चतुर्दशः सर्गः
जल-विहार-लीलास्वादनो नाम
निदाघ-सुभगं वनं वनज-निन्दि पद्मां भ्रमन्
विलोक्य मधुमङ्गलं कथय कस्य हेतोः सखे ।
चिरं विरसम् एकको वससि हा विहायैव नो
रसालपनसाटवीतट भुवीति तं सोऽब्रवीत् ॥१॥
वनजं पद्मम् । हे सखे ! मधुमङ्गल ! नोऽस्माकं बिहाय आम्रपनसाटवीतटभुवि बिरसं यथास्यात्तथा एकको वससि ? इति तं मधुमङ्गलं स कृष्णः अव्रवीत् ॥१॥
वयस्य रसिकोऽहम् इत्यलघु मन्यसे स्वं यतस्
तदद्य विवदे त्वया वद रसो भवेत् कीदृशः ।
विदन्तु तव वैदुषीं मम च तमिमे साक्षिणो
रसालगुरुशाखिनो द्विजकुलस्तुता वस्तुतः ॥२॥
मधुमङ्गल आह—हे वयस्य ! कृष्ण ! यस्त्वं अहं रसिक इति अलघु मन्यसे तत् तस्मादद्य त्वया सह विवदे विवादं करोमि । रसः कीदृशो भवेदिति वद रसलक्षणं वदेत्य् अर्थः । तथा च तव वेदुषीं पाण्डित्यं मम च तां वैदुषीमिमे साक्षिस्व-रूपाःरसालगुरुशाखिनःआम्र-रूपबृहद्वृक्षाः । पक्षे रसशास्त्रं गृह्नन्ति ये गुरवस्ते एव वेदशाखिनः विदन्तु । कथम्भूता द्विजकुलैः पक्षिकुलैः । पक्षे ब्राह्मणकुलैः स्तुताः ॥२॥
सखे पशुपनागरीनयनवेल्लित क्रीत यद्
वने भ्रमसि निष्फले विकचमालतीमल्लिके ।
तथापि रसिकाग्रणीर्यदिह घुष्यते भान्ति तत्
प्रसिद्धजनवर्तिनो गुणतयैव दोषा अपि ॥३॥
हे सखे ! कृष्ण ! हे पशुपनागरीनयनकम्पनेन क्रीत ! यत् यद्यपि विकसितमालतीमल्लिकायुक्ते अत एव निष्फले वने भ्रमसि, तथापि जनैस्त्वं रसिकाग्रणीर्घुष्यसे तत् तस्मात् भवद्विधप्रसिद्धजनवर्तिनो दोषा अपि गुणतयैव भान्ती ॥३॥
अहं तु पनसाम्रयो रसनिधीकृत स्वोदरस्
तदप्यरसिकोऽभवं तव मते धृताहङ्कृते ।
भ्रमन्निह वने वने त्वदनुगो बुभुक्षातुरो
भवामि यदि तल् लभै रसिकताप्रथां त्वत्कृताम् ॥४॥
पनसाम्रयो रसेन निधीकृतं समुद्रीकृतं उदरं येन तथा-भूतोऽहं तदापि तव मते अरसिको भवामि । हे धृताहङ्कृते ! तद इव त्वत्कृतां रसिकताप्रथामहं लभै ॥४॥
जगत्त्रितयदुर्लभातुलफलैव वृन्दाटवी
तव त्वम् अपि नित्यतद्विहरणप्रियः ख्यापसे ।
परन्तु तदुदित्वरामृतरसैकतानो भवान्
अभून्न तदियं सखे मम सखेदता नापरा ॥५॥
जगत्त्रये सुदुर्लभा अथ चातुलफला एवं-भूता तव वृन्दाटवी । एवं त्वम् अपि नित्यं वृन्दावनबिहरणप्रिय इति जनैः ख्याप्यसे । परन्तु तस्मिन्वृन्दावने उदित्वरः उत्पन्नशीलो योऽमृतरसस्तदेकतानस्तदेकचित्तो भवान्न अभूत् । हे सखे ! इयम् एव मम सखेदता न अपरा ॥५॥
निदाघदिवसे बटो शिशिरनिर्झराम्भोरसैर्
नटत्सरसिजानिलैर् मधुरमल्लिकासौरभैः ।
पलासनवपल्लवैर् वनकपोतमञ्जुस्वनैर्
ममेयमखिलेन्द्रियप्रमदसाधिकैकाटवी ॥६॥
श्रीकृष्ण आह—निदाघेति । निदाघदिवसे शीतलनिर्झरजलप्रभृतिभिर्मम रसनादिसर्वेन्द्रियानन्दसाधिका इयमटवी । अत एवास्मिन्वने अहं ब्रमामि । अरसिकत्वात् हे वटो ! न तु सखे ! ॥६॥
बहिर्मरकतद्युतिः कमलरागनिन्दिप्रभा
द्रवामृतभृतान्तरा परिमलम्रदिम्नोः स्वनिः ।
रसालपदवाच्यतामुपगता फलानां ततिर्
मदिन्द्रियसतृष्णतां सपदि कृष्ण चक्रेतमाम् ॥७॥
वटुराह—आम्रफलानां ततिः बरिर्मरकतद्युतिरिति नेत्रस्य । रसालपदवाच्यतामुपगतेति श्रवणेन्द्रियस्य ॥७॥
पुरः कलय माधव द्युतिमतीमतीत्याटवीर्
इमा अपि जगत्त्रयीमुकुटनूत्नरत्नप्रभाः ।
विलासनिवहावनीमिह वनीमिमां वां न वाङ्
महाकविपतेर् अपि प्रभवतीव यद्वर्णने ॥८॥
वृन्दा श्रीकृष्णमाह—हे माधव ! इमा अटवीः अतीत्य द्युतिमतीमिह राधाकुण्डनिकटे इमां वनी क्षुद्रवनीं पुरः कलय । कथम्भूतां जगदिति । पुनश् च युवयोः विलाससमूहस्य अवनी अव रक्ष्णे धातुः । विलाससमूहस्य भूमिश् च महाकविपतेर् अपि यद्वर्णने वाक्यं न प्रभवति इव ॥८॥
इति प्रमदमेदुरस्फुरदमन्दवृन्दावचः
सुधांशुकिरणोच्छलद्विपुलतर्षकीलालधी ।
उदित्वरपुरुत्वरं रसपुरःसरं प्रापतुः
स्वकेलिसदनायितं प्रियतमौ स्वकुण्ड-द्वयम् ॥९॥
इति प्रणयेन मेदुरं स्निग्धं यत् स्फुरदमन्दं वृन्दावचस्तदेव शुधांशुश्चन्द्रस्तत् किरणेन उच्छलद्विपुलतृष्णा एव कीलालधिर्जलधिर्ययोरेवं-भूतौ प्रियतमौ राधा-कृष्णौ उदित्वरा उदयशीला पुरुत्वरा महात्वरा यत्र तद्यथास्यात्तथा । एवं रसपुरःसरं यथास्यात्तथा स्वकेलिसदनमिवाचरितं स्वकुण्ड-द्वयं प्रापतुः ॥९॥
इहापि लभते प्रथामधिकम् एव राधासरः
क्रमेण ललितादिभिर्यदभितो निकुञ्जावली ।
हरित्सु धनदेश्वरान्तकशचीशनीराधिपा
नलास्रपनभस्वतां निजनिजाख्ययाङ्गीकृता ॥१०॥
इहापि कुण्ड-द्वयमध्येऽपि राधाकुण्ड अधिकं यथा स्यात् तथा ख्यातिं लभते । यस्य राधाकुण्डस्याभितः दिगधिष्ठातृदेवतानां धनदेत्यादि नभस्वत्पर्यन्तानां हरित्सु दिक्सू विदिक्षु च या कुञ्जावली वर्तते, सा ललितादिसखीभिर्ललिताकुञ्जविशाखाकुञ्जेत्यादि निजनिजसमाख्यया अङ्गीकृता । तत्र ईश्वर ईशानः । अन्तको यमः । शचीश इन्द्रः । नीराधिपः वरुणः । अस्रं रक्तं पातीति अस्रपो नैर् ऋतः । क्रव्यादोऽस्रप आसर इत्य् अमरः । नभस्वान्वायुः । तथा च उत्तरेशानदक्षिणपूर्वपश्चिमाग्निकोणनैर् ऋतवायुकोणादिदिग्विदिक्षु क्रमेण ललिता+विशेषाचम्पकलताचित्रातुङ्गविद्याइन्दुलेखारङ्गदेवीसुदेवीनां कुञ्जा ज्ज्ञातव्याः । क्रमो यथा उत्तरस्यां दिशि ललिताकुञ्जः । उत्तरपूर्वयोर्मध्ये ईशानकोणे +विशेषाकुञ्जः । दक्षिणस्यां दिशि चम्पकलताकुञ्जः । पूर्वस्यां दिशि चित्राकुञ्जः । पश्चिमस्यां दिशि तुङ्गविद्याकुञ्जः । पूर्वदक्षिणयोर्मध्ये अग्निकोणे इन्दुलेखाकुञ्जः । दक्षिनपश्चिमयोर्मध्ये नैर् ऋतकोणे रङ्गदेवीकुञ्जः । पश्चिमोत्तरयोर्मध्ये वायुकोणे सुदेवीकुञ्जः ॥१०॥
प्रतिक्षणमुपासिता विपिनपालिकापालिभिः
प्रसूनमणिदर्पनप्रबलतोरणोपस्कृता ।
विलासिवरयोर्मधूत्सवनिकामहिन्दोलन
प्रसूनरणनिह्नवाप्लवजलस्थलक्रीडनैः ॥११॥
मधूत्सवो होलिका क्रीडा । प्रसूनरणः पुष्पनिर्मितकन्दुकैर् युद्धलीला । निह्नवो लुक्लुकानीति प्रसिद्धो लीलाविशेषः । आप्लवा जलक्रीडा ॥११॥
सुधामदविमर्दकृत्फलपरःशतास्वादनैर्
मिथोऽक्षकलिनर्मभिर्विविधहास्यलास्यादिभिः ।
कवित्वरसचर्वणैर् विविधमानतन्मार्जनैः
सदा सुभगतास्पदं निखिलदृङ्मनोमोहिनी ॥१२॥
अक्षकेलिर्द्यूतक्रीडा । विविधा मानास्तेषां मार्जनं शान्तिः ॥१२॥
तथा तटचतुष्टयी विविधरत्नसोपानभृत्
तदन्यमणिभिः क्रमादिह तथावतारः कृताः ।
तरुद्वितयकुट्टिम-द्वयविराजितच्छत्रिका
सदोलनचतुष्किका यदुपरिस्थपार्श्व-द्वयी ॥१३॥
तथा राधाकुण्डस्योत्तरदिग्वर्तितटचतुष्टयी सिडी इति प्रसिद्धं विविधरत्ननिर्मितं सोपानं बिभर्ति । इह सोपानमध्ये तदन्यमणिभिर्यादृशमणिना सोपानस्य निर्माणं कृतं तदन्यमणिभिर्घाट इति प्रसिद्धा अवताराः कृताः । येषामवताराणामुपरिस्थपार्श्व-द्वयी तरु-द्वयविशिष्टकुट्टिम-द्वयं विराजितौ छत्रौ यत्र तथा-भूतौ । एवं हिन्दोलनलीलार्थं दोलनसहितौ चतुष्की यत्र तथा-भूतौ ॥१३॥
धनेशदिशि तीर्थतः कलितसेतु मध्येसरो
विधूपलगृहं विभात्यमलमञ्जुकुञ्जावृतम् ।
अनङ्गयुतमञ्जरीं स्वभगिनीं स्वनामाङ्कितं
शुचौ तदधिशाययन्त्यगभृता सुखे मज्जति ॥१४॥
मध्येसरः सरोवरस्य राधाकुण्डस्य मध्ये चन्द्रकान्तिमणिना निर्मितमनङ्गमञ्जर्या गृहं विभाति । ननु कुण्डमध्ये कथं सर्वासां गमनागमनं सम्भवति ? तत्राह—धनेशदिशि उत्तरस्यां दिशि यस्तीर्था वर्तते तस्मात् । कुतः ? सेतुबन्धो यत्र तथा-भूतं गृहम् । यदधि यस्मिन्गृहे शुचौ ग्रीष्मे श्रीराधिका स्वभगिनीमनङ्गमञ्जरीमगभृता श्रीकृष्णेन सह शाययन्ती सती स्वयं सुख मज्जति ॥१४॥
तथाग्निहरिदिग्गतः कनकसेतुबन्धोऽघभित्
सरोमिलनहेतुको निखिलतीर्थखेलास्पदम् ।
ततोऽस्ति सुबलाद्युरीकृतनिकुञ्जमालावृतं
क्षितौ निरुपमां प्रथां गतमरिष्टकुण्डं महत् ॥१५॥
तथा अग्निकोणादिन्द्रदिग्गतः सङ्गम इति प्रसिद्धः स्वर्ण-निर्मितसेतुबन्धोऽस्ति । कथम्भूतः ? राधाकुण्डे कृष्णकुण्डस्य मिलनप्रयोजनकः । ततः सेतुबन्धात् परत्र निरुपमां ख्यातिं प्राप्तं कृष्णकुण्डमस्ति । कथम्भूत्? यथा राधाकुण्डस्य दिग्विदिक्षु ललितादिसखीनां कुञ्जाः सन्ति । तथैव सुबलादीनां कुञ्जश्रेणीवृतम् ॥१५॥
नटन्ति शिखिनस्तटे मदकलाः कलापाङ्किता
रटन्त्यधिजलं कलं स्वरतिशंसिका हंसिकाः ।
भ्रमन्त्यमलगुञ्जिता नभसि पुञ्जिताः षट्पदा
इतीक्षणविलक्षणक्षणभृदाह कञ्जेक्षणः ॥१६॥
मदकला मत्ताः शिखण्ड्नः कुण्डतटे नृत्यन्ति । कथम्भूताः ? कलापैर् नृत्यसमये विस्तृतपिञ्छैर् अङ्किताः । तथा अधिजलं जले हंसिकाः कलं रटन्ति । कथम्भूता ? स्वस्य या रती रमणं तस्याः शंसिकाः कामोन्मत्ताः सत्यः जले शब्दं कुर्वन्तीत्यर्थः । एवं भ्रमरा नभसि आकाशे पुञ्जिताः सन्तः भ्रमन्ति । इत्येषां शिखण्डिप्रभृतीनामीक्षणेन विलक्षणोत्सवं बिभर्ति । यः कञ्जेक्षणः श्रीकृष्णः स प्रेयसीं प्राह ॥१६॥
पिकप्रकरटिट्टिभाप्रचयचातकश्रेणयो
मरालपरिषत् शुकावलिसमूहहारीतकैः ।
सहैव युगपत् पृथक् स्वरतया लपन्तो मम
श्रवोऽपि विदधत्यमी सरसमर्थषट्कग्रहम् ॥१७॥
अमी पिकसमूहटिट्टिभसमूहादयः सरसं यथा स्यात् तथा अर्थषट्कग्रहं षडृतूत्पन्नानामेषां शब्द-रूपार्थानां ग्रहः ग्रहणं यत्र तथा-भूतं मम श्रवः कर्णं विदधति । समूढैः समूहयुक्तैः हारीतकपक्षिभिः । तादृशश्रेणयः कथम्भूताः हंससभा शुकश्रेणीसमूहहारीतकैः सह युगपत् एकस्मिन्काले स्वरतया लपन्तः । तथा च, राधाकुण्डे एकस्मिन्नेव काले षडृतूनां समागमो बोध्यः । तथा च वसन्तकाले कोकिलो वदति, ग्रीष्मे टिट्टिभः । वर्षायां चातक इत्य्-आदि ॥१७॥
प्रफुल्लनवमालिकामृदुलमल्लिकायूथिकाः
सरोरुहकुरुण्टकप्रवरकुन्दवल्लीरलिः ।
सदा पिबति कश्चन क्वचिदनेकभार्यागृही
यथर्तुगमनव्रतं प्रतिदिनं क्रमाद्विन्दते ॥१८॥
अलिर्भ्रमरः भिन्नभिन्नर्तुषु प्रफुल्ला अपि नवमालिकाप्रभृति वल्लीः सदा पिबति । यथा कश्चन अनेकभार्यायुक्तगृही, ऋतावेव भार्यामहं गच्छेयं नान्यकाले इति नियमं प्रत्यहम् एव प्राप्नोति । भार्याणां बहुत्वात् प्रत्यहमवश्यमेकस्या ऋतुसमागमो भवतीति भावः ॥१८॥
वराङ्गि परितस्थुषी परित एव युष्मत्सरस्
तरुव्रततिसंहतिर्विपुलतुङ्गशाखाशतैः ।
मिथो वलयितैस्तथा वृणुत साधु मध्येदिनं
प्रभाकरमरीचयो न सलिलस्पृशः स्युर्यथा ॥१९॥
हे वराङ्गि ! कुण्डस्य परितश्चतुर्दिक्षु परितस्थुषी युष्मत्सरस्तरुलतासमूहो मिथो वलयितैर् वेष्टितैः शाखाशतैस्यथा तथा अवृणुत । यथा दिनस्य मध्ये सूर्यमरीचयो न कुण्डस्य सलिलस्पृशः स्युः ॥१९॥
तथाप्यनु चतुर्दिशं चतुरनावृतद्वारतो
विशद्भिरनिलैः सदार्थिभिरथाप्ततत्सौरभैः ।
उदारनलिनीगणादलिपतिव्रजानां पुनर्
भभङ्करणतर्जनैर् अपि न मार्दवं त्यज्यते ॥२०॥
नन्वेवं चेत्, जले वायोः सञ्चारोऽपि मास्तु ? तत्राह—तथा हि अनु चतुर्दिशं चतुर्दिक्षु अनावृतचतुर्द्वारतो विशद्भिर्पवनैः सदा अर्थिभिर्याचकैः, अत एव कुण्डस्थोदारपद्मिनीगणात् प्राप्ततत्सौरभैः भ्रमरपतिव्रजानां पुनर्भभङ्करणतर्जनैः करणैर् अपि न मार्दवं त्यज्यते । तथा च याचकैर् इवानिलैर् मार्दवं मान्द्यं न त्यज्यते । तिरस्कारेऽपि न क्रुध्यत इवेत्य् अर्थः । एतेन वायोर्मान्द्यमानीतम् ॥२०॥
प्रफुल्लकमलानना चलनवीनमीनेक्षणो
च्छलन्मधुरिमोर्मिजप्रतनुफेणमञ्जुस्मिता ।
भ्रमद्भ्रमरमण्डली ललितवेणिका चक्रयुक्
कुचेलितरुचेक्ष्यते त्वमिव ते सरस्यन्चिता ॥२१॥
हे प्रिये ! त्वमिव तव सरसी अन्चिता पूजिता मया ईक्ष्यते । राधिकासाधर्म्यमाह—सरसी कथम्भूता ? प्रफुल्लेति । उच्छलन्माधुर्यं यत्र एवम्भूतोर्मिजन्यविस्तृतफेणेन मञ्जुस्मिता । भ्रमरमण्डली एव वेणिर्यस्या । ईलिता स्तुता रुचा कान्तिर्यस्या ॥२१॥
प्रिये सुरतरङ्गिणी त्वमसि भानुजा सर्वदा
क्वचित् त्वयि सरस्वती सरसयन्त्युदेति श्रुतीः ।
त्वम् एव मम नर्मदा स्फुरसि बहुदाप्यंसतह्
सदा तु सरसी भवस्युदितपूर्णताविस्कृतिः ॥२२॥
हे प्रिये ! त्वं सुरतरङ्गिणी गङ्गासि । पक्षे सुरतेषु रङ्गिणी । भानुजा यमुना । पक्षे वृषभानोः कन्या । क्वचिदंशे त्वयि सरस्वती श्रुतीर्वेदान्, पक्षे कर्णान्सरसयन्ती सती उदेति । नर्मदा नदी । पक्षे नर्माणि ददासि । अंसेन बाहुदा नदी । पक्षे अंसे स्कन्धे बाहुं ददासि । अंसः स्कन्धे विभागे चेति दन्त्यन्तवर्गेति विश्वः । अंशेन तत्तन्नदी भवसि पूर्णताविस्कृतिस्त्वं सदा तु सरसई कुण्डं भवसि ॥२२॥
अतो घनरसैर् घनप्रणयतो घनद्योतिनीं
निजापघनमण्डलीं सुजघनेऽवनेनेज्म्यहम् ।
इति क्वणितकङ्कणं मधुभिदा करं कर्षता
द्युतीरदरवर्षता विजहसे रसेन प्रिया ॥२३॥
अतः हे सुजघने ! मम नदी सरोवरस्व-रूपायास्तव घनरसैर् जलैः । पक्षे निविडशृङ्गाररसैः करणैः मेघवत् द्योतिनीं मम अपघनमण्डलीं हस्तपदादिशरीरश्रेणीमहमवनेन इज्मि शुद्धं करोमीति क्वणितकङ्कणं यथा स्यात् तथा प्रियायाः करं कर्षता तेनैव द्युतीः कान्तीः अनल्पं वर्षता कृष्णेन प्रिया राधा रसेन करणेन विजहसे ॥२३॥
इयं न सरसी भवत्यगधरातिवाम्योपला
जहीति तदिममिति व्रजविधोः करात् तां बलात् ।
विमोच्य विपिनाधिपानयदतह् परत्र स्थलेऽ
म्बरादि परिधापयन्त्यदरनीरखेलोचितम् ॥२४॥
इयं सरसी न भवति, अपि तु अगधरा पर्वतभूमिः अतिवाम्या अतिशयप्रातिकूल्या उपला यस्यां सा । वामौ वल्गुप्रतिपौ द्वाव् इत्य् अमरः । पक्षे, हे अगधर ! अतिवाम्यमुपलाति आधिक्येन गृह्णातीति सा न सरसीभवतीति च्विः ॥२४॥
हरेर्नयनषट्पदस्तरुदलावलिच्छिद्रतः
प्रविश्य निभृतं कुचाम्बुजानिकोरकावग्रहीत् ।
प्रिया तु विवृताङ्ग्यतो निखिलदिक्षु तच्छङ्कया
दृशं चकितमादधौ परिदधौ च चीनांशुकम् ॥२५॥
नयन-रूपषट्पदः स्तन-द्वय-रूपपद्मकोरकौ अग्रहीत् । प्रिया राधा तु विवृताङ्गी वस्त्रेणानावृतत्वात् व्यक्ताङ्गतः तस्य श्रीकृष्णस्य शङ्कया निखिलदिक्षु चकितं यथा स्यात् तथा दृशं दधौ ॥२५॥
परस्पर विकर्षणाच् चपलता लता एव ता
धुता अतनु वात्यया निपतिताः सरस्यम्भसि ।
प्रिया घनरस प्रिया घनरस प्रवृत्ताजयः
प्रियाङ्ग सुषमालिहोऽप्यलमनङ्ग लीढावभुः ॥२६॥
जलक्रीडार्थं परस्परविकर्षणाद्धेतोश्चापल्यस्य लतास्व-रूपाः अत एव कन्दर्पवात्यया धुताः कम्पितास्ताः प्रियाः कुण्डस्याम्भसि निपतिताः सत्यः वभुः । कथम्भूताः घनरसः जलं पक्षे शृङ्गाररसः स एव प्रियाः यासाम् । पुनश् च घनरसे प्रवृत्ता आजिर्युद्धं यासाम् । पुनश् च प्रियस्य सुषमां लिह्यन्तीति तथा-भूता अपि अलमतिशयेन शोभादर्शनोभूतेनानङ्गेन लीढाः अस्वादिताः ॥२६॥
मिथो ग्रथित पाणिभिर्मृदु मृदु प्रनुन्नाम्भसा
मुदग्रतर वर्तुल स्तननिभोर्मि माला सृजाम् ।
रराजे सुदृशां हरिर्वितत मण्डलामध्यगः
सहस्रदल कर्णिका द्युतिजिदूढ मञ्जुस्मितः ॥२७॥
जलमह्ये सुदृशां राधादीनां विस्तृतमण्ड्लीमध्यगः अत एव सहरदलकमलस्य कर्णिकाद्युतिजित् कृष्णः रराज । कथम्भूतां परस्परग्रथितपाणिभिः करणैः मृदुमृदुप्रनुन्नानि प्रेरितानि अम्भांसि याभिः । पुनश् च जलानां मृदुप्रेरणात् उच्चवर्तुलस्तनसदृशतरङ्गमालां सृजन्तीति तथा-भूतानाम् ॥२७॥
अघान्त-कर दुस्त्यज व्रत यदीक्षण स्पर्शन
प्रयोजनतया व्रजे मलिनयेः कुलस्त्रीः सदा ।
जलात् प्रकटिता इमे सुलभतां गतास्ते कुचास्
तदद्य नयने तथा करतले त्वमुल्लासय ॥२८॥
हे अघान्त-करेति विरुद्धलक्षणया स्त्रीणां पापकर ! हे दुस्त्यजव्रत ! येषां स्तनानामीक्षणस्पर्शनप्रयोजनतया त्वं व्रजे सदा कुलस्त्रीः मलिनयेः ते कुचाः अधुना जलात् प्रकटिता अत एव सुलभतां गताः तत् तस्मादद्य त्वम् ॥२८॥
इति स्मरमतङ्गजोन्मथित धीरिमाणः स्त्रियो
यथाभिदधुरोमिति प्रियतमोऽथ पप्रच्छ ताः ।
इमे न किमिमे कुचा इति तदा लघिम्नो भराज्
जलेषु तदुरस्सु च न्यधित पाणि पङ्केरुहम् ॥२९॥
ननु ताः स्त्रियः सत्यः कथम् एवं ब्रूयुस्तत्राह—स्मर-रूपमतङ्गजेन उन्मथितः दूरीकृतो धीरिमा धैर् यं यासां ताः स्त्रियः यथा अभिदधुस्तथैव ओम् इत्युक्त्वा प्रियतमः श्रीकृष्णः ताः पप्रच्छ । जले हस्तं दत्वा आह इमे कुचा स्तने हस्तं दत्वा आह अथवा इमे कुचाः ॥२९॥
अथापसरति व्रजे मृगदृशां तटे तस्थुषी
स्वयं पयसि खेलयन्त्यलघुदृक् सफर्यौ चले ।
अनङ्ग मदरङ्गिणोः सलिलसङ्गरे वैदुषीं
तयोर्विविदिषन्त्यलं सपदि कुन्दवल्ल्यब्रवीत् ॥३०॥
श्रीकृष्णभयात् मृगदृशां व्रजे समूहे अपसरति स्ति स्वयं तटे तस्थुषी कुन्दवल्ली अथ च जले स्वनयन-रूपसफर्यौ खेलयन्ती सती आह—कथम्भूता तयोरनङ्गमदरङ्गिणोः राधा-कृष्णयोः सलिलयुद्धे वैदुषीं पाण्डित्यं विविदिषन्ती ॥३०॥
रुचा जलधरो भवान्जलधरा रमण्यः करै
जलाजलियुधा क्षणं तनु हरे क्षणं यौवतैः ।
क्रमेण भज जिस्तुवोः प्रथित कर्तृता कर्मते
तयोर्गमयत प्रियाः सपदि कर्तृता कर्मते ॥३१॥
हे हरे ! भवान्रुचा कान्त्याजलधरः । तव रमण्यस्तु करैर् हस्तैः करणैर् जलधरा अतः क्षणं यौवतैः जलाजलियुद्धेन क्षणमुत्सवं तनु । त्वं क्रमेण जिस्तुवोः जि जये ष्टज्ञ्स्तुतौ इत्येतयोर्धात्वोः । प्रथितकर्मताकर्तृत्वे भज । एवं तव प्रियाः तयोर्जिस्तुवोः कर्तृताकर्मते त्वं गमयत प्रापयत । तत्रापि दैवात् वैपरीत्येनोक्तिः ॥३१॥
किमुक्तिमिति माधवे वदति सा विपर्य्यासतः
पपाठगुरु सम्भ्रमादभिदधुस्ततः सुभ्रुवः ।
ऋतैव सहसोदगादहह याद्य तान्मन्यथा
व्यधादिह सरस्वती तव वशा सुभद्राङ्गना ॥३२॥
वैपरीत्यं श्रुत्वा श्रीकृष्ण आह—सा कुन्दवल्ली गुरुसम्भ्रमात् विपर्यासतः । पुनः श्रीकृष्णपक्षे कर्तृताकर्मते पपाठ । अथ सुभ्रुवो व्रजसुन्दर्यः अभिदधुः । या वाणी आदौ ऋता सत्या एव सहसा उद्गात् तां सरस्वतीं सुभद्राङ्गा कुन्दवल्ली सुभद्रस्य तव भ्रातुरङ्गना । पक्षे तव सुमङ्गला स्त्री अन्यथा व्यधात् यतस्तव वशीभूता । श्लेषेण सुभद्रस्य वलीवर्दस्याङ्गना । फलतो गवी तत्रापि वशा वन्ध्या इति परिहासश् च बोध्यः । उक्षा भद्रो वलीवर्दो, वशा वन्ध्या चेत्य् अमरः ॥३२॥
जये सति पणग्रहे बहुबलात् कृतेः कर्तृता
सुखानुभवमेष्यथ प्रकटम् एव यद्वाञ्छत ।
अहं यदि भजै जितो विधिवशेन तत् कर्मता
व्यथानुभवितां तदा क्व नु पलाय्य विन्दये शम् ॥३३॥
कृष्ण आह—युष्माकं जये सति चुम्बनादिपणग्रहे वलात्कृतेः । कर्तृताजन्य सुखानुभवं यूयं एष्यथ । यद्यस्मात् तदर्थम् एव जयं वाञ्छथ । युष्माभिर्जितोऽहं विधिवशेन यदि तस्य जयस्य कर्मताव्यथानुभवितां भजै तदा क्व नु पलाय शं कल्याणं विन्देय ॥३३॥
पणस्तु भवितात्र कः प्रथम मतदाख्याहि नस्
तम् इत्यघभिधादृत प्रणिजगाद नान्दीमुखी ।
स्मृतौ लिखितमादिनो धनमथो धनी गृह्यते
ततस्तु जयिना जितो दृढतया जनो नह्यते ॥३४॥
श्रीकृष्णः नान्दीमुखीं प्रत्याह—नोऽस्मानेतत् आख्याहि इति कृष्णेनाहूता नान्दीमुखी प्रणिजगाद । आदौ धनं गृह्यते पश्चात् धनी जनः जयिना जितो दृढतया नह्यते वध्यते ॥३४॥
वयं स्म धनिनो धनं पदक किङ्किणी कङ्कणाद्य्
अमन्दमिह बन्धनं भुज भुजङ्गपाशैर् भवेत् ।
इति प्रियगिरा प्रियाश्चटुल चारु चिल्लीधनुर्
विधुननपुरः सराः कति न हुङ्कृतिस्तेनिरे ॥३५॥
कृष्ण आह—वयम् एव धनिनः स्म । धनं तु पदकेत्यादि । अमन्दबन्धनं इह भुज-रूपभुजगपाशैर् भवेदिति कृष्णस्य गिरा चटुलचारुचिल्ली-रूपधनुर्विधूननपुरःअसराः राधाद्याः प्रियाः कति हुङ्कृतीर्न तेनिरे ॥३५॥
परस्पर विसज्जिताङ्गुलि कर-द्वयेनाम्बुभिः
प्रगृह्य पिहितैः पुनः करभ पीडनाच् चालितैः ।
शरैर् अरुण पङ्कजेषुधिमुखान्स्वयं निःसृतैर्
इव प्रियमिमाः स्थिताः परित एव तं विव्यधुः ॥३६॥
परितः स्थिता इमा राधाद्याः अरुणपद्म-रूपस्य तूण इति प्रसिद्धस्य इषुधेर्मुखात् सकाशात् स्वयं निःसृतैः शरैर् इव हस्तकमलात् निःसृतैर् अम्बुभिस्तं प्रियं विव्यधुः । जलक्षेपप्रकारम् आह अम्बुभिः कथम्भूतैः परस्परविसज्जिता अङ्गुलयो यत्र एवं-भूतकर-द्वयेन आदौ प्रगृह्य पश्चात् पिहितैः तद्-अनन्तरं पुनः करभपीडनाच्चालितैः ॥३६॥
स चापि समया स्थितो लघुतया भ्रमन्सर्वतो
मुखो मदन सर्वतो मुख शरानिवास्यन्मुहुः ।
प्रियाः शत सहस्रशो युगपदेक एवौजसा
जिगाय रथसादिमाः पुनरितोऽपसस्रुर्भिया ॥३७॥
स च सर्वतोमुखः श्रीकृष्णः तासां समया मध्ये स्थितः लाघवेन भ्रमन्सन्मदनसर्वतोमुखशरान् । पक्षे जल-रूपशरानिव मुहुरस्यन्क्षिपन्प्रियाः जिगाय । सर्वस्यां दिशि मुखं यस्य सः । इमास्तु भयेनापसस्रुः ॥३७॥
जिताः किल जिता हिही विफल गर्विता गोपिकाः
प्रतिस्वघन गोपिकाः किमधुना पलाय्य स्थिताः ।
प्रमथ्य तदिमाः सखे पदक किङ्किणी कङ्कणा
न्युदस्य परिगृह्य मत् करतलोपरि स्थापय ॥३८॥
मधुमङ्गल आह—प्रति स्वधनानां गोपिकाः । उदस्य उत्तार्य पश्चात् परिगृह्य ॥३८॥
यथाद्य मथुरापुरात् त्वरितम् एव विक्रीयता
न्यतिप्रिय सितोपला ततिमुपाहरिष्याम्यहम् ।
बटाविति तट-स्थिते ब्रुवति तर्जनीं धुन्वती
ततर्ज ललिताप्यरे कुटिले तिष्ठ तिष्ठेति तम् ॥३९॥
तानि भूषणानि विक्रीय । तट-स्थिते मधुमङ्गले इति व्रुवति सति तर्जनीं धुन्वती ललिता तं मधुमङ्गलं ततर्ज ॥३९॥
अथैत्य मधुसूदने धयति ता बलात् पद्मिनीर्
अपाङ्गशर पञ्जरान्तरम् अपि प्रविश्यौजसा ।
स झङ्कृति मणीमयाभरणमाददाने मृगी
दृशां कलकलेऽप्यलं शिखि पिकैः प्रवृद्धीकृते ॥४०॥
अथ मधुसूदने आगत्य पद्मिनीनामपाङ्ग-रूपशरपञ्जरमध्ये ओजसा वलेन प्रविश्य ताः राधाद्याः पद्मिनीर्वलात् धयति सति । एवं तासां सझङ्कृति यथास्यात्तथा मणीमयाभरणं श्रीकृष्णे आददाने सति । एवं मृगीदृशां अलङ्करणहरणसमये परस्परकोलाहलशब्दे अल अतिशयेन शिखिपिकैः प्रवृद्धीकृते सति । मनुष्यकोलाहलश्रवणेन भयात् मयूरकोकिलादयः उच्चशब्दं कुर्वन्ति । तथा च तेषां उच्चशब्दैः राधादीनां कोलाहलोऽतिशय प्रवृद्धो भवतीत्यर्थः ॥४०॥
कराकरि नखानखि स्मरमृधे प्रवृत्ते ह्रियां
भियं च निचये पुनर्घनरसोर्मिभिः प्लाविते ।
क्षणैस्त्रि चतुरैर् मिथो भुज भुजङ्ग बन्धाच् च्युताः
प्रलून नलिनैर् व्यति प्रहरणाः प्रिया रेजिरे ॥४१॥
ह्रियां भियां च समूहे घनरसः शृङ्गाररसः स एव जलं तस्योर्मिभिः प्लाविते सति त्रिचतुरक्षणानन्तरं परस्परभुज-रूपभुजङ्गवन्धात् च्युताः प्रियाः कृष्णराधाप्रभृतयः प्रलूननलिनैः छिन्ननलिनैः करणैः परस्परप्रहरणाः सत्यः रेजिरे । प्रियश् च प्रियाश् च प्रिया इत्येकशेषः ॥४१॥
कराकरि नखानखि स्मरमृधे प्रवृत्ते ह्रियां
भियं च निचये पुनर्घनरसोर्मिभिः प्लाविते ।
क्षणैस्त्रि चतुरैर् मिथो भुज भुजङ्ग बन्धाच् च्युताः
प्रलून नलिनैर् व्यति प्रहरणाः प्रिया रेजिरे ॥४१॥
ततह् श्वसित चञ्चलच् चलदलच्छदाभोदरा
गिरा स्खलित गद्गदाक्षर भृतैत्य नान्दीमुखीम् ।
जगाद किम् अपि प्रिय प्रति हृतोत्तरीयाबला
ततिर्विगत भूषणाप्यतनु माधुरीं विभ्रति ॥४२॥
ततो वस्त्रालङ्कारहरणानन्तरमवलाततिः एत्य नान्दीमुखीं किम् अपि स्खलित गद्गदाक्षरभृता गिरा जगाद । कथम्भूता श्वसितेत्यादि ॥४२॥
ततह् श्वसित चञ्चलच् चलदलच्छदाभोदरा
गिरा स्खलित गद्गदाक्षर भृतैत्य नान्दीमुखीम् ।
जगाद किम् अपि प्रिय प्रति हृतोत्तरीयाबला
ततिर्विगत भूषणाप्यतनु माधुरीं विभ्रति ॥४२॥
कुचान्विगत कञ्चुकान्नखर विक्षतान्दोर्-द्वयैः
पिधाय तिमितायतालक लिपि प्रलिप्तानन ।
निबध्य शशिशेखरान्विसमिषोग्रपाशैर् वभाव्
अनङ्ग पृतनैव सा न खलु पद्मिनीसंहतिः ॥४३॥
तिमितायतालक-रूपलिपिना अक्षरेण प्रलिप्तानना अवलाततिःः नखरविक्षतान्कुचान्दोर् द्वयैः पिधाय बभौ । अत्रापह्नुतिमाह—हस्त-रूपं विसं मृणालं तन्मिषेणोग्रपाशैः कुचस्व-रूप शशिशेखरान्महादेवान्निवध्य सा अवलाततिः अनङ्गपृतना महादेव परिपक्षस्य कन्दर्पस्य सेना एव न तु पद्मिनीसम्हतिः ॥४३॥
कुचान्विगत कञ्चुकान्नखर विक्षतान्दोर् द्वयैः
पिधाय तिमितायतालक लिपि प्रलिप्तानन ।
निबध्य शशिशेखरान्विसमिषोग्रपाशैर् वभाव्
अनङ्ग पृतनैव सा न खलु पद्मिनीसंहतिः ॥४३॥
अनेन गत नीतिना किमिति नान्दि नः खेलयन्त्य्
अभूनिकृति वल्लरीत्युदितया तया यौवतैः ।
अनीतिमकरोः कथं गिरिधरेत्यथाकारितः
समेत्य सहसाननः स सहसाह तां साहसात् ॥४४॥
हे निकृतिवल्लरि ! शाठ्यलते ! नान्दि ! गतनीतिना अनेन श्रीकृष्णेन सह नो अस्मान्खलयन्ती अभूः इति यौवतैर् उदितया नान्द्या हे गिरिधर ! कथं त्वं अनीतिमकरोरिति आकारितः आहूतः स श्रीकृष्णः समेत्य नान्दीनिकटे आगत्य । सहसा तां नान्दीं कृतापरादोऽपि सहसात् आह—सहसाननः हास्यसहिताननः ॥४४॥
अनेन गत नीतिना किमिति नान्दि नः खेलयन्त्य्
अभूनिकृति वल्लरीत्युदितया तया यौवतैः ।
अनीतिमकरोः कथं गिरिधरेत्यथाकारितः
समेत्य सहसाननः स सहसाह तां साहसात् ॥४४॥
ममाद्य जयिनः पण ग्रह कृते गतस्य स्फुटत्
सुवर्ण नलिनावलीमलिभिरावृतां जिघ्रतः ।
रथाङ्ग मिथुनं तथा करयुगेन खेलावशाद्
विकृष्य दधतः कथं कथय कोऽपराधोऽभवत् ॥४५॥
जलक्रीडायां जयिनोऽतएव पणग्रहणार्थं गतस्य मम कोऽपराधोऽभवत् कथय । क्थम्भूतस्य अलिभिरावृतां स्फुटत् स्वर्ण-कमलश्रेणीं जिघ्रतः । न तु आसां मुखश्रेणीं, पुनश् च चक्रवाकमिथुनं खेलावशात् करयुगेन विकृष्य दधतः । नत्वासां स्तनयुगम् ॥४५॥
ममाद्य जयिनः पण ग्रह कृते गतस्य स्फुटत्
सुवर्ण नलिनावलीमलिभिरावृतां जिघ्रतः ।
रथाङ्ग मिथुनं तथा करयुगेन खेलावशाद्
विकृष्य दधतः कथं कथय कोऽपराधोऽभवत् ॥४५॥
हरे वदसि नानृतं यदिह साक्षितां स्वाधर
स्तनालिषु धृतैः क्षतैर् दधति गोपिका कोपिकाः ।
प्रतीहि न हि नान्द्यमूः कुसृति सम्पुतीः सोऽथवा
कृतोऽप्यविदुषा मया भजतु मन्तुरत्यल्पताम् ॥४६॥
नान्दी आह—हे हरे ! नानृतमयथार्थं न वदसि । यद्यस्मात् इह गोपिकाः कोपिकाः स्वाधरस्तनश्रेणीषु धृतैः क्षतैः करणैः साक्षितां दधति । कृष्ण आह—हे नान्दि ! कुसृतेः शाठ्यस्य स्म्पुटीः अमूः राधाद्या न हि प्रतीहि । इमाः प्र्ति प्र्त्ययं मा कुरु । अथवा अविदुषा स्तनचक्रवाकयोर्विशेषमजानता मया सोऽपराधः कृतोऽपि मन्तुरपराधः अल्पतां भजतु । अज्ज्ञानकृतत्वात् ॥४६॥
हरे वदसि नानृतं यदिह साक्षितां स्वाधर
स्तनालिषु धृतैः क्षतैर् दधति गोपिका कोपिकाः ।
प्रतीहि न हि नान्द्यमूः कुसृति सम्पुतीः सोऽथवा
कृतोऽप्यविदुषा मया भजतु मन्तुरत्यल्पताम् ॥४६॥
इयं च कुलजाततिः पटिमभिस्तदैवाशु मां
मुखान्यपि मुखानि नः किल कुचाः कुचा अप्यमी ।
इतीह परिचाययन्त्युरुतरोच्च गीर्भि नहि
न्यषिध्यदपि साम्प्रतं किमिति दम्भिनां कुप्यति ॥४७॥
इयं च कुलजातति स्वपटिमभिस्तदैवैतानि न पद्मानि किन्तु नोऽस्माकं मुखानि मुखानि एवं नैते चक्रवाकाः किन्तु अस्माकं कुचाः कुचा इति उरुतरोच्चगीर्भिः परिचाययन्ती सती मां नहि न्यषिध्यदपि । साम्प्रतं दम्भिनी इयं किमिति कुप्यति ॥४७॥
इयं च कुलजाततिः पटिमभिस्तदैवाशु मां
मुखान्यपि मुखानि नः किल कुचाः कुचा अप्यमी ।
इतीह परिचाययन्त्युरुतरोच्च गीर्भि नहि
न्यषिध्यदपि साम्प्रतं किमिति दम्भिनां कुप्यति ॥४७॥
कलि विरमतादलं पणभृता पुनः खेलया
परन्तु जलमण्डुक ध्वनिषु कीदृशी चातुरी ।
भवेदिति तयोदिता व्यधुरमी जलाहत्यनु
स्फुरद्विविध वादनं विविध ताल नाट्य क्रमैः ॥४८॥
नान्दी आह—कलिः कलहः, बिरमतात् विरमतु पणभृता खेलया अलं व्यर्थम् । किन्तु जलमण्डुकध्वनिषु युष्माकं कीदृशी चातुरी भवेत् । तत्र मम दिदृक्षा वर्तते । इति तया नान्द्या उदिता अमी राधाक्र्ष्णादय ! जलद्याघाते विविधवादनं व्युधुः ॥४८॥
कलि विरमतादलं पणभृता पुनः खेलया
परन्तु जलमण्डुक ध्वनिषु कीदृशी चातुरी ।
भवेदिति तयोदिता व्यधुरमी जलाहत्यनु
स्फुरद्विविध वादनं विविध ताल नाट्य क्रमैः ॥४८॥
प्रतिध्वनिषु तत् तटे मुदिर गर्जित न्यक्कृति
क्षमेषु वलितेष्वथो भ्रमति चातकीनां गणे ।
बटावपि हिहीगिरा कलित कक्षतालं रसात्
समं नटति केकिभिर्ललित कूजनरुन्मदैः ॥४९॥
मेघगर्जितन्यक्कृतिक्षमेषु प्रतिध्वनिषु वलितेषु सत्सु अथ तत् तटे मेघशब्दभ्रान्त्या चातकीनां गणे भ्रमति सति एवं तद्दृष्ट्वा वटौ मधुमङ्गले ललितकूजनैः केकिभिः सह गृहितकक्षतालं यथास्यात्तथा नटति स्ति ॥४९॥
स्तुवत्य गगणे मुहुर्मधुप झङ्कृतैः सञ्चरन्
मरन्द मिषतो मुदा विरतमश्रु धाराधरे ।
समाप्य रससिन्धवः सरसि नीरकेलीस्तटं
गताः सपदि किङ्करी विततिभिर्वभुः सेविताः ॥५०॥
वाद्यं श्र्त्वा भ्रमरझङ्कृतैः करणैर् वृक्षगणे मुहुः स्तुवति सति कथम्भूते क्षरन्मरन्दमिषात् मुदा अविरतमश्रुधाराधरे । रससिन्धवो राधा-कृष्णादयः सरसि जलकेलीः समाप्य तटं गताः तत्क्षणे किङ्करीभिः सेविताः सन्तः बभुः ॥५०॥
प्रविश्य मणि मन्दिरं विपिन पालिकाद्याहृता
रसाल पनसादिकाः फलततीः सुधा निन्दिनीः ।
घन प्रणयतो मिथः समुपभोजिता योजिताः
स्मरेण सहसा रदच्छदन सीधुनः स्वादने ॥५१॥
वृन्दया आहृताः फलततीः कृष्णादिभिः परस्परं प्रणयतः उपभोजिताः । तथा च कृष्णेन ताः उपभोजिताः । एवं ताभिश् च कृष्ण उपभोजित इत्यर्थः । पश्चात् ताः स्मरेण सहसा अधरामृतस्य स्वादने योजिताः । सर्वत्रैकशेषो बोध्यः ॥५१॥
लावण्यामृत पूर पूर्ण मधुर प्रत्यङ्ग वापी रस
व्यात्युक्षी रभस क्लमेन मृदुलं तल्पं श्रिताः कौसुमम् ।
ताम्बूल व्यजनाम्बु दर्पण लसन्नेपथ्य सम्वाहनैर्
दासीभिः परिचर्यमाण वपुषः कान्ता निदद्रुः क्षणम् ॥५२॥
अधुना सम्भोगमाह—लावण्य-रूपजलस्य प्रवाहेण पूर्णमधुरप्रत्यङ्गस्व-रूपायाः वाप्याः सरसः सकाशात् शृङ्गाररसस्व-रूपजलस्य व्यात्युक्षीररभसेन परस्परसेचनवेगेन जातो यः क्लमस्तेन कौसुमं तल्पं श्रिताः कान्ताः क्षणं निदद्रुः । नेपत्यं वेसादि ॥५२॥
इति श्री-कृष्ण-भावनामृते महा-काव्ये
जल-विहार-लीलास्वादनो नाम
चतुर्दशः सर्गः
॥१४॥
—ओ)०(ओ—
(१५)