स्तृतायाश्चाभीक्ष्णं विसकिसलयैः सैन्धवरसैः
समीपेऽस्याः प्रायात् प्रणयविकला चन्दनकला ॥३॥

आलीनां श्रेण्या चन्दनभवैर् लिप्तवपुषः । राधायाः कथम्भूतायाः ? सैन्धवरसैः कर्पूरसम्बन्धिजलसहितैः किसलयैः स्तृतायाः आच्छादितायास्तस्या समीपे चन्दनकला प्रायात् ॥३॥

कुतो वृन्दारन्यात् कथमिदमगा गोष्ठमहिषी
निदेशात् कस्मात् स त्वरितमशनीयोपहृतये ।
सुतस्यास्याः किं सम्प्रति स कुरुते कन्दुकतति
व्यतिक्षेपग्राहोत्तरविविधखेलां सवयसा ॥४॥

चन्दनकले ! कुत आगता ? वृन्दारन्यात् । त्वमिदं वृन्दारन्यं कथमगाः ? व्रजेश्वर्या निदेशात् । कस्मात् स निदेशः ? अस्या यशोदायाः सुतस्य कृष्णस्य अशनीयस्य भोज्यद्रव्यस्य उपहृतये तस्मै दातुम् । स श्रीकृष्णः सम्प्रति किं कुरुते ? सवयसा सह कन्दुकततेः परस्परक्षेपग्रहणम् एव उत्तरं यस्यास्तथाविधविविधखेलां कुरुते ॥४॥

अरे किं श्रीदामन्वदसि मम दोरर्गलवलत्
तटीलोठीघट्टप्रघटननिपिष्टाखिलतनो ।
विरम्याजेर्नाम्नोऽप्यपसर मदाडम्बरलव
स्फुटत्कर्णोऽभ्यर्णाद्यदि सपदि शं वाञ्छसि भृशम् ॥५॥

वृन्दावने दृष्टां सख्या सह श्रीकृष्णस्य खेलामाह—मम दोरर्गलस्य वलयत्तटी एव लोठी लोढा इति प्रसिद्धस्तस्या घट्टस्य चलनस्य प्रघटनेन नितरां पिष्टा निखिला तनुर्यस्य, हे तथा-भूत ! आजेर्युद्धस्य नाम्नः सकाशादपि विरम्य मदभ्यर्णात् त्वमपसर ॥५॥

जयश्रीः श्रीदाम्नि प्रथितमहसां धाम्नि सहसां
व्यराजीद्राजिष्यत्यवकलय राजत्यपि सदा ।
तवैवंसः साक्षी भवति तदपि त्वं भजसि किं
मुखाटोपी कोपी स्वमहिमविलोपी चपलताम् ॥६॥

श्रीदामा आह— प्रथितं ख्यातं महस्तेजो येषां तथा-भूतानां सहसां बलानां धाम्नि श्रीदाम्नि जयश्रीः जय-रूपा सम्पत्तिः व्यराजीद्राजिष्यति, अधुना राजत्यपीति कालत्रयवर्तित्वम् । तदपि चपलतां भजसि । मुखमात्र एवाटोपो यस्य ॥६॥

बकीं मन्त्रैर् विप्रा निधनमनयन्यः पुनरघस्
तदन्तरस्त्वं सर्वे वयम् अपि न किं हन्त ययिम ।
बकः कैर् वा गण्यो गिरिर् अपि तदेष्टः स्वयमहो
वियत्यस्थादस्तौजसि भवति गर्वः कथमभूत् ॥७॥

बकीं पूतनाम् । तदा गिरि गोवर्धनः इष्टः पूजितः सन्स्वयम् एव वियति आकाशे अस्थात् । अस्तौजसि बलरहिते भवति तयि कथं गर्वः समभूत् ॥७॥

स इत्थं तत्प्राणार्बुदनियुतनिर्मञ्छ्यकिरणो
रणोत्साहं साहङ्कृतिभणितपीयूषपृषतैः ।
समं मित्रैर् द्वित्रैर् उपसरिदमन्दं विपुलयन्
क्षणं निन्ये मूर्तप्रणयरस एव प्रणयिभिः ॥८॥

कलापकम् । तेषां श्रीदामादीनां प्राणार्बुदनियुतनिर्मञ्छ्यकिरणः स श्रीकृष्णः अहङ्कारव्यञ्जकशब्द-रूपपीयूषबिन्दुभिः रणोत्साहं विपुलयन्, द्वित्रैर् मित्रैर् समं क्षणं निन्ये । उपसरित् यमुनाया निकटे ॥८॥

इति प्रेष्ठोदन्तामृतसरिति तत्प्राणशफरी
ररक्षेयं क्षिप्त्वा प्रथममुपकण्ठे विलुठतीः ।
सुतस्नेहक्लिन्नव्रजपतिगृहिण्या अभिमते
प्रवृत्तां चक्रे तामथ धृतमुदं मोदकविधौ ॥९॥

इयं चन्दनकला श्रीकृष्णस्योदन्तो वार्ता तद्-रूपामृतसरिति उपकण्ठे समीपे विलुठतीः राधिकायाः इति प्राणशफरीः प्रथमं क्षिप्त्वा ररक्ष पश्चात् यशोदाया अभिमते पक्वान्नविधौ राधिकां प्रवृत्तां चक्रे ॥९॥

ततः स्नाता चर्चांशुकतिलकलीलाम्बुजमकर्य्य्
अलक्तस्रग्वेणीप्रतिसरवतंसाञ्जनवती ।
नसि श्रीमन्मुक्ता चिबुकधृतबिन्दुः कुसुमयुक्
क्वचा ताम्बूलस्या षडधिकदशाकल्पमधुरा ॥१०॥

षोडशाकल्पमाह—प्रतिसरः हस्तसूत्रम् । अवतंसेत्यस्याकारलोपः ॥१०॥

शिरोरत्नग्रैवेयकपदककेयूररसना
शलाकाताटङ्कोज्ज्वलवलयहारोर्जितरुचिः ।
रणन्मञ्जीरश्रीः करपददलोर्मिच्छविमती
विरेजे श्रीराधा द्व्यधिकदशरत्नाभरणिनी ॥११॥

द्वादशाभरणम् आह—ग्रैवेयकं ग्रीवाभूषणम् । शलाका चक्रो शलाकेति ख्यातः । ताटङ्कं कर्णभूषणं कुण्डलादि ॥११॥

अयं यामो यामो भवति दिवसान्तः कथमिमं
नयामो योऽशाम्यन्नहि युगसहस्रैर् अपि गतैः ।
विधात्रा किं सृष्टो मम हृदयकुल्माषदलन
प्रवृत्तेनैवासौ कठिनतरलोठः शठधिया ॥१२॥

अयं यामो दिवसचतुर्थांशः यामो यमसम्बन्धी भवति, यतो दिवसस्याप्यन्तो नाशो यस्मात् । कथमिमं यामं नयामः ? यो यामगतैर् अपि युगसहस्रैर् न शाम्यत् । अथवा यामो न भवति, किन्तु मम हृदय-रूपकुल्माषस्य कोटनिष्कुशितान्नस्य दलने प्रवृत्तेन विधात्रा लोढा इति प्रसिद्धः कठिनतरलोठः सृष्टः ॥१२॥

इति क्लिद्यन्नेत्रां विधुरवदनां मङ्क्षु ललिता
समारोह्य क्षौमं न्यगददगदङ्कारचरिता ।
त्वमुत्तीर्ण राधे कटुतरमभूः खेदजलधिं
दिशं पश्य प्राचीं विशति सखि गोधूलिरधुना ॥१३॥

इति रुदन्नेत्रां दुःखितवदनां राधामाटानीति प्रसिद्धं क्षौमं मङ्क्षु शीघ्रं समारोह्य न्यगदत् उवाच । स्यादट्टः क्षौममस्त्रियाम् इत्य् अमरः । ललिता कथम्भूता ? विरहजन्यरोगनाशकचरितं यस्याः । रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सके इत्य् अमरः । त्वं खेदजलधिमुत्तीर्ण अभूः । यतो गोधूली प्राचीदिशं विशति ॥१३॥

न गोधूलिर्भद्रे अनुभव भवतीदं विधुरजो
दृशं तृप्तां दूराद्विशति किमवादीः सखि दिशम् ।
यदेतत् कण्ठान्मे शमितदवथुप्राणपतगान्
हृदानिन्ये मन्ये तदयि मृतसञ्जीवनमिदम् ॥१४॥

श्रीराधाह—इदं विधुरजः कर्पूरधूलिर्भवति । दूरात् शीतलीकरणार्थं मम तृप्तां दृशं विशति । अतः हे सखि ! पूर्वश्लोके दृशम् इत्यनुक्त्वा कथं दिशं विशतीत्यवादीः । किं वा, इदं कर्पूरधूलिर्न भवति, किं तु मृतसञ्जीवनम् । यद्यस्मादेतद्रजःशमिताः शान्ता दवथवस्तापा यत्र तद्यथा स्यात् तथा प्राणपक्षिणः कण्ठात् हृत् हृदयमानिन्ये ॥१४॥

मदर्थं त्वत्प्रेयोवदननलिनस्वेदकणिका
हरन्शैत्यामोदी विपुलकरुणः प्राच्यपवनः ।
अहो भाग्यं स्पृष्ट्वा सपदि ललिते जीवयति मां
जगत्प्राणो नाम्ना भवति गुणतोऽप्येष नितराम् ॥१५॥

मदर्थं त्वत्प्रेयोवदननलिनस्वेदकणिका हरन्शैत्यामोदी विपुलकरुणः प्राच्यपवनः अहो भाग्यं स्पृष्ट्वा सपदि ललिते जीवयति मां जगत्प्राणो नाम्ना भवति गुणतोऽप्येष नितराम् ॥१५॥

स्मरन्मां दीनां स व्रजतिलकसूनुः किमधुना
पुरोगाः कृत्वा गा द्रुततरमुपैति प्रणयवान् ।
कथं वास्य द्रौत्यं भवतु समदोक्षालसगतेः
कथं वा स्फारत्वं त्यजतु स दवीयान्वनपथः ॥१६॥

दीनां मां गाः पुरोगाः कृत्वा द्रुततरमुपैति समदोक्षा मत्तवलीवर्धास्तेषामिव मन्थरगतेरस्य कथं वा द्रौत्यं भवतु । दवीयान्दूरवर्ती वनपथः कथं वा स्फारत्वं त्यजतु ? तथा च दुर्भाग्याया मम मृतसञ्जीवनस्याप्यकिञ्चित्करत्वं जातमिति भावः ॥१६॥

मुखाब्जं बिभ्राणो विमलतिलकं वेल्लदलकं
रणद्भृङ्गस्तोमस्तुततुलसीकास्रक्परिमलः ।
श्रितप्रेङ्खत्पिञ्छारुणदरनतोष्णीषसुषमो
धुवन्बाधां राधे त्वरितमधुनैवैष्यति स ते ॥१७॥

ललिताह—चञ्चलालकं मुखं बिभ्राणः । अथ च श्रितश्चञ्चलः पिञ्छो यत्र एवमरुणवर्णश्चासौ ईषत् कुञ्चितो य उष्णीषस्तस्य सुषमा यत्र तथा-भूतः स कृष्णस्तव बाधां धुवनधुना एष्यति । ऊर्मिमत् कुञ्चितं नतम् इत्य् अमरः ॥ ।१७॥

हिही पिङ्गे धूम्रे धवलि शबलि श्येनि हरिणीत्य्
अहो तत्तद्वर्णप्रथितमणिमालाजपपरः ।
असङ्ख्या अप्येवं सपदि गणयन्नाह्वयति गाः
स कान्तस्त्वन्नेत्रज्वरभरमुपैष्यन्शमयितुम् ॥१८॥

स तव कान्तः असङ्ख्या अपि गा एवं क्रमेण गणयन्त्वन्नेत्रज्वरमुप शमयितुम् उपैष्यनागमिष्यनाह्वयति ॥१८॥

इतो वंशीध्वानात् कलय सखि राधे कलकलं
व्रजे रामाराजेरुदितवितनोर्निर्जगमिषोः ।
तदग्रे स्वारामे कुसुममिषतो यामो जरतीं
प्रतार्येत्युत्कण्ठा चुलुकितधृतिः सा द्रुतमगात् ॥१९॥

वंशीध्वानात् उदितवितनोः उदितकन्दर्पाया अत एव गृहान्निर्जगमिषोः । रामाश्रेणेः कलकलं कलय । अतस्तासामग्रे स्वीयारामे याम ॥१९॥

त्वया दत्तेनालं श्रवणमनु पुष्पेण यदिह
स्वयं दूराद्वंशीध्वनिरसवतंसोऽलगदयम् ।
पतामि त्वत्पादे सखि बकुलमाले जहिहि माम्
इतो गत्वा कृष्णाम्बुदघनरसैः स्यां शिशिरता ॥२०॥
प्रियस्निग्धश्यामाञ्जनरस इतोऽग्रे विपिनतः
समेत्येतं धास्ये निजनयनयोः सञ्ज्वरहरम् ।
किमानैषीर्भष्म त्वमिदमहहानज्मि न दृशा
वनेनेति श्यामा त्वरितमुपराधं वनमगात् ॥२१॥

(युग्मकम्) । अथ श्यामापि उपराधं राधायाः समीपं वनमगादिति द्वितीयश्लोकस्थेनान्वयः । हे बकुलमाले ! त्वया श्रवणे दत्तेन पुष्पनिर्मितावतंसेनालं यद्यस्मादिह श्रवणे वंशीध्वनिरस-रूपोऽवतंसः स्वयम् एवालगत् । शिशिरता शिशिरीकृता अहं स्याम् ॥२०॥

विपिनतः श्रीकृष्ण-रूपाञ्जनं समेति एतम् एव धास्ये । त्वं तु गृह-स्थितमिदं भस्म-रूपमञ्जनं नेत्रे दातुं किमानैषीः । अहं तु अनेन भस्मना दृशो न आनज्मि ॥२१॥

विलम्बं नो भद्रे कुरु जहिहि चन्द्रावलि रुजं
न धन्ये मान्थर्यं कलय कमले याव सदनात् ।
कथं पालि क्लाम्यस्युपसर हरेरङ्गसुषमाम्
ऋते जीवेत्याल्यो व्रजमृगदृशां सम्भ्रममधुः ॥

भद्रायाः काचित् सखी भद्राम् आह—हे भद्रे ! विलम्बं न कुरु । एवम् एव सर्वत्र सम्बोधनान्तपदं यूथेश्वरीवाचकम् । इति आल्यः सख्यः व्रजमृगदृशां सम्भ्रममधुर्धारयामासुः ॥२२॥

इतो हम्बाहम्बाध्वनिभिरुपगोष्ठं निजसुतान्
आह्वयन्ति धावन्तिरखिलसुरभीर्वीक्ष्य सहसा ।
बलः श्रीदामाद्यैः सह सहचरैः सत्वरगतिर्
विषादाब्धेरम्बाः प्रथममुदहार्षीत् पुरि विशन् ॥२३॥

श्रीकृष्णस्य प्रेयसीवर्गसहितमिलनसमयमालक्ष्य किञ्चिन्मिषेण बलदेवश्रीदामादीनां पुरि प्रवेशमाह—निजवत्सान्हम्बाध्वनिभिराह्वयन्ति, अथ च धावन्तिर्ः सुरभीरालक्ष्य श्रीदामाद्यैः सह बलदेवः पुरि विशन्सन्विषादसमुद्रात् सकाशात् अम्बाः मातॄः प्रथममुदहार्षीत् उद्धारं चकार ॥२३॥

इतः प्रेङ्खत्प्रान्तप्रमदमदभारालसदृशा
कृशाङ्गीरानङ्गीष्वतिरभसघूर्णासु विकिरन् ।
चलद्दामारामानुपमसुमनःकन्दुकपरि
ग्रहोद्वेपक्षेपप्रचितनवलावण्यजलधिः ॥२४॥

चलत् प्रान्तभागो यस्या एवम्भूतया प्रमदमदभाराभ्यामलसदृशा करणेन कृशाङ्गीर्व्रजसुन्दरीः आनङ्गीषु अनङ्गसंवर्धनीषु अतिहर्षं घूर्णासु विकिरन्सनितः प्राप्तः । कथम्भूतः ? आरामसम्बन्धिसुमनोभिर्निर्मितस्य कन्दुकस्य अन्यस्मात् सख्युः सकाशात् परिग्रहः, एवमुद्वेपः कम्पः प्रक्षेपश् च तैः प्रचितो व्याप्तः नवलावण्य-रूपजलधिर्येन । पक्ष रामाणां स्त्रीणां शोभनमनो-रूपकन्दुकस्य ॥२४॥

रुचाध्वानं नीलोत्पलवनमयीकृत्य दृगलि
व्रजानां कान्तालेर्मधुररससत्रं विरचयन् ।
व्रजन्मन्दं मन्दं मुखररसनानूपुरमलं
चकार श्रीकृष्णः प्रियसखवृतो गोकुलभुवम् ॥२५॥

रुचा स्वकान्त्या अध्वानं नीलोत्पलवनमयीकृत्य कान्ताश्रेणेर्नेत्र-रूपभ्रमरश्रेणीनां मधुररससत्रं विरचयन्व्रजभुवमलञ्चकार ॥२५॥

अलं ह्रीदम्भेन प्रकटय चलद्भृङ्गविकसद्
दृगब्जं देवोऽग्रे पशुपतिरसावेति वरदः ।
अनेनैतत्पूजां वितनु वितनुद्रोहपटल
प्रशान्त्यै विद्धीमं क्षणमुशति राधेऽतिशुभदम् ॥२६॥

श्यामाह—चलद्भृङ्गस्थानीयालकेन लसद्भृङ्गाब्जं प्रकटय । अग्रे पशुपतिर्महादेव एति । पक्षे पशूनां पतिः श्रीकृष्णः । अनेन नेत्रकमलेन । वितनु विस्तारय । वितनुः कन्दर्पः, तत्सम्बन्धिद्रोहपटलप्रशान्त्यईमं देवमतिशुभदं विद्धि ॥२६॥

त्वम् एवामुं श्यामे त्वरितमुपधाव प्रकटित
द्युतिं हृद्याम्भोजस्तवकमुपनीयार्हणकृते ।
मुहूर्तेऽस्मिन्कामं सुमुखि यदि सम्पादयति ते
महेशोऽयं मज्जाम्यमृतजलधौ तत् स्वयमहम् ॥२७॥

श्रीराधाह—त्वम् इति । हृद्यं मनोज्ज्ञम् । पक्षे हृदि भवं कमलकोरकस्थानीयस्तन-द्वयमर्हणार्थमुपानीय अमुं महादेवं त्वम् एव उपधाव । अस्मिन्शुभमुहूर्ते महेशस्तव कामं पूजितः सन्यदि सम्पादयति, तदा तद्दर्शनात् अमृतजलधेः अहं स्वयम् एव मज्जामि ॥२७॥

मृषा मा त्वं वादीः कलय ललिते वल्लिपटलीः
समुत्फुल्लास्त्यक्त्वा मधुकरयुवा घूर्णति कुतः ।
सखि श्यामे सत्यं न्यपतदतुलामोदसरितो
भ्रमौ यन्मालत्यास्तदयमित ईष्टे न चलितुम् ॥२८॥

श्यामाह—ललिते ! अयं महेशः कस्याः पूजनं गृह्णातीत्यत्र त्वम् एव प्रमाणम् । मृषा मा वादीः । पश्य यदि अभ्यासां पूजां गृह्णाति तदा कथं व्रजसुन्दरी-रूपाः समुत्फुल्ला वल्लिपटलीस्त्यक्त्वा तव सखीमप्रेक्ष्य घूर्णति । ललिताह—यद्यस्मात् राधिका-रूपमालत्याः अतुलामोदनद्याः भ्रमौ न्यपतत्, तस्मात् अयं भ्रमरः इतः अन्यत्र चलितुं न इष्टे न समर्थः ॥२८॥

यदेत्थं संलापः प्रणयसरसीधोरणिरिव
श्रुती कृष्णस्यारादशिशिरयदानन्दपृषतैः ।
तदा श्रीराधास्यं मदिरधृतलास्यं दरदृशोर्
अवाप्याग्रं तस्य द्रुतमधिलतं निह्नुतिमगात् ॥२९॥

(कलापकं) आसामित्थं संलापः कीदृशः ? प्रणय-रूपसरोवरस्य धोरणिर्जलनिःसरणार्थं प्रणालिका इव अमृतबिन्दुभिः श्रीकृष्णकर्णौ यदा अशिशिरयत् तदैव राधिकाया आस्यं कर्तृ तस्य श्रीकृष्णस्य ईषद्दृशोरग्रमवाप्य लतायां निह्नुतिमगात् ॥२९॥

पिपासार्तौ हा मे दृगनघचकोराविह सुधाम्
उपेत्यमालक्ष्योन्नतविवृतचञ्चू अभवताम् ।
अरे धातर्धिक् त्वां वलदघ यदाभ्यां सपदि तां
प्रदायैवाहाषीरिति हृदि तदोचे गिरिधरः ॥३०॥

पिपासार्तौ मम निरपराधचकोरौ निकटप्राप्तां सुधामालक्ष्य उन्नतविवृतचञ्चू अभवतामरे धातः ! हे वलदघ ! महापराधिन्! ॥३०॥

विमुञ्च त्वं लज्जे क्षणम् अपि दृशः कोणम् अपि मे
यथा ते नैवास्यं सकृदपि विलिह्यामघरिपोः ।
प्रसीदानन्दाभ्र त्वम् अपि नहि रुन्धी मम तनो
नमस्ते मां मा कम्पय चरणयोस्तेऽस्मि पतिता ॥३१॥

हे आनन्दमेघ ! इमं दृशः कोणं मा रुन्धी । हे अतनो ! कन्दर्प ॥३१॥

इति प्रेम्णा प्रोच्य स्वगतमतिधाऋष्ट्यं पुनरिदं
कथं कुर्यामित्थं व्यमृशदपि यावद्वरतनुः ।
विकृष्याल्यस्तावत् पटिमभरतो वल्लिकुहराद्
उपानीय प्रेष्ठाननचकितदृष्टिं व्यधुरिमाम् ॥३२॥

इति स्वगतं प्रोच्य स्वयमुद्यम्य दर्शनप्रयत्न-रूपधाऋष्ट्यं कथं कुर्यां ? इति यावद्वरतनुः श्रीराधा व्यमृशत्, तावदाल्यः अत्र निर्जनस्थले कुलाङ्गनानां स्थितिर्न योग्या, किं तु गृहं याम इत्य्-आदि पटिमभरतो विकृष्य वल्लिकुहरादुपानीय श्रीकृष्णस्यानने इमां राधां चकितदृष्टिं व्यधुः ॥३२॥

अपाङ्गाभ्यां यूनोर्नभसि यमुना धातृतनया
रसैर् एकीभूता सुरसरिदुता चित्रमुदगात् ।
निमग्नौ यत्रैतधृदय करिणौ द्राग् उभयतः
प्रवाहायामास्तां विकचकमलालीक्षण ततौ ॥३३॥

यूनोः राधा-कृष्णयोः श्यामरक्तवर्णाभ्यामपाङ्गाभ्यामाकाशे श्रीकृष्णस्य रक्तांशघटितकटाक्षस्थानीयैः सरस्वतीरसैर् जलैर् एकीभूता राधायाः श्यामांशघटितकटाक्ष-रूपा यमुना, उभयोः श्वेतिमांशघटितकटाक्ष-रूपा सुरसरित् गङ्गा, तया उता ग्रथिता सती आश्चर्यं यथा स्यात् तथा उदगात् । यत्र तादृशयमुनायामेतयोर्हृदयकरिणौ निमग्नौ आस्तां कथम्भूतायामुभयतः आगमनादेव उभयतः प्रवाहायाम् । पुनः कथम्भूतायां ? विकचकमलानामिव आलीक्षणानां सखीनेत्राणां ततिर्यत्र तस्याम् । पक्षे, विकचानां कमलश्रेणीनां क्षणततिरुत्सवपरम्परा यत्र । यद्वा, विकचकमलेषु अलीनां क्षणततिर्यत्र ॥३३॥

ततो निष्पन्दाङ्गं रसिकमिथुनं तत्प्रियसुहृद्
गणो वर्त्मप्रान्तादितरजनशङ्काकुलमनाः ।
विकृष्यारात् तत्तत्पुरसरणिमानीय रभसात्
प्रबुद्धः प्रत्याशासितहृदमकर्षीत् पटिमभिः ॥३४॥

बहिरङ्गजनशङ्काकुलमनाः तयो राधा-कृष्णयोः सुबलललितादिप्रियसुहृद्गणः आनन्दमूर्च्छया निष्पन्दाङ्गं रसिकमिथुनं ततो वर्त्मप्रान्तादाकृष्य रभसाद्वेगात् स्वस्वपुरसरणिमानीय मूर्च्छातः प्रबुद्धं मिथुनं प्रत्याशया बद्धहृदयमकर्षीत् । पिप्र बन्धने ॥३४॥

जनन्या वात्सल्यं तनुमदिव पित्रोः किमसवो
वहिष्ठाः श्रीकृष्णः स्वसदनमियायेति विदुषी ।
विशाखा प्राहैषीत् सपदि तुलसीमञ्जरिमथ
व्रजेश्वर्यै दातुं तदभिमतपीयूषबटिकाः ॥३५॥

जनन्या यशोदायाः पित्रोर्नन्दयशोदयोर्बहिष्ठाः प्राणा इव श्रीकृष्णः स्वसदनमियाय इति । विदुषी विशाखा पीयूषबटिकाः व्रजेश्वर्यै दातुं तुलसीमञ्जरिं प्राहैषीत् प्रेषयामास । वल्लरिर्मञ्जरिर्स्त्रियाम् इत्यभिधानात् मञ्जरी मञ्जरिश् च ॥३५॥

बलात् पाणिं नीव्यामहह मम धित्सत्ययमयं
विशाखे त्वं वीथ्यां कलयसि किमेतत् कुतुकिनी ।
यदुच्चैः क्रोशन्तीम् अपि न हि जहात्येष बत मां
सतीनां मूर्धन्यां तदिह कथयार्यां द्रुतमितः ॥३६॥

श्रीराधा उन्मादेनात्मानं श्रीकृष्णेन बलात् क्रियमाणं मत्वा सखीं प्रत्याह—बलादिति ॥३६॥

प्रलप्यैवं राधा दरविकसिताक्षी समुदित
क्लमा प्रास्विन्नाङ्गी विततदवथुर्वेपथुमती ।
तनूं वीक्ष्य स्वीयां कुसुमशयनन्यस्तसुषमां
विलक्षालीराह स्मरपरिभवाद्गद्गदगिरा ॥३७॥

विरहज्वालाशान्त्यर्थं सखीरचितकुसुमशयनन्यस्तसुषमां तनूं वीक्ष्य विलक्षा अहं ग्रामाद्बहिः पुष्पवाटिकायां श्रीकृष्णेन सङ्गता आसं कथमत्र पुष्पशय्यायां विद्यमानेति विस्मयान्विता सती आलीराह—विलक्षो विस्मयान्विते इत्य् अमरः ॥३७॥

क्व मे प्रेयान्वीथ्यां चकर किमहं निष्कुटभवं
किमेतद्वेश्माहो सखि गुरुपुरस्थं भवति किम् ।
इयं सन्ध्या प्रातः किमजनि किमहो स्विदभवन्
निशीथः किं निद्राम्यहह किमु जागर्मि वद तत् ॥३८॥

अहं वीथ्यां किं चकरेति स्वस्य वैपरीत्यसम्भावनया प्रश्नः । एतद्गृहं किं तत्पुष्पवाटिकाभवं ? इयं किं सन्ध्या ? प्रतिदिनं विहारानन्तरं गृहागमनोचितं प्रातः किमजनि ? ॥३८॥

त्वमारामाद्धामाम्बुजमुखि समायाः प्रियतमो
रहःकुञ्जे स त्वामरमयदथागात् स्वभवनम् ।
चिरात् खेदं पित्रोर्भृशमुपशमय्यैष्यति पुनर्
विधुः स त्वन्नेत्रोत्पलयुगविकाशार्थमधुना ॥३९॥

प्रेमोन्मत्तां तां सखी परिहसति—हे अम्बुजमुखि ! त्वमारामात् स्वभावसमायाः श्रीकृष्णोऽपि कुञ्जे त्वामरमयत् । अथ स्वभवनमगात् । विधुः श्रीकृष्णः चन्द्रश् च ॥३९॥

यत् प्राग् आसीद्व्रजपुरसरोजीवनाद्विच्युतं द्राग्
उग्रैस्तापैर् विरहरविणोत्पादितान्तर्विदारम् ।
कृष्णाम्भोधे मिलति रभसादेतदानन्दधारा
सारैः पूर्णं त्वरितमभवत् फुल्लपङ्केरुहासाम् ॥४०॥

यत् व्रज-रूपसरः श्रीकृष्ण-रूपजीवनात् जलात् विच्युतम् एवं श्रीकृष्णविरह-रूपसूर्येण तापैः करणैर् उत्पादितान्तर्विदारं प्राग् आसीत् । फुल्लपङ्केरुहतुल्यानि व्रजासिनां मुखान्यत्र । सरोवरपक्षे पङ्केरुहाणामास्या स्थितिर्यत्र । स्यादास्या त्वासना स्थितिर् इत्य् अमरः ॥४०॥

इति श्री-कृष्ण-भावनामृते महा-काव्ये

आपराह्निक-लीलास्वादनो नाम

षोडशः सर्गः

॥१६॥

—ओ)०(ओ—

(१७)