०६

षष्ठः सर्गः

भोजन-कौतुकानुमोदनः
धाराधर-वपुर् नारायणोऽस्मान् स प्रसीदतु ।
इत्य् एवाध्यापयत् किञ्चित् स नव्यं शुक-शावकम् ॥१॥

स्व-प्रेयसी-दर्शनेन ज्ञातस्य चित्त-क्षोभस्य शान्त्य्-अर्थम् उपायान्तराभावात् तस्या नाम-कीर्तनम् एव किञ्चिन् मिषेण कर्तुम् आरभते—धारेति । धाराधरो मेघः ॥१॥

तत्रापि धाराधरेति धारयन्न् अपठन् मुहुः ।
लालयन् दाडिम-बीजान्य् आशयन्न् अन्तरान्तरा ॥२॥

एकदा समस्ताक्षर-धारणे असमर्थं नवीन-शुक-बालकं पुनः खण्डशः पाठयति—तत्रापीति । धाराधारेत्य् अव्यवहितोच्चारणे कृते राधा-राधेति नाम-कीर्तनं स्याद् इति ज्ञेयम् ॥२॥

बटुम् आह भवान् क्वागात् प्रातः सम्प्रति लक्षितः ।
सखे न खेलाम् अद्राक्षीर् मल्ल-रङ्गाजिरेऽद्य नः ॥३॥
सम्प्रति लक्षितो भवान् प्रातः-काले कुत्रागात्
? ॥३॥

प्रसर्प-सर्पोत्सर्पादि-कौशलं कौ शलन्तु के ।
यद् अकारि मयाधारी दारु-पर्यङ्ग-रिङ्गणम् ॥४॥

मल्ल-स्थलीय-खेलाम् एव विवृणोति—प्रसर्पादीनां खेला-प्रभेदानां यत् कौशलम् अकारि तत् । कौ पृथिव्यां के शलन्तु जानन्तु ? शल-स्थल-पत्म-गतौ शलेर् गत्य्-अर्थस्य ज्ञानार्थत्वात् । दारु-पर्यङ्ग-रिङ्गणं मल्ल-काष्ठस्याग्र-देश-पर्यन्तं देहस्य गमनं मया अधारि । तथा च मया कृतां माल-काष्ठ-धारणम् इति तां प्रसिद्धां खेलां के जानन्त्व् इत्य् अर्थः ॥४॥

चित्र-व्यायाम-वैविध्यं मित्र-वृन्दाभिनन्दितम् ।
तेन प्रत्येकम् आतेने एकेनाजिर् विराजिनी ॥५॥

दण्डवत्-पतितस्य देहस्य क्रिया-विशेष-रूपश् चित्र-व्यायामस् तस्य वैविध्यम् । एवं मित्र-वृन्दाभिनन्दितं च यथा स्यात्, तथा तेन मित्र-वृन्देन सह प्रत्येकम् एकेन मया आजिर् युद्धम् आतेने ॥५॥

उत्थापनावपाताद्यैर् जङ्घा-जानूरु-वेष्टनैः ।
प्रगण्ड-चण्डास्फोटैस् तद्-बाहु-बाहव्य् अयोधयम् ॥६॥

कूर्माकारतया पृथिव्यां स्थितस्य उत्थापनम् । एवम् उत्थितस्य अवपातनाद्यैः करणैः प्रगण्ड-बाहुः, तत्र ये चण्डास्फोटैस् तैश् च तत् मित्र-वृन्दं बाहु-बाहवी यथा स्यात् तथा अहम् अयोधयं युद्धं कारयामास । बाहुभ्यां बाहुभ्याम् इदं युद्धं वृत्तम् इति बाहु-बाहवि ॥६॥

बटुर् आह पटुर् याति मादृशो न दृशोः पदम् ।
अद्राक्ष्यो यद् अधीतिं चेत् त्वां सा व्यस्मापयिष्यत ॥७॥
मादृशः पटुः दृशोः पदं न याति
। मम यत् अधीतिं चेत् यदि त्वम् अद्राक्ष्यः, तदा सा अधीतिर् अध्ययनं त्वां विस्मयम् अकारयिष्यत ॥७॥

किम् अध्यगीष्टा भोः ज्योतिः कुतस् तद् भागुरेर् गुरोः ।
फलं किं तस्य सार्वज्ञ्यं ब्रूहि तन् मे मनोगतम् ॥८॥

श्री-कृष्ण आह—ज्योतिः-शास्त्रम् अधीतिं चेत् मम मनो-गतं ब्रूहि ॥८॥

ब्रवीमि सर्वम् एतत् ते क्षणद् एवात्र को विधिः ।
अधुना तेन लग्नानुसारेण गणनैव हि ॥९॥

श्री-कृष्ण आह—कोऽत्र विधिः प्रकारो वद । प्रकारम् एवाह—अधुनेति ॥९॥

इत्य् उक्त्वाङ्गुलि-पर्वात्त-गणनोऽथाङ्कितावनिः ।
मुहुर् विभाव्य खं पश्यन् कम्पयन् शीर्षम् आह तम् ॥१०॥
अङ्गुलि-पर्वणि आत्ता गृहीता गणना
येन । तथा गणनार्थम् अङ्किता अवनिर् येन सः । तं श्री-कृष्णम् ॥१०॥

एकोऽद्रिर् अस्ति तस्याग्रे रम्या काचिद् उपत्यका ।
तस्यां सरो-द्वयं लग्नं तत्र हंसीम् उपागताम् ॥११॥
अद्रिर्
अत्र गोवर्धनः । तस्य उपत्यका निकट-वर्तिनी भूमिः । तस्यां सरोवर-द्वयं राधा-कुण्डं श्याम-कुण्डं च । हंसीं राधिका-स्थानीयम् ॥११॥

दिधीर्षसि त्वं खेलार्थं सा स्व-यूथेन पालिता ।
नादत्ते त्वत्-कर-ग्राहं त्वं च तत्रातिसाग्रहः ॥१२॥

सा हंसी ॥१२॥

विविधं मिषम् आदत्से तत्र सा न प्रमाद्यति ।
इत्य् एवम् उज्ज्वल-ज्योतिर्-विदाज्ञापि मया सखे ॥१३॥
न प्रमाद्यति
तत्र सावधाना भवतीत्य् अर्थः । उज्ज्वल-ज्योतिर्-विदा मया इत्य् एवम् अज्ञापि। पक्षे, उज्ज्वलः शृङ्गारः ॥१३॥

कृष्ण प्राह महाविज्न ज्ञातम् एव मनो-गतम् ।
लभ्यते वा न वा हंसी साऽद्यैतद् अपि गण्यताम् ॥१४॥
क्षणं स तूष्णीम्भूयाख्यद् ईक्षितं तत्र कारणम् ।
शाखां काञ्चीद् विवर्णाग्राम् आश्रित्यैकत्र तिष्ठता ॥१५॥
तत्-पक्ष-पात-वैचित्रीं पश्यतालक्षितं त्वया ।
सा स्याल् लभ्या सुखेनैवं हंसी वंशी-हृतान्तरा ॥१६॥

तत्र प्राप्तौ कारणं मया ईक्षितम् इति आख्यत् कारणम् एवाह—वैवर्ण्य-युक्तां वृक्षस्य काञ्चित् शाखाम् आश्रित्य अर्थात् तस्य तले एकत्र तिष्ठता, अथ च तस्या हंस्याः “पाङ्ख” इति प्रसिद्धस्य पक्षस्य पात-वैचित्रीं पश्यता त्वया आलक्षितं यथा स्यात् तथा सा हंसी लभ्या, किन्तु वंश्या हृतम् अन्तः-करणं यस्या । आयां भावा—सती मुरली-श्रवणात् पशु-पक्षिणाम् अपि मनो-हरण-प्रसिद्धेः । पक्षे वि- इति वर्णोऽग्रे यस्या एवम्-भूतां शाखाम् अर्थात् विशाखाम् आश्रित्य एकस्मिन् स्थले तिष्ठता, अथ च तस्या विशाखायाः पक्ष-पातस्य साहाय्यस्य वैचित्रीं पश्यता त्वया । यद्यपि वंश्या हृतान्तरा, तथापि विशाखायाः साहाय्यं यत् किञ्चित् वाम्य-दूरीकरणार्थम् इति बोध्यम् ॥१५-१६॥

निर्धारितम् इदं देहि शीघ्रं मे पारितोषिकम् ।
यावान् श्रमस् तं वेत्स्य् एव गणने ग्रह-चालने ॥१७॥
ततः करक-बीजैस् तत्-करौ स समपूरयत् ।
तान्य् अश्नन्न् अब्रवीत् कृष्णं बटुः पीनावटुः पटुः ॥१८॥

तस्य माहात्म्यस्य करौ दाडिम-बीजैः करणैः स श्री-कृष्णः । बटुः कीदृशः ? पीनोऽवटुः स्कन्ध-देशो यस्य ॥१८॥

भो वयस्य वयस्य् अत्र सवयस्य् अपि मय्य् अहो ।
समकारि समः सम्प्रत्य् आदरो भवता कुतः ॥१९॥

भो वयस्य ! कृष्ण ! अत्र वयसि पक्षिणि एवं सवयसि मय्य् अपि दाडिम्ब-बीज-दानेन सम्प्रति सम आदरः कथं त्वया अकारि ? ॥१९॥

एष यन्-नाम पठति त्वं तत्-प्रापक-वेद-भाक् ।
युवयोर् द्विजयोस् तस्माद् आदरोऽर्हति तुल्यताम् ॥२०॥

श्री-कृष्ण आह—एष शुकः यस्य नारायणस्य नाम पठति, त्वं तु तत्-प्रापक-वेद-शास्त्र-भाक् । पक्षे, यस्या नाम राधा राधा इति पठति, त्वं तत्-प्रापक-ज्ञानं भजसे ॥२०॥

किं च विद्वांस् त्वम् एकं तत्-करकं च गृहाण मे ।
इति तद् दत्तम् आदायाहृष्यत् स प्राह चाशिषः ॥२१॥
मह्यं विप्राय यद् अदास् तम् एकं करकं ततः ।
भावि तेऽद्य कर-प्राप्तम् अभीष्टं करक-द्वयम् ॥२२॥

तत् तस्मात् अधिअम् एकं करकं गृहाण । आशिषः आशीर्वादम् ॥२१-२२॥

प्रिया द्विजालीः सन्तर्प्य सखे स्व-लपनामृतैः ।
भोजय स्वस्ति तेऽध्याह्नि भाविनी सुख-सङ्गतिः ॥२३॥

हे सखे ! प्रिया द्विजालीः पक्षि-ब्राह्मण-श्रेणी स्वस्य लपनामृतैर् वचनामृतैः करणैः सन्तर्प्य भोजयते तव स्वस्ति मङ्गलम् अस्तु, किन्तु अद्य अह्नि तव सुख-सङ्गतिर् भाविनी भविष्यति । पक्षे, प्रियाया द्विजालीः दन्त-श्रेणीः स्वकीय-लपनस्य मुखस्यामृतैः सन्तर्प्य भो सखे त्वं जय । अद्य अह्नि भाविन्या प्रियया सह सुखेन सङ्गतिः सुष्ठु अस्ति । आननं लपनं मुखम् इत्य् अमरः ॥२३-२४॥

वत्स किं कुरुषे कृष्ण मा विलम्बस्व साम्प्रतम् ।
स्नाहि निर्व्यूढम् अन्नादि भुङ्क्ष्वा मा शीतलीकुरु ॥२४॥
इति प्रोच्य व्रजेश्वर्या नियुक्तैस् तत्र किङ्करैः ।
अभ्यङ्गोद्वर्तन-स्नान-मार्जनाद्यैर् असेवि सः ॥२५॥

(युग्मकम्) स श्री-कृष्णोऽसेवि ॥२५॥

तत्र तत्रातिदक्षाणाम् अपि प्रेम्नैव साकुला ।
अविचक्षणताम् आविश्चक्रे तेषां कदाचन ॥२६॥

किङ्कराणाम् अविचक्षणतां सा यशोदा आविश्चक्रे कथितवतीत्य् अर्थः ॥२६॥

ततश् च तत् तत् सर्वं सा शिक्षयन्त्य् एव तान् स्वयम् ।
निषिध्यतोऽपि पुत्रस्य चक्रे स्नेह-द्रुतान्तरा ॥२७॥
तान्
किङ्करान् शिक्षयन्ती सा निषिध्यतोऽपि पुत्रस्य तत् तत् सर्वं चक्रे ॥२७॥

पौगण्ड-स्पृग् इवाद्यापि स्तन्यं विस्मर्तुम् अक्षमः ।
सुतोऽयम् एता ह्यो-दृष्ट-जनुषोऽत्यन्त-बालिकाः ॥२८॥
इति शुद्धाशया तत्र तत्र ताः किङ्करीर् अपि ।
निदिश्य कर्हिचिद् याति व्यग्रा सा बहु-कर्मषु ॥२९॥

(युग्मकम्) इति भावनया शुद्धाशया सा कर्हिचिद् दिवसे तत्र तैलाभ्यङ्गादि-कर्मणि ताः किङ्करीर् निदिश्य । भावनाम् एवाह—पौगण्ड-स्पृग् अपि अयं सुतो बालक एव । यतः अद्यापि स्तन्यं विस्मर्तुम् अक्षमः । एवम् एताः किङ्कर्यः अत्यन्त-बालिकाः यतो ह्यो-दृष्टा [जनुः] उत्पत्तिर् यासां तथा-भूताः ॥२८-२९॥

पच्यमानोऽथ पक्तव्ये पक्केऽन्न-व्यञ्जनादिके ।
स्मृते पयसि दध्य्-आदि-विकारे मोदकादिके ॥३०॥
अनुसंहित-पुत्रातिरोचक-द्रव्य-सङ्ग्रहे ।
एकं मनोऽस्यः सर्वत्र चरन्न् अश्रान्तिम् अभ्यगात् ॥३१॥

(युग्मकम्) आवर्तिते दुग्धे । दध्य्-आदि-विकारे शिखरिण्य्-आदौ । पूर्व-पूर्व-दिने अनुसंहिता निर्धारिता यत्र पुत्रस्यातिरोचकता तद्-द्रव्य-सङ्ग्रहे । एवं च दुग्ध-प्रभृति-तत्-तद्-द्रव्य-सङ्ग्रहे तस्या यशोदाया एकं मनश् चरन्न् अपि श्रान्तिं न अभ्यगात् ॥३०-३१॥

स्नातः परिहितानर्घ्य-तडित्-पीताम्बर-द्वयः ।
मुहुर् मार्जित-धूपोत्थ-धूम-शोभित-कुन्तलः ॥३२॥

वस्त्रादिना मुहुर् मार्जितः, पश्चात् अगुरु-धूपोत्थ-धूमेन शोभितः कुन्तलो यस्य ॥३२॥

कङ्कती-शोधित-प्रोत-जातीक-चिकुरावलिः ।
वेल्लितालक-वल्ल्य्-आलवाल-जुटाग-शम्भुकः ॥३३॥

आदौ कङ्कत्या शोधितं, पश्चात् प्रोतं ग्रथितं, जाती-पुष्पं यत्र तथा-भूता चिकुर-श्रेणी यस्य सः । वेल्लिता कम्पिता या अलक-लता सा एव “थामरा”_ _इति प्रसिद्ध आलवालो यस्य एवं-भूतो जुटा-स्वरूपोऽग-शम्भुर् निश्चल-महादेवो यस्य । महादेवस्य चतुर्दिक्सु आलवालस्य प्रसिद्धेः ॥३३॥

मुखेन्दु-राजताख्यायि काश्मीर-तिलकालिकः ।
गण्डेन्दु-सख्य-तरल-कुण्डल-द्युमणि-द्वयः ॥३४॥
मुख-चन्द्रस्य
राजत्वाख्यायि राजत्व-कथन-शीलं केशर-तिलकम् अलिके यस्य । गण्डेन्दुना सह सख्य्आर्थं** तरलश्** चञ्चलः । द्यु-मणिः सूर्यः ॥३४॥

चल-दोः-स्थिर-केयूर-द्युति-चाक्चिक्य-चापलः ।
स्थिरोरश्-चल-हारालि-स्थैर्य-युङ्-मधुरी-धुरः ॥३५॥
चञ्चल-हस्त
-स्थित-स्थिर-केयूर-सम्बन्धि-द्युतिः चाक्चिक्यस्य चापलं यत्र । स्थिर-वक्षसि चञ्चल-हार-श्रेण्याः स्थैर्य-युक्त-मधुर्यातिशयो यत्र ॥३५॥

कोटीन्दु-सूर्य-विजयि-कौस्तुभार्चित-कण्ठ-भूः ।
कुन्द-दामातिसौभाग्य-वाञ्छार्ती-कृत-यौवतः ॥३६॥

कुन्द-दाम्नोऽतिसौभाग्यस्य वाञ्छया आर्ती-कृतो युवति-समूहो येन ॥३६॥

भूषार्चिर्-अर्चिताश्चर्य-वर्य-जागूढ-चार्चिकः ।
विचित्र-किङ्किणी-नाद-वासित-प्रेयसी-श्रुतिः ॥३७॥

भूषणानाम् अर्चिषा कान्त्या अर्चितस्य आश्चर्य-वर्य-जागूढस्य आश्चर्य-श्रेष्ठ-कुङ्कुमस्य “खोर”_ _इति प्रसिद्धश् चार्चिको यस्य । किङ्किणी-नादस्य वासिता वास-स्थानी-कृता प्रेयसीनां श्रुतिर् येन । अथवा, किङ्किणी-नादेन वासिता प्रेयसी-श्रुतिर् येन । ॥३७॥

रत्नोर्मिका-कङ्कणादि-भास्वत्-फुल्ल-कराम्बुजः ।
मञ्जु-शिञ्जान-मञ्जीर-मदिरेड्य-पदाम्बुजः ॥३८॥

ऊर्मिका-कङ्कणादीनां भाः कान्तीः। तद्-युक्त-फुल्ल-कराम्बुजं यस्य । मनोज्ञं शिञ्जानं यस्य एवं-भूतो यो नूपुर-रूपो मदिरः खञ्जनस् तेन ईड्यं पदाम्बुजं यस्य सः ॥३८॥

वस्त्रास्तृतं रत्न-पीठम् अध्यास्य मणि-कुट्टिमे ।
नारायणं स्मरामीति कृष्णो नेत्रे न्यमीलयत् ॥३९॥

(अष्टभिः कुलकम्) पित्रा कृत-नारायण-स्मरणस्यानुकरणं करोमीति बालक-रीतिम् आह—नारायणम् इति ॥३९॥

ध्यान-प्राप्त-प्रिया-बिम्बाधर-पान-मुधैधितः ।
रोमाञ्चिताङ्गस् तन्-नामाङ्कितं मन्त्रं जजाप सः ॥४०॥

स श्री-कृष्णः राधिकाया नामाङ्कितं मन्त्रं जजाप ॥४०॥

अथैत्य कमलः प्राह युवराज व्रजेशया ।
आहूयसे भोजनार्थं मुहुस् तत्रावधीयताम् ॥४१॥

कमलो दासः । व्रजेशया यशोदया मुहुर् आहूयसे ॥४१॥

उत्थाय बटुना कृष्णः प्रविष्टोऽदन-वेदिकाम् ।
निर्निक्ताङ्घ्रि-युगः पीठम् अध्यास्त वसनावृतम् ॥४२॥

बटुना सह । क्षालिताङ्घ्रि-युगः ॥४२॥

श्रीदाम-बलदेवाद्याः सव्य-दक्षिणतोऽवसन् ।
प्रेष्ठान् सखीन् ऋते यस्मान् न भोजन-सुखं सुखम् ॥४३॥

यस्मात् प्रेष्ठान् सखीन् विना भोजन-सुखं न सुखं भवति ॥४३॥

यशोदाहूतयाऽन्नादि रोहिण्या परिवेशितम् ।
आदंस् ते राधया तत् तत् पाणौ ग्राहितया क्रमाद् ॥४४॥

ते कृष्णादयः आदन् भोजनं चक्रुः ॥४४॥

कृष्णः स-तृष्णो नैवात्र बलः कवल-मात्र-भुक् ।
श्रीदामा नाम मन्दाशी सुबलोऽसु-बलोज्झितः ॥४५॥

केवलम् अहम् एक एव अस्यान्न-व्यञ्जनस्य पात्रम् इति बटुः अवदन्न् इति चतुर्थ-श्लोकेनान्वयः । अन्येषाम् अन्न-व्यञ्जनस्य भोजन-पात्रत्वं निराकरोति—कृष्ण इति । अत्र न सतृष्णोर् अपि त्व् अन्यत्रेवेति परिहासो व्यङ्ग्यः । प्राण-बलेन उज्झितः दुर्बलः इत्य् अर्थः ॥४५॥

क्वैषां भक्ष्यैक-तानत्व-राहित्यम् अविदग्धता ।
क्वैतद् अन्नं सुधा-निन्दि स्वयं लक्ष्म्यैव साधितम् ॥४६॥

एषां भक्ष्यैक-तानत्व-राहित्यम् अविदग्धता सा वा क्व ? लक्ष्म्या साधितम् एतद् अन्नं वा क्व ? अत्यन्तासम्भावनायां क्व-द्वयम् ॥४६॥

काव्यं विफलतां किं न याति सत्-कवि-निर्मितम् ।
यत्र गोष्ठ्यां तद्-आस्वाद-लोलुपत्वं न वर्तते ॥४७॥

अत्र दृष्टान्तम् आह—सत्-कवि-निर्मितं काव्यं किं विफलतां न याति ॥४७॥

चतुर्-वर्ग-फलं मूर्तम् एतद् अन्नं चतुर्विधम् ।
अहं केवलम् एकोऽस्य पात्रम् इत्य् अवदद् बटुः ॥४८॥

(कलापकम्) एतच् चतुर्-विधम् अन्नं चतुर्-वर्गस्य मूर्तं फलम् ॥४८॥

श्रीदामोवाच पिण्डोभिः पिचिण्डं पूरय द्रुतम् ।
यद् एव तव सर्वस्वं यद्-अर्थं बटुताम् अधाः ॥४९॥

पिण्डोभिः ग्रासैः । पिचिण्डम् उदरम् । तथा च वाक्-प्रयोगे सति उदर-पूरणे विलम्बो भावीति भावः ॥४९॥

बटुर् आख्यद् अरे मूर्ख गोपस् त्वं किं नु वेत्स्यसि ।
रसास्वादं स्व-धर्मार्थं गा रोद्धुम् अटवीम् अट ॥५०॥

भोः ! त्वं किं रसास्वादं वेत्स्यसि प्राप्स्यसि ? अपि तु स्व-धर्मेति ॥५०॥

पश्यैषोऽहम् अनूचानो विप्रो यैर् मन्-मुखे हुतम् ।
तैर् इष्टः सर्व-यज्ञेन भगवान् एव केवलम् ॥५१॥

अनूचानो विप्रोऽहं यैर् जनैर् मन्-मुखे हुतं, तैः सर्व-यज्ञेन भगवान् केवलम् इष्टः । गुरोः सकाशात् साङ्ग-वेदाध्यायी अनूचानः ॥५१॥

श्रीदामोचे श्रुति-स्मृत्योर् वर्त्मापि शत-जन्मसु ।
त्वया परिचितं नैव विप्रत्वे सूत्रम् एव ते ॥५२॥

पूर्व-पूर्व-शत-जन्मसु श्रुति-स्मृत्योर् वर्त्म अपि त्वया नैव परिचितम् ॥५२॥

कृष्णह् प्राह बटोर् अस्ति रस-शास्त्रेऽनुशीलनम् ।
व्यञ्जनानेक-तात्पर्य-लक्षणाभिज्ञता यतः ॥५३॥

यतः व्यञ्जना-वृत्ति-तात्पर्य-लक्षणानाम् अभिज्ञता अस्यास्ति । व्यञ्जना-वृत्तिर् व्यञ्जन-वृत्तिश् च भवति । पक्षे, सूपादि-व्यञ्जनानां तात्पर्यं तत्-परता तस्य लक्षणस्य चाभिज्ञता यतः ॥५३॥

बटुर् आह षड् एवात्र रसा न त्व् अष्ट मन्-मते ।
षोढैव
[^१२]** न्याय्य आस्वादो यत् षड् एवेन्द्रियाणि नः ॥५४॥**

अधुना शृङ्गाराद्य्-अष्टानां रसत्वं निराकृत्य मधुराम्लादि-षण्णां रसत्वं मधुमङ्गलो व्यवस्थापयति । तस्मात् षड्-विध-रसानां षोढा एवास्वादो न्याय्यः यत् यस्मात् नोऽस्माकं रसास्वादकाः षड् एवेन्द्रियाणि । मधुमङ्गलस्य मते बहिर्-इन्द्रिय-जन्य एव रसानाम् आस्वादः, अत एव रसास्वादस्याष्ट-विधत्वाभावात् रसोऽपि नाष्ट-विधः ॥५४॥

पश्य सौरूप्य-सौरभ्य-माधुर्य-मृदुतादिभिः ।
भुक्तौ सौस्वर्या-हर्षाद्यैः षट् स्वादान् षड्भिर् इन्द्रियैः ॥५५॥

षड्-इन्द्रिय-जन्यास्वादान् विशिष्य वर्णयति—भुक्तौ भोजन-समये षड्भिर् इन्द्रियैः षट्-स्वादान् पश्य । अत एव दीर्घ-शष्कुली-भोजन-समये एकदैव षद्-इन्द्रिय-जन्य-ज्ञानम् इति सिद्धान्तः ॥५५॥

रसा ह्य् अष्टाव् इति प्राहुर् ये तेऽपि व्यञ्जनाश्रिताः ।
व्यञ्जनाभिज्ञता लेशोऽप्य् एषां किन्तु न वर्तते
[^१३]** ॥५६॥**

ते पण्डिता अपि व्यञ्जनाश्रिताः, व्यञ्जना-वृत्त्य्-आशयणं विना रसस्यासिद्धेः । सूपादीनाम् एव व्यञ्जनत्वम् अभिप्रेत्याह—व्यञ्जनेति । एषां पण्डितानाम् ॥५६॥

विहाय शाक-सूपादीन् विहायं ते धयन्ति यत् ।
तन् नीरं प्रकटं हित्वा धावन्त्य् एव मरीचिकाम् ॥५७॥

यद् यस्मात् ते पण्डिताः सूपादीन् विहाय, विहायः आकाशं, तथा चामूर्ताकाश-स्वरूपम् अमूर्तं शृङ्गारादि-रसं धयन्ति आस्वादयन्ति ॥५७॥

कारणं रस-निष्पत्तौ चर्वणेनेति तज् जगुः ।
चर्वन्तु परिचोष्यन्ति न पितुर् जन्म-कोटिभिः ॥५८॥

तत् तस्मात् चर्वणात् रस-निष्पत्तिर् इति तेषां सिद्धान्तात् । व्यञ्जनस्यैव चर्व्यत्वं, न तु रसस्य अमूर्तत्वाद् इत्य् अभिप्रायेणाह कारणम् इति ॥५८॥

रामः प्राह रसास्वादे केऽनुभावा भवन्-मते ।
के वा सञ्चारिणः को वा स्थायी स स्वाद्यते कथम् ॥५९॥

भवन्-मत-सिद्ध-रसास्वादे । स रसः कथं केन प्रकारेणास्वाद्यते ? ॥५९॥

बटुर् ऊचे यद्-अप्राप्त्या पूर्वम् एवाश्रु मे भवेत् ।
प्राप्त्या तु व्यञ्जनस्यास्य पुलकास्य-प्रसन्नते ॥६०॥

तत्र प्रथमतोऽष्ट-सात्त्विकान्य् एवाह—येषां व्यञ्जनादीनाम् अप्राप्त्या रसास्वाद-पूर्वम् एव मे मम अश्रु भवेत् । मन्-मते अश्रु-रूपानुभावो रसास्वाद-पूर्वम् एव जायते । अस्य व्यञ्जनस्य प्राप्त्या तु पुलक-मुख-प्रफुल्लता भवतः ॥६०॥

वर्णस्य स्निग्धता तृप्त्या वैवर्ण्यं तच् च पश्य मे ।
भुञ्जन एव यद् वच्मि स्वरो मे तेन भिद्यते ॥६१॥

तृप्त्या हेतुना वर्णस्य स्निग्धता जाता, अतो वैवर्ण्यं तच् च मे शरीरे पश्य । स्वर-भङ्गम् आह—भुञ्जनेति । भोजन-समये यद् यस्माद् अहं वच्मि, तेन हेतुना मे स्वरो भिद्यते ॥६१॥

स्तम्भो मे भूरि-मिष्टान्न-भोजनाशक्ति-दुःखजः ।
प्रस्वेदः प्रकटोऽन्ते तु प्रलयो बहु-भक्षणात् ॥६२॥

बहु-भक्षणाद् भोजनान्ते प्रलयो भविष्यति ॥६२॥

आलस्य-चिन्ता-स्वापाद्याः स्पष्टाः सञ्चारिणोऽत्र नः ।
स्वाद्यत्वेनैक एवापि स्थायी तु विविधाभिधः ॥६३॥

चिन्तात्र समग्र-भोजने । स्वाद्यत्वेन एकोऽपि स्थायी विविध-सञ्ज्ञको भवति ॥६३॥

शाकाः सुकृत-पाकाप्ताः सूपो भूपोपलब्धिदः ।
भृष्टा दृष्टाः क्व वा केन केनाप्य्
[^१४]** एतेऽतिदुर्लभः ॥६४॥**

विविध-सञ्ज्ञाम् एवाह—सुकृतस्य पुण्यस्य पाकेन प्राप्ताः । अहं रजेत्य् उपलब्धिदो भवति । भृष्टाः पदार्थाः केन क्व वा दृष्टाः । एते व्यञ्जनादयः । केनापि विधात्रापि अतिदुर्लभः ॥६४॥

पर्पटा किम् अमी श्वेत-कर्पटा इति वेद कः ।
भाजी राजीववत् फुल्ल-नेत्रयोर् हर्ष-वर्षिणी ॥६५॥
बटका नटकान् कर्तुम् अस्मन् शक्तिं दधत्य् अमी ।
अम्लानि म्लानि-दायिनि सुधाया अपि सर्वथा ॥६६॥

“पाम्पड” इति प्रसिद्धाः पर्पटाः । श्वेत-कर्पटा[^१५] वस्त्राणि को वेद ? पद्मवत् फुल्ल-नेत्रयोर् हर्ष-वर्षिणी भाजी । “तरकारी” इति प्रसिद्धस्य व्यञ्जनोपयोगि-वस्तुनः पक्व-दशायां भाजादी-प्रत्ययेन भाजीति रूपम् इति ॥६५-६६॥

पायसोऽपाय-सोद्विग्न-चेतसश् चिन्त्य एव मे ।
मनसा पनसाम्रादिष्व् इष्यते स्व-लयो मुहुः ॥६७॥

पायसस्य अपायेन विघ्न-सन्देहेन सोद्विग्न-चेतसो मे मम पायसश् चिन्त्यः । पनसाम्रादिषु मनः स्वस्य लयम् इच्छति ॥६७॥

रसाला किं रसालामो रसालानम् अथापि वा ।
रसालाभेन यस्या मज्-जनुर् मज्जति धिक्-कृतौ ॥६८॥

रसाला पानक-भेदः । सा रसस्य आरामः, र-लयोर् ऐक्यात् । अथवा, रस-रूप-हस्तिनः आलानं बन्धन-स्तम्भः । यस्या रसालायाः रसस्यालाभे मज्-जन्म धिक्-कृति-समुद्रे मज्जति ॥६८॥

सन्धानम् अनुसन्धानं स्वस्मिन् मच्-चेतसोऽतनोत् ।
दुर्लभाश् चन्द्र-बिम्बाभा रोटिकाः कोटि-काञ्चनैः ॥६९॥

“सोन्ध्ना” इति प्रसिद्धं सन्धानं कर्तृ स्वस्मिन् मच्-चेतसोऽनुसन्धानम् अतनोत् । कोटि-काञ्चनैर् अपि दुर्लभाः ॥६९॥

आज्याभ्यक्तानि-भक्तानि मन्ये काञ्चन वारिणा ।
स्नापितानीव सौरभ्यं येषां सौलभ्यम् अभ्यगात् ॥७०॥
गोदन्त-कृत-घासादि-घ्रायिण्यां गोप-संसदि ।
कृत-पुण्यस्य मे भूरि-भोग-भाजः प्रसङ्गतः ॥७१॥

भक्तानि अन्नानि । येषां सौरभ्यं गोप-संसदि सौलभ्यम्, अभ्यगाद् इति पर-श्लोकेन सहान्वयः । संसदि कथम्-भूतायां ? गोदन्त-च्छिन्न-घासादि-घ्रायिण्याम् । अनेन परीहासः कृतः । एवम् भूतानां गोपानां एतादृशान्नस्य सौरभ्य-प्राप्तौ कारणम् आह—भूरि-भोग-भाजः कृत-पुण्यस्य च मम प्रसङ्गतः सङ्गात् ॥७०-७१॥

वने विप्रास् तपस्यन्ति पत्र-मूल-फलाशनाः ।
बटोस् ते नाधिकारोऽस्ति भोगे याहि तपश् चर ॥७२॥

श्रीदामा प्राह—वने इति ॥७२॥

सत्यं भो यैः पुरा तप्तं पत्र-मूल-फलादिभिः ।
परिणम्य जनुष्य् अत्र व्यञ्जनत्वेन तैर् मम ॥७३॥
भौम-स्वर्ग-जुषः साधु प्रत्यक्षीभूयतेऽन्वयम् ।
इति जानीत भोगोऽयम् अतप्त-तपसः कुतः ॥७४॥

तैः पत्र-मूल-फलादिभिः अत्र जन्मनि व्यञ्जनत्वेन परिणम्य भौम-स्वर्ग-जुषो मम प्रत्यहं प्रत्यक्षी-भूयते इति पर-श्लोकेन्वयः ॥७३-७४॥

मत्-तपः-पवन-स्पृष्टा अचीचरत गा वने ।
तदापीत्य् अधुनाभूत यूयं मद्-भोग-भागिनः ॥७५॥

तदा पूर्व-जन्मनि मदीय-तपसः पवन-स्पृष्टाः सन्तः यूयं वने गा अचीचरत, अधुनापि मद्-भाग्येनैव यूयं मद्-भाग-भागिनोऽभूत ॥७५॥

इति जाति-स्मरोऽवोचम् एषां पूर्व-जनोः कथाम् ।
तस्मात् तद्-दक्षिणात्वेन मह्यं दापय पायसम् ॥७६॥

एषां पूर्व-जन्म-कथाम् अहम् अवोचम् इति हेतोः अहं जाति-स्मरः ॥७६॥

सत्यं जाति-स्मरायास्मै वाग्-व्यय-श्रम-कारिणे ।
तपस्विनेऽतिविज्ञाय प्रचुरं देहि पायसम् ॥७७॥
इत्य् उक्त्वा सा व्रजेश्वर्या रोहिणी स्मयमानया ।
यावद् ददाति तावत् तां निषिध्यन् सुबलोऽब्रवीत् ॥७८॥

(युग्मकम्) मधुमङ्गलस्य वचो निशम्य यशोदापि स-कौतुकम् आह—सत्यम् इति ॥७७॥ इति स्मयमानया व्रजेश्वर्या उक्ता सा रोहिणी पायसं यवद् ददाति ॥७८॥

एवं चेत् प्रथमं प्राप्तुम् अर्हन्त्य् एते बली-मुखाः ।
वाग्-व्यय-श्रमिनोऽत्रापि जनुष्य् एते तपस्विनः ॥७९॥

एवं चेद् बलि-मुखाः बानरा एव प्रथमं प्राप्तुम् अर्हन्ति । प्रथम-प्राप्तौ कारणम् आह—वाग्-व्ययेति ॥७९॥

शीतोष्णा-वात-सहनाः पत्र-पुष्प-फलाशनाः ।
जाति-स्मराः कथं न स्युः कोऽमीषां वेत्ति विज्ञताम् ॥८०॥

तपस्वित्वम् एवाह—शीतोष्णेति । ईती जाति-स्मराः कथं न स्युः ? यतः अमीषां विज्ञतां को वेत्ति ? एषां शब्द-जन्य-बोधानुदयात् याति स्मरणाभावः निश्चयो नास्ति ॥८०॥

कृष्णः प्राह सखे विप्रा ब्रह्मोपासन-तत्पराः ।
कीशाः कुक्षिम्भरा एषां द्वयेसां महद् अन्तरम् ॥८१॥

हे सखे ! सुबल ! कीशा वानराः ॥८१॥

अस्य कीशस्य चावैमि न किम् अप्य् अन्तरं हरे ।
नरत्वं वानरत्वं वाऽनयोर् भेदे न कारणम् ॥८२॥

सुबल आह ! अस्य मधुमङ्गलस्य वानरस्य च किम् अपि अन्तरं न जानामि । किन्तु स्वभावतोऽभिन्नयोर् अनयोः नरत्वं वानरत्वं वा भेदे कारणं न भवति । वस्तुतस् तु वा विकल्पे नरत्वम् इति व्युत्पत्त्या वानरस्यापि नरत्वं वर्तते ॥८२॥

किं च ख्यापयता तेन लोकेऽपूर्वं स्व-विज्ञताम् ।
बृहत्त्वत् बृंहनत्वाच् च स्व-कुक्षिर् ब्रह्म मन्यते ॥८३॥

लोके अपूर्वां स्व-विज्ञतं ख्यापयतानेन मधुमङ्गलेन ब्रह्म-पदस्य व्युत्पत्ति-लभ्यात् बृहत्वाद् बृंहणत्वाच् च स्व-कुक्षिर् एव ब्रह्म मन्यते । तस्य कुक्षौ एतादृश-धर्म-द्वयस्य सत्त्वात् ॥८३॥

अतस् त्रिषवणं तस्य ध्यायता पूर्ति-साधनम् ।
स एवोपास्यतेऽनेन नैष्ठिक-ब्रह्मचारिणा ॥८४॥

त्रिषवणं त्रिकालं तस्य पूर्ति-साधनम् । स एव उदर एव ॥८४॥

कदाचिद् भूरि-पक्वान्न-ग्रसनावेश-सम्भ्रमैः ।
कीशायितं स्यात् पाणिभ्यां भुञ्जानस्यास्य लाघवैः ॥८५॥

कदाचित् समये भूरि-पक्वान्न-ग्रसनावेश-सम्भ्रमैः करणैर् यानि, तैः पाणि-द्वयाभ्यां भूञ्जानस्यास्य कीशायितं कीशवद् आचरितं स्यात् । वानरस्यापि उत्कण्ठा-समये हस्त-द्वयेन इव भोजनस्य प्रसिद्धेः ॥८५॥

इत्य् उक्त्वाजीहसत् सर्वान् सुबलस् तान् बटुः स तु ।
हसन् भुञ्जान एवोच्चैः काशैः शोन-मुखोऽभवत् ॥८६॥

तान् बलदेवादीन् सर्वान् स तु बटुः भुञ्जान एव उच्चैर् हसन्, अत एव हास-समयेऽपि भोजनं त्यक्तुम् असमर्थस्य तस्य काशैः करणैः शोण-मुखोऽभवत् । भोजन-समये हासस्य काश-प्रदत्वात् ॥८६॥

गोष्ठेशाह बटो तिष्ठ क्षणं मा भूङ्क्ष्व मा हस ।
स्थैर्यम् आप्नुहि मा जल्प मैनं हासयतार्भकाः ॥८७॥

हे अर्भकाः ! मधुमङ्गलं मा हासयत ॥८७॥

कृष्णः प्राह सखे कुक्षिर् अद्य दुर्भरताम् अगात् ।
प्रत्यूहो हास-काशाभ्याम् अदने हन्त ते कृतः ॥८८॥

अदने हास-काशाभ्यां प्र्तयूहो विघ्नः कृतः ॥८८॥

मातः शिखरिणीं देहीत्य् उक्त्वा तां स भृशं पिबन् ।
धाराम् अपातयच् चारु चिबुकाज् जठरान्तगाम् ॥८९॥

मधुमङ्गल आह—तां शिखरिणीं स मधुमङ्गलः पिबन् सन् अत्युत्कण्ठया पानाद् धेतोश् चिबुकाज् जठरान्तगां धाराम् अपातयत् ॥८९॥

श्रीदामाह बटोर् अस्य मुख-श्रीः कृष्ण वर्ण्यताम् ।
पूर्यते नाभि-सरसी पतन्त्या धारया यतः ॥९०॥

न व्याख्यातम्।

कृष्णोऽब्रवीद् यतः कुक्षेः क्षीराम्भोधेर् हसेन्दुता ।
मुहुर् उच्चलनाद् वक्त्र-शिखरद् वीचिर् उद्गता ॥९१॥
अभूत् शिखरिणी-धारा पुनन्त्य् अस्याङ्ग-मण्डलीम् ।
दुष्पूरम् अपि दुष्पारं तम् एव प्राविशत् पुनः ॥९२॥

मधुमङ्गलस्य क्षीर-समुद्र-स्वरूपस्य कुक्षेर् हसेन्दुना हास्य-रूप-चन्द्रेण हेतुना मुहुर् उच्चलनात्, तत एव वक्त्राग्राद् उद्गता वीचिस् तरङ्गः शिखरिणी-धारा अभूत् । सा एवाङ्ग-मण्डलीं पुनन्ती दुष्पूरं अथ च दुष्पारं तं कुक्षि-समुद्रम् एव नाभि-द्वारा पुनः प्राविशत् ॥९१-९२॥

एवं हास-प्रहासाप्त-मोदाः कृष्ण-बलादयः ।
सुतृप्ता अपि मातृभ्याम् अभूवन् भूरि-भोजिताः ॥९३॥

सुतृप्ता अपि मातृभ्यां पुनर् भूरि-भोजिताः अभूवन् ॥९३॥

अशान साधुना कृष्ण मातर् मे क्षुन् न्यवर्तत ।
शिरसः शपथो भुङ्क्ष्व पञ्च-षान् कवलान् अपि ॥९४॥

मातुर् उपरोध-जन्यं पुनर् भोजन-प्रकारम् आह—यशोदा आह—हे कृष्ण ! साधुना सम्यक्तया अशान भुङ्क्ष्व । कृष्ण आह—मे क्षुत् न्यवर्त्वत ॥९४॥

अथ तान् भुक्तवत्य् अस्मिन् प्राह वत्स कथं भवान् ।
एतैर् न्यूनतया स्थास्यद् अयास्यत् क्षामतां भृशम् ॥९५॥

स्वभावोक्तिम् आह—उपरोध-वशात् अस्मिन् श्री-कृष्णे भुक्तवति सति, तं प्रति यशोदा आह—हे वत्स ! कथं भवान् एतैः कवलैर् न्यूनतया अस्थास्यत् ? अत एव क्षामतां भृशम् अयास्यत् ॥९५॥

इदं ते रोचकं भुङ्क्ष्व मातः शक्तिर् न मेऽस्त्य् अतः ।
रोहिणी स्वयम् एवैहि मद्-वाचं नैष मन्यते ॥९६॥

हे रोहिणि ! स्वयम् एव अहि आगच्छ ॥९६॥

वत्स नाश्वासि चेत् एतान्य् अपचं तेमनानि किम् ।
वृषभानु-सुता किं वाऽहूता पाके विचक्षणा ॥९७॥
अनश्नन् मातरं मां च तां चापि त्वं दुनोषि तत् ।
इत्य् उक्तोऽन्न-व्यञ्जनादि किञ्चित् किञ्चिद् अभुक्त सः ॥९८॥
कृष्ण कस् ते स्वभावो यत् क्षुधावस्थातुम् ईहसे ।
हा कदा वा कथं वा ते बल-पुष्टी भविष्यतः ॥९९॥
एवं मात्राथ रोहिण्या सर्वे रामादयोऽपि ते ।
स्नेहेन भोजिताः प्रापुर् अपूर्वाम् अतुलां मुदम् ॥१००॥

_न व्याख्यातम् _॥९७-१००॥

भोजनावाप्त-सौहित्य-जनितं श्री-भराञ्चितम् ।
जाल-न्यस्तेक्षणा राधा प्रेयसो रूपम् आपपौ ॥१०१॥

जाल-रन्ध्रे न्यस्तेक्षणा राधा प्रेयसः श्री-कृष्णस्य रूपम् आपपौ । रूपं कीदृशं ? भोजनेन प्राप्तं सौहित्यं तृप्तिः, तेन जनितो यः श्री-भरः शोभातिशयः, तेन अञ्चितम् ॥१०१॥

तेऽथ दास-करोपात्त झर्झरी नालनोदितैः ।
नीरैः क्षालित-हस्तस्य उत्तस्थुः स्व-स्व-पीठतः ॥१०२॥

नीरैः क्षालितानि हस्त-मुखानि येषां ते उत्तस्थुः ॥१०२॥

क्रान्त्वा शत-पदं स्व-स्व-तल्पम् अध्यास्य वीजिताः ।
दासैः सुषुपुर् अव्यग्रं ताम्बुलाम् उपभोजिताः ॥१०३॥

दासैर् वीजिताः अथ च ताम्बुलम् उपभोजिताश् च ते ॥१०३॥

रसवत्या विनिष्क्रान्तां निर्निक्त-कर-पङ्कजाम् ।
राधां पर्यचरन् दास्यो विविक्ते व्यजनादिभिः ॥१०४॥

क्षालित-कर-पङ्कजां ॥१०४॥

कवोष्ण-व्यञ्जनान्नादि रोहिण्या परिवेशितम् ।
धनिष्ठां ग्राहयित्वाह राधाम् एत्य व्रजेश्वरी ॥१०५॥

रोहिण्या परिवेशितम् ईषद्-उष्ण-व्यञ्जनान्नादि धनिष्ठां ग्राहयित्वा व्रजेश्वरी एत्य निकटे गत्वा राधाम् आह ॥१०५॥

वत्से गान्धर्वि ललिते विशाखे चम्पवल्लिके ।
निःसङ्कोचाम् इहाश्नीत धिनुताद्य ममाक्षिणी ॥१०६॥

धिनुत सुखयत ॥१०६॥

पुत्रि किं लज्जसे भोक्तुं कीर्ति-देवास्मि ते प्रसूः ।
हस खेलऽस्स्व शेष्वात्र निलये सवयो-वृता ॥१०७॥

आस्स्व उपवेशं कुरुष्व । शेष्व शयनं कुरुष्व । पक्षे, स्व-वयसा कृष्णेनेति स्वरस्वती-कृतोऽर्थः ॥१०७॥

तद्-वाग्-अमृत-संसिक्त-मनस्कार-सखी-स्मितैः ।
ईषन्-मन्दाक्ष मन्दाक्षम् अन्तर् मोदाऽद राधिका ॥१०८॥

तस्या व्रजेश्वर्याः । स्व-वयो-वृता इति वाक्य-रूपामृतैः संसिक्तो मनस्कारो मनस्-कामना यासां तासां सखीनां स्मितैः ईषन् मन्दाक्षेण ईषल्-लज्जया मन्दाक्षं किञ्चिन् मुद्रिताक्षं यथा स्यात्, तथा अन्तर्-मोदा राधा आद बुभुजे । चित्ता-भोगो मनस्कार इत्य् अमरः । मन्दाक्षं ह्रीस् त्रपा व्रीडा लज्जा इत्य् अमरः ॥१०८॥

प्रेष्ठ-फेलामृतं स्वादैः परिचित्य मुदाऽप्लुता ।
धनिष्ठायां किरन्त्य् अक्षि-कोणं ताम् अधिनोद् इयम् ॥१०९॥

प्रेष्ठस्य फेलामृतं भुक्तावशिष्टं स्वादैः परिचित्य मुदाप्लुता राधा धनिष्ठायां अक्षि-कोणं क्षिपन्ती सती तां धनिष्ठां अधिनोत् । मया कृतं रहस्यं कर्म राधया ज्ञातम् इति बुद्ध्वैव धनिष्ठायाः सुखोत्पत्तेर् इति भावः ॥१०९॥

भोजयित्वाथ तां रत्न-भूषा-वस्त्रानुलेपनैः ।
लालयित्वा व्रजेश्वर्यां गतायां तुङ्गविद्यया ॥११०॥
किञ्चिद् ऊचे विशाखायाः कर्णे तत्-सान्वमन्यत ।
राधाप्य् अनुमिमीतेऽस्म तद् द्वयोः स्मित-वीक्षया ॥१११॥

गतायां सत्यां तुङ्गविद्यया यद् ऊचे तद् विशाखा अन्वमन्यत । द्वयोः स्मित-वीक्षया राधापि तत् अनुमिमीये ॥११०-१११॥

सख्यौ यद् युवयोः कर्णाकर्णि स-स्मितम् ईक्ष्यते ।
मुग्धायाः कुलवध्वा मे तन् नात्र श्रेयसी स्थितिः ॥११२॥

हे सख्यौ ! युवयोः कर्णा-कर्णि स-स्मितं मया ईक्ष्यते । अतः मुग्धाया इत्य् आदि ॥११२॥

इत्य् उत्थाय स्व-गेहाय यान्त्या वव्रे विशाखया ।
प्रोचे शङ्का-मिषेनेष्ट-स्पृहा किं सखि सूच्यते ॥११३॥

वव्रे अवरणं चक्रे । हे सखि ! इष्ट-विषये किं स्पृहा सूच्यते ? अन्यथा आवयोः कर्णा-कर्णि-दर्शनाद् अनुपस्थित-शङ्कायाः कथम् उत्पत्तिः ? इत्य् अर्थः ॥११३॥

हस खेलऽस्स्व स-वयो-वृतेत्य् आह व्रजेश्वरी ।
भुक्त्वा क्षणम् अविश्रम्य यान्ती तां खेदयिष्यसि ॥११४॥

व्रजेश्वरी इति आह—अतः भुक्त्वा क्षणम् अविश्रम्य यान्ती त्वं तां व्रजेश्वरीं खेदयिष्यसि । तस्मात् सवयः-शब्दस्य गूढार्थाचरणं कुर्व् इति भावः ॥११४॥

निष्क्राम्यतां सखि मया सह साधु-पक्ष-
द्वारेन सत्वरम् इमाः खलु कूट-चर्याः ।
त्वद्-बन्धुजीव-सुमनो नयन-स्पृहाऽपि
पूर्णा भविष्यतितरां निरपायम् एव ॥११५॥
न ज्ञास्यते व्रज-पुराधिपया वृथा त्वं
किं शङ्कसे स्व-गृहम् एवनयैव वीथ्या ।
इत्य् आदराद् गिरि-गुहा-सुख-सद्म निन्ये
तां कृष्ण-कान्ति-रुचिरं चतुरा धनिष्ठा ॥११६॥

इति चतुरा धनिष्ठा गिरि व्रज-राजस्य वाट्याः पश्चाद्-वर्ति नन्दीश्वर-पर्वतः, तस्य गुहायां सुख-मय-गृहं तां राधां निन्ये इति पर-श्लोकेन सहान्वयः । सद्म कीदृशं ? कृष्ण-कान्त्या रुचिरम् । पक्षे, कृष्णस्य कान्त्या । धनिष्ठाया वाक्यम् एवाह—निष्क्रम्यताम् इति । “खिडकी” इति प्रसिद्धेन पक्ष-द्वरेण । इमाः सख्यः खलु कूट-चर्या भवन्ति । अत एता विहाय मया सह निष्क्रम्यताम् । त्वदीय-सूर्य-प्रियस्य बन्धु-जीवस्य “बान्धुलि” इति प्रसिद्धस्य सुमनसः पुष्पस्य आनयन-स्पृहा । पक्षे, त्वद्-बन्धोः कृष्णस्य जीवात्मा शोभनं मनश् च एतेषां स्पृहापि ॥११५-११६॥

इति श्री-कृष्ण-भावनामृते महा-काव्ये

भोजन-कौतुकानुमोदनो नाम

षष्ठः सर्गः

॥६॥

(७)