पञ्चदशः सर्गः
माध्याह्निक-लीलास्वादनो नाम
सीधुपान जलखेलन दोलान्दोलनादि कुतुके बलवत्त्वात् ।
एष एव नलिनीरिव पद्मीयद्विजित्वा सखि नः प्रजगल्भे ॥१॥
श्री-राधिका ललितां प्रत्य् आह—मधुपान-जलक्रीडा-हिन्दोलादि-कौतुके एषः कृष्णः बलवत्त्वात् यद् यस्मात् नोऽस्मान् विजित्य प्रजगल्भे । यथा पद्मी हन्ती नलिनीर् विजित्य ॥१॥
तद्बलोपधिकतः स्फुटमन्यद्धी प्रधानमधुना ललिते त्वम् ।
खेलनं विमृश्य यत् प्रभविष्यत्यस्य गर्व चुलुकीकरणे द्राक् ॥२॥
तत् तस्मात् हे ललिते ! वलोपाधिकतः खेलनात् अन्यत् बुद्धिप्रधानं खेलनमधुना विमृश । यत् खेलनमस्य कृष्णस्य गर्वचुलुकीकरणे द्राक् प्रभविष्यति । एतेन श्रीकृष्णापेक्षया स्वेषां बुद्ध्याधिक्यं सूचितम् ॥२॥
द्युतकेलि जय कैर् अव चान्द्र ज्योतिरेव सखि राजसि राधे ।
किं दूनोतु परिभूत तमिस्रं नित्यम् एव धृत गर्वततीर्नः ॥३॥
ललिता आह—हे सखि ! द्युतक्रीडायां जय-रूपकैर् अवस्य कुमुदस्य चान्द्रज्योतिः स्व-रूपा त्वं राजसि किम्? पराभव-रूपतमिस्रमन्धकारः नित्यं धृतगर्वततीः नोऽस्मान्दुनोतु । न हि चान्द्रज्योत्स्नोदयेऽन्धकारस्तिष्ठतीति भावः ॥३॥
इत्थमालिकृत मन्त्रणयोचे राधया प्रियतम प्रभविष्णो ।
पाशकाजि चतुरिम्णि जिगीषी नर्तकीं न किमुरीकुरुषे त्वम् ॥४॥
इत्थं आल्या सह कृतमन्त्रणया उचे । हे प्रियतम ! हे प्रभविष्णो ! पाशकयुद्धस्य चातुर्य-रूपनृत्यस्थले जिगीसा-रूपनर्तकीं त्वं किं न उरीकुरुषे ? तथा च तस्याः सङ्गकरणे कृतनर्तकीसङ्गस्य तव सङ्गोऽस्माभिस्त्याज्य अकरणे च पराजयः स्वयम् एव भविष्यतीति भावः ॥४॥
सत्यमालि हृदि नर्तयसे तां किन्तु मत् करतलाम्बुज पट्टे ।
यर्हि वत्स्यति नृपो जयनामा स ह्रियैष्यति तदा निलयं द्राक् ॥५॥
श्रीकृष्ण आह—हे आलि ! सत्यं त्वं हृदि तां जिगीषानर्तकीं नर्तयसे किन्तु मत्करतलाम्बुजपट्टे राजासने यर्हि जयनामा राजा वत्स्यति तदा सा जिगिषानर्तकीनिलयं गृहम् । पक्षे नितरां लयं नाशमेष्यति ॥५॥
इत्यघारि गदितं मदिराक्षी चिल्लिवल्लि दर वेल्लित भङ्ग्या ।
सावदीर्य स परिच्छद सारीरानिनाय तरसैव सुदेव्या ॥६॥
चिल्लिरुपा या वल्ली तस्या ईषत्कम्पभङ्ग्या श्रीकृष्णस्य गदितं सावधीर्य सम्यग् अवज्ज्ञाय । सुदेव्या द्वारा आनिनाय ॥६॥
नान्द्यभूद्वनपया सह साक्षिण्यक्षिकेलि सभिकाऽजनि कौन्दी ।
इष्ट दायमुपदेष्टुमुदञ्चद्वाग् अराजत बटुर्ललिता च ॥७॥
वृन्दया सह नान्दीमुखी साक्षिणी अभूत् । अक्षकेलौ सभिका द्युतप्रवर्तिका कुन्दवल्ली अजनि अभूत् । सभिका द्युतकारका इत्य् अमरः । दशवामं च विदु प्रभृतीष्टदायमुपदेष्टुमुदयं प्राप्नुवद्वाग् यस्य ताथाभूतो वटुर्मधुमङ्गलः कृष्णपक्षे अराजत । श्रीराधिकापक्षे तथा-भूता ललिता अराजत ॥७॥
पाणि शोण जलजोदर रङ्गे झङ्झणद्बलयमुच्छलदङ्ग्याः ।
यर्हि पाशक कुशीलव युग्मं लब्ध नृत्यमधिभूमि चुकूर्दे ॥८॥
पाशकनिक्षेपसमये झञ्झनद्वलयं यथास्यात्तथा उच्छलदङ्ग्या राधायाः पाणि-रूप शोणकमलस्य उदर-रूपं यन्नृत्यस्थलं तत्र लव्धनृत्यं पाशक-रूपनर्तकयुगलं यदा अधिभूमि भूमौ चुकूर्दे ॥
तर्हि कक्ष कुचयोरुरुरोचि वीचि मज्जित दृशोऽपि बकारेः ।
पाशक ग्रहण चापल चातुर्यापि नेषदपि भङ्ग कलङ्कम् ॥९॥
तदा कक्षादिषु मज्जितदृशोऽपि वकारेः पाशकग्रहणचातुरी ईषदपि भङ्ग कलङ्कं न आप । तत्राभ्यासातिशयात् इति भावः ॥९॥
कर्हिचिद्दश दशेति कदाचित् सा विदुर्विदुरिति प्रसरद्गीः ।
पातयन्त्यलघु दायमभीष्टं मूर्तिमत्यजनि किं न जयश्रीः ॥१०॥
दशदशेत्यादि प्रसरन्ती गीर्यस्याः सा राधा अभीष्टं दायं पातयन्ती सती मूर्तिमती जयश्रीः किं न अजनि ? अपि तु अजनि एव ॥१०॥
यत् प्रिये दश दशेति निकामं प्रार्थनं तदुपहासकरं ते ।
वित्तिरेव पतिता स्मर तावद्देवने तव कुतो जयवार्ता ॥११॥
देवने द्युतक्रीडायां त्वं तावत् स्मर । वित्तिरेव पतिता न तु दशेति । ततो दशदशेति तव किकामं याथास्यात्तथा प्रार्थनं उपहासकरम् । तेन कुतस्तव जयवार्तापि । पक्षे दशदशेति नितरां कामस्याधरदंश-रूपस्य प्रार्थनं उपहासकरम् । यतः स्मरस्य तावद्देबने तावत् प्रमाणक्रीडायां प्रयोगातिरेके इत्यर्थः । वित्तिश्चेतन इव पतिता लुप्ता इत्यर्थः । कुतो जयसेय्ति सूचमाने विपरीतरतावित्यर्थः ॥११॥
सारिका गमयितुं निज कोष्ठेष्वप्रभुः स्वतनु शृङ्खलिताः स्वाः ।
घातयंश्चरविधिं विमृशंस्ताः खेलति स्म हरिरात्त जिगीषः ॥१२॥
स्वाः स्वीयाः सारिकाः प्रिया कोष्ठात् निजकोष्ठेषु गमयितुम् अप्रभुः असमर्थः यतः राधया स्वकोष्ठे ताः शृङ्खलिताः बद्धाः । अतः पाशकखेलायां विधि-द्वयं वर्तते । तत्र प्रथमे गमविधौ असामर्थ्यात् द्वितीयं चरविधिं विमृशन्गृहीता विजिगीषा येन तथा-भूतो हरिस्ताः स्वसारिका राधाद्वारा घातयन्खेलति स्म ॥१२१३॥
इष्ट दाय पतनेन सुधीः सा राधिका यदि जिगाय तदा तम् ।
आलयो विहसितुं प्रखरत्वं लेभिरेऽति मृदवोऽपि नितान्तम् ॥१३॥
किं बटो मुखमवाञ्छयसि त्वं सा हिहीति नटनारथटी ते ।
क्वागमत् क्व न सितोपलिकार्थं कङ्कण प्रकर विक्रय भङ्गी ॥१४॥
जलक्रीडासमये अस्माकं पराभवं दृष्ट्वा हिहीत्युक्त्वा सा नटनस्यारभटी क्व अगमत् । एवं तस्मिन्समये तटे स्थित्वा स्वीयवस्त्र्ं प्रसार्य हे कृष्ण ! सर्वासां कङ्कणाद्यलङ्करणं मह्यं देहि । मथुरायां विक्रयं कृत्वा सितोपलामानेष्यमीत्येवं -रूपा विक्रमभङ्गी वा क्व अगमत् । मिश्रि इति प्रसिद्धाया मत्स्यण्डिकायाश्चरमपाकविशेषः सितोपला ॥१४॥
आलयः शृणुत भो गिरिमूर्ध्नि साम्प्रतं नव सितोपलिकालीम् ।
अस्य मूर्ध्नि बहु वर्षत तस्याः स्वादमेत्वयमिहैव निकामम् ॥१५॥
उपलिका शिलाकणस्तस्याः श्रेणीम् । तस्याः स्वादं बहुवर्षत, अयं वटुः तस्याः स्वादं निकाममेतु ॥१५॥
न ब्रवीषि किमरे किम् अपि त्वं कैतवेऽद्य परिभूति भृतस्ते ।
क्षान्त्य चापलशमैर् मुनिधर्मैः किं बटुत्वम् अपि सत्यमिवाभूत् ॥१६॥
कैतवे द्युतकर्मणि पराभवभृतस्तव क्षान्त्यादिधर्मैः किं वटुत्वम् अपि स्त्यमिवाभूत् ॥१६॥
कौस्तुभं पणित मानयः तस्याप्यानये विनिमयेन विचित्राम् ।
कङ्कणालिमथवामुमनेक क्षालनैः प्रियसखी हृदि धास्य ॥१७॥
पणितं कौस्तुभमानय । तस्य मथुरायां विनिमयेन कङ्कणालीमानये । अथवा तस्यापावित्र्यनिराकर्णाय बहुक्षालनैः प्रियसख्या हृदि धारयिष्यामि ॥१७१८॥
काननं नहि गवामिदमेतन्मारणं न बक वत्स बकीनाम् ।
अक्ष देवनमिदं तु सभायां स्याद्विदग्ध जन बुद्धि परीक्षा ॥१८॥
इत्थमालि खरधार सरस्वत्यस्तपाटव तरु बटुरुचे ।
तस्य कर्णमनुसंसृणुसे तत् कौस्तुभं मम समर्पये हस्ते ॥१९॥
खरस्तीक्ष्नो धारः प्रवाहो यस्यास्तथा-भूता सखीनां सरस्वती वाण्येव सरस्वती नदीति परम्परित-रूपकं तया अस्तः पाटव-रूपतरुर्यस्य तथा-भूतो वटुस्तस्य श्रीश्रीकृष्णस्य कर्णमनु कर्णे हे सखे ! संशृणुषे ॥१९॥
चेत् स्व कृत्य मिषतोऽपसृते मय्याक्रमं कम् अपि हन्त विधित्सेत् ।
एककेऽपि भवति व्रजरामा संहति व्रजपुरन्दरसूनो ॥२०॥
स्वकृत्यमिषेन मयि अपसृते सति चेद्यदि व्र्जरामा संहतिः एककेऽपि भवति त्वयि कम् अपि आक्रमं विधित्सेत् ॥२०॥
तन्निवेद्य निखिलं व्रजराज्ज्ञीं मङ्क्षु तद्विकट शासनपाशैः ।
ह्रीत मिस्र कुहरेऽद्य निवेद्यैवाश्वमूर्न किमु पातयितास्मि ॥२१॥
तदा मङ्क्षु शीघ्रं व्रजराज्ज्ञीमखिलवृत्तान्तं निवेद्य तस्या आज्ज्ञा-रूपविकट पाशैः लज्जा-रूपान्धकारकूहरे निवध्यैवाभूः किं न पातयितास्मि ? इति सर्वाः श्रावयित्व इव मिथ्याभयमुत्पादयामास ॥२१॥
धिग् धियारहित किं त्वमभैष्टीरस्मि जिष्णुरधुनैव विजिष्ये ।
माति मौग्ध्यमय चेष्टित भङ्ग्या ख्यापयाज्ज्ञतम मत् परिभूतिम् ॥२२॥
हे धियारहित ! त्वां धिक्, किं त्वमभैषीः ? अहं जिष्णुरस्मि । अधुन इव विजिष्ये । हे अज्ज्ञतम्! मत्पराभूतिं मा ख्यापय ॥२२॥
किं हित प्रकथनेऽप्यति कुप्यस्यस्तु कौस्तुभ हृतिस्तव हस्तात् ।
याम्यहं युवति पाल्यपि रङ्गीकृत्य नृत्यम् अपि कारयतु त्वाम् ॥२३॥
अहं यामि युवतिश्रेण्यपि त्वां रङ्कीकृत्य नृत्यम् अपि कारयतु ॥२३॥
चिल्लि कोण धुवनेन मुकुन्दः स्वीय पक्ष गमिता एव सभ्याः ।
प्राह पश्य मयैव जितानामप्यति प्रखरतं चपलानाम् ॥२४॥
भ्रुभङ्ग्या स्वीयपक्षपातिता इव सभ्याः प्राह—मया कर्त्रा जितानामासां चपलानामतिप्रखरतां यूयं पश्यत ॥२४॥
यद्यजेष्यदबलाततिरेषा किं व्यधस्यदिति बोद्धुमनीशः ।
विस्मितोऽस्म्यथ जगाद विशाखा त्वद्भ्रुवे मम इति प्रहसन्ती ॥२५॥
ननु भो कृष्ण ! तव जये सति उक्तिप्रत्युक्त्या मधुमङ्गलस्य तिरस्कारसमये भवान्कथं तुष्णीं तथावित्यत आह—जयं विनैवासामेतादृशी प्रगल्भता यदि एषा अवलाततिरजेष्यत् तदा किमकरिष्यदिति बोधुमसमर्थोऽहं विस्मितोऽस्मि । तथा च तदानीं विस्मयेनाहं स्तव्धो बभूवेति भावः ॥२५॥
वैर् इणी भवति या कुलधर्म ध्वंसिकापि सुहृदालिरिवाद्य ।
तद्वचोऽप्यनृतयन्त्युदगन्नो धिन्वती सदसि कुञ्चित कोणा ॥२६॥
या तव कुञ्चितकोणा कटाक्ष-रूपास्री अस्माकं वैर् ईणी कुलधर्मध्वंसिकापि त्वद्वचोऽनृतयन्ती अत एव नोऽस्मान्धिन्वती सती अद्य सुहृदालिरिव उद्गात् ॥२६२७॥
देहि कौस्तुभमिति स्फुट नान्दी वाक्यतो मधुभिदि त्रापमाणे ।
कुन्दवल्ल्यमुमघान्तक कण्ठाद्राधिकोरसि दधौ स्मयमाना ॥२७॥
कृष्ण पश्य कुच मध्यगतं स्वं बिम्बितं मणिवरे विलसन्तम् ।
हन्त यत् त्वमदधाः स इदानीं त्वादधाति मणिराट् प्रणयेन ॥२८॥
कुन्दवल्ली आह—पूर्वं यं त्वमदधाः स मणिवरः इदानीं त्वां प्रणयेन दधाति ॥२८॥
धन्य धन्य सुषमामय कृष्णस्त्वं तवास्मि महसां प्रतिबिम्ब ।
यत्र राजसि ममात्र तु वाञ्छैवैतुम् इत्यगभृदुन्न दृग् आसीत् ॥२९॥
श्रीकृष्ण आह—हे धन्यधन्य्! शोभामय ! कृष्णस्त्वम् एव । अहन्तु तव महसः कान्तेः प्रतिबिम्बोऽस्मि तव स्थले एतुं गन्तुं मम वाञ्छैव इति अगभृत् गोवर्धनधारी श्रीकृष्णः प्रेम्नाक्लिन्नदृग् आसीत् । न्न्दी क्लेदने ॥२९॥
राधिकाप्यरम वाञ्छित वक्त्रा वीक्ष्य भान्त्यमिमात्म कुचान्तः ।
कञ्चुकं ह्रियम् अपि द्विषती सानन्दजाड्य जलधौ निममज्ज ॥३०॥
राधिकापि अरं शीघ्रमधोवक्त्रा सती स्वकुचमध्ये भान्तमिमम्कृष्णं विक्ष्य व्यवधायकं कञ्चुकं द्विषती ततः कञ्चुकदूरीचिकीर्षायां प्रतिवन्धकत्वेनोत्पद्यमानां लज्जाम् अपि द्विषती सा ॥३०॥
खेलतं रसनिधिं पुनरत्राश्लेष एव पण इत्यथ कौन्द्या ।
कैतवे घटित एव मुकुन्दस्तां जयन्ग्लह परिग्रह चञ्चुः ॥३१॥
हे रसनिधी ! युवां खेलतमिति नुन्दवल्ल्या कैतवे द्यूतकर्मणि घटिते प्रवतिते सति । चञ्चुः प्रवीणः ॥३१॥
प्राह गर्विणि कथं कुटिलभ्रूः साम्प्रतं भवसि कुञ्चित गात्री ।
न्यायतोऽस्ययि जिता सुकलापि त्वं किमत्र कृपणा पणदाने ॥३२॥
न्यायतस्त्वं जिता पराभूता अतः सुकलादात्री अपि किमत्र कृपणासि ? दात्रीणां कार्पण्यमनुचितमिति भावः ॥३२॥
चुम्बन ग्लहक देवन एवं सा विजित्य यदि तं प्रजगल्भे ।
प्राह सस्मितमयं निज गण्डं तन्मुखाब्ज निकटे निदधानः ॥३३॥
चम्बनए एव ग्लहो यत्र एवं-भूते देवने क्रीडायां सा कृष्णं विजित्य यदि प्रजग्ल्भे, तदा अयं कृष्णः निजगण्डं दधानः सन्प्राह ॥३३॥
स्व ग्लहं सखि गृहाण जितोऽहं यत् त्वयात्र सदसीति ततः सा ।
स्वाः सखीः स्मितमुखीरभिवीक्ष्यै वाञ्छलेन पिदधे हसदास्यम् ॥३४॥
हसद् इत्यास्यस्य कर्तृत्वे स्वेन रुद्धमानम् अपि हास्यं स्वयं प्रकटीभवतीति वुध्यते ॥३४-३५॥
हास्य रंहसि दरोपशमे सा प्राह साहसिक नाहमजैषम् ।
ओमिति श्रित बलः पुनरस्या एव गण्डमसकृत् स चुचुम्ब ॥३५॥
सत्यमीदृश पणं निदिशन्ती देवनं त्वमयि देवर बन्धुः ।
कौन्दि मां हससि तत् त्वमिदानीं खेलनाहमिति सा विरताभूत् ॥३६॥
हे कौन्दि ! ईदृशपणं देवनं क्रीडां निदिशन्ती त्वम् एव खेल ॥३६॥
आलि वेणु महती पण जुष्टामक्षकेलिमधुना रचयित्वा ।
जित्वरी भव तयेति निदिष्टा दीव्यति स्म पुनरायतनेत्रा ॥३७॥
हे आलि ! पुनस्त्वं जित्वरी भव इति तया कुन्दवल्ल्या निदिष्टा सा दिव्यति स्म ॥३७॥
तत्र सैव जितवत्यवदत् तं देहि वेणुमिति तं स विचिन्वन् ।
तुन्दबन्धमनुपाणि विमर्शैर् नाप्नुवन्नथ सखायमपृच्छत् ॥३८॥
स श्रीकृष्णः तं वेणुं विचिन्वन्तुन्दवन्धे पाणिस्पर्शैर् न आप्नुवन्सनथ मधुमङ्गलमपृच्छत् ॥३८॥
क्वाहमस्मि चिरमत्र वनान्ते त्वं क्व पर्यटन कौतुक मत्तः ।
द्यूत पान वनितासु विषक्तः क्व त्वमस्मि तनुमान्क्व नु धर्मः ॥३९॥
पृष्टः स मधुमङ्गल आह—चिरकालं व्याप्यात्र व्नेऽस्म्यहं वा क्व । भ्रमणकौतुकमत्तस्त्वं वा क्व । अत्यन्तासम्भावनायां क्वद्वयम् । तनुमान्धर्मस्व-रूपोऽहं वा क्व ॥३९॥
कौस्तुभस्तु गत एव य आसीद्वेणुरेव तव मोहनमस्त्रम् ।
सोऽप्यगादुपविशन्नथ रीरी गीतमातनु मुखेन सुखेन ॥४०॥
सोऽपि वेणुरगात् गतः अधुना उपविशन्सन्सुखेन गीतमातनु ॥४०॥
आर्य साधु भणितं गत वेणुः केन कर्षत वनं प्रति रामाः ।
यापयिष्यति कथं बत यामानेष सङ्कटमिदं तव चाभूत् ॥४१॥
ललिताह—आर्येति गतवेणुरेषः केन हेतुना वनं प्रतिकर्षतु । क्तहं यामान्यापयिष्यति । तव च गमनागमन्-रूपदौत्यक्रमणि सङ्कटमभूत् ॥४१॥
किं ब्रवीषि ललिते त्वमिहैका प्रेमवत्यसि कृपालुरतो मे ।
सङ्कटं तदपनेष्यसि धन्येत्यस्मयन्त सुदृशो बटु वाक्यात् ॥४२॥
वटुस्तां हे ललिते ! एका त्वम् एवात्र श्रीकृष्णे प्रेमवती । मयि च क्र्पया स्वयम् एवागत्य श्रीकृष्णेन सह मिलनं करिष्यतीति भावः । इति मधुमङ्गलवाक्यात् सर्वाः सुदृशः अस्मयन्तः हास्यं चक्रुः ॥४२॥
त्वं यया द्विज वृतोऽस्ययि दुर्गा दत्त दिव्य बलिभुक् स्व पुरोधाः ।
सद्त्वदूढ तनुरेष्यति पद्मा सख्यरुर्दवयिता तव सख्युः ॥४३॥
कुप्यन्ती ललिता आह—हे द्विज ! यया वृतः अत एव पुरोधाः पुरोहितः सन्दुर्गायै दत्तस्य दिव्यवलेः पूजोपहारस्य भोक्ता असि । सा पद्मासखी चन्द्रावली त्वदूढतनुः अर्थात् तव स्कन्धे आरुह्य अत्र कुञ्जे आयास्यति । तव स्ख्युः श्रीकृष्नस्य अरुः पीडां दवयिता । पक्षे हे द्विज ! पक्षिन् । हे दुर्गया आदत्त ! स्ववलित्वेन स्वीकृत इत्यर्थः । वलिभूग् वायसस्त्वं यया वृतोऽसि । स्वस्य पुरो धावतीति स्वपुरोधा औणादिकः ॥४३॥
मुञ्च हास्यमिदमुद्दिश वंशीं कृष्ण वेद्मि न गतिर्ललिते त्वम् ।
त्वत् सखी किमहरन्नहि विष्णुः कापि नात्र परवस्तु जिहीर्षु ॥४४॥
श्रीकृष्ण आह—मुञ्चेति । ललिताह—हे कृष्न ! अहं न वेद्मि । कृष्ण आह—गतिरिति । ललिताह—नहिति, आसां मध्ये कापि परवस्तिउ जिहिर्षुर्नास्ति ॥४४॥
स च्युता मम हृतैव भवत्या दोलकेलिमनु तुन्दपटाद्वा ।
माधवार्क शपथः सखि पाने सीधुनः किमु शपेऽच्युत विष्णोः ॥४५॥
दोलकेकौ मम तुन्दवन्हाद्विच्युता सा भवत्यैव हृता । हे माधव ! सूर्यशपथः । हे सखि ! मधुपाने वा किं हृता । हे अच्युत ! विष्णोः शपे ॥४५॥
कच्चिदम्बुयुधि वा नहि नह्येवाम्बुजेक्षण तदेव हि दिव्यम् ।
तर्हि मे क्व नु गता बत वंशीकौतुकं किमिह पश्यथ सभ्याः ॥४६॥
हे अम्बुजेक्ष्ण ! तदेव दिव्यम् ॥४६-४७॥
दातुम् अप्रथमहो ग्लहमेषा त्वां निबध्य भुज वल्लरिपाशैः
यद्यियासति मनोज नृपाग्रे कात्र युक्तिरिति कुन्दलतोचे ॥४७॥
हन्त किं व्रज पुरन्दर सूनोः कष्टमेतदवलोकितुम् ईशे ।
क्षम्यतां तदथवा पण हेतोः पीन चेलमुररीकुरु राधे ॥४८॥
नान्दीमुखाह—हन्त किं भुजपाशैर् बद्धा राजाग्रे श्रीकृष्णस्य नयन-रूपकष्टमवलोकितौमहं कथमीशे ॥४८॥
माधवोऽवददये समधीत ज्योतिषागम सखे गणयासाम् ।
का जहार मुरलीमथ किञ्चिद्भावयन्स ललितेति जगाद ॥४९॥
श्रीकृष्ण आह—हे अधीतज्योतिषागम ! मधुमङ्गल ! गणय, आसां मधे का जहार ॥४९॥
नाहमस्मि कुटिलेति वदन्तीम् आह तां गिरिधरो रसनां स्वाम् ।
कञ्चुकीं कचततिं च विमुक्त ग्रन्थिमीक्षय न चेन्मम काभीः ॥५०॥
हे किटिल !नाहमस्मीतिवदन्तीं ललितां गिरिधर आह—हे ललिते स्वीयां रसनां क्षुद्रघण्टिकां विमुक्तग्रन्थिमीषय ॥५०॥
सा क्रधा बहु दुधाव निचोलं द्राग् अथात्त चिकुर हरिरस्याः ।
कञ्चुकीं करधुतोऽपि नखैर् द्यन्लोचनेङ्गित विदत्यजदेनाम् ॥५१॥
सा ललिता द्राक् शीघ्रं निचोलं दुधाव कम्पयामास । अथानन्तरं अस्या आत्तचिकुरो हरिः ललितया करेण धुतो अर्थात् निवारितोऽपि कञ्चुकं नखैर् द्यन्खण्डयन्राधिकां प्रति ललिताया लोचनेङ्गितवित् कृष्णः एनां ललितामत्यजत् ॥५१॥
राधिकामथ तथैव विशाखां तत् तदक्षितट धूनननुन्नः ।
स व्यकर्सदपरा अपि चक्रे न क्षणास्त्रुटित कञ्चुलिकाः किम् ॥५२॥
तासामक्षितटधूननेन नुन्नःप्रेरितः सन्राधिकां तथैव विशाखां स व्यकर्षत् । अपरा अपि स्खीः किं क्षणात् त्रुटितकञ्चुकिकाः न चक्रे ॥५२५३॥
तावदेत्य वनदेव्यथ काचित् प्राह सूर्यसदने जटिलागात् ।
तास्ततो निखिल केलि मुदस्य त्रस्त नेत्रमगुरन्तिकमस्याः ॥५३॥
किं स्नुषे क्व नु विलम्बमकार्षीः स्नातुम् अद्य यदगां सुरनद्याम् ।
किं नु कुन्दलतिकामिह वीक्षे सा गता मम पुरोहित हेतोः ॥५४॥
सुरनद्यां मानसगङ्गायां स्नातुम् अद्य अगां मम पुरोहितस्य हेतोः सा कुन्दलतिक गता ॥५४॥
नैति किं चिरमियं कलयारादागतां सह पुरोधसमेनाम् ।
विप्र वेशधर कृष्ण समेता सा गताथ निजगाद च वृद्धाम् ॥५५॥
इयं कुन्दलता चिरकालं व्याप्य कथं न एति । राधिकाह—पुरोहितेन सहितां निकटे आगतां एनां पश्य ॥५५॥
नाद्य कोऽपि चिर मार्गणतोऽपि प्राप्यते द्विज सूतो निज गोष्ठे ।
किन्त्वयं मधुपुरी भव आगादत्र गर्ग कलिताखिल विद्यः ॥५६॥
पक्षे गर्गेण कलिता ज्ज्ञापिता अखिला विद्या यस्य सः । मधुपुरी भव इति सत्यैव्सरस्वती ॥५६॥
एनम् एव बहु वर्णिनमत्र स्तौति पण्डितततिर्मतिमन्तम् ।
तन्मयाग्रह शतैर् इह नीतं तं पुरोहिततया वृणु वध्वाः ॥५७॥
एनं वर्णिनं ब्रह्मचारिणं बहु स्तौति । पक्षे बहु-रूपिणं शुक्लोरक्तस्तथा पीत इति तु सरस्वती । पुरोऽग्रे वध्वा हिततया वृणु ॥५७॥
तं जरत्यवददद्य कृतर्थैवाभवं भवदवेक्षण मात्रात् ।
विप्रवर्य परिपूरित कामां मद्वधूं कुरु समर्चय मित्रम् ॥५८॥
विशेषेण प्रकर्षेण वर्येति सरस्वती । मित्रं सूर्यम् । पक्षे मित्रं त्वां अर्चय तत एव बधूं पूरितकामां कुरु ॥५८॥
धीरतार नयनः सितवासा दर्भ सम्बलित पुस्तक पाणिः ।
साम गान मधुर स्वर कण्ठो मूर्तिमान्स इहैष तदोचे ॥५९॥
एष श्रीकृष्णस्तदा ऊचे । कथम्भूतः धीरे तारे ययोस्तथा-भूते नयने यस्य ॥५९॥
वर्णिनो यदपि नोचितम् एव स्त्री विलोकनमथाप्यति साध्वीम् ।
कारये स्तृत तनूमिह काम प्रांशुमद्यजनमद्य तु वृद्धे ॥६०॥
तथापि वस्त्रेण आच्छादिततनुं अतिसाध्वीं कामं वाञ्छितं प्राति पूरयति कमप्रमंशुमतः सूर्यस्य यजनं कारये । पक्षे कमपूरककान्तिकं मद्यजनमिति च्छेदः ॥६०॥
स्वस्तिवाचनपुरःसरमेतां
पूजयन्नथ जगाद नताक्षीम् ।
वासरे नवरसादरसेवा
चार्यमत्र वृणु मां धिनु मित्रम् ॥६१॥
एतां पूजयन्पूजयितुं जगाद । वासरस्य इनवरः प्रभुवरः सूर्यस्तस्य सादरसेवाचार्यं मां वृणु । मित्रं सूर्यं च धिनु सुखय । पक्षे, वासरे दिवसे एव नवरसस्य अदरसेवा अनल्पास्वादः मित्रं माम् ॥६१॥
त्वं स्मरार्चनविधेरुपचारान्
आहरन्त्यलघु तोषय भावैः ।
वच्मि मन्त्रमहमों जय सर्व
व्यापकेश्वर जगद्धितकारिन् ॥६२॥
अर्चनविधेरुपचारानाहरन्ती सती मित्रं स्मर मननमात्रं कुरु । भावैस्तं तोषय । पक्षे कन्दर्पार्चनस्य विधेः । मन्त्रं तु अहम् एव वच्मि । जय सर्वेत्यादि पदमुभयपक्षे सङ्गमनीयम् ॥६२॥
भास्करेक्षण तमोनुद शश्वत्
पद्मिनीगणविकाशकभानो ।
धर्मदाय परमार्थसवित्रे
कामदाय महसेऽस्तु नमस्ते ॥६३॥
हे पद्मिनीगणविकाशकभानो ! पक्षे, पद्मिनीगणविकाशकः भानुः किरणो यस्य । पक्षे, धर्मदाय धर्मखण्डनाय नमः । पक्षे परमो यः सङ्ग-रूपोऽर्थस्तस्य सवित्रे जनयित्रे ॥६३॥
पत्युरस्तु कृपया तव भास्वद्
यागतोऽयुतगवाप्तिरमुष्याः ।
कल्यतानवरतं चिरमायुर्
वृद्धिरित्यमुमयाचत वृद्धा ॥६४॥
तव कृपया अमुष्याः पत्युः सूर्ययागात् अयुतगवाप्तिरस्तु । पक्षे, तव पत्युः सामान्याधिकरण्यम् । अयुतकान्तिप्राप्तिरस्तु । अनवरतं निरन्तरम् । कल्यता नैर् उज्यम् । निरामयं कला इत्यभिधानात् । पक्षे, कल्यता सामर्थ्ये तज्जन्यं नवं नवं रतं च ॥६४॥
एवमस्त्विति वदत्यघशत्राव्
एत्य तत्र मधुमङ्गल ऊचे ।
सूर्य सूक्तमहम् एव पठामीत्य्
अक्षिपद्दृशमशेषनिवेद्ये ॥६५॥
एवमस्त्विति श्रीकृष्णे वदति सति तत्र मधुमङ्गल एत्य ऊचे । अहं पठामीत्युक्त्वा लोभेन अशेषनिवेद्ये दृशमक्षिपत् ॥६५॥
मूर्ख लम्पटसख त्वमिहागाः
किं बटुः प्रतिदिनं पुनरेषः ।
पूज्ययिष्यति वधूमतिसौम्यः
श्याम इत्यदरयज् जरती तम् ॥६६॥
हे लम्पटसख ! त्वं कथमत्रागाः ? ॥६६॥
पूर्णतां यदि जगाम महेष्टिर्
दक्षिणामियमदत्त सुवर्णम् ।
नाग्रहीदयमथैत्य बटुस्तन्
नीतवानथ निवेदितमाद ॥६७॥
यदि महेष्टिः पूर्णतां जगाम, तदा इयं वृद्धा सुवर्णं दक्षिणामदत्त । अयं ब्रह्मचारी नाग्रहीत् । बटुस्तत्र एत्य सुवर्णं नीतवान् । निवेदितं च आद भक्षितवान् ॥६७॥
साम्प्रतं शृणु सतीकुलवर्ये
भास्वते नम इतीह पठन्ती ।
उत्थिता कृतपरिक्रमणा त्वं
क्षौणिलग्नशिरसा प्रणमामूम् ॥६८॥
स्पष्टम् ॥६८॥
सा तथा विदधती तदुदञ्चत्
पाटवामृतरसार्पितचित्ता ।
वेणितष्ठणदिति क्षितिपृष्ठे
नो विवेद मुरलीं निपतन्तीम् ॥६९॥
तथा नयनं विदधती सा तस्य श्रीकृष्णस्य उदञ्चत् उदयं प्राप्नुवत् यत् पाटवामृतं तस्यास्वादे अर्पितचित्ता सती वेणितष्ठणदिति शब्दं कृत्वा क्षितिपृष्ठे निपतन्तीं मुरलीं नो विवेद ॥६९॥
किं किमेतदिति तां जरती द्राग्
आददेऽथ परिचित्य धुतास्या ।
हुं हुम् इत्यरुणदृष्टिरतर्जद्
गर्जदुद्यदुरगीव मृगाक्षीम् ॥७०॥
धुतास्या कम्पितास्या सा अरुणदृष्टिर्सती अतर्जत् । गर्जन्ती उच्छलन्ती पन्नगी इव
॥७०॥
शैलसानुगतया पतयालु वंशिका ध्रुवमलम्भि मयार्ये ।
दुःक देयमिति सूरसुतायां क्षेपणाय कलिता किमु कुप्ये ॥७१॥
शैलसानुगतया मया पतयालुर्वंशिका अलम्भि । यमुनायां क्षेपणाय तत् स्थानात् इयं गृहीता किं त्वं कूप्येः ॥७१॥
हा कलङ्किणि दुरन्वयजाते मा प्रतारयसि नित्यमिदानीम् ।
वृद्ध संसदि निवेद्य यते त्वत् कामुकस्य तव चाप्युचिताय ॥७२॥
त्वत् कामुकस्य कृष्णस्य तव च उचिताय उचितशास्तिं कर्तुं अहं यते ॥७२॥
किं निदानकमिदं बहु रोष क्रोशनं तव वधूं प्रति वृद्धे ।
अप्रसङ्गविदमर्हति वक्तुं चेद्वदाखिल हित श्रयिणं माम् ॥७३॥
अप्रसङ्गविदं मां वक्तुम् अर्हति चेत् वद ॥७३॥
अर्य विप्र तनय व्रजराजं वेत्सि हुं स तु पुरेऽपि यशस्वी ।
तस्य कोऽप्यजनि सूनुरयं च श्रूयतेऽघ बक केशि निहन्ता ॥७४॥
हे विप्रतनय ! व्रजराजं त्वं वेत्सि ? हुं जानामीत्यर्थः । स तु मम पुरे यशस्वी प्रसिद्धः । पुनर्वृद्धा आह—तस्य पुत्रः कोऽपि वर्तते ? श्रीकृष्ण आह—अयम् अपि अघवकादि हन्तृत्वेन मधुपुरे मया श्रूयते ॥७४॥
तस्य कञ्चन गुणं शृणु साध्वी कापि नाम धृतयेऽप्यधिगोष्ठम् ।
न स्थिता यत इयं तु वधूटी केवलास्ति न च वेद्म्यथ किं स्यात् ॥७५॥
अधिगोष्ठं गोष्ठे कापि न स्थिता ।७५॥
सेयमस्य मुरली पुनरस्या एष गान मिष मोहन मन्त्रैः ।
आनयन्कुलवतीर्वनमों श्री विष्णवे नम इति प्रकरेति ॥७६॥
एष नन्दपुत्रः । अस्या गानमिषेण मोहनमन्त्रैः । कुलवतीरानयनों श्रीविष्णवे नमः इति करोति ॥७६॥
तद्गिरा स्मित विराजित वक्त्रो व्याजहार मुरली किल कीदृक् ।
देहि मह्यमिति स स्वकरेऽधात् तामनीक्षितचरीमिव पश्यन् ॥७७॥
वृद्धावचनेन स्मितविराजितवक्त्रः श्रीकृष्णः व्याजहार । मुरलीं—अनीक्षितचरीमिव पश्यन्करे अधात् दधार ॥७७॥
आर्य कार्यविदुषोऽस्ति तवेच्छा चेदिमां मणिमयीं नय दत्ताम् ।
यात्वियं व्रजवनान्मधुपुर्य्यामत्र तिष्ठतु सतीकुलधर्मः ॥७८॥
हे आर्य ! अर्थग्रहण-रूपकार्यविदुषस्तव यदि इच्छा स्यात् तदा मया दत्तां मणिमयीं मुरलीं नय ॥७८॥
आदिश्य त्वमधुना निज गेहं सस्रुषा द्रुतमये समये त्वम् ।
नित्यमेहि धिनु नस्तव भक्ता मद्वधूमनुगृहाण गुणाब्धे ॥७९॥
अधुना त्वमादिश आज्ज्ञां देहि सस्नुषा अहं गृहं अये । त्वन्तु सूर्यपूजासमये नित्यं एहि । तव भक्ता नोऽस्मान्धिनु । पक्षे अनु अनन्तरं बधूं गृहाण स्वीकुरु ॥७९॥
इत्यघारि चरितामृत वल्ल्याः सन्ततं त्रिजगति प्रचरन्त्याः ।
मध्यवासर विकास्युरुकेली पुष्पवृन्दमधिगोष्ठमचैषम् ॥८०॥
मध्याह्नलीलामुपसंहरति । श्रीकृष्णस्य लीला-रूपामृतवल्ल्या गोष्ठसम्न्बद्धि अथ च मध्यदिवसविकासिकेलि-रूपपुष्पवृन्दं अहमचैषम् ॥८०॥
प्रीतिरेव सुदृशां कुसुमानि व्यस्य तानि मदनोऽकृत बाणात् ।
ते च मर्मभिद एव सदासां तच् च शर्मभरितं प्रिययोगे ॥८१॥
तानि कुसुमानि व्यस्य विस्तार्य कन्दर्पः वाणानकृत । ते च वाणा आसां व्रजसुन्दरीणां सदा मर्मभिद एव भवन्ति तं च वाणविद्धं मर्म श्रीकृष्नसंयोगे शर्मभरितं सुखपूर्णमभूत् ॥८१॥
इति हरिमभिवन्द्य स्वालयं सालिवध्वा
स समगमदमन्दोत्कण्ठया यर्हि वृद्धा ।
प्रियसख धृत पाणिः सोऽपि तत् पृष्ठवर्त्म
प्रहित नयन आप स्वान्सखीन्वक्षतो गाः ॥८२॥
आलिसहितया बद्धा समं वृद्धा यदा अगमत् तदैव कृष्णोऽपि गा रक्षतः स्वान्सखीनाप ॥८२॥
इति श्री-कृष्ण-भावनामृते महा-काव्ये
माध्याह्निक-लीलास्वादनो नाम
पञ्चदशः सर्गः
॥१५॥
—ओ)०(ओ—
(१६)