११

एकादशः सर्गः

हिन्दोलान्दोलन-सुखास्वादनो नाम

निर्यन् कुञ्जाद् आलि-पाली-परीतः
कृष्णः कान्तापाङ्ग-भृङ्गी-विलीढः ।
पञ्चेषूणां सञ्चयं प्राञ्चयन् किं
पादाग्रैक-त्विट्-कणं स्वं विरेजे ॥१॥

कृष्णः स्वकीयं पादाग्रस्यैक-कान्ति-कणं पञ्चेषुणां सञ्चयं कन्दर्प-समूहं प्राञ्चयन् पूजां कारयन् रेजे । तदीय-कान्ति-कणोऽपि कन्दर्प-कोटिभिर् अपि प्राप्तुम् अभिलष्यत इति भावः ॥१॥

वीक्ष्याकस्मात् प्रेयसः सव्य-दोष्णा
राधा स्कन्धं सन्दितं स्वं चकम्पे ।
माधुर्याब्धेर् उत्तरङ्गेण केनाप्य्
अभ्यमृष्टा कनकाम्भोजिनीव ॥२॥

राधा कृष्णस्य वाम-हस्तेन स्वकीयं स्कन्धं सन्दितं बद्धम् अकस्मात् वीक्ष्य आनन्दात् चकम्पे । अत्र उत्प्रेक्षाम् आह—केनापि माधुर्य-समुद्रस्य तरङ्गेण संयुक्ता स्वर्ण-कमलिणी इव ॥२॥

पार्श्व-द्वन्द्वे दीयमाने सखीभ्यां
राधा-कृष्णौ चारु-ताम्बूल-वीट्यौ ।
नीत्वा सव्यासव्य-पाण्य्-अङ्गुलीभिर्
वक्त्र-द्वन्द्वेऽन्योन्यम् एवादधाते ॥३॥

राधा-कृष्णयोः पार्श्व-द्वये सखीभ्यां दीयमाने ताम्बूल-वीट्यौ राधिकाया वामाङ्गुलीभिः कृष्णस्य दक्षिणाङ्गुलीभिश् च करणैः राधा-कृष्णौ नीत्वा परस्पर-मुख-द्वये आदधाते ॥३॥

वामा प्रेयो-वाम-पाणिं निरास्यद्
वक्षोजं स्वं स्प्रष्टु-कामं करेण ।
चित्रं मन्येऽरुन्ध लावण्य-वापी-
पद्मं चक्रास्वादि-रक्तोत्पलेन ॥४॥

वामा राधा स्व-स्कन्ध-स्थितं कृष्णस्य वाम-पाणीं स्वं वक्षोजं स्प्रष्टु-कामं करेण निरास्यत् । उत्प्रेक्षाम् आह—स्तन-रूप-चक्रवाकम् आस्वादयितुं शीलं यस्य तथा-भूतं कृष्णस्य बाहु-रूप-लावण्य-वाप्या हस्त-रूप-पद्मं राधायाः हस्त-रूप-रक्तोत्पलेन अरुन्ध इति अहं चित्रं आश्चर्यं मन्ये । तद् यथा अचेतनस्य पद्मस्यास्वाद-कर्तृत्वम् । एवं सूर्य-रूपैक-मित्रयोर् द्वयोः प्रणय एव उचितः प्रत्युत हिंसा । अपरं च चक्रवाकानां विपक्ष-रूप-चन्द्रस्य मित्रेण उत्पलेन तेषां साहाय-करणम् इत्य्-आद्य् आश्चर्यं ज्ञेयम् ॥४॥

शाखि-व्रातैर् आवृतेऽप्य् अन्तर् अन्तः
सूर्य-द्योति प्रस्फुरत्य् आकुलात्मा ।
सद्यः-स्वेदि श्री-मुखं स्व-प्रियायास्
तिर्यङ्-मौलि-च्छाययाच्छादयत् सः ॥५॥

शाखिव्रातैः वृक्षसमूहैर् आवृतेऽपि सूर्यकिरणैर् अन्तरन्तः पत्रालीनां छिद्रद्वारा मध्ये मध्ये स्फुरति सति सद्यस्तत्क्ष्ण एव राधायाः स्वेदयुक्तं श्रीमुखं वीक्ष्याकुलात्मा श्रीकृष्णः तिर्यक् मुकुटच्छायया आच्छादयत् ॥५॥

भूमौ विद्युद्वारिदोपर्यभातामिन्दू तत् तद्वर्णभाजौ दिनेऽपि ।
भव्यालीनां यौ दृग् इन्दीवराणि प्रोत्फुल्लान्यवाकृषतां सदैव ॥६॥

भूमौ तत्रापि दिने विद्युन्मेघोपरि मुख-रूपौ इन्दु अभातां कथम्भूतौ ? विद्युन्मेघयोः पीतश्यामवर्णभाजौ । ननु दिवसे उदितोऽयं केन हेतुना चन्द्रत्वेन निर्णीतः ? तत्राह—यौ चन्द्रौ भव्यालीनां मङ्गलयुक्तसखीनां दृष्टि-रूपेन्दीवराणि सदैव प्रोत्फुल्लान्येवाकृषतां चक्रतुः ॥६॥

कोकाः शोकं केकिनो हर्ष नाट्यं हंसास्

त्रासं पुंश्चकोराः प्रमोदम् ।
ताभ्यामापुस्तेन किं वक्तुम् ईशे तद्
वैषम्यं स्रष्टरि ब्रह्मणीव ॥७॥

ताभ्यां राधा-कृष्णाभ्यां कोकाः चक्रवाकाश्चन्द्रोदयज्ज्ञानात् शोकमापुः । केकिनो मयुराः विद्युन्मेह्हज्ज्ञानात् हर्षनाट्यं, हंसाः विद्युन्मेघज्ज्ञानात् त्रासम् । चन्द्ररश्मिपानकर्तारः पंश्चकोराः मत्तचकोराः प्रमोदम् । तेन हेतुना यथा समविषम स्रष्टरि परब्रह्मणि नैव वैषम्यम् ॥७॥

मन्दं मन्दं वृन्दयोद्दिष्ट मिष्टं
वर्त्माश्रित्य स्वश्रिया रज्यमानम् ।
यान्तौ नर्मोदन्तरङ्गैर् अरन्यं
वर्ष हर्षाभिख्यमाप्तावभाताम् ॥८॥

वृन्दाया उद्दिष्टमिष्टं वर्त्म मन्दं मन्दं यथास्यात् तथा नर्म-रूपस्योदन्तस्य वृत्तान्तस्य रङ्गैः करणैर् यान्तौ राधा-कृष्णौ वर्षाहर्षाख्यमरण्यभागं प्राप्तौ सन्तौ अभाताम् ॥८॥

विद्युन्मेघौ तत्र खे वर्तमानाव्
एतौ दृष्ट्वा भ्राजमाणौ धरन्याम् ।
स्पर्द्धायां सम्भावनामपातुह् किं
क्वैका सङ्ख्या क्वामितं वा परार्द्धम् ॥९॥

वर्षाहर्षविभागोपरि आकाशे वर्तमानौ विध्युन्मेघौ धरण्यामेतौ विद्युन्मेघस्व-रूपौ राधा-कृष्णौ दृष्ट्वा स्पर्धयां किं सम्भावनामापतु ? अपितु न । तत्र हेतुः क्व एका सङ्ख्या क्व वा । अपरिमितपरार्ध सङ्ख्या ॥९॥

नोपर्य्यावामेतयोः स्थतुम् अर्हौ
यावो वा क्व व्योम सर्वं निरुद्धम् ।
एतद्भासैवेति कम्पैर् अभूतां
सद्यःपाण्डूभूय चिक्रिन्दिषु तौ ॥१०॥

राधा-कृष्णयो-रूपरि आवां स्थातुं न अर्हौ, किन्तु कुत्र यावः यतः एतयोर्भासा कान्त्या एव सर्वं व्योम निरुद्धमिति होतोः कम्पैः करणैः सद्य एवान्तरान्तरा पाण्डुवर्णमेघवृष्टिच्छलात् पाण्डुभूय तौ आकाशवर्तिविद्युन्मेघौ चिक्रिन्दिषू रोदनेच्छू अभूताम् ॥१०॥

किं वा हेमोद्योति नीलश्म दिव्य
च्छत्रीभावं प्राप्य घर्मापनुत्यै ।
वैवर्ण्यास्रे ऊहतु गद्गदोद्यन्
मन्द्र ध्वानेनास्तुवातां मुदेमौ ॥११॥

किम्बा हेमोद्योतिनीलाश्मदिव्यच्छत्रीभावं प्राप्य घर्मापनुत्यै ।

वैवर्ण्यास्रे ऊहतुर्गदगदोद्यन्मन्द्रध्वनेनास्तुवातां मुदेमौ ॥११॥

ऊर्ध्वोर्द्धोरु श्याम शाखा सहस्रै प्रीतैः
पुष्पैः स्यन्दमानैर् मरन्दैः ।
शम्पाम्भोद श्री जयिन्यां विशन्तौ
नीपाटव्यां रेजतुस्तौ लसन्तौ ॥१२॥

तौ राधा-कृष्णौ कदम्बाटव्यां विरेजतुः । कथम्भूतायां श्यामशाखासहस्रैः एवं पीतपुष्पैः मरन्दैश् च करणैः विद्युन्मेघयोः श्रीजयिन्याम् ॥१२॥

मध्ये तस्या या मणिकुट्टिमाल्यो
द्राघीयस्यः कृष्णमुद्वप्रभूताः ।
ता विन्दन्तेऽहर्निशं सीधुवृष्टिं
जाग्रत्या सत्यालि पाल्यैव पाल्याः ॥१३॥

तस्याः कदम्बाटव्या मध्ये द्राघीयस्यः दीर्घतरायाः मणिकुट्टिमश्रेण्यः श्रीकृष्णसम्बन्द्यानन्दस्य केयारी इति प्रसिद्धा वप्रभूताः अत एव ताः कुट्टिमश्रेण्यः अहर्निशं मकरन्द-रूपवृष्टिं विन्दन्ते प्राप्नुवन्ति । तादृशवप्रस्य सेचनमुक्त्वा रक्षाम् आह—जाग्रत्या अलिपाल्या भ्रमरश्रेण्या पाल्याः, कथम्भूतया सत्या प्रेष्ठया ॥१३॥

तत् प्रान्तोत्थ स्तम्भवत् द्विद्वि वृक्षोदञ्चच्
छाखान्योन्य संश्लेष भङ्ग्या ।
गोपानस्येवाञ्छिता भान्ति पुष्प
प्रालम्बाढ्य मारकत्यो बलभ्यः ॥१४॥

तासां कुट्टिमानां प्रान्ते उत्पन्ना अथ च स्तम्बतुल्या ये द्वि द्वि वृक्षास्तेषां उन्नतशाखानामन्योन्याश्लेषभङ्ग्या आञ्चिता युक्ताः वाङ्गलाघर इति प्रसिद्धा वलभ्यो भान्ति । अत्र दार्ष्टान्ते वलभीपदाभावेऽपि अतिशयोक्त्यलङ्कारादेव तदर्थो बोध्य उत्प्रेक्षाम् आह—पाडि इति प्रसिद्धया गोपानस्या अञ्चिता मरकतमणिनिर्मित वलभ्य इव । गोपानसी तु वलभी छादने वक्रदारुणीत्य् अमरः । प्रालम्बमृजुलम्बिस्याद् इत्य् अमरः ॥१४॥

तत् तच् छाखालम्बित द्विद्वि शोण
श्रीमन्मुक्तामुक्त रज्जुप्रणद्धाः
हिन्दोलाल्यो द्विद्वि सौवर्णपट्टी
भाता बातान्दोलिताः सन्ति नित्यम् ॥१५॥

तत् तत् शाखासु लम्बिता शोणा रक्तवर्णा अथ च मुक्ताभिरामुक्ता बद्धा ये रज्जवस्तैः प्रणद्धाः हिन्दोलाश्रेन्यः वायुभिरान्दोलिताः सत्यः नित्यं सन्ति ॥१५॥

पुष्पैः सूक्ष्मश्लक्ष्न चेलान्तरस्थै
वृन्तोन्मुक्तैः किङ्करीभिः कलाभिः ।
आच्छन्नास्ताः सौरभैः सौकुमार्यैस्
तावाक्रष्टुं साधुशक्तिं तदाधुः ॥१६॥

सूक्ष्मकोमलवस्त्रस्य मध्यस्थैः वृन्तोम्मुक्तैः पुष्पैः किङ्करीभिराच्छन्नास्ता हिन्दोलाल्यः स्वसौरभादिभिस्तौ राधा-कृष्णौ तदा आकृष्टुं शक्तिमधुः ॥१६॥

मध्ये तासां काञ्चिदञ्चत् पताकां
वीक्ष्यारुह्य श्याम धामा विरेजे ।
शोभादेव्या सेव्यमानमिवैतां
मन्ये मूर्तानन्द एवाध्यतिष्ठत् ॥१७॥

तासां हिन्दोलाश्रेणीनां मध्ये अञ्चत्पताकां काञ्चित् होन्दोलां श्रेष्ठां वीक्ष्यारुह्य श्यामधामा कृष्णः विरेजे । एतां होन्दोलाम् ॥१७॥

कर्षन्कान्तां हर्ष वर्षासु सम्यक्
तिम्यन्हस्तालम्बमालम्बमानाम् ।
उद्दाप्यैतां स्वाग्रतो जाग्रतः किं
प्रेम्णो वापीमापिपत् स्वाभिमुख्यम् ॥१८॥

हर्ष-रूपवर्षासु स्म्यक् तिम्यन्तिमितुम् आर्द्रीभवितुं कृष्णः कान्तामाकर्षन्स्वाग्रतः उत्थाप्य किं जाग्रतः प्रेम्नः राधिका-रूपवापीं स्वाभिमुख्यमापिपत् प्रापयामास ॥१८॥

पुष्पावल्यारात्रिकेणास्य पद्म
-द्वन्द्वं नीराज्यालिसङ्घ सगानम् ।
हारोष्णीषाद्यापयन्सुस्थितत्वं स्रक्
ताम्बूल स्थासकैः पर्यचारीत् ॥१९॥

आलिसङ्घः पुष्पारात्रिकेण सगानं यथास्यात् तथा तयोर्मुखपद्म-द्वन्द्वं जीराज्य आरोहणसमये विपर्यस्तं हारोष्णीषादिषु स्थितत्वमापयन्पर्यचारीत् स्थासकः खोर इति प्रसिद्धः ॥१९॥

काञ्च्यामुक्त प्राञ्चि शाट्यन्चलान्ते
किञ्चित् पौर्वापर्यतोऽङ्घ्री विलङ्घ्य ।
कुब्जीभूयादाय दोलां क्षिपन्त्या
वन्वस्थातां द्वे दिशौ प्राणसख्यौ ॥२०॥

हिन्दोलाया द्वे दिशौ अनुद्वयोर्दिशोः प्राणसख्यौ कुव्जीभूय दोलामादाय क्षिप्यन्त्यौ सत्यौ अस्थाताम् । कथम्भूते सम्यक्तया दोलनार्थं काञ्च्या आमुक्तः बद्धः प्रकर्षेण पूजितः शाट्यञ्चलान्तो ययोः ॥२०॥

अन्ये धन्ये तिष्ठतः स्मेक्षमाणे
धृत्वा पाण्यौः पुण्य ताम्बूल वीट्यौ ।
यूनोरास्याम्भोजयोरर्पयन्त्यौ
वेगोपान्ते मेङ्क्षु लब्धावकाशे ॥२१॥

अन्ये सख्यौ पाण्योश्चारुताम्बुलवीट्यो धृत्वा ताम्बुलदानार्थं सावधानतया ईक्षमाणे अतिष्ठतः । कथम्भूते सखीभ्यां अल्पाल्पतया कृतवेतस्य उपान्तभागे अर्थात् यत्र वेगः स्थिरीभवति तत्र इव श्रीघलव्द्धावकाशे सति राधा-कृष्णयोरास्याम्बोजयोरर्पयन्त्यौ यदा तु सखीभ्यां विनैव राधा-कृष्णाभ्यां स्वयम् एव कृतेऽतिवेगे सति तदा ताम्बूलदानं नास्तीति बोध्यम् ॥२१॥

आलो मान्याः प्रेमवन्या इवान्याः
पर्वश्रीलाः सर्वतः साधु शीलाः ।
हस्तोदस्तैः शस्तरागैः परागैश्
चक्रुर्वृष्टिं दृष्टिमापय्य हृष्टिम् ॥२२॥

अन्याः मान्याः ललिताद्या आल्यः पर्वशीलाः उत्सवसम्पत्तिविशिष्टाः सत्यः हस्ताभ्यां उदस्तैः क्षिप्तैः प्रशस्तरागयुक्तैः परागैः करणैः वृष्टिं चक्रुः स्वस्य दृष्टिं हृष्टिं प्रापय ॥२२॥

देव्यस्त्विष्टं मानयन्त्यः स्वदिष्टं

तौ पश्यन्त्यः स्यन्त्य एवाखिलाधिम् ।
जात स्तम्भा अप्यसम्भाविताशा
दिव्यातेनुः पुष्पवर्ष सतर्षम् ॥२३॥

तौ राधा-कृष्णौ पश्यन्तमत एव स्वस्य दिष्टं भाग्यमिष्टं धन्यं मानयन्त्यः कृष्णेन सह बिहारे असम्भाविताशा अपि जातस्तम्भाः सत्यः दिवि सतर्षं यथास्यात् तथा पुष्पवर्षमातेनुः । कथम्भूताः अखिलाधिं श्यन्त्यः खण्डयन्त्यः ॥२३॥

तत् सङ्गिन्यो विप्रुषो वृष्यमाणा हृष्यन्
मेघैस्तन्मरन्दत्वमापु ।
रामाराजे रङ्गसङ्गात् तदीयैर् मुक्ता
वृन्दैर् अन्वविन्दन्त मैत्रीम् ॥२४॥

हर्षयुक्तमेघैः वृष्यमाणाः विप्रुषोरिन्दवः पुष्पसङ्गिन्यः सत्यः तेषां पुण्यानां मकरन्दत्व मापुः । पश्चात् रामाश्रेण्याः अङ्गसङ्गात् तासामङ्गस्थमुक्तावृन्दैः सह मैत्रीमन्वविन्दन्त ॥२४॥

जृम्भोदञ्चत् सौरभव्रातमाद्यद्
भृङ्ग श्रेणि स्तोत्र भाजा मुखेन ।
गीतैर् नीतैर् माधुरीं साधुरीति
द्यामाच्छाद्य द्योतने स्मालिपालि ॥२५॥

आलिश्रेणी वीणादिकं विन इव मुखेन गीतैः अत एव माधुरीं नीतैः प्राप्तैस्तैः करणैः साधुरीति यथास्यात् तथा द्यां स्वर्गमाच्छाद्य द्योतते ॥२५॥

नृत्यं भेजुर्हारताटङ्कमाल्यान्य्
अतोद्यत्वं किङ्किणीनूपुराद्याः ।
वक्त्रे स्मित्वा सभ्यतामाददाते
यूनोर्दोलानन्दचन्द्रे विवृद्धे ॥२६॥

यूनोः राधा-कृष्णयोः दोलाबिहारजन्यानन्दचन्द्रे प्रवृद्धे सति तयोः हारताटङ्कमाल्यानि नृत्यं भेजुः । किङ्किण्याद्याः आतोद्यत्वं नृत्योपयुगिवाद्यत्वं भेजुः । एवं तयोर्वक्त्रे स्मित्वा नृत्ये सभ्यतामाददाते ॥२६॥

अन्योन्याङ्गप्रोच्छलत्कान्तिसिन्धोर्
वीचीव्रातामन्दहिन्दोलिकासु ।
प्राप्तान्दोलान्योन्यनेत्रारविन्द
श्रीसन्दोहैर् आढ्यतामापुराल्यः ॥२७॥

हिन्दोलिकायां राधा-कृष्णयोर्दोलनं वर्णयित्वा तयोः कान्ति-रूप हिन्दोलिकायां राधा-कृष्णयोरेव परपरं नेत्रमेलनं वर्णयति अन्योन्येति । द्वयोः कान्ति समुद्रस्य तरङ्ग समूह-रूपा मन्दहिन्दोलिकासु प्राप्त आन्दोलो यया एवं-भूता या परस्पर नेत्र-रूपारविन्दस्य श्रीः शोभा तस्याः समूहैः आल्यः आढ्यतां प्रापुः । तथा च दोलन समये परस्पर कान्तिदर्शनोत्थानन्देन तयोः शोभातिशयं दृष्ट्वा सख्योऽपि आनन्दिता वभूबुरिति भावः ॥२७॥

इत्थं चेतस्त्वेतयोर्दोलयन्यत्
कामो वामोऽन्तरायं न चक्रे ।
लीलाशक्तेरेव तत्र प्रभावः
कोऽप्योजस्वी हेतुरित्य् आहुरार्याः ॥२८॥

वामः प्रतिकूलः कामः इत्थमनेन प्रकारेण एतयोश्चित्तं दोलयन्यत् अन्तरायं न चक्रे तत्र लीलाशक्तेरेव कोऽपि ओजस्वीप्रभाव एव हेतुः इति आर्या आहुः ॥२८॥

दोलरज्ज्वालम्बशाखे स्वलौल्याद्
एतौ चञ्चत्पञ्चशाखाग्राभिः ।
पुष्पाढ्याभिः पल्लवालिभिरिष्टैः
सेवेते स्मामोदनैर् वीजनैः किम् ॥२९॥

उत्प्रेक्षाम् आह—दोलासंयुक्तरज्जोरालम्बने द्वे शाखे कर्तृभूते स्वस्य पल्लवालीभिः एतौ राधा-कृष्णौ कर्मभूतौ किं आमदनैः सुगन्धविशिष्टैर् जीजनैः सेवेते । कथम्भूताभिः स्वस्य शाखाया लौल्याद्धेतोश्चञ्चलविस्तारयुक्तशाखाया अग्रगाभिः । श्लेषेण पञ्चशाखा एव पञ्चशाखःपाणिः । पचि विस्तारे धातुः ॥२९॥

तत्तत्पत्राभ्यन्तरानन्तशिल्प
प्रोतन्धर्तुं चञ्चलान्माल्यखण्डान् ।
यत्नैर् भृङ्गा नाशकन्यद्भ्रमन्तस्
तत्रागुञ्जन्केवलं सापि शोभा ॥३०॥

तत् तच्छाखास्थपत्रश्रेणीणां मध्ये मध्ये बहुशिल्पेन प्रोतान्माल्यखण्डाम्हिन्दोलया सह दोलतस्तान्भूङ्गा धर्तुं नाशकन्किन्तु भ्रमन्तः सन्तस्तत्र केवलमगुञ्जनत एव माल्यानां पश्चात् भ्स्रमराणां भ्रमण-रूपा सा शोभापि जाता ॥३०॥

दोलावेगाधिक्यकामौ स्वपद्भ्यां
आक्रम्यैतां स्वावनत्युन्नतिभ्याम् ।
स्वं स्वं सर्वाः कौशलं दर्शयन्तौ
प्रेमानन्दं तुन्दिलं चक्रतुस्तौ ॥३१॥

दोलावेगस्यादिक्यकामौ तौ राधा-कृष्णौ अत एव स्वपद्भ्यां एतां दोलामाक्रम्य स्वस्यावनत्युन्नतिभ्यां स्वं स्वं कौशलं सर्वाः सखाः दर्शयन्तौ प्रेमानन्दं तुन्दिलं चक्रतुः ॥३१॥

हिन्दोलाया रंहसि विन्दमाने
पर्यायेण द्वे दिशौ स्तो यदन्तौ ।
प्राप्योर्ध्वाधःस्थायिनो खेलतोः सा
यूनोः कान्तिः कौतुकं कापि तेने ॥३२॥

हिन्दोलाया रंहसी वेगौ पर्यायेण द्वे दिश्दौ विन्दमाने प्राप्नुवत्यौ स्तः । यस्य वेगस्य दौ अन्तौ प्राप्य ऊर्धाधःस्थायिनोः राधा-कृष्णयोः यूनोः सा प्रासिद्धा कापि कान्तिः कौतुकं तेने ॥३२॥

राधाहारः संस्पृशन्कृष्णवक्षश्
चक्रे नृत्यान्येकतो दिश्युदारम् ।
अन्यत्रास्याः कञ्चुकीं श्लिष्यति स्म
स्रक् तस्यापीत्याययुर्मोदमाल्यः ॥३३॥

एकतो दिशि नृत्यानि चक्रे । अन्यत्र दिशि तस्य श्रीकृष्णस्यापि ॥३३॥

अन्योन्याङ्गादर्शदृष्टस्वभासोर्
अन्योन्यानालोकजकान्तिभाजोः ।
तर्ह्यन्योन्यश्वासभूमाभिमर्शाद्
अन्योन्यं संस्पृश्य तौ हृष्यतः स्म ॥३४॥

परस्पराङ्ग-रूपादर्शे दृष्टा स्वकन्तिर्याभ्यां तथा-भूतयोः श्रीकृष्णदर्शने उत्कण्ठिता राधा तस्याङ्गे स्वम् एव पश्यति न तु कृष्णम् । एवं श्रीकृष्णोऽपि एवं क्रमेण परस्परानालोकनजन्यदुःखभाजोस्तयोस्तदानीम् एव विरहदुःखेनान्योऽन्यश्वासभूमस्पर्शात् परस्परं सन्दृश्य तौ हृष्यतः स्म । श्वासेनाङ्ग-रूपदर्पणस्यावरणात् प्रतिबिम्बो न दृश्यते इति भावः ॥३४॥

इत्थं लीलावारिधिः कौतुकित्वाद्
अत्युद्रेकं रंहसो निर्मिमाणः ।
पृष्ठामृष्टोत्तुङ्गपर्यन्तशाखा
पत्रालीकां तां चकारेव भीताम् ॥३५॥

इत्थं लीलाबारिधिः शृईकृष्णः कौतुकित्वात् वेगस्यात्युद्रेकं निर्माणः स तां राधां भीतां चकार । कथम्भूतां वेगस्याधिक्यां पृष्ठदेशेन आमृष्टा उत्तुङ्गान्तशाखायाः पत्रश्रेणी यया ॥३५॥

मैवं मैवं माधिकं हन्त दोलेत्य्
उक्तिं तस्यां तत्सखीनां च शृण्वन् ।
स्मित्वा स्मित्वा वर्धयन्नेव दोला
जङ्घालत्वं माधवो भ्राजते स्म ॥३६॥

हे कृष्ण ! त्वं एवं मा दोल दोलायाः जङ्घालत्वं वेगवत्वं वर्धयन् ॥३६॥

बन्धाद्वेणी विच्युता नावगुण्ठस्
तस्थौ मूर्ध्नि व्यस्तता भूषणानाम् ।
पादौ शाटी नाप्यधाद् इत्यमुष्या
वैयग्र्ये हा जहासीति स्म कृष्णः ॥३७॥

मूर्धणि अवगुण्ठः न तस्थौ । वायुना अन्तरीणवस्त्रस्योत्तोलनाशङ्कया पद्भ्यामाक्रान्ता या शाटी सापि पादौ नाप्यद्यात् न आच्छादितवती इति अमुष्या राधाया वैयग्र्ये हा खेदे कृष्णो जाहसीतिस्म पुनः पुनर्हास्यं चकार ॥३७॥

इत्थं स्वाक्ष्णोस्तृप्यतो रंहसा तां
वित्रस्ताक्षीमासनान्भ्रंशयित्वा ।
स्वीयं कण्ठं ग्राहयमास मध्ये
दोलाखट्टं तां च जग्राह दोर्भ्याम् ॥३८॥

कृष्णः इत्थमनेन प्रकारेण स्वस्याक्ष्नोस्तृप्यतो सतोः वेगेन वित्रस्ताक्षीं तां आसनाद्भ्रंशयित्वा स्वीयं कण्ठं ग्राहयामास । स्वयम् एव लोलाखट्टाया मध्ये तां राधां दोर्भ्यां जग्राह—किन्तु कृष्णः रज्जुं बिहाय स्वचरणयोरवलम्बमात्रेण इव दोलामध्ये तस्थाविति तस्य सामर्त्यातिशयो व्यञ्जितः ॥३८॥

एकीभूते चम्पकेन्दीवराभे
मूर्ती यूनोरुद्गिरन्त्यावभाताम् ।
सम्मर्दोत्थं सौरभं व्याश्नुवानं
पारे स्वर्गं हन्त पद्मादिनासा ॥३९॥

चम्पकेन्दीवर पुष्पयोरिव आभा ययोरेवं-भूते यूनोः राधा-कृष्णयोः मूर्ती निविडसंयोगादेकीभूते अत एव पुष्पयोरिव सम्मर्दोत्थं सौरभमुद्गीरन्तौ अभूताम् । सौरभं कथम्भूतं स्वसर्गस्य पारे स्थितानां पद्मादीनां नासाः व्याप्नुवानम् ॥३९॥

साम्यग् वेगा सा समन्ताद्धृताभूद्
दोलाप्यारादागताभिः सखीभिः ।
राधा द्राग् एवावरुह्याथ तस्यास्
ताभिस्तत् तत् संलपन्ती ललास ॥४०॥

अवलम्बनं विना दोलोपरिस्थितौ तौ राधा-कृष्णौ आराद्दूरादेवागताभिः सखीभिर्धृता सा दोला साम्यद्वेगा अभूत् । प्रथमतो राधा तस्याः दोलायाः सकाशात् अवरुह्य ताभिः सखीभिः सह श्रीकृष्णकृततत् तद्वृत्तान्तं संलपन्ती सती ललाष । लषकान्तौ ॥४०॥

मुख्यास्वष्टास्वाद्य भूतामथालीं
आरोह्यास्यां तां स कृष्णां स्वयं सा ।
प्रेम्णा गायद्दोलयन्ती स चापि
प्रेयान्दोले पूर्ववत् तामजैसीत् ॥४१॥

अष्टासु मुख्यासु सखीषु मधे प्रधानीभूतां तां ललितां श्रीकृष्णेन सहितां सा राधा स्वयं दोलयन्ती सती अगायत् । स च प्रेयान्कृएष्णोऽपि दोलने पूर्वं राधामिव तां ललितामजैषीत् ॥४१॥

एवं प्रेष्ठास्ता विशाखादिकाली
सान्द्रं दोलान्दोलमापय्य तस्याः ।
हिन्दोलातः सोऽवतीर्य्येव सर्वा
स्वेकैकस्यामन्यहिन्दोलिकासु ॥४२॥

एवं प्रकारेण ललितावत् प्रेष्ठास्ता विशाखादिकालीः सान्द्रं दोलान्दोलनमापय तस्या हिन्दोलातः सकाशात् स श्रीकृष्णः अवतीर्य सर्वासु प्रधानातिरिक्तान्यहिन्दोलिकासु मध्ये एकैकस्यां हिन्दोलायां द्वे द्वे सुन्दर्यौ प्रसह्य वलात् मह्याः सकाशात् स्वदोर्भ्यामागृह्य तत्र दोलायामारोह्य एक एव कौशलविशेषेण ब्राम्यन्सन्ताः समस्ताः सखीः अदोलयत् ननु बह्वायाससाध्ये अस्मिन्कर्मणि कथं प्रवृत्तिः तत्राह—प्रेमसमुद्रस्य कृष्णस्य किमकृत्यमस्ति ? ॥४२४३॥

तासां द्वे द्वे सुन्दरीणां स्वदोर्भ्यां
तत्रागृह्यारोह्य मह्याः प्रसह्य ।
भ्राम्यन्नेको दोलयत् ताः समस्ताः
प्रेमाम्भोदेस्तस्य किं वास्त्यकृत्यम् ॥४३॥

अहम् अपि द्वयोर् द्वयोर्मध्ये तिष्ठामीति श्रीकृष्णस्य मनोगतसिद्धिम् आह—सर्वाः सख्यः स्वस्वहिन्दोला मध्ये स्वस्ववक्त्रं पिवन्तं तं कृष्णमपश्यन् ॥४४॥

ताः सर्वास्तु स्वस्वहिन्दोलिकान्तस्
तं चापश्यन्स्वस्ववक्त्रं धयन्तम् ।
नैतच् चित्रं गोकुलाधीशसूनोर्
इच्छाशक्तेर्किं पुनः स्यादशक्यम् ॥४४॥

अधुना कमलाकारहिन्दोलां वर्णयति— एकं हिन्दोलाव्जं तत्रैवास्ति । वृन्दया उद्दिष्टं तत् प्रेयसीभिः सह मुकुन्दः आरुह्य रराजः । कथम्भूतः दोषा वाम-हस्तेन आश्लिष्टा राधा येन ॥४५॥

एकं तत्रैवास्ति हिन्दोलनाब्जं
वृन्दोद्दिष्टम्प्रेयसीभिर्मुकुन्दः ।
आरुह्यैतत् कर्णिकास्थोपबर्हालम्बी
दोषाश्लिष्टाराधो रराज ॥४५॥

अधुना कमलाकारहिन्दोलां वर्णयति— एकं हिन्दोलाव्जं तत्रैवास्ति । वृनया उद्दिष्टं तत्प्रेयसीभिः सह मुकुन्दः आरुह्य रराजः । कथम्भूतः दोषा वमहस्तेन आश्लिष्टा राधा येन ॥४॥

अष्टाबाल्योऽप्यष्ट पत्रान्तरस्थास्
तत्तद्बाह्ये षोडशाल्यो विभान्त्यः ।
वृन्दानीत स्वादुखर्जुरजम्बू
द्राक्षाः प्राश्नन्कान्तभुक्तावशिष्टाः ॥४६॥

अष्टौ ललिताद्याल्यः अष्टदलानां मध्यस्थाः तत् तदष्टदलानां बहिः षोडशदेषु अन्याः षोडशाल्यो विभान्त्यः सत्यः कन्ताभ्यां भुक्तावशिष्टाः प्राश्नन् ॥४६॥

पीयूषान्तर्गर्वसर्वङ्कषस्य
प्राग् एवाभूत् पानकादेः प्रपाणम् ।
अन्ते हेमद्योतिताम्बूलवीटि
वृन्दान्योन्यप्रीतिदानाभियोगः ॥४७॥

खर्जूरादिभोजनात् प्राग् एव पानकादेः प्रपानमभूत् । कथम्भूतस्य पीयूषस्य योऽन्तर्गर्वस्तस्य सर्वरङ्कषस्य नाशकस्येत्य् अर्थः । भोजनान्ते सुवर्णतुल्यताम्बुलवीटीसमूहस्य परस्परप्रीत्यादानेन सहाभियोगः ग्रहणम् ॥४७॥

नान्दी वृन्दे विन्दतः स्म प्रमोदं
नोदं पाण्योदोलनाब्जे ददत्यौ ।
दास्योऽप्यास्योल्लासमापद्य सद्यो
नाना गानारम्भशम्भा बभूवुः ॥४८॥

तद्दर्शनात् नान्दीवृने आनन्दं विन्दतः स्म । कीदृश्यौ पाण्योर्नोदं प्रेरणं दोलनाव्जे ददत्यौ । दास्योऽपि आस्योल्लसमापद्य नानागानारभेण शम्भाः आनन्दयुक्ता बभूव्ः । श्ंशब्दात् भःप्रत्यः ॥४८॥

दोलान्दोलनक्रीडया ताः समस्ताः
जित्वा प्राप्ताश्लेषचुम्बादिरत्नः ।
सार्धं कान्तमण्डलेनावरुह्य
प्रागात् प्रेयान्काननात् काननाय ॥४९॥

ता जित्वा प्राप्तमाश्लेषचुम्बादिरतं येन तथा-भूतः प्रेयान्कान्तामण्डलेन सह हिन्दोलात् अवरुह्य एतत् काननात् अन्यकाननाय प्रागात् ॥४९॥

राधास्योत्था मुद्रिता या स्मितश्रीस्
तस्यास्तत्र स्मारकानेव दृष्ट्वा ।
यूथ्यालीनां कोरकान्स व्यचैषीत्
हृद्याधातुं तान्स्रजः संरचय्य ॥५०॥

पुनर्वर्षाऋतुं वर्णयति— राधिकाया आदौ मुखादुत्थिता पश्चादवहित्थया मुद्रिता या स्मितश्रीस्तस्याः स्मारकान्यूथीपुष्पानां कोरकन्दृष्ट्वा सः कृष्णः तान्कोरकान्स्रजः संरचय हृदि आधातुं व्यचैषीत् चयनं चकार । तथा च तन्मिषेण राधायाः स्मितम् एव हृदि दधारेति भावः ॥५०

खेऽगान्मेघः कृष्णगात्रच्छवित्वं
विद्युत् तासामङ्गभासाततित्वम् ।
भूमे रूढैर् इन्द्रगोपैः समूढैः
पादालक्ताभ्यक्तता व्यक्तमासीत् ॥५१॥

खे आकाशे यो मेघः स कृष्णस्याङ्गच्छवित्वमगात् प्राप्तवान् । न तु मेघस्य कृष्णाङ्गच्छव्यतिरिक्तपदार्थत्वमिति भावः । एवं विद्युत् तासामङ्गकान्तिसमूहत्वमगात् । एवं भूमेः सकाशात् उत्पन्नैः समूढैः समूहविशिष्टैः उन्द्रगोपैः रक्तकीटविशेषैः करणैः पदालक्तस्याभिव्यक्तता स्फुटमासीत् । तथा च तन्मिषेण पादालक्त एव भूम्यां विराजते । इति सर्वत्रापह्नुत्यलङ्कारो बोध्यः ॥५१॥

कृष्णाभ्रेणातुल-घन-रसैः सर्वतो वृष्यमानैर्
उत्फुल्लाः किल सुमनसः सर्ववत्यो लताश् च ।
तत् सस्याल्योऽप्य् असम-सुषमाः शं चिरायान्वभूवन्
वर्षाहर्षं वनम् अपि यतो हर्ष-वर्षास्व् अमाङ्क्षीत् ॥५२॥

कृष्ण-वर्ण-मेघेन अतुल-घनरसैः जलैः करणैः सुमनसो मादत्यो लताश् च अत्य्उत्फुल्लाः । एवं पर्वत्यः प्रन्थिमत्यः तथा तत् सस्याल्योऽपि तत् तत् वृक्ष-फल-श्रेण्योऽपि असम-सुषमाः सत्यः चिराय शं सुखम् अन्वभूवन् । वृक्षादीनां फलं सस्यम् इत्य् अमरः ।

पक्षे, श्रीकृष्ण-रूप-मेघेन अतुल-श्रृङ्गार-रसैः करणैः सस्याल्यः प्रशस्त-सख्यः रत्य्-उत्फुल्लाः सुमनसः शोभन-चेतसः फलं पर्ववत्यः उत्सववत्यः रलयोरैक्यात् लताः रताश् च सत्यं चिराय शं सुखं अन्वभूवन् । यतः श्री-कृष्ण-विहारात् वर्षाहर्स-वनम् अपि हर्ष-वर्षासु अमाङ्क्षीत् ममज्ज ॥५२॥

इति श्री-कृष्ण-भावनामृते महा-काव्ये

हिन्दोलान्दोलन-सुखास्वादनो नाम

एकादशः सर्गः

॥११॥

—ओ)०(ओ—

(१२)