सप्तमः सर्गः
कानन-प्रयाणानुमोदन-नाम
तिलकाभरणादि-धारणैः
प्रतिबध्नास्य् अथ किं सवित्रि मे ।
अधुनाप्य् अशकं यतो गृहान्
नहि निर्गन्तुम् अहं करोमि किम् ॥१॥
अधुना स्व-स्व-गृह-स्थितानां श्री-कृष्णस्य निकट-गमनार्थम् उत्कण्ठाम् आह—हे सवित्रि ! मातः ! मे मम तिलकादि-धारणैः किं प्रतिबध्नासि ? श्री-कृष्णस्य निकट-गमने प्रतिबन्धं करोषि । यतः अधुनापि इति ॥१॥
निखिला मम मित्र-मण्डली
मिलितैव भवद् अत्र सङ्गवे ।
प्रणयाम्बु-निधिः सखा स मे
वनम् एष्यन् पथि मां प्रतीक्षते ॥२॥
सङ्गवे प्रातः-कालानन्तरं सप्तम-घटिकायाम् । स श्री-कृष्णः वनम् एष्यन् वनं गन्तुं पथि मां प्रतीक्षते । यतः प्रणयाम्बुधिः ॥२॥
कथम् उद्विजसे त्वम् अप्य् अरं
व्रज रक्षा-मणिम् एव तेऽधुना ।
मणि-बन्धम् अनु प्रशान्तिकम्
तनयैषास्मि निबध्नती करे ॥३॥
तस्य माता आह—हे तनय ! कथम् उद्विजसे ? त्वम् अपि अरं शीघ्रं व्रज । किन्तु तव अस्मिन् करे मणि-बन्धम् अनु मणि-बन्धे प्रशान्तिकं रक्षा-मणिम् अधुनैवाहं निबध्नती, अस्मिन् नात्र विलम्ब-लेशोऽपि ॥३॥
न गवां ध्वनिर् अध्वनि श्रुतो
न च सम्प्रत्य् अपि सङ्गवोद्गमः ।
निरगुः सुहृदो न धामतस् तव
तारल्यम् अधास् त्वम् एव किम् ॥४॥
पुनर् आह—तव सुहृदः अन्ये सखायः स्व-धामतो न निरगुः, न निर्गमनं चक्रुः। किन्तु त्वम् एव तारल्यम् अधाः ॥४॥
मणि-काञ्चन-भूषनाञ्चिता
जननी मार्जित-चर्चितादृत ।
अतिरङ्गम् इवानलङ्कृतं
हसिता त्वां सखि-पालिर् एव ते ॥५॥
ते सखि-पालिर् एव त्वां हसिता । सखि-पालिः कथम्-भूता ? मणि-काञ्चनेत्य्-आदि ॥५॥
इति मातृ-कृतोपलालनाद्य्
अपि ते बन्धनम् इत्य् अमंसत ।
विशिख-रुत-मात्र-शङ्कित-
स्व-सखान्त्य्-आगम-विक्लवेक्षणाः ॥६॥
इति मातृ-कृतोपलालनादि ते बालकाः बन्धनम् एवामंसत । कथम्-भूताः ? विशिखा “गली” इति प्रसिद्धा । तत्र रुत-मात्रेण आशङ्कितो यः स्व-सखान्त्यागमस् तेन विक्लवेक्षणाः ॥६॥
वसुदाम-सुदाम-किङ्किणि-
सुबलाद्याः समिता इतस् ततः ।
पुरम् आनशिरे हरेर् इमे
सुख-सिन्धोः पुलिनं यथोर्मयः ॥७॥
इमे वसुदामादयः इतस् ततः समिताः सन्तः हरेः पुरम् आनशिरे व्याप्तं चक्रुः । तत्र नन्द-पुरस्य सुख-सिन्धुत्वेन हरेः पुलिनत्वेन च उत्प्रेक्षम् आह—सुखेति ॥७॥
अथ कश्चन गोप आगतोऽ
वदद् उच्चैः शृणुतेदम् अर्भकाः ।
स गवां भवनेष्व् अवस्थितो
व्रजराजो यद् इह दिदेश वः ॥८॥
कश्चन गोपः नन्द-निकटाद् आगत्य बालकान् प्रति अवदत् । गवां भवने स्थितः स व्रज-राजः वो युष्मान् प्रति यद् आदिदेश तत् शृणुत ॥८॥
स्वपितु क्षणम् अच्युतः सुखं
न भवद्भिह् प्रसभं प्रबोध्यताम् ।
अधुनाद्य मयैव मोचिता
धवावली च विलम्ब्य कल्यताम् ॥९॥
अच्युतः श्री-कृष्णः क्षणं सुखं स्वपितु, भवद्भिः प्रसभं हठात् न प्रबोध्यताम् । युष्माभिर् विलम्बं कृत्वा धवलावली काल्यतां चाल्यताम् ॥९॥
इति ते श्रुतवन्त एव गो-
सदनान्य् एव मुदा प्रतस्थिरे ।
कतिचित् सुबलादयोऽभवन्
निभृतं प्रेष्ठ-सखावरोध-गाः ॥१०॥
कतिचित् रहस्य-वृत्तान्तज्ञाः सुबलादयः निभृतं यथा स्यात्, तथा प्रेष्ठ-सखस्य श्री-कृष्णस्य अन्तःपुरगा अभवन् ॥१०॥
दधतेऽपचितिं हरेर् न चा-
पचितिं प्रेमणि येऽनुयायिनः ।
उपसेदुर् इमे व्रजेश्वरीं
प्रथमं रक्तक-पत्रकादयः ॥११॥
अधुना दासानां तत्कालीन-चेष्टाम् आह—येऽनुयायिनो रक्तकादयः हरेर् अपचितिं परिचर्यां दधते, अथ च प्रेमणि अपचितिम् अपचयं न दधते, इमे दासाः प्रथमं व्रजेश्वरीम् उपसेदुः ॥११॥
अथ कश्चिद् अधात् तयार्पितां
तनयामोदक-मोदकावलीम् ।
अतिवत्सलता-लता-वलत्-
फल-पालीम् इव काञ्चिद् अञ्चिताम् ॥१२॥
कश्चिद् दासः । तया व्रजेश्वर्या । तनयस्य श्री-कृष्णस्य आमोद-जनक-मोदक-श्रेणीम् अधात् । तत्र उत्प्रेक्षाम् आह—यशोदा-स्वरूप-वात्सल्य-लतायाः काञ्चित् अञ्चितां पूजितां प्रेष्ठाम् इति पर्यवसितां बलवत् फल-श्रेणीम् इव । अत्र मोदक-स्थानीयं फलम् ॥१२॥
मणि-चित्रित-दारु-पेटिकान्-
तर-गाम् अंस-तटे वहन्न् असौ ।
शत-कोट्य्-असुतोऽप्य् अथादराद्
अवधानीयतमाम् अमंस्त ताम् ॥१३॥
असौ दासः तादृश-पेटिका-मध्यागतां तां मोदकावलीं स्कन्ध-तटे वहन् सन् शतकोटि-प्राणतोऽपि आदरात् अवधानीयतमाम् अमंस्त ॥१३॥
स्तिमितारुण-चेल-कञ्चुका-
वृत-चन्द्रोपल-चित्र-झर्झरीम् ।
शशि-वासित-नीर-पूरितं
अपरो बिभ्रद् अदभ्रम् आबभौ ॥१४॥
अपरो दासः [शशि-वासित-नीर-पूरितं] कर्पूर-वासित-जल-पूरितां, अथ च तादृश-चन्द्र-कान्त-मणि-निर्मित-चित्र-झर्झरीं बिभ्रत् सन् अदभ्रम् अनल्पं यथा स्यात् तथा आबभौ ॥१४॥
सित-मानस-वृत्तिम् एव ताम्
अनुराग-पिहितां द्रवत्तराम् ।
बहिर् एष जनान् किम् ईक्षयन्न्
अतुलं सौभग-रत्नम् आददे ॥१५॥
सित-झर्झरीं सित-मानस-वृत्तित्वेनोत्प्रेक्षते । एष दासः रक्त-वस्त्राच्छादित-श्वेत-झर्झरी-च्छलेन अन्तः-स्थित्आनुरागेण पिहितां तां शुद्ध-मानस-वृत्तिम् एव बहिर्-जनान् किम् ईक्षयन् सन् अतुलं सौभाग्य-रत्नम् आददे । द्रवत्तरां अनुराग-वशाद् द्रवी-भूताम् । दार्ष्टान्तिकेऽपि तिमित-वस्त्रस्य जल-क्षरणाद् द्रवत्तराम् ॥१५॥
स्फटिकोत्तम-सम्पुटं परोऽ
वहद् अन्तः-फणि-वल्लि-वीटिकम् ।
अधि-कक्षम् अयं दधार किं
शशि-बिम्बं स्व-मनोऽधिदैवतम् ॥१६॥
परो दासः अन्तः-फणि-वल्लि-वीटिकं तादृशं सम्पुटम् अधि-कक्षं कक्ष-तले अवहत् । स्व-मनसः अधिष्ठातृ-दैवतं चन्द्र-बिम्बं किं दधार ? सम्पुटे मनसः सर्वदावधानत्व-द्योतनाय अधिष्ठातृ-दैवतत्वेन चन्द्र उत्प्रेक्षितः ॥१६॥
वसनाभरणाद्य् अनेकधा
दध एकः परिधेयम् ईशितुः ।
द्युमताम् अपि मोहनाय यत्
सुदृशां कार्मणतां प्रपत्स्यते ॥१७॥
एको दासः ईशितुः श्री-कृष्णस्य परिधेयम् अनेकधा वसनाभरणदि दधार । यत् वसनादि द्युमतां सुदृशां मोहनाय “टोना” इति प्रसिद्धां कार्मणतां प्रपत्स्यते ॥१७॥
क्षणतः क्षण-धुक् क्षण-प्रभा-
निभ-कान्ता निविडोपगूहनात् ।
सहसा निरगाद् बहिर् हरिः
कलयन् मित्र-कलाप-जल्पितम् ॥१८॥
हरिः मित्र-समूहस्य जल्पितं [कलयन्] शृण्वन् क्षण-धुक् क्षण-प्रभाया उत्सव-पूरक-विद्युत्-प्रभा [निभ-] सदृश्याः कान्ताया निविडोपगूहनात् क्षणतः क्षण-मात्रेण निरगात् सहसा अतर्कितं यथा स्यात् तथा ॥१८॥
पिदधन् नव-जागुडांशुकं
सहचर्या स तयैव धारितम् ।
किम् उ चञ्चलया चलन् बलान्
मुदिरोऽवेष्ट्यत हातुम् अक्षमाः ॥१९॥
तया सहचर्या राधया धारितं [जागुडांशुकं] पीताम्बरं स श्री-कृष्णः पिदधत् । उत्प्रेक्षाम् आह—चञ्चलया विद्युता कर्त्र्या [हातुम्] त्यक्तुम् अक्षमश् चलन् मुदिरः किं बलात् अवेष्ट्यत ? अर्थात् तयैव । अत्र पीताम्बर-च्छलेन राधयैवावेष्ट्यत इति भावः ॥१९॥
सखीभिर् हसितः सित-द्युति-
द्युति-निन्दि-स्मित-पुष्प-वर्षिभिः ।
रचिताङ्ग-विभूषण-क्रियः
समियायाथ महा-पुरान्तरम् ॥२०॥
स श्री-कृष्णः । सम्भोगादि-चिह्नं दृष्ट्वा प्रिय-नर्म-सखिभिर् हसितः सन् यशोदा-प्रभृतीनां महा-पुरान्तरं समियाय । कथम्-भूतैः ? [सित-द्युतिश् चन्द्रः ।] चन्द्र-द्युति-निन्दि-स्मित-पुष्प-वर्षिभिः । कृष्णः कथम्-भूतः ? सखिभिः सम्भोगादि-चिह्नं दूरी-कृत्य रचिताङ्ग-विभूषण-क्रिया यस्य ॥२०॥
द्युमणि-द्रुत-दण्डनोद्यत-
प्रसरत्-शस्त-गभस्ति-कौस्तुभः ।
शिखि-चन्द्रक-मण्डल-स्फुरत्-
सुर-चापोज्ज्वल-मौलि-मण्डितः ॥२१॥
वेष-प्रकारम् आह—कृष्णः कीदृशः ? द्युमणेः सूर्यस्य शीघ्र-दण्डने उद्यताः प्रसरन्तः प्रशस्त-गभस्तयः किरणा यस्य एवम्-भूतः कौस्तुभो यस्य सः । पुनश् च, मयूर-चन्द्रिका-मण्डले स्फुरता अथ च [सुर-चापस्य] इन्द्र-धनुषः सकाशाद् अपि उज्ज्वलेन मौलिना मुकुटेन मण्डितः ॥२१॥
चल-मौक्तिक-दाम-धामभिस्
तिरयन् बाल-बलाकिकावलीः ।
अलि-पालि-समीलितोल्लसद्-
वन-मालोद्यद्-इद्ध-सौरभः ॥२२॥
पुनश् च [चल-मौक्तिक-दाम-धामभिः] चञ्चल-मुक्ता-मालायास् तेजोभिः करणैः मेघ-सन्निहित-बालक-बक-श्रेणीः तिरयन् तिरस्कारं कुर्वन् । पुनश् च, [अलि-पालि-समीलितोल्लसद्-वन-मालोद्यद्-इद्ध-सौरभः] भ्रमर-श्रेण्या समीलिता संस्तुताया लसद्-वन-माला, तस्या उदयेन इद्धः प्रवृद्धः सौरभो यत्र । पक्षे, तादृश-वन-श्रेण्या उदयेन इद्धः सौरभो गो-समूहो यस्मात् श्री-कृष्ण-स्वरूप-मेघात् ॥२२॥
जननी-जन-नीवृतं द्रुतं
रचयन् हर्ष-पयः-परिप्लुतम् ।
व्रज-ताप-शतापनोदनः
पुरतो यन् पुर-तोरणाद् अभूत् ॥२३॥
जननी-जन एव नीवृत् जन-पदः । तथा च नेत्र-स्तनयोर् हर्ष-पयसा परिप्लुतं तं जननी-स्वरूप-देशं द्रुतं विक्लिन्नं । पक्षे, शीघ्रं रचयन् व्रज-स्थानां ताप-शतापनोदनः कृष्ण-मेघः पुर-तोरणात् सिंह-द्वारात् पुरतोऽग्रे यन् गच्छन् अभूत् ॥२३॥
अथ साम्बिकया किलिम्बया
स्वसृभिर् यातृभिर् अप्य् उदश्रुभिह् ।
सह सा सहसा व्रजेश्वरी
निरगात् ताम् अनु राधिकालिभिः ॥२४॥
अथ सा यशोदा अम्बिका-सहित-किलिम्बादिभिः सह निरगात् । तां यशोदाम् ॥२४॥
वनम् एति मुकुन्द इत्य् अयं
ध्वनिर् एकः स्फुटम् उच्चचार यः ।
विविध-ध्वनि-प्रसूर् भवन्न् अभात्
श्रुति-पालीः स पुरौकसां विशन् ॥२५॥
मुकुन्दो वनम् एति यो ध्वनिः स्फुटम् उच्चचार, स एव [पुरौकसां] व्रज-वासिनां श्रुति-पालीः प्रविशन्, तद्-अनन्तरं विविध-ध्वनि-प्रसूर् भवन् सन् भाति । ध्वनिर् अत्र पुरुषोच्चारितात् मुकुन्दो-वनम् एति शब्दात् स्त्रीणां मुकुन्दो वनम् एतीत्य् आकारक-शब्द उत्पन्नः । तज्-जन्यः शुकादीनां शब्दः एवं क्रमेण नाना-विध-शब्दम् । पक्षे, व्यङ्गञ् च सूते ॥२५॥
अविलम्बम् अतह् सखे व्रजन्
विपिनाध्वाभिमुखीर् विधेहि गाः ।
तनवाम नियुद्ध-कौतुकं
हरिणाद्य क्षिति-भृत्-तटाजिरे ॥२६॥
मुकुन्दो वनम् एतीति शब्दस्य कव्य-प्रकाश-धृत-“गतोऽस्तम् अर्कः” इति[^१६] शब्दस्येवाधिकारि-भेदेन विविध-ध्वन्य्-अर्थान् आह—तत्रादौ सखीनाम् अभिप्रेतं तादृश-शब्दस्य ध्वन्य्-अर्थम् आह—अविलम्बम् इति । हे सखे ! अविलम्बं व्रजन् सन् त्वं विपिनाभिमुखीर् गा विधेहि कुरु । हे सखे ! अद्य हरिणा सह गोवर्धन-तटाजिरे नियुद्ध-कौतुकं वयं तनवाम ॥२६॥
बटवः पटलैः शुभाशिषां
पृषतैः शान्ति-ऋचाभिमन्त्रितैः ।
अभिषिञ्चत दर्भ-पाणयो
हरिम् अग्रे भजताशु निर्वृतम् ॥२७॥
अधुना ब्राह्मणानाम् अभिप्रेतं तादृश-शब्दस्य ध्वन्य्-अर्थम् आह—बटवः ! यूयं शुभाशिषां पटलैर् एवं शान्ति-ऋचाभिमन्त्रितैः पृषतैः बिन्दुभिष् च करणैः हरिम् अभिषिञ्चत ॥२७॥
नय वल्लव मां बलाद् इतो
निज-नप्तुर् मुख-पङ्कजामृतैः ।
शिशिरीकरवाणि लोचने
यद्-ऋते जीवितुम् एव नोत्सहे ॥२८॥
पितामहस्य पर्जन्यस्याभिप्रेतम् आह—हे बल्लव ! यत् नेत्र-शिशिरीकरणं विना **जीवितुम् एव नोत्सहे **॥२८॥
रचयालि मिषं[^१७]** विशारदे
जरती-वञ्चकम् अञ्चकं मुदाम् ।
निभृतेन पथा भजे वने
प्रिय-सङ्केतित-कुञ्ज-मन्दिरम् ॥२९॥**
प्रिया-गणानाम् अभिप्रेतम् आह—हे विशारदे ! आलि ! जरती-वञ्चकम् अथ च मुदाम् अञ्चकं प्रापकं मिषं छलं रचय । अहं निभृतेन पथा वन-मध्ये प्रिय-सङ्केतित-कुञ्ज-मन्दिरं भजे ॥२९॥
सखि किं करवै रवैर् अवैधित-
तर्षा हरि-गोपुरोदितैः ।
वलभीम् अधिरोढुम् अप्य् अहं
न दधेऽस्पन्द-वपुः समर्थताम् ॥३०॥
हरेर् गोपुराद् उदितै रवैः शब्दैः करणैर् अवैधिता वर्धिता तृष्णा यस्याः, एवम्-भूताहं हे सखि ! किं करवै ? किन्तु कृष्णं द्रष्टुम् “आढाली” इति प्रसिद्धां वलभीम् अधिऋओढुं समर्थतां न दधे । यतोऽहं अस्पन्द-वपुः, जाड्योदयात् ॥३०॥
अलकैर् अलम् अत्र संस्कृतैर्
मद्-उरोऽप्य् अस्तुतमाम् अनावृतम् ।
सकृद् अववलोक्य माधवं
सखि जीवेयम् इतो विमुञ्च माम् ॥३१॥
हे सखि ! संस्कृतैर् अलकैर् अलं व्यर्थम् । एवम् अनावृतम् एव मम [उरो] वक्षः-स्थलम्** अस्तु** । तस्मान् मां मुञ्च ॥३१॥
अयि भावि यद् अस्तु तत् पतिः
कुरुतां दण्डम् असह्यम् अद्य मे ।
स्व-गुरोर् अपि पश्यतो व्रजाम्य्
अधुनायं समयो न यत् स्थिरः ॥३२॥
अन्या आह—अयि सखि ! मम अदृष्टे भावि यद् अस्तु तत् असह्यं दण्डं मम पतिः अद्य कुरुतां, तस्मात् पश्यतः स्व-गुरोः पश्यन्तं स्व-गुरुम् अनादृत्य अधुना अहं व्रजामि । यत् यस्मात् श्री-कृष्णस्य अयं गमन**-समयो न स्थिरः** ॥३२॥
अयि दुर्मुखि रारटीषि किं
किम् इहैकैव निरेमि ते गृहात् ।
कलयात्र रुणद्धि का वधूर्
अधूना स्व-स्व-पुराद् विनिर्यती ॥३३॥
अन्या श्वश्रूं प्रत्य् आह—ते तव गृहात् किं एकैवाहम् निरेमि निर्गच्छामि ? का श्वश्रूः **स्व-स्व-पुरान् **निर्गच्छन्तीः वधूर् अधुना रुणद्धि ? अपि तु न कापि इति स्व-नेत्रेण कलय पश्य ॥३३॥
अथ गो-भवनाद् वनाय गा
वनजाक्षः सखिभिः स चारयन् ।
प्रससार मसार-सारभाः
परितोऽग्रे हरितो विलक्षयन् ॥३४॥
अथानन्तरं वनजाक्षः कृष्णः सखिभिः सह गो-सदनात् वनाय गाश् चारयन् प्रससार जगाम । **मसारः इन्द्र-नील-मणिः **कृष्णस्य विशेषणं, दिशो वा विशेषणम् । तत्-पक्षे श्री-कृष्णस्याङ्गकान्य् एव श्याम-वर्णाः । किं कुर्वन् ? अग्रे परितश् चतुर्-दिक्षु हरितो दिश विलक्षयन् दर्शयन् । पक्षे, दिशः दिग्-वासि-जनान् विस्मापयन् विलक्षो विस्मयान्विते ॥३४॥
भवता विरहेण तावता
पितरौ तापितरौ तदात्मजैः ।
पृषतैर् नयनाम्भसां रसाम्
अनु यान्तौ भृशम् अभ्यषिञ्चताम् ॥३५॥
तावता अल्प-काल-मात्र-स्थातव्येन अथ च भवता वर्तमान-कालीनेन विरहेण हेतुना तापितरौ अतिशय-तापिनो पितरौ अनु कृष्णस्य पश्चात् यान्तौ तदात्मजैस् तत्-कालोत्पन्नैर् नयनाम्भसां पृषतैर् बिन्दुभिः रसां पृथ्वीं भृशम् अभ्यषिञ्चताम् ॥३५॥
तनयानवलोक-भाविता
स्मृति-विस्मारित-दैहिक-क्रिये ।
प्रतिमे इव मातरौ तदा
क्षणम् अस्पन्द-तनू अतिष्ठताम् ॥३६॥
तनयस्य श्री-कृष्णस्य अनवलोको भविता भविष्यति स्मृत्या विस्मारिता दैहिक-क्रिया याभ्याम् एवम्-भूते मातरौ रोहिणी-यशोदे प्रतिमे इव ॥३६॥
निदधे परिरम्भ-दम्भतः
स्व-सुते किं स्व-हृद् एव गोप-राट् ।
द्रुतम् एव तदा यद् आततं
स्वम् अचैतन्यम् अतन्यतामुना ॥३७॥
गोपराट् व्रजराजः परिरम्भ-दम्भतः आलिङ्गन-च्छलात् किं स्व-सुते कृष्णे स्व-हृत् मनः निदधे । यत् यस्मात् अमुना व्रज-राजेन तदा परिरम्भणान्तर-क्षण एव स्वं स्वीयम् आततं विस्तृतं अचैतन्यम् अतन्यत विस्तारयामास । तथा च भावि विरह-जन्यात्यन्त-चैतन्य-शून्याद् एव उत्प्रेक्षेयम् इति श्रेयम् ॥३७॥
सुकुमार-कुमार ! चारयन्
सुरभीर् याहि वनाय यासि चेत् ।
अनुयाम वयं च वञ्चयन्
न दृशस् त्वं स्फुटम् अञ्च किं च नः ॥३८॥
हे सुकुमार पुत्र ! चेत् यदि हठं कृत्वा सुरभिश् चारयन् वनाय यासि तदा याहि । किन्तु वयं च अनु तव पश्चात् याम । किं च नोऽस्माकं दृशो वञ्चयन् त्वं स्फुटं न अञ्च न गच्छ ॥३८॥
तनय प्रणयन् नयं नय
स्व-समीपात् क्वचनान्यतो न नः ।
न सहस्व सुहृद्-व्यथां हृदि
स्व-वियोगानल-हेति-हेतुकाम् ॥३९॥
हे तनय ! नयं नीतं प्रणयन् कुर्वन् स्व-समीपाद् अन्यत्र कुत्रापि नोऽस्मान् न नय । एवं तव वियोगानल-ज्वाला-हेतुकाम् अस्मद्-आदि-सुहृद्-व्याथां स्व-हृदि न सहस्व । तथा चास्मद्-आदि-दुःख-स्मरणात् तव पश्चात्-तापो भविषति, अतोऽस्मान् स्व-सङ्गे नय इति भावः ॥३९॥
पुर-भूषण दूषणं त्व् इदम्
नगरी सेयम् इमे गृहाश् च ते ।
त्वयि निर्गत एव नो बलान्
निगिलन्तीव वृथा-स्थितायुषः ॥४०॥
हे पुर-भूषण ! कृष्ण ! इदं दूषणं तु भविष्यति । किं तत् ? तत्राह—ते तव सेयं नगरी इमे गृहाश् च त्वयि निर्गते सति नोऽस्मान् बलात् गिलन्तीव । ननु निगिलने कृते सति युस्माकं जीवनं कथं स्थास्यति ? तत्राह—अस्मान् वृथायुषः । वृथायुर् एव जीवन-स्थितौ कारणम् इति भावः ॥४०॥
**प्रहरा अपि भाविनस् त्रयः
प्रहरिष्यन्त्य् अपयातुम् अक्षमाः ।
न च शीघ्रम् इहैष्यसि त्वम् इत्य्
अत इत्थं करवाम किं वयम् ॥४१॥
अपयातुम् अक्षमास् त्रयः प्रहरा अपि अस्मान् प्रहरिष्यन्ति, त्वं च शीघ्रं न एष्यसि, अतः किं करवाम ? **॥४१॥
अरुणाब्ज-दल-श्रेणि क्व ते
सुकुमारे विमले पदोस् तले ।
तृण-कण्टक-शर्कराङ्किता
क्व नु सा कानन-भूमिर् एषि याम् ॥४२॥
अरुण-कमल-दल-तुल्या श्रीः शोभा ययोर् एवं-भूते तव पदोस् तले वा क्व एवं **यां **भूमिं त्वम् एषि गच्छसि ? सा तृण-कण्टकाद्य्-अङ्किता भूमिर् वा क्व ? ॥४२॥
मृगनाभि-रसोक्षिता क्व ते
नवनीत-प्रतिमेव हा तनुह् ।
क्व नु सूर्य-करा इमे प्रति-
क्षण-वर्धिष्णुतमा विषोल्बणाः ॥४३॥
हा खेदे । कस्तुरी-रसेन युक्ता नवनीत-प्रतिमा-तुल्या तव तनुर् वा क्व ? एवं प्रतिक्षण-वर्धिष्णुतमा अथ च विष-तुल्य्ओल्बणाः सूर्य-किरणाः वा क्व ? ॥४३॥
असवो यद् अमी स्फुटन्ति नो
जनयित्र्यास् तव सौभगोज्झिताः ।
अतिनिष्ठुरता पदे परां
बत साम्राज्य-धुराम् अतो दधुः ॥४४॥
मम प्राणाधिक जीवन्ति इति प्रतिक्षण-न्यक्-काराद् धेतोः सौभगेनोज्झिताः तव [जनयित्र्याः] जनन्या असवः प्राणा यद् यस्मात् न स्फुटन्ति । अतो हेतोऽतिनिष्ठुरता पदे स्थाने **साम्राज्यातिशयं **ते प्राणा दधुः । अत्यन्त-निष्ठुरा बभूवुर् इत्य् अर्थः ॥४४॥
धवलाः परिपान्तु वल्लवाः
स्वयम् एव व्रज-राज एतु वा ।
स्व-हठं न जहासि हा शिशो
कथम् अत्र श्वसितु स्व-बन्धुता ॥४५॥ई
मम वन-गमनं विना गोचरणं कथं भविष्यति ? तत्राह—वल्लवा गोपा एव धवलाः परिपान्तु । यदि गृह-स्वामिनां गमनं विना अधर्मो भावीत्य् उच्यते । तदा व्रज-राज एव गच्छतु । बन्धुता बन्धु-समूहः कथं श्वसितु प्राण-धारणं करोतु ? ॥४५॥
स्तिमिताङ्ग सुमङ्गलामृतैर्
अजनिष्ठाः किम् उ वल्लवान्वये ।
तृण-चारि-गणानुगामिता-
परिभूतिं मृदुलो यद् अन्वभूः ॥४६॥
वात्सल्यस्य परम-काष्ठाम् आह—शोभन-मङ्गल-रूप्आमृतैः करणैः, हे स्तिमिताङ्ग ! कृष्ण ! त्वं किं कथं वल्लवान्वये गोप-गृहे अजनिष्ठाः यद् यस्मात् तृण-चारि-गणानां गवाम् अनुगामिता-रूप-पराभवं एतादृश-मृदुलोऽपि त्वम् अन्वभूः । तस्मात् तव राज-गृह एव जन्म उचितं भवतीत्य् अर्थः ॥४६॥
इति गद्गद-वर्णम् अर्णवो
विनयानां जननी-जनोदितम् ।
अगवम्य विरम्य यानतः
स न तस्थौ न तदा तद्-अग्रतः ॥४७॥
इति अनेन प्रकारेण जननी-जनानां उदितं गद्गद-वर्णं विनयानाम् अर्णवः स श्री-कृष्णः अवगम्य वन-यानतो विरम्य च तासाम् अग्रे न तस्थौ न, अपि तु तस्थाव् इत्य् अर्थः ॥४७॥
अथ निर्यद् अपि स्व-जीवितं
स्थिरता-प्राप्तम् इव प्रबुध्य सा ।
तनयं स्नपितं निजाश्रुभिश्
चिरम् आश्लिक्षद् इमं व्रजेश्वरी ॥४८॥
[निर्यद्] निर्गच्छद् अपि स्व-जीवनं यथा स्थिरतां प्राप्तां, तथैव कृष्णं प्रबुध्य व्रजेश्वरी निजाश्रुभिः स्नपितं तनयं **चिर-**कालं व्याप्य आश्लिक्षत् आलिङ्गनं चकार ॥४८॥
द्रुतम् आत्मज-शर्म-कर्मठाम्
उदिता वत्सलतैव संविदम् ।
स्फुटम् आपिपद् एव तां बलाद्
विनिरस्यैव ततां विचित्तताम् ॥४९॥
आलिङ्गनानन्द-जन्य-विचित्तताया निवृत्ति-कारणम् आह—आत्मजस्य शर्म-कर्मठां रक्षा-बन्धनादि-मङ्गल-कर्मणि कुशलां व्रजेश्वरीं तत्-काले उदित-वात्सल्यम् एव संविदं ज्ञानं द्रुतम् आपिपत् प्रापयामास । किं कृत्वा ? ततां विस्तृतां विचित्ततां बलात् विनिरस्य
॥४९॥
अभिरक्ष्य नृसिंह-नामभिः
सुत-गात्रान्य् अतिमात्र-विक्लवा ।
बलभद्र-सुभद्र-वर्धन-
प्रमुखान् साभिदधे पुरः-स्थितान् ॥५०॥
अत्यन्त-विक्लवा सा यशोदा सुभद्रादीन् अभिदधे ॥५०॥
भवताम् अनुजः सखासवोऽप्य्
अयम् एवेति सदा न वेद्मि किम् ।
तद् अपि प्रतिवासरं प्रसूः
किम् ऋते जीवति पिष्ट-पेषणम् ॥५१॥
भवतां युस्माकम् अयं कृष्णः अनुजः सखा आसवः प्राणाश् च इति किम् अहं न वेद्मि ? तथापि प्रतिवासरं प्रति-दिनं वन-गमण-समये प्रसूर् माता **पिष्ट-पेषणं विना किं जीवति **? ॥५१॥
मृदुलोऽपि चलाग्रणीः सुधीर्
अपि नागात् परिणाम-दर्शिताम् ।
अबलोऽप्य् अतिसाहसी हरिस्
तद् इमं साध्व् अवताभितः स्थिताः ॥५२॥
अयं हरिर् मृदुलोऽपि चञ्चलाग्रणीः सुधिर् अपि परिणाम-दर्शिताम् न अगात् । अत एव यूयम् अभितश् चतुर्दिक्षु स्थिताः सन्तः इमं साधु अवत रक्षत ॥५२॥
न पितुर् न पितृव्य-संहतेर्
न च मातुर् वशतां तथैत्य् असौ ।
भवतां तु यथेत्य् अतोऽर्थना
मम नानर्थकतां प्रपत्स्यते ॥५३॥
असौ कृष्णः पित्र्-आदीनां तथा वसतां न एति यथा भवताम्, अतो मम प्रार्थना न अनर्थकतां प्रपत्स्यते ॥५३॥
यदि कंस-नृशंस-किङ्करा-
सुर-विस्फूर्जितम् ईक्षितं भवेत् ।
द्रुतम् एव तदा पलाय गा
अपि हित्वा निखिलाः समेत नः ॥५४॥
यदि कंसस्य क्रूर-किङ्करासुराणां विस्फूर्जितम् आटोपम् ईक्षितं भवेत्, तदा द्रुतम् एव पलाय गा अपि हित्वा निखिला यूयं ग्राम-मध्ये आगत्य नोऽस्मान् समेत प्राप्नुत ॥५४॥
सुबलोज्ज्वल-कोकिलादयो
न नियुद्धं प्रसभं शुभंयवः ।
तनुतात्म-सखेन खेलनैर्
न किम् अन्यैर् भुवि भूयते नृणाम् ॥५५॥
हे सुलादयः ! शुभंयवः यूयम् आत्म-सखेन श्री-कृष्णेन सह नियुद्धं बाहु-युद्धं न तनुत । अहं शुभयोर् युस् । ननु बालका वयं खेलां विना स्थातुं न प्रभवामः ? तत्राह—नृणां किम् अन्यैः खेलनैर् न भूयते ? किं बाहु-युद्धं विना अन्य-खेलनं नास्ति ? इत्य् अर्थः ॥५५॥
शृणुतापचितौ विचक्षण
अपि भो रक्तक-पत्रकादयः ।
कथयामि निसर्गम् एतयोः
सुतयोर् मतम् अवैतुम् अर्हत ॥५६॥
अपचितौ परिचर्यायां विचक्षणा रक्तकादयो दासाः यूयम् एतयोर् निसर्गं स्वभावं **कथयामि **शृणुत । तं स्वभावं यूयं अवैतुं ज्ञातुम् अर्हथ ॥५६॥
विधुराव् अपि हा क्षुधां न तां
न पिपासाम् अपि कण्ठ-शोषिणीम् ।
स्व-तनूम् अपि नावगच्छतः
खलु खेलार्पित-मानसाव् इमौ ॥५७॥
स्वभावम् एवाह—क्षुधा क्षुधया विधुरौ दुःखिताव् अपि इमौ तां क्षुधां नावगच्छतः यतः खेलार्पित-मानसौ ॥५७॥
सरणिस् तरणि-प्रभा-ज्वलत्-
सिकता सूनुर् अटाट्यतेऽद्य याम् ।
जनके कनकेष्टकालये
वसतीत्य् एतद् अवेक्षते प्रसूः ॥५८॥
अधुना यशोदा व्रज-राजम् आक्षिपति—यां सरणिं पन्थानं सूनुर् अटाट्यते पुनः पुनर् गच्छति, सा सरणिर् अद्य सूर्य-प्रभया उज्ज्वलत्-सिकता बालुका यत्र तथा-भूता । अथ जनके पितरि स्वर्णेष्टका-निर्मित-शीतल-गृहे वसति सति । एतद् एव प्रसूर् माता अवेक्षते ॥५८॥
अनयाप्य् अविपद्यमानया
गृह-कृत्यं विदधानया मया ।
जननीत्य् अभिधा धृता गत-
त्रपया तां स्तुवतेऽप्य् अमी जनाः ॥५९॥
स्वम् आक्षिपति—अविपद्यमानया नन्दस्य दुर्नीति-दर्शनेऽपि अम्रियमानया अथ च गृह-कृत्यं विदधानया कुर्वत्या मया कथं जननीति [अभिधा] सञ्ज्ञा धृता ? अन्य-जनान् अपि आक्षिपति—एतादृशीं जननीम् अपि अमी जनाः स्तुवते ॥५९॥
कुलिशायितता तता ततो
भवतो बन्धुतया निजार्जिता ।
कुसुमायित-हृत्त्वम् आश्रयंस्
तद् अपीमां स्व-गुणैर् अमूमुदः ॥६०॥
श्री-कृष्णम् आह—ततो भवद्-वन-गमन-दर्शनाद् धेतोः तव बन्धुतया बन्धु-समूहेन तता विस्तृता कुलिशायितता वज्रायितता स्वस्य अर्जिता, तद् अपि त्वं तु कुसुमायित-हृदयत्वम् आश्रयन् सन् इमां बन्धुतां स्व-गुनैर् अमूमुदः ॥६०॥
इति मातृ-वचः स च श्रुति-
प्रथितोत्तंसम् इवारचय्य ताम् ।
स्मित-चन्द्रमसो रसोक्षणैर्
अनुतप्तां समधुक्षयन् मनाक् ॥६१॥
स च कृष्णः इति मातृ-वचः श्रुतौ प्रथितोत्तंसम् इव उत्कृष्टत्वेन ख्यात-कर्ण-भूषणम् इव आरचय्य ताम् अनुतप्तां मातरं स्मित-चन्द्रस्य रस-सेचनैः मनाक् समधुक्षयत् प्राप्त-जिवनां चकार ॥६१॥
यमुनोपवनोपकण्ठ-गाः
कलयन्तः सुखम् एव हन्त गाः ।
विलसाम सुगन्ध-शीतले
निविड-च्छाया-तरु-व्रजान्तरे ॥६२॥
अधुना कृष्णः स्वस्य गोचारणे श्रमाभावं साधयितुं प्रत्युत तस्य सुखमयत्वं प्रतिपादयितुं च मातरं प्रत्य् आह—यमुनोपवनोपकण्ठ-गता गाः सुखं कलयन्तः पश्यन्तः । तरु-समूहान्तरे विलसाम ॥६२॥
न च कालन-हेतुकः श्रमः
स ममैष्यत्य् अपि सम्भविष्णुताम् ।
घटनादिषु यद् गवां नवां
मुरलीम् एव विशारदाम् अधाम् ॥६३॥
न च गवां कालन-हेतुकः श्रमः सम्भविष्णुताम् एष्यति । न च तादृश-श्रमो भविष्यतीत्य् अर्थः । यत् यस्मात् गवां घटनादिषु विशारदां नवीनां मुरलिम् एवाहम् अधाम् ॥६३॥
चमरी-चय-लूम-मार्जिता
परिषिक्ता मकरन्द-बिन्दुभिः ।
तरु-षण्ड-निरातपाभितः
प्रचरन् नाभि-मृगातिवासिता ॥६४॥
मृदुलामल-तूलिकेव या-
नुपदं साधु-पदानुभूयते ।
न तु मातर् अवेक्षिता त्वया
प्रसभं या सरणिर् विनिन्द्यते ॥६५॥
(युग्मकम्) हे मातः ! प्रसभं हठात् या सरणिर् विनिन्द्यते, सा त्वया न अवेक्षिता इति पर-श्लोकस्थेनान्वयः । कथम्-भूता सरणिः ? चमरी-समूहस्य पुच्छेन मार्जिता । पुनश् च मकरन्द-बिन्दुभिः परिषिक्ता । नाभि-मृगः कस्तुरी ॥६४॥ या सरणिः मृदुल-निर्मल-तूलिका इव मम पदा अनुपदं प्रतिक्षणं अनुभूयते ॥६५॥
विविध-द्युति-पुष्प-वल्लीभिर्
वलितैर् मन्द-समीर-वेल्लितैः ।
परितः प्रसरज्-झरैर् अरं
शिशिरैः सौरभ-सौभगोदयैः ॥६६॥
पिक-गायक-केकि-नर्तकैर्
भ्रमद्-इन्दिन्दिर-वृन्द-वन्दिभिः ।
क्षितिभृत्-तट-कुञ्ज-कन्दरैर्
मम चेतोऽनुपदं विकृष्यते ॥६७॥
(युग्मकम्) **क्षिति-भृद्-**गोवर्धन-तट-कुञ्ज-कन्दरैर् मम चेतोऽनुपदं प्रतिक्षणं विकृष्यत इति पर-श्लोकेनान्वयः । कथम्-भूतैः ? विविध-कान्ति-विशिष्ट-पुष्प-वल्लिभिर् वलितैः । पुनश् च, मन्द-पवनेन वेल्लितैः कम्पितैः । तत्र-स्थलतायाः कम्पनाद् एव कन्दरस्य कम्पनत्वं । पुनश् च परित इति । अत एव अरम् अतिशयेन शिशिरैः । सौरभेन सौभाग्यस्य उदयो यत्र । पिक एव गायकः, मयूर एव नर्तको यत्र । [भ्रमद्-इन्दिन्दिर-वृन्दं] भ्रमर-समूह एव वन्दी यत्र ॥६६-६७॥
मणि-मन्दिर-वृन्द-शन्दताम्
अनयद् यच्-छविर् एव मन्दताम् ।
सवयश्-चय-भूषितः शये
सुखम् अत्राप्य् अतिखिद्यसे कुतः ॥६८॥
यस्य तादृश-कन्दरस्य च्छविः तव मणि-मन्दिर-समूहस्य शन्दता सुखदत्वं मन्दताम् अनयत् । सवयसां समूहेन पुष्पादिना भूषितोऽहम् अत्र कन्दरायां सुख-शये इति मातरं प्रत्य् उक्तम् । राधा-प्रभृतिं प्रति तु तादृश-कन्दरे प्रेयसीनां समूहेन भूषितः सन् शये । इति हेतोः हे जननि ! कथं खिद्यसे ? ॥६८॥
इति किं च ततद्-दृग्-अञ्चलं
चलितं संसद्-अलक्षितं रहः ।
रमणी-मणि-दृक्-तटी नटी
द्रुतम् आश्लिष्यद् अतिद्रुतां द्रुतम् ॥६९॥
सवयश्-चय-भूषित इत्य् उक्तवतः कृष्णस्य संसदां सभा-स्थ-जनानाम् अलक्षितं चलितं दृग्-अञ्चलं कर्तृ । रहः एकान्ते । रमणी-मणिः राधिका, तस्या दृशोस् तटी एव नटी, तां द्रुतं शीघ्रम् आश्लिष्यत् । तादृश-नटीं कथम्-भूताम् ? आलिङ्गनाद् एव अतिशयेन द्रुती-भूताम् । कृष्णस्य दृग्-अञ्चलं द्रुतं द्रुती-भूतम् ॥६९॥
इतरेतर-वृत्त-वेदना-
चतुरे चारु यद् आहतुः स्म ते ।
तत एव युव-द्वयासवः
स्थिरताम् एतुम् अधुः सुहाससम् ॥७०॥
इतरेतर-वृत्तस्य परस्परं नेत्र-द्वारा अभिसार-प्रार्थना । एवं तत्र सम्मति-रूप-वृत्तान्तस्य या वेदना ज्ञापना तत्र चतुरे ते राधा-कृष्णयोर् दृग्-अञ्चले यत् तादृश-वृत्तान्तम् आहतुः स्म । तत एव युव-द्वयस्य राधा-कृष्णयोः असवः प्राणाः स्थिरतां [एतुम्] प्राप्तुम् अधुना तु साहस-मात्रम् अधुः, पश्चत् स्थास्यति न वेति को वेद ? ॥७०॥
बटुर् आह किम् अम्ब दूनतां
तनुषे स्वां शृणु तत्त्वम् अत्र यत् ।
अधि-काननम् अस्ति यत् सुखं
न च तस्याणुर् अपीह वः पुरे ॥७१॥
मधुमङ्गल आह—हे अम्ब ! स्वां दूनतां कथं तनुषे ? अत्र तत्त्वं शृणु । अधि-काननं कानने यत् सुखम् अस्ति, तस्य सुखस्य अणुर् अपि वो युष्माकं पुरे न च ॥७१॥
कदली-पनसाम्र-दाडिम-
प्रभृतीन्य् आशु निपात्य वृक्षतः ।
परिपक्वतया सुसौरभाण्य्
अशनीयानि तदैव नः सुखम् ॥७२॥
वनस्थ-सुखम् एवाह—कदल्य्-आदि-फलानि वृक्षतो निपात्य अस्माभिर् अशनीयानि । वृक्षतः पातनाद् एव नोऽस्माकं सुखं, न तु गृहे स्थित्वा पक्वस्य । तस्य विस्वादात् ॥७२॥
फल-पल्लव-पुष्प-सङ्ग्रह-
स्पृहया कल्प-लता-ततेर् अयम् ।
वनम् एति सखा न सा भवद्-
भवने साधुतयास्य पूर्यते ॥७३॥
अयं सखा कल्प-लता-ततेः फलादीनां सङ्ग्रहेच्छया वनम् एति । अस्य कृष्णस्य सा स्पृहा भवद्-भवने न पूर्यते । अतिशयोक्त्या कल्प-लता राधाद्या । फल-पल्लव-पुष्पाणि स्तनाधर-हास्यानीति बोध्यम् ॥७३॥
इत्थं बन्धु-कुलातुलाधि-दलनो हम्बा-निनादैर् गवाम्
आहूतोऽतिबुभुक्षयापि तम् ऋते नैकं पदं गच्छताम् ।
तेषां तादृशतां प्रदर्श्य पितरौ यत्नान् निवर्त्याच्युतश्
चक्राब्जादि-पदाङ्कतो वन-भुवं कान्तां मुदामण्डयत् ॥७४॥
इत्थम् अनेन प्रकारेण वन-गमन-सुख-कथनेन बन्धु-वर्गाणां [अतुलाधि] अतुल-मनो-व्यथां दलनः अच्युतः, अतिबुभुक्षयापि तं श्री-कृष्णं विना एक-पदम् अपि न गच्छतां गवां हम्बा-निनादैर् आहूतः सन्, तेषां गवां तादृशतां मा विना एक-पदम् अपि न, गमनाभिमुखतां प्रदर्श्य, पितरौ यत्नान् निवर्त्य चक्राब्जादि-पद-चिह्नेन वन-भूमि-स्वरूपां कान्तां मुदा अमण्डयत् ॥७४॥
मद्-विच्छेद-रुजोऽनुभावकम् अहो चेतः प्रियाणाम् अतस्
तन् नीत्वा निज-सङ्ग एव विपिनं यामीति याते हरौ ।
को नः स्याद् विषयोऽन्य इत्य् अनु ययुस् तेषां दृशो वेश्म तु
स्व-स्व-वर्ष्मभिर् एव संस्कृति-वशान् मुक्तोपमास् तेऽविशन् ॥७५॥
अधुना वनं गच्छतः श्री-कृष्णस्य सङ्गिनां पित्रादीनां मन उत्प्रेक्षते—प्रियाणां समस्त-प्रिय-वर्गाणां चेत एव मद्-विच्छेद-जन्य-पीडाया अनुभावकम् । अतस् तन् मनः निज-सङ्गे एव नीत्वा वनं यामीति विचार्य मनसः ग्रहणं कृत्वा हरौ याते सति, तेषां प्रिय-वर्गाणां दृशोऽपि श्री-कृष्णाद् अन्यः को नोऽस्माकं विषयः स्याद् ? इत्य् अनु श्री-कृष्णस्य पश्चात् ययुः ।
ननु तेषां मन-आदीन्द्रिये श्री-कृष्णेन हृते सति कथं गृह-गमनादि-व्यापार-निर्वाहः ? तत्राह—स्व-स्व-वेश्म गृहं तु वर्ष्मभिः शरीरैः संस्कार-वशाद् अविशन् । मुक्तोपमा इति जीवन्-मुक्ता यथा संस्कार-वशात् देह-व्यापारं कुर्वन्ति, तथेत्य् अर्थः ॥७५॥
इति श्री-कृष्ण-भावनामृते महा-काव्ये
कानन-प्रयाणानुमोदनो नाम
सप्तमः सर्गः
॥७॥
(८)