०३

तृतीयः सर्गः

रसोद्गार-कथास्वादनो नाम

स्नातानुलिप्त-वपुषः पुपुषुः स्व-भास् तन्-
निर्माल्य-माल्य-वसनाभरणेन दास्यः ।
प्रास्य स्व-कामम् अनुवृत्ति-रतास् तयोर् याः
श्री-रूप-मञ्जरि-समान-गुणाभिधानाः ॥१॥

किङ्करीणां परिचर्यां वर्णयितुम् आदौ ता एव वर्णयति द्वाभ्यां श्लोकाभ्याम् । स्नातानुलिप्त-वपुषो दास्यः तस्या राधाया निर्माल्य-माल्य-वसनाभरणेन स्व-भासः स्व-कान्तीः पुपुषुः, स्वस्य कामं कामनं प्रास्य त्यक्त्वा तयोः राधा-कृष्णयोर् अनुवृत्तौ रताः । कथं-भूताः? यथासां श्रियो मञ्जरी, रूपस्य मञ्जरी, तथैव तत्-समाना एव गुणा अभिधानानि यासां, तथा चासां शोभा-रूपानुरूपा एव गुणाद्या इत्य् अर्थः । पक्षे, श्री-रूप-मञ्जरि-समान-गुणा अभिधानानि नामानि यासां नाम-साम्यं मञ्जरीत्वांशेन ॥१॥

ता विद्युद्-उद्द्युति-जयि-प्रपदैक-रेखा
वैदग्ध्य एव किल मूर्ति-भृतस् तथापि ।
यूथेश्वरीत्वम् अपि सम्यग् अरोचयित्वा
दास्यामृताब्धिम् अनुसस्नुर् अजस्रम् अस्याः ॥२॥
विद्युताम्
उत्कृष्ट-द्युतिं जेतुं शीलं यस्यास् तथा-भूता **प्रपदस्य पादाग्रस्य एक-रेखापि **यासां, एवं-भूताः, अथ च मूर्ता वैदग्ध्य एव, ता दास्योऽपि यद्यपि यूथेश्वरीत्व एव योग्यास्, तथापि यूथेश्वरीत्वं सम्यग् रुचि-विषयम् अकृत्वा अस्या राधाया दास्यामृताब्धौ अजस्रं सस्नुः स्नानं चक्रुः ॥२॥

स्वश्रू-पुरान्तर-गतोत्तर-पार्श्व-वर्ति-
भ्राजिष्णु-धाम वर-शिल्प-कलैक-धाम ।
तातेन वत्सलतया वृषभानुनैव
निर्मापितं तद्-उपमापि तद् एव नान्यत् ॥३॥

किङ्करीर् वर्णयित्वा अधुना तासां सर्वोपयोगि-राधा-गृहादिकं वर्णयति— स्वश्रूर् जटिला, तस्या अन्तः-पुर-गतं, अथ चान्तः-पुरस्योत्तर-पार्श्व-वर्ति यत् भ्राजिष्णु-धाम, राधायाः स्वतन्त्र-वास-स्थानं, तद् वृषभानुना तातेन वत्सलतया हेतु-भूतया निर्मापितम् । कीदृशं ? श्रेष्थ-शिल्पं, वैदग्ध्यस्यैकास्पदम् ॥३॥

स्थूणा-प्रघाण-पटलाङ्गण-तोरणाली-
गोपानसी-विविध-कोष्ठ-कपाट-वेद्यः ।
राजन्ति यत्र मणि-दीप-तति-प्रदीप्त-
वैचित्र्य-निर्मित-जनेक्षण-चित्र-भावाः ॥४॥

यत्र वास-स्थाने स्थूणादयो राजन्ति । स्थूणा “थाम” इति प्रसिद्धा । प्रघाणः “परछाति” इति, “छज्जा” इति प्रसिद्धा । पटलं “च्छाति” इति प्रसिद्धम् । अङ्गणं “आङ्गिना” इति प्रसिद्धम् । तोरणाली बहिर्-द्वार-श्रेणी । गोपानसी “पङ्” इति प्रसिद्धा । कोष्ठः “कोठा” इति प्रसिद्धः । कपाटं “कबाट” इति प्रसिद्धम् । एते कथं-भूताः ? मणि-प्रदीप-समूहेन प्रदीप्तं यद् वैचित्र्यं नाना-विध-चित्रवत्त्वं, तेन निर्मितो जनानाम् ईक्षणस्य आश्चर्यं भावो यासाम् ।

श्लेषेण चित्र-भावो विचित्रात्मकता नारायणस्य भजनाद् एव सारूप्य-प्राप्तेः स्व-निष्ठ अस्य तु दर्शनाद् एव जडता-रूप चित्र-भाव-प्राप्तिर् इति भावः । अतो नारायणाद् अपि गृह-स्थित-वैचित्र्योत्कर्षः सिद्धः ॥४॥

यत्रेन्द्र-नीलमणि-भूर् वलभी घनाभा
हंसालिर् अप्य् उपरि राजति राजती सा ।
ये वीक्ष्य बन्धु-रिपु-भान-भृतो वितत्य
सङ्कोचयन्ति शिखिनः स्व-शिखण्ड-पङ्क्तीः ॥५॥
यत्र
वास-स्थाने इन्द्र-नीलमणिना उत्पत्तिर् यस्या एवं-भूता कोष्ठादीनां सर्व्ओपरि-देशे राजती रजत-निर्मिता हंस-श्रेणी राजति, ये वलभी हंस-श्रेण्यौ वीक्ष्य बन्धु-रिपु-भान-भृतः शिखण्डिनो मयूराः शिखण्डस्य पुच्छस्य पङ्क्तीः आदौ मेघ-तुल्य-वलभी-रूप-बन्धु-दर्शनेन हर्षाद् वितत्य विस्तार्य, पश्चात् तदानीम् एव स्व-शत्रोर् हंसस्य दर्शनेन भयात् सङ्कोचयन्ति ॥५॥

तत्रोपवेश-शयनाशन-भूषणादि-
वेदीर् विमृज्य परिलिप्य विशोध्य तास् ताः ।
आस्तीर्य राङ्कवम् उपर्य् उपयुक्त-मुक्तम्
उल्लोचम् उन्नत-मुदो मिलिता बबन्धुः ॥६॥

तासां किङ्करीणां सेवाम् आह—तत्र गृह-मध्ये, विशोध्येति वस्त्रेण, राङ्कवं मृग-रोम-निर्मितं कोमलासनम् आस्तीर्य तस्य उपरि-देश उपयुक्ता मुक्ता यत्र, एवं-भूतम् उल्लोचं “चान्दोया” इति प्रसिद्धे चन्द्रातपं, उन्नत-मुदस् ता दास्यः मिलिताः सत्यः बबन्धुः, तद्-बन्धेनैकापेक्षया मिलिताः ॥६॥

एका ममार्ज मणि-काञ्चन-भाजनानि
काचित् पयः समय-योग्यम् उपानिनाय ।
चित्रांशुकापिहित-रत्न-चतुष्किकायाम्
अलम्बनीयम् अदधाद् अपरोप-बर्हम् ॥७॥
समय-योग्यं
पय इति ग्रीष्मे शीतलं शीते उष्णं जलम् इत्य् अर्थः । चित्र-वस्त्रेण आच्छादित-रत्न-चतुष्किकायां “तकिया” इति प्रसिद्धम् अलम्बनीयोपबर्हम्अपरा किङ्करी अदधाद् ॥७॥

पूर्वेद्युर् अंशुक-मणीमय-भूषणानि
मृष्टानि यत्र निहितान्य् अथ सम्पुटं तत् ।
उच्चैर् झनद्-वलय-राजि समुद्घटय्य
काचिज् जघर्ष विधु-कुङ्कुम-चन्दनानि ॥८॥
काचित्
पूर्व-दिवसे मृष्टानि वस्त्र-मणि-मय-भूषणानि निहितानि यत्र, एवं-भूतं तत् सम्पुटम् उद्घटय्य झनन्ती वलय-श्रेणी यत्र, एवं-भूतं यथा स्यात् तथा इति उद्घटन-क्रिया-विशेषणं कुङ्कुमादीनि जघर्ष, सर्वादौ पेटिकोद्घटनं च वस्त्रालङ्कारादि-दर्शनार्थं, तासां स्वभाव एव ॥८॥

अन्या व्यधत्त सुमनाः सुमनोभिर् एव
चित्रैः किरीट-कटकाङ्गद-हार-काञ्चीः ।
जाति-लवङ्ग-खदिरादिभिर् अज्यमानाः
काचिद् बबन्ध सुरसाः फणि-वल्ली-वीटीः ॥९॥
शोभन-मना
अन्या चित्रैः सुमनोभिः पुष्पैः किरीट-वलयादीन् व्यधत्तअङ्गदः “बाजु-बन्ध” इति प्रसिद्धः । फणि-वल्ली-वीटीः पर्ण-निर्मित-वीटिकाः ॥९॥

अत्रान्तरे प्रति-दिशं दधि-मन्थनोत्थ-
रावैर् अवारित-महीसुर-वेद-घोषैः ।
हम्बा-ध्वनि-व्यतिविधान-मिथोऽवधायि
धेन्व्-आलि-तर्णक-घटा-वलद्-अन्तरायैः ॥१०॥
वृन्दिष्ट-वन्दि-जन-वृन्द-वितायमान-
श्री-कृष्ण-कीर्ति-विरुदालि-सुधा-तरङ्गैः ।
शारी-शुक-व्रज-कलैः कलविङ्क-केकि-
कोलाहलैः क्रमत एव समेधमानैः ॥११॥
जाग्रत्सु-लोक-निचयेष्व् अथ वासरेति
कर्तव्य-भावन-परेष्व् अधिशय्यम् एव ।
कृष्णेक्षण-क्षण-सतृष्णतया पुरन्ध्री-
वृन्देषु नन्द-गृह-सन्दित-मानसेषु ॥१२॥
अत्रान्तरे
प्रातः-काल-रूपावसरे प्रति-दिशं दधि-मन्थनोत्थ-रावैर् आवरितोऽनभिभूतः, अत एव तादृश-मन्थन-शब्दापेक्षया महान् यो महीसुरस्य ब्राह्मणस्य वेद-घोषस् तैर् जाग्रतत्सु लोक-निचयेषु एवं वक्ष्यमाण-विहारादिषु च सत्सु श्यामला तत्र राधिका-निकटे एत्य आस्त इति नवम-[§१८]-श्लोकेन सहान्वयः ।

वेद-घोषैः कीदृशैः ? हम्बा-ध्वनेः परस्पर-कृत-शब्दे परस्परावधानं च येषां तेषां धेनु-श्रेणी-वत्स-घटानां बलवद्-अन्तरायो यतस् तैः । धेनु-वत्सयोर् दोहन-समये परस्पर-शब्द-श्रवणम् अवान्तर-वेद-शब्दस्य प्रैबन्धाद् इत्य् अर्थः ।

लोकानां जागरणं कारणान्तराण्य् आह—वृन्दिष्टोऽतिशय-श्रेष्ठो यो वन्दि-जन-समूहस् तेन वितायमानैस् तादृश-सुधा-तरङ्गैः, कलविङ्कः “चिरिया” इति प्रसिद्धः । एतैः शब्दैः क्रमत उत्तरोत्तर-क्षणे एव समेधमानैः, तथा च सर्वेषां ब्राह्मणानाम् एकदा जागरणं न सम्भवति, अत एव जागरण-क्रमत एव शब्दानां वृद्धि-क्रमो बोध्यऊ ।

एवम् अधिशय्यम् एव दिवस-सम्बन्धीति कर्तव्यता-भावन-परेषु जनेषु सत्सु, एवं श्री-कृष्णस्य ईक्षणे क्षणेन जातं यत् सतृष्णतत्वं तेन हेतुना पुरन्ध्री-वृन्देषु नन्द-गृह-बद्ध-मानसेषु सत्सु ॥१०-१२॥

नाप्त्रि-मुखाम्बुज-विलोकन-जीवितायां
तत्रोपसृत्य सहसा मुखराभिधायाम्
[^८]** ।
वात्सल्य-रत्न-पटली-भृत-पेटिकायां
राधे क्व पुत्रि भवसीति समाह्वयन्त्याम् ॥१३॥**

तत्र राधिका-मन्दिर-निकटे मुखरा विधायाम् उपसृत्य आगत्य—हे राधे ! पुत्रि त्वं कुत्र भवसीति समाह्वयन्त्यां सत्याम् ॥१३॥

एषास्मि किं कथयसीति तया प्रबुद्ध्य
सद्यः स-जृम्भण-स-घूर्ण-दृशेक्षितायाम् ।
श्री-कृष्ण-पीत-वसनं तद्-उरस्य् अवेक्ष्य
तस्यानवेक्षणम् अथाप्य् अभिनीतवत्याम् ॥१४॥

एवम् एषा राधाहम् अस्मि । त्वं किं कथयसीति तया सद्यः प्रबुद्ध्य जागरित्वा जृम्भा-घूर्णा-सहित-दृशेक्षितायां मुखरायां सत्यां तस्या राधाया वक्षः-स्थले पीत-वसनं वीक्ष्यापि राधा-लज्जिता भविष्यतीति शङ्कया तस्य अनवेक्षणम् अभिनीतवत्यां मुखरायां सत्याम् ॥१४॥

प्रातर् बभूव तद् अपि स्वपिषि त्वम् अद्य
नोद्यन्तम् अम्बर-मणिं किम् इहावधत्से ।
स्नात्वा तद् एतम् अभिपूज्य किम् अप्य् अशान
हा ते तनुं प्रति-दिनं तनुताम् उपैति ॥१५॥
उद्यन्तम्
अम्बर-मणिं सूर्यं किं न अवधत्से ? तत् तस्मात् स्नात्वा एतं सूर्यम् अभिपूज्य किम् अपि वस्तु अशान भुङ्क्ष्व । हा कष्टं प्रति-दिनं व्याप्य तनुतां क्षीणताम् ॥१५॥

इत्य् अश्रु-बिन्दुभिर् इमाम् अभिषिच्य पाणि-
मृष्टाङ्गम् अङ्क-निहिताम् अभिलाल्य तस्याम् ।
गोपेन्द्र-मन्दिरम् अतित्वरया गतायां
कृष्णेक्षणोत्कलिकया कलिकान्तरायाम् ॥१६॥
एकैकशोऽथ मिलितासु सखीषु सर्वास्व्
अन्योन्य-हास-परिहास-परासु तासु ।
सुश्लिष्ट-मण्डलतयैव कृतोपवेशास्व्
अरूढ-रत्न-मणि-हेम-चतुष्किकासु ॥१७॥
अङ्क-निहिताम्
एतां राधाम् अश्रु-बिन्दुभिर् अभिषिच्य, पाणिना आमृष्टम् अङ्गम् अभिलाल्य च, श्री-कृष्ण-दर्शनार्थं गोपेन्द्र-मन्दिरम् अतित्वरया गतायां तस्यां मुखरायां सत्याम् ॥१६-१७॥

श्री-राधिका-मिलनम् एव समस्त-हर्ष-
सस्यैक-वर्षम् इति यद् धृदि निश्चिकाय ।
तच् छ्यामलैत्य समया समयाभिविज्ञा
श्लिष्टा तया सुषमयेव तदास तत्र ॥१८॥
तदा
प्रातः-काले समयाभिज्ञा श्यामा समया राधिका-निकटे तया राधया सुश्लिष्टा आलिङ्गिता । ननु श्यामला तावत् स्वतन्त्र-यूथेश्वरी भवतीति कथं तस्या राधा-निकटागमनं सम्भवेत् ? अतस् तत्र कारणम् आह—यद् यस्मात् राधिका-मिलनम् एव समस्त-हर्ष-रूप-सस्य एकम् असाधारणं वर्षा-स्वरूपं समस्त-सस्यानि यथा वर्षां प्राप्य प्रफुल्लीभवन्ति, तथा समस्त-हर्षा अपि राधिका-मिलनं प्राप्य प्रफुल्लीभवन्तीति हृदि निश्चिकाय, यत् तस्माद् इत्य् आदि ॥१८॥

श्यामे त्वम् एव अधुनैव विचिन्त्यमाना
मन्-नेत्र-वर्त्म गमिता विधिना यथैव ।
तद्वत् स तर्ष-विटपी फलयिष्यते चेद्
अद्यैव तर्हि गणयान्य् अपि सुप्रभातम् ॥१९॥

अधुना राधिका श्री-कृष्णेन सह रात्रि-सम्बन्धि-विलासम् अनुराग-वशाद् विस्मृत्य स्व-मनो-दुःखं श्यामलां ज्ञापयितुं कथां रचयति—हे श्यामे ! त्वम् अधुनैव विचिन्त्यमाना यथा अनुकूलेन विधिना त्वं मन्-नेत्र-वर्त्म गमिता प्रापिता । तथा वक्तुम् अनर्हस् तर्ष-विटपीस् तृष्णा-रूप-वृक्षः फलयिष्यते चेत् तर्हि अद्यैव सुप्रभातं गणयानि ॥१९॥

हन्तैष सन्ततम् अतीव-समेधमानः
शश्वत् सखीभिर् अपि सुन्दरि सिच्यमानः ।
नाद्यापि यत् फलम् अधाद् अयि कोऽत्र हेतुर्
हा तत् कदातिरभसाद् अवलोकयिष्ये ॥२०॥

हे सुन्दरि ! श्यामे ! एष तर्ष-विटपी निरन्तरम् एधमान एवं निरन्तरं सखीभिः सिच्यमानश् च, अद्यापि यद् यस्मात् फलं न अधात्, अत्र को हेतुः ? हा कष्टम् । तत् फलम् ॥२०॥

राधे स ते न फलितो यदि तत् फलिष्यत्य्
आश्चर्यम् अस्य फलम् अप्य् अलसाङ्गि बुध्ये ।
आस्वाद्यमानम् अपि सौरभ-मादितालिः
प्रत्याययत्य् अननुभूतम् इव स्वम् उच्चैः ॥२१॥

इत्थं राधिकायाः तादृश-वाक्यम् अवेत्य श्यामला भङ्ग्या श्री-कृष्णेन सह सम्भोग-व्यञ्जकं प्रत्युत्तरम् आह—हे राधे ! ते तव तर्ष-विटपी न फलितो यदि तदा फलिष्यति, किं तु तस्य विटपिनः फलम् अपि आश्चर्यम् अहं बुध्ये । हे अलसाङ्गि ! इति रात्रि-कृतं विलासं व्यञ्जयति । आश्चर्यम् एवाह—सौरभेण मादितोऽलिर् भ्रमरः पक्षे आलिः सखी येन एवं-भूतम् आस्वाद्यमानम् अपि तत् फलं स्वम् अननुभूतम् इव प्रत्याययति । एतेन अनुराग-स्थायि-भावो ध्वनितः ॥२१॥

पक्ष्मावली बत यदीय-रसेन शोणे-
नारञ्जि कञ्ज-मुखि तन् न तद् अप्य् अपश्यः ।
यत्-स्वादन-व्यतिकराद् अधरो व्रणित्वम्
आगात् तथापि तद् अहो न कदाप्य् अभुक्थाः ॥२२॥

आश्चर्यान्तरम् आह—हे कञ्ज-मुखि ! राधे ! यत् फल-सम्बन्धि-शोणेन रसेन तव नेत्र-स्थ-पक्ष्मावलीर् आरञ्जि राग-युक्ती-कृता, तद् अपि तत् फलं त्वम् अपश्यः, एवं यत् फलस्यास्वादन-व्यतिकरात् पौनःपुन्यात् तव अधरो व्रणित्वम् आगात्, अहो आश्चर्यं, तत् फलं त्वं कदापि न अभुक्थाः, न भुक्तवती ॥२२॥

श्यामे त्वम् अप्य् अलम् अलक्षित-मन्-नितान्त-
स्वान्त-व्रणा हससि मां यद् अतो ब्रवीमि ।
विद्युद् विहन्ति तिमिरं निशि यद् दृशोस् तत्
सद्यः पुनर् द्विगुणयेद् इति भो प्रतीहि ॥२३॥

अधर-नेत्रादौ चिह्नं दृष्ट्वा श्री-कृष्णेन सहाङ्ग-सङ्गं निश्चिन्वन्ती श्यामलां प्रति स्व-मनो-दुःखं व्यञ्जयति—हे श्यामे ! अलक्षितो मदीय-निरन्तर-मनो-व्रणो यया एवं-भूता त्वं, यद् यस्मान् मां हससि, अतो अहं त्वां किञ्चिद् ब्रवीमिनिशि विद्युद् दृशोर् यत् तिमिरं हन्ति, सद्य एव तत् तिमिरं हन्ति, सद्य एव तत् तिमिरं पुनर् द्विगुणयेद् । हे श्यामे! एतत् तुल्यम् एव सहाङ्ग-सङ्गं प्रतीहि, एतद्-अपेक्षया वरम् असङ्गम् एव सम्यक् ॥२३॥

राधे कला-निधिर् अयं विधिनोपनीतस्
त्वां सन्ततामृत-मयैर् अधिनोत् कराग्रैः ।
यत् तत्-कलाः स्वयम् अहो कुचयोर् बिभर्षि
विद्युन्-निभत्व-परिवादम् अथापि दत्से ॥२४॥

अनुरागातिशयेन राधया ज्ञातं श्री-कृष्णं श्यामला तमो-नाशक-पूर्ण-चन्द्रत्वेन वर्णयति—हे राधे ! अयं न विद्युत्, किं तु समस्त-कलानां निधिः पूर्ण-चन्द्रः, पक्षे कृष्णः, विधिना उपनीतः प्रापितः सन् निरन्तरामृत-मयैः कराग्रैः, पक्षे हस्तस्याग्रैः, त्वाम् अधिनोत् सुखयामास । यत् यस्मात् तस्य कलाः स्वयम् एव कुच-द्वये बिभर्षि तथापि विद्युन्-निभत्व-रूपं परिवादं दत्से ददसे ॥२४॥

श्यामे स मे सखि ददौ न कलङ्कम् एव
सत्यं कलानिधिर् असाव् इति वः प्रतीतः ।
दत्ते कदापि मम दृष्टि-चकोरिका यैर्
ज्योत्स्ना-कणं यद् अपि तन् न पुनर् निकामम् ॥२५॥

सुहृद्-वाक्यस्य प्रामाण्यात् तस्य चन्द्रत्वम् अभ्युपगमम्य् एवाह—हे सखि ! यद् यस्मात् मे मह्यं त्वया व्यञ्जितं कलङ्कम् एव ददौ यस्मात् स्वं निजं कलङ्कं मह्यं दत्त्वा सत्यं वो युष्माकम् असौ कलानिधिर् इति प्रतीतः । इति एवं-प्रकारेणासौ कलानिधिः प्रतीतः ख्यातः कर्तरि क्तः । किं तु कदाचित् मम उपकार-कर्तृत्वम् अपि तस्य नास्तीत्य् आह—यद्यपि ज्योत्स्ना-कणं दत्तं तथापि न निकामं यथेष्टं तथा च इन्द्रियाणां मध्ये मम नेत्रस्यापि न सम्पूर्ण-सुख-दायकत्वं तस्येति भावः ॥२५॥

राधे स्फुतं वद भवन्-मुख-पङ्कजोत्थ-
नक्ततनेहित-सुधा-द्युधुनी विधूय ।
तापं निमज्जयतु मां स्वम् अनु प्रभाते
कृत्यान्तरं मम कथं तद्-ऋते सुसिद्ध्येत् ॥२६॥

हे राधे ! अवहित्थां मा कुरु स्फुतं वद भवन्-मुख-पङ्कजोत्था या **रात्रि-**सम्बन्धि-विलास-रूपा सुधा-मय-गङ्गा सा मम तापं विधूय दूरीकृत्य मां स्वम् अनु स्वस्मिन् निमज्जयतु, अत एव तद्-ऋते तादृश-गङ्गा-मज्जनं विना प्रभाते मम कृत्यान्तरं कथं सिद्ध्येत् ? सदाचार-जनानां प्रातः-स्नानस्यावश्यापेक्षणीयत्वात् । वास्तवार्थस् तु तव विलास-वार्ता-श्रवणं विना मम कृत्यान्तरं न रोचिष्यत एवेति भावः ॥२६॥

श्यामेऽधि-कुञ्ज-निलयं नव-नील-कान्ति-
धारा यदा स्वपयितुं निशि मां प्रवृत्ता ।
तर्ह्य् एव पञ्च-शर-सञ्चय-नाट्य-रङ्ग-
भूमिं च केन च कथञ्चन यापिताऽऽसम् ॥२७॥

श्यामया प्रार्थितं विहार-श्रवणं ज्ञात्वा तं विहारं वक्तुं प्रवृत्तापि अनुराग-वशात् पर्यवसाने तस्य विदुन्-निभत्वम् एव व्यवस्थापयिष्यन्ती राधाह—हे श्यामे ! अधि-कुञ्ज-निलयं कुञ्ज-गृहे नवीन-नील-कान्ति-धारा यदा मां स्वपयितुं प्रवृत्ता, तदैव पञ्चशर-सञ्चयस्य कन्दर्प-समूहस्य नाट्य-सम्बन्धिनीं काञ्चन रङ्ग-भूमिं केन यापिता प्रापिता अहम् आसम्, अहं रङ्ग-भूमिं केनापि प्रापिता बभूवेत्य् अर्थः । केनेति पदेन औत्सुक्येनेति सूचयति । तथा च, तदानीं नख-शिख-पर्यन्तं कन्दर्प-समूहेन परिपूर्णा सती व्याकुलैवाभूतम् इति भावः ॥२७॥

तेभ्यस् ततः किम् अपि सभ्यतया नटेभ्यो
हृष्यन्त्य् अदां स्व-निखिलेन्द्रिय-वृत्ति-मुद्राः ।
किं वाहम् अप्य् अनटम् अत्र विचित्रम् एतत्
स्मर्तुं न सम्प्रति सखि प्रभवामि किञ्चित् ॥२८॥
ततस्
तद्-अनन्तरं किं सभ्यतया हेतुना नृत्य-दर्शनात् तुष्यन्ती अहं तेभ्यः कन्दर्प-स्वरूप-नटेभ्यः स्वकीय-निखिलेन्द्रिय-वृत्ति-रूपाः । “रूपैया” इति प्रसिद्धा मुद्राः अदाम् । किं वा, अहम् अपि तत्र विचित्रम् अनटम्, तत् सर्वं स्मर्तुं न प्रभवामि । अनटम् इति पदेन सम्भोगेऽपि सन्देहो ध्वनितः ॥२८॥

राधे स पञ्चशर-कोटि-नटान् अपि स्वैर्
नाट्यैर् विलक्षयति कोऽपि विलास-सिन्धुः ।
तं चाप्य् अनर्तयद् अहो भवतीं स्मराजौ
तत् सूत्रधार-पदवीम् अपि भोस् तदागात् ॥२९॥

हे राधे ! कोऽपि श्री-कृष्ण-रूपो विलास-सिन्धुः स्वैर् नाट्यैः करणैः कन्दर्प-स्वरूप-कोटि-नटान् विलक्षयति विस्मापयति । अहो आश्चर्यम् । तं चापि विलास-सिन्धुं स्मराजौ कन्दर्प-युद्धे भवती अनर्तयत्, तत् तस्मात् तदा नृत्य-कारयित्री-रूपां सूत्रधार-पदवीम् अपि अगात्। कथं सभ्यतयेति ब्रूषे ? किं तु वैपरीत्याचरणम् अपि अशिक्षयद् इति भावः ॥२९॥

श्यामे ब्रवीषि यद् इदं यद् अवोचम् अन्या
याश् चानुभूति-ततयः कति वानिरुक्ताः ।
तत् सर्वम् एतद् अपि हन्त किम् इन्द्रजालं
स्वप्नो नु वा भ्रम-भरो मनसोऽथवा मे ॥३०॥

हे श्यामे ! त्वं यद् ब्रवीषि, एवम् अहम् अपि यद् अवोचम्, एवं त्वया मया वा अनिरुक्ता अन्याः कति वा अनुभूति-ततयः सन्ति । एतत् सर्वं किम् इन्द्रजालं वा मम मनसो भ्रमो वा, यथा अत्यन्त-तृष्णातुरस्य जनस्य स्वप्नादौ पाणकादि-भोजने जातेऽपि निद्रा-भङ्गे सति तस्य जनस्य पूर्ववत् तृष्णातुरत्वात् तृप्त्य्-अभावाच् च तद्-भोजनस्य मिथ्यात्वं कल्पते, तथा ममापि तादृश-विलासस्येति भावः ॥३०॥

राधे यद्-आस्य-सरसीरुह-गन्ध एवम्
अन्धीकरोति कुलजा-कुलम् आलि दूरात् ।
तन्-मध्व् अतीव-सुरसं सरसं पिबन्त्यास्
चित्त-भ्रमस् तव मदाद् इति नैव चित्रम् ॥३१॥

अधुना राधया सन्दिग्धत्वेन उत्थापितं मनसो भूम-रूपं तृतीय-पक्षं श्यामला यथार्थत्वेन निश्चिनोति—हे सखि ! राधे ! यस्य मुख-पद्म-सम्बन्धि गन्ध एवं कुलजा-कुलं दूराद् एवान्धीकरोति, तस्य मुख-पद्मस्य अतीव-सुरसं मधु सरसं यथा स्यात् तथा पिबन्त्यास् तव तादृश-मधु-पान-जन्य-मदात् चित्त-भ्रमो नैव चित्रम् ॥३१॥

अत्रान्तरे मधुरिका मिलिताथ पृष्टा
ताभिर् जगाद मधुरं शृणुतैतद् आल्यः ।
कस्यैचिद् एव कृतये व्रज-रज-वेश्म
प्राप्ताद्य कौतुकम् अहो यद् उषस्य् अपश्यम् ॥३२॥

अत्रावसारे मधुरिका-नाम्नी सखी मिलिता, ताभिः राधादिभिः पृष्टा सती मधुरं जगाद ॥३२॥

भोः कृष्ण कृष्ण नलिनेक्षण जागृहीति
गोष्ठेश्वरी स्नुत-कुचाऽत्मजम् आह्वयन्ती ।
तल्पान्तम् एत्य रभसेन विलोक्य कृष्णम्
आनन्द-बाष्प-पृषतैर् इमम् अभ्यषिञ्चत् ॥३३॥
बाष्प-पृषतैर्
बाष्प-बिन्दुभिः ॥३३॥

**शय्योत्थितस्य दर-घूर्ण-दृशोऽथ तस्य
जृम्भा विसर्पद्-उरु-सौरभ-मादितालेः ।
सम्मोटनाति-भर-तिर्यग्-उदञ्चद्-आस्य-
पद्मैक-पार्श्व-चलित-स्खलितालकालेः ॥३४॥
आ-पाद-शीर्षम् अथ पाणि-तलाभिमर्षे-
णाव्याद् अजोऽङ्घ्रिम् इति मन्त्रम् उदाहरन्ती ।
संरक्ष्य तूणम् अखिलाङ्गम् अथोर्ध्व-दृष्ट्या
किञ्चित् स-काकु-भरम् अर्थयते स्म राज्ञी ॥३५॥ **

(युग्मकम्)

शय्योत्थितस्य कृष्णस्य अव्याद् अजोऽङ्घ्रिं [भा।पु। १०.६.२२] इति **मन्त्रम् उदाहरन्ती **व्रज-राज्ञी, अखिलाङ्गं संरक्ष्य ऊर्ध्व-दृष्ट्या नारायण-स्थाने किञ्चित् प्रार्थयते इति पर-श्लोकेन सहान्वयः । कथं-भूतस्य तादृश-मुख-पद्मस्य एक-पार्श्वे चलिता, अपर-पार्श्वे बन्धनात् स्खलिता अलक-श्रेणी यस्य ॥३४-३५॥

देवाधिदेव भवतैव चिरात् सुतोऽयं
दत्तः स्व-बन्धु-जन-जीवनताम् उपेतः ।
पाल्योऽपि नाथ भवतैव कृपा-भरेण
स्वेनैव काम् अपचितिं तव वेद्मि कर्तुम् ॥३६॥
अयं
कृष्ण उपेतः प्राप्तः स्वेनैव कृपा-भरेण पाल्यः, तव काम् अपचितिं पूजां **कर्तुं वेद्मि **? अपि तु न काम् अपीत्य् अर्थः ॥३६॥

सा रोहिणी-भागवती-मुखरा-किलिम्बाः
कृष्णेक्षणोत्क-मनसः सहसा मिलन्तीः ।
दृष्ट्वा यथार्हम् अभिवादन-भाषनाद्यैः
सम्मान्य पुत्रम् अपि वन्दयते स्म हृष्टा ॥३७॥
सा
यशोदा । मिलन्तीः रोहिण्य्-आद्या दृष्ट्वा अभिवादनाद्यैः सम्मान्य श्री-कृष्णम् अपि वन्दयते स्म नमस्कारं कारयति स्म ॥३७॥

गान्धर्विके शृणु यद् अन्यद् अभूद् विचित्रं
नीलांशुकं स्व-तनयोरसि वीक्ष्यमाणाम् ।
ताम् आह सैव भगवत्य् अयि गोष्ठ-राज्ञि
रामाम्बरेण परिवर्तितम् अस्य वासः ॥३८॥
वीक्ष्यमाणां तां
यशोदां सा भगवती पौर्णमासी आहरामस्य बलदेवस्य, गूढार्थश् च रामायाः, अम्बरेण ॥३८॥

ताटङ्कगारुण-मणि-प्रतिबिम्ब एव
गण्डे विभाति तव माधव शोण-शोचिः ।
इत्य् उक्त एव स तया निज-पाणिना तं
सद्यो जघर्ष भवद्-आधर-राग-भागम् ॥३९॥

श्री-कृष्णस्य गण्ड-स्थं ताम्बूल-रागं वीक्ष्य स-शङ्का पौर्णमासी तं कुण्डल-स्थ-रक्त-मणि-प्रतिबिम्बत्वेन वर्णयति—हे माधव ! शोण-शोचिः कान्तिर् यस्य एवं-भूतः कुण्डल-गतारुण-मणि-प्रतिबिम्ब एव तव गण्डे विभाति इति तया पौर्णमास्या उक्तः श्री-कृष्णः । हे राधे ! **भवद्-अधर-**सम्बन्धि-राग-खण्डं स्व-पाणिना जघर्ष ॥३९॥

नारोचयद् यद् अशनीयम् अधि-प्रदोषं
घूर्णा-वशाद् अमयतः क्रशिमानम् आगात् ।
तत् साम्प्रतं किम् अपि भोजय रोहिणीत्या-
दिष्टा तया तद् उपनेतुम् असौ जगाम ॥४०॥
यद्
यस्माद् घूर्णा-वशाद् अधि-प्रदोषं प्रदोषे अशनीयं भोजनीयं वस्तु अमयतः अरोचयत् । अतः क्रशिमानम् आगात्तस्मात् हे रोहिणीति ॥४०॥

दासोपनीत-मणि-पीठ-कृतोपवेशस्
तत्-कारितस्य-सरसीरुह-धावनादिः ।
तर्ह्य् एव राम-बटु-सम्मिलनाश्रित-श्रीः
रेजे यथेन्द्-तडिद्-इद्ध-रुचिः पयोदः ॥४१॥

कृष्णः कथं-भूतः ? दासेन उपनीतं यत् रत्न-पीठं तत्-कृतोपवेशः । पुनश् च तैर् दासैः कारितो मुख-पद्म-धावनादिर् यस्य तथा-भूतः सन् । तर्हि दन्त-धावन-समये बलदेव-मधुमङ्गलाभ्यां मिलनेन आश्रिता श्रीः शोभा यस्य । तत्र दृष्टान्ताः—इन्दु-विद्युद्भ्याम् इद्धा दीप्ता रुचिर् यस्य एवं-भूतो मेघो यथा तथा इत्य् अर्थः । तत्र इन्दु-स्थानीयो बलदेवः विद्युत् स्थानीयो मधुमङ्गलः ॥४१॥

मत्स्यण्डिका-सुरसम् ऐन्दव-सौरभाढ्यं
हैयङ्गवीनम् अथ राजत-भाजन-स्थम् ।
वात्सल्यम् एव किम् उ मूर्तिम् अमी जनन्या
हृत्-पुण्डरीक-गतम् ऐक्षिषतातिहृष्टाः ॥४२॥

“मिश्रि” इति ख्याता मत्स्यण्डिका, तया सुरसम् अथ च इन्दुः कर्पूरः, तत्र ख्यातम् ऐन्दवं सौरभं, तेन चाढ्यं हैयङ्गवीनं रजत-सम्बन्धि-पात्र-स्थम् अमी कृष्णादयः **ऐक्षिषत **नवनीतम् उत्प्रेक्षन्ते जनन्या यशोदाया हृदय-पद्म-गतं वात्सल्यं किं मूर्तिमद् एव सत् बहिर्-भूतम् ॥४२॥

राज्ञ्याथ ते प्रति मुहुः परिवेशितेन
तेनैव तृप्तिम् अगमन् मधुमङ्गलस् तु ।
ऊचे ततः किम् अपि भोक्तुम् अपारयन्न् अप्य्
अस्मि क्षुधार्त इति सा तद् अदाद् अमुष्मै ॥४३॥
राज्ञ्या
यशोदया प्रतिमुहुः प्रतिवारं परिवेशितेन तेन हैयङ्गवीनेन करणेन ते रामादयः तृप्तिम् अगमन्मधुमङ्गलस् तु भोक्तुम् अपारयन्न् अपि अहं क्षुधार्तोऽस्मीति ऊचेततस् तद्-अनन्तरं यशोदा तत् हैयङ्गवीम् अमुष्मै मधुमङ्गलाय प्राचूर्येण पुनर् अदात् ॥४३॥

गा दोग्धुम् उद्धुर-धियोऽपि वृथोद्यमास् ते
गोपा बभूवुर् अथ तर्णक-मण्डलाश् च ।
चूषन्त एव न पयः-कण-मात्रम् आसाम्
आपीनतोऽद्य यद् अवापुर् अतो विषेदुः ॥४४॥
गावस् तवाध्वनि धृताश्रु-भृताक्षि-युग्मा
न प्रस्रवन्त्य् उपगतान् न लिहन्ति वत्सान् ।
हम्बा-ध्वनि-ध्वनित-दिग्-वलया विलम्बं
सोढुं दरापि न हि सम्प्रति शक्नुवन्ति ॥४५॥
इत्य् एव केनचिद् उपेत्य स गोदुहोक्तो
मातॄर् निजास्य-दर-हास्य-सुधाभिषेकैः ।
स्वानन्द-संसिभिर् असौ सुखयन् मुखाब्जं
ताम्बूल-रञ्जितम् अलं कलयन्न् उदस्थात् ॥४६॥

(सन्दानितकम्)

इत्थं श्री-यशोदा-कृत-लालन-समये केनापि गोपेनागत्य किम् अप्य् उक्तम् इत्य् आह त्रिभिः श्लोकैः केनचित् गोपेन उपेत्य निकटम् आगत्य स श्री-कृष्ण उक्तः कथितः । ततश् चासौ श्री-कृष्ण उदस्थात् उत्थितवान् । असौ किं-भूतः ? निजास्य-दर-हास्य-सुधाभिषेकैर् मातॄः श्री-यशोदा-प्रभृतीः निज-मुखस्य ईषद्-धास्य-रूपो यः सुधाभिषेकाः, तैः सुखयन् । किं-भूतैर् अभिषेकैः ? स्वानन्दं स्व-सुखं कथयितुं शीलं येषां तैः । पुनश् च, मुख-कमलं ताम्बूल-रञ्जितम् अलं कलयन् अलङ्कुर्वन् । (४६)

गो-दुहा उपेत्य किम् उक्तम् इत्य् अपेक्षया आह—ते प्रसिद्धा गोपा गा दोग्धुम् उद्धुर-धियोऽपि निपुण-बुद्धयोऽपि वृथोद्यमा बभूवुः । एवं यद् यस्मात् तर्णक-मण्डलाश् च वत्स-समूहाश् च चूषन्त एव स्थिताः, न त्व् आसां शिशवः आपीनतः स्तनेभ्यः **पयः-कण-मात्रम् **आपुः । अतो हेतोर् गोपाः सर्वे विषेदुः विषण्णा बभूवुर् इति ।

तव अध्वनि पथि धृतानि दिग्-वलयानि याभिर् एवं भूतास् ता गावः सम्प्रति क्षणम् अपि तव विलम्बं सोढुं न शक्नुवन्ति ॥४४-४६॥

दोहं समाप्य बलभद्र सहानुजस् त्वं
मल्लाजिरं व्रजसि चेत् कुरु मा विलम्बम् ।
निर्मञ्छनं तव भजे क्षण-मात्रम् एव
सार्धं विहृत्य सखीभिर् द्रुतम् एहि भोक्तुम् ॥४७॥

हे बलभद्र ! दोहं समाप्य सहानुजस् त्वं यदि मल्ल-क्रीडा-स्थानं व्रजसि, तदा विलम्बं मा कुरु ॥४७॥

श्रुत्वेति मातृ-गिरम् आह हरिर् न मातः
प्रत्येषि मां यद् अमुम् एव वदस्य् अथैवम् ।
शिष्टोऽग्रणीः पुनर् अमीष्व् अहम् एक एव
नो चेद् अमुष्य वशतां किम् उरीकरिष्ये ॥४८॥

बलदेवं प्रत्य् उक्तं, न तु स्वं प्रतीत्य् अवगत्य श्री-कृष्णो मातरं प्रत्य् आह—हे मातः ! मां प्रति न प्रत्येषि प्रतीतिं न करोषि, यद् यस्मात् अमुं बलदेवम् एव वदसि, अमीषु बालकेषु मध्ये अहम् एक एव शिष्टोऽग्रणीश् च अहं शिष्टो न इति वेत्सि जानासि, अमुष्य ज्येष्थस्यापि किं वशताम् उरीकरिष्ये ? ॥४८॥

शिष्टो यथा त्वम् असि वत्स निजातिबाल्यम्
आरभ्य तत् खलु विदन्त्य् अखिलाः पुरन्ध्र्यः ।
याः स्वालयापचय-वेदनयापुर् आसां
फुत्कर्तुम् आपुर् इह नो कतिधेति सोचे ॥४९॥

हे वत्स! बाल्यम् आरभ्य यथा त्वं शिष्टोऽसि, तत् खलु अखिला व्रज-पुरन्ध्र्यो विदन्ति, याः पुरन्ध्र्यः स्वालयापचयवेदनया स्व-गृह-स्थित-दध्य्-अपचय-ज्ञापनायापुर् आसां फुत्कर्तुं कति वारान् नापुः, अपि तु आपुर् इति सा यशोदा ऊचे ॥४९॥

सौदामिनी-तति-विभा-जयि-दामनी-द्युद्-
विभ्राजि-सव्य-कर-कोरकितारविन्दः ।
स ग्राहित-प्रमित-कानक-दोहनीको
मात्रा तया सखि रयाद् अधिकं विरेजे ॥५०॥

ततश् च पुत्रस्य गोदोह-विषये आनन्द-ज्ञानेन यशोदया स्वयम् एव स प्रेषित इत्य् आह—हे **सखि **! राधे ! रयात् वेगात् तया मात्रा ग्राहिता प्रमिता अल्प-प्रमाण-युक्ता कनकस्य दोहनीयम् । एवं-भूतः कृष्णः अधिकं रेजे । किम्-भूतः ? सौदामिनी-ततिर् विद्युत्-श्रेणी तस्या या विभा विशिष्टा शोभा तां जेतुं शीलं यस्या एवं-भूता या दामनी तस्या या द्युत् कान्तिस् तया विभ्राजी विभ्राजन-शीलो यः सव्य-करः वाम-पाणिः, स एव कोरकितम् अरविन्दं यस्य सः । पशु-रज्जुस् तु दामनी इत्य् अमरः ॥५०॥

स्तम्बे-रम-व्रज-विडम्बि-विलम्बि-पाद-
विन्यास-झञ्झन-झणत्-कृत-किङ्किणीकः ।
लोलालकालि-मणि-कुण्डल-कान्ति-वेणी-
वीची-भर-स्नपित-वक्त्र-सुधांशु-बिम्बः ॥५१॥

तद्-अनन्तरं तस्य तात्कालिक-गमन-शोभाम् आह श्लोक-त्रयेण । श्री-कृष्णः रम्य-पुरतो निष्क्रम्य पुरतोऽग्रेऽभिगच्छन् सन् गोपुराग्रं बहिर्-द्वाराद्य् अग्रिम-स्थानम् (५३) ।

किम्-भूतः ? स्तम्बे-रमो मत्त-हस्ती तस्य व्रजः समूहः, तं विडम्बितुं शीलं यस्य तथा-भूतो यो विलम्बी मन्दः पाद-विन्यासः पाद-विक्षेपः, तेन **झञ्झण-झणत्कारवती किङ्किणी **यस्य स । पुनश् च, लोला चञ्चला या अलक-श्रेणी, तस्याः । एवं मणि-कुण्डलयोश् च याः कान्तयस् ता एव वेणी, तस्या या वीची तरङ्गः, तस्या भरेण अतिशयेन स्नपितो वक्त्र-सुधांशु-बिम्बो यस्य सः ॥५१॥

पीतोत्तरीय-चपलेलित-केलि-नृत्य-
राजद्-घनाङ्ग-किरणोच्छलनोच्छ्रित-श्रीः ।
प्रेङ्खोल-हार-परिधि-श्रित-कौस्तुभोद्यद्-
भानुः स्वनच्-चरण-भूषण-चुम्बि-दामा ॥५२॥

पुनः कृष्णः कीदृशः ? पीतोत्तरीयम् एव चपला विद्युत्, तस्या इलितं प्रशस्तं केलि-नृत्यं, तेन राजन् मेघ-तुल्ये योऽङ्ग-किरणः, तस्य उच्छलनेन उच्छ्रिता ऊर्ध्वम् उत्थिता श्रीः शोभा यस्य । पक्षे, पीतोत्तरीयस्य यत् केलि-नृत्यं तेन राजन् घनो निविडोऽङ्ग-किरणं । नृत्यं कीदृशं ? चपलं चञ्चलं ईलितञ् च । ईलित-शस्तपणित पणायितेति विशेष्य निघ्नः ।

पुनश् च प्रेङ्खोलश् चञ्चलो यो हारः, स एव परिधिर् मण्डलं, तेन श्रित आवृतो यः कौष्तुभः, स एव उद्यद्-भानुर् यस्य सः । पुनश् च, स्वनच्-चरण-भूषणं तच्-चुम्बितुं शीलं यस्य तथा-भूतं दाम वन-माला यस्य सः । चरण-स्पर्शी माला वन-माल्योच्यते ॥५२॥

निष्क्रम्य रम्य-पुरतः पुरतोऽभिगच्छन्
यच्छन् मुदं स्वजननी-जन-लोचनेभ्यः ।
दासैः प्रधारितम् अवारित-रोचिर् अश्नं
ताम्बूल-पुलकम् अवाप स गोपुराग्रम् ॥५३॥

पुनश् च, दासैः प्रधारितं ताम्बुल-पूलकं ताम्बूल-वीटिकाम् अश्नन् । किम्भूतं ताम्बूल-पूलकम् ? अवारित-रोचिर् अवारित-कान्तिः ॥५३॥

तद्-बाह्य-कुट्टिम-तटीम् अवलम्बमानः
का कुत्र किं कुरुत इत्य् अनुसन्धधानः ।
व्यापारयन् नयनम् अट्ट-घतासु नर्म-
प्रेष्ठैर् मिलद्भिर् अभितः स रराज मित्रैः ॥५४॥

तस्य गोपुरस्य बाह्ये बहिः-प्रदेशे “चबुतरा” इति ख्यातं कुट्टिमं अवलम्बमानः, अर्थात् तत्र गतः, स श्री-कृष्णः दौत्यार्थं प्रेषितैः अथ च तत आगत्य अभितो मिलद्भिः सुबलादि-नर्म-प्रेष्ठ**-मित्रैः सह रराज** । किदृशः ? का व्रज-सुन्दरी कुत्र किं करोति इत्य् अनुसन्दधानः । पुनश् च अटारी-समूह-प्रसिद्धासु अट्ट-घटासु, तासां दर्शनार्थं नयनं व्यापारयन् ॥५४॥

तन्-निर्मितानुपद-कर्ण-कथा-रसज्ञ-
स्यास्याम्बुजे किम् अपि यत् स्मितम् उद्बभूव ।
तस्यार्थ-जातम् अपि किं विवरीतुम् ईशे
चेतोऽलिर् एव तव सख्य् अनुसन्दधातु ॥५५॥
तैर्
मित्रैर् निर्मिता अनुपदं अनुक्षणं या कर्ण-कथा तस्य रसज्ञस्य श्री-कृष्णस्य आस्य-पद्मे किम् अपि यत् स्मितम् उद्बभूव तस्यार्थ-जातम् विवरीतुम् किं अहम् ईशे समर्था भवामि ? सखि ! अवश्यम् एव वक्तव्यम् इत्य् आग्रहे कृते सति एवाह—हे सखि ! राधे ! तव चेतोऽलिर् एव तस्यार्थ-जातं अनुसन्धाय जानातु, तेन तवैवाखिल-वार्तेति ध्वनितम् ॥५५॥

उष्णीष-वक्रिम-महा-मधुरिम्णि तस्य
तात्कालिके किल न कस्य मनो न्यमाङ्क्षीत् ।
तत्रैव शेखरित-कानक-सूत्र-जाल-
राजन्-मणि-द्युति-भराः किम् उ वर्णनीयाः ॥५६॥
तस्य
कृष्णस्य तात्कालिके कर्ण-कथा-समयोत्पन्ने उष्णीषस्य वक्रिम-महा-मधुरिम्नि कस्य मनो न न्यमाकाङ्क्षीत् न मग्नमासीत् ? गच्छतस् तस्य ताम्बुलं चर्वयतस् तत्-तत्-कथाः एवं हर्षावेशेन ईषद्-धास्य-विशिष्टस्य हस्तेन उष्णीषस्य किञ्चित् वक्रिमाणं कुर्वतस् तस्य तदाणीन्तन-माधुरीषू मग्नानां सर्वासाम् एव मोहादिनेतरेषु विष्मृतिर् एव जातेति ध्वनिः । किञ्चित् तत्रैव उष्णिषे शेखरीकृतः कानक-सूत्रजालः “तोररा” इति ख्यातः सुवर्ण-निर्मित-सूत्र-समूहः तत्र राजन्तः विराजमाना ये मणयस् तेषां द्युतिभराः किं वर्णनीयाः ? ॥५६॥

तैः सौरभैः प्रसृमरैर् अनु नूपुरादि-
ध्वानैर् बलेन वलभीम् अधिरोहिताभिः ।
गोशाल-वर्त्मनि चलन् ललनावलीभिर्
नेत्राम्बुजैः स कतिधा नहि पूज्यते स्म ॥५७॥
तैः
प्रसिद्धैः प्रसरण-शीलैः सौरभैः एवम् अनु पश्चान् नूपुरादि-ध्वानैश् च बलेन“अटारी” इति प्रसिद्धां वलभीम् अधिरोहिताभिर् ललना-श्रेणीभिर् नेत्राम्बुजैः करणैः गोशाला-वर्त्मनि चलन् श्री-कृष्णः कतिधा न पूज्यते स्म ॥५७॥

तत्-तद्-विलास-वलिता सुषमा-रसाला
प्रेष्ठस्य सा मधुरिका परिवेश्यमाना ।
वैश्लेषिक-ज्वरम् अशीशमद् अप्य् अथास्यास्
तेने च तं शत-गुणं तृषम् एधयन्ती ॥५८॥

वयस्यैः सह तत्-तद्-विलासेन बलिता बलवत्तरा प्रेष्ठस्य सुषमा शोभा-रूपा रसाला मधुरिका परिवेष्यमाना सती अस्या राधाया वैश्लेषिक-ज्वरम् अशीशमत् शान्तं चकार । अथ तच्-छन्त्य्-अनन्तरम् असौ तृष्णां दर्शनोत्कण्ठां वर्धयन्ती शत-गुणं तं ज्वरं तेने ॥५८॥

हर्षान्वितः[^९]** स्तिमिततां श्रवसोर् व्यतानीत्
तर्षोत्थ-सञ्ज्वर-भरस् तु दृशोर् विवेश ।
आकस्मिकी निरुपमा प्रतिवेशि-सम्पत्
तापं तनोति सहवास-भृतां सदैव ॥५९॥**

तत्र तापस्य शमने वर्धने च दृष्टान्त-परिपाट्यास्वादन-कौशल्यम् आह—हार्षान्वितः राधायाः श्रवसोः स्तिमिततां व्यतानीत्तर्षोत्थ-सञ्ज्वर-भरस् तु दृशोर् नेत्र-द्वये विवेश प्रविष्टवान् । अहो श्रवणेन्द्रियस्य स्निग्धत्वे चक्षुर्-इन्द्रिस्यापि स्निग्धत्वं कथं नाभुत् ? तत्राह—आकस्मिकी सहसोद्भूता एवं च निरुपमा प्रतिवेशिनां सम्पत् **सह-वास-भृताम् **एकत्र सन्निधावेव वसतां तापं तनोतीत्य् उप्रेक्षा बोध्या ॥५९॥

प्राहानुराग-परभागवती ततः सा
ता एव चारु-मुखि! धन्यतमा रमण्यः ।
याः खेलयन्ति सततं सुदृशस् तदीय-
लावण्य-केलि-जलधौ कलधौत-गात्र्यः ॥६०॥
अनुरागस्य परभागः
परमोत्कर्षस् तद्वती राधिका **प्राह—**हे चारु-मुखि ! मधुरिके ! ता एव रमण्यो धन्यतमाः या सुदृशः तदीय-लावण्य-केलि-जलधौ कलधौतं सुवर्णं तद्वद्-गात्र्यः तेन यथा तासां रूपं तथैव भाग्यम् अपि फलितम् इत्य् अर्थः । चारु सुन्दरं तवैव मुखं येन तद्-गुणान् कथयसि । रमण्य इति ता एव रमन्ते, वयं तु सदैव दुःखिन्य इति ध्वनिः ॥६०॥

जन्मैव हन्त किम् अभून् मम गोकुलेऽस्मिंस्
तन्-माधुरीं न यद् उरी-कुरुते कदापि ।
तत् श्यामलेऽतिचपले हृदि लेश-मात्री
नो सम्भवेद् इह भवे धृतिर् इत्य् अवेहि ॥६१॥

राधिका सदैन्यम् आह—अस्मिन् गोकुले मज्-जन्मैव किं कथम् अभूत् ? यतस् तस्य कृष्णस्य माधुरी कर्त्री यज् जन्म कदापि न उरीकुरुते, तत् तस्मात् हे श्यामले! इह भवे जन्मनि अतिचपले मम हृदि लेश-मात्री धृतिर् अपि न सम्भवेद् इति त्वम् अवेहि जानीहि ॥६१॥

श्यामाह यामि! ललिते! शृणु यामि गेहं
सम्प्रत्य् अमूं प्रति ममास्तु गिरां विरामः ।
त्वं पद्मिनीं व्रज-पुरन्दर-सद्मनीमां
कृष्णेक्षणालिनि समर्पय बद्ध-तृष्णे ॥६२॥

राधाया अनुरागस्य परम-काष्ठां दृष्ट्वा श्यामला आह—हे यामि ! भगिनि ! ललिते ! त्वं शृणु, अहं सम्प्रति गृहं यामि । यामी स्वसृ-कुलस्त्रियोः इत्य् अमरः । अमूं राधां प्रति मम गिरां विरामोऽस्तु । किन्तु त्वम् इमां पद्मिनीं राधां व्रज-पुरन्दर-सद्मनि श्री-कृष्णस्य ईक्षण-रूपे अलिनि भ्रमरे समर्प्य । कथम्-भूते ? बद्धा तृष्णा येन तथा-भूते तेन एतस्या दर्शनार्थं कृष्णस्यापि तृष्णा वृद्धा इति ध्वनिः ॥६२॥

प्रिय-विरह-विहस्तां स्रस्त-धीः सा तदानीं
क्षणम् अपि युग-कल्पं कल्पयन्ती बभूव ।
यद् अखिलम् अपि कृत्यं कारिता किङ्करीभिः
समय-विहितम् एकोऽभ्यास एवात्र हेतुः ॥६३॥
सा
राधिका तदानीं क्षणम् अपि युग-तुल्यं कल्पयन्ती प्रिय-विरहेन विहस्ता व्याकुला, अत एव स्रस्त-धीर् यस्याः, एवं-भूता बभूव । तर्हि किं दन्त-धावन-स्नानादि न चकार ? इति चेत्, तत्राह—तथापि किङ्करीभिः समयोचितम् अखिलम् एव कृत्यं कारिता, तत्र अभ्यास एव एको हेतुर् न तु देहानुसन्धानादिकम् ॥६३॥

अथ निखिल-सखीनां स्वालिभिः स्नापितानां
धृत-समुचित-वस्त्रालङ्कृतीनां ततिः सा ।
मथित-शरद्-उदञ्चच्-चन्द्रिका-सिन्धु-जातां
श्रियम् अपि निज-पादाम्भोज-भासा विजिग्ये ॥६४॥

इदीनां सखीनां परिचर्यां वर्णयितुं प्रथमतस् ताः सखीर् एव वर्णयति— स्नापितानां ललितादि-निखिल-सखीनां ततिः सन्धिभूय शरत्-कालीन-निर्मल-चन्द्रिकाया सिन्धुः अर्थाद् अमृत-समय-समुद्रस्यासम्भवात् तद्-उत्पन्नाया लक्ष्म्या अप्य् असम्भवात् असम्भवेति तां जिग्ये ॥६४॥

इति श्री-कृष्ण-भावनामृते महा-काव्ये

रसोद्गार-कथास्वादनो नाम

तृतीयः सर्गः

॥३॥

(४)