पञ्चमः सर्गः
प्रेयो-गेह-गमनानुमोदनो नाम
व्रजपुर-परमेश्वरी-प्रसादं
मयि सखि वक्ति तवोदयो ह्य् अकस्मात् ।
न शिशिर-रुचिना विनैव पूर्वां
दिशम् अधिरात्रि समेति कापि लक्ष्मीः ॥१॥
अस्मिन् सर्गे पुष्पिताग्र-च्छन्दो ज्ञेयम् । अभ्युत्थान-मिलनोपवेशानन्तरं श्री-कुन्दवल्लीं राधिका प्राह—हे सखि कुन्दवल्लि ! अकस्मात् तवोदयो मयि व्रजपुर-परमेश्वरी-प्रसादं वक्ति । कथं ? इति चेद् आह—अधि रात्रि रात्रि-मध्ये शिशिर-रुचिना चन्द्रेण विना कापि लक्ष्मीः शोभा पूर्वां दिशं न समेति न प्राप्नोति । तथा च रात्रि-सम्बन्धिन्या पूर्व-दिग्-वर्ति-शोभया यथा चन्द्रानुमानं तथैवेति भावः ॥१॥
तद् अहम् अनुमिमे निदेश-दम्भात्
किम् अपि कृपामृतम् एव सा व्यतारीत् ।
यद् इदम् अनुपलभ्य यन् ममात्मा
स्वम् अपि स-खेदम् अवैत्य् अनात्मनीनम् ॥२॥
पुनः श्री-राधा आह—तत् तस्मात् अहम् अनुमिमे श्री-यशोदा निदेश-दम्भात् आज्ञा-च्छलेन किम् अपि कृपामृतं व्यतारीत् मह्यं दत्तवतीत्य् अर्थः । यत् यस्मात् यत् कृपामृतम् अनुपलभ्य ममात्मा स्वम् आत्मानम् अपि अनात्मनीनं न आत्मना हितम् अवैति, आत्मानम् अपि आत्मना एवाहित-करं जानातीत्य् अर्थः । किं-भूतं ? स-खेदं खेदो दुःखं, तेन सह वर्तमानं, तेन तथा खेदे जाते यत एतद्-देहे स्वस्य अनवस्थानम् एव हितम् इति विचारितवान् आत्मेति ध्वनिः ॥२॥
अजनि रसवती-विधापनार्था
रसवति ते गतिर् इत्य् अवैमि नूनम् ।
अथ किम् इतरथा जवाद् अयसीः
प्रथमम् इतोऽनुनयन्त्य् अमूं मद्-आर्याम् ॥३॥
हे रसवति कुन्दवल्लि ! तव गतिर् गमनं रसवती-विधापनार्था अजनीत्य् अवैमि, पाक-क्रिया-करणायैव तवात्रागमनम् अभूद् इति जानामि । इतरथा प्रथमं मद्-आर्यां मम श्वश्रूम् अनुनयन्ती अनुनेतुं किं कथम् इतः सकाशात् तत्र अयासीर् गता । जवात् वेगात् । यदि कार्यान्तरार्थं मम निकटम् आगमिष्यस् त्वं, तदा वृद्धा-निकटे गमनं विनैवात्रागता अभविष्यः । तस्मात् मन्-नयनार्थम् आगतासीति ध्वनिः ॥३॥
इति सुदृग्-उदितामृतं पिबन्ती
स्मित-सुभगं निजगाद कुन्दवल्ली ।
तद् अयि सखि विधेहि तत्र यात्राम्
अकृत-विलम्बम् इतः सहालिवृन्दा ॥४॥
कुन्दवल्ली इत्य् अनेन प्रकारेण सुदृक् श्री-राधा तस्या उदितम् एवामृतं तत् पिबन्ती सती स्मित-सुभगं यथा स्यात् तथा निजगाद । अयि सखि राधे ! तत् तस्मात् इतः स्थानात् अकृत-विलम्बं यथा स्यात् तथा आलि-वृन्द-सहिता सती त्वं तत्र यात्रां विधेहि कुरु ॥४॥
किम् इह गुरु-जनावलेर् अनुज्ञा-
ग्रहण-विधाव् अणु-मात्रम् अस्ति कष्टम् ।
यद् अतुल-धन-धेनु-धान्य-वर्षैर्
अकृत वशां स्वयम् एव तां व्रजेशा ॥५॥
गुरु-जन-भयं करोषि चेद् अवधीयताम् इति पुनः कुन्दवल्ली आह—इह गुरु-जन-श्रेणीनाम् अनुज्ञा-विधाव् अणु-मात्रम् अपि अत्यल्पम् अपि किं कष्टम् अस्ति ? अपि तु नैवेत्य् अर्थः । यत् यस्मात् अतुल-धनादि-वर्षैः तां गुरु-जनावलीं व्रजेशा वशाम् अकृत वशीभूतां चकार ॥५॥
निरुपधि-परम-प्रियोऽसु-कोटेर्
अपि निखिलस्य जनस्य गोष्ठ-भाजः ।
व्रजपति-तनयः समीहते यत् परम्
इह विप्रतिपत्तिर् अस्ति कस्य ॥६॥
विशेषतः श्री-कृष्ण-विषये सर्व एव व्रज-वासि-जनो स्निग्ध एव किं पुनस् तव गुरु-जन इत्य् आह—व्रजपति-तनयः श्री-कृष्णः यत् समीहते यद् वस्तु वाञ्छति तत्र विषये कस्य विप्रतिपत्तिर् वचसापि निषेध-कारणम् अस्ति ? न कस्यापीत्य् अर्थः । कृष्णः कथम्-भूतः? निखिलस्य गोष्ठ-भाजो व्रज-वासि-जनस्य असु-कोटेः प्राणानां कोटितोऽपि निरुपधि-परम-प्रियः उपाधिं विना स्वभावत एवातिप्रियः ॥६॥
सखि किम् अपि न वेद तत्-सवित्री
तद्-अतुल-रोचक-वस्तु-सञ्जिघृक्षुः ।
उचितम् अनुचितं स्व-लाभ-हानी
निज-पर-भाव-भिदा यशोऽयशो वा ॥७॥
पुनः कुन्दवल्ल्य् एवाह—हे सखि ! राधे ! तस्मै श्री-कृष्णाय अतुलं रोचकं यद् वस्तु, तस्य [सञ्जिघृक्षुः] ग्रहणेच्छुः तत्-सवित्री तस्य कृष्णस्य माता किम् अपि न वेद न जानाति । किं न जानातीत्य् अपेक्षायाम् आह—उचितम् इत्य्-आदि । तेन अनुचितम् अपि कृत्वा श्री-कृष्णाय रोचकं वस्तु ग्र्ह्नातीत्य् अर्थः । तेन निषिद्धाचरणम् अपि कृत्वा तव गमनं तत्र कारयिष्यत्य् एवेति ध्वनिः । निज-परयोर् भाव-भिदा अभिप्राय-भेदः ॥७॥
पचसि यद् अपि यश् च तस्य भोक्ता
स च तिरयत्य् अमृतं सदैव दिव्यम् ।
इति निखिल-पुरेष्व् अतिप्रसिद्धिस्
तव कं न चमत्करोति बाढम् ॥८॥
यद् अपि यत् किम् अपि त्वं पचसि, तद् दिव्यं स्वर्ग-सम्भूतम् अमृतं अपि तिरयति तुच्छीकरोति । एवं यश् च तस्य त्वत्-कृत-पक्व-वस्तुनो भोक्ता सोऽपि अमृतं तिरयति इति निखिल-नगरेष्व् अतिप्रसिद्धिः । कं जनं बाढम् अतिशयेन न चमत्करोति, तच्-छ्रवणेन कस्य चमत्कारो न सम्भवति ? इत्य् अर्थः ॥८॥
यद्-अवधि कलयाम्बभूव सा त्वां
मुनि-वर-दत्त-वरां वराम्बुजाक्षि ।
तद्-अवधि तव पाणि-संस्कृतान्ना-
शन-विरतिं क्वचनाह्नि नास्य चक्रे ॥९॥
हे श्रेष्ठाम्बुजाक्षि ! यद्-अवधि मुनि-वर-दत्त-वरां—मुनि-वरो दुर्वासा, तेन दत्तो वरो यस्यै तथा-भूतां त्वां सा यशोदा कलयाम्बभूव श्रुतवती, तद्-अवधि तव पाणि-पक्वान्न-भोजनस्य विरतिं श्री-कृष्णस्य क्वचन कस्मिन्न् अपि दिने न कृतवती ॥९॥
जयति यद् अतिघोर-दैत्य-यूथं
मृदुल-तनुः स्व-पराबुभूषुम् एषः ।
त्वद्-अमल-कर-पक्व-भक्त-भुक्तेर्
अपरम् इयं मनुते न हेतुम् अत्र ॥१०॥
कोमल-तनुर् एष श्री-कृष्णः यद् अतिघोरं दैत्यं जयति, तत्र इयं यशोदा त्वत्-कर-पक्वान्न-भोजनात् भिन्नं कारणं न मन्यते । दैत्य-यूथं किम्-भूतं ? स्वं श्री-कृष्णं [पराबुभूषुम्] पराभवितुम् इच्छुम् । भक्तम् अन्नं तस्य भुक्तिर् भोजनम् ॥१०॥
शृणु परम् अयि तत्त्वम् अत्र राधे
यद् अवगतं सहसान्तरं मयास्याः ।
प्रतिदिनम् अवलोकनं विना ते
शशिमुखि खिद्यति सा यथा स्व-सूनोः ॥११॥
हे राधे ! परम् अपि तत्त्वं श्रुति-निगूढार्थं कथयामि शृणु । अस्या यशोदाया आन्तरम् आन्तरीणं यत् तत्त्वं मया सहसा अवगतं । तद् एव किं ? इत्य् अपेक्षायाम् आह—हे चन्द्रमुखि ! ते तवेत्य्-आदि ॥११॥
सुतनुर् अभिदधेऽवधेहि विज्ञे
सखि तद् इदं न वदस्य् अयुक्तम् इत्थम् ।
अपि तु कुलवतीति-वाद-भाजां
स्फुटम् अपराङ्गन-गामितेत्य् अयुक्तम् ॥१२॥
कुन्दवल्ल्य्-उक्तं श्रुत्वा अन्तर्-मुदितापि बहिर्-अमन्यमानेव राधा आह—श्री-राधा अभिदधे। किं तत् ? इत्य् अपेक्षायाम् आह—हे सखि ! कुन्दवल्लि ! हे विज्ञे ! इत्थम् अनेन प्रकारेण यद् इदं वदसि तद् अयुक्तं न, अपि तु कुलवतीति-वाद-भाजाम् इयं कुलवती इयं साध्वी इति ख्याति-मतीनाम् अपरस्याङ्गन-गमिता इत्य् अयुक्तम् ॥१२॥
स च कुल-ललनास्व् अलम्पटत्वं
क्षणम् अपि नैव दधाति देवरस् ते ।
इति नहि नहि तत्र मे यियासेत्य्
अथ सुदृशं पुनर् आह कुन्दवल्ली ॥१३॥
अलम्पटत्वं न इव दधाति प्रतिक्षणं कुलाङ्गनासु लम्पटतां करोति इत्य् अर्थः । नहि नहीति द्वौ न ज्ञौ प्रकृतार्थं गमयत इत्य् उक्तेः सति पुनः कुन्द-वल्ली सुदृशं राधाम् आह ॥१३॥
स तु मम सखि देवरो वरोरु
स्फुरति रुचेव तथा यथाभ्यधास् त्वम् ।
त्वयि तु चिरम् अलम्पटी-भविष्यत्य्
अयि मयि विश्वसीहि प्रकामम् एहि ॥१४॥
हे वरोरु ! सखि ! राधे ! स तु मम देवरः यथा त्वम् अभ्यधाः कथितवती, तथा कन्त्या एव लम्पटत्वं स्फुरति, न तु कार्येण । त्वयि पुनः स तु अलम्पटी-भविष्यति, लम्पटतां न करिष्यति । अयि राधे ! मयि विश्वसिहि, अतः प्रकामं यथेष्टं त्वं एहि आगच्छ । श्लेषेण रुचा त्वद्-विषयक-रोचकतया आसक्तेति यावत् । अलम् अतिशयेन पटीभविष्यति त्वयि वस्त्रावत्-लग्नो भविष्यतीत्य् अर्थः ॥१४॥
समुचितम् इदम् एव कृष्ण-सद्मान्तिकम्
अपि वेत्स्य् अपराङ्गनां यद् एतत् ।
अयम् अपि पुरु वेपतेऽवलोक्याप्य्
अयि भवतीम् अपराङ्गनां विजानन् ॥१५॥
अयि राधे ! यत एतत् कृष्णस्य सद्मान्तिकं गृह-निकटम् अपि अपरस्याङ्गनं वेत्सि जानासि, इदम् एव समुचितम् । अयं कृष्णोऽपि भवतीम् अवलोक्य अपराङ्गनां जानन् पुरु वेपते बहुशः कम्पते । श्लेषेण न पराङ्गनं, किन्तु स्वीयाङ्गनम् एव वेत्सि । एवं कृष्णोऽपि त्वां न परस्याङ्गना, किन्तु स्वीयाङ्गनाम् एव जानाति । तव दर्शनाद् एव तस्य कम्प-प्रस्वेदादयो भवन्तीति त्वय्य् एवम् आसक्तिर् एव ध्वनिः ॥१५॥
अथ पुनर् अपि साह साहसात् त्वं
विरम न यामि हठं न याहि विज्ञे ।
कुल-वरतनु-धर्म सञ्जिहासा-
ध्वनि किम् उ दत्त-पदा मदाद् भवेयम् ॥१६॥
कुन्दवल्ली-वचन-चातुरीम् अवगत्य सा राधा पुनर् अपि आह—हे विज्ञे ! त्वं साहसात् विरम, एवं साहसं मा कुरु । अहं न यामि, पुनः त्वं हठं मा कुरू । कथम् एवं वदसि ? चेत् तत्राह—कुल-वरतनु-धर्म-सञ्जिहासाध्वनि किं मदाद् गर्वाद् अहं दत्त-पदा भावेयं ? कुलाङ्गनाया यो धर्मः, तस्य सम्यक् त्यागेच्छा-पथे दत्त-पदा यथा अहं न भवामीत्य् अर्थः ।
श्लेषेण, सा प्रसिद्धा त्वं हसात् हास्याद् विरम । कोऽपि श्रुत्वा किम् अपि अनुमास्यति अहं तु न यामीति त्वया सार्धं न गच्छाम्य् एव । त्वं तु मद्-गमनार्थं हठं कुरु । हे विज्ञे ! मद् वचन-विशेषार्थं जानास्येवेति ध्वनिः ध्वनिः । यद् वा अहं न हठं नयानि प्राप्नोनि । नीञ्-प्रापणे । हे विज्ञे ! याहि उहां गता-वित्य् अस्य रूपेण । श्लेषात् कुलवती धर्म-सङ्गेच्छा-पथे किं दत्त-पदा अहं स्यां नैवेत्य् अर्थः । सगर्वो मयि नास्त्येवेति ध्वनिः ॥१६॥
न तनु सखि तद्-अर्थम् अर्थनं द्राग्
अभिलषितं तव सेत्स्यति प्रकामम् ।
व्रज कुरु न विलम्बम् अत्र यत् ते
मुनि-वर एव बभूव सोऽनुकूलः ॥१७॥
विदिताकुता कुन्दवल्ली आह—हे सखि ! तद्-अर्थं कुल-धर्म-रक्षार्थं प्रार्थनां न तनु, किन्तु तादृश-धर्म-रक्षणे तवाभिलषितं सेत्स्यति, यतो मुनि-वरो दुर्वासाः स एवानुकूलः । तस्मात् तस्य कृपया तवामङ्गलं न भवीति बोद्धम् ।
पक्षे, तवाभिलषितं द्राक् शीघ्रं प्रकामं यथा स्यात्, तथा सेत्स्यति सिद्धं भविष्यति । तद्-अर्थं कुल-धर्म-ध्वंसे अभिलाष-सिद्ध्य्-अर्थं अर्थनं प्रार्थनं न तनु न विस्तारय । तस्मात् व्रज चल अत्र विलम्बं न कुरु । तव तत्र गमनेन इव मनोरथः सेत्स्यतीति त्वं कथयसि तत्र को हेतुः ? इति चेद् आह—मुनिर् दुर्वासा, तस्य वर एवानुकूलः श्लेषेण मुनि-श्रेष्ठेणैव च्छलेन तव द्यूत्यं कृतम् इति ध्वनिः ॥१७॥
इति विहासित-भाजि तत्र तस्याम्
अवदत सा सहसोपसृत्य वृद्धा ।
त्वम् असि मम सदा प्रतीत-पात्रीत्य्
अयि सति कुन्दलतेऽर्पिता त्वयीयाम् ॥१८॥
तत्र समये इति अनेन प्रकारेण तस्यां कुन्दवल्ल्यां विहसित-भाजि विशिष्ट-हास्यं कृतवत्यां सत्यां वृद्धा जटिला उपसृत्य अवदत् । इयं राधा ॥१८॥
अनुचितम् इदम् एव यत् सतीनां
पदम् अपि भार्तृ-गृहात् क्व चापि यानम् ।
किम् उत पुनर् अतीव लम्पटत्व-
प्रथनवतो बक-विद्विषः समीपे ॥१९॥
जटिला पुनर् आह—पदं व्यापान्यत्र यानं गमनम् अत्यन्त-लम्पटत्वेन प्रथा ख्यातिर् यस्य तस्य कृष्णस्य समीपे अत्यनुचितम् इत्य् अर्थः ॥१९॥
तद् अपि यद् इह गन्तम् एव राधे
निपुण-धियापि मया निदिस्यसे त्वम् ।
तद् अपि निखिल-वेदि-पौर्णमासी-
वचन-ततेर् अविलङ्घ्यतैव हेतुः ॥२०॥
जटिला वधूं प्रत्य् आह—तद् अपि तथापि निपुण-धिया मया यद् यस्मात् त्वं निदिस्यसे, तत् तस्मात् अयि राधे निखिल-वेदि-पौर्णमास्याः ॥२०॥
व्रजपति-गृहिणी-गिरं चिराभ्य-
र्थन-विनयानुनयानुबद्ध-मूलाम् ।
कति निरसितुम् अत्र शक्नुमस् तत्
तव भगवान् हरिर् एव रक्षितास्तु ॥२१॥
व्रजपति-गृहिणी-गिरं कति वारम् [निरसितुम्] अन्यथा कर्तुं शक्नुमः ? गिरं किं-भूतां? **चिर-**कालं व्याप्य यद् अभ्यर्थनं याच्ञा एवं विनयस् तथैव अनुनयस् तैर् [अनुबद्धम्] दृढी-भूतं मूलं यस्यास् ताम् । तत् तस्मात् हरिर् नारायणस् [तव रक्षितास्तु] त्वां रक्षिष्यतीति प्रार्थयामासेति ॥२१॥
अवति जगद् इदं स्वधर्म-पालीः
किम् इह सतीः स जहाति लोक-नाथः ।
इति किल भवतीं तदीय-पाणौ
सुमुखि समर्प्य निराकुला भवेयम् ॥२२॥
स लोकनाथः परमेश्वरः इदं जगत् अवति रक्षति । अत एव स्व-धर्मान् पालयन्तीति स्वधर्म-पालीः सतीः स किं जहाति परित्यजति ? नैवेत्य् अर्थः । इति हेतोः हे सुमुखि ! तस्य परमेश्वरस्य पाणौ भवतीं त्वां समर्प्य अव्याकुला भवेयम् ॥२२॥
इति गुरु-जरती-गिरा समुद्यत्
स्मित-लव-संवृति-पेशलाः सखीः स्वाः ।
विकसद्-असित-नेत्र-कोण-भङ्ग्या
किम् अपि निगद्य बभूव सापि तूष्णीम् ॥२३॥
जटिलाया वचनस्यार्थान्तरम् अवगत्य सख्यः स-स्मिता इत्य् आह—**गुरु-जरती **जटिला, तस्या गिरा वाक्येन सम्यक् उद्गच्छन् यः स्मित-लव ईषद्-धास्याल्प-मात्रांशस् तस्य संवरणे पेशला चतुराः स्वाः स्वीयाः सखीः । सा राधा विकसद्-असित-नेत्र-भङ्ग्या किम् अपि निगद्य तुष्णीं बभूव, विकसत् प्रफुल्ल असित श्यामश् च यो नयन-कोणः, तस्य भङ्ग्या कटाक्ष-मात्रेण हे सख्यः ! युष्माकं मनोरथः पूर्ण इति काञ्चित् कथयेत्य् अर्थः । हरिर् इत्य्-आदिना नारायणाभिप्रायेण तया उक्तं, श्री-कृष्णाभिप्रायेण सख्यो हसितवत्य इति ज्ञेयम् ॥२३॥
अनभिमतिम् अतीव तत्-पुरः सा
मुहुर् अभिनीतवती तयानुनीता ।
हृदि विधिम् अनुकूलम् आनमन्ती
चलितवती ललितादिभिः सखीभिः ॥२४॥
तस्या जटिलायाः पुरः अग्रे अत्यन्तानभिमतिं स्वस्य गमने असम्मतिं मुहुर् अभिनीतवती राधा पश्चात् तया जरत्या च अनुनीता विनय-नीत्या कथिता सती सखीभिः सह चलितवती । कथं-भूता ? अनुकूल-विधिं हृदि आनमन्ती अनुकूलं मत्वा नमस्कुर्वती ॥२४॥
अथ निज-भवनाद् विनिर्यती सा
तनु-वसनाभरण-च्छवि-च्छटाभिः ।
व्यधित मणि-विचित्र-शातकौम्भीं
पुर-विशिखां सुरभी-कृताखिलाशा ॥२५॥
गृहान् निर्गमन-काले राधायाः शोभाम् आह—निज-भवनाद् विनिर्गच्छन्ती सा राधा वसनाभरण-च्छविभिः करणैः पुरस्य विशिखा “गली” इति प्रसिद्धां मणि-विचित्र-शातकौम्भीं मणि-घटित सुवर्ण-मयीं व्यधित चकार । वसनाभरणानां नाना-विध-कान्त्या नाना-मणि-प्रतीतिर् देह-कान्त्या स्वर्ण-प्रतीतिर् इति बोध्यम् । कथम्-भूता ? सुरभी-कृता अखिलाशा सर्व-दिक् यया सा ॥२५॥
जन-निवह-गतागति-प्रवृत्तौ
दर-विमुखी सरणेः श्रितैक-पार्श्वा ।
अवनत-दृग् अवाचकास्य-पद्मोपरि
परिगुण्ठन-माधुरी प्रपेदे ॥२६॥
गमन-काले चलन-क्रमम् आह—जन-समूहस्य गता-गति-प्रवृत्तौ सत्या अर्थात् जन-समूहस्य यदि गमनागमने भवतः, तदा ईषद् विमुखी एवं सरणेः मार्गस्य श्रित एक-पार्श्वो यया एवम्-भूता राधा अवनता नम्री-कृता दृक् यतस् तादृशी एव न वाचकं कृत-मौनं च यद् आस्य-पद्मं, तस्य उपरि “घूङ्घट” इति ख्यातस्य अवगुण्ठनस्य माधुरी प्रपेदे चकारेत्य् अर्थः ॥२६॥
क्वचन च पथि निर्जने कदाचित्
स्फुटम् इतरेतर-वाग्-विलास-रङ्गैः ।
यदि चलति तदा कुतः क्व यामीत्य्
अपि न हि वेदनागोचरी-करोति ॥२७॥
इतरेतर-वाग्-विलास-रङ्गैः करणैर् यदि चलति, तदा कुतः स्थानात् कुत्र यामीत्य् अपि न हि वेदना-गोचरी-करोति न जानातीत्य् अर्थः ॥२७॥
सखि निज-पुरतो विदूरम् आगा
व्रजपति-सद्म-समीप-वर्ति-वृत्तम् ।
तद् अयि नयन-चाटकाभिलाषः
फलति तवाश्व् इति सम्प्रति प्रतीहि ॥२८॥
पथि सखीनां कौतुकोक्तिम् आह—व्रज-पति-गृहं समीप-वर्ति ज्ञानं अयि ! राधे ! तत् तस्मात् तव नयन-रूप-चातकस्य कोऽपि अभिलाष आशु फलति इति सम्प्रति त्वं प्रतीहि ॥२८॥
इति निगदित-मात्रतः स्व-सख्या
सपदि स वेपथु-जाड्य-विप्लुताङ्गीम् ।
प्रसभम् अभिदधार चेतयन्ती
किम् अपि जगाद च तं तदैव कौन्दी ॥२९॥
सखी-वाक्येन श्री-कृष्णस्य स्फूर्ते हेतो राधायाः सात्त्विक-भावम् आह—तादृश-दशापन्नां राधीकां चेतयन्ती कुन्द-वल्ली दधार एवं तदैव किम् अपि जगाद ॥२९॥
सुमुखि किम् अधुनैव विक्लवाभूर्
नयन-पथामिलितेऽपि कृष्ण-चन्द्रे ।
अवगमम् अखिलं सतीत्वम् आप्तं
तव सवयः-सद एव यत् प्रमाणम् ॥३०॥
हे सखि ! राधे ! नयन-पथस्य अमिलितेऽपि कृष्ण-चन्द्रे सति किम् अधुनैव विक्लवाभूः ? तस्मात् तवाखिलं सतीत्वं मया अवगमं प्राप्तं, मया ज्ञातम् इत्य् अर्थः । ननु मम किं वैजात्यं त्वया दृष्टं ? तत्राह—यद् यस्मात् तव सवयसां सखीनां सदः सभा एव प्रमाणम् ॥३०॥
धृतिम् इह हृदि धर्तुम् ईशिषे नो
यद् अपि तद् अप्य् अबले क्षणं दधीथाः ।
गिरि-युग-भर-धारणाय यत् ते
गिरिधर एव मयाद्य योजनीयः ॥३१॥
कुन्दवल्ली पुनः परिहसति—इह हृदि धृतिं धैर्यं धर्तुं यद्यपि न ईशिषे न समर्था भवसि, हे अबले राधे, श्लेषेण धैर्य-धारणा-समर्थे ! तथापि दधीथाः क्षणं धैर्यं कुरु । ननु वक्षः-स्थल-पर्वत-द्वयस्य भारेण व्याकुलास्मि, तत्रैव पुनर् महा-भारां धृतिं धर्तुं किम् आदिशसि ? इति तत्राह—ते तव **गिरि-युग-भरस्य धारणाय **कृष्णः तस्य गोवर्धन-धारणे अभ्यासस् तावद् वर्तते एव, अतः क्लिष्टायास् तवोपकारं करिष्यत्य् एवेति भावः ॥३१॥
गिरिधर-दिश एव शङ्कया या-
जनि विधुराद्य सखी महा-सतीयम् ।
परिवदसि बलाद् इमाम् अविज्ञे
तद् अपि निदेक्ष्यसि[^११]** हा पुनस् तम् अस्याम् ॥३२॥**
ललिता उत्तरम् आह—हे अविज्ञे ! कुन्दवल्लि ! या मम सखी गिरिधर-दिशः सकाशात् शङ्कया विधुरा उद्विग्ना अजनि अभूत्, यत इयं महा-सती, ततोऽपि बलाद् इमां सखीं परिवदसि परिवादं ददासि । अतस् त्वम् अतीवाविज्ञात-दर्पतं गिरिधरम् अस्यां विषये निदेक्ष्यसि, अस्याः परिचर्यार्थं तं नियुक्तं करिष्यसि । हा इत्य् अतीव दुःखम् ॥३२॥
त्वयि मुहुर् इयम् अर्पितार्यया यत्
तद् उचितम् एव विधत्ससेऽद्य भद्रम् ।
स्वम् इव सखि परं जनं न विद्धीत्य्
उदितवती ललिता पुनस् तयोचे ॥३३॥
यद् यस्माद् आर्यया जटिलया, तत् तत एव उचितम् एव विधित्ससे । अद्य कर्तुम् इच्छसि भद्रं ललिता इति उदितवती, पुनस् तया कुन्दवल्ल्या ऊचे, ललितां प्रति कथितम् इत्य् अर्थः ॥३३॥
अलम् अलम् अनया गिरा विदूरे
कलय पुरः पुर-तोरणोपकण्ठे ।
स्फटिक-घटित-रत्न-चित्रितास्था-
न्याभिनव-कुट्टिमगं हृद्य् एक-काम्यम् ॥३४॥
हे ललिते ! किन्तु अविदूरे समीपे पुरोऽग्रे कलय पश्य । कुत्रचित् पश्यामि ? तत्राह—पुरस्य तोरणं बहिर्-द्वारतस् त्वम् उपकण्ठे निकटे हृद्य् एक-काम्यं कञ्चित् पुरुषं पश्य । किं-भूतं ? स्फटिक-घटित-रत्नेन चित्रिताया “आथाय” इति प्रसिद्धा आस्थानी, तस्यां यद् अभिनवं “चबुतरा” इति प्रसिद्धं कुट्टिमं तत्र गतं तत्र-स्थम् ॥३४॥
सरसम् उषसि दुग्ध-नैचिकोकः
सह-सवयः कृत-मल्ल-रङ्ग-केलिः ।
अवगत-भवद्-आलि-यान-वार्ता
क्षुभित-हृद्-आगत एष भाति पश्य ॥३५॥
एष श्री-कृष्णो भाति पश्य । एष किं-भूतः ? उषसि प्रातः-कालं सरसं सहर्षं यथा स्यात् तथा दुग्ध-नैचिकोकः दुग्धातिशयवत्यो गावो येन स । पुनश् च सवयोभिर् बालकैः सह वर्तमानः सन् कृत-मल्ल-क्रीडः । पुनश् च अवगता ज्ञाता भवद्-आल्या राधाया आगमन-वार्ता, तया क्षुभितं हृद् यस्य एष आगतः । तस्माद् गो-दोहन-मल्ल-क्रीडानन्तरम् एतद्-अर्थम् एवात्रागत्य स्थित इत्य् अर्थः ॥३५॥
व्रज-पुर-ललना-कुलोन्मदिष्णु-
करण-पटु-च्छवि-मण्डलोपगूढः ।
मधुरिम-धुरयैव किं त्रिभङ्गी-
कृत-तनुर् उच्चल-दाम-मादितालिः ॥३६॥
पुनः कुन्दवल्ली श्री-कृष्णं विशिनष्टि । स किं-भूतः ? व्रज-पुर-ललना-समूहानाम् उन्मदिष्णु-करणे पतु समर्थं यच् च्छवि-मण्डलं कान्ति-समूहस् तेन उपगूढस् तद्-युक्त इत्य् अर्थः । पुनश् च मधुरिम-धुरया माधुर्यातिशयेनैव त्रिभङ्गी-कृता तनुर् यस्य । पुनश् च उच्चलं यद् दाम वन-माला, तेन [मादितालिः] उन्मत्ती-कृता भ्रमरा येन ॥३६॥
श्रित-मृदुतर-गण्ड-कुण्डलाध्या-
पन-पर-ताण्डव-पण्डिताक्षि-युग्मः ।
पवन-धुत-पटाङ्ग-गौर-नील-
द्युति-लहरी-स्तिमिती-कृताखिलाशाः ॥३७॥
पुनः कथं-भूतः ? श्रितौ मृदुतरौ गण्डौ याभ्यां तादृशे ये कुण्डले तयोर् यत् अध्यापनं तत्-परम् । अथ च ताण्डव-पण्डितम् अक्षि-युग्मः, कुण्डल-द्वयं पाठयतीत्य् अर्थः । पुनश् च पवनेन धुतः कम्पितः यः पटः अङ्गं च, एतयोर् या नील-गौर-नील-द्युतीत्य् अनेन प्रयागः सूच्यते । तत्-पक्षे, गौरः श्वेतः गौरोऽरुणे सिते पीते इत्य् अमरः ॥३७॥
प्रिय-सख-भुज-शीर्ष्णि राजद्-उद्यत्-
करि-कर-निन्दक-धाम-वाम-बाहुः ।
निज-रुचि-विजिताब्ज-घूर्णनैक-
व्यसन-वशेतर-पाणिर् एष इष्टे ॥३८॥
पुनश् च प्रिय-सखस्य सुबलस्य भुज-शीर्ष्णि स्कन्धे राजत्, अथवा उदयं प्राप्नुवद् धस्ति-शुण्डस्य निन्दकं धाम कान्तिर् यस्य तथा-भूतो वाम-बाहुर् यस्य सः । पुनश् च निज-रुचिभिर् निज-कान्तिभिर् विजितं यद् अब्जं लीला-कमलं, तस्य घूर्णन-रूपं यद् एकं व्यसनम् अध्यवसायः, तस्य वश इतर-पाणिर् दक्षिण-करो यस्य, स एव श्री-कृष्ण इष्टे कामिनी-जन-वशीकरणे ऐश्वर्यं करोति । तथा च सुबल-स्कन्धे वाम-हस्तं दत्त्वा दक्षिण-पाणिना लीला-कमलं घूर्णयतीत्य् अर्थः ॥३८॥
इति गिरम् अथ रूप-माधुरीं तां
यदि चषकी-कृत-कर्ण-नेत्र-युग्मा ।
अपिबद् अदर-मोहतस् तदा तत्-
प्रसृमर-सौरभम् आश्व् अबोधयत् ताम् ॥३९॥
कुन्दवल्ल्या इति गिरम् एवं तां कृष्णस्य रूप-माधुरीं श्री-राधिका अपिबत् । कथं-भूता ? चषकी-कृतं पान-पात्री-कृतं कर्ण-युग्मं नेत्र-युगलं च यथा एवं-भूता । तत् पानाच् च अदर-मोहो जातस् तस्मान् मोहात् तदा तस्य कृष्णस्य प्रसृमर-सौरभं प्रसर-शीलं सौगन्ध्यं तां श्री-राधाम् अबोधयत् बहिर् बोधयामास ॥३९॥
पुलक-निवह-कम्प-सम्पद्-अश्रु-
स्रुति-कलिलापि धृतिं दधत्य् अवादीत् ।
सखि किम् अपरम् अस्ति वर्त्म पादौ
न मम पुरश् चलतोऽस्य किं करोमि ॥४०॥
पुलक-निवहः रोमाञ्च-समूहः कम्प-सम्पत् कम्प-समूहः अश्रु-स्रवणं, ताभिः कलिला व्याप्तापि राधा धृतिं दधती सत्य् अवदत् । हे सखि ! किम् अपरं वर्त्म अस्ति ? अस्य कृष्णस्य पुरोऽग्रे मम पादौ न चलतः । किं करोमि ? तस्माद् वर्त्मान्तरम् अस्ति चेद् वद ॥४०॥
गुरु-परवशतैव दोष-दूरी-
करण-पटुस् तव किं भिया ह्रिया वा ।
सपदि सवयसेति बोध्यमाना
लघु लघु गन्तुम् इयेष सा तद्-अग्रे ॥४१॥
ततश् च ललिता आह—हे सखि ! गुरु-परवशता एव दोष-दूरीकरणे पटुस् तव भिया ह्रिया वा किं प्रयोजनम् इति ? सपदि तत्-क्षणं सवयसा ललितया प्रबोध्यमाना सा राधा लघु लघु यथा स्यात् तथा तस्य श्री-कृष्णस्य अग्रे गन्तुम् इयेष इच्छां कृतवती । इष् इच्छायां धातुः ॥४१॥
किम् इदम् इति परस्परावलोको-
च्छलित-महा-मधुरिम्णि यत् तयोस् ताः ।
स्वम् अतुल-तरसि न्यमज्जयन्न् आ-
लय इति वर्णयितुं न गीर् अपीष्टे ॥४२॥
ततश् च परस्परावलोक-जन्य-हर्षम् अवलोक्य सखीनाम् अपि उत्पन्नं हर्षं वर्णयितुं वाग्-देव्य् अपि न समर्थेत्य् आह—इदं किम् इति स चमत्कारो यः परस्परावलोकः, तेन उच्छलितो यस्** तयोः** राधा-कृष्णयोर् **महा-मधुरिमा **तस्मिन् आलयः सख्यः स्वम् अमज्जयन् आत्मानं निमग्नं कृतवत्यः इति गीः सरस्वत्य् अपि वर्णयितुं न इष्टे न समर्था भवति । मधुरिम्नि कथं-भूते ? [अतुल-तरसि] अतुलतरो वेगो यस्य तस्मिन् ॥४२॥
अघदमन-चकोर-चन्द्रिकास् ताः
शशि-वदनापि पपौ मुहुः पिपासुः ।
गिरिधर-मुदिरोपरीह चातक्य्
अतनु-रसं प्रववर्ष सेति चित्रम् ॥४३॥
अघदमनः श्री-कृष्णः स एव चकोरः अद्भुत-चकोरत्वात् तस्य या चन्द्रिका ज्योत्स्नास् ताश् चन्द्र-वदना राधा पिपासुः सती पपौ । एवं गिरिधर एव मुदिरो मेघः, तस्य उपरि सा राधिका-रूपा चातकी अतनु-रसं, पक्षे कन्दर्प-रसं, वर्षति । अतीव चित्रं चन्द्रस्य चन्द्रिकां चकोरः पिबतीति प्रसिद्धिः, मेघश् चातक्या उपरि रसं जलं वर्षतीति प्रसिद्धिश् च। अत्र तद्-वैपरीत्याद् आश्चर्यम् इत्य् अर्थः ॥४३॥
अथ निज-निज-मुर्ध्नि सव्य-हस्तोन्-
नमन-कला-कलितावगुण्ठनास् ताः ।
अवनत-नयनाञ्चली-विलीढ-
प्रिय-चरणाब्ज-सुधा ययुस् तद्-अग्रात् ॥४४॥
सावधानाः सत्यः सर्वा एव ययुर् इत्य् आह—निज-निज-मूर्धनि वाम-हस्तस्य उन्नमन-वैदग्ध्या कलितं “घूङ्गट” इति प्रसिद्धम् अवगुण्ठनं याभिस् ता राधादयः अवनता नम्रीकृता या नयनाञ्चली नयन-कोणस् तया विलीढा आस्वादन-विषयी-कृता प्रियस्य श्री-कृष्णस्य चरण-सुधा याभिर् एवं-भूताः सत्यस् तस्य श्री-कृष्णस्य अग्रात् ययुः ॥४४॥
हरिर् अपि परिवृत्य तन्-नितम्ब-
द्युति-निहितेक्षण-पङ्कजोऽवतस्थे ।
वर-तनु-ततिर् अप्य् अतीत्य तद्-गो-
पुरम् अवगुण्ठनम् ईषद् अस्यति स्म ॥४५॥
वर-तनु-ततिः सुन्दरी-समूहोऽपि तद् गोपुरं बहिर्-द्वारम् अतीत्य अवगुण्ठनम् ईषद् अस्यति स्म दूरीचकार इत्य् अर्थः । स्वभावोक्तिर् इयम् ॥४५॥
सखि ! भवद्-अवलोक-जात-हर्षं
सपदि स चम्पक-मालया बटुस् तम् ।
सुखिनम् अकृत यत् तद्-इङ्गितज्ञा
भवसि न वेत्य् उदिताह सा स्व-सख्या ॥४६॥
अधुना तुङ्गविद्या राधिकां परिहसति—हे सखि ! भवद्-अवलोकनेन जात-हर्षं तं श्री-कृष्णं बटुर् मधुमङ्गलश् चम्पक-पुष्पस्य मालया यत् सुखिनम् अकृत, तस्य इङ्गितज्ञा त्वं भवसि न वा ? तेन यत् सूचितं तद् बुद्धं न वेत्य् अर्थः । इति स्व-सख्या तुङ्गविद्यया उदिता सा राधा आह ॥४६॥
त्वम् असि खलु यथा तथान्वमासीर्
निज-सदृशीर् यतसे परा विधित्सुः ।
इति दर-विकसत्-स्मिता भ्रमद्-भ्रूस्
त्वरितम् अवाप महा-पुरान्तरं सा ॥४७॥
हे सखि ! तुङ्गविद्ये ! यथा त्वम् असि तथैव अनुमासीः अनुमानं कृतवती । परा अपि निज-सदृशीर् विधित्सुः कर्तुम् इच्छुस् त्वं यतसे यत्नं करोषि इति कथयन्ती सा राधा महा-पुरान्तरम् अवाप प्राप्तवती । मुख्य-पुरान्तरं प्रविष्टवतीत्य् अर्थः । कथं-भूता ? बहिः प्रकटीभवद् ईषद्-धास्यं यस्या । पुनश् च भ्रमन्ती भ्रूर् यस्या । तेन सखीं प्रति बहिर् असूया प्रकटीकृता ॥४७॥
स्फटिक-घटित-कुड्यम् ईड्य-भर्मोज्-
ज्वल-पटलं पवि-कीलवत् कवाटम् ।
मणिमय-ललना-धृत-प्रदीप-
व्रतति-नग-द्विज-राजि-राजित-द्वाः ॥४८॥
द्युमणि-किरण-दीप्त-रत्न-कुम्भ-
ध्वज-नट-केकि-वृताग्र-पौरटाट्टम् ।
सुरवर-पुर-निन्दि यत्र शन्दं
विलसति मन्दिर-वृन्दम् इन्दिराढ्यम् ॥४९॥
(युग्मकम्) महा-पुरान्तरं वर्णयति श्लोक-द्वयेन । यत्र पुरे मन्दिर-वृन्दं विलसतीति द्वितीयेन सहान्वयः । कथम्-भूतं ? स्फटिक-मणिभिर् घटितं रचितं कुड्यं भित्तिर् यस्य भर्मैः सुवर्णम् इड्य-सुवर्णेन उज्ज्वलानि “छात” इति प्रसिद्धानि पटलानि यत्र । पुनश् च पविर् वज्रं तेन रचितं यत् कीलं तद्-युक्तं कवाटं यत्र तत् । पुनश् च मणि-मयो रत्नैः रचिता या ललनास् ताभिर् धृता ये प्रदीपश् च । व्रततयो लताश् च, नगा वृक्षाश् च, द्विजाः पक्षिणश् च । रत्न-रचितास् तेषां या राजयः श्रेणयस् ताभिः राजितं द्वार् द्वारं यत्र तत् ॥४८॥
पुनः कथम्-भूतं ? सूर्य-किरणेन प्रदीप्तो यो रत्न-मयः कुम्भः, तद्-उपरि ध्वजः, तद्-उपरि नटन् यः कृत्रिम-मयूरस् तेन वृतोऽग्र-भागो यस्याः, तथा-भूता “बाङ्गला-घर” इति प्रसिद्धा स्वर्ण-निर्मिता अट्टालिका यत्र । पुनश् च सुरवर-पुर-निन्दि । पुनश् च शं सुखं ददातीति । पुनश् च **इन्दिरा शोभा **सम्पत्तिः, तया आढ्यम् ॥४९॥
धनद-ककुभि राम-वास-धाम
व्रजपति-कोष-गृहं दिशि प्रतीच्याम् ।
हरि-हरिति हरिस् तद्-इष्ट-देवो
मणि-भवने परिपूज्यते द्विजेन्द्रैः ॥५०॥
अभ्यन्तर-पुरेषु गृह-विशेषान् आह—धनदेत्य्-आदि । धनद-ककुभि उत्तरस्यां दिशि रामस्य श्री-बलदेवस्य निवास-गृहम् । प्रतीच्यां दिशि पश्चिमायां दिशि । हरि-हरिति पूर्वस्यां दिशि । मणि-भवने रत्न-मन्दिरे । तस्य श्री-नन्दस्य इष्ट-देवो हरिर् नारायणो द्विज-श्रेष्ठैः परिपूज्यते ॥५०॥
शयन-सदनम् अस्ति दक्षिणाशाम्
अनु हरि-नील-वलद्-वलभ्य् अघारेः ।
अपि निखिल-विदिक्षु तत्-तद्-अन्तः-
पुर-सरसी-तट-निष्कुटाः स्फुरन्ति ॥५१॥
तत्र श्री-कृष्णस्य मन्दिरम् आह—दक्षिणाशां दक्षिण-दिशम् अनु लक्षीकृत्य अघारेः श्री-कृष्णस्य शयन-मन्दिरम् अस्ति । किम्-भूतं ? हरि-नीलैः इन्द्रनील-मणिभिर् वलन्ती वलभी सर्वोर्ध्वस्थं गृहं यत्र तत् । निखिल-विदिक्षु चतुर्षु कोणेष्व् अपि तस्य तस्य श्री-बलदेव-प्रभृतेः यानि अन्तः-पुराणि, तेषु याः सरस्यः सरोवराणि तेषां तटेषु निष्कुटा गृहारामा उपवनानि [स्फुरन्ति] शोभन्ते इत्य् अर्थः ॥५१॥
अथ समुपसेदुषीं सखीभिर्
हरि-जननी निज-वेश्म भासयन्तीम् ।
अमनुत भुवन-त्रयैक-लक्ष्मीम्
उदितवतीं मुदितार्क-मित्र-पुत्रीम् ॥५२॥
अथ अनन्तरं हरि-जननी यशोदा मुदिता सती सखीभिः समुपसेदुषीं निकटम् आगताम् अर्क-मित्रस्य वृषभानोः पुत्रीं राधाम् उदितवतीं भुवन-त्रयैक-लक्ष्मीं त्रि-भुवनस्यासाधारण-शोभाम् अमनुत ॥५२॥
स-विनयम् अथ सा पदोर् नमन्तीं
द्रुतम् उपगुह्य शिरस्य् अजिघ्रद् एताम् ।
नयन-पृषत-वृष्टि-मात्र-पूर्ण-
प्रमद-सुधा-सरिद्-आप्लुतां च चक्रे ॥५३॥
सा यशोदा एतां राधां शिरस्य् अजिघ्रत् । एवं यशोदाया नयनयोर् ये पृषता बिन्दवः, तेषां वृष्टि-मात्रेण पूर्णायाः प्रमद-सुधा-सरितः यशोदा-कर्तृक-लालनेनोत्पन्नम् अस्य राधिका-हृदयस्थ-पूर्णानन्दामृतस्य नद्यस् ताभिर् आप्लुतां च चक्रे । अत्र मस्तक-स्थ-नेत्र-जल-वृष्टेर् हृदय-गतानन्द-नदी-पूरकत्वेनासङ्गत्य्-अलङ्कारो बोध्यः ॥५३॥
शशिमुखि शरदां शतं जयैवं
सुखय मनो-नयने ममेत्य् उदित्वा ।
अनयत सुमनो-हरास् तद्-आलीः
शम् अतुल-वत्सलता-लता नताः सा ॥५४॥
हे शशिमुखि ! राधे ! शरदां शतं वर्ष-शतं व्याप्य जय-युक्ता भव । एवं-प्रकारेण मम मनो-नयने सुखय । इत्य् उदित्वा सा यशोदा तस्या आलीः आलिङ्गनाशीर्वादादिना शं सुखम् अनयत प्रापयामास । सा कथं-भूता ? अतुल-वात्सल्यस्य लता-स्वरूपा । अत एव तस्याः सखीर् अपि सुमनोहराः तादृश-लतायाः वात्सल्य-रूपं पुष्पं हरन्ति गृह्णन्तीत्य् अर्थः । पक्षे, शोभन-मनोहराः । पुनः कथं-भूताः ? नताः पदयोः प्रणताः ॥५४॥
मधुर-मृदुल-मोदकादि किञ्चित्
समम् उपवेश्य सखीजनैर् बलात् ताम् ।
द्रुत-हृदय-धनिष्ठयाऽशयित्वा
भृशम् उपलाल्य निनाय पाक-शालाम् ॥५५॥
वात्सल्येन द्रुत-हृत् यशोदा सखी-जनैः सहितां तां राधां बलाद् उपवेश्य धनिष्ठया द्वारा आशयित्वा भोजयित्वा ॥५५॥
सरसिज-मुखि ! कीर्तिदैक-कीर्ते !
पचन-कला-चतुरा कृतासि धात्रा ।
तद् अयि रसवतीं प्रविश्य पाकं
कुरु ललितादि-सखी-कृतेति-कृत्यम् ॥५६॥
पाकं कीदृशं ? ललितेत्य्-आदि । ललितादि-सखिभिः कृतम् इति कृत्यं तादात्विकोचित-व्यापारो यत्र तम् ॥५६॥
त्वम् इह किल रमैव भाससे यत्
किरसि पुरे मम दृष्टिम् एतयैव ।
भवति विविध-सम्पदातिपूर्णान्य्
अखिल-गृहाणि सदाश्व् इति प्रतीहि ॥५७॥
रमैव लक्ष्मीर् एव त्वं भाससे, अत एव यद् दृष्टिं किरसि, एतया दृष्ट्यैव । हे भवति ! राधे ! तथा च रन्धनार्थं तव यद् वस्तु अपेक्षितं तत् सर्वं मम गेहे वर्तते । विचार्य नीयतम् इति भावः ॥५७॥
तद् इह विविध-तेमनोपयोगि
श्रुतम् अथ दृष्टम् अवैषि यद् यद् अग्र्यम् ।
तद् अखिलम् अवलोक्य वस्तु-जातं
सपदि गृहाण धनिष्ठयैव तेभ्यः ॥५८॥
तेभ्यो गृहेभ्यः सकाशात् धनिष्ठया सह ॥५८॥ \
सरसम् इति निदिश्य यातवत्यां
तनय-सामनयनाप्लवादि-हेतोः ।
प्रतिनियत-कृतौ सखीषु लग्नास्व्
अनुचरिकास्व् अपि सेवनोद्यतासु ॥५९॥
कर-पदम् अवनिज्य पाक-कृत्या-
ननुगुण-मण्डन-मुक्त-कण्ठ-पाणिः ।
हलधर-जननीं प्रणम्य राधा
सुरभि-महानसम् आबभौ विशन्ती ॥६०॥
(युग्मकम्)** सरसं** यथा स्यात् तथा इति निदिश्य प्रतिनियत-कृतौ स्व-स्व-कार्ये ललितादि-सखीषु लग्नासु, एवं किङ्करीषु वीजनादि-व्यापारे उद्यतासु सतीषु सा ताव् उभौ इत्य् अन्वयः ॥५९॥ अवनिज्य प्रक्षाल्य । पाक-कृत्यस्य् अननुगुण-मण्डनेन हारोर्मिकादिना मुक्ताः कण्ठ-पाण्य्-आदयो यस्याः ॥६०॥
पचन-चतुरता-रतासि जाते
पच मनसा तव भाति यद् यथा तत् ।
अपचम् अहम् इयन्तम् एव कालं
तव गुरु-भारम् अपाचिकीर्षुर् एव ॥६१॥
रोहिणी आह—हे जाते पुत्रि ! राधे ! तव गुरु-भारम् अपाचिकीर्षुर् अहम् एतावन्तं कालम् अपचं, इतः-पूर्वं तव मनसि यद् यद् भाति तत् पच ॥६१॥
अवनत-मुख-पङ्कजा तया सा
द्रुतम् उपगुह्य सुतेव लाल्यमाना ।
सित-वसन-समास्तृतां चतुष्कीम्
अनु सुतनुर् ह्य् उपवेशिता बलेन ॥६२॥
चतुष्कीम् अनु चतुष्क्यां सुतनुः राधा बलात्कारेण उपवेशिता ॥६२॥
अगुरु-सरल-देवदारु-दारु-
ज्वलन-परिश्रित-चुल्लिका-चयाग्रे ।
निहित-विविध-पात्र-राजि राजद्
बहुविध-तेमन-साधु-साधनार्थम् ॥६३॥
ज्वलन-कलन-पात्र-धारणोन्नत्य्-
अवनति-मूर्च्छन-दर्वि-चालनाद्यैः ।
त्रिवलि-कुच-भुजांस-कम्प-चेलोच्-
चलन-वशाद् उदपादि यस् तदास्याः ॥६४॥
मधुरिम-भरम् अच्युतः स्व-सौध-
स्फुरित-गवाक्ष-धृतेक्षणः पिबंस् तम् ।
मदन-मदम् उदञ्चितं विवृण्वन्
किम् अपि जगाद पटुर् बटुं मिषेण ॥६५॥
(सन्दानितकम्) एतेषां दारुणां काष्ठानां ज्वलनैः परिश्रितस्य चुल्लिका-समूहस्य अग्रे निहित-पात्र-श्रेण्यां **राजत्-**तत्-तेमनस्य व्यञ्जनस्य साधु-साधनार्थं निष्पादनार्थम् । ज्वलन-दृशं पात्र-धारणम् एवं पात्रस्य उन्नतिः अवनतिश् च । मूर्च्छनं“छोक” इति प्रसिद्धम् । एतैः करणैः त्रिवल्य्-आदीनाम् उच्चलन-वशात् यो मधुरिम-भर उदपादि, तं मधुरिम-भरम् अच्युतः श्री-कृष्णः सेवन् सन् एवम् उदञ्चितं कन्दर्प-मदं विवृण्वन् विवरितुं बटुं मधुमङ्गलं प्रति किम् अपि जगाद, इति तृतीय-श्लोकेन सहान्वयः । कथं-भूतः ? स्व-सौधे स्व-गृहे यः स्फुरितो गवाक्ष-समूहस् तत्र धृतम् ईक्षणं येन ॥६३-६५॥
सुमधुरतर-कण्ठ-ध्वनिम् आत्म-प्रियायाः
श्रुति-चषक-युगान्त-वेशयित्वैकतानम् ।
पचन-विधिषु चेतस् तच् चकर्षैव तेभ्यस्
तद् अपि न किम् अपाक्षीत् साधु साभ्यस्त-विद्या ॥६६॥
पचन-विधिषु एक-तानम् एकान्तासक्तं यच् चेतः, तत् तेभ्यः पचन-विधिभ्यः सकाशात् चकर्ष आकर्षं कृतवान् । तथापि साधु किं न अपाक्षीत् ? यतः सा राधा पाक-विषये अभ्यस्त-विद्या ॥६६॥
सरभसम् इति कृत्य-व्यापृतिं व्यञ्जयन्तीस्
तत इत उपयान्तीः स्वाः गिरः श्रोतु-कामाः ।
लघु लघु निज-दिश्य् अप्य् अक्षि-कोणं क्षिपन्तीः
स्वम् अभिलषितम् अद्धावेदयत् तत्-सखीः सः ॥६७॥
स श्री-कृष्णः स्वकीया गिरः श्रोतुकामा ललिताद्यास् तत्-सखीर् भावि-राधिका-सङ्ग-रूप-स्वाभिलषितम् अवेदयत् विज्ञापयामास । कथं-भूताः ? स-रभसं स-हर्षं यथा स्यात् तथा इति कृत्य-व्यापारं व्यञ्जयन्तीः किञ्चिद् व्यापार-मिषेणैव श्री-कृष्ण-सन्निधौ भ्रमन्तीर् इत्य् अर्थः । निज-दिशि श्री-कृष्ण-दिशि ॥६७॥
इति श्री-कृष्ण-भावनामृते महा-काव्ये
प्रेयो-गेह-गमनानुमोदनो नाम
पञ्चमः सर्गः
॥५॥
—ओ)०(ओ—
(६)