त्रयोविंशः सर्गः
अथ प्रबन्ध-गानम् स नाना-तालैः पृथग्-विधम् ।
कर्तुम् आरभतैताभिर् विदग्धाभिः स-नर्तनम् ॥१॥
अथान्तरं स श्री-कृइष्णः एताभिर् गोपीभिः सह नानातालैः स-नर्तनं यथा स्यात् तथा पृइथग् विधं कृइत्वा प्रवन्ध-गानं कर्तुम् आरभत ॥१॥
श्री-राधया नृत्यति कृष्ण-चन्द्रे
गायन्त्य आसन् ललितादयस् तदा ।
चित्रादयोऽन्याः किल ताल-धारिका
वृन्दादयः सभ्यतया व्यवस्थिताः ॥२॥
अथ तत् प्रवन्ध-गानं विवृइणोति श्री-राधयेत्यादिभिः । कृइष्ण-चन्द्रे श्री-राधया सह नृइत्यति सति तदा ललितादयः गायन्त्य अगायन् । अन्याश् चित्राद्यस् तालधारिका आसन् वृइन्दादय सभ्यतया व्यवस्थिता आसन् । गीत-वादित्र-नृइत्यदेर् भद्राभद्र-विवेचकाः । सभा-मध्ये स्थिता येतु सभ्यास् ते परिकीर्तिता इति ॥२॥
कृष्णे नृत्यत्य् एकले राधिकाद्या
गायन्ति स्माश्चर्य-तालैर् दुरूहैः ।
तस्मिन् सभ्ये राधिकाद्याः क्रमेणा-
श्चर्यं नृत्यं साङ्ग-हारं व्यधुस् ताः ॥३॥
ततः-परं श्री-कृइष्णे एकले नृइत्यति सति श्री-राधाद्या दुपूहैराश्चर्यैस् तालैर् गायन्ति स्म जगुरित्यर्थः । तस्मिन् श्री-कृइष्णे सभ्ये सति श्री-राधिकाद्याः क्रमेणाश्चर्यं नृइत्यं साङ्ग-हारं अङ्गविक्षेपैः सहितं यथा स्यात् तहा व्यधुरकार्षुः । अङ्ग-हारो ऽङ्ग-विक्षेप इत्यमरः ॥३॥
रङ्गे क्रमाच् छ्रेणितया स्थितानाम्
अन्तः-पटत्वं नटतां गतानाम् ।
वीणादि-वाद्यावलि-धारिकाणां
नाना-प्रबन्धादिक-गायिकानाम् ॥४॥
तत-घन-शुषिराढ्यानद्ध-कण्ठ-स्वरौघे
मृदु-विविध-गतित्वेऽप्य् ऐक्यम् आप्तेऽङ्गनानाम् ।
तद्-अनुग-पद-तालैर् भ्रू-कराङ्गाक्षि-चालैर्
ननृतुर् इह स-कृष्णास् ताः प्रविश्य क्रमेण ॥५॥
अथ श्री-कृइष्णादीनां नृइत्यं सधारणतया अति-मनोहरं वर्णयति रङ्ग इति द्वाभ्याम् अन्वयः । रङ्गे रङ्ग-स्थले श्रेणितानां नटतां तेषु कृइष्णादीनाम् अन्तःपटत्वं वस्त्रा-वृइतित्वं गतानां वीणादि-वाद्या-वलिधारिकाणां नाना-प्रवन्धादिक-गायिकानाम् अङ्गनानां तासां तत-घन-शुषिवैर् वीणादिकांस्य तालादि-वंश्यादिभिर् वाद्यैराढ्यस्य युक्तस्यानधस्य मुरजादेर् वाद्य-समूहश्य तासां कण्डानां च स्वरौघे सव्र-समूहे मृइदु-विविध-गतित्वे ऽपि मृइदुः कोमला विविधा नाना वातुर्यवती च गतिर् यासां भावो-मृइदु-विविध-गतित्वं । अर्थान् मृइदु-विविध-गतिः । तथैक्यं प्राप्ते सति । तथा तत् तत्-स्वर-समूतद् गत्याः परस्परं मिलने सति गतौ स्वरानुरूपायां सत्यां स्वरे गतानुरूपे सति च ताः श्री-राधाद्याः श्री-कृइष्णेन सहिताः सय इह उक्त-प्रकारावृइतेर् अङ्गे तद्रङ्ग-स्थले प्रविश्य तद् अनुग-पदतालैः तासाम् अन्तः-पटभूतानां विविध-वाद्य-गीत-गति-शीलानां वद्य-गीत-गतीनाम् अनुगतैः पादतालैर् भ्रूर् कराङ्गाक्षि चालैश् च सह क्रमेण शृई-कृइष्ण-राधा-ललितेत्यादि-क्रमेण ननृइतुः ।
ततं वीणादिकं-वाद्यमानधं मुरजादिकं । वंश्यादिकन्तु शुषिरं कांस्यतालादिकां घनम् । इत्यमरः ॥४-५॥
कृष्णः श्रीमान् मुहुर् इह समागत्य तासां समध्यान्
नाना-ताल-क्रम-वशतया चालयन् श्री-पदाब्जे ।
धुन्वन् प्राणी नटति निगदन्न् इत्थम् आनन्दयंस् तास्
तत्ता तत्थे दृगिति दृगि थै दृक् तथै दृक् तथै था ॥६॥
अथ कृइष्णादीनां नृइत्यं पृइथक् पृइथक् वर्णयति कृइष्ण इत्यादिभिः । स श्रीमान् कृइष्णस् तासां गोपीनां मध्यादिह रङ्ग-स्थले समागत्य प्रविश्ह्य नानाताल क्रम-वशतया मुहुः पुनः पुनः श्री-पदाब्जे चलयन् पाणी कर-पद्मे धुन्वन् ताः गोपीरानन्दयन् सन् तता थै थै दृइगिति दृइक् तथै था इत्थं निगदन् नटति ॥६॥
थोदिक् दां दां किट किट कणझें थोक्कु थो दिक्कु आरे
झें द्रां झें द्रां किटि किटि किटिधां झेङ्कुझें झेङ्कुझें झेम् ।
थोदिक् दां दां दृमि दृमि दृमि धां काङ्कुझें काङ्कुझें द्राम्
आगत्यैवं नटति स हरिश् चारु पाठ-प्रबन्धम् ॥७॥
स हरिरागत्य थोदिक् दां दां किट किटेत्याद्यारभ्य काङ्कु झें द्रां कुझें द्रामित्यन्तं पाठ-प्रवन्धं चारु यथा स्यात् तथा नटति ॥७॥
कूजत्-काञ्ची-कटक-विरणन्-नूपुर-ध्वान-रम्यं
पाणि-द्वन्द्वं मुहुर् इह नदत्-कङ्कणं चालयन्ती ।
राधा-कृष्ण-द्युति-घन-चये चञ्चलेव स्फुरन्ती
नृत्यन्तीत्थं गदति तथथै थैतथै थैतथै था ॥८॥
श्री-राधा श्री-कृइष्णस्य द्युतिरेव घनचयो मेघ-समूहस् तत्र चञ्चलेव तडिद् इव स्फुरन्ती सती । कूजतां काञ्ची-कटकानां विरणतोर् नूपुरयोश् च ध्वानैरम्यं यथा स्यात् तथा । नदन्ति कङ्कणानि यत्र तथाभूतं पाणि-द्वन्द्वं मुहुश् चलयन्ती सती । इह रङ्ग-स्थले नृइत्यन्ती सती तथ थै थै तथै थै तथै था इत्थं वदति ॥८॥
धां धां दृक् दृक् चङ् चङ् निनाङ् णङ् निनां णं निङां नां
तुत्तुक् तुङ् तुङ् गुडु गुडु गुडु धां द्रां गुडु द्रां गुडु द्राम् ।
धेक् धेक् धो धो किरिटि किरिटि द्रां द्रिमि द्रां द्रिमि द्राम्
आगत्यैवं मुहुर् इह मुदा श्री-मदीशा ननर्त ॥९॥
श्री-मदीशा श्री-मती राधा रङ्ग-स्थले आगत्य धां धां दृइक् दृइक् इत्यादि द्रां द्रिमिद्रां द्रिमिद्राम् इत्यन्तं वदन्ती सई मुदा हर्षेण मुहुर् ननर्त ॥९॥
झं झं कुर्वत् कनक-वलये धुन्वती पाणि-पद्मे
तासां मध्यात् सपदि ललिताऽप्य् आगता कृष्ण-कान्त्या ।
श्यामे रङ्गे तडिद् इव घने नृत्यतीत्थं वदन्ती
थै थै थो थो तिगड तिगड थो तथै थो तथै ता ॥१०॥
तासां श्रोणितया स्थितानां श्री-व्रसुन्दरीणां मध्यात् श्री-ललिता ऽपि कृइष्णस्य कान्त्या श्यामे श्ह्याऽम-वर्णे गङ्गे रङ्ग्-स्थले घने तडिदिव स-पद्यागता प्रविष्टा सती थै थै थो थो तिगडितिग-थै थै तथै था इत्थां वदन्ती सती नृइत्यति ॥१०॥
दृमि दृमि दृमि धो धो मृदङ्गादि-नादैः
कण कण कण वीणा-शब्द-मिश्रैर् विशाखा ।
नटति झणण झं झत्कार्य्-अलङ्कार-जाला
दृगिति द्र्गिति दृक् थै थो तथो थो ब्रुवाणा ॥११॥
क्वण कण कण इति वीणायाः शब्देन मिश्रैर् युक्तैर् दृइमि दृइमि धो धो धो इति मृइदङ्गादीनाः नादैर् विशाखा नृइत्यति । किम्भूता सती झणन झं झदिति शब्द-कर्तुं शीलमलङ्कार्-जालं यस्याः सा । पुनः दृइगिति दृइगितीत्यादि शब्दान् व्रुवाणा ॥११॥
काचित् स्वनन्-नूपुर-किङ्किणीका
मुहुः क्वणत्-कङ्कण-पाणि-युग्मम् ।
विधुन्वतीत्थं नटतीर् अयन्ती
थैया तथैया तथथै तथैया ॥१२॥
काचित् सखी । स्वनन्त्यो-नूपुर-किङ्किण्यो यस्यास् तथाभूता सती मुहुः क्वणन्ति कङ्कणनि यत्र थथा-भूतं पाणि-युग्मं विधुन्वती सती थैया तथैया तथै तथैया इत्थमीरयन्ती सती नटति ॥१२॥
पाद-न्यासैः श्री-कर-द्वन्द्व-चालैर्
नृत्यत्य् अन्या नूपुर-ध्वान-मिश्रैः ।
तालोत्थानायेत्थम् उच्चारयन्ती थै
थै थै थै थै तथै थै तथै थाः ॥१३॥
अन्या गोपी नूपुर-ध्वनि-मिश्रैः पादन्यासैः पृइथिव्यां पादयोः पातैः श्री-युक्त-कर-द्वन्द्वस्य चालनैश् च नृइत्यति । किं कुर्वती सती । तालानाम् उत्थानाय थै थै थै थै थै तथै थै तथै था इत्थं उच्चारयन्ती ॥१३॥
रङ्गं प्राप्ता तद् अनुतथान्या
नृत्यन्ती सा लपति तदेत्थम् ।
थैया थैया तथ तथ थैया
थैया थैया तिगड तथैया ॥१४॥
तदनु तत्-पश्चत् तथा सा प्र्सिधा अन्या गोपी रङ्गं प्राप्ता सती तदा नृइत्यन्ती सती थैया थैया तथ तथ थैया थैया थैया तिगड तथैया । इत्थं लपति ॥१४॥
आ-आ-ई-आति-आ-आ ति-अ-इ-अ-ति-अ-आ आति-आ आति-आ आ
आ आ ज्योत्स्नोज्ज्वलाङ्गं नटद् इव पुलिनं राधिके पश्य आरे ।
आ-आ-आ-आति-आ-आ नटति च विपिनं मन्द वातेरितं आ
आ आ आ एति कृष्णः पुनर् इह निगदन् सालसाङ्गं ननर्त ॥१५॥
एवं सखीषु नृइत्यन्तीषु शृइ-कृइष्णः पुनरुल्लसन् नृइत्यञ्चकार आ आ इत्यादि हे राधे पश्य ज्योत्स्नयोज्वलम् अङ्गं यस्य थाभूतं पुलिनं आ आ ई आति इत्यादि नृत्य-विशेषं नटदिव भातीति शेषः । विपिनं च मन्द-वायुनेरितं प्रेरितं सत् आ आ ई आतीत्यादि नृइत्य-विशेषं नटति इति निगदन् सन् श्री-कृइष्णः आ आ आ एति तत् तन् नृइत्य-विशेषं पुनरिह रङ्ग-भूमौ साल-साङ्गं अलसं मदन-मद-घुर्णितं आलसं सम्यग् देदीप्य्मानं वा । तच् च तच् च वा तदङं चेति तत् अलसाङ्गं आलसाङ्गं वा तेन सहितं यथा स्यात् तथा ननर्त । लस दीप्तौ । गुणि-ग्रहणेन गुणा एव गृइह्यन्ते । अथः साहित्यं घुर्णनेन । दीप्तौ वानत्वङ्गेन । अङ्गस्य स्वतः सिधत्वात् । तथाहि माघे, सालकानन-योगे ऽपि सलकानन-वञ्चिता इति ॥१५॥
आ-इ-अ-आ-इ अतिप्रिय-हासश् चन्द्रति कुन्दति हंसति आरे ।
क्षीरति हीरति हारति आरे आ-इ-अ-आ-इ-अ नृत्यति राधा ॥१६॥
ततः श्री-राधापि । हे प्रिय ते तव हासश् चन्द्रति चन्द्र इवाचरति सर्वम् आह्लादयति । कुन्दति कुन्द-पुष्पम् इव विकसति । किम् वा कुन्द-शब्देन कुन्दलता गृइह्यते । सेव स्वकुट्मलानि इव तव दन्तान् प्र्काशयति । हंसति हंस इव विलसति सर्वं रञ्जयति । क्षीरति क्षीरम् इव मधुरायते रोचते । हीरति हीरम् इव पीप्यते । भवति संयोगिनीनां भूषायते वियोगिनीनां तु विषायते इति व्यङ्गं । हारति हारो मुक्ता-सरे युधीति मेदिनी । हार इव शेणीयति पुनः पुनरुदयति । किम् वा युधिव युध्मिव् आवरति । तत्-सङ्ग-रङ्ग-विपविनाश-भूमिर्-भवति । एतैः शुक्लैश् चन्द्रादिभिर् उपमेयत्वात् शुक्लायते च । युधस्य च क्षत्राणां यशो-धर्म-मयत्वच् छुक्लत्वं ज्ञेयं । इति वदन्ती सती आ इ अ आ इ अ आरे आरे आ इ अ आ इ अ इति नृइत्य-विशेषं नृइत्यति ॥१६॥
ता धिक् ता धिक् धिग् इति निनादं
कुर्वन् रासे वरमुरजोऽयम् ।
लास्यैरासाम् अतिशय तुष्टो
निन्दत्यन्याः सुरवनिताः किम् ॥१७॥
श्री-व्रजाङ्गनानां नृइत्य-कौशलं सर्वतः कोट्यधिकम् इति ग्रन्थ-कर्तारो वर्णयति ताधिगिति । अयं वर उत्तमो ऽचेतनो ऽपि सारासार-विवेक-चतुरः स चासौ मुरजो-मृइदङ्गश् चेति सः वर्मुरजः । रासे आसां श्री-गोपीनां लास्यैर् अतिशय-तुष्टः सन् ताधिक् ताधिक् धिगिति तास् ताश् च धिक् धिक् धिगिति निनादं पुनः कुर्वन् सुर-वनिता उर्वश्यादीर् अप्सरसः । अन्याः गन्धर्व-किन्नर्यादीश् च । एता व्रजाङ्गनानां लास्य-कौशलस्य लेशम् अपि न जानन्तीति मत्वा निन्दति किं इत्यहं मन्ये ॥१७॥
वैणिक्यो वैणिविक्यश् च गायन्त्यस् तालधारिकाः ।
मौरजिक्यश् च नृत्यन्ति नर्तकीभिः समं मुदा ॥१८॥
तासां नृइत्योल्लासं वर्णयति वैणिक्य इति । वैणिक्यो-वीणावादिन्यः मरजिक्यो मृइदङ्ग-वादिन्यश् च नर्तकीभिः समं मुदा हर्षेण स्व-स्व-वादन-गान-पराः सत्यो नृइत्यन्तीत्यर्थः ॥१८॥
आविष्टानां गान-नृत्येऽङ्गनानां
तत्-तद्-गत्याऽत्युच्छ्वसद्-गाढ-बन्धम् ।
नीवी-वेणी-कुञ्चुकादि स्वयं तत्
कृष्णः क्षिप्रं नृत्य-मध्ये बबन्ध ॥१९॥
गान-नृइत्ये गानम् इत्युपलक्षणेन गान-वादन-सहित-नृइत्ये आविष्टानाम् अङ्गनानां तासां गोपीनां तत् तद् गत्या तेषां तेषां नृइत्य-गीत-वाद्यानां गत्या तत् तदनुरूपेण पादादिन्यास-भङ्ग्या ऽतिशयेनोच्छ्वसन् स्रंसन् गाढो-वन्धओ यस्य तथाभूतं नीवि-वेणी-कञ्चुकादि श्री-कृइष्णः स्वयं क्षिप्रं तत् क्षणम् एव तत् तत्र नृइत्य-मध्ये ववन्ध । नीव्यादीनां सामान्यान् नपुंसकत्वम् अत्र ॥१९॥
ते नाना-शब्द-बन्धेन ससृजुर् गायनी-जनाः ।
ष-ऋ-गा-मा-प-धै-न्य्-आख्यैः स्वरै रागान् नवान् नवान् ॥२०॥
ते गायनीजना गान-पराः श्री-गोप्यो नाना-शब्द-वन्धेन ष् ऋ गा म प धै न्याख्यः षड्भ, ऋषभ गान्धार मध्यम पञ्चम धैवत निषादेत्याख्या येषां तैः सप्तभिः स्वरैर् नवान् नवान् पूर्वान् पूर्वान् । किम् वा अपूर्वाद्यपूर्वान् । किम् वा नूयते इति नव उत्तमस् तओद्रूपान् । किम्वा उत्तमाद् अप्युत्तमान् रागान् ससृइजौः ॥२०॥
स्वरान् आलापयन् शुद्धान् सङ्कीर्णांश् च सहस्रधा ।
गीतं च मार्ग-देशीय-भेदात् ता बहुधा जगुः ॥२१॥
ताः श्री-गोप्यः शुधान् शुधाख्यान् सङ्कीर्णान् सङ्कीर्णाख्यांश् च । किम्वा आद्यन्त-ग्रहणेन मध्यस्थस्य सालगस्य च ग्रहणात् शुधान् सालगान् सङ्कीर्णंश् च स्वरान् सहस्रधा तत् तद्भेदैः सहस्र-प्रकारान् कृइत्वा जगुः । शुधसालग-सङ्कीर्णानां मार्ग-देशीययोश् च लक्षणानि यथा तत्रैव सङ्गीत-दर्पणे । अन्योपजीविता-शून्यः शुधोऽन्यस्य तु जीवनात् । सालगः स तु विज्ञेयः सङ्कीर्णो द्वयजीवना दिति । गीतं वाद्यं नर्तनं च त्रयं सङ्गीतम् उछते । मार्गदेशीय-भेदेन सङ्गीतं द्विविधं मतं । तत्र देशस्थया गीत्या यत् स्याल्लोकानरञ्जकं । देशे देशे तु सङ्गीतं तद्देशीयमितीर्यते । मार्ग-लक्षणं तत्रैव द्वितीय प्राणे विवृइतम् अस्ति । वाहुल-भयाद् अत्र न लिखितं ॥२१॥
प्रावृण्-नभ इव स-घनं सूची-मूलम् इव स-शुषिरं गानम् ।
गगनम् इवातिततं तद् रत्नम् इव बभौ सदा नद्धम् ॥२२॥
तत् नृइत्य-स्थले जातं श्री-गोपीनां गानं वभौ रराज । किम् इव । प्रावृइण्णभ इव । पृआवृइषो वर्षा-कालस्य नभ आकाशं यथा सघनं समेघं स्यात् तथेदं सघनं कंस्य-तालादि-वाद्य-सहितं । स्त्रियां प्रावृइट् स्त्रियां भूम्नि इत्यमरः । शुषिरेणविवरेण सहितं । तथेदं शुषिरेण वंश्यादि-वाद्येन सहितं । शुषिरं विवरं विल मित्यमरा । पुनः गगनम् इव । गगनं यथा अतिततः अति-विस्तृइतं तथेदम त्यतिशयं । ततं वीणादिकं यत्र तथाभूतं । पुनः रत्नम् इव यथा सदानधं वधं । नह वन्धने । थेदं सदानधः सत् उत्तममानधं मुरजादिकं यत्र तत् ततं वीणादिकं वद्यमानधं मुरजादिकं । वंश्यादिकन्तु शुषिरं कांस्य-तालादिकं घन मित्यमरः ॥२२॥
योऽयं महान् ध्वनिर् अभून् नट-नर्तकीनां
मञ्जीर-सद्-वलय-कङ्कण-किङ्किणीजः ।
पत्ताल-सम्पद्-अनुगामितया चतुर्षु
वाद्येषु तेषु किल पञ्चमतां स लेभे ॥२३॥
नट-नर्तकीनां श्री-कृइष्ण-व्रज-सुन्दरीणां मञ्जीरादि-जन्मा योऽयं महान् ध्वनिर् अभूत् । अत्र वर्णनावेशेन सक्षादिव स्फुरणात् अयमित्य् अग्र-प्रसारिताङ्गुली निर्दिष्टः । स ध्वनिः पत्ताल-सम्पद् अनुगामितया पत्तालाः पादतालास्त एव सम्पदः स्वपोषिकस् तासाम् अनुगामितया । ता अनुगामिन्यो यस्य वा तत् तया । तत् तालेति पाठे तु । तत् स तालो घन-प्रधानं कंस्यतालः सम्पद्स् तस्य सम्पदस् तदादि-वाद्य-रूपा ततः शुषिरानध-रूपाश् च । स च ताश् च ते । तेषाम् अनुगामितया ते अनु गामिनो यस्य वा तत् तया अर्थात् तत् तत्-सहित्येन तेषु चरुर्षु घनादिषु मध्ये पञ्चमतां लेभे ॥२३॥
आस्ये गीतिस् तद्-अभिनयनं श्री-करे श्री-पदाब्जे
तालो ग्रीवा कटिषु धुवनं नेत्रयोर् दोलनं च ।
सव्यासव्यागमन-गमनं तारकायां कटाक्षः
कृष्णस्याब्जे मनसिज-सुखं बल्लवीनां तदासीत् ॥२४॥
तदा तस्मिन् नृइत्य-काले वल्लवीनामास्ये गीतिर् गीतं । श्री-करैः तस्य गीतस्य अभिनयनं अर्थ-व्यञ्जनं । श्री-पदाब्जे तालः । ग्रीवा-कटिषु धुवनं कम्पनं । नेत्रयोर् दोलनमितस् ततश् चलनं । तारकां नेत्र-कनीनिकायां सव्या-सव्यौ वाम-दक्षिणौ भागौ प्रति आगमनं च गमं च तत् । तारकाक्ष्णोः कनीनिके त्यमरः । श्री-कृइष्णस्य मुखाब्जे मनसिज-सुखं आसीत् श्री-कृइष्ण-मुख-दर्शने सम्भोग-सुखम् आसीदित्यर्थः । दर्शनस्य सम्भोग-विशेषोक्तत्वात् । आसीदिति अकर्म्क-प्रयोगात् प्र्यत्नं विनैवैतत् सर्वम् आसीदिति ज्ञेयं ॥२४॥
जातयः श्रुतयो याश् च मूर्च्छना-गमकाश् च ये ।
नोच्चरन्ति विना वीणां कण्ठे तांस् तांश् च ता जगुः ॥२५॥
पुनः सूची-मूलम् इव तद् यथा स-शुषिरं या जातयः श्रुतयो मूर्च्छनाश् च ये च गमकाः वीणां विना नोच्चरन्ति ता जात्यादीस् तांश् च गमकान् ता गोप्यः कण्ठे जगुः ॥२५॥
असम्मिश्रा जातीः श्रुति-गमक-रम्याः स्वर-ततेः
समुन्नीन्ये यैका मुदित-हरिणा साध्व् इति गिरा ।
पुपूजे तेनेयं तद् अपि च तदायासम् अनयद्
ध्रुवाभोगं सास्माद् अलभततरां मानम् अधिकम् ॥२६॥
या एवा काचित् गोपीश्वर-ततेर्जातिर् असम्मिश्र-व्यक्ताः श्रुति-गमकरम्याश् च कृइत्वा उन्नीन्ये उच्चैर् अगायत् । इयं सा गोपी तेन मुदित-हरिणा साध्विति गिरा पुपूजे तदा । तदपि च ताः स्वरततेर् जातिर् अपि च या गोपी ध्रुवाभोगं अनयत् । ध्रुवं नीत्ब्वा आभोगञ्चानयत् । सा अस्माच्छ्री-कृइष्णाद् अधिकं मानं पूजामलभततरां । अतिशयेनालभतेत्यर्थः । ध्रुवाभोगयोर् लक्षणं यथा तत्र दर्पणे । धातु-प्रवन्धावयवः स चोद् ग्राहादि भेदतः । चतुर्धा कथितो भागस् त्वद्य उद्ग्राह-सञ्ज्ञकाः । आदावुद् गृइह्यते गीतं येनोद्ग्राहः स उच्यते । मेलापको द्व्तीयस्तूद्ग्राह-ध्रुवक-मेलनात् । ध्रुवत्वाधुव सञ्ज्ञस् तु तृइतीयो भा-उच्यते । आभोगस्त्वन्तिमो भागोगीत-पूर्णत्व-सूचक इति ॥२६॥
छालिक्य-नृत्ये राधाया देयम् अन्यद् अपश्यता ।
तुष्टेनात्माऽर्पितस् तस्यै कृष्णेनालिङ्गन-च्छलात् ॥२७॥
श्री-राधायाः छालिक्य-नृइत्ये छालिक्यं इति नृइत्य-विशेषस् तस्मिन् तुष्टेन तसै देयमन्यत् किम् अप्यश्यता कृइष्णएनालिङ्गनच् छलात् तस्यै आत्म ऽर्पितः ॥२७॥
कृष्णे कान्तां नटयति मुदा क्वापि वंशी-प्रगाणैर्
नर्मोन्नीतं स्खलनम् इह सा तस्य दृष्ट्या दिशन्ती ।
तालं तस्य स्खलितम् अपि सम्भालयन्त्य् आत्मनो द्राक्
तं चाप्य् एषा नटयति तथा क्वापि वीणादि-गानैः ॥२८॥
इह नृइत्यस्थले क्वापि समये श्री-कृइष्णो वंशी-प्रगाणैः कान्तां मुदा नटयति सती तस्य व्री-कृइष्णस्य स्खलनं गानानां स्खलनं सा कान्ता श्री-राधा नर्मोन्नीतं नर्मणा कौतुकेनोच् छलितं स्थापितं यथा स्यात् तथा दृइष्ट्या दिशन्ती सती गायन्तं तं किम्वा पश्यन्तीरन्याः दर्शयन्ती सती तस्या स्खलितं तालमपि द्राक् शीघ्रं सम्भालयन्ती । क्वापि समये एषा श्री-राधापि आत्मनो वीणादिगानैस् तं च कृइष्णं तथा नटयति ॥२८॥
कृष्णेन राधाथ तया समं हरिर्
यथा ननर्तात्र जगाव् अवादयत् ।
साहाय्यकोत्कापि तयोः सखी-ततिर्
नालं तथासीन् नृति-गान-वादने ॥२९॥
अत्र रङ्ग-स्थले कृइष्णेन समं राधा । अथान्तरं तया समं हरिश् च यथा ननर्त जगाव-वादयत् । तथा तयोः साहायके सहायत्वे उत्का उत्कण्ठिता ऽपि सखीतति नृइत्ये गाने वदनेऽप्यलं समर्थ्य नासीत् ॥२९॥
तालावसाने हरिर् आत्म-पाणि-
न्यासं प्रिया-वक्षसि संविधत्ते ।
प्रियापि सव्येन करेण तुष्टा
निरस्यतीशस्य करं रुषेव ॥३०॥
तालस्यावसाने अन्ते हरिरात्मनः स्वस्य पाणिन्यासं प्रिया-वक्षसि संविधत्ते करोति प्रिया तुष्टापि सव्येन करेण ईशस्य कृइष्णस्य करं रुषेव निरस्यति निवारयति ॥३०॥
जानुभ्यां क्षितिम् आलम्ब्य प्रसार्यैका ततौ भुजौ ।
जुघूर्णे काञ्चनी-वेग-क्षिप्तेव स्मर-चक्रिका ॥३१॥
एका गोपी जानुभ्यां क्षितिं पृइथिवी-मालम्बा भूजौ ततौ कृइत्वा वामदक्षि-णयोर्-विस्तीर्णौ कृइत्वा प्रसार्य लम्बयित्वा जुघूर्णे केव वेगेन क्षिप्ता काञ्चननिर्मिता स्मरस्य चक्रिकेव ॥३१॥
लीलोत्सर्पापसर्पाभ्यां दोः-प्रसार-निकुञ्चनैः ।
अङ्गान्य् अङ्गैः स्पृशन्त्य् अन्या नृतिं चक्रेऽन्य-दुष्कराम् ॥३२॥
अन्या काचिद् गोपी लीलयोत् सर्पाप-सर्पाभ्यां दोषोः वाह्वोः प्रसारैर् निकुञ्चनैश् चाङ्गैर् रङ्गानि स्पृइशन्ती सती नृइतं चकार । किम्भूतां अन्यदुष्करां अन्यैः कर्तुं दुःशक्यां ॥३२॥
स्पृष्ट्वा करैकेन भुवं क्वचित् परा
देहं परावृत्त्य मुहुर् मुहुर् दिवि ।
पतन्त्य् अनृत्यद् भुवि सा कदाप्य् असौ
विना तद्-आलम्बनम् अम्बरे परम् ॥३३॥
परा काचिद् गोई क्वचित् रासे क्वचित् समये क्वचित् प्रदेशे वा करैकेन एकेन करेण भूवं स्पृइष्ट्वा दिवि आकाशे देहं मुहुर् मुहुः परावृइत्य भ्रमयिता भुवि पतन्ती सती अनृइत्यत् । सोक्तासौ गोपी पुनः कदापि समये तदालम्बनं पृइथिव्यालम्बनं विनापि परं केवले अम्बरे आकाक्शे तथा देहं मुहुर् मुहुः परावृइत्या-नृइत्यत् । शरम् इत्यव्यं । गोपीनाम् आकाशे नृइत्यं नाश्चर्यं सर्व-शक्तिमत्वात् । अग्रे वक्षमाणस्य गीतं वाद्यं च नृइत्यम् इत्येतत् श्लोके वर्णितस्य ब्रह्मादिनां नृइत्यादेः क्र्तृइत्वाच् च ॥३३॥
ऊर्ध्वे स्थितोत्तानतया विभुग्ना
क्षीणोदरी पार्ष्णिग-वेणिर् एका ।
ननर्त पृष्ठातत-शिञ्जिनीका
कृष्ट्वा तनोर् हेम-धनुर्-लतेव ॥३४॥
एका गोई पृइष्ठे आतता संयोजिता शिञ्जिनी गुणो यस्याः तथाभूता सती कृइष्टाया अतनोः कन्दर्पस्य हेम-निर्मिता धनुर्लता तद् वत् उत्तान-तयोर् द्वेस्थिता सती क्षीणं पृइष्टे लग्नमिव उदरः यस्यास् तथाभूता पार्ष्णि-लग्ना वेणिर् यस्यास् तथान्भूता विभुग्ना वक्रा सती ननर्त । धनुर्ज्या शिञ्जिनी गुण इति अमरः । तद्ग्रन्थी घुटिके गुल्फौ पुमान् प्कर्ष्णिर् अधस्ततोर् इति च ॥३४॥
मञ्जीरान्तर्गत-विवरगान् कापि तालानुरोधाद्
एक-द्वि-त्रि-क्रम-वशतया वादयन्ती कलायान् ।
सर्वान् क्वापि स्थगयति पदौ चालयन्त्य् अत्यपूर्वं
नृत्यन्त्य् एषा गुणिभिर् अखिलैः साधु-वादैः पुपूजे ॥३५॥
क्वापि गोपी पादौ चालयन्ती सती मञ्जीरान्तर्गत-विवरगान् नूपुरयोर् मध्यस्थ-विवरगतान् कलायान् चणक-सदृइश-स्वर्णादि-निर्मित-विशेषान् तालानुरोधात् तालानुरोधं कृइत्वा तालान् अनुसृइत्य एकद्वि-त्रि-क्रम-वशतया एकञ्च द्वौ च त्रींश् च इति क्रमेण कृइत्वा सर्वान् वादयन्ती सई स्थगयति तालनिवृइतौ निवर्तयति । क्वापि समये अत्य-पूर्वं नृइत्यन्ती सती अखिलैर् गुणिभिः श्री-कृष्णादिभिः सभ्यैः साधुवादैः साधु साध्विति वादैः पुपूजे ॥३५॥
गीतं वाद्यं च नृत्यं विधि-शिव-रचितं यच् च वैकुण्ठ-लोके
यल् लक्ष्मी-कान्त-लक्ष्मी-चय-नय-रचितं स्वेन यद् यत् प्रणीतम् ।
अन्यागम्यं यदाभिर् व्रज-वर-ललना-नर्तकीभिश् च सृष्टं
रासे कृष्णस् तद् एतन् मुहुर् इह कुतुकी सर्वम् आभिर् व्यतानीत् ॥३६॥
वैकुण्ठ-लोके विधिशिवेति विधिशिवादिभि देवैः रचितं भवत्-सन्तोषार्थं अति प्रयत्नेन इव कृइतं यत् गीतं वाद्यं नृइत्यं चेति त्रिकं । लक्षीकान्तेन श्री-मन्नारायणेन लक्षीचयेन च नयेन नीत्या तत्प्र्त्वेन रवितं यद्गीतादित्रिकं । अयागम्यं अन्यैर् अगम्यञ्चेति तत् यत् त्रिकं । आभिः श्री-व्रजवर-ललना-रूप-नर्तकीभिश् च सृइष्टं यत् त्रिकं । तद् एतत् सर्वं कुतुकी श्री-कृइष्णः आभिः श्री-राधादि-व्रज-सुन्दरीभिः सह रासे मुहुर् व्यतानीत् पूर्वतो विस्तारयामास एकैकं कोटि-कोटि-गुणी-चकारेत्यर्थः ॥३६॥
काश्चित् पश्यति काश् च चुम्बति पराः साकूतम् आलोकते
कासाञ्चिद् दशन-च्छदौ पिबति सोऽन्यासां कुचौ कर्षति ।
वक्षोजे नखरान् अतर्कितम् अधात् कासां च नृत्ये भ्रमन्न्
एवं रास-मिषेण ताः स रमयन् रेमे रसाब्धौ हरिः ॥३७॥
स हरिः श्री-कृइष्णः नृइत्ये भ्रमन् सन् अतर्कितं यथास्यात् तथा काश्चिद् गोपीः पयति । काश् च चुम्वति । परा अन्या साकुतं साभिप्रायं यथा स्यात् था-लोकते पश्यति । कासाञ्चिद् दशनच्छदा-वौष्ठाधरौ पिवति । अन्यास्यां कुचौ कर्षति कासां च वक्षोजे नखरानधात् । एवं रासस्य मिषेण व्याजेन रसाब्धौ ताः श्री-राधादीः रमयन् स्वयं रेमे ॥३७॥
एवं गायन् गाययंस् तान् स्व-दारांश्
चित्रं नृत्यन् नर्तयन् नर्तितस् तैः ।
गीतश् चैतान् श्लाघयन् श्लाघितस् तै
रेमेऽत्युच्चैर् बालको वा स्व-बिम्बैः ॥३८॥
स उक्तः श्री-कृइष्णः एवां तान् स्वदारान् श्री-व्रज-सुन्दरीर् गाययन् नर्तयन् सन् । तैर् गीतो नर्तितश् च स्वयं चित्रं यथा स्यात् तहा गायन् नृइत्यन् तैः श्लाघितः एतान् ल्शाघयन् सन् तैः सहात्युच्चैर् अतिशयं रेमे । कैः क इव । स्वविम्बैः स्व प्रितिविम्बैर् वालको यथा क्रीडति तथा । वा-शब्द उपमार्थः ॥३८॥
काचित् समाघ्राय भुजं निजांसे
न्यस्तं हरेः साधु-पटीर-लिप्तम् ।
आनन्द-मग्नोत्पुलकाश्रु-कम्पा
सञ्चुम्ब्य शम्पेव बभौ स्थिराब्भ्रे ॥३९॥
काचिद् गोपी निजांसे, स्वस्याः स्क्न्धे न्यस्तं साधु-पटीरेणोत्त-चन्दनेन लिप्तं हरेर्-भुजं समाघ्राय आनन्द-मग्नोत्-पुलकाश्रु-कम्पा सती अव्भ्रे मेघे स्थिरा शम्पेव वभौ ॥३९॥
सा नृत्यजा श्रान्तिर् अमूर् मृगाक्षीर्
विश्रामयामास विलास-वृन्दात् ।
स्नेहाकुलालीव विभूषयन्ती
स्वेदाङ्कुरैर् भाल-कपोलयोस् ताः ॥४०॥
सा नृइतेन जाता श्रान्तिः स्नेहा-कुला सखीव अमूर्मृइगाक्षीः श्री-गोपीः स्वेदाङ्कुरैर् भाल-कपोलयोर् विभूषयन्ती सती विलास-वृइन्दात् ता विश्रामयामास । यद्यपि ताः श्री-कृइष्ण-सङ्ग-विलासे सन्ततम् अतृइप्तास् तत्ःआपि समयनुसृइत्यागतायाः श्रानेः सेवाम् अङ्गीकृइत्य विशश्रमुर् इत्यर्थः ॥४०॥
शिथिल-वसन-केशाः श्वास-वेल्लत्-कुचाग्राः
श्रम-जल-युत-भालाः सालसाङ्ग्यः क्रियासु ।
क्लम-जनित-रुचापि प्रेष्ठ-नेत्रातितुष्टिं
पुपूषुर् अधिकम् एता रास-नृत्यावसाने ॥४१॥
रासे नृइत्यावसाने एताः श्री-गोप्यः क्लमजनितया रुचा कान्त्यापि प्रेष्ठस्य श्री-कृइष्णस्य नेत्रयोर् अतितुष्टिम् अधिकं यथा स्यात् था पुपुषुः । कीदृइश्यः ? शिथिलतेत्यादि-विशिष्टाः ॥४१॥
फुल्ल-पुण्डरीक-षण्ड-गर्व-खण्डि-चक्षुषो
हिण्ड-दण्डजेश-कुण्डलेऽस्य गण्ड-मण्डले ।
कापि ताण्डवाति-पण्डिता स्व-गण्ड-मण्डलं
न्यस्य तेन दत्तम् अत्ति पर्ण-पूग-चर्वितम् ॥४२॥
फुल्लानां पुण्दरीकाणां सिताम्भोजानां यण्डस्य समूहस्य गर्वं खण्डितुं शीलं ययोस् तथा तु ते चक्षुषी यस्य तस्य अस्य कृइष्णस्य हिण्डली अण्डजेआउ मकरौ ताविव तदाकारे कुण्डले यत्र थाभूतेः गण्डयोर् मण्डले । ताण्डवे ऽतिप्-पण्डिता कापि गोपिका स्व-गण्ड-मण्डलं न्यस्य तेन दत्तं पर्ण-पूग-चर्वितम् अत्ति । नूदस् तु गूगः क्रमुको गुवाक खपुर इति अमरः ॥४२॥
स्व-स्पर्शोत्पुलकाकीर्णे तत्-स्पर्शोत्पुलकाञ्चितम् ।
कृष्णस्यांसे भुजं न्यस्य विशश्राम क्षणं परा ॥४३॥
परा गोपी कृइष्णस्यांसे स्क्न्धे भुजं न्यस्य क्षणं विशश्राम । स्कन्धे किम्भुते स्वस्याः स्पर्शेन हेतुनोत्पुलकैः कीर्णे व्याप्ते । भुजं किम्भुतं तस्य श्री-कृइष्णस्य स्पर्शाधेतोर् उत्कृइष्टैः पुलकैः अञ्चितं मण्डितं ॥४३॥
कुच-शिरसि निधायान्योन्य-संस्पर्श-हर्षात्
पुलकिनी पुलकाढ्यां स्वेदि-निस्वेद-युक्तम् ।
शत-शत-शशि-शीतं नृत्यज-क्लान्ति-दिग्धा
स्व-रमण-करम् एका श्रान्ति-शान्तिं जगाम ॥४४॥
एका गोपी नृइत्यजया क्लान्या दिग्धोपचिता सती कुचयोः शिरस्युपरि स्वस्य रमणस्य श्री-कृइष्णस्य करं निधाय श्रान्ति-शान्तिं जगाम प्राप । कुचशिरसि कथाम्भूते परस्पर-संस्पर्शेन हर्षात् पुलकिनि स्वेदवति । करं किम्भूतं पुलकाढ्यं स्वेद-युक्तं । एवम् अपि । शतश्त-शशिभ्यो ऽपि शीतं ॥४४॥
मुहुः कराब्जेन दायाब्धि-मग्नस्
तासां मुखात् स्वेद-जलानि कृष्णः ।
सम्मार्जयन्न् अप्य् अशकन् न मार्ष्टुं
तत्-स्पर्श-सौख्याद् द्विगुणी-कृतानि ॥४५॥
दयाब्धि-मग्नः श्री-कृइष्णः स्व-कराब्जेन तासां मुखाब्जात् स्वेदजलानि मुहुः सम्मार्जयन् नपि माष्टुं नाशकत् । तत्र हेतुम् आह । स्वस्य कृइष्णस्य स्पर्श-सौख्याद् धेतोर् द्विगुणी-ऋइतानि ॥४५॥
एकासु सख्यामृत-दिग्ध-बुद्धिः
कान्तस्य संव्यान-पटाञ्चलेन ।
ममार्ज स-स्वेद-जलं निजास्यं
स्वस्यापि तेनास्य च तादृशं तत् ॥४६॥
एका गोपी । सुष्ठु सख्यम् एवामृइतं तेन द्विग्धा संयुक्ता वुधिर् यस्यास् तथाभूता सती कान्तस्य श्री-कृइष्णस्य संव्यान-पटस्योत्तरीय-वस्त्रस्याञ्चलेन स्वेद-जल-सहितं निज-मुखं ममार्ज । स्वस्य स्वस्या अपि तेन संव्यान-पटाञ्चलेनास्य श्री-कृइष्णस्य तादृइशं सस्वेदजलं तत् मुखं चकारान् मार्ज ॥४६॥
कृष्णाङ्ग-सङ्गादि-विलास-सिन्धाव्
आनन्द-जालस्य तरङ्ग-मग्नाः ।
भ्रश्यत्-स्व-माल्याम्बर-कुन्तलानां
नासन्न् अलं संवरणे मृगाक्ष्यः ॥४७॥
मृइगाक्ष्यः श्री-गोप्यः । कृइष्णस्याङ्ग-सङ्गादयो विलासा एव सिन्धुस् तत्र यत् आनन्द-जालं आनन्द-समूहस् तस्य तरङ्गा लहर्यः परम्पराः । किम्वा । त्दानन्दाज् जातमालस्यं मग्नाः सत्यः । भ्रशतां स्वमाल्याम्बर-कुन्तलानां सम्बरणे ऽलं समर्थामासन् ॥४७॥
इत्थं समाप्य विविधाङ्गम् अनन्य-सिद्धं
ताभिः समं सरस-रास-विलास-नृत्यम् ।
प्रोद्यत्-स्मरं पुनर् अमुं रति-केलि-नृत्यं
कर्तुं समुत्क-मनसं हि विविद्य वृन्दा ॥४८॥
विविधाय् अङ्गानि यस्य थाभुतं । अनन्य-सिधं स्वतःसिधं सरसरास विलास-नृइत्यं । इत्थम् अनेन रूपेण ताभिः सह समप्य पुनः हि निश्चितं रतिकेलि-नृइत्यं । कर्तूं सम्यक् उत्सुकं मनो यस्य थाभूतं । अत्र हेतुमाह । प्रोद्यन् स्मरः कन्द्र्पो यस्य तमच्युतं श्री-कृइष्णं वृइन्द विविद्य विशिष्टं ज्ञात्वा ॥४८॥
हिम-बालुक-बालुकेऽमले पुलिने सह राधयाच्युतम् ।
विनिवेश्य तयोः पुरः सखी-निचयं स-गणा न्यवीविशत् ॥४९॥
अमूम् अच्युतं राधया सह पुलिने निवेश्य तयोः पुरः सखीनिचयं न्यवीविशत् निवेशयामास । पुलिने कीदृइशे अमले । पुनः हिम-वालुक-वालुका हिम-वालुका कर्पूरः सैव सेव वा वालुका यत्र तर घन-सारश् च्न्द्र-सञ्ज्ञः शिताभ्रो-हिम-वालुकके त्यमरः ॥४९॥
कुसुम-फल-रसैस् तैर् भूरि-भेदैः
कृतानि मणि-चषक-भृतानि स्वादु-वैशिष्ट्य-भाञ्जि ।
विविध-फल-विदंशैर् अन्वितानि न्यधात् सा
हरि-हरि-दयितानाम् अग्रतः सन्-मधूनि ॥५०॥
सा वृइन्दा हरेर् हरिदयितानां चाग्रे सन्मधूनि न्यधात् । कीदृइशानि तैः प्र्सिधैर् भुरिभेदैर् नानाविधैः कुसुमानां फलानं च रसैः कृइतानि मणि-निर्मितेषु चषकेषु पानपात्रेषु भृइतानि पुनः स्वादुवैशिष्ट्य-युक्तानि । विविध-फल-विदंशै युक्तानि च ॥५०॥
प्रत्यङ्गना-युगल-मध्यम् असौ स्व-शक्त्या
कृष्णः स्फुरंस् तद्-अधरामृत-वासितानि ।
हासैर् विदंस सदृशैर् अपि तैर् विदंशैस्
ताः पाययन्न् अपिबद् एष मधूनि तानि ॥५१॥
असौ कृइष्णः स्वशक्त्या प्र्त्यङ्गना-युगलानां मध्ये मध्ये स्फुरन् सन् विदंश-सदृइशैर् हासैस् तैर् विदंशैर् अपि सह ताः श्री-गोपी मधुनि पाययन् नपि तत् तासाम अधरामृइतेन वासितानि सुरभी-कृइतानि युक्तानि वा तानि मधुनि एष श्री-कृइष्णः स्वयं अपिवत् ॥५१॥
कन्दर्प-माध्वीक-मदाकुलाङ्गीं
कन्दर्प-माध्वीक-मदानुशिष्टे ।
राधां समादाय हरौ प्रविष्टे
विन्यस्त-तल्पं पुलिनान्तः-कुञ्जम् ॥५२॥
कन्दर्प-माध्वीकयोर् मदनाकुलम् अङ्गं यस्यास् तां राधाम् आदाय नीत्वा कन्दर्प-मध्वीकमदेनानुशिष्टे प्रेरिते मत्तेः हरौ विन्यस् तं तल्पं शया यस्मिन् तं पुलिनस्यान्तः-कुञ्जं प्रान्त-देश-वर्तिनम् एकान्त-कुञ्जं प्रविष्टे सति ॥५२॥
कन्दर्प-मद-वैक्लव्याद् घूर्ण-पूर्णेक्षणाः सखीः ।
वृन्दाप्य् आदाय कुञ्जेषु पृथक् पृथग् अशाययत् ॥५३॥
कन्दर्पमदेन वैक्लव्याद् धेतोर् घूर्णया पूर्णान् ईक्षणानि यासां ताः सक्ःईर् अपि वृइन्दा नित्वा पृइथाक् पृइथाक् कुञ्जेष्व् अशाययत् ॥५३॥
स्वाधीन-भर्तृकावस्थां प्रापय्य राधिकां तया ।
सहाययौ बहिः कृष्णः स्मयन् पूर्ण-मनोरथः ॥५४॥
श्री-कृइष्णः श्री-राधां स्वाधीन-भर्तृइकावस्थां प्रापय कृईडान्ते तस्या वेष-भूषणादिकं तदादेशेन प्रयत्नाद् विधाय तया सह पूर्णमनोरथः सन् स्मयन् सन् वहिर् आययौ ॥५४॥
तयेरितः स कुञ्जेषु प्रविश्य युगपत् पृथक् ।
स्वाधीन-भर्तृकावस्थां प्रापयामास ताः सखीः ॥५५॥
तया श्री-राधाया ईरितः प्रेरितः सन् स कृइष्णः पृइथक् एकैकं भूत्वा कुञ्जेषु प्रविश्य ताः सखीः स्वाधीन-भर्तृइकावस्थां प्रपयामास ॥५५।
निर्गतः कुञ्ज-निकरात् कृष्णस् ताभिर् अलक्षितः ।
एकः सन् राधिकाम् आगात् स्व-दर्शन-मृदु-स्मिताम् ॥५६॥
श्री-कृइष्णस् ताभिर् अलक्षितं यथा स्यात् तथा कुञ्जनिकरात् कुञ्ज-समूहात् निर्गतो-भूत्वा एकः सन् सा राधां आगादागमत् कीदृइशीं । तत् तस्य श्री-कृइष्णस्य दर्शनेन मृइदु मधुरं स्मितं यस्यास् तं ॥५६॥
तत्रागता कुञ्ज-ततेर् निवीता
दृष्ट्वा निजालीं पुरतो हसन्तीम् ।
यत्नावृत-स्वाङ्ग-चयालि-पालिर्
नम्रानना लोल-दृग् एतयोचे ॥५७॥
कुञ्जततेर् निऋवीता त्रागता पुततो हसन्ती जिजालीं श्री-राधां दृइष्ट्वा यन्तेनावृइतः आच्छादितः स्वाङ्गचयो यया सा नम्रानना लोल-दृइक् च । एवम्भूता आलि-पालिः सखी-श्रेणी तया श्री-राधया उचे ॥५७॥
यो नायकः सोऽत्र स वृन्दया मया
रङ्गे स्थितः क्वापि गतो न हि क्षणम् ।
नानर्तयद् वो रति-नर्तनेऽसकौ
दशेदृशी वो वपुषः कुतोऽभवत् ॥५८॥
यः श्री-कृइष्णो नायकः सोऽत्र रङ्गे रङ्गस्थले स-वृइन्दया मया सह स्थितोऽस्ति क्वापि क्षणम् अपि नहि गतोऽस्ति अतोऽसकावसौ नायको वो युस्मान् रति नर्तनेनानर्तयत् । वो युस्माकं वपुष ईदृइशी दशा कुतोऽभवत् ।५८॥
हरिर् हसन्न् आह निकुञ्ज-रङ्गे
नट्यस् त्व् इमा मूर्तिमतोज्ज्वलेन ।
रत्य्-आख्य-नृत्ये रस-नायकेन
सन्नर्त्तिता यत् स्फुट-तत्-तद्-अङ्काः ॥५९॥
इति श्रुत्वा हरिर् हसन् आह, मूर्तिमता रसनायकेन रस-श्रेष्ठेन रस-रूपनायकेन वा । उज्जलेन शृइङ्गार-रसेन अर्थान्मया कुञ्ज एव रङ्ग-स्थलं तत्र रत्याख्यनृइत्ये रतिर् इत्याख्या यस्य तस्मिन् नृइत्ये इमा नट्यः सम्यङ् नर्तिता आसुः । यत्स्फुटत् तत् तदङ्काः स्फुटाव्यक्तास् ते ते रति-नृइत्य-सम्बन्धिनो ऽङ्काश् चिह्नानि यासु तथाभूता भान्तीता शेषः ॥५९॥
कृष्णे स्व-सख्यां प्रणयोद्गतेर्ष्यास्
ता ऊचुर् अस्मिन् रति-नृत्य एषा ।
त्वां नर्तयन्ती सततं गुरुस् ते
कर्तुं त्वया वाञ्छति नः प्रशिष्याः ॥६०॥
हति श्रुत्वा ताः सख्या कृइष्णे स्व-सख्यां श्री-राधायां च प्रणयोद् गतेर्याः सत्य उचुः । हे कृइष्ण अस्मिन् रति-नृइत्ये त्वां सततं नर्तयती एषा ते तव गुरू राधा त्वया स्व-शिष्यद्वारेण नोऽस्मान् प्रशिष्याः शिष्यस्य तव शिष्याः कर्तुं वाञ्छति ॥६०॥
निजेच्छया यात्र गुरूपसत्तिः
स्याच् छिष्यता शास्त्र-मता तयैव ।
बलात्-कृता नैव ततो न शिष्या
वयं गुरुस् त्वं विफलः श्रमो वाम् ॥६१॥
निजेच्छया शिष्येच्छया या गुरू-पसत्तिर् गुरोः सेवा सङ्गो वा तयैव शिष्यता-शास्त्रमता शास्त्रं शस्त्र-विहितं मतं हस्यस् तथा-भूता स्यात् । ततो हेतोः सा शिष्येच्छया-कृइत-गुरूपसत्तिर् वलात् कृइत्वा नैव उचितैव अतस् त्वं स्व-गुरो राधया उपसत्तिं निजेच्छया आचरेति भाः । उपसत्तिः सङ्गमात्रे सेवायाम् अपि षोयिती ति मेदिनी । वयं शिष्या न त्वं गुरुर् न । अत्रैको ऽपि नकार उभयत्र योज्यः । न खलु गोपिकानन्दनोभवा नेत-श्लोकस्य श्री-तोषण्यर्थवत् । ततो वां युवयोः श्रमोऽस्म्यकं त्वदुपसत्तौ तवास्मत्-स्वीकृइतौ च यत्नौ विफल एव ॥६१॥
जानासि नो नो नकुलाङ्गनानां
वृत्तिं विशुद्धां सखि भोगिनि त्वम् ।
तथापि सम्पादयितुं स्व-साम्यं
किं खिद्यसे प्रेर्य वृथा भुजङ्गम् ॥६२॥
हे सखि हे भोगिनि हे सर्पि नकुलाङ्गनानां नोऽस्माकं विशुधां वृइत्तिं नो जानासि इति नेत्रस्फार-भ्रू-वृइति-युक्त-तर्जन-निषेधः । अर्थात् जानास्येव । तथाऽपि स्वस्या साम्यं सम्पादयितुं भूजङ्गं सर्पं त्वपिं प्रेर्ष्य वृइथा किं किमर्थं खिद्य्से । प्रेरण-रूप-खेदं प्राप्नोषि । अनेन व्यपदेशार्थेन साक्षाद् अर्थस् तु हे सहि भोगिनि । सखे दर्शय सन्निधिं । सख उदेयिवान् सत्वतां कुले इत्यादुक्तेः सखा कृइष्णस् तेन सह भोगो विलास-सुखं विद्यते यस्याः । भोग्ः सुखे धने स्र्पशरीर-फणयोर् अपी ति मेदिनी । किम्वा तस्य भोगः सम्भोगो-विद्यते यस्यां तथाभूते । सखि-कर्तृइक्-भोगशीले वा । अर्थात् सखि भोगिनीति भ्रातुर् भोगिनीतिवत् भर्त्सनं । हे राधे कुलाङ्गनानां नोस्माकं विशुधां वृइत्तिं नो जानासि न जानास्येव । तथापि स्व-साम्यं सम्पादयितुं भुजङ्गं स्वं कामुकं पुरुषं । भुजङ्गः पन्नगे शिड्गे इति नानार्थः । किम्वा भुजङ्गं भुज-गतं कुञ्जे भुजाभ्यां वधं । इदानीन्तु तद् वत् स्व-वशी-कृइतं हस्तं गृइहीतं वा । कृइष्णं अमुं प्रेर्ष्य वृइथा किं खिद्यसे ॥६२॥
इत्थं विधाय पुरु-नर्म-विहार-नृत्यं
ताभिः समं मद-करीव करेणुभिः सः ।
तत्-तच्-छ्रमापनयनाय कलिन्द-पुत्र्यां
कर्तुं समारभत वारि-विहार-नृत्यम् ॥६३॥
स शृइ-कृइष्णस् ताभिर् गोपीभिः समं इत्थं पुरु पूर्णं विहार-नृइत्यं विहाय तत् तच्छ्रमाणाम् अपनयनाय नाशाय करेणुभिर् हस्तिनीभिः सह मदकरीव कलिन्द-पुत्र्यां श्रीयमुनायां वारि-विहार-नृइत्यं कर्तुं समारभत ॥६३॥
तोये तदोरु-द्वयसे कदाचित्
स नाभि-मात्रे क्व च कण्ठ-दघ्ने ।
आकृष्य तास् ताभिर् अलं निषिक्तः
प्रिया हसंस् ताः कुतुकी न्यषिञ्चत् ॥६४॥
स कुतुकी श्री-कृइष्णः तदा तस्मिन्-काले उरुद्वयसे उरुपरिमिते तोये । कदाचित् समये नाभिमात्रे तोये । क्व च समये कण्ठ-दघ्ने कण्ठ-परिमिते तोये द्वयस-मात्र-दघ्ना एते परिमाणार्थ-प्रत्ययाः । ताः प्रिया आकृइष्य ताभिर् अलम् अतिशयेन निषिक्तिः सन् हसन् ता न्यषिञ्चित् ॥६४॥
एकैकाभिः पञ्च-षाभिः समस्ताभिः पृथक् पृथक् ।
नाना-लीला-ग्लहां ताभिर् व्यात्युक्षीं विदधे हरिः ॥६५॥
एकैकाभिः पञ्चषाभिः पञ्चाभिः षड्भिश् च समस्ताभिर् गोपीभिः सह हरिः पृइथक् पृइथक् एकैक-मण्डले एकैको-भूत्वा व्यात्युक्षीं जल-सेचन-क्रील्दां विदधे । कथम्-भूताभिः । नाना लीला-ग्लहान्तान्तिः । ग्लहो-क्रीडा-पराजये दयो निर्वधः पणः सोऽन्ते यासां ता ग्लहान्ताः । नानालीला एव ग्लहान्ता यासां ताभिः । यद् वा । ताभिर् इच्छेदः । व्यात्युक्षीं कीदृइशीं । नानालीलाश् चुम्बनालिङ्गणादयो ग्लहा यस्यास् तां ॥६५॥
जये तं तं समादातुं ग्लहं दातुं पराजये ।
अनिच्छुभिर् द्वयं कर्तुं स ताभिः कलहायते ॥६६॥
जये स्वासां जये तं तं ग्लहं तस्मात् कृइष्णात् समादातुं सम्यग् ग्रहीतुं । पराजये तस्मै दातुं । एतद्वयं कर्तुम् अनिच्छुभिस् ताभिः स कृइष्णः कलहायते कलहं करोति ॥६६॥
रात्रौ च चक्र-मिथुनेन युतानि भृङ्गः
फुल्लाम्बुजानि पिबतीति हरौ ब्रुवाणे ।
दोः-स्वस्तिकेन रुरुधुर् हृदयं प्रियास् ता
वासोऽञ्चलेन वदनं च विशङ्किता द्राक् ॥६७॥
रात्रौ चक्रमिथुनेन चक्रवाक्-युगलेन युतानि नन्निकटे स्थितानि फुल्लाम्बुजानि भृइङ्गः पिवतीति हरौ व्रुवाणे सति । यद्यपि स्वतोर् वृइहतां पखिणां युग्मेन युतानि तथापि स्व चाञ्चल्येन तद् युगानि स्प्रिष्ट्वा तानि निःशङ्कं पिवतीति स्व-दृइष्टान्तर् अभूत् भ्रमरस्यावार्यं दर्शयति सति ताः प्रियाः श्री-गोप्य-विशङ्किताः सत्यो दोःस्वस्तिकेन दोर्भ्यां स्वस्तिक-वन्धनेन वाम-दक्षिण-पाणिभ्यां दक्षिण-वाम-स्कन्ध-ग्रहणेन हृइदयं वक्षः वासोऽञ्चलेन वदनं च द्राक् शीघ्रं रुरुधुं ॥६७॥
निज-दृक्-विजित-शफर्या घट्टित-प्रसृता स्वयं हरिं चकिता ।
यत् परिरेभे राधा-सख्यं मेने स तेनास्याः ॥६८॥
निज-दृशा विजितया शफ्र्या लज्जया शृई-राधा-पदोर् मध्ये लयेन त्या घट्टिते स्पृष्टे प्रसृते जङ्घे यस्याः सा । अतश् चकिता सती राधा स्वयं यत् हरिं प्रिरेभे तेन हेतुना प्रि-रम्भेन स हरिस् तस्याः सख्यं मेने । प्रोष्ठी तु शफरी-द्वयो रित्यमरः । जङ्घातु प्रसृतेति च ॥६८॥
कमलाकमलि-सखीनां कमलाकमलि च विसाविसि-प्रधनम् ।
यद् अभूत् तत् पश्यत इह दूराच् चित्रं हरेर् मनो विजितम् ॥६९॥
इह जल-विहारे सखीनां कमला-कमलि कमलं जलं तेन तेन प्रवृत्तं । पुनः कमला-कमलि कमलं पद्मं तेन तेन प्रवृत्तं । विसा-विसि विसं मृणालं तेन तेन प्रवृतं च प्रधनं युधं यद् अभुत् तद् दूरात् पश्यतो हरेर् मनो-बिजितं तभिः परास् तं कृतं बभुवेति शेषः । इदं चित्रं युधे ताभिस् तासां कापि जिता नासीत् दूरात् पश्यतो हरेर् मनो-विजितम् इति चित्रं चित्रत्वे हतुः ॥६९॥
द्वित्राभिः पञ्चषाभिश् च सप्ताष्टाभिः सहाच्युतः ।
व्यतनोन् मण्डली-भूय जल-मण्डुक-वाद्यकम् ॥७०॥
अच्युतः । द्वित्राभिर् द्वाभ्यां त्रिभिश् च । पञ्चषाभिः पञ्चभिः षड्भिश् च । सप्ताष्टाभिः सप्तभिर् अष्टभिश् च ताभिः सह मण्डलीभूय जल-मण्डुक-वाद्यकं व्यतनोत् ॥७०॥
निर्लेपतां कुच-युगानि निरञ्जनत्वं
नेत्राणि मोक्षम् अगमन् रसनाः कचाश् च ।
नीव्यश् च निर्गुण-दशां सह-हार-माल्या
मग्नासु तद्-घन-रसे रमणीष्व् अमूषाम् ॥७१॥
तद्-घन-रसे-तस्मिन् जले । मेघ-पुष्पं घन-रस मित्यमरः । तस्मिन् घने निविडे असे जले क्रीडायां वा । रसो गन्ध-रसे जले । शृङ्गारादौ विषे विर्ये तिक्तादौ द्रव-रागयो रिति मेदिनी । रनणिषु मग्नासु सतीषु । अमूषां रमणीनां कुच-युगानि । निर्लेपतां निर्लेपता निर्गतो लेपः कुं कुम-चन्दन् आदि-लेपनं येभ्यस् तेषां भावः निर्लेपता । निर्गतो लेपः प्रकृति-वन्धो येषां ब्रह्म-इकनिष्ठानां तेषां भावस् तां नेत्राणि निरञ्जनत्वं निर्गतम् अञ्जनं कज्ज्वलं येभ्यस् तेषां भावः । तदेव निरञ्जनत्वं निर्गतम् अञ्जनं उपाधिर् येषां मुक्तानां तेषां भावस् तं । रसनाः किङ्किण्यः कचाश् च मोक्षं मोक्षः स्रंसः । स एव मोक्षो मुक्तिस् तं । हारैर्ःर् मुक्ता-मणि-मालाभिः माल्यैः पुष्प-मालाभिश् च । माल्यं कुसुम-तत्-स्रजो रिति मेदिनी । सह वर्तमाना नीव्यश् च । निर्गुण-दशां न् इर्गता स्त्रोटिता गुणा ग्रथन-तन्त्वो यासां तासां दशा सैव निगुण-दशा निर्गता-गुणाः सत्व-रजस् तमासि येषां तेषां दशा तां । अगनन प्रापुः अगमन् इति क्रिया सर्वत्र योज्या । तासु, दद्रसे मग्नासु तदियानि तानि कुचादीनि निर्लेपतादि शुष्क-ज्ञान-निष्ठ-धर्मान् आपुरिति विरोधाभासः । किंवा । भक्तिं लब्धवतः सधोः किम् अन्यद् अवशिष्यते इत्यादुक्तेस् तानि ते मुक्तानां धर्माः स्व-कृतार्थाय स्वयं एवाश्रिता इत्युचितम् एव ॥७१॥
आलेपनालङ्करणैर् अमूषाम्
अनावृता वारि-विहार-धौता ।
क्लिन्नाम्बरोद्यत्-सहजाङ्ग-शोभा
लोभाय कृष्णस्य दृशोस् तदासीत् ॥७२॥
आलेपनालङ्कार-नैरन् आवृता वारिबिहारेण धौता । क्लिन् नामार्द्रं सदङ्ग-लग्नम् अम्बरं यत्र सा । अमूषाम् उद्यन्ती सहजा अङ्ग-शोभा कृष्णस्य दृइषोर् लोभाय तदासीत् ॥७२॥
तासां वक्षश् चन्दनैः श्वेत-तोया
कृष्णा साम्यं गङ्गयासौ गतापि ।
शौरेस् तत्-तत्-केलि-सौभाग्य-लाभात्
ताभिः शश्वत् सुष्ठु सा ताम् अजैषीत् ॥७३॥
असौ कृष्णा यमुना । तासां रमणीनां वक्षसां चन्दनैः श्वेतः तोयं जलं यस्यास् तथा-भुता सती गङ्गया साम्यं गतापि । शश्वत् पुनः पुनस् ताभिः श्री-गोपीभिः सह शौरेस् तत्-केलि-सौभाग्य-लाभात् । सा यमूना तां गङ्गां सुष्ठु अजैषीत् ॥७३॥
इत्थं विधायाम्बु-विहार-नृत्यं
कान्तः सकान्ताभिर् अवाप्त-तीरः ।
सखी-कुलैर् मार्जित-केश-वर्ष्मा
दधार प्रत्युद्गमनीय-वस्त्रम् ॥७४॥
स कान्तः श्री-कृष्णः कान्टाभिः सह इत्थं वारि-बिहार-नृत्यं विधाय । अवाप्त तीरस् तीरङ्गतः सन् सखीकुलैर् मार्जितानि केषा वर्म च तथा-भूतः सन् परिधानोत्तीय-रूपं धौत-वस्त्र-द्वयं दधार ॥७४॥
वृन्दा ताभिः समं कृष्णम् आनीय स्वर्ण-मण्डपम् ।
तत्-पूर्व-कुट्टिमे पुष्पास्तरणे तं न्यवीविशत् ॥७५॥
वृन्दा ताभिः श्री-गोपीभिः समं श्री-कृष्णम् आनीय तत् तस्य स्वर्ण-मण्डपस्य पूर्व-कुट्टिमे पुष्पासने न्यवी-बिशद् वासयामास ॥७५॥
ततः सवृन्दोपनिनाय वृन्दा
कल्पाग-वल्लि-फल-सम्पुटांस् तान् ।
पूर्णान् विचित्राम्बर-भूषणानु-
लेपाञ्जनैर् नागज-वर्णकैश् च ॥७६॥
ततस् तदनन्तरं वृन्देन स्व-गणेन सह वर्तमाना बृन्दा तान् प्रसिधान् कल्पाग-वल्ली फल-सम्पुटान् कल्पा वाञ्च्छित-दाने यमर्थाश् च ते ऽगा वृइक्षास् ता वल्ल्यश् चेति तेषां फलन्येव सम्पुटास् तान् । उप कृष्णालिनां समीपं निनाय प्रापमामास । किम् भूतान् । विचित्रैर् मनोहरैर् अम्बर-भूषणानुलेपाञ्जनैः । नागजं सिन्दूरं वर्णकास् तिलकाद् यर्थं कस्तूर्यादयः श्री-कृष्णाङ्ग-भूषणार्थं गैरिकादयश् च तैश् च पूर्णान् ॥७६॥
तत्-तन्-नामाङ्कितान् आली-ततिर् आदाय पेटिकान् ।
कृष्णं राधां सखीश् चामूः पृथक् पृथग् अभूषयत् ॥७७॥
आलीततिः सेवा-परा सखी-श्रेणी । तत् तन् नामाङ्कितान् तेषां कृष्णादीनां नामभिर् अङ्कितान् लिखितान् पेटकान् तत् तत्-फल-रूपान् आदाय अमुं कृष्णं राधां सखीर् ललितादीश् च पृथक् पृथग् अभूषयत् ॥७७॥
हरिर् उज्ज्वल-रस-मूर्ती रति-परिणत-मूर्तयो हि राधाद्याः ।
विधुर् अयम् अस्य कलास् ता एकात्मनोऽपि तत्-पृथग्-देहाः ॥७८॥
हरिर् उज्ज्वल-रस-मुर्तिर् उज्ज्वल-रस एव मुर्तिर् यस्य सः । श्री-राधाद्या रति-परिणति-मुर्तयः रतेः परिणतिः परिपाक एव मुर्तयो यासां ताः । अयं श्री-कृष्णः विधुश् चन्द्रः । ताः श्री-राधादयः अस्य कलाः । तत् तस्मात् ते एकात्मनः । तथापि क्रीडार्थः पृथक् पृथग् देहादि येषां तथा-भूताः ॥७८॥
मिथः-स्नेहाभ्यङ्ग-रम्यः सख्योद्वर्तन-सुप्रभाः ।
तारुण्यामृत-सुस्नाता लावण्य-रसनोज्ज्वलाः ॥७९॥
मिथः-सौभाग्य-तिलकाः सौन्दर्य-स्थासकाञ्चिताः ।
अष्टाभिश् चित्रिताङ्ग्यश् च स्तम्भाद्यैर् भाव-वर्णकैः ॥८०॥
किलकिञ्चित-विव्वोकाद्य्-उन्मादोत्सुकतादिभिः ।
नाना-भावैर् अलङ्कारैः सुष्ठ्व्-अलङ्कृत-मूर्तयः ॥८१॥
सुप्रियास् ताः प्रिया यद्यप्य् अन्तर् इत्थं विभूषिताः ।
प्रियालिभिर् बहिर् अपि भूषिता भूषणैर् बभूः ॥८२॥
एकात्मतां वर्णयतिः मिथ इति चतुर्भिः । ताः प्रियाः श्री-राधादयः प्रियेण श्री-कृष्णेन सहितः सत्यो मिथः पर्ष् परं स्नादादौ गात्र-केश-लेपनीयं तेन सुष्ठु प्रभा यासां ताः । तारुण्यम् एवामृतं तेन सु-स्नाताः । लवण्यम् एव वसनः तेनोज्ज्वलाः । तथा मिथं सौभाग्यम् एव तिलकं यसां ताः । सौन्दर्यम् एव स्थासकश् चार्चिक्यं तेनाञ्चिताः । अष्टाभिः स्तम्भादैर् भाव-रूप-वर्णकैश् चित्रिताङ्ग्यः । किल-किञ्चितादि नाना-भावालङ्कारैर् अलङ्कृता मुतयो यासां ताः । यद्यपीत्थम् अन्तर् विभूषितास् तथापि वहिर् अपि प्रियालिभिर् भूषणैर् भूषिताः स्त्यो बभुः शुशुभिरे ॥७९-८२॥
अनङ्ग-गुटिकां सीधु-विलासं दुग्ध-लड्डुकम् ।
आनीतं रूप-मञ्जर्या यद् यानि वृन्दया वनात् ॥८३॥
फलानि रस-रूपाणि मधु-तुल्य-रसानि च ।
तान्य् अत्त्वाचम्य ताभिः स विवेश केलि-मन्दिरम् ॥८४॥
अथ तेषां भ्जनादिनापि तामेकात्मतां दर्शयति अनङ्गेति द्वाभ्यां । रूप-मञ्जर्या आनीतं यद् अङ्ग-गुटिकादिकं । वनाद् वृन्दया आनीतानि यानि फलानि । कथम्-भूतानि । रस-रूपाणि । अष्टि-वल्कलादि-हेयांश-वर्जितानि इत्य् अर्थः । पुनः । मधु-तुल्य-रसानि मधु-तुल्यो मिष्टः सौरभ्य-युक्तो मादकश् च रसो येषां तानि । तानि स श्री-कृष्णस् ताभिः सह अत्ता भूक्त्वा आचम्य केलि-मन्दिरं विवेश ॥८३-८४॥
**तस्मिन् मुक्त-चतुर्-द्वारि यमुनानिल-शीतले ।
कोटि-सूर्यांशु-सद्-रत्न-चयांशु-परमोज्ज्वले ॥८५॥
मनोज-केलि-निलयेऽगुरु-धूपाति-सौरभे ।
विन्यस्त-रत्न-पर्यङ्के हंस-तुलिकयान्विते ॥८६॥
सूक्ष्माम्बरावृतावृन्त-सत्-पुष्पास्तरणोपरि ।
नानोपधान-चित्रास् ते कृष्णः सुष्वाप कान्तया ॥८७॥ **
(सन्दानितकम्)
अथ केलि-मन्दिर-सौष्ठवं तत्र तयोः शयनं च वर्णयति तस्मिन् नित्यादि-त्रिभिः । तस्मिन् केलि-मन्दिरे कीदृशे । मुक्तानुद् घाटितानि चत्वरि द्वाराणि यत्र तत्र । पुनः यमुनाया अनिलेन शीतले । कोटि-सूर्यानां अंशव इवां-शवः किरणा येषां तेषां सद् रत्नाम् अंशुभिः प्र्मोज्ज्वले । मनोज-सम्बन्दि-केलीनां निलये निवासे । इति सार्थ-नामानि । पुनः अगुरूणां धूपेन गुरुनोत्तमेन धूपेन वा अति-सौरभे । ईदृशे तत्र मन्दिरे विन्यस्तो-मध्ये पातितो यो रत्न-पर्यङ्कस् तस्मिन् । कीदृशे । हंस-तुलिकया ऽन्विते ईदृशे तत्र पर्यङ्के सूक्ष्माम्बरेण् आवृतस्याच् छादितस्या-वृतानां सताम् उत्तमानां कोमल-सुगन्ध-सद्यः स्फुटितानां पुष्पाणाम् अस्तरणस्य शय्याया । उपरि कीदृशे तत्र । नानाविधैर् नाना-वर्नैः शिरः-कर-पादादि-योग्यैर् वृहन् मध्यम-लघु-भेद-युक्तैर् उपधानैश् चित्रोऽन्तः सीमा यत्र । तत्र श्री-कृष्णः कान्तया श्री-राधया स सुष्वप ॥८५-८७॥
पर्यङ्क-पार्श्व-स्थित-खट्टिका-युगे
सुखं निविष्टे ललिता-विशाखिके ।
कृष्णास्य-ताम्बूल-सुचर्वितानने
ताम्बूलम् आस्वादयतां निजेश्वरौ ॥८८॥
पर्याङ्कस्य तस्य पार्श्वयोः स्थिते खट्टिका-युगे खट्ता-द्वये शीललिता-विशाखे सुखं निविष्टे सत्यौ निजेश्वरौ ताम्बुलम् आस्वादयतां अभोजयतां । कीदृशे । कृष्णास्य-ताम्बुल-सुचर्वितानेन । कृष्णस्यास्य-सम्बन्धि । अर्थात्तेनास्यान् मुखात् स्वास्ये दत्तं । इत्थं भूतं ताम्बुलम् आननयोर् ययोस् ते ॥८८॥
श्री-रूप-रति-मञ्जर्यौ पाद-संवाहनं तयोः ।
चक्रतुश् चापरा धन्या व्यजनैस् ताव् अवीजयन् ॥८९॥
श्री-रूप-रति-मञ्जर्यौ तयोः श्री-राधा-कृष्णयोः पाद-सम्बाहनं चक्रतुः । अपरा स्ख्यो धन्यास् तौ व्यजनैर् अवीजयन् ॥८९॥
क्षणं तौ परिचर्येत्थं निर्गताः केलि-मन्दिरात् ।
सख्यस् ताः सुषुपुः स्वे स्वे कल्प-वृक्ष-लतालये ॥९०॥
ताः सख्य इत्थं तौ क्षणं परिचर्य केलि-मन्दिरान् निर्गत्य स्वे स्वे कुञ्जे सुषुपूः ॥९०॥
श्री-रूप-मञ्जरी-मुख्याः सेवा-पर-सखी-जनाः ।
तल्-लीला-मन्दिर-बहिः-कुट्टिमे शिश्यिरे सुखम् ॥९१॥
श्री-रूप-मञ्जर्यादयः सेवा-पराः सख्यस् तस्य लिला-मन्दिरस्य वहिः-कुट्टिमे सुखं शिश्यिरे ॥९१॥
यत् पालितं तत-मुखैर् वर्धितं
लीला-रसैर् मित्र-गणैर् निषेवितम् ।
भक्तैः सदास्वादितम् एतद्-आलिभिः
श्री-राधया कृष्ण-रसामृतं फलम् ॥९२॥
एवं श्री-कृष्णस्य निशान्तादि-नक्तान्ताष्ट-काल-लीला-वर्णनं समाप्य तस्य दासादि-चतुर्विध-प्रिकरेषु मध्ये मधूर-परिकराणाम् एव सर्वतः सुखोत्कर्ष इति दर्शयति यदिति । यत् कृष्ण-रसामृत-फलं । रसः प्रेमा दास्य-सख्य-वात्सल्य् मधुर-रूपः स एवामृतम् इवामृतं यस्य स रसामृतः । कृष्ण एव रसामृतः कृष्ण-रसामृतः । सुकृतम् एव वन्धुः सुकृत-वन्धुर् इतिवद् अवधारण-पूर्व-पद-कर्मधारयः । एवं कृष्ण-रसामृतम् एव फलं । इदं तु पद-द्वयं क्वचिन् न समस्यते इति-सूत्रात् मुखं चन्द्रो विराजते इतिवद् असमस्त-तया कृष्ण-रसामृतं फलम् इति द्वित्वे स्त्रितं । अर्थात् श्री-कृष्ण-रूप-रसामृत-फलः । तत-मुखैः श्री-नन्द-यशोदादिभिः । लिला-र्सैः । प्रियानुकरणं लिला प्रियं प्रीति-पात्रम् अन्यु अनुलक्ष्य क्रियते यत् तत्-प्रियानुकरणं तदेव लिला । लिला-विलास-क्रिययो रिति नानार्थः । अतः कृयापि लीला सैएव रसस् तैर् वात्सल्य-रूपैः करणैः सदा पालितं । यत् तत् फलं मित्र-गणेः श्री-सुवल-मधु-मङ्गलादिभिः । लीला-रसैः सख्य-रूपैः करणैः सदा वर्धितं । यत् तत् फलं भक्तैर् दासैः श्री-रक्तक-पत्रकादिभिर् लिला रसैर् मधुर-रूपैः सदा आस्वादितं । तत् सम्भोग-सुखम् अनुभूतम् इत्यर्थः ॥९२॥
कृष्णस्य वृन्दा-विपिनेऽत्र राधया
लीला अनन्ता मधुराश् चकासति ।
क्षणे क्षणे नूतन-नूतनाः शुभा
दिङ्-मात्रम् एतन् मयका प्रदर्शितम् ॥९३॥
मधुर-लीलानां आनन्त्यं दर्शयति कृष्णस्येति । अत्र वृन्दाबने श्री-राधया सह श्री-कृष्णस्य मधुर-लीला अनन्ताः सत्यश् चकासति राजन्ते । किम्भूताः । क्षणे क्षणे नूतनाद् अपि नूतना अत्य-पूर्वा इत्यर्थः । पुनः शुभाः । तासां दिङ्मात्रम् एवन् मया प्रदर्शितं ॥९३॥
श्री-रूप-दर्शित-दिशा लिखिताष्टकाल्या
श्री-राधिकेश-केलि-ततिर् मयेयम् ।
सेवास्य योग्य-वपुषानिशम् अत्र चास्या
रागाध्व-साधक-जनैर् मनसा विधेया ॥९४॥
लीला-प्रदर्शन-हेतुम् आह श्री-रूपेति । इयमाष्ट-काल्या अष्टसु कालेषु जाता श्री-राधिकेश-कृत-केलिततिः श्री-राधिकाया ईशः श्री-कृष्णस् तेन श्री-राधिकया सहेशेन कृष्णेन वा । श्री-राधिका चईशः कृष्णश् च ताभ्यां वा कृता केलिततिः । श्री-रूप-गोस्वामिना दर्शिता दिशा यस्याः सेति केलि-तति-विशेषणं । अत्रेति केलितत्यां केलितति-मध्ये । श्री-वृन्दाबने वा । अस्य श्री-कृष्णस्य अस्याः श्री-राधायाश् च सेवा । रागाध्व-साधक-जनै-राग-मर्ग-साधक-भक्तैर् मनसा मनो-भावितेन योग्य-वपुषा श्री-गुर्वाज्ञा तत्सेवा-योग्य-सिध-वपुषा । किम्बा साधका वस्थायां मनस । एतद् भङ्गे तु तद् योग्य-वपुषा । अनिशं समयानुसारं । विधेया कार्या ॥९४॥
पादारविन्द-भृङ्गेण श्री-रूप-रघुनाथयोः ।
कृष्ण-दासेन गोविन्द-लीलामृतम् इदं चितम् ॥९५॥
लीला-प्रदर्शन-हेतुम् आह श्री-रूपेति । इयमाष्ट-काल्या अष्टसु कालेषु जाता श्री-राधिकेश-कृत-केलिततिः श्री-राधिकाया ईशः श्री-कृष्णस् तेन श्री-राधिकया सहेशेन कृष्णेन वा । श्री-राधिका चईशः कृष्णश् च ताभ्यां वा कृता केलिततिः । श्री-रूप-गोस्वामिना दर्शिता दिशा यस्याः सेति केलि-तति-विशेषणं । अत्रेति केलितत्यां केलितति-मध्ये । श्री-वृन्दाबने वा । अस्य श्री-कृष्णस्य अस्याः श्री-राधायाश् च सेवा । रागाध्व-साधक-जनै-राग-मर्ग-साधक-भक्तैर् मनसा मनो-भावितेन योग्य-वपुषा श्री-गुर्वाज्ञा तत्सेवा-योग्य-सिध-वपुषा । किम्बा साधका वस्थायां मनस । एतद् भङ्गे तु तद् योग्य-वपुषा । अनिशं समयानुसारं । विधेया कार्या ॥९४॥
यैर् एतत् परिपीयते हृदि लसत्-तृष्णातिरेकान् मुहुर्
ब्रह्माद्यैर् अपि दुर्गमं व्रज-विधोर् लीलामृतं राधया ।
वृन्दारण्य-विलासिनी-कुमुदिनी-वृन्दस्य बन्धुर् व्रजे
कारुण्याद् अचिरेण वाञ्छिततमं तेषां तनोतु स्वयम् ॥९६॥
एतद् ग्रन्था स्वाद माहात्म्यं दर्शयति । यैरिति । श्री-राधया स व्रज-विधोः श्री-कृष्ण-लीलैवामृतमेतत् । यैर् भक्तैर् हृदि लसन्त्यास् तृष्णाया अतिरेकाद् अतिशयाद् धेतोस् तस्या अतिरेकं कृत्वा वा प्रि-पीयते । अत्याग्रहेण श्रूयते पठ्यते वा । इदं कीदृशं ? ब्रह्मादैर् अपि दुर्गमं अगोचरं, वृन्दारण्य-विलासिन्यः श्री-राधाद्या व्रजसुन्दर्यस् ता एव कुमुदियस् तासां वृन्दस्य वन्धुः श्री-कृष्ण-चन्द्रस् तेषां वाञ्छित-तमं अतिशयेन वाञ्छितं । भावे क्तः । वाञ्चितम् मिति लक्षणोक्तं वाञ्छितार्हं वस्तु श्री-राधया सह स्व-चरणार-विन्द-प्रेम-सेवालभनं । ब्र्ह्मादैर् अपि दुर्गमम् इति वाञ्छितस्य विशेषणं वा किम्बा कर्मणि क्तः । वाञ्चितम् इति विषेष्य-वोधक-विषेषणं । अयम् उदयति मुय्द्रा-भञ्जनः पद्मिनीना मितिवत् । एतद् विशेषण वोधितं विशेष्यं तल्लभनं ब्रह्मदैर् अपि दुर्गमं इति विशेषण-वद् उक्तं वा विषेष्यं तल्लभनं । विशेष्यस्य विशेषणवद् उक्तिर् यथा श्री-गीत-गोविन्दे । मीलद् दृष्टिमिलत्-कपोल-पुलकं सीत्कार्-धारा-वशाद् अव्यक्ता-कुआ-केलि-काकु-विल-सद् दन्तांशुधौताधरः । श्यामोत् तुङ्ग-पयोधरो-परि-परिष्वङ्गी कुरङ्गी-दृशो हर्षोत्कर्ष-विमुक्ति-निःसहतनोर् धन्यो धयत्याननम् इतात्र धन्य इति-विशेषण तनोतु विस्तारयतु । श्री-चरणार-विन्द-सेवां सन्ततं प्रापयत्वि त्यर्थः ॥९६॥
श्री-गोविन्द-लीलामृते श्री-राधा-कृष्णयोः रजन्यां ये विलासस् तैर् वलितस् त्रयो-विंशः सर्गः पूर्णो ऽभूद् इति शेषः ॥९७॥
श्री-मद्-गोविन्द-लीलामृत-वलित-सदर्थालितः कांश्चिद् अर्थां
ष्टिका यत्नाद् यथा-दृग् व्यरचि किल मया श्रील-वृन्दाबने अस्मिन् ।
एतां शाकार् कखाब्धि-क्षितिशरदि सहः-पूर्णिमेन्द्व् अह्नि पूर्णां
नाम्ना वृन्दाबनेन प्रचुरतरम् उदः साधवः शीलयन्तु ॥९७॥
इति श्री-सदानन्द-विधायिन्यां त्रयोविंश-सर्गार्थः ।
समप्तेयं श्री-वृन्दाबन-चक्र-वर्ति-विरचिता सन्दानन्द-विधायिनी नाम टीका ॥
श्रील-कृष्ण-दास कविराज् गोस्वामी विरचित श्री-गोविन्द-लीलामृत महाकाव्य समप्त ।
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽयं रजनी विलास वलितः पूर्णस् त्रयोविंशकः ॥
॥२३॥
…
इति श्री-कृष्ण-दास-कविराज-गोस्वामि-
विरचितं श्री-गोविन्द-लीलामृतं
महा-काव्यं समाप्तम्
…