नवमः सर्गः
नर्म-विलासास्वादनो नाम
आयातः सखि माधवो[^१८]** यद्-उदयाद् वल्ली-मतल्ली-ततिः
फुल्लीभूय समन्ततः सुरभयत्य् उच्चैः श्रियं शिश्रिये ।
तेन त्वत्-कुसुमेषु वाञ्छित-धुरा सम्पत्स्यते सेत्स्यति
स्वाच्छन्द्याद् इह पद्मिनी-गणपतेः सेवापि तेऽबाधिता ॥१॥**
आयातं श्री-कृष्णं दृष्ट्वा अन्यापदेशेन राधिकां प्रति सखी आह—सखि ! राधे ! माधवो वसन्तः, पक्षे कृष्णः, आयातः । यस्य वसन्तस्य उदयात् श्रेष्ठ-वल्ली-ततिः फुल्लीभूय समन्ततः सुरभयन्ती सती श्रियं शोभां शिश्रिये दधारेत्य् अर्थः । कृष्ण-पक्षे, वल्ली-स्वरूपा त्वं फुल्लीभूयेत्य्-आदि । तस्मात् ते तव कुसुमेषु पुष्पेषु वाञ्छित-धुरा सम्पत्स्यते । पक्षे, कुसुमेषु कन्दर्पस् तत्र । एवं पद्मिनी-गण-पतेः सूर्यस्य । पक्षे, कृष्णस्य अबाधिता सेवा अपि स्वाच्छन्द्यात् सेत्स्यति ॥१॥
मुग्धे पश्य दिधीर्षुर् एष रभसान् माम् आजिहीते हरिर्
नेशे हन्त पलायितुं बलद्-उरु-स्तम्भा दधे वेपथुम् ।
त्वं वाचापि न रक्षणे मम पटुः किं वा हसस्य् उन्मदे
लोलाक्षी चपलासि लासि कुतुकं हंहो भियाऽहं म्रिये ॥२॥
राधिका आह—हे सखि ! मुग्धे ! पश्य मां दिधिर्षुर् एष हरिः रभासात् वेगात् आजिहीते आगच्छति । ओहाङ् गतौ । पलायितुम् अपि न अहम् ईशे । अत्र आनन्दाज् जातं जाड्यादिकं भय-जन्यत्वेन ख्यापयति—बलद् इति । बालवान् उरु-स्तम्भो यस्याः, एवम्-भूता त्वं वेपथुं दधे । त्वं कुतुकं लासि गृह्नासि, अहं भिया म्रिये ॥२॥
अस्याग्रेऽपि बिभेषि हन्त ललिता-शौटीर्य-सूर्य-प्रभा
प्रध्वस्ताखिल-दम्भ-शौर्य-तिमिर-व्रातस्य मुग्धेक्षणे ।
किं च त्वां भुवन-त्रयाखिल-सती-चूडामणिं लम्पटः
स्प्रष्टुं साहसम् एष धास्यति बलात् तच् चापि न श्रद्दधे ॥३॥
सखी आह—हे मुग्धेक्षणे ! हन्त अस्य श्री-कृष्णस्याप्य् अग्रे त्वं बिभेषि । कृष्णस्य कथम्-भूतस्य ? ललितायाः [शौटीर्यः] पराक्रम एव सूर्यः, तस्य प्रभया ध्वस्तोऽखिल-दम्भादि-रूप-तिमिर-[व्रातः] समूहो यस्य । किं च, एष लम्पटः एवम्-भूतां त्वां बलात् स्प्रष्टुं साहसं धास्यति, तच् चापि अहं न श्रद्धधे, न प्रत्येमि ॥३॥
ब्रूषे सत्यम् अयं तु हन्त स-रुषेवास्मासु साध्वी-व्रत-
ध्वान्त-ध्वंसन-भास्करः प्रकटितो धात्रैव भू-मण्डले ।
यः सर्वा मुख-मुद्रनाद् विरहिताः कृत्वा बलात् पद्मिनीः
स्वासक्ता इति ताः प्रवादम् अधिकं लोके नयन् नन्दति ॥४॥
श्री-राधा आह—सत्यं ब्रूषे । मम साध्वीत्वम् एतादृशम् एव, किन्तु प्राचीनापराध-वशात् अस्मासु सरुषा इव विधात्रा **अयं लम्पटः साध्वी-व्रत-**रूपान्धकारस्य [ध्वान्तस्य] ध्वंसन-सूर्य-स्वरूप एव प्रकटितः । एतेन साध्वीत्वस्य दुःख-दायकत्वेन अन्धकर-साम्यं ध्वनितम् । यः सूर्य-रूपः कृष्णः सर्वाः पद्मिनीः, पक्षे व्रज-सुन्दरीः, मुख-मुद्रणाद् विरहिताः अर्थात् प्रफुल्लाः कृत्वा, ताः पद्मिनीः स्वस्मिन् आसक्ता इति प्रवाद-मात्रं लोके नयन् नन्दति सुखं प्राप्नोति । तेन पद्मिनीनां यथा दूरस्थितेनैव सूर्येण प्रवाद-मात्रं, न तु सङ्ग इति दृष्टान्त-सूचितेनानुरागेण स्थायिना तृष्णातिरेको ध्वनितः ॥४॥
एवं चेत् पुरतः प्रविश्य गहने कुञ्जे निलीय द्रुतं
दुर्बोधाध्वनि माधवेन सहसा द्वित्रा घटीर् यापय ।
तावन् नस् त्वद्-इनार्चनोद्यम-जुषां पुष्पावचायः क्षणं
गान्धर्वेऽस्तु निराकुलोऽत्र किम् इतो युक्तिः परा दृश्यते ॥५॥
सखी आह—एवं चेत् पुरतोऽग्रे गहने कुञ्जे प्रविश्य द्रुतं निलीय द्वित्रा घटीर् यापय । कथम्-भूते कुञ्जे ? सहसा माधवेन दुर्बोधोऽध्वा यस्य तस्मिन् । पक्षे, सा प्रसिद्धा त्वं माधवेन सह अन्यैर् दुर्बोधोऽध्वनि कुञ्जे द्वित्रा घटीर् यापय । हे गन्धर्वे ! तावत् पर्यन्तं त्वदीयस्य इनस्य,[^१९] पक्षे श्री-कृष्णस्य, अर्चन-जुषां नोऽस्माकं पुष्पावचायः तद्-अवचयनं क्षणं निराकुलोऽस्तु, किम् इतः परा युक्तिर् दृश्यते ? अपि तु न किम् अपि ॥५॥
एवं तत्र मिथो विचारयति स स्व-प्रेयसीनां गणे
मध्ये प्रादुरभूद् यथा कुमुदिनी वृन्दे विधुः पर्वणि ।
संरम्भैर् अवहित्थयैव जनितैस् ताः सैकतैः सेतुभिः
हर्षाब्धेर् अतनूर्मि-मालिम् अबला रोद्धुं सदारेभिरे ॥६॥
एवं-प्रकारेण प्रेयसीनां गणे परस्परं विचारयति सति, स श्री-कृष्णः तासां मध्ये प्रादुरभूत् । यथा पर्वणि पूर्णिमायां । ताः अबलाः अवहित्थयैव जनितैः संरम्भैः क्रोधैः करणैः हर्ष-समुद्रस्य [अतनूर्मि-मालिम्] बृहद्-ऊर्मि-श्रेणीं तदा रोद्धुम् आरेभिरे आरम्भं चक्रुः । पक्षे, अतनूर्मिः कन्दर्पोर्मिः । तादृश-संरम्भैः कीदृशैः ? सैकतैः सेतुभिः । समुद्रस्योर्मि-श्रेणी बालुका-निर्मित-सेतुभिर् यथा रोद्धुम् आरभते, तद्वद् इत्य् अर्थः ॥६॥
एकैकावयव-स्फुरन्-मधुरिमावर्ते पतन्तस् तदा
तासाम् अक्षि-तरि-व्रजा द्रुतम् अधुर् घूर्णाः क्षनात् ते पुनः ।
मग्नीभूय रस-प्लुतान्तरतया विन्दन्त नीचीनतां
ये तु प्राहुर् इदं ह्रियो विलसितं तत्त्वं न ते जानते ॥७॥
श्री-कृष्णं दृष्ट्वा ताभिर् लज्जया कृतम् अधो-मुखं प्रकारान्तरेण वर्णयति—श्री-कृष्णस्य एकैकावयवे स्फुरन्-मधुरिम-रूप-जलस्य आवर्ते तासां अक्षि-तरि-व्रजाः नौका-समूहाः पतन्तः सन्तः द्रुतं घूर्णाः अधुः । ते नेत्र-रूप-तरि-व्रजाः तदानीम् एव पुनः क्षण-मध्ये रसेन जलेन, पक्षे शृङ्गार-रसेन, आप्लुतान्तरतया नीचीनतां अविन्दन्त प्राप्नुवन्त। ये तु इदं लज्जा-विलसितं प्राहुः, **ते तत्त्वं न जानन्ति **इत्य् अपह्नुत्य्-अलङ्कारो बोध्यः ॥७॥
तत्-सौरभ्य-महा-भटैः पटिमभिर् नासाध्वनान्तः-पुरं
प्राप्तैर् धैर्य-कपाट-पाटन-परैस् तासां यदाभूयत ।
का यूयं वन-लुण्ठिका इति तदा साटोप-वर्ण-स्फुरत्-
सौस्वर्यामृत-वीचयः श्रुति-गतास् तत् सर्वम् आप्लावयन् ॥८॥
तासां सखीनां नासाध्वना अन्तःपुरं प्राप्तैः तस्य श्री-कृष्णस्य **सौरभ्य-रूप-महा-भटेः [पटिमभिः] **स्व-पाटवैः करणैः सखीनां धैर्य-रूप-कपाटस्य त्रोटन-परैर् यदा अभूयत, तदैव का यूयं वन-लुण्ठिका इति । कृष्णस्य साटोप-वर्णस्य स्फुरत् सौस्वर्यामृत-तरङ्गाः श्रुति-गताः अन्तः-पुरस्थं यद् धैर्यादि तत् सर्वम् आप्लावयन् । तथा च मोहं प्रापुर् इत्य् अर्थः ॥८॥
अप्राप्य प्रतिवाचम् आत्त-रुड् इव प्राहोद्भ्रमल्-लोचनः
किं न ब्रूथ मदान् मद्-आलय-समोद्यानापहारोद्यताः ।
अद्यासाद्य ममोपकण्ठम् उचितां संसद्य् अवस्थां पराम्
अप्य् आप्तुं किम् उ वाञ्छथ स्फुटम् अतो ब्रूताशु यूयं स्थ काः ॥९॥
आनन्द-जाड्येन तासां** प्रति-वाचम् अप्राप्य** आत्त-रुड् इव प्राप्त-क्रोध इव उद्भ्रमल्-लोचनः श्री-कृष्णः आह—रे वन-चारिण्यः ! साध्यो यूयं मदीयालय-समानस्य उद्यानस्य अपहारे उद्यताः किम् मदात् न ब्रूथ ? तस्मात् अद्य मम उपकाण्ठं निकटम् आसाद्य संसदि समुचितां पराम् उक्त-कटूक्ति-व्यतिरिक्ताम् अवस्थां प्राप्तुं किं वाञ्छथ ? पक्षे, उपकण्ठं कण्ठ-समीपम् आसाद्य रहस्य-क्रीडा-रूपावस्थाम् ॥९॥
तासाम् एष तदाप यत् प्रतिवचो नो का अपीत्य् अन्तर्-उद्-
भूत-स्मार-विकार-बोधि मधुरं ह्री-लौल्य-शङ्कार्चितम् ।
तद् यो वर्णयितुं क्षिताव् उपमितिं मृग्येद् अयं नेति नेत्य्
अस्यन् वस्तु-समस्तम् अत्र लभते ब्रह्मज्ञ-साम्यं कविः ॥१०॥
एष श्री-कृष्णः तदा तासां नो कपीति यत् प्रतिवचः प्राप । कथम्-भूतं प्रतिवचः ? तासां अन्तर्-उत्पन्न-स्मर-विकार बोधन-शीलं अथ च मधुरं । पुनश् च ह्री-लौल्य-शङ्काभिर् अर्चितं, लज्जादीनां बोधकम् इत्य् अर्थः । तद् प्रतिवचः वर्णयितुं यः कविः क्षितौ उपमितिं मृग्येत्, असौ कविः उपमानत्वेन सम्भावितं मत्त-कोकिलादि-वस्तु-समस्तं नेति-नेतीत्य् उक्त्वा अस्यन् निरस्यन् ब्रह्म-साम्यं लभते । ब्रह्मज्ञो यथा अध्यस्तापवादार्थं सर्वदा नेति-नेतीति करोति, तथेत्य् अर्थः ॥१०॥
यत् कृष्णस्य मनोऽपि कर्ण-मयताम् आपय्य तच् चाधिकं
विद्धं हन्त मनो-भुवैव सहसा चक्रे पुनः सायकैः ।
यत् तस्माद् दवथोः स वेपथुम् अपि स्वं निह्नुवानोऽब्रवीत्
साटोपं तद् इमा व्यजिज्ञपद् इव स्वातुर्य-विस्फूर्जितम् ॥११॥
यत् “नो कापि” इति वर्ण-त्रय-रूप-वचः कृष्णस्य मनः कर्ण-मयतां प्रापय्य, पश्चात् तच् च प्रतिवचनं कर्तृ मनः मनो-भुवा द्वारा अस्य पञ्च-सायकैः करणैः पुनर् अधिकं विद्धं चक्रे । पुनः पुनस् तादृशाक्षर-त्रयस्य श्रवणेच्छया मनसः कर्णे पुनः पुनः संरोगातिशयात् कर्ण-मयत्वं बोध्यम् । तस्मात् दवथोस् तापात् जातं स्वकीयं वेपथुं कम्पं निह्नुवानः स श्री-कृष्णः साटोपं याथा स्यात् तथा यत् अब्रवीत्, तद् वचः कर्तृ स्वातुर्यस्य स्वकीयातुरत्वस्य विस्फूर्जितं पराक्रमं इमाः व्रज-सुन्दरीः व्यजिज्ञपयद् इव ॥११॥
यूयं का अपि नेति चेद् वदथ किं नो का अपीति स्फुटं
प्रत्यक्षावगतेऽपि वस्तुनि कथं दृष्टोऽपलापः क्व कैः ।
पुष्पानां नहि धत्त केवलम् अहो तास्कर्य-चर्या यतो
दृष्टं चोरयथेह चन्द्र-वदना आत्मानम् अप्य् अग्रतः ॥१२॥
श्री-कृष्ण आह—“नो कापि” इति शब्देन मद्-अग्रे का अपि यूयं न इति चेद् वदथ किम् ? प्रत्यक्षावगतेऽपि वस्तुनि कथं कैर् जनैः कुत्र वा अपलापो दृष्टः ? स्वं स्वम् आत्मानम् । चन्द्र-वदना इति रात्राव् अपि आत्मानं चोरयितुं न शक्नुथ किम् अपि दिवसे इति ध्वनिः ॥१२॥
नित्यं मत्-सुमनोऽपहार-निरता यस् ता मया कुत्र वा
प्राप्तः स्युः कथम् इत्य् अनिद्रित-दृशा रात्रिन्दिवं भाव्यते ।
दिष्ट्यैवात्म-भुवं श्रिता युवतयो दृष्टाश् चिराद् अद्य तास्
तन् मन्तोः फलम् एव सम्प्रति ददान्य् अङ्गीकुरुध्वं द्रुतम् ॥१३॥
सुमनः पुष्पं, पक्षे शोभन-मनः । आत्म-भुवं स्वीय-भूमिं कन्दर्पं च श्रितास् ता युवतयो दृष्टाः । तस्मात् मन्तोः पुष्प-चौर्य-मनश्-चौर्य-रूपापराधस्य ॥१३॥
उद्यन् विश्व-जनेक्षण-क्षण-भरं धत्ते निरस्यंस् तमो
यः फुल्ली-कुरुते-तमां कर-परिष्वङ्गैर् बलात् पद्मिनीः ।
तं भास्वन्तम् अभीष्टदं प्रति दिनं सेवेमहिमा वयं
पुष्पेष्व् आग्रह एष नः समुचितस् तत् किं भवान् कुप्यति ॥१४॥
श्री-राधा आह—यः सूर्यः, पक्षे कृष्णह्, त्वं उद्यन् तमोऽन्धकारः, पक्षे दुःखं, निरस्यन् सन् विश्व-स्थ-जनानाम् ईक्षणय क्षण-भरम् उत्सवातिशयं धत्ते । एवं करस्य किरणस्य, पक्षे हस्तस्य, परिष्वङ्गैः करणैः पद्मिनीः, पक्षे व्रज-सून्दरीः, फुल्ली-कुरुते । इमा वयं तं भास्वन्तं सूर्यम्, पक्षे कान्तिमतं त्वां, प्रतिदिनं सेवेमहि । तस्मात् पुष्पेषु आग्रहः नोऽस्माकं समुचित एव, पक्षे पुष्पेषुः कन्दर्पः, तस्मिन् आग्रहः॥१४॥
नो कुप्यामि यथोदितं कुरुथ चेत् किं त्व् अङ्गनाः सर्वथा
भाषन्तेऽनृतम् एव तेन भवतीः प्रत्येमि वामाः कुतः ।
देवार्थं कुसुमानि मे चिनुथ चेत् सत्यं कुरुध्वं सहे
मन्तुं पश्यत साधुतां मम परां युष्मासु चोरीष्व् अपि ॥१५॥
श्री-कृष्णोऽपि स्व-पक्ष-सूर्य-पक्षयोर् बोधकं सामान्य-शब्देनोत्तरम् आह—यथोदितं सूर्य-पूजार्थं मत्-पूजार्थं वा कुरुथ चेन् नो कुप्यामि, किन्तु अनृतं मिथ्याम् एव सर्वथा भाषन्ते तेन हेतुना भवतीः वामाः कुतोऽहं प्रत्येमि ?** देवार्थं मे** कुसुमानि, पक्षे मे देवार्थं क्रीडार्थं चिनुथ चेत्, सत्यं शपथं कुरुध्वम् । वामा इत्य् अनेन क्रीडा-समये वाम्यं न कर्तव्यम्, अत्रापि शपथं कुरुतेति भावः । तदा अहं मन्तुं अपराधं सहे ॥१५॥
चौर्यः सत्यम् अहो वयं व्रज-भुवि ख्यातास् त्वम् एव ध्रुवं
साधुः केन न कीर्त्यसे स्व-वदनेनोक्ति-श्रमैः किं ततः ।
आबाल्याद् ऋत-भाषिता सरलता शुद्धिः परस्वास्पृहा
या यास्ति त्वयि सा कदा क्व नु जने केनेक्षिता वा क्षितौ ॥१६॥
राधाह—आबाल्यात् सत्य-भाषितेत्य्-आदि या या त्वयि अस्ति, सा कदा कुत्र जने केन क्षितौ ईक्षिता? ॥१६॥
युष्माभिर् विपरीत-लक्षण-युषा वाचाहम् एवात्र यच्
चौरोऽकारिषि साधु-मण्डल-नुतो वृन्दावनाखण्डलः ।
तद् गर्वं हृदि धत्थ कञ्चन विना येनेदृशीनां गिराम्
ईशिध्वे किम् उ डम्बरं रचयितुं गोपाङ्गना मेऽग्रतः ॥१७॥
श्री-कृष्ण आह—विपरीत-लक्षण-युषा वाचा युष्माभिः साधु-मण्दल-नुतोऽहं यद् यस्माच् चौरोऽकारिषि, तत् तस्मात् हृदि कञ्चन गर्वं धत्थ । **येन **गर्वेण विना गोपाङ्गना अपि यूयं मद्-अग्रे ईदृशीनां गिरां डम्बरं आडम्बरं रचयितुं किम् ईशिध्वे ? ॥१७॥
सोऽयं यौवन-हेतुकः किम् अथवा सौन्दर्य-सम्पज्-जनिः
पातिव्रत्य-निबन्धनः किम् उ कला-शास्त्रज्ञता-सम्भवः ।
तं पश्याम्य् अधुना निकुञ्जम् अभितः स्वस्यापि बाह्वोः परां
वैदग्धीम् अनुभावयानि भवतीः प्रेक्षध्वम् एताम् अपि ॥१८॥
तं पातिव्रत्यादिकं **निकुञ्ज-**मध्ये अहं पश्यामि । एवं स्वस्यापि बाह्वोर् वैदग्धीं भवतीः अनुभावयानि, एताम् अपि यूयं प्रेक्षध्वम् ॥१८॥
इत्य् आगत्य दिधीर्षुणा गिरिभृता राधां तदानुद्रुतां
पृष्ठीकृत्य जगाद तत्-प्रिय-सखी साटोप-सन्तर्जनम् ।
कः स्यास् त्वं ललिताग्रतोऽपि कुलजां स्प्रष्टुं बलाद् ईहसे
दूरीभूय परत्र लम्पट विश स्वं चेत् शम् अत्रेच्छसि ॥१९॥
दिधीर्षुणा कृष्णेन अनुद्रुतां पश्चाद्-धावनेन प्राप्तां राधां ललिता पृष्ठीकृत्य जगाद—त्वं कः स्याः कुलजां स्प्रष्टुम् ईहसे ? तस्मात् हे लम्पट ! इतः परत्र दूरीभूय प्रविश, स्वं [शं] कल्याणं यदि इच्छसि ॥१९॥
सत्यं त्वं ललिते प्रकाम-समराकाङ्क्सां मया धित्ससि
ब्रूषे मां यद् इहैवम् एव विगताशङ्कं बलाद् उन्मना ।
त्वां दोर्भ्यम् अधुना पिनष्मि तद् इमाः पश्यन्तु सख्योऽपि ते
येन त्वं मुहुर् एव दुर्मुखि न मा मेवं ब्रुवाणा भवेः ॥२०॥
कृष्ण आह—यथेष्ट-समराकाङ्क्षां मया सह धित्ससि । पक्षे, कन्दर्प-समराकाङ्क्षाम् । यद् यस्मात् इहैव बलात् उन्मदा सती त्वं विगताशङ्कं याथा स्यात् तथा मां ब्रूषे । तस्मात् अहं त्वां दोर्भ्यां अधुना पिनष्मि, इमास् ते सख्योऽपि पश्यन्तु । हे दुर्मुखि ! येन त्वं माम् एवं ब्रूवाणा न भवेः ॥२०॥
अन्यास् ता रतहिण्ड धर्षयसि या मुग्धा मुहुर् बिभ्यतीर्
एषाऽहं ललिता पराः सहचरीः स्वं चास्त-शङ्कौजसा ।
रक्षन्ती पुरतोऽपि ते प्रतिवनं पुष्पाणि नेष्ये बलात्
कर्तुं किञ्चिद् इहेशिषे यदि तदा किं धृष्ट नः क्षाम्यसि ॥२१॥
ललिताह—हे रतहिण्ड ! स्त्री-चौर ! या मुहुर् बिभ्यतीर् भय-युक्तास् त्वं धर्षयसि, ता अन्याः । एषाहं ललिता अस्त-शङ्का सती अन्याः सहचरीः स्वं च ओजसा बलेन रक्षन्ती सती च [पुरतः] तवाग्रे बलात् प्रतिवनं पुष्पाणि नेष्ये । हे धृष्ट ! त्वं यदि किञ्चित् कर्तुं [ईशिषे] समर्थोऽसि तदा किं नोऽस्मान् क्षाम्यसि ॥२१॥
राधे पश्य सखीयम् आस्य-कुहराद् आयाति यद् वक्ति तत्
सम्मत्या तव चेत् त्वम् अप्य् अहह मे पाणेः क्व वा मोक्ष्यसे ।
अस्या द्यन्न् अधरं रदैर् अपनुदंस् तुण्डस्य कण्डूयनान्य्
आयातोऽस्मि समक्षम् एव तव यत् त्वं मौनिनी वर्तसे ॥२२॥
हे राधे ! तव इयं सखी [आस्य-कुहरात्] मुख-गर्तात् यत् आयाति तद् एव वक्ति, तत्र तव सम्मत्या चेद् वक्ति, तदा मम पाणेः सकाशात् त्वं कुत्र मोक्ष्यसे ? तस्मात् अस्यास् तव सख्या ललिताया अधरं रदैर् दन्तैर् द्यन् खण्डयन् [तुण्डस्य] मुखस्य अतिकण्डूयनानि अपनुदन् दूरीकुर्वन् तव समक्षम् एव आयातोऽस्मि । यद् यस्मात् त्वं मौनिनी वर्तसे । मौनं सम्मति-लक्षणम् इति प्रसिद्धेः ॥२२॥
राधा प्राह शठेन्द्र किं वदसि नो जानासि मां यास्म्य् अहं
गोष्ठेऽस्ति प्रथितात्र यौवत-कुले साध्वी न मत्तोऽधिका ।
तस्या मेऽतनु-धर्म-वर्त्मणि रताः सख्यः यदेमाः स्थिरास्
तास्व् एषा ललिता परा प्रखरता यस्या जयेत् त्वाम् अपि ॥२३॥
अहं या अस्मि एवम्-भूतां मां त्वं नो जानासि । तस्या मे मम श्रेष्ठ-धर्म-वर्त्म-निरताः । तासु मध्ये ललिता परा श्रेष्ठा । यस्या ललितायाः प्रखरता त्वाम् अपि जयेत् ॥२३॥
सूर्योपासन-धर्मवत्य् अतितरां साध्व्य् अस्मि चेति स्फुटं
मूर्तं ते हृदि गर्व-पर्वत-युगं वर्वर्ति राधेऽधिकम् ।
तच् छीग्रं नखरैर् विखण्ड्य भवतीं जेष्यामि तेनैव चेन्
मद्-वक्षः प्रहरिष्यसि त्वम् अधिकं तच् चापि सोढुं क्षमे ॥२४॥
श्री-कृष्ण आह—हे राधे ! “अहं सूर्याराधनवती” एवं “साध्वी अस्मि” इति मूर्तं ते तव **हृदि गर्व-**रूप-पर्वत-युगम् अधिकं वर्वर्ति । तथा च अन्तःकरणस्थ-गर्व एव बहिः पर्वत-द्वय-रूपेण विराजत इत्य् अर्थः । तत् पर्वत-युगम् । तेन पर्वत-द्वयेन चेत् **मद् वक्षः-स्थलं त्वं प्रहरिष्यसि, **तदा तच् च प्रहरणम् अपि अहं सोढुं क्षमे ॥२४॥
इत्य् उक्त्वा स्मित-चन्द्रिकार्चित-मुखीर् आलीर् विलङ्घ्य व्रजन्
राधाया निदधाव् उरस्य् उरु-मदात् पाणिं यदा माधवः ।
कन्दर्पः स हि कं न दर्पम् अतनोद् आपाद-शिर्षं शरैश्
चक्रे जर्जरम् एव तत् तनु-युगं रोमोद्गम-व्याजतः ॥२५॥
माधव इत्य् उक्त्वा स्मित-चन्द्रिकया अर्चित-मुखीः आलीर् विलङ्घ्य व्रजन् सन्, [राधाया उरसि] राधा-वक्षः-स्थले रोमोद्गम-च्छलेन आपाद-शीर्षं शरैर् जर्जरितं चक्रे ॥२५॥
किं कर्तुं कितव त्वयात्र रभसाद् आरब्धम् इत्य् उच्च-गीस्
तां प्राबोधयद् आलिभिर् विरचिता स्पर्शोत्थ-मोहाद् यदा ।
सा कान्तस्य करं स-सीत्कृति रणत्-पाण्य्-अम्बुजाभ्यां तदा
रोद्धुं सम्भ्रमम् आप शुष्कम् अरुदत् वामाभ्यनैषीद् रुजम् ॥२६॥
हे कितव ! त्वया किं कर्तुम् आरब्धम् इत्य् आलिभिर् विरचिता उच्च-गीः तां राधां स्पर्शोत्थ-मोहाद् यदा प्राबोधयत्, तदैव सा राधा कान्तस्य करं चुडिका-शब्देन रणद्भ्यां शब्दं कुर्वद्भ्यां पाण्य्-अम्बुजाभ्यां रोद्धुं स-सीत्कृति यथा स्यात्, तथा सम्भ्रम् आप । एवं शुष्कम् अरुदत् । वामा श्री-राधा मिथ्या रुजं पीडाम् अभ्यनैषीत् अभिनयम् अकार्षीत् ॥२६॥
**तावद् वाम-करेण हन्त सुदृशः शीर्ष्णः पटे स्रंसिते
माधुर्यामृत-वीचयः समुदगुर् या व्याप्नुवाना दिशः ।
आश्लेषाधर-पान-चुम्बन-विधिं प्रारिप्सितं माधवो
विस्मृत्यारभतैव केवलम् अहो स्नातुं मुहुस् तासु सः ॥२७॥
तावत्-**काल-मध्ये श्री-कृष्णस्य वाम-करेण राधाया मस्तक-स्थ-पटे स्रंसिते सति मुख-मस्तकादीनां माधुर्यामृत-वीचयः समुदगुः, या वीचयः दिशो व्याप्नुवानाः । स माधवः ईप्सितं चुम्बनादिकं विस्मृत्य तासु माधुर्य-वीचिषु केवलं स्नातुम् आरभत ॥२७॥
चन्द्रस्योपरि सान्द्रतां कथम् अगाद् ध्वान्तं समन्ताद् बलत्
तं किं हन्त मृधे जिगाय नहि यत् सोऽनल्पम् उद्भ्राजते ।
मैत्री यद्य् अनयोर् अभूत् समुचिता नोपर्य्-अधः स्थायिता
दास्यं चेद् द्विज-राज आप तमसो लोके न किं लज्जते ॥२८॥
स्नान-समये श्री-कृष्णस्य वितर्कम् आह—मुख-स्थानीय-चन्द्रस्य उपरि बलत् ध्वान्तं केश-स्थानीयान्धकारं कथं सान्द्रतां निविडताम् अगात् ? चन्द्र-निकटे तस्य नाश एव उचितः । किम् अन्धकारस् तं [मृधे] युद्धे जिगाय ? नहि नहि, यद् यस्मात् स चन्द्रः अनल्पम् उद्भ्राजते अतिशयेन दीप्तिं करोति । नहि पराजितस्य शोभा जायते । यदि अनयोर् मैत्री अभूत्, तदा उपर्य् अधः स्थायिता न समुचिता, किन्तु समतया तमसोऽन्धकारस्य दास्यं द्विजराजश् चन्द्रश् चेत् आप तदा लोके किं न लज्जते ? श्लेषेण सत्त्व-गुणमय-ब्राह्मण-श्रेष्ठोऽपि भूत्वा यत् तमो-गुण-मयस्य दास्यम् आप तत्र किं न लज्जते ? इत्य् अर्थः ॥२८॥
चन्द्रेऽस्मिन् अपि के इमे शफरिके सिन्धोः सहैवोद्गते
चेद् एते किम् उ निश्चले यदि पुनर् नीलोत्पले ते कुतः ।
बन्धोर् अङ्कम् उपेत्य मुद्रित-मुखे मन्ये ततः खञ्जनाव्
एतौ स्तो नहि केन वात्र गमितौ नो नृत्यतो वा कुतः ॥२९॥
वितर्कान्तरम् आह—अस्मिन् चन्द्रे इमे शफरिके कुत आगते ? एकत्र सह-वासत्वेन सिन्धोः सकाशात् चन्द्रेण सहैव उद्गते चेत् तदा चञ्चल-स्वभावे एते सफरिके किं निश्चले ? इदानीं लज्जादिना नेत्रयोर् मुद्रित-प्रायत्वेन निश्चलत्वात् यदि पुनस् ते नीलोत्पले तदा बन्धोश् चन्द्रस्य अङ्कम् उपेत्य कुतो मुद्रित-मुखे तिष्ठतः तस्मात् एतौ खञ्जनौ स्त इति मन्ये । नहि नहि, अत्र चन्द्र-मध्ये केन गमितौ आनितौ ? कुतो वा न नृत्यतः ? ॥२९॥
इत्य् एवात्म-गतं वदन् निज-दृशोर् दिष्टं महन् मानयन्
स्वाङ्गं तत्-सुषमा समामृत-रसासारैर् मुहुः प्लावयन् ।
तन् नेत्रान्त-तटानुराग-मधुभिः पीतैर् दृशा स्वं मनः
क्षीवत्वं गमयन् भजन् विवशताम् आलीः स धिन्वन् बभौ ॥३०॥
इति आत्म-गतं वदन् स श्री-कृष्णः निज-दृशोर् महद् दिष्टं भाग्यं मानयन् स्वाङ्गं तस्या राधायाः शोभा-रूपा समानामृत-रसस्य निरुपमामृत-रसस्य आसारैर् धारा-सम्पातैर् मुहुः प्लावयन् । किं च, तदानीं चुम्बनादि-विधौ श्री-कृष्णस्य विलम्बं दृष्ट्वा हन्त माम् आवृत्य चिरं किम् अयं वा करोतीत्य् औत्सुक्येन नेत्रान्तस्य किञ्चिद् उद्घाटनं कृतवत्यास् तस्या राधाया नेत्रान्त-तटस्य स्व-दृशा पीतैः अनुराग-स्वरूप-मधुभिः स्वं मनः क्षीवत्वं मत्ततां गमयन् । एवं देह-निष्ठ-विवशतां भजन् श्री-कृष्णः आलीः धिन्वन् सुखयन् बभौ । अत्र एकस्य पान-कर्तृत्वं अन्यस्य मत्तता, अपरस्य विवशता, अन्यस्य सुखिता इत्य् एतैर् असङ्गत्य्-अलङ्कारः सूचितः ॥३०॥
तावद् तद्-भुज-पाशतः शिथिलितात् स्वं मोचयित्वाव्रजन्
माधुर्यास्त्रम् इव प्रयुज्य किम् इयं तं जृम्भयित्वाजयत् ।
पाणिभ्यां प्रतिमुच्य कञ्चुकम् अथो काञ्चीं कषन्तीं बभौ
बध्नाति स्म किम् अस्त-भीः परिकरं कामाजि-राजी चिकीः ॥३१॥
इयं राधिका तस्य श्री-कृष्णस्यानन्द-वैवश्येन शिथिलात् भुज-पाशात् स्वं मोचयित्वा अव्रजत् । उत्प्रेक्षाम् आह—राधिका माधुर्यास्त्रम् इव प्रयुज्य तं श्री-कृष्णं जृम्भयित्वा किम् अजयत्? तद्-अनन्तरं सा श्री-कृष्ण-स्पर्शेन शिथिलितं कञ्चुकं पाणिभ्यां प्रतिमुच्य बद्ध्वा । आमुक्तः प्रतिमुक्तश् चा पिनद्धश् चापिनद्धवद् इत्य् अमरः । एवं शिथिलितां काञ्चीं कषन्ती सती बभौ । अत्र उत्प्रेक्षाम् आह—कन्दर्पस्य आजि-राजी युद्ध-श्रेणी तां चिकीः चिकीर्षुः राधा अस्त-भीः सती किं परिकरं बध्नाति स्म ? चिकिर्षा-स्वरूपात् क्विप्, ततः सि-विभक्तौ चिकीः ॥३१॥
वेणीम् अर्ध-विमर्दितां कवरयन्त्य् उद्भ्रान्त दृष्टिः सखीस्
तर्जन्यैव ततर्ज तिष्ठत शठ भोस् तिष्ठतेत्य् आत्त-गीः ।
तीक्ष्नापाङ्ग-शर-प्रहार-विवशोऽप्य् अस्यास् तथावस्थितां
तां पश्यन्न् अतनु-व्यथोऽप्य् अमनुत स्वीयं स धन्यं जनुः ॥३२॥
अर्ध-[विमर्दितां] मुक्तां वेणीं कवरयन्ती, अर्थात् एक-हस्तेन ग्रीवोपरि वेण्या वेष्टनं कुर्वती, राधिकाह—भोः शठा ! मत्-सख्यः युष्माभिर् एव मह्यम् एताद् दुःखं दत्तं, तस्मात् यूयं तिष्ठत, तत्-प्रतिफलं दास्यामि इति गृहीत-गीः सा तर्जन्या सखीः ततर्ज । तद्-अनन्तरं तस्या राधायास् तीक्ष्णापाङ्ग-शर-प्रहारेण विवशोऽपि स श्री-कृष्णः तथावस्थितां भूषण-केशादि-संवरणे व्यग्रां तां राधां पश्यन् अतनु-व्यथोऽपि महापीडा-युक्तोऽपि स्वं जनुर् एव धन्यम् अमनुत । पक्षे अतनुः कन्दर्पः, तत्-पीडा-युक्तः ॥३२॥
अहो वृन्दावन-भूमि-देव सुकृतिन् विख्यात-कीर्ते भवान्
यत् कर्म व्यधितास्य सम्प्रति गृहं गत्वा तयैवार्यया ।
दास्ये ते खलु दक्षिणाम् अनुपमाम् अप्राप्त-पूर्वां यया
पूर्णो यास्यसि मादृशीषु न पुनः क्वापि प्रकामार्थिताम् ॥३३॥
राधा आह—भो वृन्दावनस्य भूमि-देव ! ब्राह्मण-पक्षे, वृन्दावन-भूमौ दिव्यति क्रीडतीति । यत् कर्म त्वया कृतम्, अस्य कर्मणः अनुपमां दक्षिणां सम्प्रत्य् अहं गृहे गत्वा तया जटिलाख्यया आर्यया द्वारा दास्ये, ब्राह्मणैः कर्मणि सति दक्षिणा-दानस्यावश्यकत्वात् । यया दक्षिणया पूर्णः सन् मादृशीषु कदापि प्रकामं यथा स्यात् तथा न पुनर् अर्थितां यास्यसि प्राप्स्यसि । पक्षे, जटिला-दत्त-गालि-प्रदानाद् धेतोः कदापि मादृशीषु प्रकृष्ट-कन्दर्पस्यार्थितां न यास्यसि ॥३३॥
राधे दक्षिणया त्वयाऽनुपमया सान्तोष्यम् एवाग्रतः
किन्त्व् आशु स्मर-याग-कर्म शुभदं मां शिक्षितं कारय ।
तत्-तत्-कर्मठताम् इहाकलय मे साफल्यम् आयातु सा
पाण्डित्यं विफलत्वम् एति कृतिभिर् यन् नानुमोद्य स्तुतम् ॥३४॥
श्री-कृष्ण आह—हे राधे ! त्वया अनुपमया दक्षिणया [सान्तोष्यम्] सन्तोष-विशिष्टं करिष्यन्तं मां किन्तु दक्षिणा-दानाग्रतः शुभदं स्मर-याग-कर्म कारय । मां कीदृशं ? शिक्षितं निपुणम् । विज्ञ-निष्णात-शिक्षिता इत्य् अमरः । पक्षे, मां शिक्षितं कारय, स्मर-याग-कर्म शिक्षय इत्य् अर्थः । दक्षिणयेति करण-पदं कर्तृ-विशेषणं च । तत्-तद्-यज्ञे मम कर्मठतां [आकलय] पश्य, एवं सा कर्मठतापि साफल्यम् आयातु । अत एव कृतिभिर् यत् पाण्डित्यम् अनुमोद्य न स्तुतं तत् पाण्डित्यं विफलत्वम् एति ॥३४॥
प्रोचे कुन्दलतापि देवर भवद्-वैदुष्य् अदूष्या भवेद्
अस्याः सम्मतिर् अत्र चेद् इयम् अपि प्रज्ञी तदा ज्ञायते ।
तावत् किं निकषाश्म-हेम-महिम-ज्ञानं भवेत् कस्यचिद्
यावत् तन्-मिथुनं न विन्दति मिथः सङ्घर्ष-कौतूहलम् ॥३५॥
कुन्दलता ऊचे । हे देवर ! कृष्ण ! तव वैदुषी पाण्डित्यं तदा अदूष्या भवेत् चेत् यदि अस्या राधाया अत्र तव पाण्डित्ये सम्मतिः स्यात् । एवं तव पाण्डित्यं बुद्धा अनया सम्मतिर् दत्ता चेत्, तदा इयम् अपि प्राज्ञी अस्माभिर् ज्ञायते । तत्र स-दृष्टान्तम् आह—निकष-प्रस्तर-सुवर्णयोर् महिम-ज्ञानं तावत् कस्य जनस्य किं भवेत्, यावत् मिथः सङ्घर्ष-कौतूहलं निकषाश्म-हेम-रूपं तन्-मिथुनं न विन्दति । मिथुन-पदेन अनयोः स्त्री-पुंष्त्वम् आरोपितं । तद् वितथम् इति वा पाठः । दृष्टान्तेन रहस्य-परीहासो व्यङ्गः ॥३५॥
गान्धर्वावदद् आत्मनः प्रियतमाद् भद्रे सुभद्राद् अपि
प्रेमास्मिङ्स् तव देवरे निरुपमं प्रत्यायिताहं त्वया ।
अध्याप्यातनु-शास्त्रम् एतद् अथ तद्-विज्ञं त्वम् एवान्वभूः
स्व-ख्यात्यै प्रकटी-चिकीर्षसि यतः पाण्डित्यम् अस्य स्वयम् ॥३६॥
राधा अवदत्—हे भद्रे ! कुन्दवल्लि ! आत्मनः प्रियतमात् सुभद्रात् पत्युः सकाशात् अस्मिन् देवरे निरुपमं प्रेम त्वया अहं प्रत्यायिता । पक्षे, सुभद्रात् सुमङ्गलाद् आत्मनः सकाशाद् अपि देवरे प्रेम । अथ अतनु-शास्त्रम् एतं देवरम् अध्याप्य पश्चात् तच्-छास्त्र-विज्ञं तं त्वम् एवान्वभूः । यतः स्व-ख्यात्यै अस्य देवरस्य पाण्डित्यं स्वयम् एव प्रकटीचिकीर्षसि ॥३६॥
प्रोक्तं तत्र विशाखया प्रथमतोऽस्याम् एव राधेऽस्य चेत्
तत्-तत्-कर्मठतं निजाक्षि-विषयी-कृत्य प्रतीतिं भजेः ।
तर्ह्य् एवैनम् इहेष्ट-कर्मणि वृणु त्वं काम-सम्पत्तये
नो चेत् स्यात् किम् अनङ्ग-साधनवतः कृत्यस्य ते साङ्गता ॥३७॥
विशाखा आह—हे राधे ! अस्य कृष्णस्य **तत्-तत्-**कन्दर्प-याग-कर्मणि कर्मठताम् अस्यां कुन्दवल्यां यदि निजाक्षि-विशयीकृत्य प्रतीतिं त्वं भजेः, तदैव एनं श्री-कृष्णम् इह इष्ट-कर्मणि त्वं वृणु । नो चेत् कुन्दलतायां प्रतीतिं विनैव स्वस्मिन् तत्-कर्म आरब्धं चेत् तदा अविज्ञ-जन-द्वरा-कर्म-कृते सति ते तव अनङ्ग-साधनवतः अङ्ग-साधन-रहितस्य अर्थात् अङ्ग-हीनस्य कृत्यस्य किं साङ्गता पूर्तिः स्यात् ? पक्षे स्पष्टं । तत्-कर्मण उत्तरोत्तर-वृद्धिर् एव, न तु पूर्तिः ॥३७॥
कृष्ण प्राह परीक्षया किम् अनया राधे विशाखा भूवि
ख्यातैवातनु-धर्म कर्मणि यतः साक्षाद् भवत्याः सखी ।
ये वात्स्यायन-पद्धति-क्रम-गतास् तेषां मनूनां मद् अ-
भ्यस्तानाम् अपि शुद्ध्य्-अशुद्धि विमृशत्व् एषा रहस्य् अञ्जसा ॥३८॥
कृष्ण आह—हे राधे ! अनया परीक्षया किम् ? इयं विशाखा बृहद्-धर्म-कर्मणि भूवि ख्याता एव । पक्षे, अतनुः कन्दर्पः । यतः साक्षाद् भवत्याः सखी । तस्माद् वात्स्यायन-मुनेः काम-शास्त्रात्मक-पद्धतेः क्रम-प्राप्ता ये मनवः, तेषां मनूनां मन्त्राणां मद्-अभ्यस्तानां शुद्ध्य्-अशुद्धि एषा विशाखा रहसि विमृशतु । शुद्धिश् च अशुद्धिश् च द्वन्दैक्यम् ॥३८॥
साधूक्तं हरिणेति कुन्दलतया राधा तदाभ्यर्थिता
तत्रादेष्टुम् इमाम् अथ स्मित-सुधा-स्नाताधरा साह ताम् ।
कौन्दीयां सुदुराग्रहा सखि ततो गत्वा विशाखे रहो
विद्धीत्य् अञ्चल-संवृताधर-तटाः सख्योऽहसन् सङ्घशः ॥३९॥
हरिणा साधूक्तम् इत्य् उक्त्वा कुन्दलतया । तदा तत्र एकान्ते मन्त्र-परीक्षार्थम् इमां विशाखाम् **आदेष्टुं राधा अभ्यर्थिता **। तद्-अनन्तरं सा राधा तां विशाखाम् आह—रह एकान्ते परीक्षार्थं श्री-कृष्णं विद्धि जानीहि । इति राधिका-वाक्यं श्रुत्वा अञ्चलेन संवृताधर-तटाः सर्वाः सख्यः मिलित्वा अहसन् । स्वेन कर्तव्यस्य कर्मणः परीक्षार्थं स्व-सखीः प्रार्थयति, अतः स्व-मुखेन इव सम्भोग-प्रार्थना कृतेति तासां हास्ये कारणम् ॥३९॥
राधे त्वाम् अवहित्थया प्रति-पदं क्षीणायुषा दुःशकां
गोप्तुं सम्प्रति वीक्ष्य दून-हृदया नोपायम् अन्यं लभे
किन्त्व् अग्रे सहकार एष भविता धन्योऽविता ते महान्
तत् कुञ्जं शरणं रहो व्रज यदि स्वीयं शम् आशंससि ॥४०॥
विशाखा आह—हे राधे ! प्रतिपदं क्षीणायुषा अवहित्थया गोप्तुं दुःशकां त्वां सम्प्रति वीक्ष्य दून-हृदया अहं त्वां गोप्तुम् अन्यम् उपायं न लभे । किन्तु साहाय्यं करोतीति व्युत्पत्त्या सिद्धः अग्रे एष सहकारः आम्र-वृक्षस् तव अविता रक्षिता भविता । अत एकान्ते सहकार-कुञ्जं शरणं व्रज, यदि स्वीयं शं कल्याणां आशंससि । श्लेषेण शं सम्भोग-जन्यं सुखं । साहित्यं कारयिषतीति श्लेषश् च । तथा च एका अवहित्था मात्रं त्वां रक्षति । सापि स्व-मुखेन इव दूरीकृता चेत्, तदा प्रकृत-कार्ये विलम्बो मास्तु इति ध्वनिः ॥४०॥
अस्माभिस् तव यद् विधित्सितम् अहो साहाय्यम् एतत् त्वया
दाक्ष्यात् तन्-निरपेक्षया न रचितं किं पिष्ट-पेषायितम् ।
पुन्नागं सुमनः-प्रदं घन-रसैः स्व-व्याहृतैः सिञ्चती
यत् त्वं फुल्लयसीति स-स्मित-मुखी प्रोचे विशाखापि ताम् ॥४१॥
पुनर् विशाखा आह—तव सखीत्वात् अस्माभिः कृष्णेन सहाङ्ग-सङ्गार्थं तव यत् साहाय्यं मनसि विधित्सितं, त्वया तु [दाक्ष्यात्] दाक्षिण्यात् तत् साहाय्यं साहाय्य-निरपेक्षया हेतुना किं पिष्ट-पेषायितं न रचितम् ? अपि तु रचितम् एव । तथा चाधुना तव सखी-साहाय्येनालम् इति भावः । यद् यस्मात् [सुमनः] शोभन-मनः-प्रदं पुं-नागं पुरुष-श्रेष्ठं कृष्णं स्व-व्याहृतैः स्वेनैवोक्तैः घन-रसैः सिञ्चती त्वं तं पुं-नागं फुल्लयसि । सम्मुखार्थस् तु पुष्प-प्रदं पुन्नाग-वृक्षं स्वेनैव विशेषेण आहृतैः आनितैः घनरसैर् जलैः सिञ्चती त्वं फुल्लयसि ॥४१॥
अत्रैवावसरे समागतवती नान्दीमुखी वृन्दया
सार्धं काञ्चन-पत्रिकां हरि-करे दत्त्वा शशंशास्य शम् ।
ताम् उद्घाट्य हृदा पठन् प्रमुदितस् ताभिः स संलक्षितो
ऽनुक्त्वा किञ्चन काम् अपीक्षित-रहा प्रागाद् उदीची-मुखः ॥४२॥
काञ्चित् पत्रिकां हरि-करे दत्त्वा कृष्णस्य शं कल्याणं शशंस, “हे कृष्ण ! त्वं कुशली भव” इति जगाद । तां पत्रीम् । पत्र-पाठात् श्री-कृष्णानन्दस् ताभिः राधादिभिः संलक्षित इत्य् अर्थः । तद्-अनन्तरं श्री-कृष्णः काञ्चित् व्रज-सुन्दरीं प्रति किम् अपि अनुक्त्वा, ईक्षितं **रहः-**स्थलं येन एवम्-भूतः [उदीची-मुखः] उत्तराभिमुखः सन् एकान्त-स्थले अगात् ॥४२॥
**याते तत्र तद्-ईक्षण-क्षण-विनाभावेन दूनाननाप्य्
आत्मानं बहिर् आप्त-निर्वृतिम् इव स्वा ज्ञापयन्ती सखीः ।
सार्धं ताभिर् उपेत्य सम्भ्रम-भरान् नान्दीमुखीं राधिका
सा नाना-विध-तर्क-सङ्कुलित-धीः पप्रच्छ स-प्रश्रयम् ॥४३॥
तत्र **एकान्त-स्थले श्री-कृष्णे याते सति क्षणम् अपि व्याप्य श्री-कृष्णे क्षणस्य विना-भावेन अभावेन दूनानना अपि राधा बहिर् **आत्मानं प्राप्त-निर्वृतिम् इव स्वीयाः सखीः ज्ञापयन्ती **सती ताभिः सखीभिः सह उपेत्य समीपे गत्वा नान्दी-मुखीं प्रति स-प्रश्रयं स-विनयं यथा स्यात् तथा पप्रच्छ ॥४३॥
पत्रीं का प्रजिघाय सा भगवती कस्मै नहि ज्ञायते
भद्रे मच्-छपथो वदैष रमयन् काञ्चित् तद्-उक्तां गतः ।
हास्यं मुञ्च करोमि दिव्यम् अपि चेद् एवं भवेन् नो व्रजेन्
मत्-साक्षाद् अयम् एष तच्-चतुरिमा दुर्लक्षतायै तव ॥४४॥
प्रश्नम् एवाह—हे नान्दी-मुखि ! इमाम् पत्रीकां प्रजिघाय प्रहितवती । नान्दी आह—सा प्रसिद्धा भगवती । राधा आह—कस्मै किम्-अर्थं ? नान्दी—नहि ज्ञायते । राधा मत्-शपथो वद नान्दी—एष शृइ-कृष्णः तया पौर्णमास्या उक्तां काञ्चित् व्रज-सुन्दरीं रमयन् गतः रमयितुं गत इत्य् अर्थः । राधा—हास्यं मुञ्च । नान्दी—अयि राधे ! दिव्यं करोमि । राधा—एवं चेत् अयं कृष्णः अन्यत्र रमणार्थं मत्-साक्षात् न व्रजेत् । नान्दी—हे राधे ! तव दुर्लक्षतार्थम् एव तस्य श्री-कृष्णस्य एष त्वत्-साक्षात् गमन-रूप-चतुरिमा । अत एव एतच् चातुर्याद् एव तव मनसि तथा नायातम् ॥४४॥
प्रावोचल् ललिता तद्-ईक्षित-मुखीम् आसंशयिष्टा हरेर्
अन्यस्यां भवद्-अन्तिक-स्थितिमतः किं सम्भवेल् लालसा ।
फुल्लां मालतिकां धयन्न् अलि-युवा वल्लीं किम् अन्यां स्मरेद्
अग्रे प्राप्य सुधां बुधः कथम् अहो धत्ते परत्र स्पृहाम् ॥४५॥
नान्दी-वाक्ये सन्दिग्धया तया राधया ईक्षितं मुखं यस्याः, एवम्-भूता प्रावोचत् । हे राधे ! भवन्-निकटे स्थितिमतो हरेः किम् अन्यस्यां लालसा भवेत् ? तत्र दृष्टान्तः—फुल्लाम् इति । दृष्टान्तान्तरम् आह—बुधः सुधाम् इति ॥४५॥
एष त्व् आत्म-जनुः-प्रभृत्य् अनुपदं न र्तेऽनृतं भाषते
यज्-जिह्वा गुरुर् एव तस्य न कलेः किं भाविनो भाविनी ।
तन् मिथ्यैव स नो गतः परिहसन् मिथ्यैव पत्री च सा
किं मिथ्यैव विशङ्कसे सखि यतो मिथ्यैव नान्दीमुखी ॥४६॥
पुनर् ललिताह—एषा नान्दी आत्म-जन्म-प्रभृति अनुपदं प्रतिक्षणं अनृतं ऋते मिथ्यां विना न भाषते । यस्या नान्द्या जिह्वा भाविनः कलेः किं गुरुर् एव न भाविनी ? अपि तु भविष्यत्य् एव । तथा च कलि-युगः अस्याः शिष्यो भूत्वा अधर्मं प्रवर्तिष्यत इति भावः । तस्मात् स कृष्णः नोऽस्मान् परिहसन् मिथ्यैव गतः ॥४६॥
या साक्षाद् इव संविद् अत्र महिता या सर्व-धर्मैक-भूर्
वेदार्थं खलु मूर्तम् एव निखिलं याऽसूत सान्दीपनिम् ।
तस्याः पारिषदी भवानि ललिते श्री-पौर्णमास्याः सदा
मिथ्या-वादितया पराभव-धुरा-पात्री कृताहं त्वया ॥४७॥
नान्दी आह—या पौर्णमासी साक्षाद् इव संवित् ज्ञान-स्वरूपा अत्र व्रजे महिता सर्वैः पूजिता । या अखिल-वेदार्थं मूर्तम् एव सान्दीपनिं सुतम् असूत, तस्याः पौर्णमास्याः सदा एवाहं पारिषदी भवानि ॥४७॥
तस्या एव ददानि हन्त शपथं तत्त्वं यद् एतद् वदेत्य्
उक्ता साह वदाम्य् अहं कथम् अहो सैव न्यषैत्सिद् यतः ।
किं त्व् अत्राकथनं च नोचितम् अतो वच्म्य् अप्रतीतिं कृथा
मैवास्मिन्न् इति राधिकापि शपथं सा कारितैवानया ॥४८॥
ललिता आह—तस्याः पौर्णमास्याः शपथं ददानि । यत् तत्त्वं तद् वद इत्य् उक्ता सा नान्दी आह—अहो कथं वदामि यतः सा पौर्णमासी एव न्यषैत्सीत् निषेधं कृतवती । किन्तु अकथनम् अपि नोचितं यतस् तस्या एव शपथो दत्तः । अतोऽहं वच्मि । किन्तु अस्मिन् आज्ञाम् अप्य् उल्लङ्घ्य वक्तुं प्रवृत्ताया मम वाक्ये अप्रतीतिं मा कृथा इति सा राधापि अनया नान्द्या शपथं कारिता ॥४८॥
पूर्वेद्युर् मधुसूदनेन भगवत्य् अभ्यर्थिता सादराद्
आर्ये मन्त्र-मणि-महौषध-विदं मुख्ये महा-तापसि ।
राधां वाम्य-महीधरोपरि सदासीनाम् उपायात् कुतस्
तस्मद् द्राग् अवरोह्य साधु रमयाम्य् आली-ततीर् मोहयन् ॥४९॥
नान्दी आह—पूर्व-दिवसे मधुसूदनेन आदरात् सा भागवती अभ्यर्थिता । श्री-कृष्णस्याभ्यर्थनम् एवाह—मन्त्रादीनां विदां मध्ये मुख्ये ! वाम्य-रूप-[महीधरस्य] पर्वतस्य उपरि सदा आसीनां राधां कुतः उपायात् तस्मात् पर्वतात् द्राक् अवरोह्य साधु रमयामि । एवं तस्या आली-श्रेण्योऽपि तथैव, अत एव आली-श्रेणीर् अपि मोहयन् सन् ॥४९॥
गोप्योऽन्याः किल मन्-मनोभव-सुखोदञ्चच्-चमत्कारिता-
सम्पत्त्यै शत कोटयोऽपि नतरां पर्याप्नुवन्ति क्वचित् ।
किन्त्व् एकैव मदीय-हृद्-भुवम् अलङ्कर्तुं क्षमा राधिका
किं सा कल्प-लता नु संविद् अथ किं वैजयन्ती नु सा ॥५०॥
मदीय-कन्दर्प-सुखस्य उद्गते-चमत्कारिता-सम्पत्त्यै अन्याः शत-कोटयो गोप्योऽपि न पर्याप्नुवन्ति किन्तु एका राधिकैव । कथम्-भूता ? **मदीय-हृदय-**स्वरूप-भुवं, पक्षे हृदयोत्पन्नं कन्दर्पम्, अलं भूषितं कर्तुं क्षमा । अत एव सा राधिका किं कल्पलता-स्वरूपा ? श्लेषेण आकल्पो भूषा तत्-स्वरूपा लता । तथा च मम भूषण-रूपा सैवेत्य् अर्थः । किन्तु अचेतनस्य भूषणम् अपि नात्यन्त-शोभा-धायकम् इत्य् अत आह—संवित् मच्-चेतन-स्वरूपा, तथा च तां विना मम हृदि चेतन इव न तिष्ठतीति भावः । किं वा वैजयन्ती मम सर्वोत्कर्ष-रूपा पताका इति विशेषश् च ॥५०॥
श्रुत्वैतन् मधुरं धुरं पुनर् इमाम् अङ्गी-चिकिर्षुश् चिरात्
प्रत्याख्यान-परेव साह सहसा शक्यं कथं स्याद् इदम् ।
साध्वीनां प्रवरात्रपा-जल-निधिर् जाता कुलीना त्वये
किं सान्या चपलेव ते घन-रुचेर् अङ्कं समारोक्ष्यति ॥५१॥
एतन् मधुरं वाक्यं श्रुत्वा इमां धुरं भारम् अङ्गीचिकिर्षुः सा पौर्णमासी बहिः प्रत्याख्यान-परा इवाह—अन्या चपला चञ्चला इव घन-रुचेर् निविड-स्पृहस्य ते अङ्कं राधिका किं समारोक्ष्यति ? पक्षे घन-रुचेर् मेघ-सदृशस्य चपला विद्युद् इवेति भङ्ग्या आश्वास एव कृतः ॥५१॥
एवं सत्य् अघभिन् निवृत्य स ततो गेहं स्वम् आगत् तदा
सा सर्वागम-तन्त्र-मन्त्र-पटलीं पर्यालुलोके निशि ।
पत्रीं प्रापय नान्दि कृष्णम् अधुनेत्य् आदिश्यमाना तया-
दायैताम् अहम् आगमं द्रुतम् अतो जानामि नो किञ्चन ॥५२॥
एवं सति अघभित् श्री-कृष्णः ततः स्थानात् निवृत्य स्वं गेहम् अगात् । तद्-अनन्तरं सा पौर्णमासी निशि रात्रौ सर्वागम-तन्त्र-मन्त्र-पटलीं पर्यालुलोके । प्रातः-काले मन्-निकटे आगत्य हे नान्दि ! इमां पत्रीम् अधुना श्री-कृष्णं प्रापय इति तया पौर्णमास्या आदिश्यमानाहम् एतां पत्रीम् आदाय द्रुतम् आगमम् । अतः परं किञ्चन न जानामि । पत्री-स्थां वार्तां न जानामीत्य् अर्थः ॥५२॥
मन्त्रं कञ्चन पत्रिका-विलिखितं प्रेष्योपदिष्टस् तया
कृष्णस् तं जपितुं रहः-स्थलम् अगाद् अस्मन्-मनो-मोहनम् ।
हन्ताल्यो व्रजत स्व-वेश्म तद् इतस् तत्रैव सूर्यार्चितं
कार्यं यत्र हरिः कुरुध्वम् अचिरद् देशाय तस्मै नमः ॥५३॥
राधिका आह—पत्रिकायाम् अस्मन्-मनो-मोहनं कञ्चन मन्त्रं नान्दी-द्वारा प्रेष्य तया पौर्णमास्या उपदिष्टः श्री-कृष्णः तन्-मन्त्रं जपितुं रहः-स्थलम् अगात् । तस्मात् हन्त खेदे, हे आल्यः ! यूयं इतः स्थानात् स्व-गृहं व्रजत, तत्रैव गृहे सूर्य-पूजां करिष्यामि । तथा च यत्र देशे हरिर् वर्तते तस्मै देशाय नमस् कुरुध्वम् ॥५३॥
पीत्वैतां वृषभानुजोदित-सुधां प्रोवाच कौन्दी हसन्त्य्
एतत् किञ्चन युज्यते नहि ततो राधे वृथा शङ्कसे ।
यस्यैकाङ्ग-रुचि-च्छटैक-कणिकाप्य् उन्माद्य साध्वी-व्रतं
त्वां सद्यः सखि हापयेद् अयम् अहो मन्त्रं किम्-अर्थं जपेत् ॥५४॥
वृषभानुजोदितां सुधां पीत्वा हसन्ती कुन्दवल्ली आह—हे राधे ! त्वयोक्तं किञ्चन न हि युज्यते । तस्मात् त्वं वृथा शङ्कसे । अस्य श्री-कृष्णस्य एकाङ्गस्य कान्ति-च्छताया एका कणिकापि त्वाम् उन्माद्य तव साध्वी-व्रतं सद्यो हापयेत् । तस्माद् अयं कृष्णः किम्-अर्थं मन्त्रं जपेत् ? ॥५४॥
राधोचे भगवत्य् असाव् अनुपमं सन्न्यास-धर्मं दधे
नान्दीयं श्रित-तत्-पदैव विषय-व्यावृत्त-वार्ता-परा ।
कौन्द्य् एषा तु पुनः सुभद्र-सहज-स्वात्मैक्य-भावा भवेद्
एता एव समाधि-वर्त्मनि नयन्त्य् आर्याः कुल-स्त्रीर् अपि ॥५५॥
राधिका आह—भगवती पौर्णमासी अनुपमं सन्न्यास-धर्मं दधे । यतो समस्त-रात्रिं व्याप्य काम-शास्त्रं दृष्ट्वा मन्त्रं श्री-कृष्णं ग्राहयामास । एवं नान्दी अपि श्रित-तत्-पदा । अत एव सर्व-विषयेभ्यः व्यावृत्ता भिन्ना या वार्ता तत्-परा विरक्ता इत्य् अर्थः । पक्षे, विषयेण विशेषतः आवृत्त वार्ता-परा कुट्टनी-धर्म-परा इत्य् अर्थः । एषा कुन्दवल्ली तु सुभद्रः सुमङ्गलः अथवा सहजः स्वात्मनोः जीव-परमात्मनोर् ऐक्य-भावो यस्याः, एवम्-भूता भवेत्, ब्रह्म-ज्ञानवतीत्य् अर्थः । पक्षे, सुभद्रस्य स्व-पत्युः सहजे भ्रातरि श्री-कृष्णे स्वात्मनः स्व-देहस्यैक्य-भावो यस्याः सा । अत एव पौर्णमास्य्-आदयः एताः आर्याः कुल-स्त्रीर् अपि समाधि-वर्त्मनि सन्न्यास-वैराग्य-ब्रह्म-ज्ञान-रूप-स्व-स्व-धर्मं नयन्ति । पक्षे, दूत्य-कर्मणा सम्यक् आधिः कुल-धर्म-लज्जादि-त्याग-जन्य-मनः-पीडा तत्-स्वरूप-वर्त्मनि नयन्ति ॥५५॥
अत्रैवावसरे व्यजिज्ञपद् इतस् तं रूप-मञ्जर्य् अमूः
पूर्वस्याः ककुभो विधुं वन-तटाद् द्राग् आजिहानं पुरः ।
सम्भ्रान्ता वृषभानुजाह सुषमा-पूर्णः स एवैति नः
शङ्के मोहयितैव मन्त्र-बल-भाग् आल्यः करोम्य् अत्र किम् ॥५६॥
रूप-मञ्जरी पूर्वस्याः ककुभः दिशः सकाशात् वन-तटात् । चन्द्र-पक्षे, जल-तटात् द्राक् आजिहानम् आगच्छन्तं तं श्री-कृष्ण-स्वरूपं विधुम् अमूः राधाद्या व्यजिज्ञपत् जिज्ञापयामास । स्वभावत एव क्षणे क्षणे नवीनस्य श्री-कृष्णस्य शोभातिशयं मन्त्र-जन्यं ज्ञात्वा सम्भ्रान्ता राधा आह—पक्षे ह अप्य्-अर्थे ज्यैष्ठ-मासीय-सूर्यजापि सुषमा-सम्भ्रान्तेति चित्रम् । मन्त्र-बल-भाक् अत एवातिशय-शोभा-पूर्णः स श्री-कृष्णः अधुना तु मोहयिता । हे आल्यः ! अत्र विषये किं करोमि ? ॥५६॥
कौमुद्य् एव धृतिं द्यतीयम् अचिरात् सद्यो यद् अद्यास्य मे
मन्ये साधित-विद्यता निरुपमा जातस्य कामाप्तये ।
तत् काप्य् अत्र निलीय साधु ललिते तिष्ठेयम् एषोऽन्यथा
मद्-बुद्धिं भ्रमयेद् अशक्यम् अबले मन्त्रस्य किं जाग्रतः ॥५७॥
यद् यस्मात् अस्य श्री-कृष्णस्य कौमुदी ज्योत्स्ना एव मे धृतिं द्यति खण्डयति, न जाने स तु स्वयम् आयाति चेत् का दशा भविष्यति ? तस्मात् अभीष्ट-काम-प्राप्त्य्-अर्थम् अस्य कृष्णस्य निरुपमा साधित-विद्यता जाता इत्य् अहं मन्ये । तत् तस्मात् हे अबले ! जाग्रतो मन्त्रस्याशक्यं किम् ? ॥५७॥
इत्य् उक्त्वैव शनैः स-सम्भ्रम-पद-न्यासैः स्व-मञ्जीर-गीः
सातङ्कैव कदम्ब-षण्ड-विटपैः स्वं निह्नुवानैव सा ।
तिर्यग्-ग्रीवम् अपाङ्ग-मार्गन-गणं पश्चान् नुदन्त्य् आत्मनो
रक्षा-व्यग्र-धियेव कुब्जित-तनुः सद्माविशद् वाञ्जुलम् ॥५८॥
इत्य् उक्त्वा सा राधा स-सम्ब्रम-पद-न्यासैः करणैः वाञ्जुलं सद्म अशोक-कुञ्ज-मन्दिरम् अविशत् । कथम्-भूता ? स्वस्य मञ्जीर-गिरा नूपुर-शब्देन सातङ्का । पुनश् च कदम्ब-समूहस्य [विटपैः] शाखाभिः स्वं निह्नुवाना । पुनश् च श्री-कृष्णस्यागमन-शङ्कया तिर्यक्-ग्रीवं याथा स्यात्, तथा अपाङ्ग-रूप**-मार्गणस्य** बाणस्य गणं पश्चान् नुदन्ती प्रेरयन्ती । अत्रोप्रेक्षाम् आह—श्री-कृष्णात् आत्मनो रक्षार्थं व्यग्र-धिया बाणं नुदन्ती इव ॥५८॥
दूराद् एव निरङ्क-कुङ्कुम-रुचिं यान्तीं ददर्शाच्युतः
कान्ता-वृन्द-मणिम् अथैत्य च सभां पप्रच्छ तां तत्-सखीः ।
सा कृष्ण स्व-गृहं जगाम ललिते कालः स यातो यदा
युष्माभिः कतिधा प्रतारण-धुरा पात्रीकृतोऽहं न वा ॥५९॥
अच्युतः दूराद् एव निर्मल-कुङ्कुम-रुचि-तुल्य-रुचिं यान्तीं राधां ददर्श । कथम्-भूतां ? रमणी-वृन्द-मणीं । तथापि तां सभां एत्य तस्याः सखीः पप्रच्छ । प्रत्युत्तरम् आह—हे कृष्ण ! सा राधा गृहं गता । कृष्ण आह—यस्मिन् काले युष्माभिः कतिधा प्रतारणातिशयस्य पात्री-कृतोऽहं न वा, स कालो यतः । यतः सम्प्रत्य् अहं सिद्ध-मन्त्रो भवामि ॥५९॥
कर्णेऽस्यास् तु तदाभ्यधत्त रभसान् नान्दीमुखी माधवः
सर्वं मन्त्र-बलेन वेद ललिते तत् किं मृषा भाषसे ।
दृष्टैवादिश तां लभस्व च यशः सा ते मृषा-कोपतः
किं कर्तुं प्रभविष्यतीति ललिताप्य् अस्त्व् एवम् इत्य् अभ्यधात् ॥६०॥
तदा नान्दीमुखी तस्याः ललितायाः कर्णे अभ्यधत्त बभाष । हे ललिते ! माधवः मन्त्र-बलेन सर्वं वेद एव तत् तस्मात् कथं मृषा भाषसे ? दृशा राधाम् आदिश, तत एव स्व-यशो लभस्व । सा राधा मिथ्या-कोपेन ते तव किं कर्तुं प्रभविष्यति ? ललितापि तां नान्दीमुख्य्-उक्तम् अभ्यधात् ॥६०॥
गत्वा वञ्जुल-कुञ्जम् आह महिले किं त्वं विधत्से रहस्य्
एका मन्त्रम् अहो जपस्य् अदरं माम् आक्रष्टु-काम किम् उ ।
वृत्तं तत् कुरु यच् चिकीर्षसि बलाद् भोः पाश-बद्धं नु वा
किं वा मां स्व-रदास्त्र-खण्डितम् अहं न त्वां निषेद्धुं क्षमः ॥६१॥
वञ्जुल-कुञ्जं गत्वा कृष्ण आह—हे महिले ! कान्ते ! रहसि त्वं किं विधत्से ? अहो माम् आक्रष्टु-कामा त्वम् अदरम् अनल्पं काम-मन्त्रं किम् अत्र जपसि ? तद् आकर्षणं वृत्तम् अधुना यच् चिकीर्षसि तत् कुरु । [स्व-रदास्त्रेण] स्वकीय-दन्त-रूपास्त्रेण मां खण्डितं कुरु, अहं त्वां न निषेद्धुं क्षमः ॥६१॥
स-चिल्लि-कौटिल्यां स्मित-नव-सुधां गद्गद-वच-
स-हुङ्कारं तस्मै प्रथमम् उपजह्रे यद् अबला ।
पिबन् सोऽक्षि-श्रोत्रैस् तद् अपि सहसाऽमुह्यद् अतुलः
स दूरेऽस्तु ह्य् एतस्याधर-मधु-पानस्य महिमा ॥६२॥
अबला राधा भ्रू-कौटिल्य-सहितां स्मित-रूप-नवीन-सुधाम् एवं हुङ्कार-सहितं गद्गद-वचश् च तस्मै श्री-कृष्णाय प्रथमं यत् उपजह्रे । पर-दाराकर्षक-मन्त्रं जप्त्वा अधर्मं कृतवतः स्वस्य धर्मम् अन्यत्र निक्षिपतीति हुङ्काराभिप्रायः । तद् अपि सा च तं च तत् तथा च स्मित-सुधा-गद्गद-वचो-मात्रम् अपि पिबन् सहसा अमुह्यत् । अस्या राधाया अधर-सुधा-पानस्य सोऽतुल-महिमा दूरेऽस्तु, तथा च न जाने तत्-पाने का दशा भविष्यतीय् अर्थः ॥६२॥
धृता पाणौ हा हानुचितम् इति जल्पन्त्य् अपययौ
कुच-द्वन्द्वे स्पृष्टा शपथम् असृजत् कुब्जित-तनुः ।
बलाद् दष्ट-बिम्बाधरम् अनु दधौ सीत्कृति-ततीर्
निकेतान्तर् नीताप्य् अतनुत न चेन् नृत्यम् अतनोः ॥६३॥
श्री-कृष्णेन पाणौ धृता सा हाहा इदम् अनुचितं इति जल्पन्ती अपययौ कियत्-स्थलं अपससारेत्य् अर्थः । हे कृष्ण ! तव गवां नारायणस्य शपथः इति वाक्यम् असृजत् । बिम्बाधरम् अनु बिम्बाधरे सा सीत्कृति-ततीर् दधे । निकेतस्य कुञ्ज-मन्दिरस्य अन्तर् नीतापि सा अतनोः कन्दर्पस्य नृत्यं यदि न अतनुत ॥६३॥
तदा ताम् उद्धृत्योरसि भुज-बलाद् उच्छलद्-उरु-
स्फुरज्-जङ्घ-ग्रीवा-पदम् अति-न-नोक्त्या कुटिलिताम् ।
स्मरश् चापं स्वं चाम्पकम् इव स-कम्पं स रसयन्
नटद्-विद्युद्-वल्लीम् इव नव-घनस् तल्पम् अविशत् ॥६४॥
[युग्मकम्]** तदा** श्री-कृष्णस् तां भुज-वेगात् उरसि वक्षः-स्थले नव-घनो विद्युद्-वल्लीम् इव उद्धृत्य तल्पान्तम् अविशत् । वक्षः-स्थले धारण-समये तस्या जङ्घा-पाद-ग्रीवादीनां क्रियाभिः कन्दर्पस्य नृत्यच्-चाम्पेय-पुष्प-धनुषा सह उत्प्रेक्षार्थं विशेषणम् आह—तां कथम्-भूताम् ? उच्छलन्ति जङ्घा-ग्रीवा-पादानि यस्याः । पद्-शब्दो हल्-अन्तः । कन्दर्पः स्वकीयं धनुः किं रसयन् शब्द-विशिष्टं कुर्वन् ॥६४॥
प्रबोधो मोहो वा स्मर-समरम् आरिप्सितम् अनु
द्वयोर् यो योऽराजीन् मधुरिम-भरान् एव स दधे ।
तदात्वभिव्यक्ती-भवद्-अतनु-वैदग्ध्यम् उभयोर्
न भिन्नत्वं प्रेमामृत-किरणतो यद् विरुरुचे ॥६५॥
आरिप्सितं कन्दर्प-समरम् अनु लक्षी-कृत्य द्वयो राधा-कृष्णयोर् यो यः प्रबोधो मोहो वा अराजीत्, स मधुरिम-भरान् एव दधे । एवम् उभयोस् तत्-कालीनाभिव्यक्ती-भवत्-कन्दर्प-वैदग्ध्यं प्रेमामृत-किरणात् भिन्नत्वं न यत् गच्छत् सत् विरुरुचे । तस्मात् तयोः प्रेम-रूप एव कामः, न तु प्राकृतयोर् इव तस्माद् भिन्नः । तथा च, प्रेमैव गोप-रामाणां काम इत्य् अगमत् प्रथाम् [भ।र।सि। १.२.२८५] इति ॥६५॥
इति श्री-कृष्ण-भावनामृते महा-काव्ये
नर्म-विलासास्वादनो नाम
नवमः सर्गः
॥९॥
(१०)