१३

त्रयोदशः सर्गः

मधु-पान-लीलानुमोदनो नाम

अथ पुनर् अपि भ्राम्यन्वृन्दावनं वनजेक्षणः
क्षणपरवशो हेमन्तेष्टं प्रदेशमुपव्रजन् ।
तरुगणघनछायाच्छन्नां श्रिताम् अपि तां जहौ
सरणिमथ सा मम्लौ मन्ये तदीय-वियोगतः ॥१॥

अथानन्तरं वनजेक्षणः कृष्ण उत्सव-परवशः सन् तथा हेमन्तेष्टं वृन्दावनस्य भाग-विशेषम् उपव्रजन् सन् तरु-गण-घन-छायाच्छन्नां सरणिं पूर्वं ग्रीष्म-भयात् आश्रिताम् अपि अधुना शीतल-भयात् जहौ । सा सरणिः श्री-कृष्ण-वियोगेन मम्लौ इति अहं मन्ये । म्लानिज्ज्ञान्स्तु मनुष्य्णां गमनागमनाBआद् उत्पन्नेन तृणादिना ज्ञेयम् ॥१॥

निज-निज-वपुः सङ्कोच्याशु प्रसार्य वराम्बराण्य्
अलघु-जघना रोमाञ्चाढ्य-मुखोदित-शीत्क्रियाः ।
गतिम् अपि जहुर् जाड्याक्रान्ताः सुसंहत-जानवः
स ऋतुर् अभवत् तासां सद्यो हरेर् इव सङ्गमः ॥२॥

स ऋतुर्हेमन्तः । त्क़् Ṛद्Ī सद्यः ।ज़्क्w SGअम इवाBः । ।ज़्केन SGअमसाड्ःय्फ़् आह—अलघुजघनाः, ताः KBआः ? निजनिजवपुः सङ्कोच्य शीतलभयात् वस्त्राणि प्रसार्य च मुखोदितशीत्क्रियाः । जाड्याक्रान्ताः शीताक्रान्तास्ता गतिम् अपि जहुः । SGअमपक्षे AḤअजाड्यात् । पुनश् च शीतात् सुसंहते एकत्रीKए द्वे जानुनी याभिः । एवं कृष्णSGE ।आ त्w लाम्पट्यभयात् जानुनोरेकत्रीKण्फ़् बोध्यम् ॥२॥

इति सखि तुषारांशोरंशो निशाऽतिसमेधते
ह्रसति दिवसो भागो भागोपतेर् अपि ताम्यति ।
तनुर् अपि धृतोत्कम्पशम्पासमाप्य तनूद्धृता
हिममहिमभिः कान्ते कां ते गमिष्यते वा दशाम् ॥३॥

श्रीकृष्णः राधाम् आह—इह तुषारांशोश्चन्द्रस्य अंशो भागः निशा अनिशं वर्धते । गोपतेः सुर्यस्य भागो दोवसः ह्रसति, अत एव तस्य भा किरणं ताम्यति । हे कान्ते ! विद्युत्समा ते तव तनुर् अपि अधुन इव धृतोत्कम्पा एवं अतनूद्धुता अत्यन्तम्लाना । पक्षे अतनूः कन्दर्पस्तेन उद्धुता । पश्चात् हिममहिमभिर्हिमातिशयैः कां दशां गमिष्यति ॥३॥

तदिह मम हृद्वेश्मन्यस्मिंस्त्वदुत्कलिकालिभिस्
तदुचितनिवासार्थं कोष्णीकृते निभृतेक्षणम् ।
प्रविश सहसा जड्यं दूरे विहाय विहारिणीत्य्
अतिजवभुज-द्वन्द्वेनैनां चकर्ष स हर्षदः ॥४॥

तत् तस्मात् त्वदुत्कलिकालिभिः त्वद्विषयोकोउकाण्ठाश्रेणिभिः । पक्षे उत्कण्ठा-रूपसखीभिः कोष्णीक्र्ते मम हृद्वेश्मनि जाड्यं दूरे बिहाय सहसा प्रविश । हे हारिणि ! मनोहारिणि ! इति उक्त्वा स हर्षदः श्रीकृष्णः अतिजवभुज-द्वन्द्वेन एनां राधां चकर्ष ॥४॥ \

नहि नहि नहीत्युक्तेनापि प्रियेण दृढं बलाद्
उरसि रसिका सा बाहुभ्यां न्यबध्यत वल्लभा ।
शिथिल रसनाबन्धाद्बन्धोस्तदुरु विमर्दिताद्
अपतदवनौ वंशी रोषादिवादर लाघवत् ॥५॥

राधया नहि नहीत्युक्तेनापि प्रियेण कृष्णेन वक्षःस्थले बाहुभ्यां असौ रसिक वल्लभा न्यवध्वत । वक्षःस्थले धारणसमये तस्या राधाया उरुदेशविमर्दितात् वन्धोः श्रीकृष्णस्य शिथिलितरसनावन्धात् वंशी अवनौ रोषादिव पपात । रोषे कारणम् आह—अदरलाघवादूरुदेशाघात-रूपलाघवात् तद्-रूपानल्पां लघुतां प्राप्य । पक्षे स्वनिष्ठातिलाघवेन ॥५॥

त्वमसि कठिने शीता गीताश्रयाप्युरु दोषभूस्
तदुचित फलं विश्वोद्वेजिन्यवाप्नुहि साम्प्रतम् ।
इति ललितया स वेण्यग्रे निबध्य निजुह्नुवे
स्मर मधु मदात्तां तत् स्वामी चिरादपि नास्मरत् ॥६॥

मुरलीं हस्ते आदाय लिलिता आह—हे कठिने ! काष्ठजातित्वां शीतकाले त्वं शीता असि न तु कादापि उष्णा । एतएव मधुरगानाश्रयापि उरुदोषभूः । हे विश्वोद्वेजिनि ! त्वं तदुचितफलं साम्प्रतं अवाप्नुहि । इत्युक्त्वा ललितया सा निजुह्न्वे अपह्नतां चकार । तां मुरलीं श्रीकृष्णः स्मरमधुमदात् न अस्मरत् ॥६॥

समयविदतैथाभ्यः सार्द्धं प्रियेण विहारिणा
सरसमटवीपाली पाली प्रमोद धुराधरा ।
अरुण कपिश श्यामन्श्लक्ष्णान्सुवर्न रसाञ्जितान्
लघु लघु लघुन्नीशाराणां चयान्समुपाहरत् ॥७॥

अथ समयवित् अटवीपाली वनदेवी तासां पाली श्रेणी लघुन्रेजाइ इति प्रसिद्धानां निराशाराणां चयान्प्रियेण हरिणा सार्धं ताभ्यः राधादिभ्यः सरसं लघु लघु च तत्या स्यात् तथा समुपाहरत् । कथम्भूतान्श्लक्ष्नान्कोमलान् । नीशारः स्यात् प्रावरणे हिमानिलनिवारणे इत्य् अमरः । कथम्भूता प्रमोदातिशयं दधातीति सा ॥७॥

कुरुबकघटा झिण्टीश्रेणि कुरुण्टकमण्डलैर्
हृदतनुतनूनां ते कान्ते यतो दधिरे रुचः ।
तददरमदामोदैर् एषां सदेह विराजिनां
नव सुमनसां माला मा लालसत्यधिकं न किम् ॥८॥

श्रीकृष्णः राधिकामाह—कुरुवकस्य रक्तपियावासा इति ख्यातस्य घटा । झिण्टिश्रेणी श्यामपियावासा श्रेणी । कुरुण्टकः पीतपियावासा । हे कन्त ! एतैः कर्तृभिः ते तव हृदयकन्दर्पतनूनां रुचः यद्यस्माद्दधिरे । हृदयस्यानुरागित्वेन रक्तत्वम् । कन्दर्पस्य शृङ्गारात्मकत्वेन श्यामत्वम् । तत् तस्मात् अनल्पप्रमोदैः सदा इह वृन्दावने विराजिनां एषां नवपुष्पानां माला मा मां किमधिकं न लालयति ? स्पृहां—कारयति । लल ईप्सायां धातुः ॥८॥

कलय महिले नारङ्गाख्या लता तव सन्निधाव्
अपि निज फल-द्वन्द्वं नैवावृणोत्यतिगर्विनि ।
स्व कुच सुषमां कञ्चुक्यास्त्वं दरापि कराग्रतः
प्रकटयसि चेदेषा गर्हाम्बुनिधौ निमज्जति ॥९॥

हे महिले ! राधे ! कलय पश्य । नागरङ्गाख्या लता तव सन्निधावपि निजफल-द्वन्द्वं नैवावृणोति । यतोऽतिगर्विणी । अतो यदि त्वं स्वकुचसुषमां कञ्चुक्याः सकाशात् कराग्रेण प्रकटयसि तदा एषा निन्दाम्बुनिधौ निमज्जति ॥९॥

इति निज गिरा राधारालेक्षण स्मित बिन्दुभिः
स्नपित दृग् अतो वन्यामन्या विवेश स केशवः ।
शिशिर सुखदां यामासन्ना व्रजाखिल पद्मिनी
रविरतरविद्योतोऽधिनोदभिपद्य ताः ॥१०॥

इति निजगिरा राधाया यत् अरालेक्षणं कुटिलेक्षणं स्मितविन्दुश् च तैः स्नपितदृक् श्रीकृष्णः अतो वनभागात् अन्यां शिशिरसुखदां वन्यां वनसमूहं विवेश । यां शिशिरसुखदामासन्नाः प्राप्तास्ता व्रजाखिलपद्मिनीः अविरतरविद्योतः सूर्यकिरणः द्योतः स्वर्गात् अभिपद्य अधिनोत् असुखयत् ॥१०॥

शिशिर पृतनाधावद्दुर्गा पितुर्वर भूभृतो
रवि परिभवायासौ विभ्यत् सुतस्य दिशं गतः अथ ।
धृत बलो युद्धायायात्युदङ्मुख एष यत् तद्
इयमधुना स्वविक्रन्तेश्चयं चिनुतेतमाम् ॥११॥

सूर्यस्य द्क्षिणायने एवं माघादौ उत्तरदिशि गमने च कारणं कृष्णो वर्णयति— दुर्गापितुर्वरभूभृतो हिमालयस्य शिशिर-रूपपृतना सेना सूर्यस्य पराभवाय अधात् । दुर्गापितुरिति दुर्गायाः स्वकन्याया वचनादिवेत्युत्प्रेक्षा व्यङ्ग्या । तस्या विन्ध्यवासिनीत्वाद्विन्ध्यरविप्रतिपक्षत्वात् विन्ध्यस्य प्रीत्यर्थमेम तयापि स्वपिता, तत्पराभवे नियुक्त इति काव्यलिङ्गानुमाने पुनर्व्यङ्गे । असौ सूर्यः विभ्यत् सन्साहाय्यार्थं सुतस्य यमस्य दक्षिणदिशं गतः । अथ धृतवल एष सूयः माघादौ युद्धाय उत्तराभिमुखो यद्यस्मादायाति तत् तस्मात् इयं शिशिर-रूपपृतना स्वविक्रान्तेश्चयं समूहं चिनुते एकत्रीकरोतीत्यर्थः । एतेन माघे शिशिराधिक्ये कारणम् अपि वर्णितम् ॥११॥

इति कुतुकतो निर्वन्याग्रे चलऌ ललनासखः
स खलु परमानन्दं कुन्दैर् अवाप विलोकतैः ।
व्यचिनुत यदा तानि प्रेष्ठा प्रसाधनकृत् तदा
दर करवृतं सास्यं चक्रे प्रकूणित नासिकम् ॥१२॥

स कृष्णः विलोकितैः कुन्दैः परमानन्दमवाप प्र्ष्ठाया राधायाः प्रसाधनकृत् कृष्णः यदा तानि कुसुमानि व्यचिनुत तदा कुन्दवल्लीं परिहसितुं करेण ईडदावृतं मुखं घृणया कूणितनासिकं चक्रे ॥१२॥

किम् अपि दधती वक्त्रं राधे ह्रिया स्मित मिश्रया
वृतम् अपि घृणाव्यन्जि स्वालीदृशेक्षयंसेऽद्य माम् ।
इति गिरिभृत पृष्ठाप्याह स्वयं सहसा न सा
यदि सपदि तं कौन्द्यग्रेऽपि स्फुटं ललिताभ्यधात् ॥१३॥

हे राधे ! त्वं स्मितमिश्रया ह्रियावृतम् अपि घृणाव्यञ्जितमुखं करेणापि दधती आच्छादयन्ती सती किं मां स्वालीः अद्य दृशा ईक्षयसे इति कृष्णएन पृष्टापि सा राधा यदि सहसा स्वयं न आह तदिव सपदि तत्क्षणे ललिता कुन्दवल्ल्यग्रे स्फुटमभ्यधात् ॥१३॥

त्रिभुवन जनैः पुण्यश्लोको महानिति कीर्तसे
स्पृशसि च धृतोत्कण्ठः कौन्दीं लतामिह पुष्पिणी
इयम् अपि चिरायेष्ट नेष्टे त्वयीश निवारणे
यदति मृदुल क्लान्ता हन्तातनूग्र शिलिमुखैः ॥१४॥

पाक्षे पुषिणीं रजस्वलाम् । इयम् अपि कुन्दवल्ली चिराय इष्टे त्वयि विषये निवारणाय न इष्टे न समर्था । यद्यस्मादतनोः कन्दर्पस्य उग्रशिलीमुखैर् वाणैः कान्ता अति मृदुला च ॥१४॥

जगति ललिते शुद्धाः सन्ति क्व वा नु भवादृशः
स्व कुलकलितं धर्म मर्मव्यथामिव या जहुः ।
न निज समतां ताः प्राप्स्यन्ति क्व चाप्यतिमार्गण
श्रममिह तदुदभिज्जेष्वेवं वृथा बत कुर्वते ॥१५॥

कुन्दवल्ली आह—या भवादृशः स्वकुलधृतं धर्मं मर्मव्यथामिव जहुः । ता तवद्विधा निजसमतां कुत्रापि न प्राप्स्यन्ति । अत एव उद्भिज्जेषु लतादिषु अतिमार्गणश्रमं वृथा कुर्वते ॥१५॥

इति निगदित कौन्द्याः सर्वाः अजीहसदुच्चकैर्
अहह किमियं स्वं नः शङ्कास्यदि कुरुतेतमाम् ।
यदिह ललना स्वेषैवैका प्रकुप्यति निर्भरं
तदमल धियः सभ्या अभ्यूहयन्त्यपि कारणम् ॥१६॥

इति कौन्द्या निगदितं सर्वाः सखी अजीहसत् हासयामास । राधिकाह—नोऽस्माकं मध्ये इयं कुन्दवल्ली स्वम् एव शङ्कास्पदी कुरुते अस्माभिस्तु लता एव उक्ता । यद्यस्मादिह ललनासु मध्ये एका कुन्दवल्ली निर्भरं कुप्यति । तत् तस्मात् अमलधियः सभ्याः अस्य कारणमभ्यूहयन्ति ॥१६॥

इति पुरु परिहासा नासामुदारमुदावहान
परिकलितान्श्रुत्वा श्रुत्याकन्वय्य चलन पुरः ।
अलभत रसासारैः सौर रसालशिखाङ्कुर
श्रुत मधुकणैः क्लिन्नाः स्विन्ना इवाति मुदावनीः ॥१७॥

आसां राधादीनामिति उरुपरीहासान्श्रुत्या श्रवणेन पक्षे वेदे नापरिकलितान्कृष्णः श्रुत्या श्रवणेनाकलय्य पुरोऽग्रे चलन्सन्वसन्तसंयुक्ता अवणीः भूमिः अलभता परीहासान्कथम्भूतानुदारानन्दबहान् । अवनीः कथम्भूताः आम्रवृक्षस्य शिखायामग्रभागे स्थितात् अङ्कुरात् स्रवन्मधुकणैः करणैः क्लिन्नाः अत एव स्विन्ना एव । कथम्भूतैः कणैः रसानामासारैः धारासम्पातस्व-रूपैः अत एव सारैः श्रेष्ठैः ॥१७॥

विटपि गृहिणो वल्लिकान्तावली वलितशिषः शुभ
मधु दिनेषूच्चैः पर्वोत्सवं कलयन्त्यमी ।
परभृत मुखैर् आजीवार्थं द्विजैः प्रतिवासरं
मधुर नुतिभिर्येषां बाट्यं सहर्समटाट्यते ॥१८॥

श्रीकृष्ण आह—अत्र स्थले विटपिनो वृक्षा एव गृहिणो गृहस्थाः वल्ली-रूपकान्ताश्रेण्या वलिताः सम्पन्ना आशिषः कामना येषां गृहस्थानां तथा-भूताः । एवम अमी वृक्ष-रूपगृहस्थाः श्भवसन्तदिनेषु उच्चैः पर्वणि पौर्णमास्यादौ उत्सवं कुर्वन्ति । गृहस्थाः खलु पर्वणि श्राद्धाद्युत्सवं कुर्वन्त्योवेति भावः । पक्षे पर्वाणां ग्रन्थीनां उत्कृष्टं सवं प्रसवं कुर्वन्ति । ग्रन्थिर्ना पर्वपरुषो इत्य् अमरः । वृक्षा हि वसन्ते ग्रन्थ्यङ्कुरादिप्रसवं कुर्वन्ति । परैर् एव भृतं मुखं येषां एवं-भूतैर् द्विजैः सदा परगृहभक्षणपरायणैः । येषां गृहस्थानां वाट्यां प्रतिदिनं आरीवार्थं सहर्षं अटाट्यते । पक्षे परभृतैः कोकिलैर् द्विजैः पक्षिभीः ॥१८॥

अजनि मदनो राज मन्त्री मधुर्मलयानिलो
निखिल विजयि सेनानीन्द्रश्चरा भ्रमरा इह ।
पिक परिषदः प्रापु दण्डेऽधिकार मदक्षिणा
व्रजकुलभुवो दण्ड्याकाराः कृता गिरि गह्वरा ॥१९॥

इह भूमौ कन्दर्प एव राजा अजनि । मन्त्री वसन्तः । मलयानिल एव निखिलविजयी सेनानीन्द्रः । भ्रमरा एव चराः । कोकिलपरिषद एव दण्डेऽधिकारं प्रापुः । अदक्षिना वामा व्रजसुन्दर्य एव दण्डाः । गिरिगह्वराः काराः कृताः ॥१९॥

कलय पुरतः कान्ते गोवर्धनोऽखिल भूभृतां
नृपतिरभवच् छक्रं शत्रुं चिरस्य निरस्य किम् ।
निज निज रुचातत्या मेर्वादिभिः करभूतया
यदयमधुनापा सञ्चक्रे विनिह्नुत विग्रहैः ॥२०॥

हे कान्ते ! अग्रे कलय । गोवर्धनः किमखिलपर्वतानां शक्रं शक्रं चिरस्य चिरकालं निरस्य अखिलभूभृतां राजा अभवत् । चिरस्य चिरात् चिरेणेत्यादि सविभक्त्यन्तं पदमव्ययमिति बोध्यम् । यद्यस्मात् सुमेरुप्रभृतिभिः करस्व-रूपयाफ़् निजकान्तीनां श्रेण्या अयं गोवर्धनः अधुना उपासां चक्रे । कथम्भूतैः निह्नुता विग्रहा देहा अथवा स्पर्धया युद्धानि यैः महाराजाग्रे क्षुद्राणां राज्ज्ञां निजबृहद्वपुः प्राकट्यानौचित्यात् ॥२०॥

क्वचन कनक प्रस्थात् स्वस्था प्रसर्पति जाह्नवी
क्वचिदिह गुहा विद्योतन्ते हिमैर् विहितालयाः ।
क्वचन शिखरैर् वीथीं रोद्धुं रवेरभिलाषते
क्वचन रजत ग्रावैः सिंहासनान्यपि भान्ति नौ ॥२१॥

सर्वेषां परवतानां करदानम् एवाह—क्वचन गोवर्धनस्य कनकप्रस्थात् सुवर्णसानुस्थानात् सुमेरुशोभा-रूपजाह्नवी प्रसर्पति । कथम्भूता स्वस्मिन्सुमरौ स्थिता । पक्षे स्वर्ण-दी । क्वचिदिह गोवर्धने हिमालयचिह्न-रूपैर् हिमैर् बिहितस्थाना गुहा विद्योतन्ते क्वचन गोवर्धनस्य शिखरै अवेर्वीथीं रोद्धुमभिलष्यते । अत्र सुऋयमार्गरोधो विन्ध्यपर्वतचिह्नम् । क्वचन हे राधे ! नौ आवयोः रजपप्रस्तरैः सिंहासनानि भान्ति । इदं कैलसचिह्नम् ॥२१॥

इह सखि परा रासस्थल्यन्तिके परिचीयताम्
अनुरजति य युष्मत् केलि विलास कलैक भूः ।
क्षणमिह मणिवेद्यां विश्रम्यतां तदिति ब्रुवन्
हरिरुपविवेशाथानिन्ये मधूनि वनाधिपा ॥२२॥

हे सखि ! रासौलीतिख्याता परा रासस्थली अन्तिके परिचीयताम् । तत् तस्मात् क्षणं विश्रम्यताम् ॥२२॥

रजत चषक न्यस्ते शस्ते मधुन्यधुतानना
निहित दृग् इदं कीदृक् स्यादित्युपात्तमिषा तृषा ।
प्रिय मुखसुधां साध्वीं स्वाद्वीं ततोऽपि मृशन्त्यमूम्
अधयदधिकं राधावाधामिह प्रतिबिम्बिताम् ॥२३॥

शस्ते प्रशते मधुनि निहितदृक् राधा कृष्णस्य मुखप्रतिबिम्बदर्शनार्थमधुतानना । तृषा तृष्णया प्रियमुखसुधां ततोऽपि मधुतोऽपि स्वाद्वीं मृशन्ती सा अमूं प्रतिबिम्बितां मुखसुधामधिकमधयत् । कथम्भूतां अवाधामिति सम्पूर्णलोचनाभ्यां द्रष्टुं शक्यत्वात् ॥२३॥

व्रजकुलभुवामुत्कण्ठाग्नि ज्वलन्मनसां विधे
ह्रियमिह सृजन्नोऽभूः शापास्पदं कतिशो न किम् ।
यदिदमसृजो माध्वीकं तच् चिराय निरागसस्
तव नुतिशतं कुर्वे धन्येत्युवाच हृदैव सा ॥२४॥

हे विधे ! उत्कण्ठाग्निज्वलन्मनसां व्रजकुलभुवां नोऽस्माकं ह्रियं सृजन्सन्कतिशः शापास्पदं किं न अभूः । अधुना तु यद्यस्मात् त्वमिदं मधु असृजः तत् तस्मान्निरपराधस्य तवाहं स्तुतिशतं कुर्वे इति सा राधा मनसैवोवाच ॥२४॥

सखि यदधुनैवास्याब्जं मे बलात् पिबसि स्फुटं
मधु पुनरिदं पित्वा किं वा न वेद्मि करिष्यसे ।
इति निगदति कृष्णेनैतां विधाय पराङ्मुखीं
मधु मधुरिमैवासौ तत् कालिकः किमपास्यत ॥२५॥

स्वमुखप्रतिबिम्बे राधाया मुखप्रतिबिम्बं दृष्ट्वा श्रीकृष्ण आह—पुनरिदं मधु पीत्वा त्वं किं करिष्यसे इति निगदता कृष्णेन एतां राधां पराङ्मुखीं विधाय मधुनि द्वयोर्मुखप्रतिबिम्ब-रूपोऽसौ तात्कालिको मधुरिमा अवैदग्ध्येन किमपास्यत किम्दूरीकृतः ॥२५॥

पिब पिब पिबेत्योष्टस्याधो दधार ससारघं
चषकमसकृत् कृष्णो राधोच्छलद्भ्रुवलत् स्मितम् ।
नहि नहि नहीत्यास्याम्भोजं तिरोऽञ्चयति स्म सा
तदपि स चलापाङ्गो रङ्गी बलात् समपाययत् ॥२६॥

ससारघं मधुसहितं चषकम् । सा राधा उच्छलद्भ्रु एवं वलत्स्मितं यथास्यात्तथा मुखाम्भोजं तिरोऽञ्चयति स्म । रङ्गी अयं चलापाङ्गः कृष्णः ॥२६॥

तदनुललिताद्यालीवृन्दे तथैव निपायिते
दधति नयनारुण्यं बाढं प्रमाद्यति माद्यति ।
द्यति निज ह्रियामोजोऽन्योन्यं पुनश् च निपाययत्य्
अति मधु मदोद्भ्रान्ता कान्ताप्यघूर्णत कीर्णधीः ॥२७॥

प्रमाद्यति वस्त्रादौ असावधाना भवति माद्यति मत्ता भवति । निजह्रियाम्मोजःद्यति खण्डयति । पुनश् च परस्परं मधु पाययति कान्ता राधा मधुमदोद्भ्रान्ता अत एव कीर्णधीः विक्षिप्तधीः सती अघूर्णत ॥२७॥

पपतति सुसूसूर्यो भूभूर्घूघूर्णति द्रुद्रुमो
ननटति ततत्रस्ता अस्मान्ररक्ष पिपिप्रिय ।
इति युगपदेवास्य स्कन्धे भुजे हृदि पृषतोऽप्य्
अलघु ललघुर्निः सम्व्याना विकीर्ण कचाः स्त्रियः ॥२८॥

हे प्रिय ! अस्मान्रक्ष । इति युगपदेव अस्य कृष्णस्य पृष्ठादौ अलघु यथास्यात्तथा ललगुः ॥२८॥

स च रसनिधिः प्रत्यङ्गं तत् कुचैर् अभिपीडितः
स्व निविड भुजपीडं श्लिष्यन्बलादभिचुम्बितः ।
चपल मधुर ग्रीवाभङ्गं चुचुम्ब चतुर्दिशं
पिहित वदना दास्यो हास्योदयं कति रुन्धताम् ॥२९॥

प्रत्यङ्गं तासां कुचैर् अभिपीडितः अथ च स्वनिविडभुजापीडं यथास्यात्तथा आश्लिष्यन्कृष्णः वलात् व्रजसुन्दरीभिरभिचुम्बितः सन्चपलमधुरग्रीवाभङ्गं यथास्यात्तथा चतुर्दिशं ताः व्रजसुन्दरीः चुचुम्ब ॥२९॥

अयि चलदृशः स्व स्वामिन्यः किमद्य विशिक्षिताः
युगपदिह मामेकं सर्वाः इम विजिगीषवः ।
यदहह बलात् कुर्वन्त्येषो महाननयोऽथवा
नहि भवथ पार्ष्णिग्राहा किं न दिष्टमलघ्विदम् ॥३०॥

अयि चपलदृशः ! किङ्कर्यः ! इमा विजिगीषवः मां वलात्कुर्वन्ति । एषोऽधिकोऽनयनः । अथवा यत् यस्मात् यूयं पार्ष्णिग्राहाः सहाया नहि भवथ इदं मम अलघुदिष्टं महद्भाग्यं किं न ? अपि तु महद्भाग्यम् एव ॥३०॥

अथ मधुमती तं गत्वाऽजीग्रहन्मधुसभृतं
चषकमसकृत् सोऽप्यादाय स्व कुब्जित पाणिना ।
स्वमधरममूर्मध्ये मध्ये विदंश तयार्पयन्
पिपिब पिपिबेत्येतद्भाषानुकारमपाययत् ॥३१॥

अथ मधुमती काचित् किङ्करी श्रीकृष्णम् अपि मत्तं कर्तुं तं मधुपात्रमजीग्रहत् । सोऽपि कृष्णोऽपि पात्रमादाय अमूर्जसुन्दरीः स्वमधुरं विदंशतया मध्ये मध्ये अर्पयन्तासां पिव पिवेति भाषाया अनुकरणं यत्र तद्यथास्यात्तथा अपाययत् न तु कृष्णेन पीतम् ॥३१॥

वयमिह दिने किम्वा रात्रौ स्त्रियः पुरुषा नु वा
कलित वसनाः किम्वा नग्नस्तथा करवाम किम् ।
इति किम् अपि ता नो जानाना अनन्वित भाषिणीररमयद्
असौ सन्दर्श्याग्रे स्थिता अपि किङ्करीः ॥३२॥

गृहीतवसना वा इति किम् अपि न जानाना न ज्ज्ञातवतीः । किन्तु अनन्वितभाषिणीस्ता असौ कृष्णः किङ्करीः सन्दर्श्य अरमयत् ॥३२॥

न पिबसि कथं किञ्चित् त्वं च प्रियेत्यभिभाषितोऽ
वददपि तुलस्यासामास्यैर् अहं मधु सम्भृतैः ।
कनक चषकैर् अप्यश्रान्तं पिबन्न किमीक्ष्यसे
परिचर तदेत्यास्मान्स्वेदाप्लुतन्मृदु वीजनैः ॥३३॥

हे प्रिय ! कृष्ण ! त्वं किञ्चिन्मधु कथं न पिवसि ? इति किङ्करीभिरभिभाषितः श्रीकृष्णः ताः प्रत्यवदत् । हे तुलसि ! आसां तव स्वामिणीनां मधुसम्भृतैर् मुखैः कनकचषकैः करणैर् अहमश्रान्तं निरन्तरं मधुपिव न्नस्मि त्वं किं न ईक्षसे ? तस्मादत्र एत्य स्वेदप्लुतानस्मान्परिचर ॥३३॥

स्व सविधमथाप्यायातुं ता विलक्ष्य विशङ्किताश्
चषक पटलीमास्ये धृत्वाऽभिनीत निपीतिकः ।
अरुण नयनोद्घूर्णाभ्यासी श्लथीकृत गात्रकः
समजनि यदा तर्ह्यैवैता हसन्त उपाययुः ॥३४॥

मधुपाने विशङ्किता अत एव दूरे स्थिताः स्वनिकटमानेतुं ता विलक्ष्य दृश्ट्वा कृष्णः स्वमुखे चषकश्रेणीं धृत्वा अभिनीतपीतिकः । मयि मत्ते सति आसां शन्निकटागमे शङ्का न स्थास्यतीत्यभिप्रेत्य पानाभिनयः कृतः । न तु तत्पीतम् । एवं सहजारुणनयने मधुपानजन्यघूर्णाभ्यासी कृष्णः यदा यत्नेन श्लथीकृतगात्रः समजनि तद इव एता हसन्त्यः उपाययुः ॥३४॥

अथ चतुरया कौन्द्या द्वारे कबाटिकयावृते
प्रकटितबले लोले कृष्णे निरुद्ध्य निरुद्ध्य ताः ।
धयति मधुराण्यस्मिन्दीनानानि नानागिरातनुर्
अपि धनुर्धुन्वन्मन्ये ननर्त समूर्तिभृत् ॥३५॥

अथ चरुरया कुन्दवल्ल्या द्वारे कवाटिकयावृते सति प्रकटितवले अथ च लोले अस्मिन्कृष्णे ताः किङ्करीः निरुद्ध्य निरुद्ध्य नानागिरा मधुराणि तासां दीनाननानि धयति सति स मूर्तिभृत् अतनुः कन्दर्पः धनुर्धौन्वन्सन्ननर्त इति मन्ये ॥३५॥

स्वयम् अपि पपौः पौनः पुन्यादपाययदेव तास्
त्रिविध सरकोद्भूत भ्रान्तिस्तदप्यवति स्म याः ।
स्मररण वियद्भूषं कान्तं सकान्तमिमा व्यधुः
श्रमकण लसन्मुक्तामाल्यच्युतं मृदु वीजनैः ॥३६॥

अधुना कृष्णः स्वयं पपौ । एवं ताः किङ्करीः अपाययत् सरकं मधु त्रिविधं पैष्टं गौडं पौष्पं च तथा च तत्पाने उद्भूता कृष्णस्य भ्रान्तिर्याः किङ्करीः अवति इमां किङ्कर्यः कान्तासहितं स्मररणे वियद्भूषं कान्तं कृष्णं श्रमजलकण-रूपमुक्तामाल्येन च्युतं रहितं मृदुवीजनैर् व्यधुः चक्रुः । तथा च मधुपानजन्यघूर्णावशात् श्रीकृष्णो याः किङ्करीः मधु पाययितुं न शक्तस्ता एव स्वयूथेश्वर्यादीनां वीजनैः परिचर्यां चक्रुरिति भावः ॥३६॥

मधुरस परिपाक प्रक्रमे सम्विदिन्दौ
मदभरतमसेषन्मुच्यमाने प्रियाणाम् ।
सुरत पटिम रत्नान्योन्य दानादपूर्व
प्रथिम मुदनुभूतेर्व्यस्मयन्नालिपाल्यः ॥३७॥

प्रियाणां मधुरसपरिपाकस्य प्रक्रमे आरम्भे सम्विदिनौ ज्ज्ञा-रूपचन्द्रे मदभरतमसा मत्ततातिशय-रूपराहुणा ईषन्मुच्यमान सति सुरतरन्तानां परस्परदानात् अपूर्वविस्तृतानन्दानुभूतेर्हेतोः अकृतमधुपाने आलिपाल्यः व्यस्मयन् । तथा च मधुपानातिशयमत्तताजन्याज्ज्ञानदशायां न सुरतसुखं किन्तु कतिपयक्षणानन्तरं तस्य किञ्चित् परिपाकाज् जातं मत्तताया ईषन्न्यूनत्वं त्वेन ॥३७॥

इति श्री-कृष्ण-भावनामृते महा-काव्ये

मधु-पान-लीलानुमोदनो नाम

त्रयोदशः सर्गः

॥१३॥

—ओ)०(ओ—

(१४)