०४

चतुर्थः सर्गः

अलङ्कार-शोभास्वादनो नाम

परिजनैर् अथ धावयितुं मुखं
पुरट-झर्झरिका-परिसारितैः ।
समुचितैर् उदकैर् द्रुतम् आवृता
सुवदना सदनाग्रत आबभौ ॥१॥

परिजनैर् अखिलम् एव कृत्यं कारयामासेति यद् उक्तं तद् विवृणोति । **पुरट-झर्झरिकया **स्वर्ण-निर्मित-जल-पात्रेण अपसारितैर् अथ च समुचितैः शीतोष्णादाव् उपयुक्तैर् उदकैः करणैः परिजनैर् मुखं धावयितुं द्रुतम् आवृता सुवदना राधिका सदनस्याग्रे आबभौ शोभितवती । द्रुत-विलम्बितं च्छन्दः ॥१॥

कर-तलाद् असकृच् चुलुकीकृतं
सलिलम् आ-रद-ताल्व्-अनुचालितम् ।
चल-कपोल-युगोन्नति-मञ्जुल-
ध्वनि-भृतं निभृतं क्षिपति स्म सा ॥२॥

मुख-धावन-प्रकारम् आह—सा राधिका कर-तलाद् असकृत् चुलुकी-कृतं सलिलं निभृतं एकान्तं यथा स्यात् तथा क्षिपति स्म । निभृतम् इति जल-कणायाः सर्वत्र-गमनाभावार्थम् इति भावः । जलं कथम्-भूतं ? दन्तम् आरभ्य तालु-पर्यन्तं चालितं, पुनश् च चञ्चलं यत् कपोल-युगं गण्ड-द्वयं, तस्य उन्नतिर् उच्चीभावो यस्मात् । पुनश् च मञ्जुल-ध्वनिना भृतं पूणम् ॥२॥

विसृमरान् अलकान् किरती शिरस्य्
उपरि सव्य-कराङ्गुलि-घट्टनैः ।
अलिक-गण्ड-दृग्-आद्य् अथ सामित-
द्युतिम् इतं तिमितं त्रिर् अधीधवत् ॥३॥

अधुना मुखस्य बहिर्-धावन-प्रकारम् आह—सा राधिका ललाट-गण्ड-चक्षुर्-आदिकं वार-त्रयम् अदीधवत् धावितं कृतवतीत्य् अर्थः । सा कथम्-भूता ? सव्य-करस्य वाम-हस्तस्य अङ्गुलि-चालनैः करणैः विसृमरान् इतस् ततो गतान् अलकान् शिरस्य् उपरि किरती निक्षिपती । **दृग्-आदि **किम्भूतं ? तिमितं स्वतः-स्निग्धं पुनश् च अमिता या द्युतिस् ताम् इतं प्राप्तम् ॥३॥

विटपिकां द्यु-तरोस् तत-रोचिषं
रद-हितां निहितं स्व-वयस्यया ।
मुकुलिताम्बुजतां भजताञ्जसा
मृदुतरेन करेण सुदृग् दधे ॥४॥
सुदृक्
राधा मृदुतरेण द्यु-तरोः कल्प-वृक्षस्य दन्त-काष्ठ-रूपं विटपिकां दधे । किम्-भूतां विटपिकां ? ततं विस्तृतं रोचिर् यस्यास् तां, पुनश् च दन्तस्य हितां । करेण कथम्-भूतेन ? मुकुलितं कोरक-रूपं यद् अम्बुजं तत्-स्वरूपतां** भजत** ॥४॥

प्रतिसरोदित-दोलनम् अस्वनद्-
वलयम् उच्चल-कुण्डलम् एतया ।
व्यधित सा मृजति रदनंश् छविं
कणवद् उच्छलितां ललितां श्रितान् ॥५॥

दन्त-काष्ठेन दन्त-मर्जनम् आह—एतया विटपिकया रदनान् मृजती सा राधा तच् च्छविं श्रितान् कान्ति-विशेष-युक्तान् व्यधित चकार । च्छविं किम्-भूतां ? **कणवद् उच्छलितां **जलादीनां कणिका यथा उच्छलन्ति, तथेत्य् अर्थः । अत एव ललितां मनोहरां । मार्जन-समयेऽन्य-शोभां चाह—प्रतिसरो हस्त-सूत्रं “पहुचीति” ख्यातं, तस्य उदितं प्रकटीभूतं दोलनं यत्र तद् यथा स्यात् । एवं न स्वनस्ति शब्दं न कुर्वन्ति वलयानि यत्र तद् यथा स्यात्, एवम् उच्चलं चञ्चलं कुण्डलं यत्र तथा-भूतं यथा स्यात् । स्वभावोक्तिर् एव सर्वत्र ज्ञेया ॥५॥

अथ दधे सुदती धनुर्-आकृतिं
मणिमयीं रसना-परिणेजिनीम् ।
मृदुल-पाणि-युगाङ्गुलि-युग्मगां
सहचरी-करतोऽदर-तोषतह् ॥६॥

दन्त-मार्जनं कृत्वा जिह्वा-मार्जन कृतवतीत्य् आह—सुदती श्री-राधा सहचरी-करतः रसना-परिणेजिनीं जिह्वा-मार्जनीं दधे । किम्भूतां ? धनुर्-आकृतिं वक्राम् इति यावत् । पुनश् च कोमल-कर-द्वयस्य अङ्गुलि-द्वय-गतां कर-द्वयस्य द्वाभ्याम् अङ्गुलिभ्यां धृतवतीत्य् अर्थः । अदर-तोषतः अत्यन्त-सन्तोषात् ॥६॥

नव-दलोपमितां रसनां मृजत्य्
अथ तया नत-कम्पित-मस्तकम् ।
मुखम् इयं स्खलितैर् अलकैर् वृतं
विदधती दधती स्मितम् आबभौ ॥७॥

जिह्वा-मार्जनीं गृहीत्वा तया जिह्वां मार्जितवतीत्य् आह—तया परिणेजिन्या नव-पल्लवोपमितां रसनां नत-कम्पित-मस्तकं यथा स्यात् तथा मृजती राधा आबभौ शोभिता बभूव । राधा कथम्-भूता ? स्खलितैर् अलकैर् मुखं वृतं विदधती, मार्जन-समये अलकाः स्खलिता भूत्वा मुखम् आवृण्वन्तीत्य् अर्थः । पुनश् च, स्मितं दधती इतस् ततोऽलक-स्खलनम् अवलोकयन्तीनां सखीनां स्मित-दर्शनात् स्वयं स्मितं चकारेत्य् अर्थः ॥७॥

निरणिजद् बहिर् अन्तरम् अप्य् अरं
मुख-विधोर् अथ धौत-कर-द्वयम् ।
परिजनार्पित मञ्जुल वाससा जल-
कणापनयं स-नयं व्यधात् ॥८॥

जिह्वां मार्जयित्वा मुखं प्रोञ्छितवतीत्य् आह—राधिका-मुख-चन्द्रस्य **बहिर् अन्तरम् अरम् **अलम् अतिशयेन निरणिजत् प्रक्षालितवतीत्य् अर्थः । कथम्-भूता ? धौतं कर-द्वयं यया सा ॥८॥

सहचरी-विधृते मणि-दर्पणे
तद्-अभिनन्दन-साक्षिणि वीक्ष्य सा ।
स्मित-सुधाभिर् अधावयद् आननं
प्रियतम-क्षण-लक्षण-लक्षकम् ॥९॥

ततो दर्पणे स्व-मुखं दृष्टवतीत्य् आह—सा राधा सहचरी-विधृते मणि-दर्पणे मुखं वीक्ष्य, पुनः स्मित-सुधाभिर् अधावयत् धौतवतीत्य् अर्थः । दर्पणे कथम्-भूते ? तासां सखीनां अभिनन्दनस्य मुख-मार्जन-समये दन्तादि-लग्नं ताम्बूल-रागादिकं सम्यक् तया गम् इत्य् अभिनन्दनस्य साक्षिणि । आननं कीदृशं ? प्रियतमस्य कृष्णस्य यः क्षण उत्सवस् तस्य लक्षणं मुख-सुशोभादि तस्य लक्षकं ज्ञापकम् ॥९॥

परिजनैः प्रमदाद् अवतारिते
समुचिताभरण-प्रकरेऽप्य् अभात् ।
तद्-अभिलक्ष्मभिर् अङ्ग-धृतैर् इयं
विगत-दूषण-भूषणतां गतैः ॥१०॥

ततश् च स्नानाद्य्-अर्थम् उद्यमं कृतवतीत्य् आह—परिजनैः प्रमदात् हर्षात् अङ्गाद् अवतारिते समुचिताभरण-समूहेऽपि इयं राधा अभात् शोभितवती । समुचितं स्नान-समये रक्षितम् अयोग्यं । कैर् अभात् ? तत्राह—तेषां भूषणानाम् अङ्ग-धृतैः अभिलक्ष्म्भिश् चिह्नैः। लक्ष्मभिः कीदृशैः ? विगतं दूषणं यत्र तथा-भूतं यद् भूषणं तस्य भावस् तत्ता, ताम् आप्तैर् इत्य् अनेन मणिमय-मण्डने मार्जनाभावेन वैवर्ण्यादि-दोषस् तिष्ठति ॥१०॥

धवलम् आप्लवनोचितम् अंशुकम्
परिदधत्य् उदगाच् चकितेक्षणा ।
रुचिर-चन्द्रिकयावृतताम् अगाद्
अचपला चपला-लतिकोन्नता ॥११॥

स्नान-योग्यं श्वेत-वस्त्रं परिहितवतीत्य् आह—आप्लवनोचितं स्नान-योग्यं [धवलम् अंशुकम्] श्वेत-वस्त्रं परिदधती परिधानं कर्तुम् अन्य-लोक-दर्शनाशङ्कया चकितेक्षणा सती उदगात् उत्थितवतीत्य् अर्थः । तत्र दृष्टान्त इत्य् आह—उन्नता ऊर्ध्वं स्थिता अचपला स्थिरा चपला-लतिका विद्युद् अत्र रुचिर-चन्द्रिकया आवृततां वेष्टितत्वम् अगात् प्राप्ता ॥११॥

पुनर् इयं मृदुलासन आसिता
विरुरुचे विधुवत् परिवेष्टिता ।
परिजनैः परिधित्वम् इतैः सदा
न पचितापचिताव् अतिपेशलैः ॥१२॥

उपविष्टायास् तस्याः पुनः शोभान्तरम् आह—इयं राधा कोमलासने आसिता उपविष्टा सती विरुरुचे विशेषेण शोभितवतीत्य् अर्थः । तत्र उपमाम् आह—विधुश् चन्द्रस् तद्वत् स यथा परिधान-मण्डलेन वेष्टितस् तथा परिधित्वं मण्डलीभूतत्वम् इतैः प्राप्तैः परिजनैर् वेष्टिता राधा इत्य् अर्थः । परिजनैः कीदृशैः ? निरुपाधित्वात् न विद्यते अपचितम् अपचयो यस्यास् तस्याम् अपचितौ परिचर्यायाम् अतिचतुरैः ॥१२॥

क-पटनोदनतो रति-मञ्जरी-कृत-
चर-प्रतिकर्मज-बन्धनात् ।
सपदि बाल-तती यद् अमूमुचे
दूरतनोर् अतनोद् तद् अति त्विषम् ॥१३॥

किङ्करीणां परिचर्याम् आह—रति-मञ्जरी वर-तनोः श्री-राधायाः कस्य मस्तकस्य पटनोदनतः वस्त्र-दूरीकरणात् यत् बाल-ततीं केशान् अमूमुचत् । कुतः ? तत्राह—कृत-चरं पूर्वं कृतं प्रति-कर्म-वेशः, तज्-जन्यं यद् बन्धनं, तस्मात् । आकल्प-वेशो नैपथ्यं प्रतिकर्म-प्रसाधनम् इत्य् अमरः । श्लेषेण, रतिः प्रेमाङ्कुरं, तस्य मञ्जरी नवीनोत्पत्तिर् एव कपटम् अविद्या, तस्या दूरीकरणात् बाल-ततीर् अज्ञानां श्रेणीः यद् अमुमुचत्, तद् वर-तनोश् चिन्मय-शरीरस्य अतित्विषम् अतनोत् । कुतः अमूमुचत् ? तत्राह—कृत-चरं पूर्व-कृतं प्रतिकर्म कर्मानुरूपं यद् बन्धनं, तत् ॥१३॥

विरलिताङ्गुलि-कीर्णतमा इमाः
सुरभि-तैल-रसैर् अभिषिञ्चति ।
करभ-घट्टन-घर्षनतोऽन्तरस्
तिमिततामितताम् अकरोद् इयम् ॥१४॥
इयं
रति मञ्जरी करभ-घट्टन-घर्षणतो हेतोः अन्तरस्य केश-श्रेण्या अभ्यन्तरस्य यास् तिमितता स्निग्धता, तस्या या अमितता अपरिमितत्वं, ताम् अतनोत् । करस्य करभो बहिः इत्य् अमरः । कथम्-भूता ? सुरभि-तैल-रसैः इमाः केश-श्रेणीर् अभिषिञ्चती । इमा किम्भूताः? ग्रन्थि-मोचनार्थं व्याकिर्णाः ॥१४॥

अधि-शिरः कर-कुट्मल-कल्पितैर्
अथ झणद्-वलयं मृदु-मर्दनैः ।
अकृत तां दर-मीलित-लोचनाम्
अतनुकं तनु-कम्पनम् आश्रिताम् ॥१५॥
अधि-शिरः
शिरसि करयोः कुट्मलाभ्यां कमल-कलिकावत् मुष्टि-कृताभ्यां कल्पितैर् मृदु-मर्दनैः झणद्-वलयं यथा स्यात् तथा इति मर्दन-क्रिया-विशेषणं, तां राधां दर-मीलित-लोचनाम् अकृत । कथम्-भूताम् ? अतनु अनल्पं कं सुखं यस्माद् एवं-भूतं तनु-कम्पनम् आश्रिताम् ॥१५॥

मुख-विधुं कच-सन्तमस-व्रजो-
‘रुणद् अतो मणि-कङ्कतिकास्त्रतः ।
लघु विकृष्य निबध्य फलं तद्-
उत्थितम् अलं तम् अलम्भयद् एव सा ॥१६॥

ततश् च कङ्कतिकया संस्कृत्य केशानां बन्धनं कृतवतीति यथा शोभाम् उत्प्रेक्षयन्न् आह—राधाया मुख-रूप-विधुं कच-सन्तमस-व्रजः केश-स्वरूपान्धकर-समूहः अरुणत् रुद्धं चकार । अतः हेतोः सा रतिमञ्जरी मणि-निर्मित-कङ्कतिका-रूपास्त्रेण लघू शीघ्रं विकृष्य विशेषेण कृष्ट्वा निबध्यतं कच-सन्तमस-व्रजं तद्-उत्थितं विधु-रोधन-कर्म-जनितं फलम् अलम् अतिशयेन अलम्भयत् प्रापयामास ॥१६॥

कुच-भुजादिषु तैल-निषेचने वसनम्
उद्घटयन्त्य् अविभः स्मितम् ।
रहसि किङ्करी-कालिर् अथाप्य् अधाच्
चकित-लोचनतां च नताङ्ग्य् असौ ॥१७॥
किङ्करी-कालिः
किङ्करी-श्रेणी कुच-भुजादिषु तैल-निषेचने वसनं उद्घटयन्ती सती स्मितं अविभः धृतवती, तथा च कुचादिषु स्थितं वस्त्रं दूरीकृत्य तत्र तत्र नख-क्षतादि-दर्शनेन स्मित-युक्ता बभूवेत्य् अर्थः । असौ राधा तथा च रहस्य-स्थाने कोऽपि वा पश्यतीति भय-युक्ता बभूवेत्य् अर्थः । नताङ्गीति किङ्करीणां स्मित-दर्शनेन लज्जा जातेति ध्वनिः ॥१७॥

घुषृण-सीत-कराम्बुज-रेणवः
समुदिताः स्तिमिताः कुसुमाम्बुभिः ।
मलयज-द्रव-मिश्रणम् एकया
चतुरया तु रयाद् उपनिन्यिरे ॥१८॥

अथ उद्वर्तन-सामग्री-समाधानम् आह—चतुरया एकया किङ्कर्या घुसृण-सीत-कराम्बुज-रेणवः मलयज-द्रव-मिश्रणम् उपनिन्यिरे प्रापुर् इत्य् अर्थः । तथा च, कर्पूर-पद्म-राग-चूर्णानि चन्दन-द्रव-युक्तानि कृतानीत्य् अर्थः । दुहादित्वात् कर्म-द्वयं । रेणवः कथम्-भूताः ? समुदिता एकत्र-मिलिताः पुनश् च “गुलाब” इति प्रसिद्ध-कुसुमाम्बुभिः स्तिमिताः ॥१८॥

द्युतिभिर् उद्यत-विद्युत एव तैर्
लवणिमामृत-वर्षितया घनान् ।
अपघनन् अपरा उदवर्तयन् स्व-
नयनैर् नय-नैपुण्यतोऽधयन् ॥१९॥

उद्वर्तन-प्रक्रियाम् आह—अपराः किङ्कर्यः तैः कुसुमाम्बुभिः स्तिमितैः रेणुभिः अपघनान् शरीरावयवान् उदवर्तयन् । कथम्-भूतान् ? द्युतिभिर् उदयं प्राप्ता या विद्युतस् तत्-तुल्यान् । पुनश् च लावण्य-रूपामृत-वर्षितया मेघ-तुल्यान्, य एव मेघा स्त एव विद्युत इत्य् अर्थः-विरोधः । एवं घनान् एव अपघनान् इति शब्द-विरोधश् च । मेघैः सहसा दृश्यान्तरम् आह—स्व-नयनैर् इति नय-नैपुण्येन स्व-नयनैर् अधयन्, उद्वर्तनं कुर्वत्य एव स्वयं चक्षुसा रूपामृतानि अपघनतः पपुर् इत्य् अर्थः । नीति-नैपुण्यं च सर्वा उद्वर्तन-क्रिया सम्यक्-जाता न वेति, संशय-निरासार्थं सम्यक् निभालन-रूपं अधयन्न् इत्य् अनेन नयनानां चातकत्वं द्योतितम् ॥१९॥

सुरभितामलकी-द्रव-लेपनैः
मृदुल-पाणि-तलालघु-घर्षणैः ।
व्यधित काचन तच्-चिकुरंस् तदा
रुचिर-मार्जन-मार्जन-मेदुरान् ॥२०॥

केश-सम्मार्जनम् आह—काचित् किङ्करी तस्य राधायाश् चिकुरान् रुचिर-मार्जनेन या मा शोभा तस्य अर्जनं येषु, तथा-भूताश् च ते मेदुराः स्निग्धाश् च, तान् व्यधित चकार । कैः प्रकारैः ? तत्राह—सुगन्ध-द्रव्यान्तरेण आमलकी सुरभयतीति, कर्मणि क्तः । सुरभिता या आमलकी तस्या द्रव-लेपनैः एवं कोमल-करतल-बहुतर-घर्षणैश् च ॥२०॥

अथ पुरः स्फटिकाप्लव-वेदिकां
वृत्तिमतीम् अभितः परिवाहिनीम् ।
इभ-गतिर् विशती कुरुते स्म तम्
स्व-सुसमाञ्चन-काञ्चन-कान्तिकाम् ॥२१॥

स्नानार्थं वेद्य्-आरोहणम् आह—इभ-गतिः श्री-राधिका तां स्फटिका-प्लव-वेदिकां विशती प्रविशती, स्वस्या शोभाया अञ्चनेन प्रापणेन काञ्चनस्य सुवर्णस्येव कान्तिर् यस्याः एवं-भूतां कुरुते स्म । आसनाद् उत्थाय स्नान-समये शिरसि जल-दानार्थं तस्याः सकाशात् किङ्करीणां किञ्चिद् उच्च-प्रदेशोऽपेक्षितोऽतस् तद्-अर्थं वेदिकां विशिनष्टि । वृत्तिमतीं वेदिकायाश् चतुर्दिक्षु किञ्चिद् उच्च-भित्ति-स्वरूपावरण-युक्तां । पुनश् च, अभितश् चतुर्दिक्षु जल-निर्गमार्थं प्रणालिका इति प्रसिद्ध-परिवाह-युक्ताम् ॥२१॥

उपरि तच्-छिरशोऽम्बुभिर् एकया
घट-मुखाल् लघु धारतयार्पितैः ।
कर-तल-द्वयतो ममृजे मुहुर्
कच-ततिः परया परया मुदा ॥२२॥

जलेन गात्राभिषेकम् आह—एकया किङ्कर्या घट-मुखाल् लघु-धारया तया तस्या राधाया शिरस उपरि अर्पितैर् जलैः परया किङ्कर्या कच-ततिः केश-श्रेणी कर-तल-द्वयतः ममृजे परया मुदा परमानन्देन ॥२२॥

घन-रसोक्षनतो दर-कुञ्चित-
सृमर-लम्बित-नील-पताकिका ।
द्युति-भरं पुरट-ध्वज एव तत्-
तनु-मिषाद् अतनोद् अतनोर् नु किम् ॥२३॥

जलाभिषेक-समये शोभा-विशेषम् उत्प्रेक्षते—तस्या राधायास् तनु-च्छलेन अतनोः कन्दर्पस्य **सुवर्ण-**निर्मितो यो ध्वजः स एव नु भोः ! किं द्युति-भरं कान्ति-समूहम् अतनोत् ? शरीर-स्वरूप-ध्वजं कीदृशं ? घन-रसस्य उक्षणतः उक्ष सेचने, जल-सेचनात् दर ईषत् कुञ्चितः । पुनश् च सृमरा प्रसरण-शीला लम्बिता केश-रूपा नील-पताकिका यस्य सः ॥२३॥

कृत-मृजेष्व् अखिलावयवेषु ताम्
समुचिताम्बुभिर् उन्नत-सौरभैः ।
स्नपयितुं मुहुर् एव तद्-आलिभिः
प्रववृते ववृते च जय-स्वनः ॥२४॥

ततश् चाङ्ग-मार्जनार्थम् अवान्तर-स्नानान्तर-महा-स्नपन-समये सखीनां व्यवहारम् आह—कृता-मृजा मार्जनं येषां एवम्-भूतेषु निखिलावयवेषु सत्सु तदा उन्नत-सौरभैर् अम्बुभिः स्नपयितुं आलिभिः प्रववृते, सखीभिः प्रवृत्तम् इत्य् अर्थः । एवं स्नान-समये जय-शब्दश् च प्रववृते प्रवृत्तोऽभूद् इत्य् अर्थः ॥२४॥

हरिमणि-मयतां चिकुरोर्ध्वगं
वदन-सन्निहितं बहु-रत्नताम् ।
कर-तलोपरि वैद्रुमतां कुच-
द्वयम् अहो यद् अहो नव-हैमताम् ॥२५॥

स्नान-समये शोभा-विशेषञ् चाह—स्फटिक-निर्मित-जल-भाजनम् एकम् अपि विविध-रूपकं विविधाकारं श्लेषेण हरिमणित्वादिना विविधा रूपालङ्कारा यत्र तथा-विधं सत्, श्रिया अतनोर् अनल्पस्य सभाजनस्य उत्कृष्टस्य भाजनत्वं आस्पदत्वं, श्लेषेण तनोः राधिका-देहस्य स्तुति-व्यञ्जकत्वं ययौ प्राप्या धन्योऽयं देहः यस्य सान्निध्यात् अल्पम् अपीदं हरिमण्य्-आदि-मयत्वेन बहु-मूल्यं बभूव इति पर-श्लोकेन सहान्वयः ।

स्फटिक-निर्मित-जल-पात्रस्य नाना-विधाकारत्वम् एवाह—तादृशं भाजनं चिकुरोर्ध्वगं सत् हरि-मणिमयतां भजत् इन्द्र-नीलमणि-क्र्तम् इव जातम् इत्य् अर्थः । यत् पुनश् च कुच-द्वय-महो सत् नव-हैमतां भजत् कुच-द्वयस्य महः कान्तिं याति प्राप्नोति, तथा-भूतं सत् नवीन-सुवर्ण-कृतम् इव जातम् इत्य् अर्थः । अहो आश्चर्यम् ॥२५॥

जघन-वाससि पुष्कर-पिण्डतां
भजद् इव स्फटिकोदक-भाजनम् ।
विविध-रूपकम् एकम् अपि श्रिया-
तनु-सभाजन-भाजनतां ययौ ॥२६॥

पुनश् च जघन-नितम्बादि-निकटे सृतं सत् पुष्कर-पिण्डतां जल-पिण्डम् इव जातम् इत्य् अर्थः । स्फटिक-वस्त्रयोः श्वेतत्वेन जल-पिण्डाकारम् इव प्रत्ययात् ॥२६॥

स्थिर-तडिल्-लतिका-धृत-मौक्तिकान्य्
उदचिनोत् पृषद्-अम्बु-मृज-मिषात् ।
वर-तनोः शरद्-अभ्र-निभांशुकैः
कर-धृतैः प्रमदात् प्रमदावलिः ॥२७॥

स्नानान्तरं गात्र-प्रोञ्छन-शोभाम् आह—प्रमदावलिः स्त्री-समूह वर-तनोः श्री-राधायाः पृषद्-अम्बु-मृजा-मिषात् बिन्दु-जल-मार्जन-च्छलेन स्थिरीभूता या विद्युल्-लतिका तया धृतानि मौक्तिकानि उदचिनोत् उत्थाप्य नीतवतीत्य् अर्थः । प्रमदाद् आनन्दतः । केन प्रकारेण ? तत्राह—शरत्-कालीन-श्वेत्आभ्र-तुल्यैर् अंशुकैः ॥२७॥

निरुदकी-कृतयऽंशुक-वेष्टनं
कच-ततिर् गमितापि कयाप्य् अभात् ।
सुर-नदी-स्तृतयापि किम् उ त्विषो
रविजया विजयाय वितेनिरे ॥२८॥

केशस्य जल-दूरीकरणम् आह—निरुदकी-कृतये जल-दूरीकरणाय कयापि किङ्कर्या कच-ततिः केश-समूहः अंशुक-वेष्टनं गमिता वस्त्रेण वेष्टिता इत्य् अर्थः, तथापि अभात् शोभितवतीत्य् अर्थः । तत्र उत्पृएक्षम् आह—रविजया यमुनया सुर-नद्या गङ्गया स्तृत्यया आच्छादितया सत्याऽपि विजयाय गङ्गां जेतुं त्विषः कान्तीः किं वितेनिरे ॥२८॥

अथ तया निरपीड्यत सा लघु
भ्रमि-वशाद् अप उद्गिरती मुहुः ।
ग्रसनतः किम् उ चन्द्रिकयाऽरुदद्
घनतमो विसरो विष-रोचिषा ॥२९॥

निष्पीडन-शोभाम् आह—तया किङ्कर्या सा कचततिः लघु अल्पम् एव निरपीड्यत । सा कथम्-भूता ? भ्रमि-वशाद् अप उद्गिरती । तत्रोत्प्रेक्षाम् आह—विष-रोचिषा मृणालवत् श्वेत-कान्तिमत्या चन्द्रिकया ग्रसनाद् धेतोः घनतमो विसरः निविडान्धकार-समूहः किम् उ अरुदत् । विष-रोचिषेत्य् अविमृष्ट-विधेयांश-दोषो यमकानुरोधेन सोढव्यः ॥२९॥

परिजहौ रुचिरांशुक-वेष्टिता-
धर-तनुः सुदृग् आप्लवनाम्बरम् ।
मम गुणः सुरभिस् तनुमान् असव्
इति रसतिरसाद् इमम् आददे ॥३०॥

वस्त्रान्तरं परिधाय पूर्वं परिहित-वस्त्रं त्यक्तवतीत्य् आह—सुदृक् श्री-राधा रुचिरांशुकेन वेष्टिता अधर-तनुः अधः शरीरं यस्या एवं-भूता सती, अर्थात् शोभित-वस्त्रम् अधः-शरीरे परिधाय आप्लवनाम्बरं स्नानीय-वस्त्रं परिजहौ । तस्य सौगन्ध्यम् आह—रसा पृथ्वी इदम् आप्लवनाम्बरम् अतिरसाद् आददे अनुराग-विशेषेण गृहीतवतीत्य् अर्थः । अतिरसस् तस्याः कुतो जातः ? तत्राह—असौ सुरभिः सौगन्ध्य-रूपो मम गुणस् तनुमान् इदानीं मम भाग्येन मूर्तिमान् जात इति मननात् श्री-राधाङ्ग-स्पर्शात् एवं नाना-विध-सुगन्द-तैल-स्पर्शाच् च वस्त्रस्य तथा सौगन्ध्यं जातं यथा गन्ध-गुणा पृथ्वी अपि परमादरेण गृहीतवती, वस्तुतस् तु अतिरसेन अतिजलेन सिक्तं तद् वस्त्रं भूमिम् अपि सुगन्धीचकार ॥३०॥

अधि वितर्दि-तलं ललना-मणिश्
चकित-दृग् दर-कुञ्चित-विग्रहा ।
व्यकिरद् अङ्गुलि-चम्पक-कोरकैः
शिरसिजान् मुख-सन्मुख-सन्नतान् ॥३१॥
अधि वितर्दि-तलं
वेदिकायां स्थित्वा ललना-मणिः श्री-राधा अङ्गुलि-चम्पक-कोरकैः मुखस्य सम्मुखे नतान् नम्रीकृतान् शिरसिजान् केशान् । स्याद् वितर्दिस् तु वेदिके इत्य् अमरः । कथम्-भूता ? चकित-दृक् स-भय-नयना, तेन कोऽपि वा पश्यतीति शङ्काकुलेति भावः, अत एव दर-कुञ्चित-विग्रहा ॥३१॥

कर-युग-कलितान्त-तट-द्वयाम्-
बर-वराहति-निर्धूत-कुन्तला ।
घन-रस-त्रसरेणु-मयं नभो
व्यधित साधित-सार-रुचश् च ताः ॥३२॥

पुनः केशानां जल-कणा-मात्रस्यापि राहित्यम् आह—करेति । सा श्री-राधा नभ आकाशं घन-रसो जलं, तस्य त्रसरेणवोऽत्यन्त-सूक्ष्म-कणाः तन्-मयं कृतवतीत्य् अर्थः । सा किम्भूता? कर-द्वयेन कलितम् अन्त-तट-द्वयं यस्य तथा-भूतं यद् अम्बरं वस्त्रं, तस्य या आहतिः आघातः, तया निर्धूतः कुन्तला यया सा । किं च, सा राधा ताः प्रसिद्धाः सार-रुचः सार-भूताः शोभाः अधितवती, तदृश-केशाघात-समये तस्याः अति-सुन्दर-कान्तयः सर्वत्र व्याप्ता इति स्वभावोक्तिः ॥३२॥

स्थिर-तडिद्-व्रतति-निज-शाखयोर्
विमल-चन्द्रिकया कृत-सख्ययोः ।
युगम् उदस्य मुहुः प्रजहार किं
घन-तमो नतम् ओजसि तून्नताम् ॥३३॥

श्री-राधायाः केशाघातम् उत्प्रेक्षते—स्थिर-विद्युल्-लतिका कर्त्री विमल-चन्द्रिकया सह कृत-सख्ययोः निज-शाखयोर् युगं उदस्य उत्थाप्य घनी-भूत-केश-स्वरूपम् अन्धकारं कर्म किं प्रजहार ? कथम्-भूतं ? नतं नम्रीभूतं किन्तु ओजसि उन्नतम् उच्चीभूतं अन्तेन प्रहारैस् तत्-परिभवाभावाश् च सूचितः । दृष्टं चैतद् भगवद्-भक्तेषु अन्य-कृत-तिरस्कारेऽपि समत्वात् तेजो-बुद्धिर् जायते ॥३३॥

रुचिर कुञ्चन संवृतं ऊर्ध्वत
स्तनम् अधः प्रपदावधि लम्बि सा ।
परिदधेऽरुण सूत्र सितान्तरम्
प्रवरम् अम्बरमञ्चित चित्रवत् ॥३४॥

सा राधा “लहङ्गा” इति प्रसिद्धं प्रवरम् अम्बरं परिदधे । किम्-भूतं ? ऊर्ध्वत उपरि भागे रुचिर-कुञ्चनेन संवृतं, पुनश् च प्रपदावधि पादाग्र-पर्यन्तं लम्बि । पुनः “डोरी” इति ख्यातेन अरुण-सूत्रेण सितं बद्धम् अन्तरं यस्य तत्, तेनान्तः-प्रविष्टेनैव सूत्रेण बद्धम् इति यावत् । पुनश् च अञ्चितं पूजितं प्रशस्तं यच् चित्रं तद् युक्तम् ॥३४॥

कनक-बिन्दुमती नव-शाटिका
घन-रुचिस् तद्-उपर्य् अतिदिद्युते ।
यद् अभिवेष्टनम् एव मुकुन्द-
दृङ्-निरनुरोधन-रोधनम् उच्यते ॥३५॥

तस्य परिहित-वस्त्रस्य उपरि “डाण्डिया” इति प्रसिद्धा नव-शाटिका दिद्युते शुशुभे । कथम्भूता ? सुवर्ण-रसमय-वस्तुना निर्मिता ये बिन्दु-मय-चिह्नानि, तैर् युक्ता । पुनश् च मेघस्येव रुचिर् यस्याः सा । श्री-कृष्ण-कर्तृक-दर्शन-जन्य-लज्जया यस्याः शाटिकायाः सम्यक्तया वेष्टनं कृष्णस्य दृष्टे निरनुरोधेन स्वातन्त्र्येण रोधनम् उच्यते । तथा च यद् वेष्टन-दर्शन-मात्रेणैव कृष्णस्य नेत्रं रुद्धं भवतीत्य् अर्थः ॥३५॥

अगुरु-धूम-कुलं गुरु-केश-भाक्
तद्-अवशेष-रसं लिहद् उद्ययौ ।
स्वर् अति-ऋद्धिर् भवेन् नहि कस्य वा
स-महता महताम् अनुसेवया ॥३६॥

पुनः केशस्य विशेषणम् आह—अगुरु-कृत-धूम-समूहः तेषां केशानाम् अवशिष्टतया स्थितो यो रसो जलं तत् लिहत् सत् स्वः स्वर्ग-पर्यन्तं उद्ययौ । कीदृशं धूम-कुलं ? गुरुर् दीर्घो यः केशस् तं भजते । श्लेषेण, अगुरुं गुरुर् अहितं यद् धूम-कुलं मलिनं कुलं गुरु-स्वरूपं केशं ईश्वरं भजत् सत् अवशेष-रसं लिहत् आस्वादितं कुर्वत्, अत्यन्तं ऋद्धिः सम्पत्तिर् यत्र तादृशं स्वः वैकुण्ठम् अपि उद्ययौ । तत्रार्थान्तर-न्यासम् आह—महतां अनुसेवया कस्य नीचस्यापि जनस्य स-महता सोत्सवत्वं न हि भवेत् ॥३६॥

विधु-मुखीं भृशम् उच्छलितैर्
वृतां द्युति-भटैः पुरटासनम् आश्रिताम् ।
परिचरत्य् उपगम्य सुदेव्य् अधात्
सकलया कलया महिता मुदम् ॥३७॥

केश-सङ्कारार्थं सुदेवी समागतेत्य् आह—सुदेवी सुमुखीं श्री-राधां परिचरन्ती परिचरितुम् उपगम्य निकटम् आगत्य मुदम् आनन्दम् अधात् धृतवती । कथम्-भूता ? सकलया सर्वया कलया वैदग्ध्या महिता प्ऽऊजिता ॥३७॥

अधिशिरोऽधि-समर्पित-सङ्कुचद्-
विकसद्-उन्मुख-सव्य-करोदरे ।
इतर-पाणिग-कङ्कतिकाऽग्रतो दर
विकृष्य विकृष्य कचान्य् अधात् ॥३८॥

केश-सङ्कारम् आह—अधिशिरोऽधि कन्धरायां समर्पितो यः सङ्कुचन् अथ च विकसन् एवम्** उन्मुख** उत्तानता स्थितो यो वाम-करस् तस्य उदरे मध्ये दक्षिण-पाणि-गत-कङ्कतिकाग्रेण करणेन उदर [?] विकृष्य विकृष्य अतिशयाकर्षणं कृत्वा कचान्य् अधात् । तथा च श्री-राधायाः कन्धरायां उत्तानतया स्थिते वम-हस्थ-मध्ये कचां यदा कङ्कतिकाग्रेण आनयति, तदा करः प्रसारितः स्यात्, अन्यदाकुञ्चितः स्याद् इत्य् अर्थः ॥३८॥

कनक-जाल-विकीर्ण-यमानुजा-
सलिल-पूर-वरो वितनोऽपि किम् ।
मुकुलित-स्फुटिताब्ज-मुखे पतन्
कवलितो बलितोदयवत्य् अभूत् ॥३९॥

केशान् संस्कुर्वत्याः सुदेव्या वाम-करे धृतं राधायाः केश-समूहम् उत्प्रेक्षते—कनक-रचित-जाल-रूपया कङ्कतिकया विकीर्ण आकृष्टो यो यमुना-जल-[पूर-प्रवरः] प्रवाह-वरः विततः विस्तृयतोऽपि मुकुलित-स्फुटिताब्ज-मुखे पतन् सन् कवलितो ग्रस्तोऽभूत् । कथम्-भूते? अब्ज-मुखे बलिता बलवत्ता तस्या उदय-युक्ते अत एव महा-प्रवाहम् अपि ग्रासीकरोतीति ॥३९॥

सुभग-कङ्कतिका-कलिताऽलिकाद्
उपरितः प्रभयैधत रेखिका ।
ललित-पुच्छ-युगं समयाशिरस्
तनुतमा नुत-मार्ग-निभातनोः ॥४०॥

केषेषु रचना-विशेषम् आह—सुभगया कङ्कतिकया कलिता कृता “सीथी” इति ख्याता रेखिका प्रभया अलिकात् ललाटाद् उपरि ऐधत । किम्भूता ? समयाशिरः शिरो-मध्ये ललितं सुन्दरं पुच्छ-द्वयं यस्याः । पुनः कथम्-भूता ? तनुतमा सूक्ष्मा, पुनश् च नुतः स्तव-विषयी-कृतो यः [अतनोः] कन्दर्पस्य मार्गस् तत्-तुल्या नुत इति । अर्थात् कन्दर्पेणेति बोध्यम् ॥४०॥

सपदि मूर्तिमती किम् उ माधुरी-
सुरनदी हरि-हृत्-करि-केलये ।
परिजनाक्षि-तरिस् त्रिपथोदया
स्मरद्-अमीव-हतिर् वहति स्म सा ॥४१॥

रेखिकाया उत्प्रेक्षाम् आह—[ हरि-हृत्-करि-केलये] श्री-कृष्णस्य हृदय-हस्तिनः केलये माधुरी-सुरनदी मूर्तिमती सपदि शीघ्रं किम् उ वहति स्म ? प्रवाह-रूपेण चलितवतीत्य् अर्थः । कथम्-भूता ? परिजनानां चक्षुर् एव तरिर् नौका, यत्र सा पुनश् च त्रयाणां पथां उदयो यस्याः एतेन गङ्गा-साधर्म्यम् उक्तम् । पुनश् च स्मरतां जनानां अमीवस्य पापस्य हतिर् नाशो यतः ॥४१॥

ललितयाऽथ पुरः स्थितया शिरो-
मणिर् इहोपरि साधुतयाऽर्पिताः ।
विरुरुचे कच-सन्तमसावलाव्
इन इवोदयितो दयितो यथा ॥४२॥

केशेषु वेशम् आह—पुरः-स्थितया ललितया शिरस उपरि “शीषफुल” इति प्रसिद्धः शिरोमणिः साधुतया अर्पितः सन् विरुरुचे । तत्र दृष्टान्तः—[कच-सन्तमसावलौ] केश-रूपान्धकार-श्रेण्यां इनः उदय-कालीनो रक्त-सूर्य इव । ननु सूर्यो यथा अन्धकारं नाशयति तथायम् अपि केश-रूपान्धकारं कथं न नाशयति ? तत्राह—दयितो यथा तथा अन्धकार-श्रेण्याः प्रियत्वात् । अस्य च प्रियत्वाद् अद्भूत-सूर्य इत्य् अर्थः ॥४२॥

तम् अभितः स्पृशती नव-मौक्तिका-
वलिर् अभाद् अधिरेखम् अपि स्थिता ।
उडु-तती रविम् आप विहाय किं
हिम-रुचिं परितोऽपरितोषतः ॥४३॥

शिरोमणेश् चतुर्दिक्षु-रचना-विशेषम् आह—तं शिरोमणिम् अभितः स्पृशती नव-मौक्तिक-श्रेणी अधि-रेखं रेखायाम् अपि स्थिता सती अभात् । तत्र उत्प्रेक्षाम् आह—उडु-ततिः नक्षत्र-श्रेणी अपरितोषात् हिमरुचिं चन्द्रं विहाय किं अभितः रविं सूर्यम् आप शीताद्य्-आर्ति-दुरीकरणायेति भावः ॥४३॥

विनिहितालक-चुम्बित-मौक्तिका-
तनु-धनु-सदृशी न ललाटिका ।
सचल-शैवल-बुद्बुद-पाल्य् असौ
मुख-सुधा-सरसः सरस-च्छवेः ॥४४॥

ललाट-स्थिताभरणान्तरम् आह—ललाटे विनिहिता अथ च आलक-चुम्बिता मौक्तिका मुक्ता यत्र तथा-भूता या ललाटिका ललाटोर्ध्व-स्थित-भूषणं “पत्रपाश्य”-आख्यं न, तर्हि किम् इत्य् अपेक्षायाम् आह—असौ ललाटिका मुख-रूप-सुधा-सरोवरस्य **चञ्चल-शैवल-**सहिता या बुद्बुद-पाली जल-बिम्ब-श्रेणी तद्-रूपात्र वेति ।

ननु सरोवर-मध्योत्पन्नानां शैवालादीनां कथं ललाट-रूप-तट-वृत्तित्वं सम्भवति ? तत्र आह—सरसेति । सरसः कथम्-भूतस्य? [सरस-च्छवेः] रस-सहिता च्छविः तरङ्ग-रूपा कान्तिर् यस्य । तत्र च्छवि-पदस्य तरङ्गे आरोपः । तथा च च्छवि-रूप-तरङ्गेनैव तेषां तट-वृत्तित्वं बोध्यम् । अलक-स्थानीयः शैवालः ए-कारवान् अपि शैवाल-शब्दोऽस्ति । सकल-शेवल-शेवलमालिक इति यमक-दर्शनाद् इति अमर-टीका ॥४४॥

मिलित-तत्-तद्-उपान्तिम-सूत्रवत्य्
अथ सुदेव्य्-उत-पुष्प-विचित्रिता ।
कच-ततिः सुदृशो वर-वेण्य् अभूत्
मधुरम् आप्रसृतं प्रसृतं यया ॥४५॥

वेणी-रचनाम् आह—मिलितानां तेषां शिरोमणि-लग्न-मुक्ता-माला-ललाटिकादीनां येऽन्तिम-भागाः, तेषां निकट-वर्ति-सूत्राणि तद्वति सुदृशो राधायाः कच-ततिः वर-वेणी अभूत् । अन्ते भवोऽन्तिमश् चरम-देशः, तस्य निकटे वर्तते अनेन मुक्ता-रहितानि सूत्रस्य सर्वावयवान्य् एव वेणी-मध्ये प्रविष्टानीति ज्ञेयं । कथम्-भूता ? सुदेव्या ग्रथितैः पुष्पैर् विचित्रिता । यया वेण्या आप्रसृति जङ्घा तत्-पर्यन्तं मधुरं यथा स्यात् तथा प्रसृतं व्याप्तम् ॥४५॥

विधुर् अगान् मुखतां तपसा वमन्
निज-कलङ्क-कलाङ्किम् इहोद्धतः ।
इयम् अमीलित-वेणिर् अभूद् गता
चरण-लम्बिततां विततांशुभिः ॥४६॥

वेणी-शोभाम् उत्प्रेक्षाम् आह—विधुश् चन्द्रः तपसा करणेन निजां कलङ्क-कलां किं ऊर्ध्वतो वमन् सन् राधाया मुखतां अगात् प्राप्तवान् ? नव-केश-रूपा सा कलङ्क-कला राधायाः शिरसि कथं स्थापिता ? तत्राह—इयम् अपि कलङ्क-कला चरणालम्बितत्वं गता सती मीलितास् तव योग्या वेणिर् अभूद् इति चरणे पतिता, सा तेनाङ्गीकृतेति भावः । कलङ्क-कला-वेणिः कथम्-भूता ? अंशुभिः किरणैर् वितता विस्तृता । अत एव किरण-द्वारा चरण-पर्यन्तम् अपि तस्यागमनं सम्भवेत् ॥४६॥

विविध-रोचिर् अयोजि तद्-अग्रतः
कनक-हीरक-मौक्तिक-चित्रिता ।
मृदुल-पट्ट-लसच्-चमरी-ततिः
विकच-सारस-सार-सभा-स-भा ॥४७॥

पुनर् वेणी-भूषाम् आह—सुदेव्या तस्या वेण्या अग्रे मृदुल-पट्ट-लसच्-चमरी-ततिः अयोजि, कोमल-पट्ट-सूत्र-सम्बन्धिनी अथ च लसती शोभायमाना चमरी-श्रेणी, तथा च “फोन्धनी” इति ख्यातं पट्ट-सूत्रं वेन्य्-अग्रे दत्तम् इत्य् अर्थः । कथम्-भूता ? विकच-सारसस्य प्रफुल्ल-पद्मस्य या सार-सभा श्रेष्ठ-सदः, तस्य [स-भा] समानाभाः कान्तिर् यस्याः ॥४७॥

हरि-मनोरथ-कल्प-लतोर्ध्वतो
यम् अवरोहम् अधत्त तद्-अग्रतः ।
विजितम् इन्द्र-पुरां मदनोऽसिनोद्
वर-रुचामर-चामरम् एव किम् ॥४८॥

पुनर् वेणीम् उत्प्रेक्षते—राधा-रूपाया हरि-मनोरथ-कल्पलता सा, “नामना” इति “जटा” इति च ख्यातं यं वेणि-रूपं अवरोहं ऊर्ध्वतोऽधत्त, तस्य अवरोहस्याग्रे मदनः वर-रुचामर-चामरं किम् असिनोत् ? वरा श्रेष्ठा रुचा कान्तिर् यस्याः, तद् अमर-चामरं । रुचा टाब्-अन्तोऽपि दिशा रुचा इति यत् । वट-भिन्न वृक्षस्थावरोहे जाते तद् दर्शन-जनितया तत्-तले निधि-स्थिति-शङ्कया यथा अन्यो राजा तद्-रक्षणाय स्वत्व-ज्ञापकं चामरं बध्नाति, तथैव कन्दर्प-राजोऽपि चकार । इन्द्र-पुराद् इति चामरस्य सौन्दर्यम् उक्तम् ॥४८॥

किम् उ सुदेव्य् अयि देव्य् असि बन्धदा
दृढम् अबध्यत बाल-ततिर् यतः ।
द्रुतम् इमां हरिर् एव विमोक्षति
स्व-रति-लक्षणतः क्षणतः क्षणात् ॥४९॥

सुदेविम् अपदिश्य ललिता स-परिहासम् आह—अयि ! सुदेवि ! त्वं बन्धदा देवी महामाया असि । यतः बाल-ततिः अबुध-श्रेणी, पक्षे केश-श्रेणी दृढम् अबध्यतस्वस्मिन् रतिः प्रेमा, पक्षे सम्भोगः, तस्य लक्षणात् यक्षयति ज्ञायतीति व्युत्पत्त्या अनुभावाद् इत्य् अर्थः । क्षणतः उत्सवतः क्षणात् क्षण-मात्रेण मोक्षति ॥४९॥

इदम् अभाषत सव्य-करं दधत्य्
अधिशिरो ललितास्यम् उदस्य सा ।
तिलकयन्त्य् अलिकं धृत-वर्तिके-
तर-करारक-राजि मृगीदृशः ॥५०॥
इदं
पूर्वोक्तं ललिता सुदेवीम् अभाषत । अधुना ललाटं च ललितया तिलकितम् इत्य् आह—सा ललिता मृगीदृशः राधाया आस्यं मुखं उदस्य उत्थाप्य अलिकं तिलकयन्ती सती अभाषतेत्य् अन्वयः। कथम्-भूता ? तिलक-दानार्थं अधिशिरः शिरसि वाम-करण् दधती । पुनश् च धृता “तुली” इति प्रसिद्धा वर्तिका इतर-करे यया । अलिकं कथम्-भूतं ? अरकेण अलकेन राजितुं शीलं यस्य तत् ॥५०॥

मद-युतागुरव-द्रव-मण्डला-
न्तर-लसत्-तनु-नागज-पङ्कजाम् ।
व्यलिखद् ऐन्दव-चन्दन-बिन्दु-युङ्
मधुर-चित्रक-चित्रकम् आशु सा ॥५१॥

तिलक-रचना-विशेषम् आह—सा ललिता मधुरं चित्रं यत्र तथा-भूतं तिलकं व्यलिखत् । तिलकं कीदृशं ? मदो मृगमदस् तेन युक्तोआगुरव-द्रवः अगुरु-सम्भूतो रसः “चोया” इति प्रसिद्धः, तेन कृतं यन् मण्डलं, तस्य अन्तरे मध्ये लसत् शोभितं यत् तनु सूक्ष्मं नागजेन सिन्दूरेण कृतं पङ्कजं पड्मं यत्र । पुनश् च इन्दुः कर्पूरः ऐन्दवश् चासौ चन्दन-बिन्दुश् चेति कर्मधारयः । कर्पूर-संवलित-चन्दनस्य बिन्दु-युक् ॥५१॥

अपहृतां विजितात् किम् उमापतेः
शशिकलाम् अलिकं व्यधितात्म-भूः ।
इह पुनः कलिताङ्ग-विशेषकं
शुचि-रसं चिर-सम्भृतम् आदधे ॥५२॥

ललाटस्य तिलकस्य च शोभाम् एकदा आह—आत्म-भूः कन्दर्पः, श्लेषेण ब्रह्मेव स्रष्टा, विजितात् उमापतेः महादेवात् सकाशाद् अपहृतां चन्द्र-कलाम् एव अलिकं ललाटं व्यधित चकार । उमायाः पतित्वम् एव तस्य काम-विजितत्वं सूचयति । पुनर् इह अलिके चिर-सम्भृतं चिर-कालं व्याप्य धृतं [शुचि-रसं] शृङ्गार-रसम् आदधे । कीदृशं ? धृताङ्ग-विशेषकं मूर्तं शृङ्गार-रसम् इत्य् अर्थः । गृहीता निर्वेद-गर्वाद्या हासाद्याश् च अङ्ग-विशेषा येनेति । श्वेत-रक्त-बिन्दु-रेखादि-सङ्गतः कलितानि रचितानि बिन्द्व्-आदीन्य् अङ्गानि यस्य तादृशं विशेषकं तिलकं शुचिः शुद्धो रसो यत्र । तद् इति त्रयण्वार्थाः प्रस्तुताः ॥५२॥

पुरट-पट्टवरेऽलक-मातृकाक्षर-
वृतं स्मर-यन्त्रम् इदं बभौ ।
किम् उरु-वर्णम् अनुश्रित-सौभगम्
प्रियतमादर-मोदर-कार्मणम् ॥५३॥

तिलकम् एव पुनर् उत्प्रेक्षते—ललाट-रूप-सुवर्ण-पट्टवरे अलक-रूप-मातृकाक्षरेणावृतं कन्दर्पस्य यन्त्रं किं बभौ ? कथम्-भूतं ? उरवो वर्णा** **अक्षराणि यत्र तेन, मनुना मत्रेण आश्रितं सौभगं यस्य । तिलक-पक्षे श्वेत-रक्तादि-वर्णम् इति च्छेदः । पुनश् च प्रियतमस्य अदरः अनल्पं मोदं हर्षं राति ददाति यत्, कार्मणं वशीकारक-वस्तु-विशेषस् तत्-स्वरूपम् ॥५३॥

सरसम् आनग् अथैन्दव-वर्तिका-
कलितयाऽञ्जन-रेखिकयाऽक्षिणी ।
सपदि पक्ष्म-निकुञ्चन-माधुरिम्
रसनया सनया लिहतां कथम् ॥५४॥

अथ तिलकानन्तरं ललिता अञ्जन-रेखिकया राधाया अक्षिणी आनक् अञ्जन-युक्ते कृतवतीत्य् अर्थः। अञ्जु-म्रक्षणे लङ् । अञ्जन-रेखिकया कथम्-भूतया ? इन्दुः कर्पूरस् तत्र-भवा या वर्तिका “तुली” इति ख्याता, तया कृतया । सपदि अञ्जन-दान-क्षणे या पक्ष्म-कुञ्चनस्य माधुरी, तां सनया नीतिमन्तोऽपि जना रसनया जिह्वया कथं वर्णयन्तित्य् अर्थः ॥५४॥

किरण-मालिनि न प्रभुतेति तत्-
प्रियतमे नलिने यद् इमे तमः ।
स्व-महसा वृणुतैव तद् अप्य् अहो
रुचिरता चिरतावलतैतयोः ॥५५॥

अञ्जन-युक्तयोर् नेत्रयोः शोभाम् उत्प्रेक्षते—किरण-मालिनि सूर्ये प्रभूता नास्ति इति मत्वा तस्य सूर्यस्य परम-प्रिये नलिने पद्म-द्वयं तमोऽन्धकारः स्व-महसा स्व-कान्त्या आवृणुत इवअहो आश्चर्यं । तद् अपि तथापि तयोर् नलिनयो रुचिरता कान्तिमत्ता, तस्याश् चिरता बहु-काल-व्यापित्वं अबलत बलिष्ठा बभूवेत्य् अर्थः ॥५५॥

सतृषतावगमाद् अयम् अर्पितः
सपदि कृष्ण-रुचि-द्रव एव वाम् ।
इति जगाद दृशौ कुटिल-भ्रुवः
स्मित-मुखी ललिता ललिताक्षरम् ॥५६॥

ननु भो ललिते ! अङ्गानां मध्ये श्रेष्ठाभ्याम् आवाभ्याम् कथं रत्नादिकं विहाय अञ्जनं दत्तं ? तत्राह—वां युवयोः कृष्ण-रुचि-द्रवे [सतृषतावगमात्] तृष्णा-युक्ततावगमात् कृष्ण-रुचि-द्रवो मया अर्पितः । कृष्णा रुचिः कान्तिर् यस्य तथा-भूतो द्रवः अञ्जनम् इति यावत् । पक्षे, कृष्ण-सम्बन्धि-श्याम-कान्तिर् एव द्रव इति कुटिल-भ्रुवो राधाया दृशौ प्रति स्मित-मुखी ललिता ललितं सुन्दरं अक्षरं यत्र तद् यथा स्यात् तथा जगाद । कुटिल-भ्रुव इति श्लिश्टार्थ-स्मरणेन ईर्ष्या ध्वन्यते ॥५६॥

सफरिके रुचिराञ्जन-रञ्जिते
अयि भविष्यति कृष्ण-घनोद्गमे ।
सपदि नृत्य-गतिं तनुतं मदान्
मधुर-भाव-कलावक-लाघवाम् ॥५७॥

पुनर् ललितैवाह—अयि ! सफरिके ! कृष्ण-घनोद्गमे भविष्यति सति युवां नृत्य-गतिं मदात् दर्पात् शिघ्रं तनुतं । कथम्-भूतां ? भाव-वैदग्ध्या अवकं रक्षकं **लाघवं **यस्यां मदाद् इति गुरु-जनादि-भयापेक्षापि तदानीं युवाभ्यां न कर्तव्येति ध्वनिः ॥५७॥

इति तया हसिताऽसितांशु-मुख्य्
अजनि या मम दृङ् न हि लासिका ।
भवद्-अपाङ्ग-नट-प्रवराद्
अनध्ययन-शालितयाऽलि तयाऽत्र किम् ॥५८॥
इति
तया ललितया हसिता सितांशु-मुखी राधा तां प्रति आह—या मम दृक् सा लासिका नर्तकी न हि अजनि न जातेत्य् अर्थः । भवद्-अपाङ्ग-नट-प्रवरात् अध्ययन-शालित्वाभावेन हेतुना तस्मात् हे आलि !** तया** मूर्ख-दृष्ट्या अत्र किम् ? अत्र तस्याः श्लाघया न किम् अपि प्रयोजनम् इत्य् अर्थः ॥५८॥

विविध-रत्न-युजाऽर्च्यत नासिका
शिखरम् आशु तया वर-मुक्तया ।
उरसि साभरणोडुर् इवेन्दुना
स्व-रमणी रमणीयतया दधे ॥५९॥

भूषणेन नासिका-भूषितेत्य् आह—तया ललितया विविध-रत्न-युजा वर-मुक्तया नासिका-शिखरम् अर्च्यत, शुभ्र-पुष्पेण पूजितवत् शोभितं कृतम् इत्य् अर्थः । तत्र दृष्टान्तेन मुख-शोभाम् आह—इन्दुना चन्द्रेण स्व-रमणी उडुर् इव वक्षसि दधे । उडुः कथम्-भूता ? आभरण-सहिता, अत एव तस्या रमणीयतया हेतुना हृदि धृता इत्य् अर्थः । चन्द्र-विशेषणत्वे रमणीर् यातीति, तया लाम्पट्येन हेतुनेत्य् अर्थः ॥५९॥

द्युति-नृपः स तद्-आभरण-
च्छलात् पुरट-पङ्कज-पट्ट-वरासनः ।
निखिल-दुर्वश-दृङ्-नगरे हरेर्
अधिचकार सदा रसदास्पदे ॥६०॥

मुक्ताभरणम् इषात् द्युतीनां राजा एव अखिलानां दुर्वशे हरेर् दृष्टि-रूप-नगरे अधिचकार अधिकारं कृतवान् । द्युति-नृपः कथम्-भूतः ? [पुरट-पङ्कज-पट्ट-वरासनः] सुख-स्वरूप-स्वर्ण-निर्मित-कमल-रूपं पट्टं राज-पट्टं “राज-पाट” इति ख्यातं तद् एवासनं यस्य सः । तादृश-नगरे कथम्-भूते? सुखदास्पदे ॥६०॥

लवणिम-व्रततेर् नव-बीजम्
इत्य् अवचिचीषुतयाक्षि-विलासिनोः ।
मुहुर् इहैव भवेत् किम् अघद्विषा
प्रहितयो हितयोर् अतिलोलता ॥६१॥

नासाभरणस्याकर्षकता-विशेषम् आह—लावण्य-रूप-लताया इदं नवीन-बीजम् इति मत्वा अवचिचीषुतया अवचेतुम् इच्छया कृष्णेन प्रहितयोस् तस्य्आक्षि-रूप-विलासिनोः इहैव नासाभरण एव लोलता सतृष्णता किं मुहुर् भवेत् ॥६१॥

विचकिलोज्ज्वल-वर्तुल-कोरक-
स्मर-शरस् तिल-पुष्प निषङ्गतः ।
प्रसृत एव मुकुन्द-धृतेः परिप्लव-
करोऽवकरोज्झित ऐष्ट किम् ॥६२॥

पुनर् नासाभरणम् एवम् उत्प्रेक्षते—नासा-स्थानीयं यत् तिल-पुष्पं तद् एव निषङ्गः “तूण” इति प्रसिद्धः, तस्मात् मुक्ता-स्थानीय-विचकिलोज्ज्वल-वर्तुल-कोरक-स्वरूपः कन्दर्प-शरः प्रसृत एव निर्गतः सन्न् एव किम् ऐष्ट ? तथा च तूणान् निर्गतः सन्न् एव किं परमैश्वर्यं कृतवान् ? इत्य् अर्थः । किम् ऐश्वर्यम् ? इति चेत्, तत्राह—यतः मुकुन्द-धृतेः परिप्लवः वैकल्यं चाञ्चल्यं वा तं करोतीति । परिप्लवश् चाकुले स्याच् चञ्चले च पराभवे । इति मेदिनी । विचकिलो “रायबेल” इति प्रसिद्धः । तत्रापि वर्तुल इति-पदेन “मोतिया रायवेल” इति कोरकः कलिका अवकरो दोषस् तेन उज्झितः । तथा च पुष्प-गत-म्लानत्वादि-दोष-रहित इत्य् अर्थः ॥६२॥

मधुरिमामृत-युग्-बडिशं त्वम्
अस्य् अयि विभूषण दृक्-शफरं हरेः ।
झटिति कर्ष मदाद् इति तत् तया
निजगदे जगद्-एधित-सौभगम् ॥६३॥

पुनर् नासाभरणम् अपदिश्य परिहासम् आह—अयि [विभूषण] नासाभरण ! त्वं माधुर्य-रूपामृतेन युक्तं वडिशम् असि । अत एव मदात् दर्पात् हरेर् दृष्टि-रूपं सफरं झटिति कर्ष आकर्षणं कुरु । इति तया ललितया तद् भूषणं प्रति निजगाद । कीदृशं ? जगति एधितं वर्धितं सौभगं यस्य ॥६३॥

ग्रसति यस् त्व् अनुराग-समुद्र-भूः
कुल-भुवां धृति-भी-मति-सम्पुटान् ।
वडिशम् अप्य् अभिकर्षतु वा स सास्पदम्
अदो दमदो भुवि तस्य कः ॥६४॥

ललितायाः परिहासोक्तिं लक्ष्यी-कृत्य विशाखाप्य् उपहसितवतीत्य् आह—यः हरेर् दृष्टि-रूप-शफरः कुल-भुवां कुलवतीनां धृति-भय-बुद्धि-सम्पुटान् ग्रसति, खलु सास्पदं भूषणस्याश्रय-सहितं **अदस् **तद् वडिशम् अपि अभि सर्वतो-भावेन आकर्षतु । तथा च त्वया यद् उक्तं तस्य वैपरीत्यं वा भवेद् इत्य् अर्थः । अहो एवं वैपरीत्यं कथं सम्भवेत् ? तत्राह—भुवि तस्य दमदः दमन-कर्ता को भवेत् ? **अनुराग-**रूप यः समुद्रः, स एव भूर् उद्भव-स्थानं यस्य ॥६४॥

इति सखी-युग-वाग्-अमृतं पिबन्त्य्
अपि नटद्-भ्रुकुटिः स्फुटम् आह सा ।
अयि कृषेः स युवां च परस्परम्
भवथ कर्मतया मतया स्थिताः ॥६५॥

(विशेषकम्)** सा** राधिका । अयि ! हे सख्यौ ! कृष्णः युवां च, कृष-धातोः कर्मतया परस्परं स्थिता यूयं भवथ । कथम्-भूतया ? तस्य युवयोश् च सम्मतया ॥६५॥

उपरि चक्रिकयोः स-शलाकयोर् युगम्
अधो मणि-कुण्डलयोर् द्वयम् ।
श्रवणयोर् अवतंसित-कुन्दयोर्
व्याधित शोधित-शोचिर् इवांशुकैः ॥६६॥

कर्ण-भूषणं वर्णयति—अवतंसित-कुन्दयोः श्रवणयोर् उपरि-देशे चक्रिका-शलाकयोर् युगम् । एवं तयोर् अधो-देशे कुण्डलयोर् द्वयं न्यधात् । उत्प्रेक्षाम् आह—अंशुकैर् वस्त्रैः शोधितं छानितं शोचिः कान्तिर् इव ॥६६॥

किम् अतनु-द्रुम-पल्लव-तल्लजाव्
अविभृतां विभृतान् द्युति-शीधुभिः ।
मणिमय-स्तवकान् स्तवकार्य् अघ-
द्विषद्-अलि-प्रमद-प्रमद-प्रदान् ॥६७॥

अत्रोत्प्रेक्षाम् आह—कन्दर्प-द्रुमस्य श्रेष्ठ-पल्लवौ किं द्युति-रूप शीधुभिर् विशेषेण भृतान् पूर्णान् पुष्टान् वा मणि-मय-स्तवकान् अविभृतां, भूते लङ् । तान् कथम्-भूतान् स्तवकान् ? स्तव-कारी यो**ऽघद्विषन् **कृष्णः, स एव [अलिः] भ्रमरः, तस्य प्रमद-प्रमद-प्रदान्, प्रमदः प्रकृष्ट-मत्तता प्रकृष्ट-हर्षश् च ॥६७॥

मकरिके लिखती मृदु-गण्डयोर्
मकर-केतनम् आह्वयद् एव सा ।
यम् अधरारुण-पल्लवम् अर्पयन्
रसमये समये हरिर् अर्चयेत् ॥६८॥
सा
ललिता गण्डयोः कन्दर्पस्यासन-रूपे मकरिके लिखती सती मकर-केतनं कन्दर्पं आह्वयत् । यं कन्दर्पं । रसमये समये रहस्य-काले ॥६८॥

श्रवण-हीरकणे प्रतिबिम्बिते
नव-कपोल-सुधा-सरसोर् इमे ।
चटुल-लाजि-धिया विवृतानने किम्
उदिते मुदिते भवतुर् जडे ॥६९॥

ललितया लिखितयोर् मकर्योर् मुखम् उत्प्रेक्षते—श्रवण-सम्बन्धि-कुण्डलस्थ-हीरकणे नवीन-कपोल-**सुधा-सरोवर-**द्वये सति प्रतिबिम्बं दृष्ट्वा स्व-भक्षणात् “खै” इति प्रसिद्धानां चञ्चल-लाजानां धिया इमे मकरिके किं विवृतानने सत्यौ बभूवतुः । कथम्-भूते ? उदिते जनाद् उद्गते ।

ननु स्व-भक्ष्यं दृष्ट्वा कथं न खादतः ? तत्राह—मुदिते आनन्द-युक्ते अत एव जडे, तस्मात् स्व-भक्ष्यं दृष्ट्वा आनन्द-जाड्याद् एव भोक्तुं न समर्थे इत्य् अर्थः । किन्तु जिवन्तौ एव एते इति ध्वनिः ॥६९॥

मकरयोर् वर-कुण्डलता-भृतोर्
अघहर-श्रुति-सेवि-युगं तयोः ।
मकरिके स्वयम् एव पतिष्यतं
रस-कला सकला सफलाऽस्तु वाम् ॥७०॥

पुनर् मकरिका-व्यपदेशेन राधिकां परिहसति—हे मकरिके ! तयोर् मकरयोर् युगं स्वयम् एवं पतिष्यतं, तयोर् द्वयं युवां पतिम् इच्छतं । कथम् ? इति चेत्, वां युवयोः रस-कला सकला रस-वैदग्धी सफला भवतु । कथम्-भूतयोः ? वर-कुण्डलता-भृतोर् विलक्षण-कुण्डल-स्वरूपयोः तयोर् युगं । किम्-भूतं ? अघं पापं हरति या श्रुतिर् वेदस् तां सेवितुं शीलं यस्य । तत् श्लेषेण अघहरः श्री-कृष्णः, तस्य कर्ण-सेवि, श्री-कृष्णस्य कर्णस्थ-मकर-द्वय-पति-करणेन श्री-राधं प्रत्य् एव परमः परिहासो ध्वनितः ॥७०॥

इति सखी-गदिताऽह सुदृङ् मम
त्व् अचपले सरसे मृदुले इमे ।
न हि तयोः सदृशौ सखि मा तनु
त्वम् इह तत् सहसा सहसा गिरः ॥७१॥

मकरिका-व्यपदेशेन परिहासं श्रुत्वा श्री-राधिका आह—सुदृक् राधा इति एवं-प्रकारेण सख्या ललितया गदिता सती आह—हे सखि ! इमे मकरिके अचपले सरसे मृदुले कोमले, अत एव [तयोः] चपल-शुष्क-कठोरयोः सदृशौ नहि । तत् तस्मात् हे सखि ! सहसा हथात् हास्य-सहिता गिरः वचनानि इह मम मकरिकयोर् विषययोः त्वं मा तनु मा कुरु ॥७१॥

निज-भुजाङ्गद-कुण्डलिकोरसि
प्रणयि शायय कुण्डलयोर् युगम् ।
कठिनयोः कठिने ननु लोलताप्य्
उपरमेत् परमेभ्यतया तयोः ॥७२॥

(विशेषकम्) राधिका ललितां परिहसन्ती पुनर् आह—हे सखि ! निज-भुजयोः “बाजु-बन्द” इति प्रसिद्ध्आङ्गद-रूप-कुण्डलिकयोः सर्प-स्त्रियोर् उरसि वक्षः-स्थले श्री-कृष्णस्य-कुण्डल-रूप-सर्पयोर् युगं शायय । कथम्-भूतं ? प्रणयि प्रीति-करण-शीलं । कुण्डलयोः कथम्-भूतयोः ? कठिनयोः । कुण्डलिकोरसि कथम्-भूते ? कठिने, अत एव तयोः सम्यां।

ननु शायितुं कथं कथयसि ? इति चेत् परस्पर-योग्य-सङ्गात् दोष-विशेषः स्याद् इत्य् आह—तयोः कुण्डल्योः परमेभ्यतया स्त्री-रत्न-प्राप्य परमाढ्यतया लोलता चञ्चलता उपरमेत् निवृत्ता भवेत् । इभ्ये आड्ःयो धनी स्वामी इत्य् अमरः ॥७२॥

चिबुक-मध्यम् अभून् मद-बिन्दु-युक्
स्वकर-संहृत-बान्धवम् एव किम् ।
तिमिर-डिम्भकम् अङ्क-तटे स्वयम्
सदयतोदयतो विधुर् अग्रहीत् ॥७३॥

इदानीं चिबुके रचना-विशेषम् आह—कस्तुरी-बिन्दु-युक् बिन्दु-सहित-चिबुकम् उत्प्रेक्षते—विधुश् चन्द्रः सदयत्वस्य हेतोः अन्धकारस्य डिम्भं शिशुं स्वयम् एव किं अङ्क-तटे स्व-क्रोडान्ते अग्रहीत्

ननु विधोः स्व-नाश्यस्य अन्धकारस्य पुत्रे कथम् ईदृशी दया उदिता ? इत्य् अत आह—स्व-करेति । डिम्भकं कीदृशं ? स्व-करैः स्व-हस्तैर् एव संहृतो नाशितो बान्धवो यस्य । श्लेषेण स्वस्य करैः किरणैः ॥७३॥

मधुरिमाब्धि-भवास्य-सुधा-निधौ
यद् इह कृष्ण-रुचिः पृषतोऽङ्कितः ।
तद् अवगम्य स कृष्ण इमं निजं
सरसयन् रसयन् रसयेन् मुहुः ॥७४॥

पुनश् चिबुक-बिन्दुम् अपदिश्य ललितोक्तिम् आह—इह [मधुरिमाब्धि-भवास्य-सुधा-निधौ] माधुर्य-रूप-समुद्रोत्पन्ने मुख-रूप-सुधा-निधौ चन्द्रे यद् यस्मात् कृष्ण-वर्णा रुचिर् यस्य । एवं-भूतः पृषतो बिन्दुर् अङ्कितः तत् तत एव स कृष्णः स्वाकीय “छाप” इति “मोहर” इति च प्रसिद्धं बिन्दुं दृष्ट्वा इमं मुख-रूपं सुधा-निधिं निजं अवगम्य सरसयन् रस-युक्तं कुर्वन्, एवं रसयन् स्वयं च रसानुभवं कुर्वन् सन्, मुहुः रमयेत् । चन्द्र-पक्षे, पृषतो हरिणस् तद्रूपं चिह्नम् ॥७४॥

कनक-केतक-पत्र-पुटी-कला-
पिशुन-कोण-युगा नव-बिम्ब-भृत् ।
व्यरचि याऽत्म-भुवाऽत्र किम् आभया
ऽतिशयितः शयितस् तनयोऽलिनः ॥७५॥

पुनश् चिबुकं तत्रस्थ-बिन्दुं चोत्प्रेक्षते—आत्म-भुवा कन्दर्पेण, पक्षे विधात्रा, या स्वर्ण-केतकी-पत्रेण पुटी व्यरचि विरचिता, अत्र पुट्यां किम् अलिनो भ्रमरस्य तनयः शयितः ? पुटी[^१०] “द्रोणी” इति ख्याता । सा कथम्-भूता ? कला वैदग्धी, तां पिशुनयति सूचयति । कोण-युगं यस्याः । तेन द्रोणी चतुष्कोणैव भवति, इयं द्विकोणेति विशेषः । पुनः कथम्-भूता ? अधर-रूपं नवीन-बिम्ब-फलं बिभर्तीति । तनयः कथम्-भूतः ? आभया कान्त्या अतिशयितः अत्यन्त-कान्ति-युक्त इत्य् अर्थः ॥७५॥

सित-करागुरु-चन्दन-कुङ्कुमैस्
तनुतर-च्छद-पल्लव-वल्लयः ।
वर-तनोः स्तनयोर् अथ चित्रया
रुचिर-चित्रतयाऽत्र तयाङ्किता ॥७६॥
वरतनोः
राधायाः स्तनयोर् उपरि कर्पूरागुरु-चन्दन-कुङ्कुमैः करणैः अतिसूक्ष्मतर-पत्र-पल्लवलताः तया प्रसिद्धया चित्रया अङ्किताः रुचिर-चित्रतयेति परम-शोभितं चित्रं कृतम् इत्य् अर्थःस्स् ॥७६॥

मदन-चक्र-वरौ विनिमज्य किं
कलित-शैवलकौ सहसोत्थितौ ।
रस-सरस्य् उरु-खेलयिता ययोर्
बकरिपु-करि-पुष्कर-दोर् भवेत् ॥७७॥

चित्रित-स्तनाव् उत्प्रेक्षते—कन्दर्प-राजस्य रस-सरसि विनिमज्य किं कलित-शैवलकौ शैवाल-युक्तौ सन्तौ सहसा उत्थितौ ययोः, स्तन-रूप-चक्रवाकयोः कर्म-भूतयोः बकरिपुः कृष्णः उरु-खेलयिता भवेत् । अत्र तृच्-प्रत्यय-योगे कर्मणि षष्थी । कथम् भूतः ? करेर् हस्तिनः पुष्करौ शुण्डाव् इव** दोषौ** हस्तौ यस्य ॥७७॥

सपदि चम्पकवल्लिकयैकतः
परत ऐन्दव-लेखिकया भुजौ ।
मणि-मयाङ्गदिनौ रचितौ यथा
सित-विधूत-विधू-विस-तल्लजौ ॥७८॥
चम्पक-लतिकया एकत
एक-हस्ते, इन्दुलेखया अन्यतः अन्य-हस्ते एवं क्रमेण राधाया भुजौ मणिमयाङ्गद-युक्तौ रचितौ । तत्र दृष्टान्तः—सितौ बद्धौ विधूतौ खण्डितौ विधू चन्द्रौ यत्र तथा-भूतौ विस-तल्लजौ मृणाल-श्रेष्ठौ यथा ॥७८॥

अनुमिमे स्व-भृते सुदृशे ददास्य्
अतुलम् अन्गम् इहाङ्गद कस्यचित् ।
इतरथाऽनृतम् अस्य् अथवा द्यसित्य्
अनुसदो नु सदोषतयोच्यसे ॥७९॥

अङ्गद-द्वयं व्यपदिश्य राधिकां परिहसति—हे अङ्गद ! स्व-भृते स्व-धारिकयै सुदृशे राधिकयै कस्यचित् अतुलम् अङ्गं ददासि इति तव नाम्नोऽवयव-व्युत्पत्ति-हेतुना अहं अनुमिमेनु भोः । न ददासि चेत् अनु-सदः प्रति-सभायां त्वं सदोषतया उच्यसे । जनैस् त्वं दोष-युक्त उच्यस इत्य् अर्थः । दोषम् एवाह—इतरथेति । तवाङ्गदत्वाभावेन त्वम् अनृतम् असि । दोषान्तरम् आह—अथवा अङ्गं ददासीति व्युत्पत्तिं विहाय, अङ्गं द्यसि खण्दयसीति दोष-विशिष्टत्वेन त्वं उच्यसे ॥७९॥

हरि-दृशं गतम् एतद् अनङ्गदम्
सखि तद् अङ्गदम् अप्य् अचिराद् भवेत् ।
अतिविचित्रितया परमार्थ-धृक्
भवति नोऽवति नो किम् उदारताम् ॥८०॥

चम्पकलताया व्यपदेश-हसितम् अवलोक्य इन्दुलेखा आह—हे सखि ! चम्पकलते ! तद् अङ्गदं हरि-दृशं गतं सत् तस्य कृष्णस्य अङ्गदम् अपि अनङ्गदं भवेत् । अतिविचित्रतया हेतुना तस्माद् एतद् अङ्गदं नोऽस्माकं परमार्थ-धृक् परमार्थ-रूप-वस्तुता-पूरकं भवति । अत एव उदारतां किं न अवति ? तेन श्री-कृष्ण-दर्शन-मात्रेण अनङ्गं कन्दर्पं ददाति । ततश् च तस्य अङ्गं ददाति, तेन च सम्भोगो भवति । अनेन अस्माकं परमार्थ-रूपं तद्-दर्शनं दोग्धि पूरयतीति । इदम् एव महत्त्वम् इत्य् उच्यतां न चानृतम् इति न वाखण्डकम् इति कथनीयम् इति ध्वनिः ॥८०॥

इति सखी-द्वय-नर्म दर-स्मिता
नत-दृग् आह किम् अङ्गद-वार्तया ।
यद् इह वोऽङ्ग-चयेऽङ्गदता हरेः
स्फुटम् अनङ्गदतागदताप्य् अभूत् ॥८१॥

लज्जया नत-दृक् राधिका आहअङ्गदस्य मद् एकस्मिन्न् अङ्गे स्थितस्य वार्तया अलं, **यद् **यस्मात् [वः] युष्माकं [अङ्ग-चये] सर्वेषु अङ्गेषु हरेर् एव अङ्गदत्वम् अनङ्गदत्वम् अगदत्वं चेति त्रि-रूपत्वम् इति स्फुटम् अभूत् । अगदम् औषधं, तेन कन्दर्प-रूप-गद-निवर्तकः सम्भोगोऽपि जात इति ध्वनिः ॥८१॥

निदधतुर् बलभिन् मणि-कल्पिताः
सवयसौ मणि-मञ्जुल-चूलिकाः ।
कनक-चित्रित-रेखिकयाञ्चिता
अधिकलावि कलाविकलाः समाः ॥८२॥

मणि-बन्धोपरि स्थिताः “चूडी” इति ख्याताः चूलिका वर्णयति— सवयसौ चम्पकलतेन्दुलेखे। कलाविर् मणि-बन्धः । तत्र इन्द्र-नील-मणि-कल्पिताः सूक्ष्म-मनोज्ञ**-चूलिकाः निदधतुः** । कथम् भूताः ? कलेन मधुरास्फुटेन स्वनेन अविकला उत्तमाः समा एक-रूपाः । चूडा चूला इति भाषा-वृत्तिः ॥८२॥

नख-मराल-सुतैर् अपसारिताप्य्
उपरिगैर् अतिलालसयैव किम् ।
कमल-कण्ठम् उपाश्रयतासितोत्-
पल-दल-भ्रमरा भ्रमरावलिः ॥८३॥

चुलिका उत्प्रेक्षते—हस्तारविन्दस्य उपरि-गतैर् नख-रूप-मराल-सुतैर् हंस-पुत्रैः अपसारिता भ्रमरावलिः किं कमले लालसया हस्त-रूप-कमलस्य कण्ठं निकट-देशं उपाश्रयत । कथम् भूताः ? नीलोत्पलान्य् एवैतानि इति भ्रमं मराल-सुतेभ्यो राति ददाति, अन्यथा मराल-सुतैस् ततोऽपि सा अपसार्येतैर् एवेति भावः ॥८३॥

वलय-कङ्कण-दम्भत एव सा
प्रिय-वपुर्-वसन-द्युति-मालिकाः ।
स्व-मणि-बन्ध-गता अकरोद् इयम्
जप-कृतां प्रकृतिः प्रकृति-स्तुता ॥८४॥

कङ्कणादि-शोभाम् उत्प्रेक्षते—सा राधिका वलय-कङ्कण-च्छलात् प्रियस्य श्री-कृष्णस्य शरीर-वस्त्र-द्युतीनां मालिका-श्रेणी । पक्षे, तादृश-द्युतिर् एव जप-माला च स्व-मणि-बन्धे गता अकरोत्जप-कृतां जप-करण-शीलानाम् इयं प्रकृतिर् अयं स्वभावः । इयं किम्-भूता ? प्रकृष्टैर् एव कृतिभीः विज्ञैः स्तुता । तेन यथा जप-शीलैर् माला परमासक्त्या मणि-बन्धे स्थाप्यते, तथैव कृष्णस्य देह-वसन-कान्तिर् अनया धृता, न तु वलय-कङ्कणादय एता इत्य् अपह्नुतिः ॥८४॥

हरि-चकोरक-बन्धन-हेतवे
मदन-शाकुनिकासित-पाशताम् ।
अमृत-वल्लरि-पल्लव-मूलगः
प्रतिसरोऽतिसरोचिर् असाव् अगात् ॥८५॥

इदानीं “पंहुति” इति ख्यातं हस्त-सूत्रम् उत्प्रेक्षते—असौ प्रतिसरः हस्त-सूत्रं श्री-कृष्ण-रूप**-चकोरस्य बन्धनार्थं** मदनः कन्दर्पः स एव शाकुनिकः पक्षि-हिंसक-व्याध-विशेषः, तस्य असित-पाशताम् अगात् । श्याम-रज्जुर् अभूद् इत्य् अर्थः । असौ किम्-भूतः ? अतिसरोचिः अतिक्रान्त-सकान्तिकः । अमृत-रूपा काचित् राधिका-रूपा लता, तस्याः पल्लवस्य मूले स्थितः, तेन व्याधेन चकोर-बन्धनार्थं यथा पल्लव-मूले जाल-रज्जुः स्थाप्यते, तथैवेत्य् अर्थः ॥८५॥

कर-दलेषु धृता बभुर् ऊर्मिकास्
त्रयम् ऋते वरम् अत्र तु दक्षिणम् ।
किम् उ नखेन्दुभिर् अब्ज-युगे श्रिते
नव-बले ववलेऽप्य् उडु-मण्डली ॥८६॥
करयोर् दलेषु
अङ्गुलीषु धृता ऊर्मिका अङ्गुलीयकानि बभुः । अत्र कर-दलेषु मध्ये दक्षिणं दक्षिण-हस्त-स्थं त्रयं श्रेष्ठम् ऋते दक्षिण-हस्त-स्थाङ्गुष्ठ-तर्जनी-मध्यमं विनेत्य् अर्थः । अत्र उत्प्रेक्षाम् आह—नख-रूपैर् इन्दुभिः किं हस्त-द्वय-रूप्आब्ज-युगे आश्रिते ? ननु चन्द्रस् तावत् कमल-विपक्षो भवति, अतो विपक्ष-रूपं कमलं कथम् आश्रितं ? तत्राह—अब्ज-युगे कथं-भूते ? नव-बले नखापेक्षया श्री-राधया दत्तं सौभग-रूपं नवं बलं ययोः, तथा-भूते एते तेन कमलानां विलक्षणाश्रय-लाभाद् बल-वैलक्षण्येनैव चन्द्रा अपि भयेन आश्रिता बभूवुः । तत् दृष्ट्वा तेषां स्त्री-रूपा नक्षत्र-मण्डली अपि ववले कर-दलानि वेष्टितवतीत्य् अर्थः । अङ्गुलीयक-स्थानीया उडु-मण्डली बोध्या अतिशयोक्त्य्-अलङ्कारात् ॥८६॥

उपरि पर्युत-मञ्जुल-मौक्तिकं
मृदुतमं कुचयोर् अपिधायकम् ।
अरुण-कञ्चुकम् आशु विशाखया
विनिहितं निहितं हरिणी-दृशे ॥८७॥

“काञ्चुली” इति प्रसिद्धा कञ्चुलिका-परिधानम् आह—विशाखया कुचयोः अपिधायकम् आच्छादकम् अरुण-कञ्चुकं निहितम् अर्पितम् । कीदृशं ? उपरि परि उतानि ग्रथितानि मञ्जुल-मौक्तिकानि यत्र । पुनश् च मृदुलतमम् अतिकोमलम् । पुनश् च हरिणी-दृशे राधायै नितराम् अतिशयेन हितम्, अत्र हित-योगे चतुर्थी ॥८७॥

हरि-वशीकृति-कौतुकिनां वरः
किम् अयम् अन्तरतो बहिर् उद्गतः ।
हृद्-अवनाव् अनुरागो-भटोऽतनोन्
निज-बलं जव-लङ्घित-धर्म-भूः ॥८८॥

उत्प्रेक्सया अरुण-कञ्चुली-शोभाम् आह—हरेः सिंहस्य, पक्षे कृष्णस्य, वशी-करण-रूप-कौतुकम् अस्ति येषां मध्ये **श्रेष्ठोऽनुराग-**रूपो भटः किम् अन्तरतः अन्तः-करणात् कञ्चुलिका-च्छलेन बहिर् उद्गतः सन् हृद्-अवनौ हृदय-रूप-स्थले निज-बलम् अतनोत् । कथं-भूतः ? जवेन वेगेन लङ्घिता धर्म-मर्यादा येन, अनुरागस्य अयम् एव स्वभाव इति भावः ॥८८॥

मणिसरैः स-ललन्तिक-कण्ठतः
समुचित-क्रम-लम्बिभिर् उच्चलैः ।
अभिमतैः सुदृशोऽपि तयार्पितैः
कुच-विभा च विभागश एधिता ॥८९॥

ततो हार-धारणम् आह—तया विशाखया अर्पितैर् मणिसरैः हारैः करणैः कुचयोर् **विशिष्टाभा **शोभा **एधिता **वृद्धिं प्राप्ता । कथं-भूतैः ? ललन्तिका कण्ठ-भूषणं तत्-सहितां कण्ठ-स्थानात् क्रमशः लम्बमानैः । ग्रैवेयकं कण्ठ-भूषालम्बनं स्याल् ललन्तिका इत्य् अमरः । पुनः कथं-भूतैः ? सुदृशो राधायाः । अपि-कारात् परिधापयित्र्याः सख्याश् च अभिमतैः विभागश इति यथा यथा हाराः क्रमशो लम्बमाना नाना-वर्ण-मयाश् च, तथा तथा कुचयोः शोभेति ज्ञेयम् ॥८९॥

कनक-कम्बु-विनिःसृतयाऽतनुः
सुरनदी-सलिलामल-धारया ।
अभिषिषेच शिव-प्रतिमा-द्वयं
किम् अघ-संहति-संहति-हेतवे ॥९०॥

हारैः कुच-शोभाम् उत्प्रेक्षते—अतनुः कन्दर्पः कण्ठ-स्वरूप-स्वर्ण-निर्मित-शङ्खाद् विनिःसृतया हार-स्वरूप गङ्गा-सलिलस्य अमल-धारया किं स्तन-स्वरूप-शिव-प्रतिमा-द्वयं अभिषिषेच । अभिषेके कारणम् आह—अघ-संहतिः अपराध-समूहस् तस्य नाश-हेतवे कन्दर्पेण पूर्व-कृतस्य महादेव-स्थाने अपराधस्य नाशार्थम् इत्य् अर्थः ॥९०॥

हृदय-विष्णुपदे पदकं ध्रुवं
मुकुरवद् धरि-धाम-धुरा-धरम् ।
न्यधित सा भुवि यस्य महार्घ्यता
सदृशतोपरमा परमा भवेत् ॥९१॥

इदानीं पदक-धारणम् आह—सा विशाखा हृदय-रूप-विष्णु-पदे विष्णोः श्री-कृष्णस्य पदे आस्पदे ध्रुवं निश्चितं पदकं न्यधित । कथम्-भूतं ? मुकुरवद् दर्पणम् इव स्वच्छम् अतस् तस्मिन् प्रतिबिम्बितस्य हरेः श्री-कृष्णस्य धाम-धुरा कान्त्य्-अतिशयस् तां ध्रियत इति भुवि पृथिव्यां यस्य पदकस्य महार्घ्यता दुर्लभता परमा भवेत् । महार्घ्यता कथम्-भूता ? सदृशतया सादृश्यस्य उपरामो यस्यां निरुपमेत्य् अर्थः ।

श्लेषेण ध्रुवं नक्षत्र-रूपं, किं च विष्णु-पदे आकाशे यथा ध्रुवो ध्रुवस्य स्थानं, तत्र विष्णु-स्वरूपम् अपि यथा अतिशयेन तिष्ठति, तथा तत्रापि श्री-कृष्ण-स्वरूपं तिष्ठतीति । अत्र पक्षे महार्घ्यता महापूज्यता, मूल्ये पूजा-विधावर्घ्य इत्य् अमरः ॥९१॥

जघन-मूर्धनि तुङ्गिम-विद्यया
ततम् अनह्यत सारसनं रसात् ।
महकृता महता मदनेन किम्
निज-गृहे जगृहे मणि-तोरणम् ॥९२॥

इदानीं क्षुद्र-घन्टिका-धारणम् आह—तुङ्गिमा-विद्यायां यस्यास् तया तुङ्गविद्यया जघनोपरि रसात् रागात् ततं विस्तृतं सारसनं क्षुद्र-घन्टिकां अनह्यत बबन्ध । तत्रोत्प्रेक्षाम् आह—महकृता उत्सव-कृता मदनेन किं निज-गृहे मणि-तोरणं बन्दन-माला जगृहे स्वीचक्रे बबन्धेति फलितार्थः । कथम्-भूतेन ? महता विभूतिमता महाजनेन इव नित्यं महोत्सवः क्रियते इति ध्वनिः ॥९२॥

त्रिवलि-वीचि-समुच्छलन-च्छवि-
च्छुरित-नाभि-सरोवर-रोधसि ।
स्मर-मदान् मधुर-स्वनितैष्ट
किं सरस-सारस-सारतरावलिः ॥९३॥

क्षुद्र-घण्टिका-ध्वनिम् उत्प्रेक्षते—सरसा ये सारसाः तन्-नाम-पक्षिणः, तेषां सारतरा परम-श्रेष्ठा या श्रेणी सा मधुर-स्वनितं यत्र तथा-भूता सती कन्दर्प-मदाद् धेतोः किम् ऐष्ट ऐश्वर्यं चकार ? कुतः ? इत्य् अत आह—त्रिवलिर् एव वीचिस् तरङ्गः, तत्र समुच्छलिता या कान्तिः, तया च्छुरितं युक्तं यन् नाभि-सरोवरं, तस्य रोधसि तटे ॥९३॥

न्यधित रङ्गवती मणि-नूपुरे
रुचिर-हंसक-लाङ्घ्रि-सरोजयोः ।
अथ तद्-अङ्गुलिषु प्रवरोर्मिका
ध्वनि-युता-नियुतार्घ्य-मणीलिताः ॥९४॥

अथ चरणयोस् तद्-अङ्गुलीषु च भूषण-धारणम् आह—रुचिरं हंसकं पाद-कटकं लातः धत्ताय अङ्घ्रि-सरोजं, तत्र रङ्गदेवी मणिमय-नूपुरे न्यधित अर्पितवती । तेन पाद-कटक-द्वयं दत्त्वा नूपुर-द्वयं दत्तवतीत्य् अर्थः । श्लेषेण, हंसानां कलो मधुरास्फुट-ध्वनिर् इव ध्वनिर् यत्र तत्र । इत्य् अनेन नूपुर-धारणेन पाद-द्वये हंस-ध्वनिर् इव ध्वनिर् भवतीति ।

अथ नूपुर-धारणानन्तरं चरणाङ्गुलिषु “पंशुरी” इति “बिछिया”_ _इति च ख्याता प्रवरोर्मिका न्यधित । कथं-भूता ? ध्वनि-युता शब्दं कुर्वाणा। पुनः किम्-भूता ? नियुत-सङ्ख्यं धनम् अर्घ्यो मूल्यं येषां तैर् मणिभिर् ईलिताः स्तुताः ॥९४॥

मधुरिमैव दधद् विविधाभिधाः
स्व-सफली-कृतये पदयोर् लुठन् ।
रण-रणेत्य् अपरान् अपि तद्-गुणान्
सुकृतिनः कृतिनः किम् अतुष्टुवत् ॥९५॥

अधुना चरण-भूषण-ध्वनिम् उत्प्रेक्षते—त्रिजगद्-वर्ति-मधुरिमा एव स्वं सफलीकर्तुं पदयोर् लुठन् चरण-भूषणम् अङ्गुलि-भूषणम् इत्य्-आदि विविधाभिधा दधत् सन् रण रण कथय कथय इत्य् उक्त्वा, अपरान् अपि सुकृतिनो जनान् तयोः पदयोर् गुणान् अतुष्टुवत् स्तावयामास । जनान् किम्भूतान् ? कृतिनः परम-विवेकिनः ॥९५॥

नख-शिखाङ्घ्रि-तलाद्य्-उरु-शोणिमाप्य्
अहह यावक-रञ्जितताम् अगात् ।
भवति किं दर-दीपज-रोचिषा
दिन-कृतो न कृतो मनुजैर् महः ॥९६॥

इदानीं चरणयोर् यावकेन रञ्जनम् आह—उरुः शोणिमा यत्र तथा-भूतम् अपि नखाग्र-पद-तलादि । अहह आश्चर्ये यावक-रञ्जिततां ययौ । ननु महा-विदग्धाभिः सखीभिः कथम् एवं कृतं ? तत्राह—किञ्चिन्-मात्र-दीप-शिखा-कान्त्या दिन-कृतः सूर्यस्य महः पूजां किं मनुष्यैर् न कृतः ? ॥९६॥

स्व-दयितं नलिनं पदतां नयन्
यद् अरुणोऽप्य् अभजत् तद्-अलक्तताम् ।
परमहंसकयोर् अवधूतयोस्
तद् अभवन् नटनं नट-नन्दितम् ॥९७॥

पुनश् चरणारुण्यम् एव वर्णयन्न् आह—यद् यस्माद् अरुणः सूर्यः स्व-दयितं प्रियं कमलं राधायाः पदतां नयन् पदं कुर्वन् सन्, स्वयं तयोः पदयोर् अलक्तताम् अभजत् । अलक्तम् इवाभूद् इत्य् अर्थः । मिहिरारुण-पूषणः इत्य् अमरः । तत् तस्मात् परमहंस-द्वयस्य नटनं नृत्यम् अभवत्, तेन यस्य सूर्यस्य मण्डलं भित्त्वा आवां ब्रह्म-सायुज्यं प्राप्स्यावस् तेन विज्ञ-चूडामणिना स्व-प्रिय-साहित्येनैवास्मद्-आश्रित-चरण-कमलयोः सायुज्यं प्राप्तम् । अतो मोक्ष-सुखाद् अप्य् अधिकम् एतच् चरणाश्रयणं भविष्यतीति, नेदं मोक्षस्य साधन-रूपं, किन्तु परम-पुरुषार्थ-रूपम् एवेति मनसि कृत्वा नृत्यं कृतम् इति भावः ।

नटनं कीदृशं ? नटैर् अपि [नन्दितम्] अभिनन्दन-विषयी-कृतम् । परमहंसयोः ज्ञानिनोः किम्-भूतयोः ? अवधूतयोः ज्ञानिन एव अवधूता भवन्तीति । श्लेशेण, हंसकयोः पाद-कटकयोः अवधूतयोः कम्पितयोः ॥९७॥

अहम् अयोग्य इति त्वयि मा शुचस्
तम् अनुराग्य् असि यावक-सौभगम् ।
हरि-ललाट-तलालक-रञ्जनात्
शुभवतो भवतो भविताधिकम् ॥९८॥

पुनर् यावकस्य सौभाग्यं वर्णयति— अयि यावक ! अहं चरणयोः सौन्दर्योत्पादने अयोग्य इति मनसि कृत्वा मा शुचः । कथं निषेधसि ? इति चेद् आह—तव सौभगं सौभाग्यम् अधिकं भविता । कथं ? इति चेद् आह—श्री-कृष्णस्य ललाट-तटं त्वम् अरुणं करिष्यसीति हेतोः । अत एव भवतः किं-भूतस्य ? शुभवतः मङ्गल-युक्तस्य ॥९८॥

इति सखी-वचसा परुषेव ताम्
विधुर-धीर् अपि सा कुटिलेक्षणा ।
भृशम् अतर्जद् अभूद् प्रबलौजसोत्-
कलिकयाऽलिकया यद् उपासिता ॥९९॥
इत्य्
अनेन प्रकारेण सखी-वचसा श्री-राधा विधुर-धीः स्थायि-भावोद्गमेन व्याकुल-बुद्धिर् अपि परुषा किञ्चित् कर्कश-वचना इव तां सखीं भृशम् अतर्जत् तर्जनं कृतवती । कथं तर्जितवती ? तत्राह–यद् तस्मात् प्रबलौजसा अतिशय-बलवत्या उत्कलिकया आलिकया उत्कण्ठया सख्या उपासिता सेविता । तेन बलवत्याः सेवापि बलवती भवति । तत एव तया सेवया वशीभूता स अन्यस्याः सख्याः रस-कथाम् अपि कथं सहताम् इति ध्वनिः ॥९९॥

निज-गुणं पर-मूर्धनि यत् क्षिपन्त्य्
उपहसस्य् अयि तत् त्वयि युज्यते ।
त्वम् अपि किं प्रमदे न हसिष्यसे
यदि जनुः समया स मयाप्यते ॥१००॥

श्री-राधिकाह—अयि सखि ! ललिते ! स्व-चरण-यावकेन श्री-कृष्णस्यालक-रञ्जन-स्वरूपं स्व-गुणं पर-मूर्धनि निक्सिपन्ती सति यत् त्वं उपहससि, तद् उपहसनं त्वयि युज्यते । हे प्रमदे ! जनुः समया एतज् जन्म-मध्ये मया यदि सगुणः प्राप्यते, तदा त्वम् अपि मया किं न हसिष्यसे युज्यते इति । यतस् त्वं प्रमदा प्रकृष्टो मदस् तव वर्तते । तत एव त्वं उपहससि, न तूपहास-सामग्री मयि काप्य् अस्ति, यतः जन्म-मध्ये स दृष्टोऽपि न इति ध्वनिः । यदि भाग्यतः स कदाचित् दृश्यते, तदा त्वया सह सम्भोगं कारयित्वा त्वाम् अप्य् एवं उपहसिष्यामीत्य् अनुध्वनिः ॥१००॥

यम् अनुलेपम् अदाद् रस-मञ्जरी
मलयजेन्दु-मदादि-जम् आदरात् ।
स तनु-साहजिकातुल-सौरभा-
वनि-भृतो निभृतोऽजनि किङ्करः ॥१०१॥

ततश् चन्दनाद्य्-अनुलेपनम् आह—रस-मञ्जरी यं चन्दन-कर्पूर-मृगमदादि-जन्यं आलेपम् अदात् आलेपः राधिकाया देहस्य साहजिकं यत् सौगन्ध्यं तद् एव अवनि-भृत् राजा, तस्य किङ्करो दासः अजनि अभूत् । स किम्-भूतः ? नितरां भृतः अङ्ग-सौरभेण स्वीकृत्य धृतः, न तु स्वयं तत्र स्थातुं योग्य इत्य् अर्थः ॥१०१॥

प्रवर-मुक्तम् उरोऽन्व् अतिमुक्तक-
स्रजम् अदाद् अथ केलि-सरोरुहम् ।
कर-सरोरुहि यत् तुलसी रसाद्
उरु-भयोर् उभयोस् तद् अभूद् दृता ॥१०२॥

माल्यादि-धारणम् आह—प्रवरा मुक्ता यत्र, एवं-भूते उरोऽनु उरसि तथा विलक्षण-मुक्ता-युक्त-वक्षः-स्थले रसात् आनन्दात् तुलसी अतिमुक्तक-स्रजं माधवी-पुष्प-माल्यम् अदात् । कर-सरोरुहि कर-कमले केलि-सरोरुहं लीला-कमलम् अदात् । तत् ततो हेतोः उभयोः प्रवर-मुक्ता वक्षः-कर-सरोरुहोर् द्विता अभूत्, द्वित्वं बभूव । तयोः कथं-भूतयोः ? उरुर् महती भा कान्तिर् ययोः द्वितेति प्रवर-मुक्तक-वक्षः-स्थलस्य मुक्त-मुक्तेति-शब्द-मात्रेण कर-कमलस्येति कमल-कमल-शब्देन एवं कर-कमल-लीला-कमलेति अर्थेन च बोध्यम् ॥१०२॥

विनिहितो लघु रङ्गणमालया
मणि-मयो मुकुरः सुदृशोऽग्रतः ।
तनु-महो-लिड् इवागमयद् द्वितां
द्युति-धुरा-भरणाभरणावलीम् ॥१०३॥

ततश् च दर्पणं दृष्टवतीत्य् आह—रङ्गणमालया मणिमयो दर्पणः सुदृशो राधाया अग्रे लघु द्रुतम् एव विनिहितः । स दर्पणः तनु-महो-लिड् इव देह-कान्तिं लेढि आस्वादयतीति तथा-भूत इव । द्युति-धुरां कान्त्य्-अतिशयं बिभर्ति या ताम् आभरण-श्रेणीं द्विताम् अगमयत् स्वरूप-द्वयं चकारेत्य् अर्थः ।

यद् वा, अहो आश्चर्ये तनु-लिड् इव लिट्-ल-कारो यथा अभ्यासस्योभयेषाम् [पा। ६.१.१७] इति सूत्रेण वर्णावलीं द्वि-स्वरूपां करोति, तथा साभरणीं तनुं द्वि-स्वरूपां चकारेत्य् अर्थः ॥१०३॥

स्व-मधुराङ्ग-तति-द्युति वीक्षनोन्नत-
चमत्कृति-चुम्बित-धीर् हृदा ।
अभिदधे वृषभानु-सुता निज-
प्रियतमायत-मानस-वीचि-वित् ॥१०४॥

दर्पण-दर्शनेन श्री-राधाया अपि चमत्कारो जात इत्य् आह—वृषभानु-सुता राधा स्वकीयाया मधुराङ्ग-श्रेणी तस्या द्युतीनां वीक्षणेन उन्नता या चमत्कृतिश् चमत्कारः, तया चुम्बिता बुद्धिर् यस्या एवं-भूता सती हृदा मनसा अभिदधे, स्वगतम् एव कथितवतीत्य् अर्थः । कथं-भूता ? निज-प्रियस्य श्री-कृष्णस्य आयता दीर्घा या मानस-वीचिर् मनस्-तरङ्गस् तां वेत्ति जानाति, तथा च निज-रूप-दर्शनेन चमत्कारं प्राप्य तस्य कृष्णस्य मनस्-तरङ्गं स्मृत्या किम् अपि कथितवतीत्य् अर्थः ॥४॥

अननुभूत-चरः कुत आगतो
मधुरिमोदधिर् एष वपुष्य् अभूत् ।
कथम् इमं स धयन् मधुसूदनो
रसम् अहो स-महो धृतिम् आश्रयेत् ॥१०५॥

राधा स्वगतम् एवाह—अननुभूत-चरः पूर्वं कदापि यो मया नानुभूतः, स मधुरिमोदधिः मम वपुषि कुतः आगतोऽभूत् ? इमं मधुरिम-समुद्र-रूपं रसं धयन् पिबन् स मधुसूदनः, पक्षे भ्रमरः, कथं धृतिम् आश्रयेत् ? स किं-भूतः ? स-महः मह उत्सवस् तेन सह वर्तमानः ॥१०५॥

रुचि-कणीम् अमृजां मम यः कदाप्य्
अनुभवन् प्रविशेत् प्रमदाम्बुधौ ।
प्रियतमः स इमां सुषमां यदानु-
भविता भविता किम् उ स क्सणः ॥१०६॥

पुनः सैवाह—अमृजां मम रुचि-कणीम् अमार्जितां किञ्चिन्-मात्र-कान्तिम् अनुभवन् यः प्रमदाम्बुधौ आनन्द-समुद्रे प्रविशेत्स प्रियतमः इमां सुषमां यदा अनुभविता, तादृशः क्षणः किं मम भविता ? इति दैन्यम् ॥१०६॥

किम् अधुना तद्-अनीक्षण-दुर्भगोऽप्य्
उदयते च्छवि-राशिर् असौ बहिः ।
भवति यो विफलोऽर्थ-वरोऽपि
कोऽधिमहि तं महितं नहि शोचति ॥१०७॥

पुनः सैवाह—असौ छवि-राशिः कान्ति-समूहः तस्य श्री-कृष्णस्य अनीक्षणेन दुर्भगोऽपि बहिः कथम् उदयते ? त्वं कथं शोकं करोषि ? इति चेद् आह—योऽर्थ-वरो विलक्षणः पदार्थो [विफलो] व्यर्थो** भवति**, तम् अर्थ-वरम् अधिमहि मह्यं को जनो न हि शोचति ? तं किं-भूतं ? महितं पूजितम् ॥१०७॥

इति धृति-च्युति-नीवृति साऽऽसितो-
रु-सहसा सहसा सहसास्यया ।
प्रिय-दिदृक्षुतयाऽलिकया श्रित-
प्रसभया सभया सभयाप्य् अभूत् ॥१०८॥

तादृशं कथयन्ती श्री-राधा आकुलैवाभूद् इत्य् आह—इति एवं कथयन्ती सा राधा प्रिय-दिदृक्षुतया आलिकया श्री-कृष्ण-दर्शनेच्छा-रूपया सख्या कर्त्र्या सा राधा धृति-च्युतिर् एव नीवृज् जन-पदस् तस्मिन् अर्था अधैर्य-रूप-राज्ये आसिता उपवेशिता, अथवा सिता बन्धनं प्राप्तम् अभूद् इत्य् अर्थः । सहसा अतर्कितं यथा स्यात् तथा, अतर्किते नु सहसा इत्य् अमरः । तया कथं-भूतया ? हसेन सह वर्तमानं सहसम् आस्यं मुखं यस्यास् तया प्रफुल्लितयेत्य् अर्थः । पुनः कथं-भूतया ? उरु महद् एव सहो बलं यस्यास् तया । पुनश् च श्रितः प्रसभो हठः यया हठेनैव उपवेशितेति योजनीयम् । तेनाहं कुलवती ततो धैर्यम् एव करवाणीत्य्-आदि यन् मनसि करोषि, तद्-अभिमान-महम् अनायासेनैव त्याजयामीति हर्षवत्या इति ध्वनिः । अत एव सभया भा दीप्तिस् तया सह वर्तमानया । राधा कथं-भूता? भय-सहितापि ॥१०८॥

अत्रान्तरे व्रज-पुराधिपयाऽनपाय-
वात्सल्य-कल्प-लतयाऽतिरयान् निदिष्टा ।
आगत्य कुन्दलतिकान्तिकम् एतद् अक्षि-
भृङ्ग-प्रमोद-कृतये कृतिनी व्यराजीत् ॥१०९॥
अत्रान्तरे
अत्रावसरे व्रजपुराधिपया यशोदया अतिरयात् अतिवेगात् स्व-पुरम् आनेतुं निदिष्टा कुन्दवल्ली एतस्या राधाया अक्षि-रूप-भ्रमरस्य प्रमोद-कृतये आनन्द-निमित्तं तस्या अन्तिकं निकटम् एव व्यराजीत् ॥१०९॥

अन्योन्य-दर्शन-समुद्गमन-स्मिताढ्य-
शास्तानुयोग-रभसोन्नति-सीधु-वृष्टिः ।
सद्यो बभूव यत एव तदा तद्-आलि-
वृन्दं ननन्द सम-सौहृद-हृद्य-रोचिः ॥११०॥

कुन्दवल्ल्याम् आगतायां परस्पर-दर्शने सति किम् अभूद् इत्य् अपेक्षायाम् आह—तदा तस्मिन् समये अन्योन्यं यद् दर्शनं, तेन यत् समुद्गमनम् अभ्युत्थानं च स्मिताढ्य-शास्तानुयोगः स्मित-युक्त-कुशल-प्रश्नं च ताभ्यां या रभसोन्नतिः सुखोत्कर्षः, सैव शीधु-रस**-वृष्टिर्** अमृत-वर्षः सद्यो बभूव । यतः शीधु-वृष्टितः एव तस्या आलि-वृन्दं किं-भूतं ? समानि सौहृदानि हृद्यानि रोचींषि कान्तयश् च यस्य तत् । हृद्यानि सर्वेषां हृदय-सुख-कराणि ॥११०॥

इति श्री-कृष्ण-भावनामृते महा-काव्ये

अलङ्कार-शोभास्वादनो नाम

चतुर्थः सर्गः

॥४॥

—ओ)०(ओ—

(५)