प्रथमः सर्गः
शय्योत्थान-कौतुकास्वादनो नाम
हरिदास-वर्यः शरणं
श्री-कृष्ण-चैतन्य-घनं प्रपद्ये
सपद्य् अपध्वस्त-तमः-प्रपञ्चम् ।
पञ्चेषु-कोट्य्-अर्बुद-कान्ति-धारा-
परम्पराप्यायित-सर्व-विश्वम् ॥१॥
श्री-युक्त-कृष्ण-देव-सार्वभौमः-
वृन्दाटवीश्वर-सभाजन-राजमान-
श्री-विश्वनाथ-गुण-सूचक-काव्य-रत्नम् ।
मच्-चित्त-सम्पुटम् अलं कुरुतां तद्-ईक्षा
सौभाग्य-भाजम् अपि शीघ्रम् अमुं पिधत्ताम् ॥
अथ प्रारिपिसित-ग्रन्थ-समाप्ति-परिपन्थि-प्रत्यूह-व्यूह-विध्वंस-पटीयसीं श्री-भगवत्-प्रपत्तिं ग्रन्थ-कार-चूडामणि-मङ्गलाचरणत्वेन निबध्नाति—श्री-कृष्णेति ।
श्री-कृष्ण-चैतन्य एव घनो मेघः श्री-कृष्ण-लीलामृत-वर्षित्वात् तं प्रपद्ये । पक्षे श्री-कृष्ण-नामा वै चैतन्य-घनः चैतन्यस्य काठिन्यं सान्द्रत्वम् इति यावत्, मूर्तो घन इति स्मरणात्, घन-शब्दस्य धर्म-मात्र एव मुख्यार्थत्वात् । ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्य् अनेन श्री-कृष्णस्य तथात्वे प्रमितत्वाच् च ।
प्रपत्तेः फलं प्रीति-सन्दर्भाव् उक्तम् अननुसंहितात्यन्तिक-दुःख-निवृत्तिस् तथानुसंहित-भगवद्-रूप-गुणादि-माधुर्यास्वादश् चेति विशेषण-द्वयेन व्यञ्जयति—सपदीति । प्रपत्ति-सम-कालम् एवेत्य् अर्थः । तमो मेघ-पक्षे अन्धकार इति प्रसिद्ध-मेघाद् वैलक्षण्यम्, तच् च चैतन्य-घन इति श्लेषेण जड-रूप-घनस्य व्यावृत्तत्वाद् एव । अपरस्मिन् पक्ष-द्वये तमः अविद्या । कथं-भूतं ? कन्दर्प-कोटेर् यद् अर्बुदं तत्-तुल्य-कान्ति-धारा-परम्परेत्य्-आदि । अत्र कान्ति-धाराया वृष्यमाणत्वात् । तस्याश् चैतन्य-रूपत्वात् न जड-वर्ष-मेघ इत्य् अत्रापि वैलक्षण्यम् । पक्ष-द्वये तद्-रूप-माधुर्यास्वादः सर्व-भक्तेषु फलित इति ध्वनिः ।
यद् वा, पञ्चेषु-कोटेर् अपि अर्बुदं व्रण-विशेषः यतस् तथा-भूता कान्ति-धारेति । अर्बुदं व्रण-भेदोऽपि इति विश्वः । विश्व-पदेन विश्वैक-देश-बोधोऽपि सम्भवेद्, अतः सर्वेति । अत्र पुनर्-उक्तवद् आभासालङ्कारोऽपि बोध्यः ॥१॥
सनातनं रूपम् उदीयुषोः क्षितौ
हृदा दधानो व्रज-काननेशयोः ।
तत्-केलि-कल्पागम-सङ्गतीलिताः
सदालि-वीथीर् अनुरागिणीर् भजे ॥२॥
रागानुगाख्य-साधन-भक्ति-पद्धति-रूपम् इदं समस्त-ग्रन्थात्मकं काव्यम् इति द्योतयति—सनेति । उदीयुषोः उदयं प्राप्तवतोः व्रज-काननेशयोः सनातनं नित्य-रूपं, पक्षे, सनातनाख्यं रूपाख्यं तत्-परिजन-द्वयम् । हृदि दधानस् तौ ध्यायन्न् इत्य् अर्थः। सदालीनां साधु-श्रेणीनां वीथीर् भजन-मार्गान् भजे अनुसरामि । वीथीः कथं-भूताः ? तयोः राधा-कृष्णयोः केलिषु कल्पन्ते प्रमाणत्वेन समर्था भवन्ति, कॢप्त-सामर्थ्ये पचाद्यच् । तथा-भूता ये आगमाः परिचरण-प्रकार-ज्ञापक-बृहद्-गौतमीय-तन्त्र-क्रम-दीपिका-नारद-पञ्चरात्रादि-शास्त्राणि, तेषां सङ्गत ईलिताः प्रशस्ताः । एतेन राग-मार्गस्य शास्त्र-विहितत्वम् आनीतम् ।
पुनः कथं-भूताः ? अनुगम्यमानो रागो यत्र भवतीति रागानुगीय-साधु-जनाश्रित-भजन-मार्गे साधक-देहेन अभिलाषो व्यञ्जितः । अथवा, सदा आली-वीथीर् ललितादि-सखी-श्रेणीर् भजे । कथं-भूताः ? तयोः केलय एव कल्पागमाः कल्प-वृक्षाः, तैः सह राधा-कृष्णयोः सङ्गमे ईलिताः स्तुताः, अर्थात् ताभ्याम् एवेति ज्ञेयम् । ता विना द्वयोः सङ्ग-जन्य लीलैव जन-सिद्धश् चेद् इति भावः । तथा च सिद्ध-देहेन सखीनाम् अनुगतोऽभिलाषो व्यञ्जितः ।
पक्षे, अलि-वीथीर् भ्रमर-श्रेणीर् भजे । कथं-भूताः ? तयोः क्रीडास्पद-कल्प-वृक्षस्य सङ्गमेन स्तुताः । पुनश् च, अनुकूलो रागो वसन्तादिः स एव आनन्ददत्वेन वर्तते यासां ताः । तथा च, वृन्दावनीय-कल्प-वृक्ष-सम्बन्धि-वृन्दावन-वासे कवेर् अभिलाषो व्यञ्जितः ॥२॥
तयोर् मिथः पुष्प-शराजि-चातुरी-
धूरीणता-वेदनया विवादिनोः ।
श्रान्तिः स्वयं कापि निमन्त्र्य तत्-क्षणान्
निद्राम् उपानीय समादधे कलिम् ॥३॥
परस्पर-कन्दर्प-युद्ध-चातुर्यातिशयस्य ज्ञापनया हेतुना विवादिनोस् तयो राधा-कृष्णयोः कलिं कलहं कापि श्रान्ति-रूपा सखी निद्रां निमन्त्र्य—हे निद्रे ! सखि ! तयोर् माधुर्यास्वादस् त्वयापि क्रियताम् इति निमन्त्रणं कृत्वा उपानीय समादधे । तथा च सम्भोगोत्थ-श्रान्तित एव तयोर् निद्रा आगतेति भावः ॥३॥
प्रति-स्व-सेवावसरे प्रबोधिता
सदातनाभ्यास-जुषोऽथ किङ्करीः ।
निद्रैव रात्र्य्-अन्तम् अवेत्य ता जहौ
सैव स्वयं जागरयं चकार किम् ॥४॥
स्व-स्व-सेवावसरे या प्रबोधिता जागरेण शीलता तस्याः सदातनाभ्यास-जुषः किङ्करीः । निद्रैव कर्त्री रात्र्य्-अन्तम् अवेत्य जहौ । अत एव सैव निद्रा स्वयं ताः किङ्करीः किं जागरयं चकार इति स्वतः-सिद्ध-निद्रा-त्याग-हेतुकेयम् उत्प्रेक्षा ॥४॥
उत्थाय तल्पाच् चकितेक्षणाः क्षणान्
दुहानयोर् नागर-चक्रवर्तिनोः ।
स्वापं रहः-स्वापम् अभङ्गम् अङ्गना
आलक्ष्य तुष्णीम् अधिशय्यम् आसत ॥५॥
तल्पाद् उत्थाय किङ्कर्यः आदौ सेवाया अतिकालम् आशङ्क्य चकितेक्षणाः क्षणान् उत्सवान् दुहानयोः पूरणं कुर्वतोः नागर-चक्रवर्तिनोः पश्चात् स्वापं शयनम् अभङ्गम् आलक्ष्य अङ्गनाः किङ्कर्यः अधिशय्यं स्व-स्व-शय्यायां तुष्णीम् आसन् । स्वापं कीदृशं ? रहसि स्वापं सुस्वापम् ॥५॥
पप्रच्छुर् अन्योन्यम् इमा मिमानया
रसं परीहास-भृतं स-जृम्भया ।
गिरा चिराज् जागर-मूढ-घूर्णन-
स्व-स्वाक्षि-भृङ्गी-तति-लीढ-वक्षसः ॥६॥
तद्-अनन्तरं परीहासेन भृतं रसं मिमानया सरसः एतावान् एव ततोऽप्य् अधिक-रसोऽस्तीति तुलयन्त्या इव जृम्भा-सहितया गिरा—“भोः सख्यः ! अद्य निकुञ्ज-राजेन सह विहारातिशय-जन्य-श्रमेण प्राप्त-निद्रायां युष्माकं जागरणं वृत्तं न वा ?” इत्य्-आदि-परिहास-वाक्येन इमाः किङ्कर्यः अन्योन्यं जागरं पप्रच्छुः । ताः कथं-भूताः ? प्राप्त-घूर्णनया स्व-स्वाक्षि-रूप-भृङ्गी-तत्या लीढम् आस्वादितं वक्षः-स्थलं याभिः । तथा च, सम्भोग-चिह्न-स्थिति-शङ्कया स्व-वक्षसि अर्पिताया दृष्टि-भृङ्गी, तयैव दैवात् तत्र-स्थितं नख-चिह्नाकार-मकरन्दम् आस्वादितं चक्रुर् इति ॥६॥
निशान्त-सेवोचित-माल्य-वीटिका-
कृत्यात्त-चित्ता अथ काचिद् आह ताः ।
अनङ्ग-बद्धाङ्ग-युव-द्वयोच्छलत्-
सौरभ्य-सौलभ्यवती रसोच्चला ॥७॥
निशान्त-सेवोचित-माल्य-वीटिकादि-कृत्येषु गृहीत**-चित्तास्** ताः किङ्कारीः प्रति काचित् किङ्करी **आह—**कथं-भूता ? अनङ्गेन बद्धाङ्गयो राधा-कृष्णयोर् उच्छलत्-सौरभ्यस्य सौलभ्यवती । तथा च सौरभेणैव तयोर् बन्धनं दृष्ट्वा ततो भयात् पलाय्येव तद्-वृत्तान्तं विज्ञापिता सा ज्ञात-तत्त्वा सती तासां मध्ये आगत्य, “अहो ययोर् अर्थे वीटिकादि-निर्माणं कुर्वन्ति, तौ द्वौ बद्धौ आगत्य दृश्येताम्” इत्य् उक्तवतीति भावः ॥७॥
जानीत जालाध्व-गतास्य-पद्माः
सद्मान्तर् आल्यः स्व-दृशः प्रहित्य ।
कान्तौ नितान्तातनु-लास्य-चञ्चु
धिनोति सुप्तिः परिरभ्य कीदृक् ॥८॥
तस्या उक्तिम् आह—हे आल्यः ! जालाध्व-गत-मुख-पद्माः सत्यः सद्मान्तर् गृह-मध्ये स्व-दृशः प्रहित्य यूयं जानीत । किं जानीमः ? तत्राह—नितान्त-कन्दर्प-नृत्येन ख्यातौ राधा-कृष्णौ सुप्तिः कर्त्री परिरभ्य कीदृक् धिनोति सुखयति । तथा च सुप्ति-रूप-सभ्यायास् तादृश-नृत्य-दर्शन-जन्य-सन्तोषेणैव आलिङ्गनम् इति ॥८॥
इतस् ततो न्यस्त-मणि-प्रदीपान्
अफुल्ल-नीलोत्पल-चम्पकाभान् ।
विधत्त एतौ स्व-मयूख-वृन्दैर्
अनावृतैर् मण्डन-माल्य-चेलैः ॥९॥
एतौ राधा-कृष्णौ स्व-स्व-पीत-श्याम-किरण-वृन्दैः शयन-गृह-मध्ये इतस् ततो न्यस्त-मणि-प्रदीपान् अफुल्ल-नीलोत्पल-चम्पकवद् विधत्त कुरुतः । कीदृशैः ? भूषण-माल्य-वस्त्रैस् तदानीं तेषाम् अङ्गे असत्त्वाद् एवानावृतैः । तथा च राधिका-पृष्ठ-देश-स्थितानां दीपानां चम्पक-कलिका-प्रभत्वं, कृष्ण-पृष्ट्ःअ-देश-स्थितानां तु नीलोत्पल-कलिका-प्रभत्वम् इति ज्ञेयम् ॥९॥
सख्योऽनयोर् नैव विचक्षणा इत्य्
आक्षिप्य शृङ्गार-धुराल्य् असौ किम् ।
तत्-कल्पिताकल्प-शतं निरस्य
स्व-लक्ष्म-लक्षैर् विदधे विभूषाम् ॥१०॥
अनयो राधा-कृष्णयोर् ललिताद्या सख्यो न विचक्षणा इत्य् आक्षिप्य असौ शृङ्गारातिशय-रूपा आली किं ताभिर् ललितादि-सखिभिः कृताकल्प-शतं निरस्य स्वस्य चिह्न-लक्षैर् विभूषां विदधे ? एतेन तदानीं सङ्कारादि-शून्यं, अथ च शृङ्गार-चिह्न-शत-व्याप्तं तयोः शरीरे आसीद् इत्य् आयातम् ॥१०॥
द्वाव् एव संवेष्ट्य मिथस् तनु-द्वयोर्
यत् पीत-नीलांशुकताम् उपेयतुः ।
तद् आत्म-भूर् एव निरास्यद् एतयोः
किं पौनरुक्त्या वसने विदूरतः ॥११॥
सम्भोगाज् जातं वस्त्र-त्यागं कन्दर्प-कृतत्वेनोत्प्रेक्षते । द्वयो राधा-कृष्णयोस् तनू परस्परं द्वौ राधा-कृष्णौ संवेष्ट्य यत् यस्मात् पीतांशुकतां नीलांशुकताम् उपेयतुः । राधाङ्ग-वेष्टकं श्री-कृष्णस्य पादाद्य्-अङ्गं राधिकाया नीलांशुकत्वम् आप । एवं श्री-कृष्णस्यापि बोध्यम् । तत् तस्माद् आत्म-भूः कन्दर्प एव किं पौनरुक्त्या शङ्कया एतयोर् वसने दूरत एव निरास्यत् दूरीचकार ॥११॥
राधाङ्ग-राज्यं मदनो यदाग्रहीत्
तदैव लज्जां निज-रष्ट्र-पालिकाम् ।
शिरोऽक्षि-वक्षःस्व् अनिशं न्यवासयत्
तां हा स एवाद्य निरस्यति स्म किम् ॥१२॥
तदानीं कामोन्मादेन राधयैव त्यक्तां लज्जाम् आलोक्य उत्प्रेक्षते—यदा मदनो बाल्यं दूरीकृत्य राधाङ्ग-राज्यम् अग्रहीत्, तदैव लज्जा-स्वरूपां निज-देशस्य पालिकां राधायाः शिरो‘क्षि-वक्षः-स्थलेषु निरन्तरं निवासयत् वासं कारयामास । अधुना तु हा कष्टं स एव मदनस् तां लज्जां किं निरस्यति स्म दूरीचकार इत्य् अर्थः ॥१२॥
यत् क्वाप्य् अमूं नैव निभालयामः
सेयं किम् अस्मा अपराध्यति स्म ।
किं वास्मद्-अक्ष्णां सुख-भोग-हेतुर्
मूर्तः शुभादृष्ट-भरोऽभ्युदेति ॥१३॥
उत्प्रेक्षान्तरम् आह—यत् यस्मात् अमूं लज्जां नैव निभालयामः, तस्मात् सेयं लज्जा किम् अस्मै कन्दर्पाय अपराध्यति स्म, येन अपराधेन हेतुना कन्दर्पेण दूरीकृता ? किं वा, अस्मद्-अक्ष्णां सुख-भोग-हेतुः शुभादृष्टातिशय एव मूर्तः कन्दर्प-स्वरूपेण लज्जा दूरीकरणार्थंअम् अभ्युदेति ॥१३॥
स्व-पालितं वस्तु तद् एधयित्वा
तस्मै समर्प्यान्तरधान् न किं वा ।
पुनश् च तस्याः सुभगी-भवन्त्या
यतो भविष्यत्य् अतुला समृद्धिः ॥१४॥
पुनर् अप्य् उत्प्रेक्षान्तरम् आह—लज्जा स्व-पालितं राधा-शरीरम् एधयित्वा तस्मै कन्दर्पाय स्वयम् एव समर्प्य अन्तरधात्, न तु कन्दर्प-भयात्, यतः सुभगी-भवन्त्या तस्या लज्जायाः पुनर् अपि अतुला समृद्धिर् भविष्यति । तथा च जागरणोत्तरम् अधिक-लज्जा भविष्यतीति भावः ॥१४॥
स-कृष्ण-मेघ-स्थिर-चञ्चलाली-
वृतो‘तिमाधुर्य-रसैर् अमूः किम् ।
अस्नापयत् स्वार्हण-कृत्य-वृत्ताः
प्रत्यर्हणेनादित एव धिन्वन् ॥१५॥
मेघ-पक्षे स्थिरा अचपला चञ्चलाल्यो विद्युच्-छ्रेण्यस् ताभिः । कृष्ण-पक्षे औत्सुक्य-वाम्याभ्यां स्थिरा च चञ्चला च या आली राधा, तया । यद् वा, अस्थिरा विद्युद् इव आली राधा, तया वृतः कृष्ण-रूपो मेघः, अतिमाधुर्य-रसैर् अमूः किङ्करीः किम् आस्नापयत् ? ननु किङ्कर्यः किलादौ अर्हणादिभिः प्रभुं सेवन्ते, पश्चात् प्रभुर् अपि प्रत्यर्हणेन ताः सुखयतीति सर्वत्र रीतिः । अत्र तु अर्हण-प्रत्यर्हणयोर् वैपरीत्यम् इत्य् आह—स्व-स्व-सेवायां प्रवृत्ताः किङ्करीः स कृष्ण-मेघ आदित एव प्रत्यर्हणेन धिन्वन् सुखयन् सन् ॥१५॥
ताम्बूल-माला-विविधानुलेपैर्
अङ्गार-धान्य्-आगुरवैश् च धूपैः ।
कालोचितैस् तैः प्रतिपाद्यमानैः
कति क्षणांस् ता गमयां बभूवुः ॥१६॥
ग्रीष्म-शीतादि-कालोचितैः स्व-निष्पाद्यमानैस् ताम्बूलादिभिः कति क्षणान् ताः किङ्कर्यः गमयां बभूवुः । अङ्गार-धानी अङ्गिठी इति प्रसिद्धा ॥१६॥
प्रभञ्जनो रञ्जयितुं निकुञ्ज-
राजौ व्यराजिष्ट मुदा तदानीम् ।
मन्ये प्रबुध्य श्लथ-दुर्बलाङ्गो
द्रुतं प्रयातुं नतरां शशाक ॥१७॥
रात्र्य्-अन्ते स्वत एव चलन्तं वायुं वर्णयति—प्रभञ्जनो वायुः रात्र्य्-अन्ते स वायुः प्रबुध्य जागरित्वा, श्लथ-दुर्बलाङ्ग इत्य् अनेन तस्य मान्द्यम् आनीतम् ॥१७॥
या वृक्ष-वल्ल्यो व्यकसंस् तदैव ताश्
चुम्बंस् तदामोद-भरैर् दिशो दश ।
प्रसारितैः श्वास-पथ-प्रवेशितैर्
भृङ्गावलीर् जागरयां चकार सः ॥१८॥
तत्-कालोत्पन्न्न-वायोः स्वभावत एव शैत्यम् । अतस् तस्य सौगन्ध्यं वर्णयति—स वायुः या वृक्ष-वल्ल्यस् तदा रात्र्य्-अन्ते व्यकसन्, ताश् चुम्बन् सन्, अर्थात् तेनैव वायुना दश-दिशो व्याप्य प्रसारितैर् अथ भृङ्गानां** श्वास-पथ-प्रवेशितैस्** तासां विकसद्-वृक्ष-वल्लीनाम् आमोद-भरैः करणैर् भृङ्गावलिर् जागरयं चकार ॥१८॥
तद्-गुञ्जितै रञ्जित-सुस्वरैर् भृशं
प्रबुध्य वृन्दाऽथ विलोक्य सर्वतः ।
स्व-नाथयोर् जागरणे पतत्रिणो
न्ययुङ्क्त कालज्ञतया रयाद् इयम् ॥१९॥
तेषां भ्रमराणां गुञ्जितैः करणैर् वृन्दा प्रबुध्य पतत्रिणो न्ययुङ्क्त ॥१९॥
अथ प्रबुध्यैव विधूय पक्षान्
ग्रीवाः समुन्नीय चुकूजुर् उच्चैः ।
यत् कुक्कुटाः पञ्च-ष-वारम् आदौ
राधा जजागार तदाप्त-बाधा ॥२०॥
वृन्दया नियुक्तानां पतत्रिणां मध्ये प्रथमतः कुक्कुटा जागरां चक्रुर् इत्य् आह—अथ प्रथमत एव कुक्कुटाः पञ्च-ष-वारम् उच्चैश् चुकूजुः । तत् तस्मात् राधिका जजागार । कथं-भूता ? प्रभात-ज्ञान-जन्या प्राप्ता बाधा पीडा यया सा ॥२०॥
कृष्णाङ्ग-संश्लेष-विशेष-बाधिनस्
तान् एव मत्वेति शशाप सा रुषा ।
अरे परेताशु परेत-राट्-पुरं
तत्रैव किं कूजत नो पदायुधाः ॥२१॥
तान् कुक्कुटान् सा राधा शशाप । शापम् एवाह—अरे पदायुधाः ! कुक्कुटाः ! यूयं परेत-राट्-पुरं यम-पुरं परेत गच्छत । तत्रैव यम-पुरे किं न कूजत ? दुःख-बहुले तस्मिन्न् एव पुरे युष्माकं कूजनम् उचितं, न तु सुख-मय-वृन्दावने । अतो म्रियध्वम् इति भावः ॥२१॥
विश्लिष्य किञ्चित् प्रिय-वक्षसः सा
तुष्णीं स्थितांस् तान् उपलभ्य सद्यः ।
संश्लिष्य कान्तं दर-निद्रयैव
निषेव्यमाणा पुनर् अप्य् अराजीत् ॥२२॥
प्रभात-ज्ञानोत्थ-शङ्कया प्रिय-वक्षसः सकाशात् किञ्चिद् विश्लिष्य सा राधा तदानीम् एव पञ्च-ष-वारान् शब्दान् कृत्वा तुष्णीं स्थितान् कुक्कुटान् उपलभ्य “मच्-छापाद् एते यम-पुरं गताः। अतो नेदानीं प्रभात-शङ्कापि” इति मत्वा कान्तं संश्लिष्य इत्य्-आदि ॥२२॥
ततः पुनस् तान् अथ तिट्टिभादीन्
उत्कूजतः प्राह विधूत-तन्त्रा ।
हंहो क्षमध्वं शयितुं क्षणं मे
दत्तेति सामोटयद् अङ्गम् ईषत् ॥२३॥
ततः क्षणान्तरम् उत्कूजतस् तान् कुक्कुटान् अथ कुक्कुट-शब्दानन्तरं कूजतष् तिट्टिभादींश् च प्रति तेषां शब्देन विधूत-तन्त्रा राधा प्राह—"मे मह्यं यूयं शयितुं क्षणं दत्त" ॥२३॥
कादम्ब-कारण्डव-हंस-सारसाः
कपोत-शारी-शुक-केकि-कोकिलाः ।
जगुः कलं केलि-वनी-जल-स्थल-
प्रचारिणः कृष्ण-कथामृतोपमम् ॥२४॥
कादम्बः कलहंसस् तद्-आदयः सारसान्ता जल-चारिणः, कपोतादयः स्थल-चारिणः । एवं सति क्षुद्र-केलि-वने यज् जलं यच् च स्थलं तत्र तत्र प्रचारिण एते कृष्ण-कथामृतोपमं कलं जगुः ॥२४॥
प्रबुद्ध्य कान्तौ युगपद् यथा रुजं
विश्लेषजां ऊहतुर् अङ्ग-मोटनात् ।
चाम्पेय-नीलाब्ज-धनुस्-त्विषौ तथा
सान्द्रोपगूहेन मुदं च वक्षसोः ॥२५॥
कान्तौ राधा-कृष्णौ युगपत् प्रबुद्ध्य गात्र-मोटनाद् धेतोः यो विश्लेषस् तज्-जन्यां रुजं पीडां यथा ऊहतुः प्रापतुः, तथा अवयवान्तरेण सह विश्लेषेऽपि तदानीम् एव गात्र-मोटनाज् जातं वक्षसोः सान्द्रोपगूहनं तेनैव मुदं च ऊहतुः । कीदृशौ ? चाम्पेय-नीलाब्ज-धनुषोस् तुल्ये त्विषौ ययोस् तथा चाङ्ग-मोटन-समये धनुर्-आकारयोः परस्परं वक्षसोर् आलिङ्गनं स्याद् इत्य् अर्थः ॥२५॥
द्वारं समुन्मुच्य मनाग् अनारवं
शनैः पद-न्यास-विशेष-मञ्जुला ।
निर्णीत-तज्-जागरणाथ किङ्करी-
ततिर् विशङ्का प्रविवेश वेश्म सा ॥२६॥
निर्णीतं राधा-कृष्णयोर् जागरणं यया, ईदृशी । अत एव विशङ्का **किङ्करी-ततिः अनारवं **निःशब्दं यथा स्यात् तथा मनाक् द्वारम् उन्मुच्य वेश्म तयोः शयन-मन्दिरं शनैः प्रविवेश ॥२६॥
तन्-मन्द-मञ्जीर-रवैर् अवैधित
त्वरा भरोत्थातु-मना अपि प्रिया ।
पस्पन्द एवातितरां प्रियस्य यद्
दोर्-वल्लीम् उन्मोचयितुं न साशकत् ॥२७॥
तासां किङ्करीणां मन्द-मञ्जीर-रवैः करणैः वृद्ध उत्थाने त्वरा अतिशयो यस्या एवं-भूता प्रिया उत्थातु-मना अपि पस्पन्द एव, न तु उत्थातुं शशाक, यस्मात् प्रियेत्य्-आदि ॥२७॥
वृन्देङ्गितज्ञः स विचक्षणः शुकः
शुको यथा भागवतार्थ-कोविदः ।
दक्षः प्रबोधे जगतां प्रभोर् अति-
प्रेमास्पदत्वानुपमः समभ्यदात् ॥२८॥
विचक्षणः शुकः पक्षि-विशेषः अभ्यदात् प्रोवाच । कीदृशः ? जगतां प्रभोः कृष्णस्य प्रबोधे दक्षः । पक्षे दक्ष-नामा शुकः विचक्षण-नामा शुकः । कीदृशः? दक्ष-पक्षे विचक्षण-नाम्ना शुकेन सह वर्तमानो दक्ष-नामा शुकः जगत्-प्रभोः श्री-कृष्णस्य प्रबोधे जागरणे समभ्यदात् । शुकौ दक्ष-विचक्षणौ इति गणोद्देशात् । तत्र दृष्टान्तः—शुकदेवो यथा भागवतार्थ-कोविदस् तथा शुकोऽपि अतिप्रेमास्पदत्वे अनुपमः, अर्थात् कृष्णस्येति बोध्यम् ॥२८॥
जय स्मराशेष-विलास-वैदुषी-
निष्णात ! गोपी-जन-लोचनामृत ! ।
प्राण-प्रिया-प्रेम-धुनी-मतङ्गज !
स्व-माधुरी-प्लावित-लोक-संहते ! ॥२९॥
प्रथमतो दक्ष आह—हे स्मराशेष-विलास-पाण्डित्य-पारङ्गत ! हे प्राण-प्रियायाः प्रेम-रूपाया धुनी नदी, तत्र मतङ्गज हस्ति-स्वरूप ! ॥२९॥
प्रियाधरास्वाद-सुखे निमज्जसि
प्रबुद्ध्यसे नेत्य् उचितं रसाम्बुधे ।
रिरंसुतायां विरिरंसुर् एव ते
किं चाधुनेयं क्षणदा क्षणं द्यति ॥३०॥
यत एतादृश-विशेषणैर् विशिष्टस् त्वं, अतः प्रियाया अधरास्वाद-सुखे निमज्जसि, न । अथ च प्रबुद्ध्यसे । एतद् उचितम् एव, किं तु रिरंसुतायां रमणेच्छायां सत्यां क्षणदा रात्रिः श्लेषेण क्षणान् उत्सवान् दात्री आसीत् । अधुना सेयं विरिरंसुर् विरामेच्छुः सती क्षणम् उत्सवं द्यति खण्डयति ॥३०॥
जहीहि निद्रां श्लथयोपगूहनं
व्रजं प्रतिष्ठासुर् अरं प्रभो भव ।
प्रातर् बभूवानुसर स्व-चातुरीं
प्रच्छन्न-कामत्वम् अथोररीकुरु ॥३१॥
अधुना विचक्षण-नामा शुको गोष्ठ-गमने परिपाटीम् उपदिशति—उपगूहनं श्लथय । हे प्रभो ! व्रजम् अरं शीघ्रं प्रतिष्ठासुर् भव । प्रच्छन्न-कामत्वं स्वीकुरु, अन्यथा प्रभाते सति व्यक्त-कामत्वं भविष्यति ॥३१॥
जय व्रजानन्दन ! नन्द-चेतः-
पयोधि-पीयूष-मयूख ! देव ! ।
गोष्ठेश्वरी-पुण्य-लता-प्रसून !
प्रयाहि गेहाय धिनु स्व-बन्धून् ॥३२॥
हे व्रजानन्दन ! हे नन्द-चेतः-स्वरूप-समुद्रस्य चन्द्र ! तथा च त्वयि तस्यात्यन्ताशक्त्या त्वद्-दर्शनार्थंअं नन्दे आगते सति का गतिर् भविष्यति ? इति भावः । प्रसूनेति नन्दाद् अपि गोष्ठेश्वर्या आसक्तिर् अधिका । अत एव साप्य् अधुना त्वन्-मुखालोकनार्थम् आयास्यतीति भावः । अधुना तु गोष्ठे गत्वा स्व-बन्धून् धिनु सुखय ॥३२॥
शारी शुभा साऽथ जगाद सूक्ष्मधीः
शारी यथा देवन-सम्मत-स्थितिः ।
जयेश्वरि ! स्वीय-विलास-सौभग-
श्री-तर्षित-श्री-मुख-मुख्य-यौवते ! ॥३३॥1
अथानन्तरं सूक्ष्मधी-नाम्नी शुभा-नाम्नी च शारी जगाद । पक्षे शुभा कथं-भूता ? सूक्ष्म-धीः । एवं सापि कथं-भूता ? शुभा । तत्र दृष्टान्तः—यथा शारी पाशक-क्रीडोपयुक्त-काष्टादि-निर्मितो बल इति प्रसिद्धा शारी, यथा देवनैः पाशकैः सह सम्मता स्थितिर् यस्याः सा । अक्षास् तु देवनाः पाशकाश् च ते इत्य् अमरः । तथा पक्षि-रूप-शारी-पक्षे—देवने काम-विलासे सम्यक्-मता ज्ञाता स्थितिर् मर्यादा अवधिर् यया सा । दिवु क्रीडायाम् । मर्यादा धारणा स्थितिः इत्य् अमरः । स्वीय-विलास-सौभाग्ययोः श्रिया समृद्ध्या तर्षितं तृषितीकृतं मुखं लक्ष्मी-प्रभृति-मुख्य-यौवतं यया ॥३३॥
शेषेऽधुना यद् रति-वल्लभास्य-
राजीव-राजन्-मधु-पान-मत्ता ।
असाम्प्रतं तत् खलु साम्प्रतं ते
प्रातस् ततो जागरयाम्य् अहं त्वम् ॥३४॥
रति-वल्लभस्य कृष्णस्य आस्य-पद्म-सम्बन्धि-राजन्-मधु-पानेन मत्ता त्वम् अधुनापि यत् शेषे शयनं करोषि, तत् ते साम्प्रतम् । इदानीं प्रातः-काले असाम्प्रतम् अयोग्यम् ॥३४॥
तन् मा विलम्भस्व भजस्व नीतिं
मा ह्रेपयात्मानम् उपेहि गोष्ठम् ।
का शिक्षयेत् त्वाम् अपि लोक-रीतिं
त्वत्तो नु ताः शिक्षत एव सर्वाः ॥३५॥
लोक-रीतिं त्वां का शिक्षयेत् ? किं तु त्वत्तः सकाशात् ताः सर्वा लोक-रीतिं शिक्षते ॥३५॥
कल-क्वणत्-कङ्कण-नूपुरं जवाद्
अत्युच्छलद्-गात्र-युग-च्छवि-छटम् ।
व्यस्तालकाग्रावलि-वेष्टनोन्नमत्-
ताटङ्क-हार-द्युति-दीपिताननम् ॥३६॥
स्रस्तांशुकान्वेषण-सम्भ्रमोदयाद्
इतस् ततो न्यस्त-कराब्ज-मञ्जुलम्2** ।
शयोत्थितं केलि-विलासिनोस् तयोस्
त्रैलोक्य-लक्ष्मीम् इव सञ्चिकाय तत् ॥३७॥**
(युग्मकम्)
केलि-विलासिनोस् तयो राधा-कृष्णयोस् तच् छय्योत्थानं त्रैलोक्य-शोभाम् इव सञ्चिकाय एकत्र सङ्ग्रहं चकारेति पर-श्लोकेन सहान्वयः । शय्योत्थणं कीदृशं ? मधुर-ध्वनि-युक्ते कङ्कण-नूपुरे च यत्र । पुनश् च वेगाद् अत्युच्छलद्-गात्र-द्वयस्य छवि-छटा यत्र । पुनश् च व्यस्तालकाग्राणां श्रेण्या वेष्टनेन उन्नमन्तौ ऊर्ध्वं गच्छन्तौ यौ कुण्डल-हारौ तयोः कान्त्या दीपितम् आननं यत्र । पृष्ठ-देश-स्थितालकेनैव हारस्य ऊर्ध्व-नयनं बोध्यम् । पुनः कीदृशं ? विहार-समये स्रस्तस्यांशुकस्य अन्वेषणे यः सम्भ्रमोदयस् तस्माद् इतस् ततो न्यस्तेन कराब्जेन मञ्जुलम् ॥३६-३७॥
घूर्णालसाक्षं श्लथ-सर्व-गात्रं
विस्रस्त-वेशं3** रसिक-द्वयं तत् ।
भुग्नोपवेशं स्खलने कथञ्चिद्
अन्योन्यम् आलम्बनतं प्रपेदे ॥३८॥
तद् रसिक-द्वयं** निद्रावेशेन भुग्नः शय्यायाम् उपवेशो यस्य । एवं स्खलने कथञ्चिद् अन्योन्यम् आलम्बनतं प्रपेदे, तदानीं परस्पर-शरीरं परस्परालम्बनं बभूवेत्य् अर्थः ॥३८॥
परस्परांस-द्वय-दत्त-दोर्-युग-
न्यस्ताङ्ग-भारं नत-पृष्ठ-शोभितम् ।
सम्मोटनाद् उन्मुखम् आस्य-पङ्कज-
द्वयं परिक्रान्तिम् इवानयन् मिथः ॥३९॥
अधुना परस्पर-सन्मुखतया स्थितयोर् आलस्य-त्याग-प्रकारम् आह—परस्पर-स्कन्द-द्वय-दत्त-दोर्-युगे न्यस्तो‘ङ्ग-भारो येन एकीभूतं रसिक-द्वयम् आलस्य-त्याग-समये नत-पृष्ठेन शोभितं सद्-गात्र-मोटनाद् धेतोर् ऊर्ध्व-मुखम् आस्य-पङ्कज-द्वयं परस्परस्य परिक्रमम् इवानयत् प्राप । तदानीम् आलस्य-दूरी-करणार्थम् ऊर्ध्व-गत-परस्पर-मुख-भ्रमणम् एव परस्पर-मुखस्य परिक्रमत्वेन उत्प्रेक्षितम् ॥३९॥
तदैव जृम्भोत्थ-रदांसु-जाल-
माणिक्य-दीपैर् निरराजयत् किम् ।
स-निद्रम् उन्मुद्र-दृग्-अन्त-लक्ष्मी
रसज्ञयान्योन्य-विलिह्यमानम् ॥४०॥
तदा परिक्रम-समये एव जृम्भोत्थो यो दन्तस्य किरण-समूहः, स एव माणिक्य-प्रदीपां तैः किरणैः रसिक-द्वयं किम् अन्योन्यं निरराजयत् आरात्रिकम् अकरोत् ? इत्य् अर्थः । एवं स-निद्रं रसिक-द्वयम् उन्मुद्र-दृगन्त-शोभा एव रसज्ञा जिह्वा तया अन्योन्य-विलिह्यमानम् इति त्रिभिः श्लोकैर् अन्वयः ॥४०॥
पुनर् अपि घन-घूर्ण-श्री-मुख-द्वन्द्व-योगाद्
अचटुल-भुज-वल्ली-वेष्टनेनेष्ट-भासौ ।
क्षणम् अपि दर-सुप्त्या शं भजावेत्य् अतस् ताव्
अनृजु-कुसुम-तल्पे4** स्रस्त-गात्राव् अभूताम् ॥४१॥
निविड-घूर्णा-युक्त-श्री-मुखयोर् द्वयोः** परस्पर-संयोगाद् धेतोः क्षणम् अपि ईषत्-सुप्त्या शं सुखं भवाव इति मनस्य् एवोक्त्वा तौ राधा-कृष्णौ विलासस्य सम्मर्देन कुटिलं यत् कुसुम-तल्पं तत्र पुनः स्रस्त-गात्रौ अभूताम् । कथं-भूतौ ? निद्रावेशेन अचञ्चलेन भुज-वल्ली-वेष्टनेन इष्टा कान्तिर् ययोः ॥४१॥
विरह-विकलया तच्-छायया दूनया किं
कथम् अपि दर-लब्धाश्लेषया निद्रया वा ।
उषसि न च विहातुं हन्त शक्तौ खगास् तौ
तद् अपि विदधुर् आभ्यां विप्रयुक्तौ स्वनन्तः ॥४२॥
भावी यो विरहस् तेन विकलया, अत एव दूनया तयोः शय्यया कर्त्र्या अथवा कथम् अपि भोग्येन रात्र्य्-अन्ते राधा-कृष्णाभ्यां सह ईषल्-लुब्धाश्लेषया निद्रया कर्त्र्या किम् उषसि विहातुं न शक्तौ तौ राधा-कृष्णौ तद् अपि स्वनन्तः शब्दं कुर्वतः खगाः आभ्यां शय्या-निद्राभ्यां सह वियुक्तौ विदधुश् चक्रुः । तथोचिते खगाः शय्या-निद्रयोर् वैरिण एवेति भावः ॥४२॥
इति श्री-कृष्ण-भावनामृते महा-काव्ये
शय्योत्थान-कौतुकास्वादनो नाम
प्रथमो सर्गः
॥१॥
(२)