०२

द्वितीयः सर्गः

प्राभातिका-चरितास्वादनो नाम

जालाद् अथो दृक्-शफरी तद्-आलयो
लावण्य-वण्या भृशम् अन्वशीलयन् ।
क्रीणन्ति याः प्राण-परार्ध-कोटिभिस्
तयोः प्रमोदोत्थ-रुचि-च्छटा-कणम् ॥१॥

अथ ललिताद्या आलयः दृष्टि-रूपाः सफरीर् मत्स्य-विशेषान् जालात् सकाशात्, पक्षे जालं गवाक्षं, प्राप्य लावण्य-रूपा या वन्या जल-समूहास् तान् अन्वशीलयन् । सखीनां लक्षणम् आह—या आलयः ॥१॥

ऊचे विशाखा कलयालि कान्तौ
निरंशुकाव् अंशुक-पुञ्ज-मञ्जू ।
विहारिणाव् अप्य् अतिहारिणौ स्वैर्
अङ्गैर् अनङ्गैर् अलसौ लसन्तौ ॥२॥

हे आलि ! कान्तौ कलय पश्य । कीदृशौ ? निरंशुकौ वस्त्र-रहिताव् अपि अंशुकस्य कोमल-किरणस्य पुञ्जेन मञ्जू मनोज्ञौ । अत्र सर्वत्र विरोधालङ्कारो द्रष्टव्यः । विगतश् चासौ हारश् चेति विहारो हाराभावः, तद्-विशिष्टौ । हार-रहिताव् इत्य् अर्थः । अति मनो-हारिणौ अङ्गैर् नखादिभिर् अनङ्गा अनङ्ग-कार्याणि क्षतादि-लक्ष्याणि तैर् लसन्तौ । यद् वा, अनङ्ग-सूचकैर् अङ्गैः, अथवा स्वाङ्गैर् लसन्तौ, यतः अनङ्गैर् अलसौ ॥२॥

अनङ्गदौ केलि-वशाद् अनङ्गदौ
निरञ्जनौ हन्त मिथो-निरञ्जनौ ।
विस्रस्त-रागाधरताभिलक्षितौ
विप्रस्तरागाध-रताभिलक्षितौ ॥३॥
अनङ्गं
परस्परं कन्दर्पं दत्तस् तौ केलि-वशाद् अङ्गद-रहितौ, अङ्गदं बाजुबन्द इति प्रसिद्धम् । निरञ्जनाव् इति राधिका-पक्षे केलि-वशात् अञ्जन-रहिता, पक्षे कृष्णो निरञ्जन इति गर्ग-कृत-नाम-प्रसिद्धेः । मिथः परस्परं नितरां रञ्जयत इति तौ । विस्रस्तौ विगतो रागो द्वयोः एवं-भूतौ अधरौ ययोर् यस् तयोर् भावस् तत्ता तया विशिष्टौ । विकलं प्रस्तरं शय्यापि यस्मात् तथा-भूतेन अगाधेन रतेन अभिरक्षितौ, तद्-वशतया स्थापिताव् इत्य् अर्थः ॥३॥

अथाबभाषे ललिताऽवधार्यतां
जयः स्मराजौ कतराश्रितो द्वयोः ।
बभूव दष्टाधरयोः कच-ग्रह-
व्याक्षिप्त-मूर्ध्नोर् नखर-क्षतोरसोः ॥४॥

हे सख्यः ! अवधार्यतां स्मराजौ कन्दर्प-युद्धे द्वयोर् मध्ये जयः कतराश्रितो बभूव ? कस्य जयो बभूव ? इत्य् अर्थः । जयस्यानिश्चायकं युद्ध-साम्यम् आह—दष्टेत्य्-आदि । सम्भोग-समये चूडा-वेण्योर् ग्रहणेन व्याक्षिप्त-मूर्धाः नखैः क्षते वक्षसो ययोः ॥४॥

हृदोऽनुरागं कुच-कुङ्कुम-च्छलात्
न्यधत्त राधाच्युत-पाद-पद्मयोः ।
याव-द्रवारक्ततरालको दधौ
मूर्ध्नैव सोऽस्याः पदयोस् तम् उज्ज्वलम् ॥५॥

अधुना चरण-तल-लग्नं राधिका-कुच-सम्बन्धि-कुङ्कुमं श्री-कृष्ण-विषयकानुरागत्वेन वर्णयति—राधा स्व-हृदय-स्थं चरण-विषयकानुरागं कुच-कुङ्कुम-च्छलात् कृष्णस्य पाद-पद्मयोर् न्यधत्त, राधिकायाश् चरण-सम्बन्धि-द्रवेण आरक्तोऽलको यस्य एवं-भूतः कृष्णोऽपि अस्या राधायाः पदयोर् उज्ज्वलम् अनुरागं मूर्ध्नैव दधौ ॥५॥

इत्थं क्षणं तावद् अलक्षितङ्ग्यो
नीचैः स्वरं ताव् अनुवर्णयन्त्यः ।
भाग्यं स्वम् एवातिसभाजयन्त्यो
ममज्जुर् आनन्द-महोदधौ ताः ॥६॥

आभ्याम् **अलक्षितङ्ग्यः **सत्यः इत्थम् अनेन प्रकारेण नीचैः स्वरं यथा स्यात् तथा तौ क्षणम् अनुवर्णयन्त्यः सत्यः आनन्द-महोदधौ ममज्जुः ॥६॥

अथानुरक्ताल्य्-अनुमोदनाञ्चिता
मुदा तयोर् ऐधत रूप-मञ्जरी ।
सैव स्वयं केलि-विलासिनोर् द्वयोस्
तदात्व-रम्यापचितौ पटीयसी ॥७॥
अनुरक्तानां
ललिताद्य्-आलीनाम् अनुमोदनेन आस्वादनेन अञ्चिता तयोः राधा-कृष्णयोः सौन्दर्य-स्वरूपा मञ्जरी** ऐधत**, सा रूप-मञ्जरी स्वयम् एव केलि-विलासिनोस् तत्-कालीन-रमणीय-वेशाद्य्-अपचितौ वेशादि-परिचर्यायां पटीयसी । तथा च भूषणादिकं विनैव तत्-कालीनोत्पन्नात् सौन्दर्याद् एव शोभातिशयो जात इति भावः ।

पक्षे, आलीनां भानुमत्य्-आदीनाम् अनुमोदनेन सम्मत्या रूप-मञ्जरी-नाम्नी किङ्करी ऐधत प्रफुल्लीबभूव । तयोः केलि-विलासिनोर् इति सम्बन्धः । तत्-कालस् तु तदात्वं स्याद् इत्य् अमरः ॥७॥

ताम्बूल-यावाञ्जन-कुङ्कुम-द्रवैः
श्रमाम्बु-जालैस् त्रुटितैश् च भूषणैः ।
इतस् ततो व्यस्ततया तदाद्युतत्
तत्-केलि-तल्पं च युव-द्वयं च तत् ॥८॥
तद् युव-द्वयम्
एवं तयोः केलि-तल्पं च इतस् ततो व्यस्ततया तया अद्युतत् दीप्तिं चकार । कैः करणैः ? तत्राह—ताम्बूलादीनां द्रवैः ॥८॥

पृष्ठोपधानं निदधे कयाचन
प्यधाद् अथान्या मृदुलांशुकेन तौ ।
पीयूष-बट्यार्पितयास्ययोः परा
निरस्य घूर्णां विकसद्-दृशौ व्यधात् ॥९॥

किङ्करीणां परिचर्याम् आह—कयाचन ताकिया इति प्रसिद्धं पृष्ठोपधानं निदधेअन्या कोमलांशुकेन तौ प्यधाद् आच्छादयामास । अन्या आस्ययोः राधा-कृष्णयोर् मुखयोः अर्पितया पीयूष-बट्या करण-भूतया घूर्णां निरस्य विकाश-युक्त-दृशौ अकरोत् । निद्रावेशे सति पदार्थान्तर-भोजनस्य कष्ट-दायकत्वे पीयूष-बट्या अतिकोमलत्वान् नात्र भोजनानुकूल-प्रयासोऽपेक्षितः ॥९॥

आस्येन्दु-युग्मं विकचाक्षि-पङ्कजैर्
लोलालक-व्रात-मधुव्रताञ्चितैः ।
मिथो यदापूजयतां तदा स्मरः
सज्यं प्रबुध्यैव दधे धनुर् द्रुतम् ॥१०॥

तयोर् अस्य-चन्द्र-द्वयं प्रफुल्ल-नेत्र-रूप-पङ्कजैः करणैः परस्परं यदा अपूजयतां तद् एव कमलेन चन्द्रार्चन-रूपान्यायं दृष्ट्वा स्मर-चक्रवर्ती प्रबुद्ध्य जागरित्वा सज्यं ज्या-सहितं धनुर् दधे अलस-मदितौ प्रेमार्द्राद्रेर् इतिवत् व्यापार-बाहुल्यात् पङ्कजैर् इत्य् अत्र बहु-वचनम् ॥१०॥

संयोज्य ताव् एव विधू विधूय किं
शितेषुणैकेन विधाय कीलितौ ।
स्यन्दामृतान्योन्य-भृतौ तिरश्चीनैर्
ध्वान्तोग्र-पाशैर् असिनोद् अपि क्षणम् ॥११॥

तद्-अनन्तरं स स्मरः तौ मुख-रूप-विधू विधूय कम्पयित्वा परस्परं संयोज्य एकेन तीक्ष्णेषुणा कीलितौ विधाय तिरश्चीनैर् अन्धकार-रूप-पाशैः करणैः क्षणम् असिनोत् बबन्ध, तेन अन्धकार-स्थानीयेन केश-समूहेन मुख-चन्द्रौ आच्छादितौ बभूवतुर् इत्य् अर्थः । मुख-चन्द्रौ कीदृशौ? गलितामृतेन अन्योन्यं पुष्टौ, स्यन्दु प्रस्रवणे धातुः । अतिशयोक्त्या अधर-पानं द्योतितम् ॥११॥

बहिः सखी-कङ्कण-किङ्किणी-स्वनैस्
तदैव दैवाद् उपलब्ध-जागरा ।
कान्ता-मणि-स्वान्त-निशान्तम् एत्य तौ
ह्रीर् एव देवी कथम् अप्य् अमूमुचत् ॥१२॥
कङ्कणादीनां स्वनैस् तदैव दैवाद् उपलब्ध-जागरा
लज्जा-देवी कान्ता-मणी राधिका तस्याः स्वान्त-निशान्तं मनो-रूप-मन्दिरम् एत्य कथम् अपि कष्टेन तौ अमूमुचत् । तथा कङ्कणादि-शब्देन सखीनाम् आगमन-ज्ञानाज् जाता, तयैव तयोः कन्दर्पावेशस् त्याजित इति भावः ॥१२॥

**स्रस्तालकान् वेष्टित-हार-नासा-
लङ्कार-ताटङ्क-युगान् अथैताम् ।
स्व-पाणिनोत्सारयितुं विहस्तां
वीक्ष्याह काचित् स्मयमान-वक्त्रा ॥१३॥
वेष्टिता हारादयो **यैर् एवम्-भूतान् स्रस्तालकान् स्व-पाणिना उत्सारायितुम् ऊर्ध्वं चालयितुं विहस्तां व्याकुलान्तां राधां वीक्ष्य स्मयमान-वक्त्रा काचित् किङ्करी आह ॥१३॥

मिथो निबध्यातनु-सम्प्रहारिणौ
युवां प्रियाव् अप्य् अवलोक्य रागिनौ ।
अमी व्यरुध्यन्त परस्परं बलाद्
एकात्म-भाव अपि कुन्तलादयः ॥१४॥

प्रियाव् अपि अनुरागिणाव् अपि युवां परस्परं हस्त-रूप-पाशेन निबध्य अतनुर् महान्, पक्षे अतनुना कन्दर्पेण, सम्प्रहारिणौ अवलोक्य एकस्मिन्न् एव आत्मनि देहे भावः सत्ता येषाम्, एवम्-भूता । अत एव परस्पर-प्रीत्य्-आपन्ना अपि अमी कुन्तलादयः परस्परं व्यरुध्यन्त विरोधम् अकुर्वन् ॥१४॥

जानामि युष्मान् अपि साधु तूष्णीं
तत् तिष्ठतेति प्रतिवादिनीं ताम् ।
उपेत्य तद्-ग्रन्थि-विमोचनादौ
पटीयसी सा सुमुखीं सिषेव ॥१५॥

भोः किङ्कर्यः ! युष्मान् साधु यथा स्यात् तथा अहं जानामि, तत् तस्मात् तूष्णीं तिष्ठत इति प्रवादिनीं सुमुखीं तां राधां सा किङ्करी उपेत्य निकटे गत्वा सिषेवे ॥१५॥

काचित् प्रसूनाम्बु-दरार्द्र-वाससा
व्यत्यस्त-रागाञ्जन-यावकादिकम् ।
मृष्ट्वा प्रति स्वेक्षण-सिद्धये तयोर्
मुख-द्वयं दर्पणतां निनाय किम् ॥१६॥

तासां सेवाम् आह—गुलाब-जल इति प्रसिद्धेन प्रसूनाम्बुना ईषद् आर्द्रं यद् वस्त्रं तेन व्यत्यस्तं स्व-स्व-स्थान-त्यागेन विपर्यस्ती-भूतं ताम्बूल-रागाञ्जन-यावकादिकं मृष्ट्वा परस्परेक्षण-सिद्धये तयोर् मुख-द्वयं किं दर्पणतां निनाय प्रापयामास । तथा च, परस्पर-मुख-दर्शनार्थं किं दर्पणं मार्जितं चकारेत्य् अर्थः ॥१६॥

ताम्बूल-वीटिर् निदधे परास्मिन्न्
एका पटिम्ना मणि-दीप-पाल्या ।
तन्-मङ्गलारात्रिकम् आशु चक्रे
नीराजयन्त्य् एव निजासु-लक्षैः ॥१७॥
अस्मिन्
मुख-द्वये पटिम्ना हेतुना मणि-दीप-श्रेण्या तयोर् मङ्गलारात्रिकं चक्रे । कथम्-भूता ? स्वकीय-प्राण-लक्षैर् निराजयन्ती निर्मञ्छयन्ती ॥१७॥

आदर्शम् आदर्शयति स्म काचित्
पराङ्ग-नेपथ्यम् उपाजहार ।
जहार काचित् श्रम-बिन्दु-जालं
शनैः शनैस् ताव् उपवीजयन्ती ॥१८॥
अङ्ग
-सम्बन्धि-नेपथ्यं भूषणादिकम् उपाजहार, श्री-कृष्णस्य निकटे आजहार आनीतवती, श्री-कृष्ण-द्वारा यूथेश्वर्या वेशार्थम् इति भावः । काचित् तौ उपवीजयन्ती सती श्रम-बिन्दु-समूहं जहार दुरीचकार ॥१८॥

आस्याम्बुजं मे निखिलं मरन्दं
पीत्वापि दष्टं मधुसूदनेन ।
इत्थं चिरं स-स्मितम् ऐक्षतैतन्
न दर्पणं सम्मुखतो निरास ॥१९॥
मे
मन्-मुख-कमल-सम्बन्धि-निखिलं मकरन्दं पीत्वापि मधुसूदनेन आस्य-कमलं दष्टं, न हि भ्रमरः मकरन्दे पीते सति कमलं दंशति, इत्थं मनसि विभाव्य राधिका स-स्मितं यथा स्यात् तथा एतत् श्री-कृष्ण-कर्तृक-स्वाधर-दंशनम् ऐक्षत। अतः दर्शनानन्देन सम्मुखतो दर्पणं न निरास न दूरीचकार ॥१९॥

रूपामृतं मे त्रिजगद्-विलक्षणं
निःसीम-माधुर्यम् इदं च यौवनम् ।
अद्यैव साफल्यम् अवाप सर्वथा
प्रेयान् उपाभुङ्क्ततमां मुदा यतः ॥२०॥
मम रूपामृतादिकम्
अद्यैव सर्वथा साफल्यं प्राप, यतः प्रेयान् कृष्णः मुदा अतिशयेन उपाभुङ्क्त ॥२०॥

सैवं विचिन्त्य क्षणम् आह कान्तं
तद्-अक्षि-पीताखिल-माधुरीका ।
स्वान्तर्-मुदात्यर्थ-लसद्-दृगन्त-
लक्ष्मी-विहारायतनास्य-पद्मम् ॥२१॥
तस्य
कृष्णस्य अक्षिभ्यां पीता अखिला माधुरी यस्य एवं-भूता सा राधा **क्षणम् एवं विचिन्त्य कान्तम् आह—**कथम्-भूतं ? स्वस्य राधिकायां अन्तर् मुदा करणेन अत्यर्थं लसन्ती या दृगन्त-लक्ष्मीः, तस्या विहारायतनं मुख-पद्मं यस्य तत् । तत्र श्लोक-त्रये एक एव कर्तृ-पद-प्रयोग अतो विशेषकम् ॥२१॥

भो भो विलासिन् अवधेहि यत् त्वया
विस्रस्त-वेशाभरणास्म्य् अहं कृता ।
यावद् मद्-आल्योऽनुसरन्ति नोषसि
द्रुतं समधित्ससि तन् न किं पुनः ॥२२॥
भो भो विलासिन्!
श्री-कृष्ण! त्वम् अवधेहि यत् यस्मात् विश्रस्त-वेशाभरणा अहं त्वया कृता अस्मि, तत् तस्मात् यावन् मद्-आल्य उषसि न अनुसरन्ति, तावत् त्वं किं द्रुतं न समाधित्ससि वेशादि-संस्कारेण न समाधानं कर्तुम् इच्छसि ॥२२॥

स्व-चातुरीं साधय मां प्रसाधय
प्रसादयानङ्गम् अभीष्ट-दैवतम् ।
योऽस्मन्-मनो-मन्दिर-वर्त्य् अयं त्वया
बहिष्कृतो लक्ष्मभिर् एभिर् एव यत् ॥२३॥
मां प्रसाधय
अलङ्कारादिना भूषितां कुरु, तत एव स्व-चातुरीं साधय, एवं तव अभीष्ट-दैवतं कन्दर्पं प्रसादय, अपराध-क्षमा-द्वारा प्रसन्नं कुरु । अपराधम् एवाह—योऽयं कन्दर्पः आवयोर् मनो-रूप-मन्दिर-वर्ती स्यात्, स त्वया **एभिर् लक्ष्मभिर् **नख-चिह्नैः करणैर् बहिष्कृतः । इष्टदेवो हि सेवा-समये बहिर् निष्काश्य, पश्चात् गृह-मध्ये स्थाप्यते, तस्मात् सेवा-समाप्ति-समये बहिश्-चिह्नादिकं दूरीकृत्य मनो-रूप-मन्दिर एव तस्य स्थितिर् उचितेति ध्वनिः ॥२३॥

सत्यं ब्रवीष्य् अङ्गजम् इष्ट-देवं
त्वद्-अङ्ग-पीठे प्रकटी-भवन्तम् ।
यजामि भूषाम्बर-गन्ध-पुष्पं
स्रक्-चन्दनाद्यैर् इति तां स ऊचे ॥२४॥

श्री-कृष्ण आह—सत्यम् इति । प्रकाटीभवन्तम् इत्य् अधुना पुनर् अपि तवाङ्गे कामोद्भवो जातः, अत एव चन्दनाद्यैर् इत्य्-आदि-पदेन शृङ्गारानन्तरं भावि-सम्भोगोऽपि बोध्यः ॥२४॥

अथामुना कङ्कतिकां शनैः शनैर्
विकर्षता भानुमती करार्पिताम् ।
कचावली संस्क्रियते स्म मालती-
मालोत-वेणी-रचना-पटीयसा ॥२५॥
अथ
परस्पर-कथोपकथनानन्तरं शनैः शनैः कङ्कतिकां विकर्षता अमुना श्री-कृष्णेन कचावली संस्क्रियते-स्म । सा कचावली कीदृशी ? भानुमती कान्तिमती । कङ्कतिकां करार्पितां, पक्षे भानुमत्या तन्-नाम्न्या सख्या कर्त्र्या करे श्री-कृष्ण-पाणौ अर्पिताम् । तत्र ग्रन्थे सर्वत्र किङ्करीणां श्लेषेणैवोल्लेख इति बोध्यम् । अमुना कीदृशेन ? मालती-मालया उता ग्रथिता या वेणी, तस्या रचनायाम् अतिपटीयसा अतिनिपुणेन ॥२५॥

कस्तूरिका-चन्दन-कुङ्कुम-द्रवैः
सम्भावितैस् ताम् अनु राग-लेखया ।
चकार भालाञ्चित-चारु-चित्रकां
स चित्र-चञ्चुर् धृत-नव्य-वर्तिकः ॥२६॥
धृता
चित्र-सम्पादिका लूली इति प्रसिद्धा वर्तिका येन, एवम्-भूतः श्री-कृष्णः भाले ललाटे अङ्कितं चारु-चित्रकं यस्या एवम्-भूतां राधिकां चकार । कैः ? अनुराग-श्रेण्या सम्यग् भावितैर् वासितैः कस्तूरिकादि-द्रवैः । तिलक-निर्माणे क्रमो यथा—प्रथमतः कस्तूरिकायाः श्यामः मण्डलं, तस्य चतुर्दिक्षु केशरेणाष्ट-दल-कमल-रचना, मध्ये मध्ये चन्दन-बिन्दुः । पक्षे, राग-लेखया गणोद्देश-दीपिकाइत-तन् नाम्न्या सम्भावितैः संस्कृतैः ॥२६॥

ताटङ्क-युग्मेन लवङ्ग-मञ्जरी
सम्पादितापूर्व-रुचा स चारुणी ।
आनर्च तस्याः श्रवणे नवाञ्जने-
नानञ्ज कञ्ज-प्रतिमे तद्-अक्षिणी ॥२७॥
श्री-कृष्णः लवङ्ग-पुष्पस्य मञ्जर्या सम्पादिता अपूर्वा कान्तिर् यस्य एवम्-भूत-कुण्डल-युग्मेन तस्या राधिकायाश् चारुणी श्रवणे कर्णे आनर्च । पक्षे, लवङ्ग-मञ्जरी-नाम्न्या किङ्कर्या एवं अञ्जनेन करणेन कञ्ज-प्रतिमे पद्म-सदृशे तस्या अक्षिणी आनञ्ज, अञ्जनेन युक्ते अक्षिणी चकारेत्य् अर्थः ॥२७॥

दधार हारं रुचि-मञ्जरीलितं
यदा तदोचे प्रियया मदोद्धुरम् ।
या खण्डिता चन्दन-कञ्चुली त्वया
वक्षोजयोस् तां न कुतश् चिकीर्षसि ॥२८॥
यदा
कृष्णस् तस्या वक्षसि दधार, तदा प्रियया मदोद्धुरं यथा स्यात् तथा ऊचेहारं कीदृशं ? कान्ति-मञ्जर्या ईलितं स्तुतं, पक्षे एवं-नाम्न्या कयाचित् ईडितं प्रेरितं दत्तम् इत्य् अर्थः । वाक्यम् एवाह—मम स्तनयोर् या चन्दन-कञ्चुलिका त्वया खण्डिता, त्वं हारादानात् पूर्वं कथं न कर्तुम् इच्छसि ? हारे दत्ते सति तन्-निर्माणासम्भवात् ॥२८॥

आलेख्य-कर्मण्य् अतिगर्व-धारिणीस्
तास् ता विशाखा-प्रभृतिर् भवत्-सखीः ।
विस्मापयाम्य् अद्य कुच-द्वये कृतैश्
चित्रैर् विचित्रैर् इति तां जगाद सः ॥२९॥
श्री-कृष्णस् तां राधिकां जगाद, वाक्यम् एवाह—तव कुच-द्वये मया कृतैर् विचित्रैश् चित्रैः करणैश् चित्र-कर्मणि अतिगर्व-धारिणीर् भवत्-सखीः अद्य विस्मापयामि ॥२९॥

प्रसाधनार्थ-प्रतिपादनोन्मुखं
श्री-रूप-लीला-रति-मञ्जरी-मुखः ।
स्तन-द्वयं तुलिकयाङ्कयन् हरिः
पञ्चेषु-पञ्चेषु-शरव्यताम् अगात् ॥३०॥
तुलिकया
स्तन-द्वयम् अङ्कयन् हरिः पञ्चेषोः कन्दर्पस्य ये पञ्च-शराः पञ्च-बाणाः, तेषां शरव्यतां लक्षताम् अगात् । लक्षं शरव्यं च इत्य् अमरः । कृष्णः कीदृशः? प्रसाधनस्य अर्थः प्रयोजनं सम्भोगस् तस्य प्रतिपादने ज्ञापने उन्मुख्यो या श्री-रूप-लीला-रतीनां मञ्जर्य्-आद्या यस्य सः । पक्षे, प्रसाधनस्य अर्था वस्त्र-चन्दनादीनि तत्-सम्पादनोन्मुखाः श्री-रूप-मञ्जर्य्-आद्या यस्य सः ॥३०॥

पाणिश् चकम्पे यदि वक्र-रेखां
चित्रं विलुम्पन्न् उरसा मुहुः सः ।
मन्ये स्मराग्निं धमति स्म तस्याः
धृतीन्दनं दग्धु-मना विदग्धः ॥३१॥

कन्दर्पावेशाद् यदि पाणिश् चकम्पे, तदा स श्री-कृष्णः स्व-वक्षसा स्तन-वर्ति-वक्र-लेखं चित्रं मुहुर् विलुम्पन् राधिकायाः कन्दर्पाग्निं धमति स्म, वर्धयति स्म इत्य् अर्थः । इत्य् अहं मन्ये । कृष्णः कीदृशः? तस्या धृति-रूपं काष्ठं दग्धुं मनो यस्य सः ॥३१॥

कामस् तम् आकल्पम् अनल्प-वैभवैः
सद्यो विधायानियत-स्थल-स्थितम् ।
विमृज्य संसृज विखण्ड्य खण्डशस्
तेनैव सोल्लासम् उभाव् अभूषयत् ॥३२॥

इदानीं विगत-धैर्ययोर् भङ्ग्या सम्भोगम् आह—कन्दर्पः स्वस्य **अनल्प-वैभवैः **करणैः कृष्णेन कृतं तम् आकल्पं सम्भोग-समये परस्पर-सम्मर्दात् सद्योऽनियत-स्थल-स्थितं विधाय, तेषां मध्ये किञ्चित् चित्रम् एकत्र विमृज्य, तद् एवान्यत्र संसृज्य, किं तत् हार-तारकादि-भूषणं खण्डशो विखण्ड्य, तेनैव एकस्या एव राधायाश् छिन्न-भिन्नाकल्पेन तौ राधा-कृष्णौ अभूषयत् ॥३२॥

सख्यश् च दास्यश् च दृशं[^५]** कृतार्थतां
मूर्तां चिरायाभिलषन्त्य एव ताम् ।
प्रभातम् आयातम् अवेत्य चक्षु-भूर्
विधिं च शपन्त्यो निरुपाय-कातराः ॥३३॥**[^६]

सख्यश् च एवं सम्भोग-समये ततो निःसृत्य बहिः-स्थिताः, दास्यश् च तां दृशं कृतार्थतां मूर्तां मूर्तिमतीं चिर-कालं व्याप्य तिष्ठतु इति अभिलषन्त्यः सत्य एव आगतं प्रभातम् अवेत्य चक्षु-भुर् विधिं प्रभात-निर्मातारम् ॥३३॥

गवाक्ष-लग्ना मुमुदे क्षणं क्षणं
तदैव मम्लौ बलभिद्-दिशं गता ।
दृष्टिः सखीनां तरलत्वम् आश्रिता
स हृद्य् अभात् साधक-भक्त-संहतेः ॥३४॥
तरलत्वं
चञ्चलत्वम् आश्रिता सखीनां दृष्टिर् यदा गवाक्ष-लग्ना सती क्षणं मुमुदे, तदैव बलभिद्-दिशं पूर्व-दिशं गता सती क्षणं मम्लौ । पक्षे, तरलत्वं हार-मध्य-गतत्वम् आश्रिता सती साधक-भक्त-संहतेः हृदि अभात् । तथा च साधक-भक्तैः सदा सा हृदि भाव्येति भावः ॥३४॥

तत्-केलि-सीमनिम् असीम-सौहृदं
ताः संविदाना निलयं यदाविशन् ।
तदैव भीरुः सहसा प्रियोरसो
विश्लिष्य तल्पाद् अवरोहणं व्यधात् ॥३५॥
तत्-केलि-सीमानं
अवसानं संविदानास् ताः सख्यः तयोर् निलयं यदा अविशन्, तदैव भीरू राधिका सहसा अतर्कितम् एव प्रियस्य वक्षः-स्थलद् विश्लिष्य तल्पाद् अवरोहणं व्याधात् । सीमा-रहितं सौहृदं प्रेम यत इति तत्-काले सीमानम् इत्य् अस्य विशेषणम् । केलि-समाप्तिम् अवलोक्य दुःखातिशयेन प्रेमावर्धत इति भावः । सीम-सीमे स्त्रियाम् उभे इत्य् अमरः ॥३५॥

स्व-पक्ष-पाती-कृत-किङ्करी-गणा
भ्रू-कुञ्चनेनोपविवेश सासने ।
संलाप-पीयूष-पिपासया हरिस्
तासां मृषा स्वापम् उवाह तत्-क्षणात् ॥३६॥
भ्रू-कुञ्चनेन स्व-पक्षपाती-कृता किङ्करी-गणा
यया एवं-भूता राधा तल्पाद् विश्लिष्य आसने उपविवेश । पूर्वं समस्त-विलासं दृष्टवतः किङ्करी-गणस्य साहायं विना, सखी-प्रतिव्यक्तव्यस्य विकाशासम्भवात् तासां सखीनां श्री-राधया सह संलोपं **तत्-क्षणम् **आरभ्य मिथ्या-स्वापं निद्राम् उवाह प्राप ॥३६॥

सा प्राह भो धन्यतमाः स्थ सख्यो
दिष्ट्याद्य सख्यं निरवाहि बाढम् ।
दिष्ट्या पुनर् दर्शन-दान-पात्री-
कृत्यैव मां क्रेतुम् इवोदयध्वे ॥३७॥

सा राधिका ॥३७॥

निःसार्य गेहाद् भवतीभिर् उद्धता
नक्तं समानीय वनं कुलाङ्गनाम् ।
सती-व्रत-ध्वंसिनि पुंसि हन्त
बलात् समर्प्यान्तर्-अधायि तत्-क्षणात् ॥३८॥

हे उद्धताः ! नक्तं रात्रौ कुलाङ्गनां मां ॥३८॥

ररक्ष मां पुण्य-ततिः पुरातनी
न ताम् ऋतेऽन्या गतिर् अस्ति कापि मे ।
यद् अस्य पार्श्वेऽपि सतीत्व-विप्लुतिं
नैवान्बभूवं रजनीं नयन्त्य् अपि ॥३९॥
पुरातनी पुण्य-ततिर् मां ररक्ष
, तां पुण्य-ततिं विना यद् यस्मात् अस्य कृष्णस्य पार्श्वेऽपि रजनीं नयन्त्य् अहं सतीत्वस्य विप्लुतिं ध्वंसं नैवान्बभूवं न अनुभवं कृतवती ॥२९॥

गोपी-सहस्रेषु रताविरामतो
बह्विर् निशा यापयतोऽस्य जागरैः ।
अक्ष्णोर् वसत्याद्यतनीं विभावरीं
यत् सुप्ति-देव्योपकृतं ममातुलम् ॥४०॥
गोपी-सहस्रेषु
अविरत-रमणाद् धेतोः पूर्व-पूर्व-दिवसीया बह्वीर् निशा जागरैः करणैः यापयतोऽस्य कृष्णस्य अक्ष्नोर् नेत्रयोर् अद्यतनीं रात्रिं व्याप्य वसन्त्या सुप्ति-देव्या मम अतुलम् उपकृतम्, तथा च पूर्व-पूर्व-रात्रौ जागरणाद् धेतोर् अस्य नेत्र-द्वये आगतायाः सुप्ति-देव्या उपकारेणैव मम सतीत्वम् अक्षुण्णम् इति भावः ॥४०॥

यत् ते सतीत्वं प्रथितं न वेद का
यद् ब्रह्मचर्यं श्रुतयोऽस्य सञ्जगुः ।
तद् अत्र निर्दूषणा एव साधु वां
सङ्गोऽतिरङ्गाय सखी-दृशाम् अभूत् ॥४१॥

सखीनां प्रत्युत्तरम् आह—यत् यस्मात् तव प्रथितं सतीत्वं का न वेद ? कृष्णो ब्रह्मचारीति गोपाल-तापन्य्-उक्त-श्रुतयोऽस्य कृष्णस्य ब्रह्मचर्यं जगुःतत् तस्मात् वां युवयोर् निर्दूषणा एव सङ्गस्य सखीणां दृशां रङ्गाय अभूत् ॥४१॥

स्व-ब्रह्मचर्य-व्रत-रक्षणार्थं
सुप्तिं न देवीम् अपि संस्पृशेद् अयम् ।
अनङ्ग-सङ्ग्य् एव ततो भवत्या
भवत्य् असौ सत्यम् इति प्रतीमः ॥४२॥
अयं
श्री-कृष्णः स्वस्य ब्रह्मचर्य-व्रत-रक्षार्थं स्त्री-लिङ्ग-शब्द-बोध्यां सुप्तिं देवीम् अपि न संस्पृशेत् । अतो हेतोः असौ कृष्णः भवत्या अङ्ग-सङ्गी न भवतीति सत्यं वयं प्रतीमः । पक्षे, अस्य सुप्ति-स्पर्शाभावात् सम्पूर्णां रात्रिं व्याप्य भवत्या सह अनङ्ग-सङ्गी असौ भवतीति सत्यं प्रतीमः ॥४२॥

इति ब्रुवाणा ललिता विशाखया
प्रोचे सखि ज्ञातम् इदं मयाखिलाम् ।
धर्मोऽनयोः शर्म-विशेष-सिद्धये
तनोः प्रयागे लयम् आप स स्वयम् ॥४३॥

इति ब्रुवाणां ललितां प्रति विशाखा उवाचअनयोः साध्वी-ब्रह्मचर्य-लक्षण-धर्म-कार्यत्वाद् धर्मः स्वस्य उत्कर्ष-विशेष-सिद्धये प्रयागे तनोर् देहस्य लयम् आप । स्वयं देह-त्याग-कृतवान् इत्य् अर्थः । पक्षे, अतनोः कन्दर्पस्य प्रकृष्टे यागे स्वयम् एव लयम् आप ॥४३॥

शर्मैव किं तत् कथयेऽति चित्रया
पृष्टाह सा योऽधित धर्म एतयोः ।
सतीत्व-वर्णित्वम् इहायम् एधितो
व्यधाद् इमौ सम्प्रति सम्प्रयोगिनौ ॥४४॥

पूर्वोक्त-शर्मैव किं तत् कथय इति चित्रया पृष्टा सा विशाखा एतयोर् धर्मः सतीत्व-ब्रह्मचर्यम् अधित पुपोष, अयम् एव इह प्रयाग-लये सति एधितः वृद्धः सन् इमौ सम्यक् प्रकृष्ट-योगवन्तौ अकरोत् । धर्मो हि परिपाक-दशायां शुद्ध-चित्तानां योगं साधयतीति शास्त्रम् । पाक्षे, सम्प्रयोग-रतं सतीत्व-ब्रह्मचर्ययोस् तद् एव फलं परिणतम् इति ध्वनिः ॥४४॥

यद् भाति वैराग्य-धुरा-धरोद्यन्-
नैर्गुण्य-मुक्तामय-हारिणीयम् ।
निरञ्जनोदार-दृग् अद्य सद्यः
सत्यं तद् एषाच्युत-योग-सिद्धा ॥४५॥
यत्
यस्मात् इयं राधा वैराग्य-धुरां धरतीति सा । पक्षे, नीरागत्वातिशयोऽधरे यस्या सा। एवम् उद्यता वैराग्येन हेतुना मुक्ता । अत एव आमयम् अन्येषाम् अविद्या-रोगं दर्शनादिना हर्तुं शीलं यस्याः । पक्षे, उद्यन्-नैर्गुण्यं यस्य तथा-भूतो मुक्ता-मयो हारोऽस्ति यस्या। एवं निरञ्जना उपाधि-रहिता उदारं दृग् ज्ञानं यस्याः सा । पक्षे, अञ्जन-रहिता दृष्टिर् यस्य षा । तत् तस्मात् एषा राधा सत्यम् एव च्युति-रहिता योग-सिद्धिर् यस्याः तथा-भूता । पक्षे, अच्युतेन श्री-कृष्णेन सह योगः सम्भोगस् तेन सिद्धा ॥४५॥

पूर्णात्म-भूतत्व-सुखानुभूत्यै
स्वाधीन-मायाश्रित-योग-निद्राः ।
चकस्त्य् असाव् अप्य् अगुणातिमुक्त-
मालाञ्चित-श्रीर् अति-सिद्धिम् आप्तः ॥४६॥
पूर्णात्म-भूतत्वेन
यः सुखस्यानुभवस् तद्-अर्थं योगाभ्यासेन स्वाधीना वशीकृता या मायाविद्या-शक्तिस् तया आश्रित-योगनिद्रोऽसौ कृष्णोऽपि तल्पे चकास्ति । कीदृशः ? अगुणा गुणातीता या अतिमुक्त-माला अत्यन्त-मुक्त-श्रेणी, तया अञ्चिता पूजिता श्रीर् मोक्ष-सम्पद् यस्य सः । अत एव अतिशय-सिद्धिं प्राप्तः

पक्षे, आत्म-भूः कन्दर्पस् तत्त्व-सुखं यथार्थ-सुखं, तद्-अनुभवार्थं स्वाधीना, अत एव मायया कपटेनाश्रितः स्वेन सह योगो यस्या एवं-भूता निद्रा यस्य सः । किदृशः ? अगुणा सम्भोगातिशयाद् गुण-रहिता या अतिमुक्त-माला तया अञ्चिता श्रीः शोभा यस्य, अत एव मालायाः सूत्र-त्रोटनाद् धेतोर् असौ सिद्धिं प्राप्तः ॥४६॥

अस्यास् तु पश्यालि हृद्-अम्बरान्तरे
स्वानन्द-संवित् प्रवरेन्दुलेखया ।
यद् दीप्यते तेन पुनर्-भव-क्षतं
मनो-भवोत्ताप-शमश् च बुध्यताम् ॥४७॥

श्री-कृष्णापेक्ष्या अस्या योग-सिद्ध्य्-अतिशयम् आह—अस्या राधायास् तु तद्-अपेक्षया वैलक्षण्यं पश्यत, तद् एवाह—अस्या हृदयाकाशे यत् स्वानन्द-संवित्, स्वानन्दानुभवः, तद् एवाज्ञान-रूप-तमो-नाशकत्वात् प्रवरेन्दुलेखा, तया कार्त्र्या यद् दीप्यते, तेन **पुनर्-भव-क्षतं **मोक्षं, एवं मनो-जन्योत्तापशमश् च बुध्यताम्

पक्षे, हृद्-अम्बरान्तरे हृदि-स्थित-वस्त्र-मध्ये या स्वानन्दस्य संवित् उपलब्धिर् यस्याः, एवं-भूता इन्दुलेखा अतिशयोक्त्या नख-चिह्नं, तया कर्त्र्या यद् दीप्यते, तेन पुनर्-भव-क्षतं नख-क्षतम्, एवं कन्दर्प-जन्योत्ताप-शमश् च बुध्यताम् । तथा च नख-क्षतानां वस्त्राच्छन्नत्वेऽपि तेषां वस्त्रस्यावकाश-द्वारा प्रकटितया कान्त्या हेतुना नख-क्षतानाम् अनुमानं जायत इति भावः । पुनर्भव-कररुहो नखोऽस्त्री इत्य् अमरः ॥४७॥

तदा निरोधासह-रोमहर्ष-
स्वेदाम्बु-वर्षस् तिमिताङ्ग-यष्टेः ।
व्यक्तं हरेर् उद्भिद्-उर-स्मितास्य-
पिधान-चातुर्यम् अपास्तम् आसीत् ॥४८॥

तासां परीहास-वाणीं श्रुत्वा निरोधं न सहन्ते ये रोमहर्षादयस् तैस् तिमितम् अङ्गं यस्य एवं-भूतस्य हरेः उद्बोधन-शीलं स्मितं यत्र एवं-भूत्आस्य-पिधाने कृतं यत् चातुर्यं तत् व्यक्तं सत् अपास्तम् आसीत् ॥४८॥

उत्थाय सद्यः स जगाद वक्षः
स्वं दर्शयंस् ता अतिसम्भ्रमेण ।
हंहो ममापि स्व-सुखैक-संविच्
चित्रेन्दुलेखा हृदि पश्यतास्ते ॥४९॥
श्री-कृष्णः पूर्वोक्त-राधा-वक्षः-स्थलेन्दुलेखा-दर्शनाधीनं तस्या योगातिशयम् असहमान इव ताः सक्ःईर् आह—हंहो ! अत्यन्त-संरम्भे, ब्रह्म-सुख-रूपं यद् एकं मुख्यं चैतन्यं तद् एवाश्चर्येन्दुलेखा-अज्ञान-मोहनाशकत्वात् ।

पक्षे, सम्भोग-सुख-संवेदनी विचित्र-नख-रेखा मम हृद्य् अप्य् आस्ते । तथा तद्-दर्शन-द्वारा राधायाः पुरुषायितत्वं सूचितम् ॥४९॥

आवृत्य चैलेन नमन्-मुखं पुनर्
विभुग्न-चिल्ली-तटम् उन्मय्य ।
सा ब्रूते स्म किञ्चित् स्व-कराम्बुजेन तद्-
वक्षः स्पृशन्तीं पिदधे च लक्ष्म तत् ॥५०॥

सा राधिका किञ्चित् ब्रूते स्म, आवृत्येति स्वभावोक्तिः । स्व-कराम्बुजेन श्री-कृष्णस्य वक्षः-स्थलं स्पृशन्ती सा तत् लक्ष्म चिह्नं पिदधे च ॥५०॥

चित्रेन्दुलेखे इह ते यदि स्तः
स्यातां न कस्माल् ललिता-विशाखे ।
पश्य त्वदीयान् परिगृह्य तेऽदुः
स्वीयान् नखाङ्कांस् त्रिगुणीकृतान् यः ॥५१॥

पूर्व-श्लोके श्री-कृष्णेनोक्तस्य चित्रेन्दुलेखा-पदस्यार्थान्तरं प्रकल्प्य स्वस्य लज्जा-संवरण-प्रकारम् आह—हे कृष्ण! ते तव हृदि यदि चित्रेन्दुलेखे मे सख्यौ स्तः, तदा परम-योग्ये ललिता-विशाखे कथं न स्याताम् । ताः चित्राद्याः सख्यस् त्वदीयान् नखाङ्कान् परिगृह्य तद्-अपेक्षया त्रिगुणीकृतान् स्वीयान् नखाङ्कान् ते तुभ्यं अदुः । तथा च सर्वासां प्रत्युपकारस्य साम्यात् तव वैषम्यम् अनुचितम् इति भावः ॥५१॥

तम् आहुर् आल्यः स्वपतोऽखिलं निशां
वक्षः कया ते नखरैर् विचित्रिताम् ।
इयं तु साध्वी-कुल-चक्रवर्तिनी
स्वेनैव पुण्येन विराजतेऽविता ॥५२॥
निशां
व्याप्य स्वपतस् ते तव वक्षः-स्थलं कया नखरैर् विचित्रितं ? राधिकायास् तु चित्र-कर्तृत्व-सम्भवनापि नास्तीत्य् आह—इयं राधिका स्व-पुण्येनैव अविता सती विराजते ॥५२॥

आहैष आं पुण्य-बलैव साध्वी
भवेद् यद् अद्यातनु-सम्प्रहारे ।
जिगाय माम् अप्य् अबलापि बाला-
वलेपवत्य् अक्षुणद् अप्य् उरो मे ॥५३॥

एष कृष्ण आह—आं ज्ञातं, इयं साध्वी स्व-पुण्य-बला एव यद् यस्माद् अद्य अतनु-सम्प्रहारे अतनुर् महान् यः सम्प्रहारस् तस्मिन् । पक्षे, कन्दर्प-युद्धे राधा बालापि अबलापि अतिशय-बलिष्ठं माम् अपि जिगाय, अत एव अवलेपवती अहङ्कारवती मे मम **उर-**स्थलम् अक्षुणत्, अर्थात् नखास्त्रेण ॥५३॥

कीदृक् तद् एवेति तदा तद्-आलिभिः
पृष्टः स तासाम् अधरान् पयोधरान् ।
रदैर् नखैर् आशु बलाद् विखण्डयन्
नैवं सखी वो व्यधितेत्य् अभाषत ॥५४॥

हे कृष्ण! तन् नख-क्षतादिकं इति तस्या राधाया आलिभिः प्र्ष्टः स श्री-कृष्णः तासां सखीनां अधरान् दन्तैर् नखैश् च पयोधरान् विखण्डयन्, वो युस्माकं सखी राधापि एवं व्यधित चकार इत्य् अभाषत ॥५४॥

इत्थं प्रगे तं परिफुल्ल-पद्मिनी-
श्रेणी-मुखामन्द-मरन्द-मादितम् ।
विलोक्य वृन्दा मधुसूदनं वने
मुदं भियं चानुममज्ज वेपिता ॥५५॥
तं मधुसूदनं
कृष्णं पक्षे भ्रमरं वने पक्षे जले विलोक्य वृन्दा मुदम् आनन्द-समुद्रम् अनुलक्षीकृत्य ममज्ज । प्रातः-काल-सम्भावनया वेपिता कम्पिता सती भियं मुदं च ममज्ज, आनन्द-मग्ना भय-मग्ना च बभूवेत्य् अर्थः । श्री-कृष्ण-पक्षे पद्मिनी सुन्दरी स्त्री ॥५५॥

कान्ता उदीयुर् विकसन्-मुखेन्दवो
रात्रिर् गता चास्तम् अपास्त-चन्द्रिका ।
विलास-भङ्गः कथम् अस्तु नास्तु वा
क्षणं हृदैवेति पराममर्ष सा ॥५६॥
विकसन्-मुखान्य् एवेन्दवो
यासाम् एवं-भूता राधाद्याः कान्ता उदीयुः, एवं **अपास्त-चन्द्रिका **यत एवं-भूता रात्रिश् च अस्तङ्गता, अत एव विलास-भङ्ग-कारणस्य विकसच्-चन्द्र-मुखीनाम् उदयस्य सत्त्वात् एवं विलास-सुख-भङ्ग-कारणस्य चन्द्रिका-रहित-रात्रि-गमनस्य च सत्त्वात् विलास-भङ्गः कथं भविष्यति न वा ? इति-संशयाक्रान्त-हृदया वृन्दा क्षणं पराममर्श ॥५६॥

तमांस्य् अनश्यन्न् अभितो यथा यथा
तदा प्रकाशस् च यथा यथैधत ।
तथा तथा हृद्-रुजम् एव सान्वभूद्
व्रजस्य रीतिं श्रुतयोऽपि नो विदुः ॥५७॥
यथा यथा तमांसि अभितोऽनश्यन्न्
एवम् अन्धकार-नाश-तारतम्येन, यथा यथा प्रकाशश् च एधत, तथा तथा सा वृन्दा हृद्-रुजम् अन्वभूत् । ननु अन्धकार-स्वरूप-ज्ञानस्य नाश-तारतम्याद् धेतोः सत्त्व-गुण-कार्य-प्रकाशो वर्धते । तस्माच् च हृद्-रोगो नश्यतीति श्रुति-प्रसिद्धेस् तत् कथं वृन्दा हृद्-रोगम् अन्वभूत् ? तत्राह—व्रजस्येति ॥५७॥

ततो बलाद् वाचयति स्म कक्खटीं
तद् भीषणं किञ्चन कक्खटं वचः ।
प्रातस् तयोः केलि-विलास-शान्तये
युक्त्य्-अन्तरं हन्त न जाघटीति यत् ॥५८॥
तयो
राधा-कृष्णयोर् भीषणं कक्खटं कठोरं वचः कक्खतीं तन्-नाम्नीं वानरीं वृन्दा बलाद् वाचयति स्म, यत् यस्मात् केलि-शान्तये युक्त्य्-अन्तरं न जाघटि, नातिशयेन घटते ॥५८॥

सतीर् इमाः कृष्ण कलङ्क-पङ्किलाः
करोषि नोषस्य् अपि यज् जिहाससि ।
फलं तद् अस्याचिरम् एव दित्सति
व्रजाद् इहैष जटिलोपसेदुषी ॥५९॥

हे कृष्ण ! राधाद्या इमाः सतीस् त्वं कलङ्क-पङ्किलाः करोषि, यत् उषस्य् अपि न जहासितत् तस्मात् अचिरम् एवास्य फलं व्रजात् इह निकटे उपसेदुषी उपसन्ना जटिला दित्सति दातुम् इच्छति ॥५९॥

आकर्ण्य ताभिर् जटिलेति वर्ण-
त्रयीं विवर्णत्वम् अधारि सद्यः ।
विलास-रत्नाकरम् उद्भवन्ती
शङ्कैव तासां चुलुकी-चकार ॥६०॥
विवर्णत्वं
शङ्कया वैवर्ण्यम् । विलास-रूप-समुद्रं तासां सखीनां शङ्कैव चुलुकी-चकार । एतेन शङ्काया अगस्त्यत्वम् आरोपितम् ॥६०॥

हा हन्त सख्यः करवामहे किं
कथं निकेतं निभृतं व्रजेम ।
इत्य् आलपन्त्यस् त्वरया स्खलत्यः
कुञ्जालयाद् अङ्गनम् ईयुर् एताः ॥६१॥

स्पष्टम्।

रात्रिर् गतात्यल्पतरा सुख-प्रसूः
हा काल-रात्रिः पुनर् आगतात्र या ।
वर्षीयसी दुःक-तति-प्रसूर् बलाद्
आशाः फलन्तीः कवलीकरोति नः ॥६२॥

सुखं प्रसूते इति सुख-प्रसूर् अत एवात्यल्पतरा रात्रिर् गता, किन्तु काल-रात्रि-स्वरूपा जटिला आगता । कथं-भूता ? दुःख-भयस्य प्रसूर् माता, पक्षे दुःख-ततिम् अतिशय-दुःखं प्रसूते, अत एव **वर्षीयसी **अतिवृद्धा, एवं-भूता सा नोऽस्माकम् आशा, पक्षे दिशः ॥६२॥

दास्यश् च सख्यश् च तदैव काश्चन
प्रविश्य केली-निलयं पुनस् तयोः ।
स्रग्धे फेलामृतं मण्डनादीन्य्
आदुर् ददुश् चापि मुदा परस्परम् ॥६३॥

अङ्गनात् पुनस् तयोः केली-निलयं प्रविश्य फेलामृतं भुक्तावशिष्टं चर्वितादिकम् आदुर् जगृहुः ॥६३॥

मिथोऽङ्ग-सङ्गस्य तदापि कान्तयोर्
जिहासुतादित्सुतयोर् अभूद् रणः ।
आद्या यदा प्राप मनाक् पराभवं
राधांशगः कृष्ण-भुजस् तदा बभौ ॥६४॥
कान्तयोः
राधा-कृष्णयोः तदा परस्पराङ्ग-सङ्गस्य जिहासुतादित्सुतयो रणोऽभूत् । तथा च एकस्मिन्न् एव समये शङ्का-हेतुका अङ्ग-स्पर्शस्य जिहासुता त्यक्तुम् इच्छुता औत्सुक्य-हेतुका जिघृक्षुता इत्य् अर्थः । आद्या शङ्का-हेतुका जिहासुता यदा मनाक् पराभवं प्राप, जटिलायाः परितो दर्शनाभावात् किञ्चित् शङ्का-निवृत्तेर् इति भावः, तदा राधायाः स्कन्द-गतः सन् श्री-कृष्णस्य भुजो बभौ ॥६४॥

विद्युल्-लतालिङ्गित-वारिदागमः
क्षिताव् इतो जङ्गमताम् अवाप किम् ।
इत्य् उल्लसन्तश् चुकुवुः शिखण्डिनस्
तेनापि ता भ्रान्त-दृशः शशङ्किरे ॥६५॥
विद्युल्-लतयालिङ्गितो
मेघागम आकाशस्थोऽपि क्षितौ किं जङ्गमताम् आप ? पक्षे, विद्युल्-लतयालिङ्गितो मेघ-तुल्योऽगमो वृक्षः स्थावरः किं क्षितौ जङ्गमताम् आप ? द्रुर् द्रुमागमाः इत्य् अमरः । इति मेघ-ज्ञानात् उल्लसन्तः शिखण्डिनश् चुकुवुःतेन मयूर-शब्देनापि ताः सख्यः भ्रान्त-दृशः सत्यः शशङ्किरे ॥६५॥

प्रियास्यम् अन्व् एकतरां तृषातुरां
हरित्सु स-त्रासम् अथापरां दृशम् ।
मुहुः किरन्तौ व्रजतः स्म तौ व्रजं
प्रत्येक-दोः-श्लेष-विशेष-भासिनौ ॥६६॥
तौ
राधा-कृष्णौ प्रियास्यं प्रिया च प्रियश् च प्रियौ तयोर् आस्यम् अनु आस्ये तृषातुराम् एकतरां दृशम् एवं हरित्सु दिक्षु स-त्रासं यथा स्यात् तथा, अपरां दृशं मुहुः किरन्तौ व्रजं व्रजतः । कथं-भूतौ ? प्रत्येक-हस्ताश्लेष-विशेषेण भासिनौ दीप्तिमन्तौ ॥६६॥

राज्ञि प्रलीनेऽरुण-दस्यु-दण्डितैस्
तासां सुहृद्भिस् तिमिरैः पलायिते ।
दूर-स्थित-स्थाणु-विलोकनाकुला
अमंसतैता जरती-मयं जगत् ॥६७॥
राज्ञि
चन्द्रे प्रलीने सति अरुण-रूप-दस्युना दण्डितैस् तासां राधादीनां सुहृद्भिस् तिमिरैः पलायिते सति, दूर-स्थित-स्थाणु-विलोकनाकुला दूरे स्थितो यः स्थाणुः शाखा-पल्लवादि-रहितः शुष्क-वृक्षस् तस्य विलोकनेन जरतीयम् इति ज्ञानाद् आकुला एता जगत् जरती-मयम् अमंसत । राजा मृगाङ्के क्षत्रिये नृपे इत्य् अमरः ॥६७॥

उदेष्यतैवोषसि पद्म-बन्धुनाप्य्
अवाध्यतैषा बत पद्मिनी-ततिः ।
इति स्मरन् किं नु विषीदति स्म स
स्मरः शरं नो समधित्सद् उन्मनाः ॥६८॥
उषसि उदेष्यता
उदयं प्राप्स्यता सूर्येण पद्म-बन्धुनापि एषा राधाद्या पद्मिनी-ततिः अबाध्यत इति स्मरन् स्मरः किं विषीदति स्म ? अत एव तयोर् दुःख-दर्शनेन उन्मनाः सन् शरं नो समाधित्स, तथा च तदानीं सूर्योदय-जटिलाद्यागमन-शङ्कया परस्पराश्लिष्टयोर् अपि कन्दर्पावेशो न जात इति भावः ॥६८॥

दैवात् तद्-औत्सुक्य-भटं विजित्य सा
शङ्का बलिष्ठा व्रज-वर्त्म-सीमनि ।
प्रेयो-भुजाश्लेष-निधिं व्यपानुदद्
बलेन मन्ये सुदृशोऽंस-देशतः ॥६९॥
व्रज-सीमनि
बलिष्ठा सा शङ्का निकुञ्ज-सीमनि प्राप्ताधिकारम् औत्सुक्य-भटं विजित्य प्रेयसः श्री-कृष्णस्य भुजाश्लेष-निधिं सुदृशो राधाया अंस-देशतः बलाद् व्यपानुदद् दूरीचकार ॥६९॥

एकाध्व-गामित्वम् अपि स्फुटं तया
तौ तर्जयन्त्येव यदा न्यषिध्यत ।
तदा दृशां कातरता मिथस् तयोः
पुर-स्थिता प्राण-सखीर् अरोदयत् ॥७०॥
तौ
राधा-कृष्णौ तर्जयन्त्या तया शङ्कया यदा तयोर् एकाध्व-गामित्वम् अपि न्यषिध्यत् तदा तयोर् मिथो दृशां कातरता अग्र-स्थिताः सखीर् अरोदयत् ॥७०॥

पृथक् पदव्यां पदम् एव धास्यतोर्
विधूयमानस्य युगस्य कान्तयोः ।
भवद्-वियोग-प्रभयापि दभ्रया
विधूयमाना रुचयोऽभवन् क्षणात् ॥७१॥
पृथक् पदव्यां पदम् एव धास्यतोः कान्तयोर् विधूयमानस्य युगस्य
विधोर् इवाचरतोर् मुख-द्वयस्य रुचयस् तदानीं प्रादुर्भवत्यः, पक्षे भवत् नक्षत्रस्येव या तयोर् वियोग-प्रभातया दभ्रया अल्पयापि करण-भूतया विधूयमाना खण्ड्यमाना अभवन् । नक्षत्रस्य प्रभया द्वौ चन्द्रौ पराभूताव् इत्य् आश्चर्यम् ॥७१॥

यदा मिथः-स्वान्त-मणि-प्रदान-
पात्री-भवन्ताव् अपि जग्लतुस् तौ ।
तदा पुनर् योग-विधौ तयोः स
प्रेमैव साक्षात् प्रतिभूर् बभूव ॥७२॥
तौ
परस्परं मनो-रूप-मणि-प्रदानस्य पात्रीभवन्तौ हर्षं कारणस्य मणि-प्रतिग्रहस्य उभयत्र सत्त्वेऽपि यदा जग्लतुः तौ ग्लानिं प्रापतुः, तदा तयोः पुनर् योग-विधौ प्रेमा एव साक्षात् जामिन इति प्रसिद्धः प्रतिभूर् बभूव ॥७२॥

तया वियुक्तं निभृतं व्रजं तं
व्रजन्तम् आलिङ्ग्य तरुण्य् अरौत्सीत् ।
अपार-रुक् कापि ययाश्रु-पूरे
तस्योष्णताधायि धियं धयन्त्या ॥७३॥
तया
राधया वियुक्तम् अथ च व्रजं निभृतं यथा स्यात् तथा व्रजन्तं गच्छन्तं कृष्णम् आलिङ्ग्य काप्य् अपूर्वा तरुणी युवतिः अरौत्सीत् रुद्धं चकार । कीदृशी ? अपारा रुक् कान्तिर् यस्या सा। पक्षे, अपार-रुक् अपारा पीडा सा एव तरुणी अबला । तथा च, विच्छेद-जन्य-पीडाक्रान्तः स कृष्णो गन्तुं न शशाकेत्य् अर्थः । यया पीडया तस्य कृष्णस्य अश्रु-प्रवाहे उष्णता अधायि । आनन्दाश्रुणि शीतत्वं पीडा-जन्ये अश्रुणि उष्णत्वम् इति प्रसिद्धिः । पीडया कीदृश्या ? तस्य धियं बुद्धिं धयन्त्या पतन्-मुखं कुर्वन्त्या इत्य् अन्य-तरुण्य्-अपेक्षया अपूर्वत्वम् ॥७३॥

प्रेयो-वियोगातिवलद्-व्रण-व्रजैः
स्वाङ्गं विदन्त्य् आ-नख-केशम् आवृतम् ।
जगाम च प्राह च सा स्खलत्-पदं
विलम्बमानालि-करावलम्बिनी ॥७४॥
प्रेयसः
श्री-कृष्णस्य वियोग-स्वरूपैर् अतिवलद्-व्रण-समूहैर् वृतं नख-केश-पर्यन्तं स्वाङ्गं विदन्तिसा राधा स्खलत्-पदं चरणं यत्र तद् यथा स्यात् तथा जगाम । एवं स्खलत् सुपतितं पदं यथा स्यात् तथा प्राह च । कथं-भूता ? यूथेश्वर्या मन्द-गमनानुरोधेन या विलम्बमाना आली तस्याः करालम्बिनी ॥७४॥

सख्योऽञ्जसा किं कुरुथासमञ्जसं
यन् मां विपन्नां नयथ व्रजान्तिकम् ।
स्वश्रू-निकेतान्ध-तमान्धु-रोधन-
द्रोहातुरां हन्त पुनर् विधास्यथ ॥७५॥

हे सख्यः ! यूयं किम् असमञ्जसं कुरुथ ? यस्मात् विपद्-ग्रस्तां मां व्रजान्तिकं नयथश्वश्रू-गृह-रूपो योऽन्ध-तमान्धः निविडान्धकार-युक्तः कूपस्[^७] तत्र रोधन-रूप**-द्रोहणं** पुनर् माम् आतुरां विधास्यथ करिष्यथ ॥७५॥

निःसार्य गेहाल् ललितेऽधुनैव मां
प्रवेशयस्य् अप्य् अधुनैव तत् पुनः ।
कृष्णाङ्ग-सङ्गामृत-सिन्धु-मज्जन-
प्रलोभनैवाद्य वृथा कृता त्वया ॥७६॥

हे ललिते ! अधुनैव गेहान् निःसार्य पुनर् अधुनैव मां प्रवेशयसि ॥७६॥

अस्ताचलं यन्न् अधुना व्यलोकि यः
स तिग्म-रश्मिः सखि पूर्व-पर्वतम् ।
आरोढुम् आकाङ्क्षति किं विभावरी
ख-पुष्पताम् अद्यतनी जगाम किम् ॥७७॥

सन्ध्या-समये अस्ताचल-गतं सूर्यं दृष्ट्वा पूर्वम् अभिसारं कृतवत्या राधाया अनुरागातिशयेन रात्रिं विस्मृत्याधुना प्रातः समये उदय-पर्वत-गतं सूर्यम् अवलोक्य सन्देहम् आह—हे सखि ! अस्ताचलं यद् गच्छन् यस् तिग्म-रश्मिः सूर्यम् अधुनैव मया व्यलोकि, स एव सूर्यः किम् अधुनैव पूर्व-पर्वतम् आरोढुम् आकाङ्क्षति ? विभावरी रात्रिः ॥७७॥

धिङ् मे श्रुतिं धिग् रसनां दृशं च धिक्
सदातनौत्कण्ठ्य-भर-ज्वरातुराम् ।
प्रापुर् न पातुं लवम् अप्य् अमुष्य याः
सौस्वर्य-सौरस्य-सुरूपतामृतम् ॥७८॥
औत्कण्ठ्यातिशय
-रूप-ज्वरेणातुरां मम श्रुतिं रसनां दृशं च धिक्, यतो याः श्रुत्य्-आदयः अमुष्य कृष्णस्य सौस्वर्येत्य्-आदि ॥७८॥

निर्वेद-पद्धतिम् अपीपठद् एव पूर्वं
योगोऽधुना तु सरले भवतीं वियोगः ।
आद्योऽच्युतामृतम् अदर्शयद् अर्थम् अस्या
अन्योऽनुभावयति हा कटु-कालकूटम् ॥७९॥

ललिता प्रत्युत्तरम् आह—पूर्व-रात्रौ योगः सम्भोगः त्वां निर्वेद-पद्धतिं धर्मोल्लङ्घनात् वेद-रहितां वीथीम् अपीपठत् पाठयामास । अधुना तु हे सरले ! राधे ! वियोगः विप्रलम्भः निर्वेद-पद्धतिं मम श्रुतिं नेत्रं धिग् इत्य् आकारकात्म-धिक्कार-पद्धतिं भवतीम् अपीपठत् । तयोर् मध्ये आद्यो योगः, अस्याः निर्वेदः पद्धतेः **श्री-कृष्ण-**स्वरूपाद्य्-अमृत-स्वरूपम् अर्थम् अदर्शयत्, अन्यो वियोगः तस्याः पद्धतेर् अर्थं कालकूटं विषम् अदर्शयत् । विप्रलम्भस्य कालकूटवद् एव पीडकत्वात् ।

पक्षे, योगः अष्टाङ्गः निर्वेद-पद्धतिं वेद-वैमुख्य-पद्धतिम् । अष्टाङ्ग-योग-पक्षे च्युति-रहितं मोक्षम् अदर्शयत् । योग-भ्रंश-पक्षे कालकूटं मृत्यु-समूहम् । कालो दण्ड-धरः इत्य् अमरः ॥७९॥

इत्थं सखी-गिरम् अपि प्रतिबोधम् एषा
नैवानुराग-पर-भागवती शशाक ।
ताभिर् वृता व्रज-जनैर् अविलोकितैव
वेश्म प्रविश्य निज-तल्पम् अथाध्यतिष्ठत् ॥८०॥
एषा
राधा इत्थं सखी-गिरं बोद्धुम् अपि न शशाक । यतः अनुरागस्य पर-भागः उत्कर्षः तथा चात्युत्कृष्टानुरागवतीत्य् अर्थः । तल्प-मध्ये शेते इति अधि शीङ् स्थासां कर्म ॥८०॥

इति श्री-कृष्ण-भावनामृते महा-काव्ये

प्राभातिका-चरितास्वादनो नाम

द्वितीयः सर्गः

॥२॥

—ओ)०(ओ—

(३)