दशमः सर्गः
कुञ्ज-केलि-चातुर्यास्वादनो नाम
**नान्दीमुखी-कुन्दलते स-वृन्दे
चिरान् मनो-वाञ्छित-वृन्द-विन्दे ।
अमन्द-माकन्द-तले सखीनां
सभाम् अभाताम् अभितोऽभियाते ॥१॥
वृन्दा-**सहिते नान्दीमुखी-कुन्दलते अमन्दाम्र-तले सखीनां सभां अभियाते अभिगते सत्यौ अभाताम् अराजतां । कथम्-भूते ? चिर-कालं व्याप्य राधा-कृष्णयोः सम्भोग-रूप-मनो-वाञ्छित-समूह-प्राप्ते । विदॢ लाभे धातुः ॥१॥
तत्रेत्य मूर्त-ऋतु-षट्क-लक्ष्मीः
प्रतिस्व-सेवावसरावगत्यै ।
स्थिता निरीक्ष्यादिशद् आशु वृन्दा
स्व-स्वाटवीर् भूषयत स्व-भाभिः ॥२॥
तत्र सभायां षड्-ऋतु-शोभायां षड्-ऋतु-शोभां प्रति स्व-सेवावसर-ज्ञानार्थं स्थितास् ताः वृन्दा निरीक्ष्य आदिशत् । तम् आह स्व-स्वेति । स्व-भाभिः स्व-कान्तिभिः ॥२॥
गोवर्धनाद्रिं समया तु रास-
स्थल्यां त्वम् एवास्स्व वसन्त-लक्ष्मि ।
अध्यास्यताम् अर्क-सुता-तट-स्था
कल्पाग-भूमिः शरदैव कामम् ॥३॥
वृन्दा आह—हे वसन्त-लक्ष्मि ! गोवर्धनाद्रिं समया गोवर्धनाद्रेर् निकटे “परा रासुलि” इति ख्यातायां रास-स्थल्यां त्वम् आस्स्व वस । **शरद्-**ऋतुना यमुना-तटस्थ-कल्प-वृक्ष-सम्बन्धि-भूमिः अध्यास्यताम् ॥३॥
**राधा-सरोऽरण्य-भुवं तु सर्वा
निषेव्य सर्वस्व-समर्पणेन ।
स्व-स्वामिनोर् विस्मय-कौतुकाभ्याम्
अगण्य-पुण्या भवथाद्य धन्याः ॥४॥
सर्वा **एव ऋतवः सर्वस्व-समर्पणेन राधाकुण्डं तत् तीरस्थ-वन-भूमीश् च निषेव्य राधा-कृष्णयोर् विष्मय-कौतुकाभ्याम् अगण्य-पुण्या यूयं धन्या भवथ ॥४॥
तत्रापि पूर्वादिषु दिक्षु सन्त्व् अमी
वर्षादयस् तत्-तट-वर्ति-शाखिषु ।
मधोर् महत्त्वं जल-केलि-सिद्धये
मध्ये-सरो ग्रीष्म-गुरुत्वम् अस्तु वः ॥५॥
राधा-कुण्डे पुनर् व्यवस्थाम् आह—तत्रापि राधा-कुण्डे पूर्वादि-चतुर्षु-दिक्षु अमी वर्षा-शरत्-हेमन्त-शिशिराश् चत्वार ऋतवः सन्तु । किन्तु राधा-कुण्ड-तट-वर्ति-शाखिषु वृक्षेषु सर्वेषाम् अवस्थानेऽपि मधोर् वसन्तस्य महत्त्वम् आधिक्यम् अस्तु । एवं जल-केलि-सिद्ध्य्-अर्थं कुण्डस्य **मध्ये ग्रीष्म-**ऋतोर् गुरुत्वम् अस्तु ॥५॥
तास् तां प्रनम्याच्युत-केलि-विज्ञा-
विज्ञान-चातुर्य्-असमास् तद्-आज्ञाम् ।
प्राप्य स्व-कृत्याय ययुर् मनोज्ञां
कः स्वां न लिप्सेत जनः समज्ञाम् ॥६॥
विज्ञान-चातुरीभ्याम् असमाः विज्ञान-चातुरीभ्यां निरुपमास् ताः ऋतु-लक्ष्म्यः तां वृन्दां प्रणम्य तस्या आज्ञा प्राप्य । को जनः स्वां समज्ञां कीर्तिं न लिप्सेत ? ॥६॥
कृष्णस् तु कृष्णागुरु-युङ्-मद-द्रवैर्
आरज्य राधान्गम् अनङ्ग-रङ्गदम् ।
वेषं स्व-वस्त्राभरणैर् अथ व्यधात्
तस्याः स्व-वंशीम् अपि तुन्द-सन्दिताम् ॥७॥
कृष्णस् तु सम्भोगानन्तरं राधां स्व-समान-रूपां कर्तुं किङ्करीभिर् आनीय दत्तैः कृष्णागुरु-युक्त-मृगमद-द्रवैः राधाङ्गं आरज्य एवं स्वस्य पीताम्बरादि-वस्त्राभरणैस् तास् तस्या वेषं व्यधात् । एवं स्व-वंशीम् अपि राधायास् **तुन्द-**बद्धां व्यधात् ॥७॥
उदङ्-मुखीं ताम् उपवेश्य वृष्यां
ह्रियैव नैसर्गिक-मौनम् आप्ताम् ।
स्वाङ्गं तयालङ्कृतम् एव बिभ्रत्
पीताम्बरोऽप्य् आस्त तद्-एक-पार्श्वे ॥८॥
तद्-अनन्तरं वृष्यां कुशासनोपरि वस्त्रादि-युक्तासने तां राधां सकाम-जप-कर्तृत्व-ज्ञापनार्थम् उत्तराभिमुखीम् उपवेश्य पीताम्बरः स श्री-कृष्णः स्वयम् अपि तस्या एक-पार्श्वे आस्त । कथम्-भूतां ? कृष्णेन यत्नात् ग्राहितं यन् मौनं तत् ह्रिया नैसर्गिकं स्वभाव-सिद्धं प्राप्तां । पीताम्बरः कीदृशः ? तया स्वाधीन-भर्तृकया राधया अलङ्कृतं स्वाङ्गं बिभ्रत् । व्रतीनाम् आसनं वृषी इत्य् अमरः ॥८॥
आराद् अथो नूपुर-किङ्किणी-स्वनैर्
आयास्यतीर् आलि-ततीः परामृशन् ।
भ्रुवेङ्गितेनैव वशे व्यधाद् अरं
पुर-स्थिताः काश्चन किङ्करीर् हरिः ॥९॥
श्री-कृष्णः आरात् निकटे किङ्किणी-स्वनैः करणैर् आयास्यतीः सखी-श्रेणीः परामृशन् सन् तदानी-सेवार्थं पुरः-स्थिताः काश्चन किङ्करीः भ्रुवेङ्गितेन स्व-वशे व्यधात् । अन्यथा ताभिर् एव विज्ञापिते सति भावि-कौतुकस्यासिद्ध्य्-आपत्तेः ॥९॥
आगत्य तास् ताव् अवलोक्य विस्मयान्
ऊहुर् बहून् ऊचुर् अथो परस्परम् ।
कं देशम् आप्ता वयम् अद्य हन्त भोः
कृष्ण-द्वयं यद् व्यतिरोचतेतमाम् ॥१०॥
ताः** सख्यस् तत्रागत्य तौ राधा-कृष्णौ अवलोक्य बहून् विस्मयान् ऊहुः प्राप्तवत्यः । एवं परस्परम् ऊचुश् च । भोः सख्यः वयम् अद्य कं देशं प्राप्ताः ? यद् यस्मात् अत्र देशे कृष्ण-द्वयं रोचते **॥१०॥
तापिञ्छ-भासौ शिखि-पिञ्छमौली
द्वाव् एव राजद् वन-दाम भाजौ ।
पीताम्बरौ किं सुषमां समानाम्
अस्मन्-मनो मोहयितुं दधाते ॥११॥
तापिञ्छ-भासौ द्वौ किं समानां सुषमां शोभाम् अस्मन्-मनो मोहयितुं दधाते ॥११॥
द्वयोः सखी नः कतरेति पृष्टा
दास्योऽपि ताः प्रोचुर् इदं न विद्मः ।
हन्ताधुनैवैवम् इहागमाम
प्रष्टुं पुनर् द्वौ बिभिमः प्रभूष्णू ॥१२॥
द्वयोर् मध्ये नोऽस्माकं सखी कतरा का इति ललितादिभिः पृष्टा दास्योऽपि ताः सखीः प्रति ऊचुः। वयम् इदं न विद्मः यतोऽधुनैव वयम् इह आगमाम । द्वौ राधा-कृष्णौ पुनः प्रष्टुं वयं बिभिमः यतः प्रभूष्णू ॥१२॥
वृन्दाह नीचैर् ललितेऽनयोर् यो
मन्त्रं जपन् पाणि-धृताक्ष-मालः ।
विभाति वृष्याम् उपविष्ट एष
श्री कृष्ण एवेत्यनुमातुम् ईशे ॥१३॥
हे ललिते ! अनयोर् मध्ये यः पाणिना धृता रुद्राक्ष-माला येन, एवम्-भूतः सन् मन्त्रं जपन् स एव कृष्णः प्रत्यहम् अनुमातुम् इशे ॥१३॥
मन्त्रौजसैवाद्यतनाहिनाद् यतो
राधां स्व-सारुप्यवतीं प्रदर्शयन् ।
लोके विराजिष्यति यत्र कुत्रचिन्
निःशङ्कम् एवं विजिहीर्षुर् एतया ॥१४॥
मन्त्र-बलेन** श्री-कृष्णः राधां स्व-सारूप्यवतीं प्रदर्शयन् लोके विराजिष्यति । एवम्-भूतः यत्र कुत्रचित् व्रज-मध्ये वने वा एतया राधया सह निःशङ्कं विजिहीर्षुः ॥१४॥
उचे विशाखा सखि सैव सर्वथै-
वास्मासु वृत्ता भगवत्य् अनर्थ-कृत् ।
पुनश् च मन्त्रं जपतीह कामुकः
कर्तुं स्व-सारुप्यवतीं परां नु काम् ॥१५॥**
हे सखि ! पौर्णमसी अस्मासु अनर्थ-कृत् वृत्ता ॥१५॥१६॥
चित्राह सख्यः शृणुताद्य गेहं
प्राप्ता जरत्या निकटं प्रयाताः ।
क्व मे वधूः सेति तयाभिपृष्टा
ब्रुमः किम् एताम् इति सङ्कतं नः ॥१६॥
नान्दीमुखी व्याहरति स्म शङ्कां
चित्रे स्व-चित्ते भजसे किम्-अर्थम् ।
तस्याः प्रतीत्य्-अर्थ-मयं पुनर् यन्
मन्त्रेण राधां स्त्रियम् एव कर्ता ॥१७॥
तस्याः जटिलायाः । अयं श्री-कृष्णः ॥१७॥
किन्त्व् अत्र मन्त्रं जपतोऽस्य पार्श्वे
स्थितिर् यद् अस्या न च सापि साध्वी ।
को वेद किं तिष्ठति मान्त्रिकाणां
मनस्य् अतोऽन्यत्र सखीं नय स्वाम् ॥१८॥
मन्त्रं जपतोऽस्य** श्री-कृष्णस्य पार्श्वे यद् यतः अस्या राधायाः सापि स्थितिर् अपि न साध्वी । मान्त्रिकाणां मनसि किं तिष्ठतीति को वेद ? ॥१८॥
भो भो स्वभासो भजतं प्रभूष्णू
ज्ञातौ स्थ एवाश्व् अथ माययालम् ।
राधा त्वम् एवासि निरेहि कुञ्जात्
कृष्णस् तु वृष्याम् उपविष्ट एव ॥१९॥**
मन्त्रं जपन्तं श्री-कृष्णं राधिकां मत्वा सख्यः आहुः—भोः प्रभूष्णू ! राधा-कृष्णौ ! अस्माभिर् युवां ज्ञातौ स्थः, अतः स्वभासः स्वकान्तीः भजतं तस्मात् मायया अलं व्यर्थम् । कुञ्जात् निरेहि निर्गच्छ ॥१९॥
मन्त्रं जपत्व् एष वयं तु गेहं
यामो वृथा यापित एष यामः ।
भावांश् च नेष्टः क्व नु वा क्षणेऽत्रा-
यासिष्म गेहाद् अहहाद्य मुग्धाः ॥२०॥
लम्पटेन सह कथोपकथनेन एक-प्रहरोऽस्माभिर् वृथा यापितः, एवं सूर्यश् च पूजितः मुग्धा वयं कुत्र वा क्षणे अयासिष्म ? ॥२०॥
इत्य् आह यावल् ललिता स तावत्
कण्ठ-स्वराभ्यास-परः प्रियायाः ।
अवर्तताथ क्षणतोऽभिनीय
ह्रियं परां ताः प्रति भाषते स्म ॥२१॥
तावत् स श्री-कृष्णः राधायाः कण्ठ-स्वरे अभ्यास-परोऽवर्तत । अथान्तरं क्षण-मध्ये परां श्रेष्ठां ह्रियं अभिनीय ताः सखीः प्रति भाषते स्म ॥२१॥
यद् अद्य वृत्तं मम वेदनावहं
न वेदनार्हं तद् अथापि चेद् रहः ।
लभेय वक्ष्यामि तदैव ते श्रुतौ
नान्यत्र यत् त्वं ललिते गतिर् मम ॥२२॥
हे सखि ! मम यत् वेदनावहं पीडावहं वृत्तं तद् वेदनार्हं, अर्थात् कथनार्हं, न तथापि चेत् यदि अहं रहो लभेय तदैव तव कर्णे वक्ष्यामि न अन्यत्र । यत् त्वं मम गतिः ॥२२॥
तत्-कण्ठज-स्वान-विधूत-संशया
राधेयम् एवेति तदा तद्-आलयः ।
निश्चिक्युर् अबाब्रुर् अथो गत-ह्रियो
नीत्यान्यतोऽङ्गान्य् अपि साधु पस्पृशुः ॥२३॥
तत्-कण्ठ-जन्य-शब्देन विधूत-संशयाः सख्यः निश्चिक्युः, अङ्गानि पस्पृशुः । सखीं मत्वा काचित् हस्ते हस्तं निधाय, काचित् स्कन्धे हस्तं निधायेति-रित्या ॥२३॥
अहो कराव् अङ्गुलयः पद-द्वयं
नेत्रे कपोलावलिकं श्रुती अपि ।
अङ्गानि सर्वाणि हरेर् इवाभवन्
नाभिद्यतैकस् तव कण्ठ-निस्वनः ॥२४॥
हे राधे ! तव करादि-सर्वाण्य् अङ्गानि हरेर् इवाभवन्, किन्तु एकस् तव कण्ठ-स्वनो न अभिद्यत ॥२४॥
आल्य् अत्र को हेतुर् अयं प्रकथ्यताम्
इत्य् एव पप्रच्छुर् इमं तद्-अङ्गनाः ।
तत्-स्पर्शजान्तः-स्मर-विक्रिया क्रमो
योऽभूत् प्रतिस्वं न तु तस्य कारणम् ॥२५॥
हे आलि ! अत्र को हेतुः ? तस्या राधाया अङ्गनाः सख्यः इत्य् एव पप्रच्छुः, किन्तु प्रतिस्वं श्री-कृष्णाङ्ग-स्पर्श-जन्यो यः अन्तः-स्मर-विक्रिया क्रमोऽभूत्, तस्य कारणं न तु पप्रच्छुः ॥२५॥
कृष्णाकृतेर् अन्य-गृहीततायाम्
अप्य् एष कश्चित् प्रकटः स्वभावः ।
यत् क्षोभयेद् इत्थम् इति स्व-चित्ते
समादधुस् ताः स्वयम् एव तत्र ॥२६॥
श्री-कृष्णस्याकृतेर् अन्य-गृहीततायाम् अपि तस्या एष कश्चित् प्रकटः स्वभावः यत् अस्माकं मनः क्षोभयेत् । इत्थम् अनेन प्रकारेण ताः स्व-चित्ते समादधुः ॥२६॥
स प्राह सख्यः स हि मां विमोहयंश्
चक्रे यद् एतन् नतराम् अवेदिषम् ।
चिरात् तद्-अन्ते पुनर् आत्त-चेतना-
पश्यं यद् एतत् शृणुत ब्रवीमि वः ॥२७॥
स राधिकात्वेनाभिमतः श्री-कृष्ण आह—हे सख्यः ! स श्री-कृष्णः मां विमोहयन् यत् चक्रे, तद् अहं न अवेदिषं । चिरात् तस्य मोहस्यान्ते पुनः प्राप्त-चेतना अहं यद् अपश्यं, तद् एतत् शृणुत वो युष्मान् ब्रवीमि ॥२७॥
आचम्य पाणौ द्रुतम् एष नीत्वा
गण्डूषम् एकं प्रजपन् स्व-मन्त्रम् ।
दर-च्छदौ कुट्मलयन् व्यधात् त्रिस्
तम् आस्य-फुट्कार-समीर-विद्धम् ॥२८॥
एष श्री-कृष्णः आचम्य पाणौ एकं गण्डूषं नीत्वा जपन् सन् ओष्ठाधरौ कुट्मलयन् तं गङ्डुषं मुख-फुत्कार-वायुना वार-त्रयं विद्धं व्यधात् ॥२८॥
तेनैव नीरेण मदीय-गात्राण्य्
आनञ्ज नानेति निवारितोऽपि ।
स्वास्यं तदामुद्रयम् एव दिष्ट्या
ततस् तद्-अम्भो न गले विवेश ॥२९॥
नानेत्य् उक्त्वा मया निवारितोऽपि कृष्णः मम गात्राणि आनञ्ज । तदाहं स्व-मुखम् अमुद्रयं। तत एव हेतोः तज्-जलं गले न विवेश । अत एव मम स्वर-वैजात्यं न जातं ॥२९॥
तदैव तद्-रूप-धराणि गात्राण्य्
एतान्य् अभूवन् मम विस्मितायाः ।
तदैव वृष्यां पुनर् आहितास्यः
प्रचक्रमेऽसौ जपितुं स्व-मन्त्रम् ॥३०॥
वृष्याम् आहिता आस्या उपवेशो येन, एवम्-भूतोऽसौ कृष्णः पुनः स्व-मन्त्रं जपितुं प्रचक्रमे । स्याद् आस्या त्व् आसना स्थितिर् इत्य् अमरः ॥३०॥
अन्यच् च यत् किञ्चिद् अहो वचोऽभूद्
वक्तुं नचावक्तुम् अहं तद् ईशे ।
किन्त्व् एकिकां काञ्चन वो ब्रवीमि
ह्रीर् मां निरुन्धे बत किं करोमि ॥३१॥
अहं तद् वक्तुं न ईशे । एवं चापल्याद् अवक्तुम् अपि न ईशे । किन्तु वो युष्माकं काञ्चन एकाकिकां, ब्रवीमि यतो मां ह्रीर् निरुन्धे ॥३१॥
किं ते ह्रिया वेदय नः सखीः स्वा
इत्य् उच्यमानोऽपि यद् आह नासौ ।
तत्रास्थितैका ललितैव सर्वास्
तदापसस्रुर् बहिर् एव मुग्धाः ॥३२॥
स्वकियाः सखीः नोऽस्मान् वेदय ज्ञापय । इत्य् उच्यमानोऽप्य् असौ कृष्णः यदा ह्रिया न आह, तदा तत्रैका ललिता अन्याः सर्वाः बहिर् अपसस्रुः ॥३२॥
न वक्तु किं तेन वयं तु नो किं
ज्ञास्याम एवाखिलम् आस्यतोऽस्याः ।
इत्य् आत्त-विश्वासतया स्थितास् ताः
कृष्णो गृहान्तर् ललितां विवेश[^२०]** ॥३३॥**
राधिका न वक्तु चेत् किं ते ? वयं तु अस्याः ललितायाः मुखतः किम् अखिलं न ज्ञास्यामः ? इति गृहीत-विश्वासतया ताः सर्वाः बहिः-स्थिताः । कृष्णस् तु ललिताम् इति ॥३३॥
आश्लेष-बिम्बाधर-पान-कञ्चुकी-
नीवी-स्तनाकर्षण-तत्-परं तु तम् ।
साहालि किं न्व् एतद् असौ तदाब्रवीद्
भद्रे रहस्यं परम् एतद् एव नौ ॥३४॥
आश्लेषण-चुम्बनादौ तत्-परं श्री-कृष्णं सा ललिता आह—हे सखि ! राधे ! एतत् किम् ? तदासौ कृष्णः अब्रवीत्—हे भद्रे ! ललिते ! नौ आवयोर् एतद् एव परं रहस्यम्, अत एव रहस्यत्वाद् एव वक्तुं न शक्तः । अधुना तु तत् क्रियया दर्शयामि ॥३४॥
यदा स्व-कण्ठ-स्वरम् आददानस्
तया सहालाप-परः स रेमे ।
तदास्मयो विस्मयवान् शुचिः किं
न प्राप साम्राज्य-धुरां तयोः सः ॥३५॥
तदा तयोर् ललिता-कृष्णयोः विस्मयवान् अद्भुत-रस-विशिष्टः । एवम् आ सम्यक् स्मयः हास्य-रसो यत्र तथा-भूतः शुचिः शृङ्गारः किं साम्राज्य-धुरां न प्राप ॥३५॥
द्वि-त्र-क्षणानन्तरम् आत्त-मन्त्रा
प्राह स्वतन्त्रा ललिता मुदोच्चैः ।
एह्य् एहि नौ शीघ्रम् इतो विशाखे
जिज्ञाससे चेद् अवगच्छ तत्त्वम् ॥३६॥
आत्त-मन्त्रा कृष्णेन सह गृहीत-मन्त्रणा स्वतन्त्रा ललिता मुदा उच्चैः प्राह—स्वतन्त्रेति स्पष्टार्थत्वात् राधया सह मन्त्रणां विनैव वच्मीति तां प्रति प्रत्यायितम् । विशाखे ! नौ आवाम् एहि एहि आगच्छ आगच्छ । तत्त्वं जिज्ञाससे चेत् अवगच्छ ॥३६॥
प्राप्तं विशाखाम् अथ तां तथैव सा
छलात् स्व-साधर्म्यम् अवापयद् द्रुतम् ।
अन्या अपीत्थं मधुसूदनेन ताः
प्रासञ्जयच् चम्पकवल्लिकादिकाः ॥३७॥
अथ प्राप्तां विशाखां सा ललिता छलात् द्रुतं स्व-साधर्म्यम् अवापयत् । ललिता अन्या अपि चम्पकवल्लिकादिकाः मधुसूदनेन सह प्रासञ्जयत् ॥३७॥
अथो मिथः-सम्मिलने रताङ्कित-
स्वान्याङ्ग-संवृत्य्-अवलोकनोन्मुखाः ।
ह्रीणा भवन्त्योऽपि न ह्रीणतां ययुः
सर्वैक-रूप्यं खलु निर्विवादिता ॥३८॥
अथानन्तरं परस्पर-मिलने सति रति-चिह्न-युक्तस्य स्वाङ्गस्य संवरणे एवं रति-चिह्न-युक्तस्य अन्यासाम् अङ्गस्यावलोकने उन्मुखाः सर्वा ह्रीणा भवन्त्योऽपि न ह्रीणतां ययुः, यतः सर्वासाम् ऐकरूप्यं निर्विवादिता निर्विवाद-जनकम् इत्य् अर्थः । अत्र कार्य-कारणयोर् अभेदोपचारेण “आयुर् घृतम्” इतिवत् जनकतया अतिशयत्वं व्यक्ती-भवतीति भवः ॥३८॥
राधाथ वृन्दादि कृतान्तिकोप-
वेशास्ति यत्रात्त-मुकुन्द-वेशा ।
तत्राजिहाना ललितादिकालीस्
तां ज्ञातुम् इच्छूर् निजगाद कौन्दी ॥३९॥
वृन्दादिभिः कृतोऽन्तिके उपवेशो यस्या एवम्-भूता गृहीत-मुकुन्द-वेशा राधा यत्रास्ति तत्राजिहाना आगता ललितादि-सखीः कौन्दी निजगाद । सखीः कथम्-भूताः ? तां राधां ज्ञातुम् इच्छुः ॥३९॥
आगच्छतागच्छत भद्रम् आल्यः
क्वेयान् विलम्बोऽजनि वः सतीनाम् ।
अङ्गैर् अनङ्गोदय-सूचकानि
क्व वाद्य लक्ष्माण्य् अलम् अर्जितानि ॥४०॥
वो युष्माकं सतीनाम् इयान् विलम्बः कुत्र अजनि ? अङ्गैः करणैः कन्दर्पोदय-सूचकानि चिह्नानि कुत्राद्य अर्जितानि । पक्षे अङ्गस्य देहस्य न उदयो जन्म अनङ्गोदयोऽपुनर्भवो मोक्ष इत्य् अर्थः । तस्य सूचकानि योग-चिह्नानि क्व अर्जितानि । परश्लोके चिह्नानि व्यक्ती भविष्यन्ति ॥४०॥
निरञ्जने वश् चपले अपीक्षणे
विभान्ति बाला अपि मुक्त-बन्धनाः ।
द्विजार्दितोऽप्य् ऊढ-विरक्तिकोऽधरः
स्तब्धौ स्तनौ लब्ध-पुनर्भव-क्षतौ ॥४१॥
कन्दर्प-चिह्नान्य् आह—निरञ्जने इति । मोक्ष-पक्षे निरञ्जने उपाधि-रहिते । तथा च मोक्ष-विरोधि-चपलत्व-बालत्व-स्तब्धत्वादि-धर्मवतां नेत्र-केश-स्तनानां मोक्षो जात इत्य् आश्चर्यम् इति । पक्षे, बालाः केशाः । ब्राह्मणार्दितोऽपि लब्ध-वैराग्यः, ब्राह्मण-कर्तृकार्दनस्य महा-नरक-जनकत्वात् । पक्षे, दन्तार्दितोऽपि लब्ध-राग-राहित्यः । लब्धः पुनर्भव-क्षतो मोक्षो याभ्यां एवम्-भूतौ स्तब्धौ स्तनौ । पक्षे लब्ध-नख-क्षतौ ॥४१॥
सायुज्यदो वः खलु माधवो भवेद्
अयं त्व् अधाद् ध्यानम् इहास्थितासनः ।
केनेदृशीं लम्भतया गतिं कृता
यूयं कृतार्थास् तद् इदं महाद्भुतम् ॥४२॥
माधव एव युष्माकं सायुज्यदो मोक्षदो भवेत् । पक्षे, सयुजो भावः सायुज्यं संयुगः, स तु कृष्नेनैव दीयते । अयं तु कृष्णः आस्थितासनः ध्यानम् अधात् । श्लेषेण धवः पतिर् मा सायुज्यदो भवेत् । अत एव युष्माकम् ईदृशीं गतिं लम्भयता श्री-कृष्णातिरिक्तेन केन यूयं कृतार्थाः कृताः । तस्माद् इदं महाद्भूतम् ॥४२॥
प्रोवाच नान्दी ललिते वद द्रुतं
वृत्तं स्व-सख्या अलम् अन्य-वार्तया ।
क्व सास्ति तस्या अधुनापि किं पुनः
कृष्णाकृतित्वं बत वर्तते न वा ॥४३॥
न व्याख्यातम्।
अस्मत्-सखी वल्लि-गृहान्तरोदरे
जिह्रेति कृष्णाकृतिम् एव बिभ्रती ।
चिरं विमृश्यैकम् उपायम् ऐक्षत
प्राहाथ नः सा निभृतां मनीषिणी ॥४४॥
ललिताह—अस्मत्-सखी राधा लता-गृह-मध्ये स्थित्वा जिह्रेति, यतः सा कृष्णाकृतिं बिभ्रती धृतवती । किन्तु चिर-कालं विमृश्य एकम् उपायं ऐक्षत । अथान्तरं सा मनीषिणी निभृतम् अस्मान् प्राह ॥४४॥
नान्दीमुखी कुन्दलते क्रमेण माम्
आलिङ्गतश् चेद् अनुराग-सङ्गते ।
तदैव वैरूप्यम् इदं त्रपास्पदं
लीयेत न त्व् औषधि-सञ्चयैर् अपि ॥४५॥
तदैव लज्जास्पदम् इदं वैरूप्यं लीयेत ॥४५॥
एकत्र वर्वर्ति तपोऽतितीव्रता-
न्यस्यां तु साध्वीत्व-धुराऽनुपायिनी ।
द्वाभ्याम् इयं लम्पट-वेश-धारिता
मन्त्रोत्थ-वैगुण्य-भवापयास्यति ॥४६॥
तयोः क्रमेणालिङ्गनस्य वैरूप्यनाशकत्वे कारणम् आह—एकत्र नान्द्यां अन्यस्यां कौन्द्यां । द्वाभ्यां तयोः तपः-साध्वीत्वाभ्यां मन्त्रोत्थ-वैगुण्य-भवा इयं मम लम्पट-वेश-धारिता अपयास्यति ॥४६॥
त्वद्-आदि-सख्य्-अर्बुद-लक्ष-भाजस्
तस्याः किम् आश्लेष-दरिद्रताऽभूत् ।
समाह्वयेन् नौ यद् असाव् अतस् त्वं
ब्रूषे मृषैवेति जगाद नान्दी ॥४७॥
नान्दीमुखी आह—हे ललिते ! त्वद्-आदि-सख्य्-अर्बुद-लक्ष-युक्तायास् तस्या राधायाः किम् आलिङ्गन-दरिद्रता अभूत् ? यद् यस्मात् असौ राधा नौ आवां समाह्वयेत् । अतस् त्वं मिथ्या ब्रूषे ॥४७॥
वृन्दाह नैतासु सखीषु किञ्चित्
तपोऽस्ति मुग्धासु कुलाङ्गनासु ।
सतीत्वम् ईसद् अतुलं यद् एतत्
कृष्णः स्व-पुष्पायितम् एव चक्रे ॥४८॥
किन्तु आसां सख्किनां यत् अतुलं सतीत्वम् अस्ति तत् कृष्णः ख-पुष्पायितम् एव चक्रे ॥४८॥
वृन्देऽसि विपिनाधिकारिणीत्य् अतस्
त्वयि स्युः कतिशो न सिद्धयः ।
तथौषधानीत्य् अपि याहि तद् रुजस्
त्वम् एकिकैव प्रतिकर्तुम् ईशिषे ॥४९॥
त्वयि कतिशः सिद्धयः तथा औषधानि न स्युः ? अपि तु तत् तत् सर्वाण्य् एव स्युरिति-हेतोः त्वम् एव याहि । राधाया रुजं त्वम् एव प्रति-कर्तुम् ईशिषे ॥४९॥
कौन्दी गिरेत्थं कलित स्मितासु
वर्तासु वाचं ललिता ससर्जा ।
किं वो विवादै हरिर् एव कस्मान्
न पृच्छ्यते मौन-धरोऽपि का भीः ॥५०॥
कौन्दी-गिरा गृहीत-स्मितासु सर्वासु सखीषु ललिता वाचं ससर्ज सृष्टिं चकार । मौन-धरोऽपि हरिर् एव किं न पृच्छ्यते तत्कृत-राधा-वैरूप्यं केनोपायेन यास्यतीति प्रश्नः कथं न क्रियत इत्य् अर्थः ॥५०॥
इत्य् अन्तर्-उद्भूत-मनाक्-स्मिताङ्कुर
आसेदुर् आल्यः सहसा तद्-अन्तिकम् ।
तास्व् अग्रणीः सा ललितैव किञ्चन
प्राहाभिनीत-त्रप-लोचनाञ्चला ॥५१॥
आल्यः सहसा तस्याः कृष्ण-रूप-धारिण्या राधया अन्तिकम् आसेदुः आजग्मुः । ललिता कथम्-भूता राधां ज्ञात्वापि कृष्णं मत्वा अभिनीता त्रपा यत्र तथा-भूतौ लोचनाञ्चलौ यस्याः ॥५१॥
भोः किं व्यवस्यस्यसि मान्त्रिकाणां
चूडामणिर् लब्ध-निजार्थ-सिद्धिः ।
जहीहि मौनं कलयोत्तरं नश्
चिकीर्षिते कुत्र चनानुयोगे ॥५२॥
भोः इति सामान्य-शब्देन राधा-कृष्णयोः सम्बोधनम् । यतस् त्वं मान्त्रिकाणां चूडामणिर् असि । अतः किं व्यवस्यसि ? व्यवसायं करोषि । लब्धेति राधा-पक्षे । लब्धा अस्माकं कृष्ण-द्वारा विडम्बन-रूप-निजार्थ-सिद्धिर् यया । नोऽस्माकं चिकीर्षिते कर्तुम् इष्टे कुत्रचन अनुयोगे प्रश्ने उत्तरं कलय ॥५२॥
इत्य् उच्यमानाथ तदात्व जात
स्वसुप्ति-भङ्गेव विलक्ष्यमाणा ।
ससम्भ्रमोद्घाटित लोचनेव
प्रावोचद् आल्योऽत्र कदागताः स्थ ॥५३॥
इत्य् उच्यमाना तदात्व-जाता तत्कालिनोत्पन्ना सुषुप्तिः स्व-स्व-निद्रा तस्या भङ्गो यस्या एवम्-भूता इव सखिभिर् लक्ष्यमाणा । तत्कालस् तु तदात्वं स्याद् इत्य् अमरः । एतावत्काल-पर्यन्तं किं वृत्तम् अहं न जानामीति स-सम्भ्रमोद्-घाटित-लोचना इव प्रावोचत् । हे आल्यः ! कदा अत्र आगताः स्थः ॥५३॥
इतस् ततः सा नुदती दृशः स्वः
क्व वः सखा धूर्त इति ब्रुवाणा ।
स्व-सव्य-हस्तेन जवात् समूर्ध्नश्
चिक्षेप शैखण्ड-किरीटम् आरात् ॥५४॥
वो युष्माकं सखा क्व इति ब्रुवाणा केन एष वेषो मम रचितः अहं न जानामीत्य् अभिनीय स्व-वामहस्तेन मूर्ध्नः सकाशात् किरीटं दूरे चिक्षेप ॥५४॥
त्वम् एव किं नः सहचर्य्य् असि स्फुटं
राधा ततस् त्वां प्रति किं त्रपामहै ।
निलीय यान्त्या हरि-वेश-धारिणी कुञ्जेऽस्ति
किं सैव मृषाद्य मोहिनी ॥५५॥
ललिताह—त्वम् एव किम् अस्माकं सहचरि राधा ततस् तां कथं वयं त्रपामहै ? हरिवेश-धारिणी या अन्या कुञ्जेषु निलीय स्थिता सा अस्माकं मृषा मोहिनी तथा च सा एव कृष्ण इत्य् अर्थ ॥५५॥
विहाय तां तावद् अविश्वसत्यो
यद् आगमा मात्र वयं तद् एषा ।
दैवेन रक्षाऽजनि नो हृद् एव
तत्राद्य शङ्काम् अजहत् प्रमाणम् ॥५६॥
राधिकात्वेना-विश्वसत्यो वयं यद् यस्मात् तां विहायात्रागमाम तत् तस्मात् नोऽस्माकं रक्षा दैवेनाऽजनि । अत एव एतद् विषये शङ्काम् अजहत् त्यागम् अकुर्वत् अस्माकं हृद् एव प्रमाणम् ॥५६॥
इत्थं तद् आलीष्व् अभिनीत विस्मयास्व्
आह स्मितास्या विपिनालि पालिका ।
आल्यो निभाल्य स्वदृशैव नीयतां
सखा सखीवैष जनो मनोज्ञ-भाः ॥५७॥
सखीषु अभिनीत-विस्मयासु सतीषु स्मित-मुखी वृन्दा आह—मनोज्ञ-भा एष जनः सखा-सखी वा ॥५७॥
नान्द्य् आब्रवीत् पूर्वम् अलोकि माधव
द्वयं तथा सम्प्रति राधिका-द्वयम् ।
न नः क्षतिः काचन किन्तु सङ्कटं
युष्माकम् एवेति दधेऽति दूनताम् ॥५८॥
राधिका-द्वयम् इति पूर्वं युष्माभिर् एका राधिका एकान्ते नीता, अधुना एताम् अपि राधिकां जानीथ इत्य् अर्थः । अत्रास्माकं कापि क्षतिर् नास्ति, किन्तु युष्माकम् एव सङ्कटं यतो सखी-ज्ञानस्यावश्यकत्वम् इति हेतोः अहं दूनतां दधे ॥५८॥
नान्दीमुखि द्वापर एष नोऽधुनोत्
तद् अन्तम् आकाङ्क्षसि यत् तपस्विनि ।
वर्द्धिष्णुतम् एष्यति तत् स्वधर्मजं
फलं तवैवत्युदितं विशाखया ॥५९॥
विशाखाह—द्वापरः सन्देह एव नोऽस्मान् अदुनोत् । अत एव तस्या द्वापरस्यान्तं नाशं त्वम् आकाङ्क्षसि । यद् यस्मात् हे तपस्विनि ! पर-दुःख-नाशस्य तव स्व-धर्मत्वात् । पक्षे द्वापरस्यान्तं कलि-युगं तत्र तपः-कर्तुम् आकाङ्क्षसि । कलौ तपस्विनः प्रायो भ्रष्टा एव भवन्तीति परिहासो व्यञ्जितः । तव स्व-धर्मजं पक्षे कलौ सुष्ठु अधर्मजम् ॥५९॥
विसृष्त-तद्-वर्ण-विभूषणायां
प्रसाधितायां पुनर् आलि-पाल्या ।
श्री-राधिकायां द्रुतम् एत्य तस्याः
कण्ठ-स्वरेनैव पुनः स कृष्णः ॥६०॥
आलि-पाल्या त्यक्त-तद् वर्ण-भूषणायां पुनः प्रसाधितायां सत्यां कृष्णः द्रुतम् एत्य राधायाः कण्ठ-स्वरेणैव पुनर् जगाद इति पर-श्लोकेनान्वयः ॥६०॥
दराभिनीतानृजुतात्रपा भीः
सृष्ट्वा महा विस्मयम् आस्य बिम्बम् ।
अर्धं पिधायेक्षण-कोण-भृङ्गी
निपीत कान्तस्य रुचिर् जगाद ॥६१॥
कथम्-भूतः कृष्णः ? राधिकावद् ईषद् अभिनीता कुटिलता लज्जादयो ये । महा-विस्मयं सृष्ट्वा मुख-बिम्ब-मर्धम् आच्छाद्य राधिकावद् आक्षिकेण-रूप-भृङ्ग्या निपीता कान्तास्य-कान्तिर् येन सः ॥६१॥
मद्-अङ्ग-वैरूपमयं व्यधाद्यत्
तद् अस्तु सम्प्रत्य् अतिचित्रम् ईक्षे ।
मद्-रूप-लावण्य-निसर्ग-वेशान्
धत्तेऽधुना मोहयितुं सखीर् मे ॥६२॥
अयं कृष्णः यत् मदङ्ग-वैरूप्यं व्यधात् तदस् तु । सम्प्रति आश्चर्यम् ईक्षे । यतो मे सखी सखीर्-मोहयितुं मद्रूपादीन् धत्ते ॥६२॥
किं हन्त सख्यः कुरुथास्य पार्श्वम्
आयात माया शत पण्डितस्य ।
नैवातिमुग्ध भवताद्य सर्व-
हास्यास्पदी-भावम् इमः किम् अन्धाः ॥६३॥
पूर्वकृत-विडम्बनस्य व्यक्ताशङ्कया ललितादयः किञ्चिद् वक्तुं न शक्नुवन्ति अतः श्री-कृष्ण एव निःशङ्कतया आह—मायाशत-पण्डितस्यास्य कृष्णस्य पार्श्वे किं कुरुथ, तस्माद् आयात । हे अन्धाः ! सर्वा एव वयं किं हास्यास्पदीभावम् इमः प्राप्नुमः ॥६३॥
नीत्वैव मां तावद् इतः पलाय्य
क्वचिद् गिरेर् गह्वर एव गुप्ताः ।
चेत् तिष्ठथावाप्स्यथ तर्हि भद्रं
नो चेद् अभूद् एव दशा ममेयम् ॥६४॥
तर्हि भद्रं अवाप्स्यथ नोचेत् मदीय दशा इव दशा अभूदेवेत्य् अर्थः ॥६४॥
वृन्दादयः प्राहुर् अहो महोन्नतिर्
माया विताया गिरिधारिणोऽद्भुता ।
राधाम् इमां यन् निरनैषुर् आलयो
राधा तु साक्षाद् इयम् आगता परा ॥६५॥
गिरिधारिणो माया-वित्तस्य उन्नतिर् अद्भूता । यद् यस्माद् आलयः इमाम् अस्मन् निकटे उपविष्टां राधाम् एव निरनैषुः निर्णयं कृतवत्यः राधा तु साक्षाद् इयं वनाद् आगता ॥६५॥
सख्यः कुरुध्वं यद् असौ ब्रवीति
वो यातानया हन्त विहाय मोहिनीम् ।
श्रुत्वेति वृन्दावन कल्पवल्ल्य् अपि
स्मितं दधे लब्ध मनोरथा चिरात् ॥६६॥
एकास्ति युक्तिर् नहि ताम् ऋतेऽन्यं कम् अप्य् उपायं ललितेऽवलोके । नान्दीह सान्दीपनि मातरं तां समानयेत्व् एतद् उवाच कौन्दी ॥६७॥
हन्तालि सैवैतद् अनर्थ-मूलं
किं वक्ष्यते सत्यम् इतोऽपि किञ्चित् ।
अन्यच् च नः प्रत्युत हा सखीनां
विडम्बनं स्रक्ष्यति तां नमामः ॥६८॥
ललितादय आहुः—इतोऽपि अन्यत् किञ्चित् नोऽस्माकं सखीनां विडम्बनं सा स्रक्ष्यति, तस्मात् तां पौर्णमासीं नमामः ॥६८॥
इत्य् उक्तिर् आली-विततेर् हरिं च
राधां च वृन्दा-प्रभृतीश् च सभ्याः ।
अजीहसद् देवि सरस्वति त्वां
नुमो यद् अत्र प्रकटासि सत्या ॥६९॥
सखीनां स्व-मुखान् निर्गतं श्री-कृष्ण-कृत-सम्भोग-रूप-विडम्बनं श्रुत्वा राधादीनां हास्यम् आह । आली-विततेर् एतादृशोक्तिः हरि-प्रभृतीः सभ्याः अजीहसत् । हे सखीनां वाणी-रूप-सरस्वति ! तां वयं नुमः यद् यस्मात् त्वं सत्या एव प्रकटासि ॥६९॥
मिथस् तासां प्रेमाम्बुधि-मथन-जां वाङ्-मय-सुधां
धयन् कृष्णस् तृष्णाम् अधिकम् उपलेभे श्रुति-भृताम् ।
तद्-आस्याब्जेनापि प्रवर-परिहासामृत-मधु-
द्रवा-सारैर् वृष्टैर् अतुलम् उदमाद्यन्त महिलाः ॥७०॥
तासां सखीनां प्रेमाम्बुधि-मथन-जन्यां वाङ्मय-सुधां श्रुति-भृतां श्री-कृष्णो धयन् सन् तृष्णाम् अधिकम् उपलेभे । तदैवास्य कृष्णस्य मुखेनैव वृष्टैः प्रवर-परिहास-रूपामृत-द्रवस्य धारा-सम्पातैः करणैः महिलाः सख्यः अतुलं यथा स्यात् तथा उदमाद्यन्त उन्मत्ता बभूवुः ॥७०॥
इति श्री-कृष्ण-भावनामृते महा-काव्ये
कुञ्ज-केलि-चातुर्यास्वादनो नाम
दशमः सर्गः
॥१०॥
(११)