१२

द्वादशः सर्गः

कल्प-तरु-तल-लीलास्वादनो नाम

अथ तौ पुरःसरमनोजपद्मिनाव्
अनुरागराज वरवाहिनी पती ।
प्रसरत् शिलीमुखभटाभिवेष्टितौ
ययतुः शरत्सुखदनामकाननम् ॥१॥

अथान्तरमिह शरदि अनुराग-रूपस्य राज्ज्ञः वरवाहिनीपती श्रेष्ठसेनापतिस्व-रूपौ तौ राधा-कृष्णौ शरत्सुखदनामकननं ययतुः । सेनाप्तित्वनिर्वाहकसामग्रीम् आह—कथम्भूतौ पक्षे शिलीमुखो वाणस्तद्युक्तपदातिकाभिवेष्टितौ ॥१॥

मदिरेक्षणे कलय मङ्गलं पुरः
स्वमुखस्य चारु मुकुरायितं सरः ।
कनकाम्बुजं चटुलभृङ्गवेष्टितं
नटखञ्जन-द्वयमिहातिभाति यत् ॥२॥

कृष्ण आह—हे मदिरेक्ष्णे ! राधे ! तव मुखस्य मुकुरवदाचरितं सरः कलय पश्य । एतेन सरसः स्वच्छत्वादिगुण उक्तः । तन्मुखप्रतिबिम्बयुक्तमुकुरस्य साधर्म्यम् आह—यद्यस्मादिह सरसि मुखसदृशकनकाम्बुजादिकं भाति ॥२॥

नभसीह पाण्डि मधुरां बलाहकाः
सरसीभिराश्रितचरीं दधत्यमी ।
निजमेचकत्वमतिमेदुरं पुनर्
ददुराभ्य एव किमु मित्रताकृते ॥३ ॥

नभसि वलाहकाः मेघाः वर्षाकाले सरसीभिराश्रितचरीं पाण्डिमधुरां किञ्चिद्वृद्धूसराश्चेतिसातिशयं दधति एवममी वलाहकाः अतिमेदुरं स्निग्धं वर्षाकालीन्निजमेचकत्वं श्यामत्वमाभ्यः सरसीभ्यः पुनर्ददुः । परस्परमित्रतार्थं किं परीवर्त्तं कृतम् ॥३॥

अथवातपेऽतुल तपस्विनीरिमा नभसि
स्वसर्व धन सन्ततार्पणैः ।
परिचर्य विष्णुपद एव लिप्सवो
लयमापुरद्य सहसावदातताम् ॥४॥

अथवा भगवत्पदे लयमीप्सवो वलाहकाः आतपे निदाघे जलशोषणमृत्तिकाविदारणादिना अतुलतपस्विनीरिमाः सरसीः नभसि श्रावणे जल-रूपस्वसर्वधनस्य सन्ततार्पणैः निरन्तरवितरणैः परिचर्य सहसा अवदाततां शुद्धतामापुः । अवदातः सिते पीते शुद्धे इत्य् अमरः । पक्षे श्रावणे सरसीः परिचर्य विष्णुपदे आकाशे लयमीप्सवो मेघा अवदाततां श्वेततामापुः ॥४॥

अभितोऽपि पश्य सुमनस्सु रागिभिः
सुमनस्सु न क्वचन रज्यतेऽलिभिः ।
तव तेन सख्यतनुदूनतां ययौ
सुमनो न वेति वद सत्यमद्य नः ॥५॥

हे राधे ! अभितः पश्य सुमनस्सु रागिभिः अलिभिः सुमनस्सु पुष्पेषु न रज्यते इति विरोधः । परिहारश् च सुमनस्सु मालतीषु रागिभिः अन्य सुमनस्सु न रज्यते सुमनः सामान्ये न रज्यते इति हेतोः । हे सखि ! तव समनोऽतनुदूनतां परमदुःखितां ययौ न वा इति सत्यं वद । पक्षे तादृशमालत्यादिदर्शन-रूपोद्दीपनवशात् तव मनः कन्दर्पदूनतां ययौ न वा ॥५॥

इति माधवोऽभिदधदिद्ध दीधिति प्रमदा
मणी मुख्यमुदञ्चित स्मितम् ।
दर भुग्न तार सरसेक्षणं क्षणाद्
अधयद्दृशोच्चलितया भृशोत्सुकः ॥६॥

इत्यभिदधात् माधवः इद्धा दीधितिः कान्तिर्यस्या एवं-भूता प्रमदामणी राधा तस्या उदञ्चित् स्मितं मुखमुच्छलितया दृशाधयत् ॥६॥

अथ वृन्दयोपहृतमम्बुजं हरिः
परिगृह्य हस्तनलिनेन शस्तरुक् ।
समजिघ्रदप्यतुल सौरभैः क्षितौ
जयसि त्वम् इत्यलघु तुष्टुवे च तत् ॥७॥

हरिः वृन्दया उपहृतं पद्मं हस्तनलिनेन परिगृह्य अजिघ्रत् । पद्मं कीदृशं ? प्रशस्ता रुक्कान्तिर्यस्य । हे पद्म ! त्वं स्वसौरभैः क्षितौ जयसि । अलघु यथा स्यात् तथा तत् पद्मं कृष्ण्स्तुष्टुवे ॥७॥

कमल स्तवे सखि कृते मया कथं
वदनं तवाभवदराल चिल्लिकम् ।
दर शोणिमा चटुलिताङ्ग्यवेदिषं निज
गौरव च्यवन हेतुकं हि तम् ॥८॥

राधाया मुखे दृष्टिं निक्षिप्य कृष्णेन कृतचुम्बनं पद्मं दृष्ट्वा किञ्चित् कुपितायास्तस्याः क्रोधेऽन्य्देव कारणं श्रीकृष्णः कौतुकवशादाह—हे सखि ! राधे ! मया कमलस्य स्तवे कृते तव वदनमरालचिल्लिकं कुटिलचिल्लिकम् एवमीषत् शोणं च कतहमभवत् । आं ज्ज्ञातं हे चटुलाङ्गि ! कमलस्तवे कृते सति तव गौरवच्यवनम् एव क्रोधे कारणमह अवेदिषम् ॥८॥

भवतु क्रमादुभयम् एव जिघ्रता
यतरद्भवेन्मधुर सौरभाधिकम् ।
तदवेत्य तस्य जय एव सर्वदा निज
वेणुनाप्यलघु गास्यते मया ॥९॥

भवतु क्रमादुभयं जिघ्रता मया यतरत् यत् सौरभाधिकं भवेत् तत् अवेत्य तस्य जय एव गास्यते ॥९॥

इति तां निगद्य तदलक्षितं हरिः
परिचुम्ब्य तन्मुखमुवाच विस्मितः ।
अहहातुलः परिमलोऽयम् एव तत् सखि
नानृतं त्वम् अपि मे समक्रुधः ॥१०॥

तत् तस्मात् हे सखि ! त्वं मे मह्यं न अनृतमक्रुधः अपितु त्वया यथार्थ एव क्रोधः कृतः ॥१०॥

धिग् अरे वृथैव परिफुल्ल मूढ किं
त्रपसे न जैत्र वनितास्य सन्निधौ ।
निज पङ्कजत्व जलजत्वयोर् द्वयोर्
अनु-रूपम् एव शठ चेष्टसेऽथवा ॥११॥

यस्य स्तुत्या तव रोषोऽजनिष्ट तन्निन्दय इव त्वां प्रसादयामीत्यभिप्रायेणाह—धिगरे इति अरे मूढ ! त्वं वृथ इव परिफुल्ल किं जयशीलवनिताया मुखसन्निधौ न त्रपसे ? अथवा हे शठ ! तव पङ्काज्जातत्वं जडात् जलात् जातत्वं च । अत एव जडपुत्रत्वात् तम् अपि जड एव । तथा तयोरनु-रूपं चेष्टसे यतः फुल्लमसि ॥११॥

तरुवल्लि लास्यविधि शिक्षणं
प्रतिक्षणम् एव स क्षणमितो वितन्वता ।
तदुपाहृत स्वमकरन्द सौरभोच्
चय दक्षिणाभिर् अपि न प्रसीदता ॥१२॥

पद्मप्रभृतिपुष्पतोऽपि राधाया मुखसौरभस्याधिक्ये श्रीकृष्णो वायुम् एव प्रमाणयति द्वाभ्याम् । हे कोपने ! राधे ! शृणु ! तरुवल्लीनां प्रतिक्ष्णं नाट्यविधौ शिक्षणं वितन्वता विस्तारयता अत एव तस्मिन्शिक्ष्णे तरुप्रभृतिभिरुपहारत्वेन कल्पिताभिः स्वमकरन्दसौरभसमूह-रूपदक्षिणाभिर् अपि अप्रसीदता नभस्वता वायुना किन्तु तव मुखाम्बुजस्य घोङ्घट् इति प्रसिद्धमञ्चलीतटमात्रं नटयता तेन नटनस्य दक्षिणात्वेन कल्पितान्तव मुखस्य परिमलान्प्रतिलभ्य अमहद्य धन्य इति किं नाभ्यमन्यत ? अपितु अमन्यत एव । तथा च पवनः आत्मना धन्यं मन्यते स्मेत्य् अर्थः ॥१२-१३॥

शृणु कोपने तव मुखाम्बुजाञ्चली
तटम् एव किं नटयता नभस्वता ।
प्रतिलभ्य तत् परिमलान्सुदुर्लभान्
अहमद्य धन्य इति नाभ्यमन्यत ॥१३॥
ललिताह यस्य दर गन्ध मात्रतस्
त्वमुदारमुन्मुरहराभिलक्ष्यसे ।
मकरन्दमस्य किमु हास्यसि त्वम्
इत्यशङ्कया कवलितां करोषि माम् ॥१४॥

यस्य मुखस्य गन्धमात्रात् त्वं उदारमुत् अभिलक्ष्यसे अतस्त्वमस्य मुखस्य मकरन्दं किं हास्यसि ? इति शङ्कया त्वं मां कवलितां ग्रस्तां करोषि इति शङ्कायुक्तां मां करोषीत्यर्थः ॥१४॥

सखि मा विषीद कति वा न माधुरी
सरितः स्रवन्ति परितो यतोऽनिशम् ।
सकृदेव पञ्चष पृषन्ति पानतः
सरसोऽस्य किं नु भविता दरिद्रता ॥१५॥

हे सखि ! ललिते मा विषीद, यतो राधाया मुख-रूपसरोवरस्य अनिशं निरन्तरं परितः माधुरी-रूपसरितो नद्यः कति वा न स्रवन्ति ? अतोऽस्य सरसः पञ्चष विन्दोः सकृत् पानतः किं दरिद्रता भविता ? ॥१५॥

इति सव्य दोर्भुजगपाश वेष्टनैः
स्वबलाद्वशीकृततनोर्नतभ्रुवः ।
अधरामृतं यदपिबत् तदुत्थिता
वदन द्वय द्युतिरतीतृपत् सखीः ॥१६॥

तत् अधरामृतमपिवत् तेन पानेन उत्थिता या तयोर्वदन-द्वयस्य द्युतिः सा सखीः अतीतृपत् ॥१६॥

प्रति वर्त्म कुञ्ज सरसी सरिन्नगं
रममाण एवमनुरागिणी गणैः ।
निखिलाटवी मुकुटभूतमुल्लसत्
परिधीयमान यमुनं वनं ययौ ॥१७॥

अनुरागिणीगणैः सह वर्त्मादिकं प्रतिवर्त्मकुञ्जपर्वतादौ तथा च वर्त्मणि वर्त्मणि कुञ्जे कुञ्जे एवं रीत्या बोध्यम् । रममाणः कृष्णः । परिधिर्मण्डलं तदिवाचरन्ती यमुना यत्र तथा-भूतं वृन्दावनं ययौ ॥१७॥

कलहंस चक्र कलहं कलास्पदं
कृत कर्ण कैर् अव कुतूहलं दधत् ।
सततं नगैर् असततं फलोच्चयं

कलयद्भिरेव बलयच् छिकरवैर् वृतम् ॥१८॥

वृन्दावनं कथम्भूतं ? कलहंसचक्रवाकानां कलहं दधत् । तादृशं कीदृशं कलानां वैदग्धीनामास्पदं । पक्षे कलहंसादीनां कलं हन्तीति तत् तद अपि च कलानां मधुरशब्द नामास्पदमिति विरोधाभासः । पुनश् च कलहं कीदृशं कृतं कर्ण-रूपकैर् अवाणां कुतूहलं येन । अत एवात्र कैर् अवपदात कलानामास्पदं चन्द्रस्व-रूपम् इत्यर्थोऽपि बोध्यः । पुनश् च नगैः सततं वृतम् । नगैः कीदृशैः रसेन ततं विस्तृतं फलसमूहं कलयद्भिः ददद्भिः पुनश् च वलयन्ती परस्परं वेष्टयन्ती शिखा अरभागो येषाम् । सर्वेषामग्रभागानां समतया स्थितिरित्यर्थः । पक्षे सततं नगैर् वृतं असततं नगैर् वृतमिति विरोधाभासं च ॥१८॥

स्फटिकेन्द्रनील कुरुविन्द हाटकैर्
अचितास्ति यत्र बहु तीर्थमण्डली ।
प्रतिबिम्बिता तदितरेति सैव नृन्
भ्रमयत्यशीत किरणात्मजाम्भसि ॥१९॥

यत्र वृन्दावने घाट इति प्रसिद्धा तीर्थमण्डली अस्ति । कुरुविन्दः मुगा इति प्रसिद्धः । अशीतकिरणात्मजाया यमुनाया अम्भसि प्रतिबिम्बिता सा तीर्थमण्डली तदितरा स्वस्मादन्या तीर्थमण्डली इति नॄन्भ्रमयति ॥१९॥

तदुपर्य्यमन्द रुचि कुञ्जपुञ्ज
भाक् कुसुमाटवी लसती यत्र सर्वतः ।
अलि मञ्जु गीत जन रञ्जि खञ्जन
व्रज हारि नाट्य परिपाट्यनेकधा ॥२०॥

यत्र कुञ्जे मुक्तकुसुमाटव्या उपरिदेशे भ्रमराणां मञ्जुगीत एव जनरञ्जि खञ्जन समूहस्य अनेकधा मनोहरा नाट्यपरिपाटीवर्तते ॥२०॥

नवमालिका बकुल कुन्द केतकी
करवीर केशर कदम्ब चम्पकैः ।
अतिमुक्त जाति शतपत्र कुब्जकैः
गिरिमल्लिका कनक यूथिकादिभिः ॥२१॥

यत्र वृन्दावने अश्रमिभिः श्रमरहितैर् नवमालिकाभिः सदा वलिता वेष्टिता इति परश्लोकेन सहान्वयः । पक्षे आश्रमिभिः । तथा च यथा ब्राह्मणक्षत्रियाद्याश्रमिणो जना ग्रामे क्रमशः एकप्रदेशे ब्राह्मणा अन्यप्रदेशे क्ष्त्रियादयो वसन्ति तथा इत्यर्थः । वकुलादिभिर्वृक्षैर् नवमालिकाकनकयूथिकादिलतासाहित्येन आश्रमिभिर्गृहाश्रमितुल्यैर् एतैः सदा कलिता युक्ता भूर्यत्र वृन्दावनेऽस्तीति परश्लोकेनान्वयः । अतिमुक्तो माधवीलता । शतप्रत्रकुव्जकौ वृक्षभेदौ । गिरिमल्लिका कुटजः । अथ कुटजः शक्रो वत्सको गिरिमल्लिकेत्य् अमरः । नारिकेलस्तु लाङ्गलीत्य् अमरः । मृद्वीका गोस्तनी द्राक्षेत्य् अमरः ॥२१२२॥

पनसाम्र लाङ्गलि गुवाक गोस्तती
कदली करञ्ज करकेषु कोलिभिः ।
धवनिम्ब पिप्पल बटाक्ष किंशुकैः
कलित सदाश्रमिभिरेव यत्र भूः ॥२२॥
चतुरस्तरून्सहरुचश्चतुर्दिशं
व्रतति द्वय द्वय समाक्रमाञ्चितान् ।
विटपैः परस्परमुपर्य्युपर्युतान्
इह कुञ्ज इत्याभिदधाति कोविदः ॥२३॥

अधुना कुञ्जरचनाप्रकारमाह—चत्वारो वृक्षा एक-रूपास्तेषां मध्ये एकैकवृक्षस्य पार्श्व-द्वये लता-द्वयस्य वेष्टनं विटपैः करणैस्ते वृक्षा परस्परमुपर्युपरि ग्रथिता भवन्ति । तथा सति एतान्वृक्षान्कोविदः इत्यभिदधाति ॥२३॥

तत शाखतां स च गतस्तथा बभौ
धृत पुष्पपल्लव दलाच्छ गुच्छकः ।
बडभीशिख शिखर भित्ति तोरण
प्रतिहार राजि मणिमन्दिरं यथा ॥२४॥

धृतपुष्पपल्लवादिकः स च कुञ्जः वलभ्यादिभिर्विराजमानं मणिमन्दिरं यथा भवति तथा विस्तृतशाखतां गतः सम्बभौ ॥२४॥

चतुरस्रतां क्वचन चाष्ट कोननां
बलयाकृतिं च स भजन्क्वचित् क्वचित् ।
निज नाथयोरतनु केलये मनो
नयन प्रमोद्य लघु यत्र राजते ॥२५॥

स च कुत्रचित् चतुरस्रतां कुत्रचित् अष्टकोणतादिकं भजन्निजनाथयोः कन्दर्पक्रीडार्थं यत्र वृन्दावने अलघु यथास्यात् तथा राजते ॥२५॥

शुकशारिकाचटककेकिकोकिलैर्
अलिचाषतित्तिरकलिङ्कचातकैः ।
कलवाक् चकोर चरणायुधादिभिर्
ध्वनितैव यत्र बत भाति दिक्ततिः ॥२६॥

यत्र वृन्दावने शुकादिपक्षिभिर्ध्वनिता दिक्ततिर्भाति । कलवाक् पारावतः ॥२६॥

रुरु शल्य कीश महिषैः समूरुभिः
सृमरैश्चमूरु कपिला शशदादिभिः ।
विहरद्भिरेव किल यत्र नीयते
समयोऽति सौहृद मिथोऽवलेहनैः ॥२७॥

रुरुप्रभृतिमृगभेदैर् बिहरद्भिरेवातिसौहृदेन परस्परावलेहनैः करणैर् यत्र समयो नीयते ॥२७॥

अहिवक्त्रवह्नि हवनात्तनोश्चिरान्
मलयानिलैः श्रित तपोवलर्द्धिभिः ।
कृत नन्दनद्रु कुसुमोपगूहनैर्
अमराङ्गणाङ्ग परिशीलनादृतैः ॥२८॥

मलयानिलैस्तपस्यां कृत्वा स्वर्गकैलासवैकुण्ठादिगमनेन भूरिपुण्यविशिष्टैस्तैः पुण्यप्रभावेन इव यां भूमिं प्राप्य स्वर्गादिभ्योऽपि अधिकां काञ्चन चमत्कृतिमुपलभ्य श्रितनीति यथास्यात्तथा यत्र सदोष्यते वासःक्रियते इति तृतीयश्लोकेन सहान्वः । मलयानिलैः कथम्भूतैः मलयपर्वतीयसर्पवक्त्र-रूपे वह्नौ चिरकालं व्याप्य स्वतनोर्हवनात् प्राप्ततपोवलसम्पत्तिभिः । स्वर्गस्थनन्दनवृक्षालिङ्गनादिभिस्तेषां सौगन्ध्यमानीत ॥२८॥

सुरदीर्घिका सलिलपावितात्मभि
गिरिजासरः कमल रेणु रुषितैः ।
कमलालया रमण केलि पादप
प्रचय प्रसून मकरन्द नन्दितैः ॥२९॥

सुरदीर्घिकेति शैत्यमानीतं कमलालया लक्ष्मीस्तस्या रमणो नारायणः । पुनः कथम्भूतैः व्रजभूमिवासेन अवज्ज्ञाता अन्यत्रवासे वासना यैः । श्रितनीतीत्यनेन तेषां मान्द्यमानीतम् ॥२९३०॥

अथ भूरि पुण्य परिणाम चुम्बितैर्
अभिपद्य यामवमतान्य वासनैः ।
उपलभ्य काञ्चन चमात्कृतिं परां
श्रितनीति यत्र हृषितैः सदोष्यते ॥३०॥
मृग वृक्ष पक्षिषु पुरोवलोकितेष्व्
अति रमणीय कमनोक्षि हारिणः ।
अभिधाम पृच्छदिह कस्य कस्यचिन्निज
तर्जनीं मधुरमुन्नमय्य सा ॥३१॥

मृगवृक्षपक्षिषु मध्ये मनोनेत्रहारिण कस्यचित् अभिधां सा राधिका तर्जनीमुन्नमय्यापृच्छत् ॥३१॥

स्वकरेण नव्य कुसुमानि मानि
तान्यवचित्य तानि तनु वल्लि तन्तुभिः ।
विरचय्य हार कटकाङ्गदादि तन्मिथुनं
मिथः सपदि भूषयद्बभौ ॥३२॥

तानि कुसुमानि वल्ल्या वल्कलस्यसूक्ष्मसूत्रैः करणैः हारादिभूषणं विरचय्य तन्मिथुनं परस्परं भूषयत् बभौ ॥३२॥

परिधापने कुसुम मण्डनस्य किं
स्वकुचौ प्रति त्वमतिशङ्कसे प्रिये ।
कलयास्मि निर्विकृतिरेव वर्णिता वर
वर्णिता श्रुतिभिरेव मे मुहुः ॥३३॥

हे राधे ! पुष्पमण्डनस्य परिधापने स्वकुचौ प्रति कथं शङ्कसे । तव कुचस्पर्शेऽपि अहं निर्विकारोऽस्मीति पश्य । यतो मम वरवर्णिता श्रेष्ठब्रह्मचर्यं गोपालतापीश्रुतिभिर्मुहुर्वर्णिता ॥३३॥

सखि कुन्दवल्लि वद सत्यमस्य किं
वरवर्णिता भवति साधु वा न वा
निज देवरस्य चरितं प्रजावती यद्
अवैति तत् किमपरो जनः क्वचित् ॥३४॥

प्रजावती भ्रातृजाया ॥३४॥

वरवर्णिनी त्वमसि राधिके ततो वर
वर्णितां मृगयसोऽस्य यत्नतः ।
गत शङ्क सतत सङ्गतौ तथा
स्वसतीत्व सिद्धिरिति ते किलाशयः ॥३५॥

कुन्दवल्ली आह ! हे राधे ! त्वं वरवर्णिनी पक्षे श्रेष्ठवर्णयुक्ता असि । तत एव हेतोः अस्य वरवर्णित्वं यत्नतः मृग्यसे । तत्रान्वेषणे ते तव आशय-द्वयम् । श्रीकृष्णेन सततसङ्गमे निःशङ्कत्व तथा स्वस्य सतीत्वप्रदिद्ध्यर्थं च ॥३५॥

सखि तापनीं श्रुतिमहो न वेद को
विदितश् च रौद्रमुनिरत्रिनन्दनः ।
मम वर्णितां प्रति गृहं स वक्ष्यति
क्षणमत्र तद्भज रहो मया समम् ॥३६॥

अत्रिनन्दनो दुर्वासा । रौद्रो रुद्रोपासको मुनिः प्रतिगृहं वक्ष्यति । त्वं तु मया सह क्षणं रहो भज ॥३६॥

चपलत्व निस्त्रपयोरुपाददत् पुरु
सारभागमिह निर्ममे स्फुटम् ।
ललिते विधिः पुरुष जातिमीक्ष्यताम्
अलिरत्र वल्लिषु गतः प्रमाणता ॥३७॥

श्रीराधिका ललितां प्रति पुरुषपदस्य व्युत्पत्तिम् आह—विधाता चापल्यनिर्लज्जत्वयोः अधिकसारभागमुपाददत् पुरुषजातिं निर्ममे । अत्र वल्लीषु वर्तमानोऽलिरेव प्रमाणम् ॥३७॥

किमियं करोति कलयेति भाषिण
प्रिय मानतेक्षणमवेक्ष्य राधया ।
प्रकटं तमालमभिवेष्टयन्त्यलं
पिदधेऽञ्चलेन नव हेम यूथिकाम् ॥३८॥

यथा पुरुषजातेश्चापल्यादिदोषदानार्थं राधया भ्रमरो दृष्टान्तिस्तथैव श्रीकृष्णोऽपि स्वर्ण-युथिकां दृष्टान्तीकृत्य स्त्रीजातेर्निर्लज्जत्वादिदोषदानार्थम् आह—इयं स्वर्ण-यूथिका किं करोति पश्येतिभाषिणं श्रीकृष्णमवेक्ष्य तादृशभाषणात् पूर्वम् एव राधया तमालं वेष्टयन्ती यूथिकामञ्चलेन पिदधे ॥३८॥

इति भूरि कौतुक सुधातरङ्गिणी
रस मज्जितान्तरतया तया समम् ।
प्रविवेश तद्विपिन मध्यवर्तिनी
कनकस्थलीं क्वणदङ्क किङ्किणिः ॥३९॥

इति प्रचुरकौतुकसुधानद्या रसेन मज्जितान्तरत्वेन स कृष्णः तथा समं वृन्दावनस्य मध्यवर्तिनीं कनकस्थलीं प्रविवेष । क्वणन्निर्मला किङ्किणी यस्य ॥३९॥

समयान्ति यां द्युमणि विद्युदिन्दुज
द्युति विद्रुहि स्फुरति रत्नकुट्टिमे ।
मणि योगपीठमिह पद्मरागजं
स्फुटमष्टपत्रमवभासतेऽम्बुज ॥४०॥

यां समया यस्याः कनकस्थल्याः मध्ये स्फुरति । रत्नकुट्टिमे मणियोगपीठमस्ति । कथम्भूते रत्नकुट्टिमे सूर्यविदुच् चन्द्रजद्युतीनां विद्रुहि । इह मणियोगपीठे पद्मरागजमष्टदलमम्बुजं भासते ॥४०॥

अनुरागि भक्तनिवहः स्वमानसे
प्रकटीभवद्यदभिलक्ष्य सक्षणम् ।
मकरन्दमृद्धमतुलं पिबन्पिबंश्
चिरम् एव जीवति यदीयमद्भुतम् ॥४१॥

अनुरागिभक्तसमूहः स्वमनसि । पक्षे स्वमनो-रूपे मानससरोवरे प्रकटीभवत् यत् पद्मं सक्षणं सोत्सवं यथास्यात्तथा अभिलक्ष्य यदीयमद्भुतमकरन्दं पिवन्पिवन्चिरं जीवति । मनसि तस्य माधुर्यास्वादनम् एव तस्य मकरन्दपानमिति बोध्यम् ॥४१॥ \

सुरशाखिनोऽति सुरसार्थ वर्षिणः
सुरसार्थ दुर्लभतरस्य कस्यचित् ।
सुरतोत्सवनसुरवैविणं सदा
सुरसय्य नित्य धृत सौभगाम्बुधेः ॥४२॥

यत् पद्मं सुरशाखिनः कल्पवृक्षस्य तलवर्ति इति परश्लोकेनान्वयः । कथम्भूतस्य अतिसुरसफलस्य वर्षिणः । पुनश् च सुरसार्थस्य देवतासमूहस्य दुर्लभतरस्य । पुनश् च असुरवैर् इणं कृष्णं सुरतजन्योत्सवान्सुरसय्य आस्वादयित्वा नित्यं दृतः श्रीकृष्णदत्तसौभगाम्बुधिर्येन तस्य । हे कल्पवृक्ष ! धन्योऽसि यथा त्वत्तले मम सुरतोत्सवस्तथा नान्यत्र इति श्रीकृष्णदत्तसौभाग्यो बोध्यः ॥४२॥

हरिदश्मपत्र परिगुच्छ विद्रुम
प्रथ पल्लवाम्बुजमणीफलावलेः ।
निखिलर्तु सेविततमस्य यत् सदा
तलवर्ति हन्तृ सुदृग् आर्ति सन्ततेः ॥४३॥

पुनश् च कथम्भूतस्य इन्द्रनीलमणिवत् पत्रं यस्य वज्रयुल्यश्वेतवर्णगुच्छा यस्य, विद्रमप्रभातुल्यप्रभायुक्तः पल्लवो यस्य, अम्बुजमणिः पद्मरागस्तत्तुल्या फलश्रेणी यस्य, स च पद्मं कीदृशां स्त्रीणां, ज्ज्ञानिनां, शोभनानां नयनानां च आर्तिसंहतेर्हन्तृ ॥४३॥

तदुपेत्य स श्रित तदीय कर्णिकः
स्फुट कर्णिकार रमणीय कर्णिकः ।
वनिता नितानितमहाः सहालिभिर्
मुमुदे मुखोद्घतन लोभितालिभिः ॥४४॥

तत्पद्ममुपेत्य तदीयकर्णिका येन एवं-भूतः स श्रीकृष्णः वनिता राधा तया नितरां तानितं विस्तृतं मह उत्सवो यस्य तथा-भूतः सनालिभिः सखीभिः सह मुमुदे । कथम्भूताभिः मुखस्योद्घाटनेन लोभितोऽलिर्याभिः ॥४४॥

तडिदम्बुभृद्बलयिते किमम्बु
भृत् तडितावचञ्चलतया धृत प्रथे ।
सुरशाखिनो ववृषतुः स्ववाञ्छितं
बहु तस्य किं नु कृत तत्तल-स्थिती ॥४५॥

कृष्णराधास्व-रूपमेघतडितौ किं निजपीतनीलवस्त्रस्थानीयाभ्यां विद्युन्मेघाभ्यां वलयिते ? ननु स्वर्गं बिहाय पृथिव्यां किमर्थं तयोरागमनम्? तत्रा तस्य सुरशाखिनो वहु वाञ्छितं किं कृततत्तल-स्थिती सत्यौ ववृषतुः ? कथम्भूते चञ्चलतया धृता प्रथा ख्यातिर्याभ्यां ते ॥४५॥

स्मर कोटि मोहन नखाञ्चल द्युतेः

स्मर विह्वलीकृत तनोरघद्विसः ।
नयनान्त सृष्ट सशर स्मरार्बुद
ग्लपित प्रियाक्षितत पीत रोचिषः ॥४६॥

अधुना कल्पवृक्षस्थशुकोक्तं श्रीकृष्णस्य -रूपां वर्णयति— ललितत्रिभङ्गिवपुषः श्रीकृष्णस्य माधुरीं सनन्दनपराशरादयो न विदुः । पक्षे नन्दनेन पुत्रेण व्यासेन सह इति परश्लोकेनान्वयः । कथम्भूतस्य स्मरकोटिमोहननखाञ्चलद्युतेअ अपि स्मरेण विह्वलीकृता तनुर्यस्येति विरोधाभासः । पुनश् च नयनान्तेन सृष्टो यः शरयुक्तः स्मारार्वुदस्तेन ग्लपिता याः प्रियास्तासामक्षितटेन पीतं रोचिः कान्तिर्यस्य । यद्यपि पराशरादयो न विदुस्तस्दपि व्रजाश्रितशुकपक्षिणः उक्तिचातुरीविषयकृतं माधुरीं साधवोऽनुभवन्ति । पक्षे वजाशितशुकदेवस्य श्रीभागवतोक्तिचातुरीविषयीकृतां माधुरीं साधवोऽनुभवन्ति ॥४६४७॥

ललित त्रिभङ्गि वपुषोऽस्य माधुरीं
न विदुः सनन्दन पराशरादयः ।
तदपि व्रजाश्रित शुकोक्ति चातुरी
विषयीकृतामनुभवन्ति साधवः ॥४७॥
स हि वेदकल्पतरुमाश्रितः सदा
फलमस्य सारमुपभोक्तुम् अग्रणीः ।
यदवर्णयत् तदमृतं सुदुर्लभं
विबुधैर् अपीति जगति प्रथां दधे ॥४८॥

अस्य कल्पवृक्षस्य सारफलमुपभोक्तुं स शुकः सदा वेद, कीदृशः अग्रणी श्रेष्ठ । यदवर्णयत् तदमृतं विवुधैर् देवैर् अपि सुदुर्लभमिति जगति प्रथां दधे । पक्षे वेद-रूपकल्पवृक्षमाश्रितः सन्श्रीभागवत-रूपं तस्य सारफलमुपभोक्तुम् अग्रणीः । स यदवर्णयत् तत् श्रीभागवत-रूपामृतं विवुधैर् अपि सुदुर्लभमिति जगति प्रथां दधे ॥४८॥

सुकुमारतां पदयुगस्य किं ब्रुवे
रसिकेन्द्र यस्य धरणौ यियासतः ।
स्वदृशोऽपि पादुकयितुं विशङ्कते
स्खलदश्रु ते प्रणयिणी कदम्बकम् ॥४९॥

शुकपक्षिणः कवितामाह—हे रसिकेन्द्र ! तव पदयुगस्य सुकुमारतां किं व्रुवे ? धरणौ यियासतो यस्य पदयुगस्य तव प्रणयिनीकदम्बकं स्वदृशो नेत्राण्यपि कठोरतया पादुकयितुं पादुकां कर्तुं विशङ्कते । प्रणयिनीकदम्बकं कीदृशम्? स्खलदश्रु ॥४९॥

निखिलाङ्गभार वहनाभिभूतितः
कुपितेव शोणिम धुरा दुरावरा ।
बहिरेतुम् इच्छतितमामिवेक्ष्यते

तव सव्य पादतल पार्ष्णि वर्तिनी ॥५०॥

अधुना त्रिभङ्गी ललितस्य कृष्णस्य तादृशसमये वामपदे सर्वाङ्गस्य भार्ताज्जातं तदारुण्याधिक्यं तत् कोपजन्यत्वेनोत्प्रेक्षते । तव वामपदतलवर्तिनी दुर्निवारा शोणिमधुरा आरूण्यातिशयः । मम प्रतिपक्षे दक्षिणपदे सत्यपि निखिलाङ्गभारबहनाभिभूतितः कुपिता इव मया अत्र न स्थेयम् इत्युक्त्वा बहिरागन्तुम् इच्छति ततमामिवास्माभिरीक्ष्यते ॥५०॥

तदुपर्यदेति शितिमा तयोर् द्वयोर्
अधिसीम कापि रुचि रेखिकास्ति या ।
इयम् एव दृङ्मधुकरी श्वरीकरीत्यति
विह्वलाः स्वमधुभिर्नतभ्रुवाम् ॥५१॥

शितिमा श्यामता । तयोर् द्वयोः शोणिमशितिम्नोः सीमामध्ये या कापि रुचिरेखिका अस्ति । इयं रेखिका नतभ्रुवां दृङ्मधुकरीर्बिह्वलाः चरीकरीति अतिशयेन पुनः पुनः करोति ॥५१॥

यदसव्यम् एव चरणं पुरस्तिरश्चर

जङ्घमाप रभसेन सव्यताम् ।
अतिरागिणा निजतलेन राधिका
पदलम्बि शाट्यलघु चुम्बनाय तत् ॥५२॥

पुरस्तिरश्चीनजङ्घं दक्षिणचरणं रभसेन कौतुकेन सव्यतां वामदिग् वर्तितां यत् आपतत् अतिरागिणा दक्षिणचरणतलेन राधिकापदलम्बिशाटीनामलघुचुम्बनाय न्यूनता अपि स्विकृता ॥५२॥

इदमिद्ध हिङ्गुलरसेन चर्चितं
विधिना स्वचित्रकरता प्रथाकृते ।
ध्वज पङ्कजादि लिखता ध्रुवं
यतः सकृदीक्षयन्कुलवतीरमूमुहुः ॥५३॥

स्वचित्रकरताप्रथानिमित्तं ध्वजवज्रादिलिखता विधिना इदं तलमिद्धहिङ्गुलरसेन चर्चितम् । यतो लिखनां त्वं कुलवतीः सकृदीक्षयनमूमूःअ ॥५३॥

कथमप्रतीतिमभिपद्यसे प्रिये
कलयेश्वरोऽस्मि नहि नेत्यदीदृशः ।
स्वपदाङ्कसम्पदिमां किमाग्रहान्
न तथापि लब्ध दरगौरवोऽप्यभूः ॥५४॥

हे प्रिये ! कथमप्रतीतिअ अभिपद्यसे ? अहमीश्वरोऽस्मि नहि न तथा चाहम्श्वीर एव इति स्वपदाङ्कसम्पदमिमां प्रियां त्वं दक्षिणचरणतले उन्नतीकृत्य किमाग्रहात् अदिदृशः ? तथापि त्वं न लव्धदरगौरवोऽपि अभूः । ईदृश्यो वह्व्यो रेखा अस्माकं पदतले वर्तन्ते इत्युक्त्वा न गौरवं कुर्वन्ति ॥५४॥

तनुजानुजात सुषमापटावृतातनु

जानुताप विषमामनाव्र्ताम् ।
तनते दशां सकृदवेक्षितैव ते
तनु मध्यमातति हृदः कलानिधेः ॥५५॥

जानुं वर्णयति— सूक्ष्मजानुजन्यशोभा सकृदवेक्षिता सती कन्दर्पतापेन विषमामत एवानावृतां तनुमध्यमाततीनां हृदयस्य दशां तनुते हे कलानिधे ॥५५॥

अति पीन वृत रुचिरोरु रोचिष
जगति सतीर् अपि रतीशवेल्लिताः ।
सहसा विधाय सहसाधरामृतैः
सह साधुताभिर् अपि देव तिस्यसि ॥५६॥

अतिपीनवृत्तरुचिरोरुदेशस्य रोचिषा जगतीसती सहसा रतीशेन कन्दर्पेन वेल्लिताः विधाय ताभिः व्रजसुन्दरीभिः सह साधु यथास्यात् हससहितादरामृतैः तिम्यसि आर्द्रीभवसि । तासामधरामृतैस्त्वं त्वदरामृतैर् अपि तास्तिम्यन्तीत्यथः ॥५६॥

तव नाभिरोमततिपङ्क्ति-रूपतां
ययतुः सुधाह्रदतदुत्थवल्लिके ।
परितस्तु ये सुमनसां निवासभूर्
अतिरमणीयकवती विराजते ॥५७॥

सुधाह्रदतदुत्थवल्लिके तव नाभिरोमावलि-रूपतां ययतुः ।

ये ययोः ह्रदवल्ल्याः परितः सुमनसां शोभनानां मनसां च मालास्थपुष्पाणां च सहृदयानां च निवासभूर्विराजते । परिशब्दयोगाद्द्वितीया ॥५७॥

सुभगोर्ध्वनालम् अपि न न्यगाननं
स्मरसद्मपद्ममिदमद्भुतं भवेत् ।
पतिता दृशोऽत्र सुदृशां यदन्धतां
तदिषूपघातगलदम्बुभिर्ययुः ॥५८॥

कन्दर्पस्य सद्मस्व-रूपमिदं नाभिपद्ममद्भुतं भवेत् । अद्भुतम् एवाह—सुभगोर्ध्वनालम् अपि तत् पद्मं न्यक् नीचीनमाननं यस्य तादृशं न । यत् यस्मात् अत्र पद्मे सुदृशां दृशः पतिता सत्यः तस्य पद्मस्थकन्दर्पस्य इषूपघातेन गलदम्बुभिः करणैः अन्धतां ययुः । अत्र नाभिपद्मदर्शनजन्यानन्दाश्रु एव कन्दर्पबाणाघातजन्यत्वेनोत्प्रेक्षितम् ॥५८॥

त्रिजगत् त्विषामखिलसारसङ्ग्रहैस्
त्रिवली व्यधायि विधिनातिशिल्पिना ।
अनयावलग्नमिह तेन कीर्तयन्त्य्
अवलग्नमेतदृतभाषिणो बुधाः ॥५९॥

अनया त्रिवल्या सह लग्नं तेन हेतुना सत्यभाषिणो धीराः तव मध्यदेशमवलग्नं कीर्तयन्ति । मध्यमञ्चावलग्नं च इत्य् अमरः । तेन ये पुनरन्यपुरुषे मध्यदेशमवलग्नं भाषन्ते, ते मिथ्यावादिनो मूर्खा एवेत्य् अर्थः ॥५९॥

अतितुङ्ग पीन घन वक्षसो भरं
वहदेव मध्यममगादिव श्रमम् ।
निज वामतोऽनमदिवातितन्विदं त्रिक
भङ्गि लङ्गिमभरेण लक्ष्यते ॥६०॥

अतितनु अति सूक्ष्मं मध्यमं वक्षसो भरं वहत् सत्श्रममगादिव श्रमाद्ध्स्तोर्निजवामदेशे अनमदिव । त्रिभङ्गसमये वामपार्श्वे किञ्चित् नमनमनुभवसिद्धमिति भावः । इदन्तु त्रिभङ्गे लङ्गिम्भरेण मनोहरतातिशयेन लक्ष्यते । त्रिकः नितम्बोपरि पृष्ठदेशस्थभागविशेषः । लङ्गचङ्गौ मनोहरे ॥६०॥

नवलीलता लषती दक्षिणेऽस्य यत् तद्
इदं विमोहनकृते मृगीदृशाम् ।
इतरत्र पुष्कलवलित्वमस्त्यतो गुरु
भारघारणमिहैव सम्भवेत् ॥६१॥

अस्य मध्यदेशस्थस्य त्रिभङ्गीसमये दक्षिणपार्श्वे नवलीलता नव्य लीलावत्वम् । पक्षे त्रिवलियुक्तत्वं न लषति अस्त्यर्थे लप्रत्ययः । इतरत्र वामपार्श्वे पुष्कलवलित्वं पुष्टत्रिवलित्वमस्ति । पक्षे दक्षिणपार्श्वे नवलीलत्वं न वलयुक्तत्वमिति पर्यवसितार्थम् । इत्वरत्र पुष्कलवलवत्वं पुष्टवलि युक्तत्वं तदेव पुष्कलवलवत्वमिति परम्परित-रूपकमस्ति अतो गुरुभारबहनमिह वामपार्श्वे एव सम्भवेत् ॥६१॥

श्वसनै दरावनमुन्नमत् क्रमात्

मृदु पिप्पलच्छदननिन्दि सुन्दरम् ।
निज तुन्दमिन्दुवदना मणिस्रजां
नयसि क्वचिन्नटन रङ्गभूमिताम् ॥६२॥

उदरं वर्णयति— अश्वत्थदलनिन्दि सुन्दरं निजतुन्दं श्वसनैः क्रमात् ईषदव्नमत् उन्नमच् च । तत् तुन्दमिन्दुवदनाया राधाया मणिस्रजां नटनरङ्गभूमितां क्वचित् विपरीतशृङ्गारसमये नयसि ॥६२॥

उरसीन्दिराङ्कलतिका विराजते
निकषाश्मणीव तपनीयरेखिका ।
विस तन्तु चूर्णतति तुल्यतां श्रिता

भृगुलक्ष्म लोमलतिकाप्यणीयसी ॥६३॥

निकषाश्मनि सुवर्णरेखिका इव तव वक्षःस्थ्ले लक्ष्मीरेखा-रूपा लतिका विराजते । एवं अनीयसी क्षुद्रा श्रीवत्स-रूपभृगुलक्ष्मलोमलतिका विराजते । कथम्भूता मृणालतन्तुचूर्णश्रेणीतुल्यतां श्रिता प्राप्ता । एतेन तस्याः श्वेतत्वं सुक्ष्मत्वं चायातम् ॥६३॥

इह वाम दक्षिण दिग् उत्थिते इमे

पुरतः स्फुटत् पुरट तार हारयोः ।
प्रतिबिम्बिते द्युतिकले इवेक्षते
भवतो मसर मुकुरायिते तव ॥६४॥

इह मसारमुकुरायिते इन्द्रनीलमणिनिर्मितदर्पणतुल्ये तव वक्षसि यथा सङ्ख्येन्वामदक्षिणदिगुत्थिते इमे लक्ष्मीरेखा श्रीवत्सलतिके पुरट तारहारयोः स्वर्ण-हारमुक्ताहारयो प्रतिबिम्बिते कान्तिकले इव जनैर् ईक्षिते भवतः ॥६४॥

किममानिवान्तरिह ते समृद्धिमान्
अनुराग एव बहिरेति दृश्यताम् ।
उदितेन्दु सूर्य शत निन्दि कौस्तुभाच्
छलतो यतो जगदवाप रक्तताम् ॥६५॥

ते तव समृद्धिमाननुरागः अन्तरमानिव अन्तःकरणे न माति इति हेतोरिव कौस्तुभच्छलात् किं बहिर्दृश्यतामेति ? यतः कौस्तुभाट् जगत् अनुरक्ततामवाप ॥६५॥

मृदुल त्रिरेखा दर तिर्यग् अञ्चित
द्युतिमण्डली ललित कण्ठ माधुरीम् ।
स्वदृश धयन्त्यधिधरं धृतिच्युता
कुलजापि दोर्बलयितां विधित्सति ॥६६॥

अधिधरं धरण्यां धृतिच्युता कुलजापि तव कण्ठमाधुरीं स्वदृशा धयन्ती सती दोर्वलयितां विधित्सति हस्ताभ्यां वेष्तितां चिकीर्षति । कथम्भूता मृदुला त्रिरेखा यस्याः । एवं त्रिभङ्गसमये ईषत् तिरश्चीनेनाञ्चिता । एवं द्युतिमण्डलीभिर्ललिता सा च सा च सा च ताम् ॥६६॥

भुजदण्ड दण्डित भुजङ्गम श्रियस्
तव पाणि पङ्कज पलाश पालिभिः ।
निज नृत्यकृत्य दर गौरवादृत
मुरली विलेढि लघुराधरीं सुधाम् ॥६७॥

भुजदण्डेन दण्डिता भुजङ्गस्य शोभा येन एवं-भूतस्य तव पानिपङ्कजयोः पलाशपालिभिः अङ्गुलिश्रेणीभिः स्वस्य नृत्य-रूपकृत्यार्थं ईषद्गौरवादृता मुरली अधरसम्बन्धिनी सुधां लेढि आस्वादयति । यतो लघुः नीचो हि महज्जनेन ईषदादृतश्चेत् अत्युच्चपदं सहसैवारोहतीति प्रसिद्धेः ॥६७॥

स्नपितः स्मितामृत पृषद्भिरर्चितः
शिखरप्रभ द्विज निजार्चिषां चयैः ।
अधरोऽनुराग धुरया नचाधरः
कथमेतु बिम्ब तुलनापराभवम् ॥६८॥

तव अधरस्मित-रूपामृतविन्दुभिः स्नपितः एवं माणिक्यप्रभदन्तस्य निजार्चिषां समूहैः । पक्षे श्रेष्ठप्रभब्राह्मणस्य निजकान्तिसमूहैर् अर्च्चितः एवं नाम्ना अधरोऽपि अनुरागातिशयेन न चाधरः न न्युनः अत एव एवं-भूतस्तवाधरः बिम्बतुलना-रूपपराभवं कथमेतु ॥६८॥

बलभिन्मणिद्रुम नवाङ्कुरेऽग्रतो
रविजाम्बु बुद्बुदयुगेन पार्श्वयोः ।
दर तिर्यग् एव यदि युज्यते ततस्
तव नासिकाप्युपमया मयार्चते ॥६९॥

वलभिन्मणिद्रुमस्य इन्द्रनीलमाणिनिर्मितवृक्षस्य नवीनाङ्कुरः । एवं तस्याग्रतः उभयपार्श्वे रविजायाः यमुनाया श्यामवुद्वुद-द्वयेन ईषत्तिरश्चीनतया यदि तादृशाङ्कुरो युज्यते तदा तव नासिकापि मया उपमया अर्च्यते । अत्र नासास्थानीयोऽङ्कुरः । नासापुटस्थानीयो वुद्वुदः ॥६९॥

सम सन्निवेश नव पल्लवोपम
श्रवसोर्मणि मकर कुण्डल त्विषाम् ।
मृदु गण्ड मण्डलमनुद्भट
च्छटा पतितेक्षणः कुलभुवोऽगुरन्धताम् ॥७०॥

समस्न्निवेशनवपल्लवोपमकर्णयोर्ये मणिमयकुण्डले तयोस्त्विषां या मृदुगण्डमण्डले उद्भटच्छटा तस्यां पतितेक्ष्णाः कुलभुवः व्रजसुन्दर्यस्तस्याश्चाक्चिक्येन अन्धतां अगुः प्रापुः ॥७०॥

रसिकत्व लास्य रुचि सत्य सन्धताश्रित
सारतादि निज धर्म बिन्दुभिः ।
झष खन्जनाम्बुज चकोर षट्पदाद्यपि
येन साधु गमितं कृतार्थताम् ॥७१॥

रसिकत्वादि निजधर्मविन्दुभिः करणैर् येन तव नेत्र-द्वयेन झषादि कृतार्थतां साधु यथा स्यास्त् तथा गमितं प्रापितम् । तत्र रसिकत्वविन्दुना झषः कृतार्थताम्प्रापितः । कविपरम्परायां झषस्य रसिकत्वप्रसिद्धेः । एवं नाट्यविन्दुना खञ्जनः । कान्तिविन्दुना अम्वुजम् । सत्यसन्धता विन्दुना चकोरः । श्रितसारत्वविन्दुना भ्रमरः ॥७१॥

श्रुतिवर्त्म वर्त्यपि तदीक्षण-द्वयं
तवमाद्यति द्यति सदा सतीव्रतम् ।
अति लम्पटं तरलतारमुच्छलज्
जल वीचिमज्जदिव राग सागरे ॥७२॥

तव तत् ईक्षण-द्वयं श्रुतिवर्त्मवर्ति । एतेन नयनस्य दीर्घत्वमायातम् । श्लेषेण वेदमार्गवर्त्यपि माद्यति मत्तं भवति । एवं सदा सतीव्रतं द्यति खण्डयतीति विरोधो द्रष्टव्यः । तरला चञ्चला तारा यस्य । विरोधपक्षे तरलत्वं राति गृह्नाति अति चञ्चलम् इत्यर्थः । पुनश्चानुरागसागए उच्छलन्यो जलवीचित्र मज्जदिव । नेत्रस्य स्वाभाविकसदा जलपूर्णत्वेन प्रतीयमानत्वं शोभाधायकं भावतीति भावः ॥७२॥

अलिकार्ध चन्द्रमलकालि वेष्टितं चल
चिल्ली कार्मुक भृतो मनोभुवः ।
निशितार्ध चन्द्रमिव भर्म चित्रकं
सकृदेव वीक्ष्य तव का न कम्पत ॥७३॥

अलक-रूपभ्रमरेणवेष्टितं तव अलिक-रूपार्धचन्द्रं चञ्चलचील्लि-रूपकार्मुकभृतः कन्दर्पस्य पुष्पमयतीक्ष्णार्धचन्द्रमिव । कथम्भूतं सुवर्णेन चित्रं यस्य । ललाटोपरि तिलकादिकम् एव अस्त्रोपरि सुवर्णचित्रस्थानीयमिति बोध्यम् ॥७३॥

न कचा अमी किल मृणाल तन्वते
मृगनाभिभिः शुचिरसैयदञ्जिताः ।
निज चामरार्थमसमेषु भूभृत
कुटिल वभुवुरिति यत् स तद्गुणः ॥७४॥

यत् यस्मात् मृणालतन्तवः मृगनाभिभिः शृङ्गाररसैर् अञ्ज्ता । तथा श्ङ्गाररसेनार्द्रीभूतैः मृगनाभिभीरञ्जितेत्य् अर्थः । तत्र कारणम् आह—असमेषुः पञ्चेषुः कन्दर्पस्तदृउपेण भूभृता राज्ज्ञा निजचामरार्थम् एवाञ्जिताः । कुटिला भवन्ति इति यत् स तस्य कुटिलकन्दर्पस्य गुणएव कारणम् ॥७४॥

निखिलाङ्ग -रूप यश एव चन्द्रमास्

तव मन्द हास्य वपुरास्यमण्डले ।
समुदित्य सर्व भुवनाधिपान्तरालय
मध्यमन्वपि तनोति कौमुदीम् ॥७५॥

तव निखिलाङ्ग-स्थित-रूपस्य उत्कर्ष-रूपयश एव चन्द्रमाः तव मन्दहास्यम् एव वपुर्यस्य तथा-भूतः सन्मुखमण्डले समुदित्य सर्वभुवनाधिपानां ब्रह्मरुद्रादीनामन्तःकरण-रूपालयस्य मध्यमनु मध्ये कौमुदीं ज्योत्स्नात् तनोति । तथा च ब्रह्मरुद्रादयः सदा तव मन्दहास्यस्य ध्यानं कुर्वन्ति ॥७५॥

व्रज मीन जीवन ! जगद्विमोहन !
त्वमितीड्यसे तव तु जीवितेश्वरी ।
कुरुते भवन्तम् अपि मोहितं स्वरुक्वणिकां
किरन्त्यहमिमां कथं स्तुवे ॥७६॥

हे व्रजमीनजीवन ! हे जगन्मोहन ! त्वं मया ईड्यसे । तव तु जीवितेश्वरी राधिका स्वकीयकान्तिकणिकां किरन्ती सती भवन्तम् अपि मोहितं कुरुते । अत एव इमा क्थमहं स्तुवे ॥७६॥

अति शोण सान्द्र नव कुङ्कुमद्रवच्
छुरितन्यगास्य कनकाम्बुजन्मनी ।
कुसुमेषु हाटकनिषङ्ग सङ्गते
मणि सम्पुटे सुभगताभिवादिते ॥७७॥

कालाविदा विधिना भवत्कृते तव निमित्तं अनया स्वर्ण-कमलादि-रूपार्थसंहत्या राधिका-रूपनवकेलिकल्पलतिका रचितेति पञ्चमश्लोकेन सहान्वयः । अर्थसमूहम् एवाहातिशोणेति । वहुभिः श्लोकैः । प्रथमतश्चरणारविन्दं वर्णयति— बाह्लीक्क्देशस्थातिशयनिविडकुङ्कुमयुक्ताधोमुखकमल-द्वयम् । जानु-द्वयं वर्णयति— द्वे मणिसम्पुटे सुभगत्वेनाभिवादिते वन्दिते । कथम्भूते कुसुमेषोः कन्दर्पस्य तूनप्रसिद्देन स्वर्ण-निर्मितनिषङ्गेण सह सङ्गते । एतेन जङ्घा-द्वयम् अपि वर्णितम् ॥७७॥

क्रम पीन हेमरुचिरैकमूलभा
कदली-द्वयं सममधोमुखं ततः ।
अमृतोद पानमथ वृत्त वीचिभिस्
तिसृभिः स्वम् एव रभसेन वेष्टितम् ॥७८॥

एकमूलभाक् स्वर्ण-कदली-द्वयं समं अधोमुखं च । एतेन ऊरु-द्वयं अमृतस्य उद्पानं कूपः एतेन नाभिदेशः । मध्यदेशस्थानीयं स्वतिसृभिस्त्रिवलिस्व-रूपवर्तुलाकारवीचिभिः रभसेन वेगेन वेष्टितम् ॥७८॥

नलिनैक पत्रमधिमध्य राजित
स्मरलेखपङ्क्तिकरके निरन्तरे ।
विस वल्लिके किसलयादृते दरः
शरदिन्दुरङ्करहितः स्फुरत् कलः ॥७९॥

श्रीराधिकाया उदर-रूपकमलस्यैकपत्रं कीदृशम्? अधिमध्यं पत्रस्य मध्यदेशे राजिता मोमावली-रूपस्मरलेखपङ्क्तिर्यत्र । निरन्तरे अव्यबहिते स्तन-रूपकरके । बाहु-द्वय-रूपविसवल्लिके । कथम्भूते हस्त-रूपकिशलय-द्वयाभ्यामादृते । दरः कण्ठस्थानीयशङ्खः । स्फुरत्कलः मुख-रूपपुर्णचन्द्र इत्यर्थः ॥७९॥

स्फुट बन्धुजीव नव कुन्द कोरकैस्

तिलपुष्प नील नलिनालि पल्लवैः ।
अयमर्चितोऽभ्र पटली यमानुजा
तनुधोरनीयुग् इति यार्थ संहतिः ॥८०॥

अयं मुखचन्द्रः वन्धुजीवप्रभृतिभिरर्चितः । दन्तस्थानीयाः कुन्दाः । नासास्थानीयं तिलपुष्पम् । नेत्रस्थानीये नीलनलिने । अलकस्थानीयोऽभ्रमरः । तेन भ्रमरसहितपुष्पेण इव पूजनं ज्ञेयम् । कर्णस्थानीयः पल्लवः । केशस्व-रूपमेघपटली । कथमूता यमानुजाया यमुयास्तनुधोरणीयुक् । धोरणी तडाग् आदीनां जलनिर्गमनार्थं क्षुद्रप्रणाली । नानार्थोऽयं शब्दः । एतेन वेणीवर्णिता ॥८०॥

विधिनानयैव रचिता कलाविदा
नव केलिकल्पलतिका भवत् कृते ।
उपभुज्य यन्मधुरिमाणमात्मनो
न न पूर्णकामत मतां भवानगात् ॥८१॥

एवं-भूताया राधाया मधुरिमाणं भवानुपभुज्य ननु पूर्णकामतमतामगात् ? अपितु पूर्णकामतमतामगाद् इत्यर्थः ॥८१॥

प्रणवानि देवि नखरान्पदोः सदोच्
छलदंशुभिः शकलितेन्दु निन्दितः ।
नमितं ह्रियान्तिक कृत स्थितेर्हरेस्
तव वक्त्रमेकम् अपि येषु वीक्ष्यते ॥८२॥

हे देवि ! तव नखरान्प्रणवानि । कथम्भूतान्सदा उच्छलत् किरणैः खण्डितचन्द्रनिन्दिनः । अन्तिके कृष्णस्य निकटे कृता स्थितिर्यया एवं-भूतायास्तव ह्रिया नमितं एकम् अपि वक्त्रं हरिः येषु नखरेषु वीक्ष्यते ॥८२॥

भवदास्य सौरभपतन्मधुव्रता
वलि वारणाय करधारिताम्बुजा ।
ललिता पुरो लषति तुङ्गविद्यया धृत
वीणया सह तथेन्दुलेखया ॥८३॥

योगपीठारोहणसमये अष्टसखीनां यथायोग्यस्थाने स्थितिं श्री-रूपगोस्वामिमतानुषारेणाह—भवदिति । काकाक्षिगोलकन्यायेन परश्लोकस्थानुदक्षिणोत्तरदिशौ ललिताया दक्षिणस्यां दिशि उत्तरस्यां दिशि तङ्गविद्याया सह तथा इन्दुलेकाया सह ललिता लषति । तथा च सम्मुखे स्थितायां ललिताया लक्षिणपार्श्वे वीणासहिता तुङ्गविद्या उत्तरपार्श्वे इन्दुलेखेत्य् अर्थः ॥८३॥

अनूदक्षिणोत्तर दिशौ विशाखया
सह चित्रया व्यजल चारु चालनैः ।
व्यति दर्शनोपधिक घर्मबिन्दवः
सहसास्ततां दधति वां सहोदिताः ॥८४॥

राधा-कृष्णयोरनुदक्षिणोत्तरदिशौ विशाखया सह चित्रया यत् व्यजनचारुचालनं तैः करणैः वां युवयोः परस्परदर्शणोत्थघर्मविन्दवः सहसा अस्ततां दधति ॥८४॥

सिचयाञ्चलेन कलितेन पाणिना
प्रणयाश्रु मार्जन परापिबामिय ।
स्वदृशौ धृताश्रुवितती व्यधादहो
सह रङ्गदेव्यनुजयाऽभितः स्थिता ॥८५॥

अभितःस्थिता अनुजया सुदेव्या सह रङ्गदेवी पाणिना गृहीतेन वस्त्राञ्चलेन वां युवयोः प्रणयाश्रुमर्जन परापि सा स्वदृशौ आनन्देन धृताश्रुवितती व्यधात् ॥८५॥

अनुपृष्ठ देशमनुरागिणौ युवाम्
अदर प्रमोदयसि चम्पवल्लिका ।
तपनीय कान्ति जयि नागवल्लिका दल
वीटिकाः प्रददती मुखाब्जयोः ॥८६॥

युवयोर्मुखाव्जयोः स्वर्ण-कान्तिजयिपर्णदलनिर्मितवीटिकाः प्रददती चम्पकवल्ली पृष्ठदेशे स्थिता सती अनुरागिणौ युवामनल्पं प्रमोदयति ॥८६॥

प्रणयाद्रिराज धुरया हृदूढयावगतेन साहसभरेण सन्तरत् ।
तव -रूप केलि जलधौ महोर्मिमत्यधिकं निमज्जदतिवेलम् एव यत् ॥८७॥

महोर्मिमति तव -रूपबिहारस्व-रूपसमुद्रे अङ्गनार्वुदं हृदूढया प्रणय-रूपपर्वतराजस्य धुरया भारेण सहसभरेण सन्तरत् सत् अतिवेलं शीघ्रमधिकं तत्र निमज्जत् यत् यस्मात् मादृशां गिरां वर्णितं भवतीति परश्लोकेनान्वयः । न हि आत्मघातिनां वर्णनं सतामुचितं भवति भावः । पक्षे एतादृशसौभाग्यवतीनां वर्णनं किं मादृशानां वराकाणां गिरा भवति ? अपि तु न भवत्येव । दवीयसी दूरवर्तिनी या सा पदवी मार्गः मृग्यते । पक्षे समुद्रे मग्नानां तासामुद्धरणाय यदीयपदवी मृग्यते ॥८७-८८॥

तदनङ्ग नक्रधृतमङ्गनार्बुदं
किमु वर्णितं भवति मादृशां गिरा ।
कमलाद्रिजादिभिरपीह मृग्यते
सुचिरं यदीय पदवी दवीयसी ॥८८॥
इति लब्धवर्णमुदयद्विवर्णतं
रभसेन रुद्धगिरमीक्षयन्शुकम् ।
वनपालिकां सरस गोस्तनीफलैर्
अनुतर्पयन्मुदधत्त माधवः ॥८९॥

इति लव्धवर्णं विचक्षणं शुकं रभसेन हर्षेण उदयन्ती विवर्णता यस्य तथा-भूतं अथ च रभसेन रुद्धगिरं तं भोजयितुं वनपालिकां वृन्दामीक्षयन्माधवः सरसद्राक्षाखलैः शुकं वृन्दाद्वारा अनुतर्पयन्स्वयं मुदमधत्त ॥८९॥

अति सौभगास्पदमभूत् सभाजनैः
शुक एव भव्य सुहृदालिसंसदः ।
अनुभाव्य भागवत माधुरीं
एव यत् स्वमकरोदसौ कृती ॥९०॥

भव्यानां सुहृदालीनां ललितादीनां संसदः सभाजनैः अभिनन्दनैः शुकः अति सौभाग्यस्पदमभूत् । असौ शुकः भगवतोः राधा-कृष्णयोः माधुरीं तादृशसंसदः सभास्थानाननुभाव्य परीक्षितं राजानं स्वं स्वीयमकरोत् । संसद इति पदं षष्ठ्येकवचनान्तं द्वितीयाबहुवचनां च ॥९०॥

कल गान गान वर कौशलावधि
व्यतिवेदनेन विजिगीषयैव किम् ।
अथ वल्लकी मुरलिके तयोः
कराम्बुज हंसिके इव चिरेण रेणतुः ॥९१॥

तयोः राधा-कृष्णयोः वीणामुरलिके करपद्मस्थहंसिके इव रेणतुः गानं चक्रतुः । तथा च कृष्णः मुरलीअ अवादयत् राधिका तु वीणाम् इत्यर्थः । तत्र उत्प्रेक्षाम् आह—कलगानगतं यत् अनवरं श्रेष्ठं कौशलं तस्यावधेर्व्यतिवेदनेन परस्परज्ज्ञापनेन विजिगीषय इव किं रेणतुः ॥९१॥

सलिलाश्मताश्म सलिलत्वयोः कृतिः
कृतितां ततान कियतीमहो तयोः ।
यदभेददर्शि मुनि हृत् पवेर् अपि
द्रव वृष्टिराश्वजनि सत्यलोकतः ॥९२॥

तयोर्वीणागानमुरलीगानयोः सलिलस्य प्रस्तरत्वं प्रस्तरस्य सलिलत्वं तयोः कृतिः करणं कियतीमतितुच्छां कृतितां कृतित्वं ततान । उत्कृष्टकृतित्वम् आह—अहो आश्चर्यं यत् यस्मात् सत्यलोकतः अभेददर्शिनां मुनीनाम् अपि हृदय-रूपवज्रस्य द्रववृष्टिः वर्षाच्छलेन आशु अजनि ॥९२॥

क्षनतोऽभ रत्नसदन प्रविष्टयोः
सुखतल्प तल्लज तलोपविष्टयोः ।
स्मर सिन्धु वीचिभर मज्जिता तयोर्
ललितादिकालिततिराप वाञ्छितम् ॥९३॥

रत्नमन्दिरं प्रविष्टयोः राधा-कृष्णयोः स्मरसिन्धुवीचिभरेण मज्जिता ललितादिसखीततिः वाञ्छितमाप । कथम्भूतयोः सुखजनको यो शय्याप्रसिद्धैकदेशः तत्र उपविष्टयोः तल् लजेत्यस्यामरेण प्रसिद्धार्थत्वात् ॥९३॥

काञ्ची कुण्डल हार मौलि कटकैः शय्यातपत्रालयैर्
वल्ली वृक्ष मृग द्विजैर् बहुविधैर् नाना कला कल्पितैः ।
पौष्पैर् एव मुदा व्यधुः परिजन श्रेण्यस्तयोः स्वामिनौः
सेवां स्वादित वन्य मूल फलयोस्ताम्बूल पूर्णस्ययोः ॥९४॥

परिजनश्रेण्यः पुष्पनिर्मितैः काञ्चीश्य्याछत्रगृहवृक्षलताप्रभृतिभिः तयोः स्वामिनोः सेवां ब्यधुः ॥९४॥

इति श्री-कृष्ण-भावनामृते महा-काव्ये

कल्प-तरु-तल-लीलास्वादनो नाम

द्वादशः सर्गः

॥१२॥

—ओ)०(ओ—

(१३)