द्वाविंशः सर्गः
**ताव् उत्कौ लब्ध-सङ्घौ बहु-परिचरणैर् वृन्दयाराध्यमानौ
प्रेष्ठालीभिर् लसन्तौ विपिन-विहरणैर् गान-रासादि-लास्यैः ।
नाना-लीला-नितान्तौ प्रणयि-सहचरी-वृन्द-संसेव्यमानौ
राधा-कृष्णौ निशायां सु-कुसुम-शयने प्राप्त-निद्रौ स्मरामि ॥१॥ **
तौ राधा-कृइष्णौ स्मरामि । कीदृइशौ , निशायां द्वादश-दण्डमिते नक्तकाले आदावुत्कौ परस्परं मिलितुमुत्सुकौ पश्चल्लव्ध-सङ्गौ । ततः प्रष्ठालीभिः सह वृइन्दया वहु-परिवरणैराराध्यमाणौ । ततस् ताभिः सह विपिन-विहरणैर् गानरासादिनृइत्यैर् लसन्तौ सन्तौ नानालीलाभिर् नितान्तौ गाढतरौ । यद्-वा निःशेषेण तास्तौ श्रान्तौ भूत्वा प्रणयिना सहचरी-वृइन्देन सम्यक् व्यजनहिमाम्वु-ताम्वुल-पाद-सम्वाहनादिना सेव्यमानौ सन्तौ कुसुमशय्यायां प्राप्तनिद्रौ ॥१॥
वृन्दा स-वृन्दाथ सहालि-वृन्दौ
वृन्दावनेशाव् अनुनाथ्य नाथौ ।
तद्-आलयालिन्दम् अनिन्द-शोभं
पूर्णेन्दु-कान्त्य्-उज्ज्वलितं निनाय ॥२॥
निजगणेना सहित सती सा वृइन्दा अथानन्तरं आलिवृइन्द-सहितौ नाथौ वृइन्दावनेशौ तौ अनुनात्य सम्प्रार्थ अनुनयं कृइत्वा तदालयस्य षद्रत्न-मन्दिरात् श्री-राधा-कुट्टिममाप तस्यालयस्यालिन्दं निनाय । कीदृइशं अनिन्दशोभां । न निन्दा यस्याः सा शोभा यस्य तं प्रघाण प्रघणालिन्दा वहिर्द्वारप्रकोष्ठके इत्यमरः ॥२॥
सा तत्र तौ पुष्प-चितान्तरायां
सुचीन-वस्त्रास्तरणान्वितायाम् ।
कलिन्द-कन्यानिल-शीतलायां
न्यवीविशत् काञ्चन-वेदिकायाम् ॥३॥
सा वृइन्दा तत्रालिन्दे काञ्चन-वेदिकायां तौ न्यवीविशत् उपवेशयामास । किम्भूतायां पुष्पैश्चितमन्तर् मध्यं यस्यास् तस्यां पुष्पोपरि सुसूक्ष्म-वस्त्रस्यास् तरणे-नान्वितायां ॥३॥
आवेशनाद् आलि-गणोपनीतैर्
विचित्र-पुष्पाभरणैश् च नाल्यैः ।
ताम्बूल-गन्ध-व्यजनैः सुतोयैः
सा तौ निजेशौ सगणौ सिषेवे ॥४॥
आवेशनात् शिल्प-गृइहात् आलिगनोपसमीपे नीतैर् विचित्र-पुष्पाभरणादिभिः सा वृइना सगणै सिषेवे ॥४॥
तत् काननं तां रजनीं प्रियास् ताः
कृष्णां च तां तत्-पुलिनानि तानि ।
समीक्ष्य कृष्णो हृदि जातयाभवत्
स प्रेरितो रास-विलास-वाञ्छया ॥५॥
कृइष्णस् तत्काननादिकं समीक्ष्य ह्रिदि जातया रासविलास-वाञ्छया प्रेरितोऽभवत् ॥५॥
**स-गणोऽरण्य-विहृतिश् चक्र-भ्रमण-नर्तनम् ।
हल्लीसकं युग्म-नृत्यं ताण्डवं लास्यम् एककम् ॥६॥
तत्-तत्-प्रबन्ध-गानं च सनृत्य-रति-नर्मणी ।
जल-खेलेत्य् अमून्य् एष रासाङ्गानि व्यधात् क्रमात् ॥७॥ **
(युग्मकम्)
एष कृइष्णः अमूनि रासाङ्गानि । क्रमात् व्यदादकरोदिति परेणान्वयः । अङ्गान्याह । आदावरण्य-विहारं ततः चक्र-भ्रमणेन सह नर्तनं । नर्तनैरिति पाठे रादृइश-नर्तनैः सह सगणो गणेन सहारण्यविह्रितिर् वनविहारं । हल्लीसकं “नारीणां मण्डलीनृइत्यं । ताण्डवं पूरूषनृइत्यं । लास्यं स्त्रीनृइत्यं स्त्री-पुरुषयोरेकदा मिलित्वा नृइत्यं । ताण्दवं पुरुषनृइत्यं । लास्यं स्रीनृइत्यं । एककं एकैकेन कृइतं नृइत्यं । तथाहि श्री-नारद-कृइत-पञ्चम-सार-संहितायां द्वितीयाद्याये । “पुन्नृइत्यं ताण्डवं प्राहुः स्रीनृइत्यं लास्यमुच्यते” इति । सनृइत्यं नृइत्यसहितं तत्तं प्रवन्धानां लोक-प्रसिधानां । रतिः रसस्यलीला । नर्म प्रिहासवाक्यादि जलक्रीडा चेत्येतानि ॥६-७॥
ज्योत्स्नोज्ज्वलं मन्द-समीर-वेल्लितं
स्व-सङ्गमोद्दीप्त-वसन्त-जृम्भितम् ।
नृत्यन्-मयूरं पिक-भृङ्ग-नादितं
वनं समीक्ष्यात्र विहर्तुम् ऐच्छत् ॥८॥
श्री-क्रीष्णः वनं समीक्ष्यात्र वने विहर्तुमैच्छत् वनं विशिनष्टि ज्योत्स्नया चन्द्रकिरणेनोज्जलं मन्दपवनवालितं । स्वस्य सङ्गमेनोद्दीप्त-वसन्तर्तुनाच जृइम्भितं नव्यपत्र-पुष्पादिभिर् विकाशितं । नृइत्यन्तो मयुरा यत्र तत् । पिक-भृइङ्गर् नादितं शब्दितं अनेन वसन्त-धर्ममुद्दीपनो-विभावव्चोक्तः ॥८॥
वंशी-गानेन तास्व् एष ज्ञापयामास वाञ्छितम् ।
तन्-नाम्नैवानुगानेन स ताभिश् चानुमोदितः ॥९॥
एष कृइष्णः वंवीगानेन तासु गोपीषु स्ववाञ्छितं ञ्जापयामास । तन्नाम्ना कृइष्णनाम्नैवानुगानेन प्रत्युत्तराकारेण ताभिः गोपीभिः स कृइष्णोऽनुमोदितश्च वभूवेति वेषः ॥९॥
कानने सुधांशु-कान्ति-शुभ्र-मञ्जु-विग्रहे ।
पुष्पिते समस् त्वयाद्य मे प्रियालि-वर्ग हे ।
रन्तुम् अत्र वाञ्छितानि चित्त-वृत्तिर् उद्वहेद्
एवम् अस्तु कृष्ण कृष्ण कृष्ण कृष्ण कान्त हे ॥१०॥
उक्तार्स्य व्यक्तिमाह,-हे प्रियालि-वर्ग! अत्र कानने ऽद्य तया प्रियालिवर्गेण समं रन्तं मे चित्त-वृइत्तिर्-वाछितानि अभिलाषानुद्वहेत् । कानने कथम्भूते । श्भ्रांशोश् च्न्द्रस्य कान्तिभिर् ज्योत्स्नाभिः शुभ्रोनिर्मलो मञ्जुर्महरश्च विग्रहो मूर्तिर्-वृइक्ष-लतादि-समूहो यस्य तत्र । इति श्रुत्वा ता ह्रिष्टा आहुः,-हे कृइष्ण हे कान्त एवमस्तु । अत्र सन्वम्स्तु । अत्र सम्वोदनपदस्य वाहुल्यं तासमनेकानानां सम्वोधनादिति वोध्यं ॥१०॥
उत्थितः स्व-रमणी-गण-सङ्गी
वृन्दयाप्य् अनुगतो मृदु गायन् ।
प्रत्य् अगं प्रति लतं प्रति कुञ्जं
स प्रदक्षिणतया भ्रमति स्म ॥११॥
आदौ वनविहारमाह,-वृइन्दयापि सह स्वरमीगण-सङ्गी स कृइष्णः उथितः सन् वृइन्दयानुगतो भूत्वा मृइदु गायन् प्रदक्षिणय्तया अगं अगं वृइक्षं वृइक्षं प्रति प्रत्यगं लतां प्रति प्रतिलतं कुञ्जं कुञ्जं प्रति प्रतिकुञ्जञ्च भ्रमति स्म वभ्रम ॥११॥
मृदु-मलयानिलैजित-लता-तरु-पत्र-चयं
सुमधुर-पञ्चम-ध्वनि-कला-चन-कोकिलकम् ।
ध्वनद्-अलि-बर्हिणं प्रणयिनी-गण-गीत-गुणो
वनम् अवगाह्य तत् स रमते हरिर् अत्र मुदा ॥१२॥
हरिः प्रणयिनी-गणैर् गीत-गुणः सन् तत् वनम् अवगाह्य प्रविश्यात्र वने मुदा वमते । वनं कीदृइशं ? मृइदू-मलय-पर्वत-वायुना एजितः कम्पितो लता-तरूणां पत्राणां चयः समूहो यत्र तत् । सुमधुर-पञ्चम-ध्वनि-कलायां चना निपुणाः कोकिला यत्रा तत् । ध्वानन्तोऽलयो भ्रमरा वर्हिणो मयुराश् च यत्र तत् । मयुरे-वर्हिणोवर्ही त्यमरः ॥१२॥
मूर्च्छोत्थिता इव पुनर् नवताम् इवाप्ताः
स्नाता इवामृत-रसैर् मधु-चित्रिता वा ।
वृन्दावने तरु-लता-मृग-पक्षि-भृङ्गा
आसन् हरेर् वन-विहार-विलोक-हर्षात् ॥१३॥
हरेर् वन-विहार-विलोक-जन्य-हर्याद् वृन्दावने तर्व्-आदयः । आदौ मूर्छिताः पश्चाद् उत्थिता इव । आदौ जिर्णाः पुनर् नवतां प्राप्ता इव । आदौ रोगादि-पीडिताः, ततः परं पुनर् अमृइत-रसैः स्नाता इव मधुना वसन्तेन चित्रिता वा इवार्थे आसन् बभूवुः श्री-कृष्ण-दर्शनाद्य्-अभावज-दुःखतो हठात् तद्-दर्शनज-हर्षातिशय-प्राप्ताव् एते दृष्टान्ताः ॥१३॥
कृत्वाग्रे द्विज-मृग-चञ्चरीक-वृन्दं
कृष्णोत्सुकम् अटवी-प्रहर्षिणीयम् ।
चन्द्रांशूत्कर-वलिता मरुच्-चलाराद्
आयान्तं स्वरितम् इवाभ्युपैति कृष्णम् ॥१४॥
मरुद्भिश् चला चञ्चला चन्द्रस्यांशूनाम् उकरौर् अतिशयैर् वलिता युक्ता । इयम् प्रहर्षिणी हर्ष्वती अटवी कृइष्ण्स्येक्षायाम् दर्शने उत्सुकम् द्विज-मृइग-चञ्चरीकाणाम् पक्षि-मृइग-भ्रमराणाम् वृइन्दम् अग्रे कृइत्वा आरात् समीपे आयान्ताम् कृइष्णम् त्वरितम् अभ्यूप-इतीव वभूवेति शेषः ॥१४॥
गौराङ्गीणां वपुः-कान्ति-मिलितेन्दु-रुचा वनम् ।
विलिप्तं भाति धौतं वा जलेन कल-धौतयोः ॥१५॥
गौराङ्गीणाम् वपुषः कान्तिभिर् मिलितया चन्द्ररुचा विलिप्ताम् वनम् कलदौतयोर् जलेन दौतम्वा इव भाति । कलदौतम् कलदौतम् रौप्य-हेम्नो रित्य मरः । रौप्यम् जलम् चन्द्र-किरण-गोपी-वपुः-कान्त्योः रुप्य-स्वर्ण-जलाभ्याम् उपमा ॥१५॥
श्री-राधिकाङ्ग-द्युति-वृन्द-सङ्गमात्
कृष्णाङ्ग-चञ्चद्-द्युतयो विरेजिरे ।
सुधांशु-मूर्तेर् द्युति-पुञ्ज-रञ्जिताश्
चलत्-तमालाग-दलालयो यथा ॥१६॥
चन्द्र-द्युति-पुञ्जैर्-अञ्जिताश् चपलास् तमालस्यागस्य दलानाम् पत्राणाम् आलयः श्रेण्यो यथा विराजन्ते तथा रादाङ्ग-कान्ति-वृइन्द-सङ्गात् कृइष्णाङ्गस्य चञ्चत्-कान्तयोर् विरेजिरे ॥१६॥
स्वागताः स्थ सुखिनः खगा मृगाः
शर्म वो लसति किं नगा लताः ।
भव्यम् अव्यवहितं मधुपा वस्
तान् अपृच्छद् अखिलान् इति कृष्णः ॥१७॥
हे खगाः यूयम् सुखिनः स्थ । हे नगाः हे लताः वो युष्माकम् शर्म सुखम् किम् लसति वर्तते? हे मधुपा वो ऽव्यवहितम् बिग्न-र्हितम् भव्यम् कुशलम् लसतीति कृइष्णस् तान् अखिलान् अपृइच्छत् ॥१७॥
किशलय-कर-भाक् सुपुष्पिताग्रा
मधुप-पिकालि-निनाद-मञ्जु-गाना ।
पवन-गुरु-विचालिताटवीयं
हरिम् अवलोक्य ननर्त नर्तकीव ॥१८॥
पवन-गुरुणा विचालितेयम् अटवी हरिम् अवलोक्य ननर्त । कीदृइशी ? किशलयाः पल्लवा एव करास् तान् भजतीति किशलयकरभाक् सुपुष्पित्म् अग्रम् यस्याः नर्तकी-पक्षे । प्रसन्न-दृइष्टी सा मदुप-पिकालीनाम् निनादो मञ्जु गानम् यस्याः सा ॥१८॥
राधा-कृष्णाव् अन्व् अनुचलतोऽसङ्ख्यान् भृङ्गान्
श्रान्तान् मत्वा पाययितुम् इव स्वं माध्वीकम् ।
वातालीवेल्लत्-किशलय-हस्तेनोत्फुल्ला
शश्वत्-प्रेमार्द्राह्वयति मुदा वासन्तीयम् ॥१९॥
राधा-कृइष्णाङ्गयोः सौरभेन तयोश् चलत् ऽसङ्ख्यन् भ्रमरान् मत्वा प्रेमार्द्रेयम् वासन्ति-माधव्यूत्फुल्ला स्वम् मधु पाययितुम् इव वायुचालित-किशलया हस्तेन तान् आह्वयति ॥१९॥
निज-कुल-धर्मम् अपोह्य गोपिका
सुखयति कृष्णम् इतीव शिक्षया ।
अपि सुरभौ स्फुटिताथ तन्
मुदे तम् अलि-रुतैर् इह नौति मालती ॥२०॥
गोपिका निज-कुल-धर्मम् अपोह्य त्यक्त्वा कृइष्णम् सुखयति इति शिक्षया इव सुरभौ वसन्त-काले स्फुटिता मालत्यपि तस्य कृइष्णस्य मुदे हर्षयालिरुतैस् तम् नौति स्तौति ॥२०॥
चञ्चन्-मत्त-भ्रमर-विलसितापाङ्गालोका कुसुम-विहसिता ।
नृत्यन्तीवानिल-चल-वपुषा मल्ली-वल्ली हरि-मुदम् अतनोत् ॥२१॥
मल्ली-वल्ली अनिलेन हेतुना चञ्चलेन वपुषा नृइत्यतीव हरेर् मुदमतनोत् । चञ्चन् मत्त-भ्रमराणाम् विलसितम् एवापाङ्गैर् नेत्रान्तैर् आलोको दर्शनम् यस्याः सा कुसुमान्य् एव विहसितम् हस्यम् यस्यः सा ॥२१॥
स्व-सविधम् अयितं वीक्ष्य कृष्णं लताली
प्रमुदित-विहग-ध्वान-नान्दीमुखीयम् ।
मलयज-पवनोल्लालसत्-पल्लवैजत्-
कर-विवृत-नयैर् नृत्यतीव प्रमोदात् ॥२२॥
स्वस्य स-विधं निकटं अयितं प्राप्तं कृइष्णं वीक्ष्य इयं लताली प्रमुदितानां विहगानां पक्षिणां ध्वनिः शब्द एव नान्दी नाट्य् आरम्भे मङ्गल-वाणी यस्याः सा मलयज-पवनेनोल्लालसतो ऽतिशयेन पुनः पुनर्नवा लसन्तः पल्लवा एव एजत्-कराः कम्पमान्करास् तैर् विवृइतिर् विस्तारितैर् नयर् नृइत्याभिनयैः प्रमोदान्नृइत्यतीव वभाविति शेषः ॥२२॥
प्रणयति कुञ्जावलिर् अपि गुञ्जा-तति-कृत-चित्रा कुसुम-विचित्रा ।
नव-दल-तल्पात्यलि-पिक-जल्पा स-दयित-कृष्णादिक-हृदि तृष्णाः ॥२३॥
कुञ्जावलिर् अपि दयितया श्रीराधया सह वर्तमानः सदयितः स-चासौ कृइष्णश् चेति स आदिर् येषां हृइदि तृइष्णाः सदैव कृइडा ऽभिलाषन् प्रणयति प्रकाशयति प्रकर्षेण प्रापयति वाकीदृइशी ? गुञ्जाततिभिः कृइतं चित्रं श्याम-रक्तादि-चित्र-रचना यत्र सा । पुनः कुसुमैर् विचित्रा मनोहरा । पुनः नवदलानां कोमल-पत्राणां तल्पं शय्या यत्र सा । पुनः अतिशयेनालिपिकानां जल्पो ध्वनि-रूप-कथनं यत्र सा ॥२३॥
राधा-शम्पालिङ्गित-देहेऽमृत-वर्षे
मन्द्र-ध्वाने कृष्ण-पयोदे स्फुरितेऽग्रे ।
केका-ध्वानैर् उन्नत-पिञ्छैः शिखिनीभिर्
नृत्यत्य् आरान् मत्त-मयूरावलिर् उच्चैः ॥२४॥
राध इव शम्पा विद्युत्तया आलिङ्गितो देहो यस्य तस्मिन् । अमृइतनां रूप-रागादीनां वर्षा यत्र तत्र । मन्द्रो गम्भीरो ध्वानो वंशी-ध्वनीः कण्ठ-ध्वानश् च यत्र तस्मिन् कृइष्ण-पयोदे ऽग्रे स्फुरिते सति शिखिनीभिर् मयुरीभिः सह मत्त-मयुरावलिः केकाभिः स्व-वाणीभिर् उन्नतैः पिञ्छैश् च सहोच्चैरारान् निकटे नृइत्यति आरात् दूरान्तिकयोः ॥२४॥
ध्वनद्-अलि-विहगं शीत-वातेरितं
परिणत-फल-युक् चन्द्रिका-रूषितम् ।
विकच-कुसुम-सत्-सौरभं श्री-हरेर्
वनम् इदम् अतनोद् इन्द्रियाणां मुदम् ॥२५॥
इदं वनं हरेर् इन्द्रियाणां मुदम् अतनोत् कथम्भूतं ? ध्वनत ऽलिविहगा- यत्र इति कर्णस्य । शीत-वातेर् इतमिति त्वचः । परिणतैः पक्कैः फलैर् युज्यत इति परिणत-फलयुग् इति रसनायाः । चन्द्रिकाभिर् ज्योत्स्नाभीर् ऊषितम् इति नेत्रस्य विकच-कुसुमानां सत् सौरभं यत्र तत् इति नासायाः ॥२५॥
अथ दर-फुल्लम् अशोक-लता-
स्तवक-युगं वृषभानु-सुता ।
स्वयम् अवचित्य हरेः श्रवसोश्
चपल-करेण दधौ सुमुखी ॥२६॥
वृइषभानुसुतादरेषत्फुल्लम् अशोकलतायाः स्तवकयोः पुष्प-गुच्छयोः युगं स्वयम् अवचित्य उत्थाप्य भावावेशाच् चलेन करेन हरेः श्रवसोः कर्णयोर् द्वये दधौ ॥२६॥
तद् अनु च चलिता स्वयं हरिणाऽप्य् असौ
प्रणय-कलहे सदाऽप्य् अपराजिता ।
तद् अपि स च तत्-कराद् अपहृत्य तत्-
स्तवक-युगलं प्रिया-श्रवसोर् न्यधात् ॥२७॥
तद् अनु तत्-पश्चत् स्तवक-युगम् आनेतुं श्रीहरिश् चलितस् तेन सह असौ श्रीराधा ऽपि चलिता पुनर् अपि स्तवक-युगं कृइष्णस्य कर्णे दातुम् उद्यतापि हरिणा सह प्रण्य-कलहे सदा अपराजिता अपराभूता । तद् अपि स कृइष्णस् तस्या राधायाः करात् स्तवक-युगम् अपहृइत्य प्रियायास् तस्या राधायाः श्रवसोर् न्यधात् । कृइष्णेन सह प्रणय-कलहे श्री-राधायाः सर्वत्र जये ऽपि श्री-राधायाः कर्णयोर् अशोकस्तवक-दाने कृइष्णस्य इव जयो ऽभुत् ॥२७॥
सुकण्ठीभिः कण्ठी-रव-मधुर-मध्याभिर्
अभितः कलं गायन्तीभिः सरसम् अनुगीतामल-गुणैः ।
स्पृशन्न् अङ्गान्य् आसां स्तवक-कुसुमाद्य्-अर्पण-मिषाद्
अकुण्ठाम् उत्कण्ठां निभृत-रतयेऽवर्धयद् अयम् ॥२८॥
सुष्ठु-कण्ठं कण्ठस्वरो यासां ताभिः कण्ठीर् अवात् सिंहात् मधुरं मध्यं यासां ताभिः । अभितः सर्वतः स्थित्वा कलं मधुरं गायन्तीभिः श्री-गोपीभिः सरसं यथा तथा । अनु पुनः पूनर् गीतोऽमलो गुणो यस्य सोऽयं श्री-कृइष्णः स्तवक्-कुसुमाद्य् अर्पणमिषात् आषाम् अङ्गानि स्पृइशन् निभृइतर् अतये ऽकुण्ठाम् उत्कण्ठाम् अवर्धयत् ॥२८॥
किलकिञ्चित-विव्वोक-विलास-ललितादिकैः ।
कृष्णस् ता भूषिताश् चक्रे स्व-सङ्गाद् भाव-भूषणैः ॥२९॥
कृइष्णः स्व-सङ्गाद् धेतोः किल-ईञ्चितादिभिर् भाव-रूप-भूषणैस् ता गोपीर्भूषिताश् चक्रे । किल-किञ्चितादि लक्षणम् आदौ दर्शितं ॥२९॥
स्व-वर्णिताभिर् वल्लीभिर् अलि-ध्वनि-मिषाद् असौ ।
अनुगीतोऽनन्दयत् ताः पुष्पादान-मिषात् स्पृशन् ॥३०॥
स्वेन कृइष्णेन वर्णिताभिस् ताभिर् वल्लीभिर् वल्लीस्थानाम् अलीनां ध्वनिमिषाद् असौ कृइष्णः अनु-पश्चाद् गीतं सन् ताभ्यः पुष्पाणम् अदान्मिषात् श्पृइशन् ता वल्लीर् नन्दयद् आनन्दयत् ॥३०॥
यद् यज् जगौ चन्द्र-लतादिकं हरिस्
तेनैव पश्चात् प्रियया युतं हरिम् ।
वर्णार्थयोः क्वापि विपर्ययेण ताः
कृष्णस्य नाम्नाऽनुजगुः क्व चालयः ॥३१॥
क्व चापि समये हरिर् यद्-यच्-चन्द्र-लतादिकं येन वर्ण-शब्द्-स्वर्-ताल-मान-ग्राम-मूर्च्छनादिना जगौ । आलयः सख्यः प्रियया राधया युतं हरिं तेन इव वर्णादिना क्वापि समये अनु पश्चात् जगुः । क्वच समये ता गोप्यो वर्ण-विपर्ययेण कृइष्णस्य् नाम्ना ज्ञगुः ॥३१॥
जगद्-आह्लादक-शीलः प्रमदा-
हृदि वर्धित-मनसिज-पीलः ।
राधानुराधिकान्तर् विलसन्
शुशुभे कला-निधिः सोऽयम् ॥३२॥
श्री-कृइष्णः प्रथमं जगौ । सोऽयं कला-निधिश् चन्द्रः राधानुराधयोस् तन्नाम-नक्षत्रयोर् अन्तर् मध्ये विलसन् शुशुभे । कीदृइशः जगद् आह्लादकं शीलं स्वभावो यस्य सः । प्रमदानां स्त्रीनां हृइदि वर्धिता मसिजस्य कन्दर्पस्य पीला डलयोरैक्यात् पीडा येन सः ॥३२॥
जगद्-आह्लादक-शिलः प्रमदा-
हृदि वर्धित-मनसिज-पीलः ।
राधानुराधिकान्तर् विलसन्
शुशुभे कलानिधिः सोऽयम् ॥३३॥
अमुम् एव श्लोकं श्रीगोप्यः जगुः । अयं कला-निधिः कलानां विलस-वैदग्धीनां निधिर् आश्रयः श्री-कृइष्णः राधानुराधयोः श्री-राधा-ललितयोर् मध्ये विलसन शुशुभे एक-शब्द-कृइत-श्लोकद्वयं अनुप्रासालङ्कारः कथ्यते ॥३३॥
सन्-मालत्याम् अस्यां मालत्यां मालतीभिः फुल्लाभिः ।
संवेष्टित इह परितः पुन्नागोऽयं विराजते गहने ॥३४॥
श्री-कृइष्णः सम्मालत्यां सती प्रशस्ता मालती ज्योत्स्नां यस्यं तस्याम् अस्यां मालत्यां रात्रौ फुल्लाभिर् मालतीभिस् तन्नामलताभिः परितः संवेष्टितः पुन्नागो नाग-केश्रोऽयं इह गहने वने विराजते ॥३४॥
सन्-मालत्याम् अस्यां मालत्यां मालतीभिः फुल्लाभिः ।
संवेष्टित इह परितः पुन्नागोऽयं विराजते गहने ॥३५॥
श्री-गोप्यः मालतीभिर् नायिकाभिः । पुन्नागः पुरुष-श्रेटः श्री-कृईष्णः । अन्यत् समनर्थाकं । अत्र पुल्लाभिरिति द्वितीय-पादान्तस्य गुरोर् लघुत्वं वोद्यं ॥३५॥
माधवालिङ्गित-माधवी भ्राजते
माधवश् चानया फुल्लया राजते ।
विश्वम् अप्य् एतयोः सङ्गम् आनन्दतश्
चक्षुषी नन्दयन् मोदते सर्वतः ॥३६॥
श्री-कृइष्णः माधवेन वसन्तेनालिङ्गिता माधवी लता भ्राजते माधवो वसन्तश् च पुल्लयानया माधव्यालीङ्गिता राजते । एतयोर् माधवी-माधवयोः सङ्गमानन्देन विश्वम् अपि चक्षुषी नन्दयत् सर्वेतो मोदते ॥३६॥
माधवालिङ्गित-माधवी भ्राजते
माधवश् चानया फुल्लया राजते ।
विश्वम् अप्य् एतयोः सङ्गम् आनन्दतश्
चक्षुषी नन्दयन् मोदते सर्वतः ॥३७॥
श्री-गोप्यः । माधवः कृइष्णः माधवी राधा । अन्यत् समार्थक्ः ॥३७॥
सम्फुल्ला सम्फुल्लो मिलनान् मिथ इह वने सदालीनाम् ।
काञ्चन-वल्ली चासौ सुखदा तापिञ्छ-मौलिश् च ॥३८॥
सम्फुल्ला सम्फुल्लो मिलनान् मिथ इह वने सदालीनाम् ।
काञ्चन-वल्ली चासौ सुखदा तापिञ्छ-मौलिश् च ॥३९॥
श्री-गोप्यः । सम्पुल्ला काञ्चन-वल्ली श्री-राधा सम्पुल्लस्-तापिञ्च्छ-मौलिस् तापिञ्च्छं वर्हं-मौलौ यस्य स यद् वा पिञ्च्छ-मौलिः सुखदाता काञ्चन-वल्ली च चकारात् सुख दत्रीत्य् अर्थः । श्री-कृइष्णश् च आलिनां सखीनां मिलनात् मिथः परस्परं सुखदा सुखदष् च ॥३९॥
शंसन्न् इव मदनाज्ञां मदयन् हृदयं कलं गायन् ।
नव-पद्मिनीषु रात्रौ विलसति मधुसूदनश् चित्रम् ॥४०॥
श्री-कृइष्णः मधुसूदनः भ्रमरः कलं मधुरं गायन् गानेन हृइदयं शृइण्वतां हृइदयं मदयन् हर्षयन् मदनस्याज्ञां शंसन् कथय्न् इव रात्रौ नव-पद्मिनीषु विलसति । चित्रं इदम् इति शेषः ॥४०॥
शंसन्न् इव मदनाज्ञां मदयन् हृदयं कलं गायन् ।
नव-पद्मिनीषु रात्रौ विलसति मधुसूदनश् चित्रम् ॥४१॥
श्री-गोप्यः । कृइष्णो मधुरं गायन् हृइदयं मदयन् मदनाज्ञां शंसन् इव-नव-पदमिषु उत्तमस्त्रीषु रात्रौ चित्रं नानाविधं विलसति ॥४१॥
रजनी-रमणस् तमसां शमनो
नलिनी-कुलम् उन्महसाम् अपनुत् ।
शितिगुर् गगने शितिभे विघने
सुबभौ कुमुदावक एष मुदा ॥४२॥
श्री-कृइष्णः । एष शितिगुः शिती धवलम् एचका रित्य् अमरः । शितिः शुक्ला गौःकान्तिर् यस्य सः । शितिभे शितिः शुक्ला भा दीप्तिर् यस्य तस्मिन् विघने मेघ-रहिते गगने सुबभौ । भा दीप्तौ धातुः । कीदृइशः कुमुदावकः कुमुदानाम् अवको रक्षकः अव रक्षणे धातुः । पुनः रजनीषु रमणं यस्य सः । तमसां शमनः नाशकः नलिन-कुलस्य मुदो हर्षस्य महसां कान्तीनां चापनुत् नाशकः ॥४२॥
रजनी-रमणस् तमसां शमनो
नलिनी-कुलम् उन्महसाम् अपनुत् ।
शितिगुर् गगने शितिभे विघने
सुबभौ कुमुदावक एष मुदा ॥४३॥
श्री-गोप्यः । एष्ः शितिगुः शितिः कृइष्णा गौः कान्तिर् यस्य स कृइष्णः रमणीषु रमणं यस्य सः तमसां पाप्कनां शमनः खलिनीनां खल-श्रेणिनां कुलस्य समुहस्य मुन्महसां हर्ष-कान्तीनां अपनुत् नाशकृइत् कुमुद् आकरः । कोः पृइथिव्याम् उदाम् आकरः विघने विभिः पक्षिभिर् घने सान्द्रे शितिभे नील-वर्णे गहने वने विवभौ । अक्ष्रस्य क्वापि विपर्ययेणेति यद् उक्तं तद् अत्र ज्ञेयं ॥४३॥
कमलिनी-मलिनी-करणे पटुर्
विधुरिता-धुरितान् इह चक्रवान् ।
निवि दधद् विदधद् भगणे धृतिं
न स मुदे समुदेति विधुर् मम ॥४४॥
कृइष्णः कमलिनीनां पद्मिनां मलिनीकरणे पटुर् निपुणः स विधुश् चन्द्रः इह रात्रौ चक्रवान् केशा विद्य्न्ते अस्येति केश्व इतिवत् अस्त्यर्थे व प्रत्ययः चक्रं चक्र शब्दौ नाम्नि विद्यते येषां तान् चक्रवान् । चक्रकान् इति पाठे तु स्वार्थे कः । चक्रान् इत्यर्थः सुगमः । कोकश् चक्रश् चक्रवाकोर् अथाङ्गाह्वयनामक इत्य् अमरः । तान् विधुरिता-धुरितान् विशिष्टश् चसौ धरो-भारो-दुःखञ्चेति विधुरः सो ऽस्यास्तीति विधुरी तस्य भावो विधुरिता स एव धुरोभारोजात एषाम् इति विधुरिता-धुरिता स्तथाविधान् अर्थात् पीडितान् निविदधत् । अतिशयेन कुर्वन् भगणे नक्षत्र-गणे धृइतिं विदधत् सन् स मम मुदे हर्षाय न सम्यग् उदेत्य् एव ॥४४॥
स सुदृशां सुदृशां रुचि-कृद्
रुचिर् विरहिता रहिता निज-तारकाः ।
सुविदधद् विदधत् कुमुदावनम्
वर-मुदे स मुदेति विधुर् हि नः ॥४५॥
श्री-गोप्यः स प्रसिधो विधुः विधुनोति दुःखम् इति विधुः, धुञ् कम्पने डु-प्रत्यः । यद् वा विदधाति सुखम् इति विधुः, डु धाञ डु प्रत्य । श्री-कृइष्णः हि निश्चितं नो ऽस्मकं वर-मुदे उत्कृइष्ट्-हर्षाय अरं शीघं रलयोः सावर्य्णाद् अलम् अतिशयं वा उदेति । समुदेति पाठे सुगमः । कीदृइशः सुदृइशां सुदृइशां सुष्ठु-दृइशां चक्षुषां रुचिकृइत् स्पृइहाकृइत् रुचिः कान्तिर् यस्य सः किं कुर्वन् निज-तारकाः । तारक-शब्देन लक्षणया ऽतिशयोक्त्या वा गोपी-विरहिणोभावस् तया रहिता वञ्चिताः सुष्टु विदधत् कुर्वन् पुनः किं कुर्वन् कुमुदावनं कोः पृइथिव्या मुदात् हर्षाणाम् आसम्य्ग्-वनं रक्षणं दिधत् कुर्वन् ॥४५॥
**इत्थं गायन् मधुर-विपिन-श्री-भरालोक-तृप्तः
कान्तावल्लीर् अपि विरचयन् स्वाभिमर्देन फुल्लाः ।
भ्रामं भ्रामं भ्रमर-निकरैः स्वानुगैर् वेष्टितोऽसौ
ताभिर् वंशी-वट-विटपिनः कुट्टिमं प्राप कृष्णः ॥४६॥ **
इत्थं गायन् कान्ता गोपीर् वल्ली लताश् च स्व-स्यभिमर्देन करादि-कृइतेन फुल्लाः विरचयन् कुर्वन् । अभिमर्शेनेति पाठे स्वङ्ग-स्पर्शेन मधुर-विपिनस्य शोभा तस्या भरस्यातिशयस्यावलोकन तृइप्तिर् यस्य स कृइष्ण स्व-स्यानुगैर् भ्रमर-निकरैर् वेष्टितस् ताभिर् गोपीभिः सह भ्रामं भ्रामं भ्रान्ता भ्रान्ता वंशी-वटाख्य-विटपिनो वृइक्षस्य कुट्टिमं वेदीं प्राप ॥४६॥
**तत्रोपविष्टः स ददर्श कृष्णां
स्व-दर्शनानन्द-विवृद्ध-तृष्णाम् ।
फेनालि-हासां खग-नाद-गानां
स्व-सङ्गमायोत्क-हृषीक-वर्गाम् ॥४७॥
स्पर्शोत्सवयोच्छलद्-ऊर्मि-हस्तां
लोलाब्ज-रक्तोत्पल-फुल्ल-नेत्राम् ।
समुच्छलन्-नक्र-मुखोच्च-नासाम्
आवर्त-गर्तोत्सुक-कर्ण-पालीम् ॥४८॥ **
(युग्मकम्)
तत्रोपविष्टः स कृइष्णः कृइष्णां यमुनां ददर्श । कीदृइशीं ? स्वस्य दर्शन् आनन्देन विवृइधा तृइष्णा यस्यास् तां । फेनालिर् हास्यं यस्यास् तां खगानां पक्षिणां नादो गानं यस्यस् तां स्व-सङ्गार्थं उत्को हृइसीकाणां इन्द्रियाणां वर्गो यस्यास् तां स्पर्शोत्सवाय उच्छलद् उर्मयस् तरङ्गा हस्ता यस्यास् तां लोलान्यब्जनि रक्तो उपलानि च फुल्लानि नेत्राणि यस्यास् तां समुच्छलन्न्क्रमुखं कुम्भीरादि उच्चनासा यस्यास् तां आवर्त्जन्य-गर्त्नां उत्सुक-कर्णानां पालिर् यस्यास् ताम् ॥४७-४८॥
पुलिनानि समीक्ष्यासौ तत्र रन्तु-मना हरिः ।
कृष्णा-पारं गन्तु-कामः समुत्तस्थौ प्रिया-गणैः ॥४९॥
पुलिनानि समीक्ष्य अत्र पुलिने रन्तुम्ना हरिः कृइष्णाया यमुनायाः पारं गन्तु-कामः सन् प्रिउया-गणैः सह समुत्तस्थौ ॥४९॥
अथागतानां स्व-जलान्तिकं सा
तेषां पदाब्जेषु तरङ्ग-हस्तैः ।
समर्प्य पद्मान्य् अथ तानि कृष्णा
तैस् तैः स्पृशन्तीव मुहुर् ववन्दे ॥५०॥
अथ सा कृइष्णा यमुना स्व-जलान्तिकम् आगतानां तेषां कृइष्णादीनां पदाब्जेषु तरङ्ग-हस्तैः पद्मानि समर्प्य तानि पदाब्जानि तैस् तैस् तरङ्ग-हस्तैः स्पृइशन्ती इव मुहुर् ववन्दे ॥५०॥
गति-शिञ्जिते मुर-रिपोर् वनितानां
द्रुतम् अभ्यसन्न् इव निजैर् गति-नादैः ।
तम् इहाभ्युपैति पुरतस् तट-कच्छात्
कलहंसिकालि-वलितः कलहंसः ॥५१॥
मुररिपोः कृइष्णस्य वनितानां च गतिशिञ्जिते गमन-भूषण-शब्दौ द्रुतम् अभ्य सन् तद्भ्यासं कुर्वन् इव निजैर् गतिनादैः हंसीभिः सह कलहंसस् तट-कच्छात् तट-निकटात् पुरतस् तं कृइक्स्णम् अभ्युपैति ॥५१॥
स्खलद्-गतितयाच्युतागति-मुदा
समृद्ध-जलतां जगाम यमुना ।
स्व-पारम् अयितुं समुत्कम् अथ तं
समीक्ष्य तनुतां जलोद्धत-गतिः ॥५२॥
यमुना अच्युतस्यागतिर् आगमनं तेन या मुत् हर्षस् तेन स्खलद् गतितयास्खलिता स्तब्धा गत्विर् जल-वेगो यस्यास् तत् तया समृइध-जलतां वहु-जलतां जगाम अथ स्वस्य पारमियितुं गन्तुं समुत्-सुकं तं कृइष्णं समीक्ष्य जलोधत-गतिः जलैर् उधता प्रखरा गतिर् यस्यास् तादृइशी सति तनुतां क्षीणतां जगाम ॥५२॥
जानु-द्वयस-तोयायां कृष्णायां कृष्ण-तुष्टये ।
गुल्फ-दघ्न-जला आसन् निर्झराः पुलिनावृताः ॥५३॥
कृइष्णस्य तुष्टये कृइष्णयां यमुनायां जानुद्वयस-तोयायां जनु-परिमित-तोयायां सत्यां । परिमितार्थे द्वयसट् प्रत्यः । पुलिनावृइता निर्झरा गुल्फः दघ्न-जला गुल्फ-प्रिमित-जला आसन् वभुवुः ॥५३॥
तीर्त्वा तीर्त्वा सुखेनैतान् क्रमेण निर्झरान् हरिः ।
बभ्राम पुलिनेष्व् एषु विहरन् स-प्रिया-गणः ॥५४॥
स-प्रिया-गणो हरिः सुखनैतान् निर्झरान् क्र्मेण तीर्त्वा एषु पुलिनेषु विहरन् वम्राम ॥५४॥
साकूत-स-स्मित-विलोकन-नर्म-जल्पैर्
आलिङ्गन-स्तन-नखार्पण-चुम्बनाद्यैः ।
तासां स्व-सङ्गज-मनोज-विलास-तृष्णां
कुर्वन् मुहुः स विपुलां विललास कृष्णः ॥५५॥
स कृइष्णः साकुतः सस्मित-विलोकनैः परिहास-वाक्यैर् रालिङ्गनैः स्तनेषु नखार्पणैश् चुम्बनाद्यैस् तासां स्वस्य सङ्ग-जन्यमनोज-विलास तृइष्णां विपुलां कुर्वन् विललास । श्री-भागवते । वाहु-प्रसार-प्रिरम्भ इत्यादिवद् अत्रापि रमयाञ्चकार इति वोध्यं ॥५५॥
ततः पुलिनम् आगत्य स चक्र-भ्रमणाभिधम् ।
तत्र रन्तु-मनाश् चक्रम् आरुरोह प्रिया-गणैः ॥५६॥
स कृइष्णस् तदनन्तरं पुलिनम् आगत्य तत्र चक्र-भ्रमणाभिधं रन्तुमनाः सन् प्रिया-गणैः सह चक्रम् आरुरोह ॥५६॥
वितस्ति-मात्रोच्च-निखात-शङ्कुग-
त्रिनेमि-चक्रोपरि राधया सह ।
स्थितः स मध्येऽन्य-सखी-गणैः क्रमाद्
बहिश् चकाराथ सुमण्डल-त्रयीम् ॥५७॥
वितस्तिमात्रोच्चश् चासौ पृइथिव्यां निखातश् च यः श्ङ्कुस् तत्रगं तदुपरि स्थितं चक्रं तत्र त्रिनेमि-चक्रोपरि राधया सह मध्ये स्थितं स कृइष्णः अन्य-सखी-गणैर् वहिः क्रमत् सुमण्डलत्रयीञ् चकार ॥५७॥
आवृत्य पूर्णं रस-धारया हरिं
राधोपगूढं किल मण्डल-त्रयी ।
सुवर्ण-वल्ल्य्-अञ्चि-तमाल-शाखिनं
स्वर्णाल-बालालिर् इवाबभाव् असौ ॥५८॥
असौ मण्डल-त्रयी-रसस्य धारया परस्परया पूर्णं राधयौपगूढम् आलिङ्गितं हरिं आवृइत्य मध्ये कृइत्वा सुवर्ण-वल्ल्याञ्चितं युक्तं तमाल-वृइक्षं आवृइत्य स्वर्णस्य आल-वालालिर् इवावभौ ॥५८॥
आदिश्य हल्लीशक-केलि-रङ्गे
राधा-मुकुन्दौ ललितादिकालीः ।
तत्रांस-विन्यस्त-भुजौ मिथस् ताव्
अनृत्यतां लास्य-विदां वरिष्ठौ ॥५९॥
राधा-मुकुन्दौ हल्लीशक-केलि-रङ्गे मण्डी-नृइत्य-रङ्गे ललितादि-कालीरादिश्य प्रवर्त्य । नारीणां मण्डली-नृइत्यं वुधा हल्लीशकं विदुः । तत्र लास्य-विदांवरिष्ठौ तौ मित्योऽंसे स्कन्धे न्यस्त-भूजौ सन्तौ अनृइत्यतां ॥५९॥
नृत्यन् नितम्बिनीनां तद्-वैदग्ध्य-पद-चालनैः ।
कुलाल-चक्रवच् चक्रं भ्रमद् आसीत् तयोर् अपि ॥६०॥
नृइत्यन्तीनां नितम्बिनीनां सखीनां तत् तत्र नृइत्ये वैदब्ध्येन् पद-चालनैस् तयोः राधा-कृइष्णयोर् अपि वैदग्द्येन पाद-चालनैः हेतुभिश् चक्रं ताभिर् आरूढं ताभ्याम् आरूढम् अपि कुलाल-चक्रवत् भ्रमद् आसीत् भ्रमणशिलम् अभूत् । कुलाल-चक्रं मृइण्मय-घटादि-निर्माणक-चक्रं ॥६०॥
विधाय राधां ललिता-विशाखयोर्
मध्ये तद्-अंसार्पित-बाहुर् अच्युतः ।
गायन् स गायद्भिर् अलं कदाप्य् असौ
बभ्राम नृत्यन् सह नर्तकी-गणैः ॥६१॥
स अच्युतः ललिता-विशाखयोर् मध्ये राधां विधाय कृइत्वा । तत् तस्याः श्री-राधाः किं वा तयोर् ललिता-विशाखयोर् अंसे स्कन्धेऽर्पितौ भुजौ येन तथाभूतः सन् गयन् सन् कदापि गायद्भिस् तैर् नर्तकिगणैर् नृइत्यन्तीभिर् अन्य व्रजाङ्गनाभिः सह अलं अतिशयेन नृइतनसौ वभ्राम ॥६१॥
लघु-भ्रमच्-चक्र-गतेः समा तासां गतिः क्वचित् ।
क्वचिन् मन्दा क्वचिच् छीघ्रा विविधासीत् प्रिया हरेः ॥६२॥
लघौ यथास्यत् तथा भ्रामच् चक्रस्य गतेर् हेतोस् तासां गतिः क्वचित् समा क्वचित् मन्दा क्वचित् शीघ्रा विविधा च हरेः प्रिया-प्रीतिकरासीत् । एवम्भूता हरेर् गतिस् तासां प्रीतिकरासीद् वा ॥६२॥
तासां द्वयोर् द्वयोर् मध्ये तद्-अंस-न्यस्त-दोः स्फुरन् ।
स-चलत्-स्वर्ण-वल्लीनां नृत्यत्-तापिञ्छवद् बभौ ॥६३॥
तासां गोपीनां द्वयोर् द्वयोर् मध्ये प्रविश्य तत् तासां अंसेषु स्क्न्धेषु न्यस्तदोर् न्यस्त भुजः स कृइष्णः स्फुरन् सन चलत् स्वर्ण-वल्लानां मध्ये नृइत्यत् तापिञ्छवन् नृइत्यत् तमालवद् वभौ ॥६३॥
सोऽलात-चक्रवत् क्वापि लघु-गत्याभ्रमत् तथा ।
हित्वा मां क्वाप्य् असौ नागाद् इति ता मेनिरे यथा ॥६४॥
क्वापि समये स कृइष्णः लघु-गत्या शीघ्र-गत्या अलात-चक्रवत् तथा अभ्रमत् यथा ता गोप्यः मां हित्वा त्यक्त्वासौ कृइष्णः क्वापि नागादिति प्रत्येकं मेनिरे अलात-च्क्रं काष्ठस्य भ्रमणवेगेन काष्ठ-प्रान्त-देशस्थ-वह्नेर् मण्डलाकार-द्र्शनं ॥६४॥
स एकां मण्डली-कृत्वा प्रान्ते सर्व-प्रिया-गणैः ।
तासां मध्ये स्फुरन् नृत्यन् चक्रं च भ्रमयन् बभौ ॥६५॥
स कृइष्णः प्रियागणैश् चक्रस्य प्रान्ते अन्तभागे एकां मण्डलीं कृइत्वा तासात् गोपीनां मध्ये स्फुरन् नृइत्यन् चक्रं च भ्रमयन् वभौ ॥६५॥
स्व-शक्तिं दर्शयन् चक्राद् युगपद् वा क्रमाच् चलात् ।
अवरुह्य मुहुस् तत् तत् स्थानम् आश्व् आरुरोह सः ॥६६॥
स श्री-कृइष्णः स्व-शक्तिम् इति एकस्मिन् नेव काले तासां मध्ये स्थिति-नृइत्य-चक्र-भ्रमण-क्र्तृइत्व-रूपां वक्ष्यमाणां स्व-श्क्तिं दर्शयन् चलात् भ्रमिताच् चक्रात् युगपद् एकदा क्रमाद् वा अवरुह्य तत् तत्-स्थानं चक्रस्य यत्-स्थलात् भूम्याम् अवरोहं करोति तस्य तत् तत्-स्थानम् आशु शीघ्रं मुहुः पुनः पुनः आरुरोह ॥६६॥
गोप्यश् च युगपत् सर्वाः कदाप्य् एकैकशः क्वचित् ।
अवरुह्यारम् आरुह्य चक्रुर् मण्डल-बन्धनम् ॥६७॥
गोप्यश् चेति यथा श्री-कृइष्णश् छकृआद् अवरोहणारोऽण-रूपां स्व-शक्तिम् अद्र्शयत् तथा गोप्यश् च युगपद् एक-काले सर्वा कदापि समये एकैकशः सत्यश्चक्राद् अवरुह्य शीघ्रं भूम्याम् आगत्य पुनश् चक्रोपरि गत्वा मण्डल-वन्धनं चक्रः ॥६७॥
विलस्येत्थं हरिस् ताभिश् चक्र-भ्रमण-नर्तनैः ।
रास-लीला-विशेषाय चक्राद् अवरुरोह सः ॥६८॥
इत्थम् उक्त-प्रकारेण हरिस्ताभिः सह चक्रस्य भ्रमणं भ्रमण-समये चक्रोपरि नर्तनं तैर् विलस्य रास-लीलायाः प्रकारभेदाय चक्राद् अवरुरोह ॥६८॥
स्व-लहरि-मृदु-हस्तैः संस्कृतं कृष्ण आल्या
कुमुद-सुरभि-वातैर् मार्जितं स्फारम् अग्र्यम् ।
शशि-किरण-सुधाभिः सिक्त-लिप्तं स ताभिः
पुलिन-वरम् अनङ्गोल्लास-रङ्गाख्यम् आयात् ॥६९॥
स कृइष्णस् ताभिः गोपीभिः स अनङ्गोल्लास-रङ्गाख्यं पुलिन-वरमायात् आगच्छत् । कीदृइशं ? कृइष्ण आल्या इत्यत्रासमस्त रूपकं । कृइष्णा श्री-यमुना सैवालीत्य् अर्थः तया कर्त्यालहरय एव मृइदु-हस्तास् तैः करणैः संस्कृइतं कुमुदस्य सुगन्दि-पवनैर् माजितं लिप्तं च ॥६९॥
विधाय कृष्णः परितः सुमण्डलीं
तस्मिन् मिथो बद्ध-करैः प्रिया-गणैः ।
तद्-अन्तरायं प्रियया बभौ यथा
विशाखयेन्दुः परिवेष मध्यगः ॥७०॥
अयं कृइष्णस् तस्मिन् पुलिने मिथः परस्परं वधकरैः प्रियाणां गणैः शोभनां मण्डलिं विधाय तत् तस्या मण्डल्या अन्तरा मध्ये प्रियया श्री-राधया स तथा वभौ । परिवेषस्य मण्डस्य मध्यगो विशाखाया स इन्दुर् यथा भाति । परिवेशस् तु परिधि-रुप-सूर्य-कमण्डल इति अमर्ः ॥७०॥
परिभ्रमत्-तल्-ललनालि-मण्डलं
बभौ यथा काम-कुलाल-भूपतेः ।
रासादि-लीलाख्य-घटादि-निर्मितौ
सुवर्ण-चक्रं हरि-दण्ड-चालितम् ॥७१॥
तल् ललनालीनां मण्डलं काम एव कुलाल-भूपतिः कुम्भकार-श्रेष्ठस् तस्य सूवर्ण-चक्रं ललनाली-मण्डलम् एव काम-कुलालस्य स्यवर्ण-चक्रम् इत्य् अर्थः । तत् रासादि लीलाख्य-घटादीनां निर्मितौ निर्माण-विषये हरि-दण्द-चालितं हरिः श्री-कृइष्णः स एव दण्दो हरि-दण्दः । स एव हरि-दण्दो हरि-मणि-निर्मितो दण्दश् चक्र-मध्याधःस्थश् चक्र-भ्रमण-हेतु-रुपस् तेन हरि-दण्देन कर्तृइ-भूत-हेतुना चालितं भ्रमत् स यथा यथा-योग्यं वभौ ॥७१॥
तन्-मण्डलं भाति विलास-सागरे
रोद्धुं मनो-मीनम् इहैव किं हरेः ।
कन्दर्प-कैवर्त-वर-प्रसारितं
हैमं महा-जालम् उरोज-तुम्बिकम् ॥७२॥
हरेर् मनोमीनं इह इव विलास-सागरे रोधुं तन् मण्दलं हैमं हेमं हेम-निर्मितं महाजालं कन्दर्प-रूपकैवर्त-वरेण प्रसारितं स भाति किं । कीदृइशं ? उरोजाः स्तनास् तुम्बिकानि यत्र तत् ॥७२॥
परस्पराबद्ध-कर-प्रिया-ततेर्
द्वयोर् द्वयोर् मध्य-गतः क्वचित् प्रभुः ।
प्रिया-युगांसार्पित-दोर्-युगोऽस्फुरत्
ताभिः स नाना-गति-नर्तनैर् भ्रमन् ॥७३॥
क्वचित्-समये परस्परम् आवधाः कर यया तस्याः प्रियाततेर् द्वयोर् द्वयोर् मध्य-गतं सन् प्रिया-युगस्यांसे स्क्न्धेऽपितं दोर्युगं येन तथाभूतः सन् ताभिः स नाआ-गतिभिःर् नर्तनैश् च भ्रमन् सः प्रभूर् एकेन इव स्वरूपेण नाना-गतिर्नर्तनैर् भ्रमन् अनन्त-गोपीनां द्वयोर् द्वयोर् मध्ये ग्त्वा प्रिया-युगस्य स्क्न्धे स्वस्य भूज-द्वय-दाने समर्थो ऽस्फुरत् ॥७३॥
भुज-शिरसि विराजद्-दोर्-युगं स्व-प्रियाल्याः
प्रचलद् अजयद् एतन् मण्डलं कृष्ण-मूर्तेः ।
जलद-शकल-जालं मध्य-मध्यातिराजत्-
स्थिर-तडिद्-उपगूढं सम्भ्रमच्-चक्र-वातैः ॥७४॥
कृइष्ण-मूर्तैः प्रचलदेतन् मण्दलं जलदश-कलानां मेघ-खण्डानां जालं समूह मजयत् । कीदृइशं मण्डलं स्वप्रियाल्याः स्वस्य प्रियाणां प्रेयसीनां आल्यां श्रेण्या भुज-शिरसि स्कन्धे विराजदोर् युगं यत्र तत् । भुज-शिरसि इत्य् एकवचनाद् एकैकस्या एकैकस्मिन् स्कन्धे इत्यर्थः । जलद-शकल-जालं कीदृइशं मध्ये मध्ये ऽतिशयेन राजन्तीभिः स्थिर-तडिद्भिर् उपगूढम् आलिङ्गितं । पुनश् चक्रवातैर् भ्रमच् च । अनेन श्री-कृइष्णम् ऊतीर्नां मेघ-खण्ड-मण्ड्ल-जयित्वं श्री-गोपीनां विद्युच्छ्रेणी जयित्वं भ्रमण-लीलायाश् चक्रवात-जयित्वञ्चायातं ॥७४।
कदाचिद् एक एवायं स्वीय-भ्रमण-लाघवात् ।
भ्रमन्न् अलात-चक्राभः सर्वासां पार्श्वगोऽस्फुरत् ॥७५॥
कदाचित्-समये एक एवायं कृइष्णः स्वीय-भ्रमणस्य लाघवात् वेगात् अलाते चक्र-सदृइशो भ्रमन् सन् सर्वासां गोईनां पार्श्वथः सन्नस्फुरत् ॥७५॥
हरि-हरि-दयितानां वंशिका-कण्ठ-गानैर्
मिलित-वलय-काञ्ची-नूपुरालि-स्वनौघैः ।
नटन-गति-विराजत्-पाद-तालानुगामी
निज-वर-मधुरिम्णा व्यानशेऽसौ जगन्ति ॥७६॥
हरेर् इति हरेर् वंशिकागानैर् हरिप्रियाणां कण्ठ-गानैश् च स मिलितौ वलय-काञ्ची-नुपूर-श्रेणीनां स्वनौघः ध्वनि-समूहः । कीदृइशः नटनगतौ विराजतः स्फुरतः पादतालानुगच्छतीति सः । किं वा तत्र विराजन्तः पादताला अनुगामिनो यस्य एवम्भूतः सन् निजस्य वरम् अहिम्ना जगन्ति सर्वं जगत् व्यानशे व्याप्नोत् अशूङ् व्याप्तौ सङ्गतौ च ॥७६॥
अनिबद्धं निबद्धं च द्विधा गीतं च ते जगुः ।
सारिगमपधन्य्-आख्य स्वरान् आललपुः पृथक् ॥७७॥
ते श्री-कृइष्णादयः अनिवधं निवधञ्चेति द्विविधं गीतञ जगुः । अनिवध-निवधयोर् लक्षणं यथा सङ्गीत-दर्पणे । वधं धातुभिर् अङ्गैश् च निवध्म् अभिधीयते । आलप्ति चन्ध-हीनत्वद् अनिवधम् इतीर् इतं । आदावनिवधं गीत्वा पश्चान् निवधं जगुर् इत्यत्र निवधं विवृइणोत्युतरार्धेन । प्रथं सारि-गमपधन्याख्यान् षडज-ऋषभ-गान्धार मध्यम-पञ्चम-धैववत-निषादेत्याख्यान् सप्त-स्वरान् पृइथग् ऐकैकं कृइवा आललपुः । स्वरलक्षणन्तु तत्र इव । स्निग्धश् च रञ्जकश् चसौ स्वर इत्यभिधीयते स पुनस् तत्र इव । स्वयं यो जाजते नादः स स्वरः परिकिर्तितः । ते यथा । षड् जर्यभौ च गान्धारो-मध्यमः पञ्चमस् तथा । धैवतश् च निषादश् च स्वराः स्युः श्रुति-सम्भवाः । मयुर-चतक-च्छाग-क्रौञ्च-कोकिल-ददुर् दुराः । मातङ्गश् च स्वरानाहुः क्रमेणैतान् सुदुर्गमान् इति ॥७७॥
शुद्धां च विकृतां जातिं द्विविधं च मुदा जगुः ।
तत्र सप्त-विधां शुद्धाम् एकादश-विधां पराम् ॥७८॥
शुधां विकृइतां च द्विविधां जातिं च जगुः । तत्र तन्म्ध्ये सप्तविधां शुधां जगुः । एकादशविधां परां विवृइतां जगुः । जाति-लक्षणं यथा तत्र इव । याभ्यो रागाः सम्भवन्ति जातयस् ताः प्र्कीर्ताः । सप्त-शुधा विकृइता एकादश समीरिताः ॥७८॥
षड्ज-मध्यम-गान्धार-भेदाद् ग्रामांस् त्रि-भेदकान् ।
तत्र मर्त्यागोचरं ते गान्धार-ग्रामम् उज्जगुः ॥७९॥
षड्ज मध्यम-गान्धारभेदात् त्रीन् भेदकान् भेदान् ग्रामान् जगुः । तत्र त्रयाणां ग्रामाणां मध्ये मर्त्यागोचरं मनुष्यैर् अगम्यं गान्धार्-ग्रामम् उत्कर्षेण जगुः । ग्राम्-त्रय-लक्षणं तत्र इव स्वराणां सुव्यवस्थानां समूहो ग्राम उच्यते । षड्ज मध्यम-गान्धार्भेदात् स त्रिविधः स्मृइतः । षड्ज-ग्रामः पञ्चमे स्वचतुत्र्थ श्रुति-संस्थितोः स्वोपान्त-श्रुतिगे तस्मिन् मध्यम-ग्राम उच्यते ऋषभोः श्रुतिम् एकैकां गान्धारश् चेत् समाश्रितः । पश्रुतिं धोनिषादश् च धश्रुति सश्रुति श्रितः । गान्दार-ग्रामम् आचष्टे तदा तन् नारदो मुनिर् इति । गान्धारः स-परिवारो-ग्रामस् तु दिवि गीयत इति ॥७९॥
श्रुतीः सप्त-स्वर-गता द्वाविंशति-भिदा जगुः ।
समीर-सङ्ख्यांस् तानांश् च मूर्च्छनास् त्व् एकविंशतिः ॥८०॥
सप्त-स्वर-गता द्वाविंशति-प्रकराः श्रुतीर् जगुः । समीर-सङ्ख्यान् एकोनपञ्चाशत्-प्रकारान् तानान् जगुः । एकविंशति-प्रकारा मूर्च्छना जगुः । ते कृइष्णादय इति प्रकरण-वोध्यं । एषां लक्षणानि तत्र इव । तत्र श्रुतयः । तीव्रा कुमुद्वती मन्दा छ्न्दोवत्यस् तु षड्जगाः । दयावती रजनी च रतिका ऋषभे स्थिता । रौट्री क्रधा च गान्धारे वजिकाऽथ प्रसारिणी । प्रीतिश् च मार्जनीत्येताः श्रुतयो मध्य्म् आश्रितः । क्षिती रक्ता च सन्दीपिन्यावापिन्य् अथ पञ्चमे । मन्दन्ती रोहिणी रामेत्येता धैवत-संश्रयाः । उग्रा च क्षोभिणी ते द्वे निषादे वसतः श्रुती । इति द्वाविंशति श्रुतयः । अथ तानाः । क्रमात् स्वराणां सप्तानाम् आरोहच् चवरोहणं । मूर्च्छनेत्युच्यते ग्रामत्रयोताः सप्त च । अथ मूर्च्छना एव न्यानाः न्युः शुधा आरोहणाश्रिताः । तेषां भूरितराभेदाः कस्तान् कार्त्स्न्येन वक्षति ॥८०॥
पञ्चदश-प्रकारांश् च गमकांस् तिरि-पादिकान् ।
चालादि-बहु-भेदं च स्थायं रम्यम् इमे जगुः ॥८१॥
इमे श्री-कृइष्णादयः । तिरिपादिकान् पञ्चदश-गमकान् जगुः । तत्र चालादि वहुभेदं च स्थायं च रम्यं मनोहरं यथास्यात् तथा जगुः । गमक-लक्षणं तत्रैव । स्वरस्य कम्पो-गमकः श्रोतुश् चित्त-सुखावहः । भेदाः पञ्चदशैवास्य कथितास् तिरिपादयः । लघिठो-डमरु ध्वान-कम्पो ऽनुकृइति-सुन्दरः । द्रुत-तुर्यांश-वेगेन तिरिपः स प्रकीर्तितः । एवन् तु उप-कान्दोलित वलक-रुशादरः पञ्चदश-गमकाः सङ्गीत-दर्पणे ज्ञेयाः । स्थाया अपि भवन्त्य् अत्र गमकावयवात्मना प्रसिधास् तद्विदां तेतु नोक्ता विस्तारभीतितः ॥८१॥
शुद्ध-सालग-भेदेन निबद्धं द्विविधं जगुः ।
शुद्धं सञ्ज्ञा-त्रयं तत्र प्रबद्धं वस्तु-रूपकम् ॥८२॥
शुध-सालगभेदेन शुधश् च सालगश् च ताभ्यां भेदकाभ्यां भेदेन । किं वा शुध-सालगयोर् ग्रहणे तत् सङ्गिं सङ्कीर्णस्यापि ग्रहणात् शुध-सालग-सङ्कीर्णैस् त्रिभिर् भेदकैर् भेदेन निवधं कृइत्वा त्रिविधं पूर्ण-षाडवौडवाख्यं राग-विशेषं जगुः । किं वा तेन भेदेन त्रिविधं क्रित्वा पूर्ण-षाडवौडवाख्य तृइविधं राग-विशेषं कृइत्वा निवधं पूर्व षष्थ-श्लोकार्थे इरुक्तं धात्वङ्ग-रङ्ग-गीतं जगुः । तत्रार्थे द्वये राग-विशेषो गीतञ्चैते द्वे पदे विश्लेषेण लधे । तत्र तन् मधे शुधस्य सञ्ज्ञा त्रयं प्रवन्ध वस्त्र-रूपकं चेति त्रयं जगुः । तेषां लक्षणानि तत्र इव । स च रागस् त्रिधा पूर्ण-षाडवौडवद् एदतः । तर सप्त-स्वरैः पूर्णः षट्-स्वरैः षाडवोमतः । पञ्च-स्वरैरौ । डवः स्यात् प्रत्येकं त्रिविधस् तु सः । स रागः । शुध सालग सङ्किर्णभेदैर् भरत-सम्मतः । अन्योपजीविता शून्यः शुधोऽन्यस्य तु जीवनात् । सालगः स तु विज्ञेयः सङ्कीर्णोद्वय-जीवनात् । इति ॥८२॥
प्रबन्धे स्वर-पाठादि-भेदान् नाना-विधान् जगुः ।
रागान् नाना-प्रकारांश् च ग्रहांश् च न्यास-संयुतान् ॥८३॥
प्र्वन्धे प्रवन्ध-वस्तु रूपकाणां मध्ये शुध-विशेषे नानाविधान् स्वर-पाठादि भेदान् जगुः । नाना-प्रकारान् रागांश् च जगुः न्यास-संयुतान् ग्रहांश्च जगुः ते श्री-कृइष्णादय इति । तत्रैव रागा-ग्रहन्यासानां लक्षणानि । योऽयं ध्वान-विशेषस् तु स्वर-वर्ण-विभूषितः । रञ्जको-जन-चित्तानां स रागः कथितो वुधैः । गीतादौ स्थापिता यस्तु स ग्रहः स्वर उच्चते । न्यास-स्वर्स्तु विज्ञेयो यस्तु गीत-समपकः । इति ॥८३॥
सप्त-स्वरांस् तु सम्पूर्णान् षट्-स्वरान् षाडवाभिधान् ।
पञ्च-स्वरान् औडवांश् च जगुस् ते तांस् त्रि-भेदकान् ॥८४॥
सम्पूर्णान् सं-पूर्णाख्यान् सप्त-स्वरान् षाडवाख्यान् षट्-स्वरारां औडवाख्यान् पञ्च-स्वरांश् च । एवं त्रिभेदकान् स्वर्थे क स्त्रीन् भेदान् ते जगुः । किं वा एतां स्त्रीन् भेदान् स्वरान् तान् पूर्वोक्तां स्त्रीन् भेदान् शुध-सालग सङ्कीर्णान् रागांश् च जगुः ॥८४॥
मल्लार-कर्णाटक-नट्ट-साम-
केदार-कामोदक-भैरवादीन् ।
गान्धार-देशाग-वसन्तकांश् च
रागान् अगायन् सह मालवांस् ते ॥८५॥
अथ रागान् नामभिर् व्यञ्जयन्ति मल्लारेत्यादि । मल्लार-कर्णाटकेत्यादीन् मालव सहितान् रागान् ते कृइष्णादयो ऽगायन् । मल्लारादीन् माल-वञ्चागायन् इत्य् अर्थः । न तु सर्वत्र मालवस्य साहित्यं । मल्लारस्य ध्यानं यथा श्री-नारद-कृइत-पञ्चम-सार-संहितायां विद्वान् सुशीलो ऽतिसुकान्ति-देहः कान्ता-प्रिया-धार्मिक ओजसाढ्यः ! कावातुरः पिङ्ग-नेत्र-युग्मो-मल्लार-रागः कुसुम-प्रियश् चेति । एवं सर्वोषाम् उक्तानां वक्ष्यमाणां च रागाणां रागिणीनां च ध्यानानि द्र्पण पञ्चम-सार-संहितादौ सन्ति ? वाहुल्य-भयाद् अत्र न लिखितानि ॥८५॥
श्री-गुर्जरीं रामकिरीं च गौरी-
मासावरीं गोण्डकिरीं च तोडीम् ।
वेलावलीं मङ्गल-गुर्जरीं च
वराटिकां देश-वराटिकां च ॥८६॥
मागधीं कौशिकीं पालीं ललितां पठ-मञ्जरीम् ।
सुभगां सिन्धुडाम् एता रागिणीस् ताः क्रमाज् जगुः ॥८७॥
अथ सह गानाद् अधिकं श्री-कृइष्णं रञ्जयितु-कामाः सत्यः स्वतो रञ्जिकाः स्त्रीजाति-रागिणीः कृइष्णाभिला-वज्ञाः श्री-गोप्यः एव जगुः श्री-गुज्जरीति द्वाभ्यां ष्री-गुज्जर्यादि रागिणीस् ताः श्री-गोप्यः क्रमाज् जगुः ॥८६-८७॥
घनानद्ध-ततानन्ताः शुषिराणां च भेदकान् ।
वृन्दयोपहृतांस् तांश् च क्रमेणावादयन् मुहुः ॥८८॥
मुरजं डमरुं डम्फं मण्डुं च ममकादिकम् ।
मुरलीं पाविकां वंशीं मन्दिरां करतालिकाम् ॥८९॥
विपञ्चीं महतीं वीणां कच्छपीं करिनासिकाम् ।
स्वर-मण्डलिकां रुद्र-वीणां च ता अवादयन् ॥९०॥
वृइन्दयोपहृइतान् दत्तान् तान् प्र्सिधान् घनान्-अधततानानां शुषिराणां च भेदकान् भेदान् क्रमेण ता गोप्या मुहुर् अवादयन् । ततं वीणादिकं वाद्य-मानधं मुरजादिकं । वंश्यादिकन्तु शुषिरं कंश्य-तालादिकं घन मित्य् अमरः । सार-संहितायां ततं वद्यं तु देवानां गन्धर्वाणां तु शौषिरं । आनधं राक्षसानां तु मानवानां घनं विदुः । निजावतारे गोविन्दः सर्वम् एवानयत् क्षितौ । चतुर्विधेषु वाद्येषु स्वयं वदति भारती । एतेषां ध्वनि-रत्नानां भोक्ता नारायणः स्वयं । चतुर्विधेषु प्रधानं मुरजोमतः । यस्य संयोगम् आसाद्य सर्वं वाद्यं सुशोभते । मुरजं पद्मिनी-पत्र-द्वयोपम् अमुखद्वयः । इति । एवं सर्वदाद्यानां लक्षणानि सङ्गीत-शास्त्रे सन्ति, वाहुल्य-भयद् अत्र न लिखितानि । मुरजादीनि रुद्र-वीणां तानि च वाद्यानि ता गोप्यो अवादयन् ॥८८-९०॥
पताकां त्रिपताकां च हंसास्यां कर्तरी-मुखम् ।
शुकास्यं मृगशीर्षं च सन्दंशं खट्टका-मुखम् ॥९१॥
शुचीमुखं चार्ध-चन्द्रं पद्म-कोषाहि-तुण्डिकम् ।
नर्तने दर्शयामासुस् ता इत्य् आदिक-हस्तकान् ॥९२॥
ताः श्री-गोप्यः पताकादीन् अहि-तुण्डकान्तादीन् हस्तकान् नर्तने दर्शयाकासुः । हस्तक-लक्षणं यथा शास्त्रान्तरे । नर्तने व्यक्ति जनकः पदार्था-कृइति-कारकः । पदेतराङ्गुलिन्यास-विशेषो-हस्तकः स्म्रितः । इति । असंयुतः संयुतश् च विप्रयुक्तश् च स त्रिधा । तत्रैक-हस्तश् चार्थ-प्रकाशः स्याद् असंयुतः । हस्तद्वय-युतेरर्थ प्रकाशः संयुतो भवेत् । हस्ताभ्यां विप्रयुक्ताभ्यां यद्यर्थ्य स्यात् प्रकाशितः । नटस्य हस्तको नाम्ना विप्रयुक्तः स उच्यते इति । अख पताकादि-भेदानां लक्षणानि । यथा । कुञ्व्चिताङ्गुष्ठकः सम्यक् तर्जनी-मुलम् आश्रितः । पराको यत्र सहित-प्रसारिक-कराङ्गुलिर् इति ।१। कनिष्ठाङ्गुष्ठयोर् अग्र-संयोगो यत्र भाति सः । तर्जणी-मध्यमानामा प्र्सारस् त्रिपताककः ।२। तर्जनी-मध्यमाङ्गुष्ठा मिलिताग्राः परे पुनः । अङ्गुली विरले चोर्धे हंसास्यो हस्तकस् तु सः ।३। कनिष्ठा ऽनामिका ऽङ्गुष्ठा मिलिताग्राः पराङ्गुली । यत्र प्रसृइतभिन्ने स कर्तरी-मुख हस्तकः ।४। तर्जन्यनामिकाङ्गुष्ठा व्यक्ता यथाग्र-संयुताः । पराकस्य तदा तु स्यात् शुक-तुण्ड्क्-हस्तकः ।५। अङ्गुष्ठ-मध्यमानामाः संयुताग्राः पराङ्गुली । यत्रोर्धं प्रसृइते स स्यान् मृइग-शीर्षक-हस्तकः ।६। तर्जन्यङ्गुष्ठकौ यत्र मिलितावग्र-कुञ्चितौ । विरलोर्धाः परङ्गुल्यः सन्दंशः स तु कथ्यते ।७। वक्तिके मध्यमाङ्गुल्यो-विरलोर्ध्वे परे पुनः । पत्राग्रे ऽङ्गुष्ठ-तर्जन्यौ युक्ते तट खटका-मुखं ।८। अयन्तु हस्तकः संयुत एव । अस्यार्थः मध्यमाङ्गुल्यावितुक्ते हस्तयोर् इति ज्ञातं । मध्यमे च ते अङ्गुलौ चेति मध्यमाङ्गुल्याव् इति समासः । यत्र ते वक्तिके वक्ते । अङ्गुष्ठ-तर्जन्यौ त्वग्र-युक्तौ । अत्राङ्गुष्ठयोस् तर्जन्योश् चैकैक-वचने नाङ्गुष्ठ-तर्जन्योरित्युक्तम् इति ज्ञेयं । प्राण्यङ्गतूर्यसेनानीम् एकवद्भाव इति पाणिनीय-सूत्रं । पुनः परे तथैक-वचनेनोक्ते अनामाकनिष्ठे विरलोर्धे तत् खटका-मुखं । अर्थाधस् तयोर् मध्यमे वक्त्रे । अङ्गुष्ठावग्रे मिलितौ । तथा तर्जन्तौ चग्रे मिलिते अनामे कनिष्ठे च विरलोर्ध यत्र मध्यतः स-खटका-मुख-हस्तकः ।९। अङ्ग्ष्ठ-मध्यमे संयुक्ताग्रे चोर्ध्व ऽथ तर्जनी । कनिष्ठा अनामिके चोर्ध्वे सूची-मुखम् इतीरितं ।१०। पताकाङ्गुष्ठकश् चेत् तत् स्याद् आकृइष्टो ऽन्यतः पुनः । अर्ध-चन्द्र इति पोक्तो भरतादि-मिउनीश्वरैः । इति । अस्यार्थः । चेद् यदि अङ्गुष्ठ ऽन्यत आकृइष्टः स्यात् तत् तत्दा पताका पुनर् अधचन्द्र-हस्तकः स्यात् ।११। धनुर्-लताग्रमिलिताङ्गुलिकः पद्म-कोषकः । पताको निम्न-मध्ये यः स तु स्याद् आहि-तुण्डिकः ।१२। ॥९१-९२॥
**दधुस् तालान् बहु-विधान् काश्चित् तु ध्रुव-लक्षणान् ।
मण्ठ-लक्षणकांश् चान्यान् कांश्चित् तत्-तद्-विलक्षणान् ॥९३॥
अतीतानागत-समैर् ग्रहैश् च त्रिविधैर् युतान् ।
समा-गोपुच्छिका-स्रोतो-वहादि-यतिभिर् युतान् ॥९४॥
लयैश् च त्रिविधैर् युक्तान् द्रुत-मध्य-विलम्बितैः ।
निःशब्द-शब्द-युक्तेन द्विधा धरण-संयुतान् ॥९५॥
वर्धमानाभिधस् त्व् एको हीयमानाभिधः परः ।
इत्य् आवर्त-द्वयाढ्येन मानेन च समन्वितान् ॥९६॥ **
(चतुर्भिः कुलकम्)
वहु-विधांस् तालान् दधुः । ता उक्ताः श्री-गोप्य इति शेषः । तालान् कथम्भूतांस् तद् आह चतुर्भिः । कश्चित् तु ध्रुव-लक्षणान् । ध्रुवोऽस् तय पादः स्याच्छोटिका-शब्द-पूर्वक इति तत्रैव । मण्ठ-लक्षणकांश् च मण्ठ-लक्षणका विजयादयो द्वत्रिंशत् तत्र दर्पणे ज्ञेयाः । अन्यान् कांश्चित् तत् तन् मण्ठकादितो विलक्षणान् अन्यजातीयान् । अतीतानागतसमैस् त्रिविधैर् ग्रहैर् युतांश् च । एषां लक्षणानि तत्रैव समोऽतीतो हनागतश् च विषमश् च ग्रहा मताः । चत्वारो ज्ञेयकास् ताले सूक्ष्म-दृइष्ट्या विचक्षणैः । गीतादि-समकालस् तु समपाणिः समग्रहः । गीतादौ विहिते पश्चात् तालवृइत्तिर् विधीयते । अतीताख्यो ग्रहो ज्ञेयः सोऽवपाणिर् इति स्मृइतः । पूर्वं ताल-प्रवृइत्तिः स्यात् पश्चाद् गीतादि-रुच्यते । अनागतः स विज्ञेय स एषो परिपाणिकः । आद्यन्तयोर् न न्यमो विषम्-ग्रह-शब्दभाक् गीत-मध्यावसानुषु प्रयोगं सूक्ष्ममाचरेत् । तालो वितालो ऽनुतालः प्रतितालश् चतुर्विधः । समग्रहो भवेत् तालो-वितालो ऽतीतकः स्मृइतः । अनागतो ऽनुतालः स्याद् विषमः प्रतितालक इति । समादिभिर् यतिभिर् युतान् । समादयो यथा तत्र । त्र्त्र यतिः लय-प्रवृइति-नियमो यतिरित्य् अभिधीयते । समा स्त्रोतोवहा चन्या मृइदग्धा च प्रकीर्तिता । पिपीलिका च गोपुच्छा यतयः पञ्चधा स्मृइताः । आदि-मध्यावसानेन्षु लयैकत्वे त्रिधा मता । लयात्रय् आदादि-मध्यावसानुषु यथा क्रामात् । एवं समा । एवम् अन्यस् तत्र ज्ञेयाः । द्रुत-मध्य-विलम्बितैस् त्रिविधैर् लयैश् च युतान् । क्रियानन्तर-विश्रान्तिर् लयः स त्रिविधो मतः । द्विगुण-द्विगुणौ ज्ञेयौ तस्मान् मध्य-विलम्बितौ । मर्गभेदाच् चिरक्षिप्त-मध्य-भागोऽप्यनेकधा । लयोऽक्षरे पदे वाक्ये यौऽसौ नात्रोपयुज्यते । इति । निःशब्द-शब्द-युक्तेन द्विधा च रव-संयुतान् । ते यथा तत्र । ते तद्भेद-रवाः । निःशब्दा शब्दयुक्ता च क्रिया च द्विविधा मता । निःशब्दा च कला प्रोक्ता चतुर्धा निष्कामो विक्षेपश् च विशेषकः । नीःशब्देति चतुर्धोक्ता स-शब्दा च चतुर्विधा । ध्रुव-शम्पा तथा कालः सन्निपात इतीरितः । एषां प्र्त्येकं लक्षणानि तत्रैव ज्ञेयानि । वर्धमानाभिधो-हीयनानाभिधश् चेति द्वाभ्याम् आवर्ताभ्याम् आढ्येन मानेन च समन्वितान् । आवर्तयोर् लक्षणं तत्रैव ज्ञेयं । मान-लक्षणं तत्रैव । क्रियोर् अन्तरं यस्तु विश्रामो मान उच्यते इति ॥९३-९६॥
चञ्चत्-पुटं चाचपुटं रूपकं सिंह-नन्दनम् ।
गज-लीलाम् एक-तालं निःसारीमादि-तालकम् ॥९७॥
अड्डकं प्रतिमण्ठं च झम्पञ्च त्रिपुटं यतिम् ।
नलकूवरनुद्घट्टं कुट्टकं कोकिलारवम् ॥९८॥
उपाट्टं दर्पणं राज-कोलाहल-शची-प्रियौ ।
रङ्ग-विद्याधरं वादकानुकूलक-कङ्कणे ॥९९॥
श्री-रङ्गाख्यं च कन्दर्पं षट्-पिता-पुत्रकं तथा ।
पार्वती-लोचनं राज-चूडामणि-जय-प्रियौ ॥१००॥
रति-लीलं त्रिभङ्गीं च चच्चरत् वार-विक्रमम् ।
इत्य् आदीन् नर्तने तालान् दधुः कृष्णोऽस्य च प्रियाः ॥१०१॥
अथ श्री-कृइष्णो ऽस्य प्रियाः गोप्यश् च चञ्चत्-पुटादि-तालान् दधुर् इति पञ्चभिर् अन्वयः । तत्र वञ्चत्-पूट-चाच-पुटयोर् लक्षणं यथा । वतुरस्र इति तालो द्विधा मतः । चञ्चत्-पुटश् चाचपुट इति नाम्नी ययोः क्रमात् । इति अनयो-वहवो-भेदा एवं सर्वेषाम् आत्रोक्त-तालानां लक्षणानि भेद-प्रकारांश् च तत्रैव ज्ञेयं वाहुल्य-भयात् तत् सर्वं न लिखितं ॥९७-१०१॥
इति श्री-गोविन्द-लीलामृइते रास-विलस-वर्णने द्वाविंशः सर्गो ऽयं समाप्तो ऽभूत् ।
इति सदानन्द-विधायिन्यां द्वाविंशप्सर्गार्थाः ॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गो रास-विलास-वर्णनम् अनु द्वाविंशाकोऽयं गतः ॥
॥२२॥
…
(२३)