अष्टमः सर्गः
सङ्गव-लीलास्वादनो नाम
रमनीयक-निधौ विधौ वनं
हा प्रविष्टवति सङ्कलय्य गाः ।
गोष्ठ-कैर् अवगतातिवेदना
या न सा भवति गोचरो गिरः ॥१॥
रामणीयक-निधौ विधौ श्री-कृष्णे गाः सङ्कलय्य वनं प्रविष्टवति सति गोष्ठस्य कैः प्राणिभिर् या अतिवेदना अवगता, सा गिरो गोचरो न भवति । पक्षे—तादृश-विधौ चन्द्रे गाः किरणान् प्रातः-काले सङ्कलय्य वनं जलं प्रविष्टवति सति गोष्ठ-कैरवैः गिरि-जलेषु स्थितैः कुमुदादिभिर् या अतिवेदना अवगता ॥१॥
नैव चारयितुम् ईशते स्म गास्
तं विना निज-निज-व्रजाबलाः ।
स्वापयन्त्य इव ता विचित्ततां
स्वां सखीम् इव चिराय शिश्रियुः ॥२॥
व्रजाबला निज-निजाः गाः इन्द्रियाणि **तं **कृष्णं विना चारयितुं नैव ईशते स्म । अत एव सर्वा व्रजाबलाः ताः गाः स्वापयन्त्य इव विचित्ततां मूर्च्छां स्वां सखीम् इव चिरकालं व्यप्य शिश्रियुः आश्रयं कृतवत्यः ॥२॥
सैव काप्य् अखिल-गोप-सुभ्रुवाम्
एकिकैव विपद्-आलिताम् यतो [?] ।
सञ्ज्वरं शमयितुं गृहे गृहे
व्यानशे सपदि योगिनीव ताः ॥३॥
अति अनिर्वचनीया सा विचित्तता एकिका एव निखिल-गोप-सुभ्रुवां विपद्-आलितां विपत्-कालीन-सखितां यतो प्राप्नुवती सती, तासां श्री-कृष्ण-विरह-जन्य-सञ्ज्वरं शमयितुं ताः गोपीः गृहे गृहे व्यानशे । तदानीं सर्वासां मूर्च्छा बभूवेति पर्यवसितार्थः । यथा योगिनी काम-चारित्वात् एकदैव सर्वत्र व्याप्नोति ॥३॥
श्लिष्यसि प्रिय-सखीम् अमङ्गले
किं त्वम् इत्य् असकृद् आलि-तर्जनात् ।
किं भियेव परितत्यजे तया
मूर्च्छयाशु वृषभानु-नन्दिनी ॥४॥
तासां मध्ये ललितादि-सखीभिः प्रबोधिता वृषभानु-नन्दिनी तया मूर्च्छया तत्याजे । तदानीं ललितादि-कर्तृक-प्रबोधनं मूर्च्छा-दूर-कारक-तर्जनत्वेन उत्प्रेक्षते—हे अमङ्गले ! मूर्च्छे ! मम प्रिय-सखीं राधां त्वं किम् आश्लिष्यसि ? स्वस्य भद्रम् इच्छसि चेत् दूरे गच्छ इति असकृत् सखी-तर्जनात् भिया किं तत्याजे ? ॥४॥
चेतना हि गुरु-कष्ट-केतना-
भ्यन्तरं यद् अपि ताम् अवीविशत् ।
आलयस् तद् अपि तां द्विषन्ति न
प्रेम-वस्तु वद कैर् निरुच्यताम् ॥५॥
ननु विरह-ज्वर-शमन-कारिकां मूर्च्छां कथं प्रेमवत्यो ललितादयो दूरीचक्रुर् इति पूर्व-पक्षे प्रेम्नोऽविचिन्त्यत्वम् एव समाधानम् । तद् एवाह—चेतना यद्यपि [गुरु-कष्ट-केतनाभ्यन्तरं] अतिशय-कष्ट-रूप-गृहस्याभ्यन्तरं तां राधाम् अवीविशत्, तदापि आलयस् तां चेतनां न द्विषन्ति, किन्तु उपकारिणीं मूर्च्छां द्विषन्ति, अतः प्रेम-वस्तु कैर् जनैर् निरुच्यताम् इति वद ॥५॥
प्रेषिता ललितया तद्-आलयः
पेशला जनतयाप्य् अलक्षिताः ।
भूभृद्-अन्तिकम् उपेत्य सौरभं
भेजुर् उन्नत-मुदो वन-स्रजः ॥६॥
तदा ललितया प्रेषिताः पेशलाश् चतुरा आलयः जन-समूहेनाप्य् अलक्षिताः सत्यः भूभृद्-अन्तिकं गोवर्धनस्य निकटम् उपेत्य कृष्णस्य [वन-स्रजः] वन-मालायाः सौरभं भेजुः, अत एव ता उन्नत-मुदो बभूवुः ॥६॥
शाद्वलेऽतिशिशिरे सरस्-तटे
गाः प्रवेश्य सखिभिर् विहृत्य सः ।
प्रास्य चान्नम् अपि तैर् धनिष्ठया
नीतम् आप स-बटू रहो हरिः ॥७॥
स कृष्णः शाद्वले कोमल-तृणे स हरिद्-वर्णे अथ च [अतिशिशिरे] शीतले मानस-सरस् तटे गाः प्रवेश्य, एवं विहृत्य विहारं कृत्वा अन्नं प्रास्य च [स-बटुः] मधुमङ्गलेन सह रह एकान्तम् आप ॥७॥
तत्र वीक्ष्य मुदितासु तासु तं
प्राह काचन खनिर् गुण-श्रियाम् ।
रूप-मञ्जरिर् अपार-सौभगा
पृष्ट-यौवत-मणि-प्रवृत्तिकम् ॥८॥
तत्र एकान्ते तं श्री-कृष्णं वीक्ष्य मुदितासु तासु सखीषु, तासां मध्ये गुण-श्रियां खनिर् अथ च अपार-सौभगा काचन रूप-मञ्जरी कृष्णम् आह । कृष्णं कीदृशं ? पृष्टा यौवत-मणेः राधायाः प्रवृत्तिर् वृत्तान्तं येन तम् ॥८॥
नागरेन्द्र भवता यदा पदा-
लिङ्गिता विपिन-भूर् दधे श्रियम् ।
स्पर्धयेव तव गोष्ठ-भूस् तया-
लिङ्ग्यत स्व-सुषमां ददानया ॥९॥
श्री-कृष्णेन पृष्टं राधिकाया वृत्तान्तं रूप-मञ्जरी अन्यापदेशेनाह—हे नागरेन्द्र ! भवता चरणेनालिङ्गिता सती विपिन-भूः श्रियं शोभां दधे । तत् श्रुत्वा तया राधया तव स्पर्धया इव त्वच्-चरण-चिह्नेन प्राप्त-शोभाया वन-भुवः सकाशात् गोष्ठ-भुवोऽधिकां स्वकीय-सुषमां ददानया तया सा गोष्ठ-भूः सर्वाङ्गेन आलिङ्ग्यत । ध्वन्य्-अर्थः स्पष्ट एव ॥९॥
त्वं हरे हरि-मणि-मयीं व्यधाः
क्ष्माम् इमां निज-सवर्णतार्पणैः ।
साप्य् अधास्यत विवर्णतां न चेत्
तां च काञ्चन-मयीं व्यधास्यत ॥१०॥
हे हरे ! त्वं निज-सवर्णतार्पणैः इमां क्ष्मां हरि-मणी-मयीं व्यधाः । स्पर्धया सा राधापि तव पराजयेऽसहिष्णुना अनुकूलेन विधात्रा कृतां विवर्णतां चेत् यदि न अधास्यत, तदा तां क्ष्मां च काञ्चन-मयीं व्यधास्यत । ध्वन्य्-अर्थः स्पष्टः ॥१०॥
गो-रजश्-छुरितम् आस्यम् ईक्षयंस्
त्वं वनौकस इमान् अरोदयः ।
हन्त गो-रजसि चेष्टमानया
स्वालयः किल तयापि रोदिताः ॥११॥
त्वं गोरजश्-छुरितं मुखम् ईक्षयन् सन् इमान् वनौकसः अरोदयः । स्पर्धया तया राधय्आपि गो-रजसि चेष्टमानया सत्या स्वालयः रोदिताः । राधा-पक्षे, गोः पृथिव्याः रजसि । त्वं तु प्राणि-मात्रं अरोदयः, सा तु स्व-सखीर् एवारोदयत् । अत एव तव साम्यं न प्राप्ता इति भावः । ध्वन्य् अर्थः स्पष्टः ॥११॥
किन्त्व् अनीतिर् इयम् ईक्षणाम्बुजे
सन्तताम्बु-जनके तया कृते ।
ते तु पौत्रम् उचितं प्रचक्रतुः
कर्दमोऽम्बुज-भवोद्भवो यतः ॥१२॥
किन्तु राधया इयम् अनीतिः कृता । अनीतिम् एवाह—तया राधया ईक्षणाम्बुजे निरन्तराम्बुजनके कृते । अम्बु-जन्यस्य अम्बु-जनकत्वम् एवानीतिः । ते तु ईक्षणाम्बुजे तु कर्दम-रूपम् उचितं पौत्रं प्रचक्रुतुः । न तु कर्दमस्याम्बुज-पौत्रत्वे सत्य् एव कृतः, तत्र शास्त्र-रीत्या पौत्रत्वं घटयति—कर्दम इति । यतः अम्बुज-भवो ब्रह्मा तद्-उद्भवः कर्दमः । लोक-रीत्या तु नेत्र-स्वरूपाम्बुजाज् जातानि जलानि, तेभ्यः पृथिव्यां कर्दमोऽजायत एवेत्य् अर्थः ॥१२॥
माल्य-केश-वसनादयः समुच्-
छृङ्खलत्वम् अतिसाधवोऽप्य् अधुः ।
भूभुजा विरहितेऽपि नीवृति
स्यात् क्व कस्यचन वा नियम्यता ॥१३॥
राधाया माल्यादयः अतिसाधवोऽपि उच्छृङ्ख्वलत्वम् अधुः । तत्र कारणम् आह—भूभुजा राज्ञा विरहितेऽपि क्व नीवृति कुत्र देशे कस्य वा नियम्यता स्यात् ? प्रकृते राजा कृष्णः, देशः राधाया अङ्गम् ॥१३॥
यत् तवाङ्घ्रि-वनजा-द्वयं
वनोत्सङ्ग एव विहरत् प्रमोदते ।
तत्र विश्वसिति सा न निःश्वसित्य्
उष्णम् एव बहुधापि बोधिता ॥१४॥
राधिका तव विरहेण न पीडिता, किन्तु अत्यन्त-कोमल-चरणस्य तव वन-भ्रमण-जन्य-दुःखेनैव पीडितेति प्रेम्नः परम-काष्ठां भङ्ग्याह—यद् यस्मात् तवाङ्घ्रि-रूप-वनज-द्वयं वनोत्सङ्ग एव विहरत् सत् प्रमोदते । न हि वनजन्यस्य दुःखं पितुर् वनस्य उत्सङ्गे कदापि जायते, प्रत्युत प्रमोद एव इति बहुधा बोधितापि सा राधा तत्र अस्मद्-वाक्ये न विश्वसिति, किन्तु मनोगत-दुःखाद् अत्युष्णम् एव निःश्वसिति । प्रकृते वनं जलं, तस्माज् जातम् अङ्ग्रि-कमल-द्वयम् इत्य् अर्थः । अत्र शब्द-श्लेषम् आश्रित्यैवोक्तम् ॥१४॥
नैव तत्र कटु-शर्कराङ्कुरेत्य्
अर्ध-वाग् अपि सखी मुखोद्गता ।
श्रोत सीम-पतितैव तां परि-
क्रोशयन्त्य् अथ जवाद् अमूर्च्छयत् ॥१५॥
तस्या पीडा-शान्त्य्-अर्थं कया सख्या उक्ता । तत्र नैव कटु-शर्कराङ्कुरेत्य् अर्ध-वाग् अपि राधायाः श्रोत्र-सीमनि पतिता एव तां राधां परिक्रोशयन्ती सती जवात् वेगात् अमूर्च्छयत् । तादृश-शब्द-श्रवणाद् एव तव चरणं शर्करादिना विद्धम् इति बुद्ध्वैव सा मूर्च्छां प्राप्ता । अत्यनुराग-वशात् शर्करादिना न विद्धम् इति, तस्या मनसि नायातम् इति भावः ॥१५॥
हन्त ते प्रियतमः समागतो
वीक्ष्यताम् इति सखी-मृषोक्तिभिः ।
त्वद्-वन-स्रग् अतिसौरभैश् च सा
प्राप्य बोधम् अतिसम्भ्रमं दधौ ॥१६॥
मूर्च्छाया अनन्तरम् । हे राधे ! ते तव प्रियतमः श्री-कृष्णः समागतः उत्थाप्य वीक्ष्यताम् इति सखी-मृषोक्तिभिर् एवं मूर्च्छा-भङ्गार्थम् एवास्माभिः रक्षितायास् तव वन-मालायाः नासिका-संलग्नायाः सौरभैश् च सा राधा बोधं प्राप्य तवागमन-जन्य-लज्जया **अतिसम्भ्रमं दधौ **॥१६॥
आलि नेत्र-मदिरैक-नर्तकः
स क्व ते सखि गृहेऽस्ति निह्नुतः ।
किं प्रतारयसि नैव साक्षि यद्
वक्ति तं किल तद्-अङ्ग-सौरभम् ॥१७॥
मूर्च्छा-भङ्गानन्तरं राधिका आह—हे आलि ! ते तव नेत्र-रूप-खञ्जनस्य नर्तकः स कृष्णः क्व ? हे सखि ! राधे ! गृह-मध्ये निह्नुतोऽस्ति । राधा आह—किं मां प्रतारयसि ? राधे ! नैव प्रतारयामि यद् यस्मात् यस्य कृष्णस्य साक्षि-स्वरूपम् अङ्ग-सौरभम् एव तं कृष्णं व्यक्ति । तस्या मूर्च्छा-भङ्ग-समये सखीभिः सङ्गोप्य स्थापिताया वन-मालाया मध्ये कृष्णाङ्ग-सौरभं वर्तत एव, राधाया अपि कृष्णाङ्ग-सौरभ-प्राप्त्या तस्यागमन-प्रत्ययो जातः ॥१७॥
इत्य् अलम्भि सुखम् एतया मनाक्
तन् न सोढुम् अशकन् मनोभवः ।
एकदैव शर-पञ्चकस्य यल्
लक्षताम् अनयद् एव तां बलात् ॥१८॥
इति गन्ध-हेतुना गृह-मध्ये निह्नुत्य स्थितत्वेन ज्ञानात् एतया राधया मनाक् सुखम् अलम्भि । तत् सुखं कन्दर्पः न सोढुं अशकत् यद् यस्मात् एतां राधां पञ्चशरस्य लक्षतां बलात् अनयत् । पक्षे, लक्ष सङ्ख्या शिष्टतां निर्यकार लक्ष-शब्दोऽपि व्यङ्ग्य-वाचकः ॥१८॥
खिद्यति स्म पतति स्म वेपते
स्माश्रुभिः स्वम् अभिषिञ्चतो गृहम् ।
सा प्रविश्य न भवन् मुखेन्दुना
प्राप शीतलयितुं स्व-लोचने ॥१९॥
त्वद्-आगमन-ज्ञानेन उत्पन्न-कन्दर्प-भावायास् तस्या दशाम् आह—खिद्यतीति ॥१९॥
हा सखी-जन-वचोऽनृतं मनस्
त्वं मुदामृत-समं वृथा कृथाः ।
सञ्ज्वरो द्वि-गुणितो यतो द्यति
त्वाम् इतीयम् अपतत् पुनः क्षितौ ॥२०॥
गृह-मध्ये श्री-कृष्णम् अदृष्ट्वा राधिका आह—हा खेदे हे मनस् त्वम् अनृतं सखी**-जन-वचः मुदा** आनन्देन अमृत-समं वृथा कृथाः, यतः द्विगुणितः सञ्ज्वरः त्वां द्यति खण्डयतीत्युक्त्वा इयं राधा पुनः क्षितौ अपतत् ॥२०॥
त्वां धिग् अस्तु रहितं स्व-बन्धुना
जीवितेत्य् अलघु-गर्हयप्य् अहो ।
नो मनाग् अपि तद् आप लाघवं
प्रत्युतातिगुरु-भारताम् अगात् ॥२१॥
अधुना निन्दति—हे जीवित ! स्व-बन्धुना कृष्णेन रहितं त्वां धिग् अस्तु इति अलघु-गर्हया अधिक-निन्दयापि अहो अत्याश्चर्यं मनाग् अपि तत् जीवितं न लाघवम् आप । प्रत्युत अति-गुरु-भारताम् अगात् । तेन राधायास् त्वां विना जीवन-धारणम् एवातिभारोऽभूद् इति व्यङ्ग्यार्था-बोध्यः ॥२१॥
हन्त कान्त-विरहेऽपि किं महत्
सौकुमार्यम् उदियाय सुभ्रुवः ।
अङ्गकानि यद् असु प्रभञ्जन-
स्पन्दनं च न हि सोढुम् ईशते ॥२२॥
हन्त खेदे, सुभ्रुवो राधायाः कान्त-विरहेऽपि किं महत् सौकुमार्यम् उदियाय उदितम् अभूत् । यत् यस्मात् तस्या अङ्गकानि असु-प्रभञ्जनस्य प्राण-वायोर् अपि स्पन्दनं सोढुं न ईशते, किं पुनर् व्यजनादि-वायोः । अङ्गकेति क्षीणता-व्यञ्जकः कः । अत एव सौकुमार्यस्यावधिर् उक्तः । भङ्ग्या तु त्वद्-विरहेण तस्याः प्राण-वायुर् अपि गत इत्य् अर्थो ध्वनितः ॥२२॥
इत्य् अवेत्य मधुसूदनः प्रियो-
दन्तम् अन्तर्-उद्घूर्णतातुरः ।
बाष्प-पूर्ण-नयने निरुद्ध-वाग्
अक्षिपत् प्रिय-सखास्य-मण्डले ॥२३॥
प्रियाया वृत्तान्तम् अवेत्य अन्तर्-उद्घूर्णतः आतुरः कृष्णः शोकेन रुद्ध-वाक् सन् बाष्प-पूर्ण-नयने मधुमङ्गलस्य मुखे अक्षिपत् । मम वचनासामर्थ्यात् प्रत्युत्तरं त्वयैवोच्यताम् इति भवः ॥२३॥
ताम् उवाच बटुर् आनय द्रुतं
राधिकां कनक-पद्मिनीं वनम् ।
अन्यथा किम् अवनं भवेद् गतिः
सैव हन्त मधुसूदनस्य यत् ॥२४॥
श्लेषेण वनं जलं पद्मिनीम् आनय । तथा च श्री-कृष्ण-रूप-जलं विना अन्यत्र-स्थापितायाः पद्मिन्याः दुःखे भवतीनाम् अनवधानम् एव कारणम् इति भावः । ध्वनिना तादृशार्थम् उक्त्वा अभिधया श्री-कृष्णस्यासक्तिम् आह—अन्यथेति । अन्यथा पद्मिनीं विना मधुसूदनस्य किम् अवनं रक्षणं भवेत् ? यतस् तस्य सैव गतिः ॥२४॥
माधवोऽथ निज-माल्यम् अर्पयंस् तां
व्यजिज्ञपद् इदं च किञ्चन ।
प्रेयसी-हृदि गतास्तु चम्पक-
स्रङ् ममाद्य सखि सेयम् उद्गता ॥२५॥
माल्यम् अर्पयन् सन् तां रूप-मञ्जरीम् इदं किञ्चन अजिज्ञपत् ज्ञापयमास । ज्ञापनम् एवाह—मम एषा उद्गता स्व-कण्ठाद् उत्तीर्णा चम्पक-माला प्रेयस्या हृदि गतास्तु । पक्षे प्रेयसी राधिकैव चम्पक-स्रक्-रूपा मम हृदि गता अस्तु । उद्गता उत्कर्षेणात्र प्राप्ता सती । तथा च मया दत्तां चम्पक-मालां तस्यां हृदि निधाय राधिका-स्वरूपां चम्पक-मालाम् आनीय मम हृदि देहीति भावः ॥२५॥
वृत्तम् आख्यद् अखिलं समेत्य
सा राधिकाम् अथ तया वर-स्रजः ।
श्लेषेणाप्त-रमणाङ्ग-सौरभैः
स्वीय-जीवितम् अकारि जीवितम् ॥२६॥
तद्-अनन्तरं सा रूप-मञ्जरी राधिकां समेत्य समागम्य निखिलं वृत्तान्तम् आख्यत् । अथ तया राधया वर-स्रजः, श्लेषणेन प्राप्त-रमणाङ्ग-सौरभैः करणैः मृत-प्रायं स्वीय-जीवितं जीवितं जीवन-विशिष्टम् अकारि ॥२६॥
प्रेयसि स्व-विरहोग्र-वृश्चिक-
व्रात-दंश-विधुरे श्रुते पुनः ।
तद्-विष-ज्वलन-जर्जरं तदै-
वान्वभावि निज-मर्म-शर्म-भित् ॥२७॥
राधया स्व-विरह-रूप्ओग्र-वृष्चिक-समूह-दंशनेन विधुरे दुःखिते प्रेयसि श्री-कृष्णे श्रुते सति तस्य कृष्णस्य स्व-विरह-रूप-वृष्चिक-दंशन-जन्य-विष-ज्वलनेन जर्जरं निज-मर्म तदैवान्वभावि । अत एव निज-मर्म कथम्-भूतं ? शर्म-भित् वन-माला-गन्ध-जन्य-सुखं भिनत्तीति ॥२७॥
सूर्य-पूजन-मिषेन वञ्चनं
वाञ्छति प्रिय-सखी-गणे गुरोः ।
सैव गर्ग-तनया-गिराचिराद्
एत्य तत्र जटिलादिदेश ताः ॥२८॥
सूर्य-पूजन-मिषेण गुरोर् वञ्चनं सखी-जने वाञ्छति सति भाग्य-वशात् सैव गुरुर् जटिला एव गर्ग-तनया गार्गी, तस्या गिरा अचिराद् एव तत्र सखीनाम् अग्रे एत्य ताः सखीः सूर्य-पूजायैः आदिदेश ॥२८॥
अर्चनाय विपिने सहस्र-गोर्
अर्बुदायुत-गवाप्ति-हेतवे ।
यात शातम् इदम् अद्य तन्यतां
भास्वता नयन-दैवतेन वः ॥२९॥
अयुत-गवाप्ति-हेतवे सहस्र-गोः सूर्यस्य अर्चनाय यूयं विपिने यात । सरस्वत्या तु सहस्र-सङ्ख्यका गावो विद्यन्ते यस्य कृष्णस्यार्चनाय । अयुत-सङ्ख्यकानां गवां सुखानां श्री-कृष्ण-कान्तीनां वा प्राप्ति-हेतवे इत्य् अर्थः कृतः । नयनाधि-दैवतेन भास्वता सूर्येण वो युष्माकं शातं सुखम् अद्य तन्यताम् । पक्षे—भास्वता कान्तिमता कृष्णेन स तु तासां नयनाधिदेवश् च भवत्य् एव ॥२९॥
सानुकूल-विधिनाधि-नाशिना
साधिताभिमत-सिद्धिर् आलिभिः ।
प्रेष्ठ-रोचितम् अनेकधोचिता
द्रव्य-जातम् अचिरात् समग्रहीत् ॥३०॥
अधि-नाशिना अनुकूल-विधिना साधिताभिमत-सिद्धिः सा राधा आलिभिः सह प्रेष्ठस्य रोचितम् अथ च अनेकधा उचितं द्रव्य-समूहं समग्रहीत् ॥३०॥
मोदकान्य् अमृत-गर्व-सन्ततेर्
मोदकान्य् अकृत राधिका स्वयम् ।
वल्लभानि रमणस्य नो भवेद्
यल्-लभा निधिपति-प्रभोर् अपि ॥३१॥
अमृतस्य गर्व-सन्ततेर् मोदकानि खण्डकानि मोदकानि श्री-कृष्णार्थं राधिका स्वयम् अकृत। कथम्-भूतानि ? रमणस्य श्री-कृष्णस्य वल्लभानि प्रियाणि । येषां मोदकानां लभा प्राप्तिः निधिपतिः कुवेरस् तस्य प्रभोः महादेवस्यापि नो भवेत् ॥३१॥
धूप-दीप-वर-वस्त्र-भूषनाद्य्-
अंशुमालि-यजनेऽस्त्य् अपेक्षितम् ।
तत्-समाहृति-निबन्धनस् तया
यः कृतः कतिपय-क्षणाश्रयः ॥३२॥
तं विलम्बम् अवलम्बनोज्झितः
सोढुम् उत्कलिकयाऽतितीव्रया ।
केशवो न चुलुकी-कृतातुल-स्थैर्य-
धैर्य-जलधिस् तदाशकात् ॥३३॥
[युग्मकम्] अंशु-मालिनः सूर्यस्य यजने यत् धूपादि अपेक्षितं, तस्य समाहृति-निबन्धनस् तया राधया कतिपय-क्षणाश्रयः कृतं विलम्बम् अवलम्बनेन उज्झितः अवलम्बर्थात् निरवलम्बः श्री-कृष्णः अतितीव्रया उत्कण्ठया सोढुं न अशकद् इति पर-श्लोकेन सहान्वयः ॥३२॥ यतः स कृष्णः उत्कण्ठया चुलुकी-कृतोऽतुल-स्थैर्य-धैर्य-रूप-समुद्रो यस्य तथा-भूतः ॥३३॥
प्राहिनोन् मुरलिकां स्व-दूतिकाम्
अच्युतः श्रुति-युगे विधृत्य या ।
प्रेयसीं निज-कलेन लम्भयेत्
कण्ठम् अस्य कनक-स्रजं यथा ॥३४॥
अच्युतः स्व-दूतिकां मुरलीं प्राहिणोत् । या मुरली निज-करेण । पक्षे, निज-कल एव करः, तेन श्रुति-युगे विधृत्य कनक-स्रज-रूपां प्रेयसीं अस्य कृष्णस्य काण्ठे लम्भयेत् । कनक-स्रक् यथा जडतया पर-वशा तथा इयम् अपीति भावः ॥३४॥
सैव सम्भ्रम-तरङ्गिणी महा-
वर्तम् अन्व् अकिरद् एव तां सदा ।
देवतां किम् उ जवाद् अवीविशात्
काञ्चनोपनुदतीं भियो ह्रियः ॥३५॥
मुरली दूती **सम्भ्रम-**रूप-तरङ्गिण्या नद्या महावर्तम् अनु महावर्ते तदा तां राधाम् अकिरद् एव । उत्प्रेक्षाम् आह—मुरली दूती ह्रियो भियश् च लज्जा-भयांश् च अपनुदतीं दूरी-कुर्वतीं काञ्चन देवतां किं तस्या मनो-मध्ये जवां अवीविशत् ॥३५॥
कुत्र वा स्म पततोऽङ्घ्रि-पङ्कजे
पाणि-पल्लव-युगं किम् आददे ।
किञ्चनापि न विवेद सा यतः
स्नापिताश्रु-सलिलैर् अकम्पत ॥३६॥
मुरली-श्रवणात् तस्या दशाम् आह—कुत्र वाङ्घ्रि-पङ्कजे पततः स्म एवं पाणि-युगलं किम् आददे ? यतो मुरली-श्रवणात् सा राधा किञ्चन न विवेद अश्रु-सलिलैः स्नापिता सती अकम्पत ॥३६॥
काननाभिसारणोचितांशुक-
कल्प-वेश-परिधापनोन्मुखीः ।
सा सखीर् अपि विलम्ब-शङ्कया-
क्षिप्य वेषम् अकृत स्वयं तनोः ॥३७॥
काननाभिसरणोचित-वस्त्रादि-परिधापनोन्मुखीः सखीर् अपि सा राधा विलम्ब-शङ्कया आक्षिप्य स्वयम् एव तनोर् वेषम् अकृत ॥३७॥
गोस्तनाख्य-मणि-हार-वेष्टनैर्
द्राङ् नितम्बम् अकरोद् अलङ्कृतम् ।
कण्ठम् अन्व् अधित किङ्किणीं स्रजं
मूर्ध्नि वेणि-शिखरे ललाटिकाम् ॥३८॥
किङ्किणी-बुद्ध्या गोस्तनाख्य-मणि-हार-वेष्टनैर् द्राक् नितम्बम् अलङ्कृतम् अकरोत् । गुच्छ-गुच्छार्ध-गोष्तना इत्य् अमरः । कण्ठम् अनु कण्ठे हार-बुद्ध्या किङ्किणीम् अधित, मूर्ध्णि स्रजम् अधित । वेण्य्-अग्रे ललाटिकाम् अधित ॥३८॥
लोचने मृगमद-द्रवाञ्जित-
भालम् अञ्जन-विशेषकार्चिताम् ।
हन्त यावक-रसेन निर्ममे
स्थासकं तनुम् अनूदिताम्बरा ॥३९॥
अञ्जन-बुद्ध्या मृगमद-द्रवेण लोचने । भालं मृगमद-बुद्ध्या अञ्जन-विशेषकेण अञ्जन-निर्मित-तिलकेन अर्चितम् । तनुम् अनु तनौ उदितत्वरा सा राधा स्थासकं “खोर” इति प्रसिद्धं निर्ममे ॥३९॥
नील-मञ्जुल-निचोल-संवृत-
माधुरीव निरगात् पुराद् बहिः ।
कौमुदीव घनतां गता क्षितौ
किं घनेन निहितात्मनोऽन्तरे ॥४०॥
नील-वस्त्रेणावृतां राधा उत्प्रेक्षते—कौमुदी ज्योत्स्ना किं क्षितौ घनतां निविडतां पक्षे मेघतां गता ? मेघ-वाचकोऽपि घन-शब्द-श्लेषम् आश्रित्य उत्प्रेक्षान्तरम् आह—सा घनेनैव वस्त्र-रूप-मेघेनैव कर्त्रा किम् आत्मनोऽन्तरे मध्ये निहिता ? ॥४०॥
आलीभिः सह पुरोपकानन-
प्रान्त-वर्त्म-निहिताङ्घ्रि-पल्लवा ।
ह्री-क्षपा-क्षय-वशाद् अवगुण्ठनोन्-
मुक्तम् आस्य-कमलं दधे स्फुटम् ॥४१॥
सखिभिः सह पुरस्य उपकानन-प्रान्त-वर्त्म-निहिताङ्घ्रि-पल्लवा राधिका ह्री-क्षपा-क्षय-वशात् लज्जा-रूप-रात्रि-क्षय-वशात् “घोङ्घट” इति प्रसिद्धेन अवगुण्ठनेन मुक्तं आस्य-कमलं स्फुटं व्यक्तं दधे । अवस्या-कार-लोपः । कमल-पक्षे रात्रि-क्षयात् अवगुण्ठनं कमलं-कलिकाया मुदितत्वं, तेन मुक्तं, अत एव प्रस्फुटितं कमलम् ॥४१॥
गीर्-विनोदम् अपि वेणुर् ईहते
साम्प्रतं सकल-शास्त्र-वित् स्वयम् ।
मूकतां पटुतरापि यत् पिक-
श्रेणिर् एति तद् इयं सुसभ्यता ॥४२॥
पुराद् बहिर् निःसरणेन लज्जापगमात् तासां परस्पर-वाग्-विलासम् आह—अयि सखि ! वेणुः पण्डित-जनवत् साम्प्रतं गीर्-विनोदम् ईहते । पण्डित-साधर्म्यम् आह—यतः सकल-शास्त्रवित् । वेणु-पक्षे स वेणुः कलस्य शाष्त्रं वेत्ति । एवं पटुतरापि पिक-श्रेणी यत् मूकतां एति, तद् इयं सुसभ्यता स्वतोऽधिकस्य मूकत्वम् एव सभ्यत्वम् ॥४२॥
वेणुनाह्वयति गा हरौ तृणोद्-
भेदतो द्रुम-मरन्द-वृष्टितः ।
भूर् अपि प्रवर-रोमहर्ष-भाक्
स्वेदिनी च सहसा रसाद् अभूत् ॥४३॥
हे गावः ! समागच्छत इति वेणुना गा इति हरौ आह्वयति सति पृथिवी-प्रभृति-नाना-पदार्थ-बोधकस्य गो-शब्दस्य स्वस्मिन् तात्पर्य-भ्रमेण जारतं यत् श्री-कृष्ण-कर्तृकाह्वानं, तेन पृथिव्य्-आदीनाम् आनन्दोत्थ-भावं वर्णयति बाहुभिः श्लोकैः । तृणोद्भेदतो भूर् अपि रोमहर्ष-भाक्, एवं द्रुम-मरन्द-वृष्टितः स्वेदिनी च अभूत् । रसात् आनन्दात् ॥४३॥
कीर-केकि-पिक-संहतेर् अपि
स्तम्भम् आप रभसात् सरस्वती ।
आप आपुर् अपि निम्नगाश्रिता
यज् जडत्व-मिहका विचित्रता ॥४४॥
गो-शब्दस्य वाक्य-परत्वं जल-परत्वं चाशङ्क्याह—कीरादि-संहतेर् अपि सरस्वती वाणीर् अव्हसात् हर्षात् स्तम्भम् आप । निम्नगाश्रिता आपो जलानि यज् जडत्वम् आपुः तत्र का विचित्रता । यथः सरस्वत्या अपि तात्पर्य-भ्रमेण तादृशी दशा-चेत् निम्नगायास् तस्या जाड्ये किमाश्चर्यम् ॥४४॥
उन्मिषद्-घन-मुद्-अश्रु-धारिणी
द्यौर् अपि स्वम् अतिसौभगास्पदम् ।
साध्व् अमंस्त हिम-मन्द-मारुतैर्
वीजयत्य् अपि दिग्-आलिर् ईलिता ॥४५॥
स्वर्ग-दिक्-परत्वाभिप्रायेणाह—उन्मिषद् घनात् उदयं प्राप्नुवन्-मेघात् मन्द-वर्षा-रूप-हर्षाश्रु-धारिणी द्यौः स्वम् अतिसौभाग्य्स्पदं साधु अमंस्त । पक्षे, उदयन् मेघम् इति स्वस्य विशेषणम् । उदश्रु-धारिणीति स्वतन्त्रं । मन्द-मारुतैः श्री-कृष्णं वीजयतीति दिक्-श्रेणी ईलिता वेणुना स्तुता, अर्थात् आहूता सती स्वं तादृशम् अमंस्त । स्वर्गेषु पशु-वाग्-वज्र-दिङ्-नेत्र-घृणि-भू-जल इति नानार्थः ॥४५॥
शब्द एष न हि कण्ठ-वृत्तिकः
स्व-प्रयोक्तुर् अपि यो विनेच्छया ।
स्वार्थ-मात्र-पर एव सम्भ्रमं
गा नयेद् अतितरां यतोऽखिलाः ॥४६॥
एष शब्दः वेणु-ध्वनिः न हि कण्ठ-वृत्तिकः । यः शब्दः प्रयोक्तुः श्री-कृष्णस्य इच्छया विनापि स्वार्थ-मात्र-पर एव यतः अखिला गाः पृथिव्य्-आदीः सम्भ्रमं नयेत् । पक्षे, एष गो-शब्दः न विद्यते व्यञ्जनादि-रूपा कण्ठ-वृत्तिर् यस्य तथा-भूतः स्व-प्रयोक्तुर् इच्छया विनापि तात्पर्य-भ्रमात् पृथिव्य्-आदि-स्वार्थ-सामान्य-पर एव यतोऽखिला गाः पृथिव्य्-आदीः सम्यक् भ्रमं “माम् एवाह्वयति माम् एवाह्वयति” इत्य्-आदि लक्षणं नयेत् । आलङ्कारिक-मते नानार्थ-शब्दस्य एकत्र शक्तिर् अन्यार्थस् तु व्यञ्जनयैव बोध्यते ॥४६॥
या त्व् अभूद् अभिधया प्रति स्वम्
अप्य् उद्गत-श्रुतिर् अवाप्त सम्मदा ।
हन्त हम्ब इति साप-भाषयै-
वोत्तरं प्रतिददौ गवां ततिः ॥४७॥
या तु गवां ततिः अभिदया नाम्ना, पक्षे शक्त्या प्रोक्तुर् अभिप्रेतया हेतुना, प्रति स्वम् उद्गत-कर्णा अभूत् । सा हम्ब इति अपभाषय इव प्रत्य्उत्तरं ददौ । अत एव भिन्नोपक्रमार्थस् तु-कारः ॥४७॥
वेणुना स्वर-गणाः कृताः सह
ग्राम-जातिभिर् अनेन मूर्च्छिताः ।
मूर्च्छिता यद् अभवन् स्वर्-अङ्गना
एनम् अत्र तद् उपालभेत कः ॥४८॥
अनेन वेणुना गान-प्रभेद-रूपाभिः ग्राम-जातिभिः स्वर-गणा मूर्च्छिताः कृतः । अत्र यद् यस्मात् बिन्द्व्-आगम-भ्रमात् स्वरङ्गना मूर्च्छिता अभवन्, तत् तस्मात् एनं श्री-कृष्णम् अत्र विषये क उपालभेत अनुयोगं दातुं शक्नोति । शकि-लिङ् चेति लिङ् ॥४८॥
पर्वतोऽपल-वरा अपि द्रवं
पर्वतोऽतिशयतः प्रपेदिरे ।
सर्वतोऽप्य् अधिक-कक्खटाः कथं
सर्वतोऽपि दधिरेऽधिकां रतिम् ॥४९॥
पर्वतस्य उपल-वराः प्रस्तर-श्रेष्ठाः अतिशयतः पर्वतः अतिशयोत्स्वात् द्रवं प्रपेदे । सर्व-वस्तुतोऽपि अधिक-कक्खटाः कठोरा उपल-वराः कथं सर्वतो महादेवाद् अपि अधिकां रतिं दधिरे । सर्व-वस्तुतोऽपि एतेषां द्रवातिशयात् । गौरीव सर्वान्तः-प्रधान-भूतेति वासवदत्तायां दन्त्योऽपि सर्व-शब्दः महादेव-वाचकः ॥४९॥
स्वं स्वम् आस्पदम् उपाश्रिता यतः
सम्प्रतं खग-मृगाः पिपासवः ।
प्राप्य वारि परि सारि हारि ते
सम्भ्रमात् पपुर् अपूर्व-कौतुकाः ॥५०॥
स्वं स्वम् आस्पदं वास-स्थानम् आश्रिता एव पिपासवः ते खग-मृगाः यतो मुरली-शब्दात् साम्प्रतं प्रस्तर-द्रव-रूपं वारि जलं प्राप्य सम्भ्रमात् पपुः । कीदृशं जलं ? परि सर्वतः [सारि] प्रसरण-शीलम् । एवं हारि मनोहारि ॥५०॥
कृष्णसार इति नाम-सार्थकं
स्वं दधाव् अयम् अहो दयोदधिः ।
द्वेष्टि नो गिरिधरानुरागिनीः
प्रत्युतैति सुखयन् निजाङ्गनाः ॥५१॥
अयं कृष्णसारः श्री-कृष्ण एव सारो यस्येति सार्थकं स्वं नाम दधौ । यतो गिरिधरानुरागिणीः निजाङ्गनाः नो द्वेष्टि प्रत्युत ताः सुखयन् एति गच्छति ॥५१॥
तास् तु तं सखि विधाय पृष्ठतः
कृष्ण सञ्जिगमिषातितृष्णया ।
यान्त्य एव जडतां श्रिताः श्रुते
वेणु-नाद इह चित्रिता बभुः ॥५२॥
ता मृगाङ्गनाः तं मृगं पृष्ठतो विधाय श्री-कृष्णेन सह [सञ्जिगमिषायां] सङ्गेच्छायाम् अति-तृष्णया यान्त्यः पथि वेणु-नादे श्रुते सति जडतां श्रिताः सत्यः चित्रिता बभुः । तथा चास्माकं स्वामी एव कृष्ण-निकट-गमने प्रतिबध्नाति । आसां तु मुरली इति अस्माकं तासां च फलतः साम्यम् इति ध्वनिः ॥५२॥
पान-काल उदिते ध्वनौ जले
चाश्म-धर्मिणि सितार्द्ध-चञ्चवः ।
आलवाल-गत-पक्षिणः समूत्-
कीर्यमाण-गरुतो विचुक्षुभुः ॥५३॥
जल-पानार्थं आलवाल-गत-पक्षिणः पान-काले वेणु-ध्वनौ उदिते सति एवं जले [अश्म-धर्मिणि] प्रस्तर-धर्मं प्राप्ते सति च सिता बद्धाः अर्ध-चञ्चवो येषां तथा-भूतः सन्तः विचुक्षुभुः क्षोभं प्रापुः । कथम्-भूताः ? सम्यक् उत्कीर्यमाणा ऊर्ध्वे निक्षिप्यमाणा गरुतः पक्षा येषाम् । आपत्-काले आक्षिणाम् अयं स्वभावः ॥५३॥
इत्थम् एव मुरली-स्वनामृतं
वर्णनेन सुरभीकृतं मुहुः ।
कर्ण-चारु-चषकान्तर्-आहितं
ता मिथोऽपि परिवेषितं पपुः ॥५४॥
ता राधाद्याः कर्ण-रूप-पात्रे निहितम् अथ च परस्परं **वर्णना-**द्वारा परिवेषितं च मुरली-स्वनामृतं पपुः ॥५४॥
स्तम्भ-कम्प-पुलकादयो गताव्
अन्तराय-निवहान् न किं व्यधुः ।
किन्तु शीघ्रम् अनुराग एव ताः
प्रापयन् मद-रणाख्य-वाटिकाम् ॥५५॥
तासां गतौ गमने स्तम्भादयः अन्तराय-समूहान् किं न व्यधुः, अपि तु चक्रुर् एव । किण्तु अनुराग एवेति । तथा चाचिन्त्य-योगमायया कृतात् स्थान-सङ्कोचाद् एव तत्र जग्मुर् इत्य् अर्थः ॥५५॥
तत्र सूर्य-सदने प्रविश्य तास्
तं प्रणम्य नुतिभिः प्रसादितम् ।
प्रार्थयन्तु हृदयैक-वल्लभं
देव दर्शय दयोदधे द्रुतम् ॥५६॥
तास् तं सूर्यं प्रार्थयन्त ॥५६॥
पूजनोपकरणस्य रक्षणे
तस्य तद्-विपिन-देवतां तदा ।
सा निरुप्य चलितालिभिः सुखं
स्वं सरः-सरस-रम्य-काननम् ॥५७॥
तस्य सूर्यस्य पूजनेति । सरः कथम्-भूतं सरस-रम्य-कुञ्ज-स्वरूप-काननं यत्र ॥५७॥
व्याततान वृषभानुजा-रुचिर्
भूभृद्-अन्तिक-भुवः परिष्क्रियाम् ।
श्री-हरेस् तद्-अतिदूर-वर्तिनोऽप्य्
उल्ललास सहसा हृद्-अम्बुजम् ॥५८॥
वृषभानुजाया राधाया रुचिः कान्तिः । पक्षे, ज्यैष्ठ-मासीय-सूर्याद् उत्पन्ना कान्तिः भू-भृतो गोवर्धनस्य निकट-वर्ति-भुवः परिष्क्रियां भूषणं व्याततान विस्तारञ्चकार । एवं तस्मात् अतिदूर-वर्तिनो हरेर् अपि हृदय-कमलं सहसा उल्ललास ॥५८॥
भ्राजते प्रियतमालिभिर् वृता
पद्मिनी स्व-सरसी-वनेऽधुना ।
इत्य् अबोधि मधुसूदनस् तदै-
वात्र हेत्व्-अनुपपत्ति-लिङ्गतः ॥५९॥
पद्मिनी-स्वरूपा प्रियतमा राधिका आलिभिर् वृता सती स्व-सरस्या वने कुञ्जे अधुना भ्राजते इति तदैव मधुसूदनः श्री-कृष्णः अबोधि । अत्र हेत्व्-अनुपपत्ति-लिङ्गतः स्व-हृदयोल्लासान्यथानुपपत्ति-प्रमाणतः अबोधि । कमलिणी-पक्षे, अलिभिर् वृता वने जले । मधुसूदनः भ्रमरः ॥५९॥
तद्-दिशोऽथ पवनस् तद्-अङ्गजा-
मोदम् एतम् अनुभावयन्न् अभात् ।
सोऽपि चैनम् अचिरात् तद्-अङ्गजा-
मोद-लालसम् अचुक्षुभद् बलात् ॥६०॥
तस्या राधिकाया दिक्-सम्बन्धी पवनः, तस्या अङ्ग-सम्बन्ध्य् आमोदम् एवम् श्री-कृष्णं अनुभावयन् सन् अभात् । सोऽपि तद्-अङ्गजामोदोऽपि तस्या राधाया अङ्गजामोदे । पक्षे, तद्-विषयक-कन्दर्प-सुखे लालसम् एनं श्री-कृष्णं बलात् अचुक्षुभत् ॥६०॥
वेणु-वादन-विधेर् विरम्य
नैवैष्ट रोद्धुम् अनवस्थितं मनः ।
मालती मधुर-सौरभाकुल-
स्यालिनः क्व नु धृतिस् तया विना ॥६१॥
कृष्णः वेणु-वादन-विधेः सकाशात् विरम्य उत्कण्ठया अनवस्थितं मनः रोद्धुं न ऐष्ट न समर्थो बभूवेत्य् अर्थः । तत्र दृष्टान्तः—मालतीत्य्-आदि ॥६१॥
तं तदैव मधुमङ्गलोऽब्रवीत्
तन्-मनो-गत-विद् एव देववत् ।
किञ्चिद् अस्ति मम पिञ्छ-भूषण
स्वीय-कृत्यम् इति यामि तत्-कृते ॥६२॥
देववत् देवता यथा मनोगतं जानाति, तथा कृष्ण-मनो-गत-वित् मधुमङ्गलस् तं श्री-कृष्णम् अब्रवीत् । हे पिञ्छ-चूड ! मम किञ्चित् स्वीयं कृत्यम् अस्ति, अत एव तत्-कृते तद्-अर्थं यामि ॥६२॥
सूर्य-तीर्थम् अनु गर्ग एष्यति
स्नातुम् अद्य मुनि-वर्ग-वन्दितः ।
ज्योतिषां गति-विधौ बुभुत्सिते
संशयं मम स एव भेत्स्यति ॥६३॥
कृत्यम् एवाह—अद्य मया भागुरि-स्थाने ज्योतिः-शास्त्र-पाठार्थे गतं । तत्र त्व् एको महा-संशयो जातः । स तु भागुरेर् अप्य् असाध्य-समाधेयः । अतोऽहं गर्ग-स्थाने यास्यामीत्य् आह—मदन-रण-वाटिकायां सूर्य-कुण्डे गर्गः स्नातुं एष्यति, अतो मम बुभुत्सिते ज्योतिषां सूर्यादीनां गति-विधौ संशयं स गर्ग एव भेत्स्यति ॥६३॥
प्राह केशि-दमनो मनो ममाप्य्
उच्चचाल तद्-अवेक्षणोत्सुकम् ।
किं त्व् अवेमि बहु-मित्र-सङ्गिता-
प्राभव-प्रथनया नयात्ययम् ॥६४॥
कृष्ण आह—तस्य गर्गस्य । किन्तु बहु-मित्र-सङ्गिता-रूप-प्राभव-प्रथनया विभव-विस्तारेण हेतुना नयस्य नीतेर् अत्ययम् अवेमि जानामि । तथा च महद्-दर्शने दीनो भूत्वा एकाकी एव यास्यतीति नीतिः ॥६४॥
चेद् इयं भवति नीतिर् अत्र ते का
क्षतिस् त्वम् अहम् इत्य् उभाव् इवः ।
स्वस्-तडाग-वर-मध्यम् ईहते
गन्तुम् एष तरणिश् च सत्वरः ॥६५॥
मधुमङ्गल आह—त्वम् अहं उभौ इवः गच्छावः । एष तरणिः सूर्यः सत्वरः सन् स्वर्ग-रूप-तडाग-वरस्य मध्यं गन्तुम् ईहते । तथा च मध्याह्न-समयः प्रायो जातः गर्गोऽपि मध्याह्न-कृत्यार्थं तत्र आगत-प्रायस् तस्मात् शीघ्रं गच्छाव इति भावः ॥६५॥
शेरते स्म धवला इमाः सखे
नीप-षण्डम् अनु मेदुरं पुरः ।
साम्प्रतं शिशयिषून् सखीन् इमान्
मा कदर्थय मुधैव खेलयन् ॥६६॥
हे सखे ! मेदुरं स्निग्धं कदम्ब-षण्डम् अनुलक्षी-कृत्य इमा गावः शेरते साम्प्रतं भोजनानन्तरं [शिशयिषून्] शयनेच्छून् सखीन् अपि खेलयन् मुधा व्यर्थं मा कदर्थय ॥६६॥
इत्य् अकुण्ठ-बटु-पाटवादृतैस्
तैः प्रयातम् इति दत्त-सम्मती ।
जग्मतुः प्रमदलाद् वनाद् द्रुतं
तौ मुदा प्रमदयाश्रितं सरः ॥६७॥
बटोर् मधुमङ्गलस्य इत्य् अकुण्ठ-पाटवेन आदृतैस् तैः सखिभिः, हे मधुमङ्गल ! युवां प्रयातम् इति दत्त-सम्मती तौ परमोदना इति ख्याताद् वनात् द्रुतं प्रमदया राधया आश्रितं सरः कुण्डं जग्मतुः ॥६७॥
क्वागमाव पुरतः सखे न
गोवर्धनः खलु नगोऽयम् ईक्ष्यते ।
भूर् इयं च नहि गोष्ठ-वर्तिनी
शातकुम्भ-मयता यद् एतयोः ॥६८॥
श्री-कृष्णस्य स-चमत्कार-दर्शनार्थं तदाणीं योग-मायया अनावृतया राधा-कान्त्या कनक-मयी-कृतं गोवर्धनं तन्-निकट-वर्ति-स्थलं च दृष्ट्वा श्री-कृष्ण आह—हे सखे ! मधुमङ्गल ! आवां कुत्र आगमाव पुरतोऽयं नगः पर्वतः न गोवर्धनः । एवम् इयम् च भूमिर् न गोष्ठ-वर्तिनी, किन्तु एतयोः [शातकुम्भ-मयता] सौवर्णमयता ईक्ष्यते ॥६८॥
मेरुर् एव किम् इलवृतावृतः
स्पष्टम् आविरभवत् व्रजेऽंशतः ।
किन्तु कान्ति-लहरी-विगाहिनं मां
शरैः किम् इति विध्यति स्मरः ॥६९॥
स्वर्णमय-इलावृत-वर्षेण आवृतः सुमेरुर् एव किम् अंशेन व्रजे स्पष्टम् आविरभवत् ॥६९॥
इति निगदति कृष्णे राधिकालोक-तृष्णा-
मधुरिम-भर-पूर्णा सापि तत्राप घूर्णाः ।
तद्-अपघन-घनानां चारु-राजद्-वनानां
कलित-विपुल-तर्षैः कान्ति-पीयूष-वर्षैः ॥७०॥
मधुरिम-भर एव जलं, तेन पूर्णा सा सरसी-रूपा राधापि, तस्य कृष्णस्य अपघन-घनानां शरीर-स्वरूप-मेघानां **कान्ति-**रूप-पीयुष-वर्षैः, सरसी-पक्षे कान्त्या इच्छया पीयूष-तुल्य-वृष्टिभिः करणैः घूर्णा आप । वर्षैः कीदृशैः ? कलितः कृतः विपुल-तर्षो यैः । पक्षे, कलितः खण्डितः । घनानां कथम्-भूतानां ? चारु राजन्ति वनानि यतः । पक्षे, वनानि जलानि यत्र ॥७०॥
विद्युच् चम्पक-वल्लिकेति जलदस् तापिञ्छ-शाखीत्य् अतद्
भानानि व्यतिदर्शिनोर् यद् अभवन् दूरस्थयोः प्राक् तयोः ।
सोऽयं मे रमणः किम् अत्र रमणी सैवेयम् इत्य् आत्मकं
तद् भानं च तद् आपतुः पुनर् अहो तैर् एव तादात्म्यतः ॥७१॥
परस्पर-दर्शिनोर् दूरस्थयोस् तयोः राधा-कृष्णयोः प्राक् विद्युच् चम्पकलता-मेघ-तमाल-वृक्षेत्य्-आद्य् अतद्-भानानि भ्रमात्मक-भानि अभवन्, अहो आश्चर्यं, पुनस् तैर् लता-वृक्षादि-ज्ञानैर् एव सोऽयं मे रमणः कृष्णः, सेयं मे रमणी राधिका इत्य् आत्मकं तद्-भानं च यथार्थ-भानं च तौ राधा-कृष्णौ आपतुः । ननु लता-वृक्षादि-ज्ञानात् कथं तयोर् भानं? तत्राह—तादात्म्यात् इति । लता-वृक्षादिभिः सहितयोः समानाकाराद् इत्य् अर्थः ॥७१॥
इति श्री-कृष्ण-भावनामृते महा-काव्ये
सङ्गव-लीलास्वादनो नाम
अष्टमः सर्गः
॥८॥
—ओ)०(ओ—
(९)