२१

एकविंशः सर्गः

**राधां साली-गणां ताम् असित-सित-निशा-योग्य-वेशां प्रदोषे
दूत्या वृन्दोपदेशाद् अभिसृत-यमुना-तीर-कल्पाग-कुञ्जाम् ।
कृष्णं गोपैः सभायां विहित-गुणि-कलालोकनं स्निग्ध-मात्रा
यत्नाद् आनीय संशायितम् अथ निभृतं प्राप्त-कुञ्जं स्मरामि ॥१॥ **

तां राधां कृइष्णञ्च स्मरामि प्रदोषे । कीदृइषां राधां सालिगणां असितनिशा कृइष्ण-पक्षीय-निशा सित-निशा शुक्ल-पक्षीय-निशा तद्योग्य-कृइष्ण-शुक्ल-वर्ण-वस्त्रादिभिर् वेशो यस्यास् तां । कृइष्णं कीदृइशं सभायां गोपैः सह विहितं कृइतं गुणिनां कलालोकनं येन तं । मात्रा स्नेह-युतया सभायाः आनीय संशायितं । अथ निभृइतं यथा स्यात्-तथा प्राप्त-कुञ्जं ॥१॥

अथाययौ हरेः पिता बहिः-सभां व्रजेशिता
निजाग्रजानुजैर् युतः सुमुत्-समुद्र-सम्प्लुतः ।
सहाखिल-व्रज-प्रजास् तम् आगमन् गुणि-व्रजा
हरेर् विलोकनाशया समृद्धया सिताशयः ॥२॥

हरेः पिता नन्दः व्रजेशिता व्रजेश्वरः ज्येष्ठ-कनिष्ठ-भ्रातृइभिर्युतः सुष्ठुमुदां समुद्रे सम्प्लुतः सम्मग्नः वहिः सभामाययौ । सहाखिल-व्रज-प्रजाः । अखिलगुणि-व्रजास् तं नन्दमागमन् । कीदृइशः समृइधया वृइधया हरेर् विलोकनाशया सिताशया वद्धाशयाः । दद्-वा सितः शुक्लः शुधः आशयो येषां ते ॥२॥

श्रेणि-मुख्य-लोक-विप्र-गोप-वृन्द-सङ्गिनः
स्व-स्व-विद्ययाऽघवैरि-तोषणातिरङ्गिणः ।
आययुः स्व-गीत-वाद्य-हास्य-लास्य-नन्दिनः
सूत-वंश-शंसि-नृत्य-गान-कर्तृ-वन्दिनः ॥३॥

श्रेणी-मुख्याः तैलिकताम्बुलिकादयो लोकाः तैः सह विप्रगोप-वृइन्दं सङ्गे येषां ते स्व-स्वविद्यया अघवैरिणः कृइष्णस्य तोषणेऽतिरङ्गो विद्यते येषां ते स्वेषां गीतादौ नन्दिनः आनन्द-युक्ताः । सूताः पौराणिकाः प्रोक्ताः मागधा-वंश-शंसिनः । वन्दिनस् त्वत्वमल-प्रज्ञाः प्रस्ताव-सदृइशोक्तय इत्यमरः । नृइत्यकर्तारश् चययुः ॥३॥

ते गोप-राज्ञा मिलिता यथायथं
स-गौरवम् स-प्रणयानुकम्पितम् ।
सम्मानितास् तेन मुदान्विताः स्थिताः
कृष्णेक्षणोत्कण्ठित-नेत्र-चेतसः ॥४॥

पूर्वोक्ता गोपराजा-मिलिता इति पाठे आ सम्यन् मिलिता इत्यर्थः । गोपराज्ञा मिलितास् तेन यथा-यथं यथा-योग्यं सगौरवं यथा स्यात् प्रणयेन सयानुकम्पितं यथा स्यात्-तथा । सम्मानिता मुदान्विता अपि कृइष्ण-दर्शनार्थमुकण्ठितानि नेत्र-चेतांसि येषां ते स्थिताः ॥४॥

शेते सुतः श्रम-भराद् विहिताशनोऽसौ
लोकास् तद्-ईक्षण-तृषो बत किं विधेयम् ।
इत्थं विचिन्तयति गोप-पताव् अकस्मात्
कृष्णः स्वयं सखि-कुलैः सहितः समायात् ॥५॥

असौ सुतः कृइष्णः शेते । लोकाः कृइष्ण-दर्शनाय सतृइष्णाः । इत्थं गोप-पतौ नन्दे चिन्तयति सति अकस्मादित्यादि ॥५॥

स्वान्ताम्बुधिं नेत्र-चकोर-वृन्दं
रोमौषधिश् च स्मित-कैरवालीम् ।
सम्फुल्लयन् घोष-कृतालयानम्
सभोदयाद्राव् उदितो हरीन्दुः ॥६॥

घोश-निवासिनां स्वान्ताम्बुधिं सम्फुल्लयन् नेत्र-चकोरादिकं सम्फुल्लयन् हरीन्दुः सभा-रूपोदय-पर्वते उदितोऽभूत् ॥६॥

विप्रान् गुरून् स्वाञ्जलि-बन्ध-वन्दनैः
समान् सखींश् च स्मित-मिश्रितेक्षणैः ।
पाल्यांस् तथान्यान् सदयावलोकनैः
सम्भाष्य तान् सोऽपि विवेश सङ्गिभिः ॥७॥

विप्रान् गुरून् वन्दनैः समादीन् सस्मितेक्षणैः । पाल्यादीन् सदयावलोकनैः सम्भाष्य सङ्गिभिः सह स कृइष्णः ॥७॥

वेद-ध्वानैर् जय-जय-रवैः पूर्व-वंश्यानुवादैस्
तत्-तल्-लीला-विरुद-पठनैर् वादितैर् भूरि-वाद्यैः ।
हर्षोद्घोषैः स्तुति-कलकलैः सङ्गतानां जनानां
घोषः कृष्णे व्यतनुततरां स्वस्य नाम्नो निरुक्तिम् ॥८॥

सङ्गतानां जनानां वेदध्वानादिभिर् घोष आभीर-पल्ली श्री-नन्दस्य ग्रामः घोष इति स्वस्य नाम्नो निरुक्तिं तरामशयेन कृइष्णे व्यतनुत । वुरुदं कवयः प्राहुर् गुणोत्कर्षादि-वर्णनमिति नाटक-चन्द्रिका ॥८॥

व्रजेन्द्रेणेरितः क्षत्ता लोकान् उत्कर-चालनैः ।
कोलाहलान् निवार्यैतान् यथा-स्थानं न्यवेशयेत् ॥९॥

व्रजेन्रणेरित आज्ञप्तः क्षत्ता अग्रवर्ती वेत्रधारी दूतः लोकान् उच्चं कृइत्वा करस्य चालनैः कोलाहलात् मुख-शब्दजान् निवार्यैताल् लोकान् यथा-योग्यस्थानं न्यवेशयत् ॥९॥

तेषूपविष्टेषु नृपेङ्गितेन ते
विचक्षणाः स्व-स्व-कलाः पृथक् पृथक् ।
प्रदर्शयन्तः क्रमशः कला-विदः
स-लालसान् सभ्य-जनान् अतोषयन् ॥१०॥

तेषु जनेषूपविष्तेषु कला नाट्यादिस्तां विदन्ति जानन्तीति कलाविदो विचक्षणा नृइपङ्गितेन स्व-स्वकलाः क्रमशः दर्शयन्तः सभ्यजनान् ॥१०॥

छालिक्यादि-नृत्यम् एकेऽन्ये लास्यं ताण्डवं परे ।
नृसिंह-राम-चरित-रूपकाभिनये परे ॥११॥

कलाः प्राह । छालिक्यं स्थाल्यां स्थित्वा नृइत्यभेदमेके सम-दर्शयन्निति परेणान्वयः । लास्यं स्त्री नृइत्यं । ताण्डवं पुन्नृइत्यं ।नृइसिंह-रामयोश् चरितस्य च रूपकमभिनयञ । नृइसिंह-रामयोरूपकं रूपधारणं चरितस्याभिनयं सदृइशचेष्टितम् अदर्शयन् ॥११॥

विद्यां वंश-नटीम् अन्ये सूत्र-सञ्चारिकां परे ।
नानेन्द्रजालान्य् अपरे निपुणाः समदर्शयन् ॥१२॥

वंशनटी वंशोपरि कृइतां नटन-रूपविद्यं । सूत्रस्य नाशादि-द्वारा प्रवेश-निर्गमादिकां । नानेन्द्रअजालानि नानादेशस्थ-द्रव्यादेरानायन्ं वृइक्ष-फलादेः सद्योत्पादनादीनि ॥१२॥

श्रावयामासुर् इतरे पुण्याः पौराणिकीः कथाः ।
गीतानि विविधान्य् एके केचित् वंशानुवर्णनम् ॥१३॥

इतरे पौराणिकीः पुराणोक्त-कथाः । पूर्व-वंशजातानां चरित्रानुवर्णनम् ॥१३॥

चतुर्-विधानां विद्यानां भेदान् अन्ये श्रुति-प्रियान् ।
केचित् कृष्णस्य जन्मादि-लीलाढ्यां विरुदावलीम् ॥१४॥

चतुर्विधानाः ततमानधं शुषिरं घनमेषां वाद्यानां भेदान् । ततं वीणादिकं वाद्यमानधं मुरजादिकं वंश्यादिकन्तु शुषिरं कांस्यतालादिकङ्घन मित्यमरः । वुरूदावली-लक्ष्णं यथा विरुदं कवयः प्राहुर् गुणोत्कर्षादि-वर्णनम् ॥१४॥

तेभ्यो व्रजेशादि-सभासदो ददुर्
वासोधनालङ्करणान्य् अनेकधा ।
ते तानि कृष्णेक्षण-पूर्ण-मानसाः
स्वीचक्रुर् आचारतया न तृष्णया ॥१५॥

तेभ्यो नर्तकादिभ्यो वस्त्र-धनादीनि व्रजेशादयो ददुः । ते नर्तकादयस् तानि वत्रादीनि आचारतया स्वीचक्रुर् न तु तृइष्णया । तर हेतुमाह कृइष्णेक्ष्ण-पूर्णमानसाः ॥१५॥

कृष्णाननेन्दोः स्मित-कौमुदीं भृशं
निपीय सभ्याऽक्षि-चकोर-सन्ततिः ।
वसन्त्य् अपि स्वाश्रु-मिषाद् अतृप्ति-भाक्
पिबत्य् अहो प्रेम-गतिः सुदुर्गमा ॥१६॥

सभ्यानां नेत्र-रूप-चकोराणां ततिः समूहः कृइष्ण-मुखेन्दोः स्मितज्जोत्स्नां भृइशं निपीय स्वाश्रुमिषाद् वमन्त्यप्यहो अद्भुतं अतृइप्तिर्भाक् सती पिवति । तत्र-हेतुमाह । प्रेम्नो गतिः सुदुर्गमा । ते नर्तकादयः अश्रु-पुलकादियुक्ताः कृइष्ण-मुख-दर्शने त्रिप्तिं न ययुरिति भावः ॥१६॥

तावद् व्रजेशा-प्रहितः स रक्तकः
सभां समेत्याह नमन् व्रजेश्वरम् ।
व्रजावनीशोत्क-मना व्रजेश्वरी
दिदृक्षते श्री-युत-भर्तृ-दारकम् ॥१७॥

यशोदया प्रहितः प्रस्थापितो-रक्तकनामा स कृइष्णदासः सभामेत्य व्रजेश्वरं नमन्नाह । हे व्रजावनीश उत्कमना उत्कण्टिताव्रजेश्वरी श्रीयुतं भर्तृइदारकं कुमारं कृइष्णं दिदृइक्षते । कुमारो भर्तृइदारक इत्यमरः ॥१७॥

ततो व्रजेन्द्रेण कृताग्रहोत्करः
सभ्यान् निजालोक-वियोग-कातरान् ।
सिन्चन् सहार्द्र-स्मित वीक्ष्यणामृतैः
कृष्णः प्रपेदे निज-मातृ-मन्दिरम् ॥१८॥

व्रजेन्देण कृइत आग्रहस्योत्करोऽतिशयः यस्य सः कृइष्णः सभ्यान् निजावलोकस्य वियोगेनाभावेन कातरान् । आर्द्रेण कोमलेन स्मितेन सहितैर् वीक्षणामृइतैः सञ्चन् निजमातृइ-गृइहं प्रपेदे ॥१८॥

ताव् आगतौ स-मधुमङ्गल-मित्र-वृन्दौ
माता सुताव् अथ निवेश्य सुमृष्ट-वेद्याम् ।
दुग्धं घनं स-शशि-शर्करम् ईषद्-उष्णं
स्तन्याश्रु-सिक्त-सिचयालम् अपाययत् तौ ॥१९॥

मधुमङल-मित्र-वृइन्दैः सहागतौ तौ सुतौ माता सुमार्जित-वेद्यां निवेश्य शशी कर्पूरः शर्करा च तत्-सहितं ईषदुष्णं घनं पाकातिशयेन सान्द्रं दुग्धं स्तन्य दुग्धेनाश्रुभिश् च स्निग्धमार्द्रं सिचयं वस्त्रं यस्यास् तथा सती तौ अलम् अतिशयेनापाययत् ॥१९॥

ततो गते मित्र-गणे निजालयं
स-रोहिणीका जननी सुवत्सला ।
आनीय शय्या-निलये निजे निजे
बटुं बलं कृष्णम् अशीशयत् पृथक् ॥२०॥

निज-गृइहं मित्रगणे गते सति जननी निजे निजे शय्या-गृइहे वटं वलं कृइष्णञ्च पृइथगशीशयत् ॥२०॥

शाययित्वाथ तांस् तद्-तद्-दासान् संयुज्य सेवने ।
तेषां स्वच्छन्द निद्रायै चलिता सा निजालयम् ॥२१॥

तेषां स्वच्छन्द-निद्रार्थं तत्-तदान सेवने संयुज्य सा निजालयं ॥२१॥

यान्ती दासान् अवदद् अथ सा स्नेह-विक्लिन्न-चित्ता
वत्सा वत्सो वन-विहरणैः श्रान्ति-भाङ् मे यथासौ ।
अत्रायातान् विविदिषु जनान् वारयद्भिर् बहिः-स्थैर्
आप्रत्यूषां स्वपिति निभृतं तद्-विधेयं भवद्भिः ॥२२॥

यान्ती सा दासानवदत् हे वत्साः वन-विहरणैः श्रान्तिभागसु मे वत्स आप्रत्यूषं ऽउषःकालमभिव्याप्य निभृइतं यथा स्वपिति तद्भवद्भिर् विधेयं । कीदृइशैः । अत्रायातान् वक्तुमिच्छून् जनान् वारयद्बिर् वहिस्थितैः ॥२२॥

श्री-राधिकाप्य् अशकलेन्दु-करोज्ज्वलायां
रात्राव् इहात्म-रमणाप्ति-समुत्सुकासौ ।
सङ्केत-कुञ्ज-गमन-त्वरिता सखीभिः
शुक्लाभिसार-रचनां चतुरा चकार ॥२३॥

श्री-राधिकापि अश्कलेन्दोः । भित्तं शकल-खण्डे वा इत्यमरकोषात् । अशक्लस्य पूर्ण-चन्द्रस्य करेण किरणेनोज्जलायां रात्रौ कृइष्ण-प्राप्तौ समुत्सुका श्क्लाभि-साररचनां चकार ॥२३॥

हंसांशुका स-शशि-चन्दन-लिप्त-काया
मुक्ता-विभूषण-चिता धृत-मल्लिका-स्रक् ।
यत्नेन मूकित-सुनूपुर-किङ्किनीका
राधा ययौ स्व-सदृशालि-युता निकुञ्जम् ॥२४॥

रचनाम् आह । हंसवत् शुक्ल-वर्णमंशुकं वस्त्रं यस्याः सा । शशी कर्पूरस् तदयुक्त-चन्दनेन लिप्तं शरीरं यस्याः सा । मूकिते शब्दरहितीकृइते सुनूपुरं किङ्गिणी क्षुद्र-घण्टिका च ते यस्याः । स्व-स्दृइशाभिस् तुल्यवेशाभिः सखीर्युता निकुञ्जं ययौ ॥२४॥

कदाचित् तामस्याम् असित-वसना सा मृगमदैर्
विलिप्ताङ्गी कालागुरु-तिलक-चित्रोत्पल-कुलैः ।
कृतोत्तंसा नानासित-मणि-कृतालङ्कृति-युता
निराबाधा राधा प्रियम् अभिसरत्य् आलि-सहिता ॥२५॥

तामस्यामन्धकारस्य वर्णसाम्यात् निरावाधा वाधारहिता प्रियं ॥२५॥

वृक्ष-च्छाये पथि पथि भिया वञ्चयन्ती स्व-गम्यं
स्थानं वंशीवट-विटपिनः शाखया लक्षयन्ती ।
न्यस्य स्वीये हृदय-कमले सोह्यमाना निगूढं
यन्त्राकारे व्रज-वन-भुवा प्राप कृष्णा-समीपम् ॥२६॥

सा राधा वृइक्षाणां छाया यत्र तत्र । यद्वा छायावाहुल्य इति सूत्रेण वृइक्षाणां वाहुल्याच्छायाया नपुंसकत्वं वृइक्ष-च्छायायामित्यर्थे वृइक्षच्छाये पति पथीत्येकस्मिन् पति प्रतिपादने तु पथो वाहुल्यमित्यर्थः । तत्र स्वगम्यं स्वगमनं वञ्चयन्ती सती वंशी-वटाख्यस्य विटपिनो वृइक्षस्य शाखया स्थानं सङ्केत-स्थानं लक्षयन्ती अङ्कयन्ती परिचयन्ती जानन्ती पश्यन्ती वा । किम्बा । सखीर्ज्ञापयन्ती दर्शयन्ती वा । लक्ष दर्शनाङ्कयोः लक्षयन्तीति चुरादिः प्रेरणम्बा । व्रज-वनभुवा निगूडं यथा स्यात्-तथा यन्त्राकारे स्वीये हृइदय-कमले न्यस्य धृइत्वा उह्यमाना प्राप्यमाना सती आलि-सहिता राधा यमुनातीरं प्राप । कृइष्णाया यमुनायाः समीपं तत्स्थानं प्राप । व्रज-भुवोऽद्भुता शक्तिरियं श्री-कृइष्ण-तत्परिकराणां यदा यत्र गन्तमिच्छा भवेत् तदैव तत्र स्थले तान् प्रापयति । यथा काष्ठादिनिर्मित-यन्त्रं यन्त्रोपरिस्थान् जनान् क्ष्णेनैव दूरदेशं नयति तथेत्यर्थः ॥२६॥

जानु-दघ्न-जलं तीर्त्वा यमुना-निर्झरं मुदा ।
द्वीपायमानं सङ्केती-कृत-कृष्णा-तटं ययौ ॥२७॥

यमुनाया निर्झरं जानु-परिमितं जलं यत्र तं भीर्त्वा द्वीपमिवाचरितं द्वीपायमानं सङ्केती-कृइतं कृइष्णाया यमुनायास् तटं ययौ ॥२७॥

श्री-गोविन्द-स्थलाख्यं तटम् इदम् अमलं कृष्ण-संयोग-पीठं
वृन्दारण्योत्तमाङ्गं क्रम-नतम् अभितः कूर्म-पीठ-स्थलाभम् ।
कुञ्ज-श्रेणी-दलाढ्यं मणि-मय-गृह-सत्-कर्णिकं स्वर्ण-रम्भा-
श्रेणी-किञ्जल्कम् एषा दश-शत-दल-राजीव-तुल्यं ददर्श ॥२८॥

एषा श्री-राधा दश-शतदलराजीवतुल्यं सहस्रदल-कमल-सदृइशं श्री-गोविन्दस्थलाख्यं तटं श्रुतिनेत्रहारीति चत्वारिंशत्-श्लोकस्थस्थं ददर्श । कीदृइशं तटं । कृइष्णस्य श्री-राधायाश् च योगः संयोगो यत्र तथाभूतं पीठं योगपीठाख्यं । वृइन्दावनस्योत्तमाङ्गं मस्तकरूपं अभितश्चतुर्दिक्षु क्रमनतं । क्रमनतौ दृइष्टान्तमाह कुर्म-पृइठस्तलतुल्यं । कमल-सदृइशं यदुक्तं तदेवाह । कुञ्ज-श्रेणय एव दलानि दल-तुल्यास्तैराढ्यं युक्तं । मणिमय-गृइहं सत्कर्णिकातुल्यं यत्र तत् । स्वर्ण-वर्ण-कदली-श्रेण्येव किञ्जल्काः केशराणि केशरतुल्या यत्र तत् ॥२८॥

वहन्त्या कृष्णयोदीच्यां पूर्व-पश्चिम-भागयोः ।
निर्यन्-निर्झर-बाहुभ्यां क्रोडीकृतम् इवाभितः ॥२९॥

उदीच्यामुत्तरस्यां दिशि वहन्त्या यमुनया पूर्व-पश्चिमभागद्वये निर्यद्भ्यां निर्गच्छद्भ्यां निर्झर-रूपवाहुभ्यामभितः क्रोडी-कृइतमिव ॥२९॥

शालैस् तालैस् तमालैश् चल-दल-बकुलैर् नारिकेलै रसालैः
कुद्दालैः सप्रियालैर् दधिफल-सरलैः श्रीफलोलूखलैश् च ।
उद्दालैः कन्दरालैः सलकुच-तिलकैर् जम्भलैः पीत-शालैः
प्लक्षैस् तूलैः पलाशैर् अबलु-गुड-फलैर् गालवैर् ग्रन्थिलैश् च ॥३०॥

पुनः कीदृइशं । यत्-तटं लताराजिभिर् विराजितानि अङ्गानि येषां तैः शालादिभिर् भूरुहैर् वृइक्षैर् व्याप्तमिति पञ्चम-श्लोकेनान्वयः । शालैः तालैः तमालै चलदलैर्श्वत्थैः वकुलैः रसालैः नारिकेलैराम्रैः कुद्दालैः कोविदारैः । कोविदारे चमरिकः कुद्दालो युगपत्रक् इत्यमरः । स-प्रियालैः प्रियालसहितैर् दधि-फलैः कपित्थैः सरलैश् च श्रीफलैर् विल्वैः उलूखलैर् गुग्गुलुभिः । उद्दालैर् वहुदारकैः कन्दरालैर् गन्ध-पिप्पलीभिः लकुचै सह तिलकैः जम्भलैर् जम्बीरैः । पीतशालैरासनैः । प्लक्षैर् वटैः । तुलैर् ब्रह्मदारुभिः । पलाशैः अवलुभिः गुड-फलैः पीलुभिः गालवैर् लोधैः गालवः शारवोलोध्र इति ग्रन्थिलैः करीरैः । करवीरे करीरे तु क्रकरगृइन्थिलावुभा वित्यमरः ॥३०॥

गोलीढैः कण्टकि-फलैर् मधुष्ठीलैर् मधूलकैः ।
कृतमालैर् द्रुकिलिमैः फलाध्यक्षैर् हलिप्रियैः ॥३१॥

गोलीढैः । गोलीढो झाटलोघण्टा पाटलिर् मोक्षमुस्ककौ । कण्टकिफलैः पनसैः । मधुष्ठीलैः मधुलकैः कृइतमालैः द्रुकिलिमैर् देवदारुभिः । फलाध्यक्षैराजादनैः । हलिप्रियैः कदम्बैः ॥३१॥

मञ्जुलैर् वञ्जुलैः कोलैर् वञ्जुलैर् वञ्जुलैर् अपि ।
द्रुमोत्पलैः कर्परालैः कुलकैर् देव-वल्लभैः ॥३२॥

वञ्जुलैरशोकैः । वकुलो वञ्जुलोऽश्के इत्यमरः । कोलैर् वदरैः । वञ्जुलैर् वकुलैः । वञ्जुलैः करि-पिप्प्यल्याख्यैः । द्रुमोत्पलैः कर्परालैः । कुलकैर् देववल्लभैः केसरैः ॥३२॥

**कल्प-द्रुमैर् वाञ्छित-दान-कल्पैर्
अपारिजातैर् अपि पारिजातैः ।
मन्दार-वृक्षैर् अपि राङ्क्यदारैः
सन्तानकैः सम्मद-तानकैश् च ॥३३॥
शश्वद् धरेश् चित्त-शरीर-चन्दनैर्
यच् चन्दनैः श्री-हरि-चन्दनैर् अपि ।
महा-वदान्यैर् इतरैश् च भूरुहैर्
व्याप्तं लता-राजि-विराजिताङ्गकैः ॥३४॥ **

(पञ्चभिः कुलकम्)

पारिजातैरपि मन्दारैः अपि । सन्तानकैः सन्तानैश् च । मन्दारः पारिजातकं । सन्तानः कल्प-वृइक्ष शैत्यमरः ॥ चन्दैः हरि-चन्दनैः । पुंसि वा हरिचन्दन मित्यमरः । इतरैरुक्तेभ्यो भिन्नैर् भुरुहैश् च एतैः सर्वैः । कीदृइशैः मञ्जुलैर् मनोहरैः । पुनः कल्प-द्रुमैर् वाञ्छितानां वराणां दाने कल्पऐः समर्थैः । यत्-वा । कल्पद्रुमैर् देव-वृइक्षैरर्थाद् अप्राकृइतैः वाञ्छितदान-कल्पैः प्राणिनां वाञ्छितानां श्री-कृइष्णादीनामपि लीलोपयोगिनां वाञ्छितानां वस्तूनाञ्च दाने कल्पैः समर्थ्यैः अपारिजातैः अपवर्जितमरिजातं प्राणिनां काम-क्रोधादिक्षुत्-पिपासादि-शत्रु-समूहो येभ्यः सकाशात् । किम्वा । वर्जितमरिजातं जरा-मरणादिशेआआन्तैः सदैव नव-नवायमानैरित्यर्थः । महावदान्यैः । वदान्यो दातृइमहतो रित्यमरः । अतो राङ्क्यदारैः रङ्कस्य भावोराञ्कं दुःखं तस्य दारो विदारणं येभ्यस्तैः ! किम्वा । राङ्क्यं दारयन्तीति राङ्क्यदारास्तैः कर्मण्यन् सम्मदतानकैः सर्वेषां हर्ष्विस्तारकैः अन्येषां हर्षं विस्तारकत्व किं वक्तव्यं । शश्वत् सदा पुनः पुनर् वा हरेः सर्वेषां दुःख-हरणशीलस्य परम-सुखप्रदस्य श्री-कृइष्णस्य चित्तशरीर-चन्दनैः चित्त-शरीरहोश् चन्दनवदाह्लादकैः ॥३३-३४॥

**श्री-वासन्ती-सप्तला-स्वर्ण-यूथी
जाती-यूथी-मल्लिका-मुद्गराद्यैः ।
विष्णुक्रान्ता-कृष्णला-भीरु-बिम्बा
कुब्जास्फोताद्यैश् च वल्ली-समूहैः ॥३५॥
लवङ्गाशोक-कुन्दाम्र-लताभिश् चान्वितं च यत् ।
द्राक्षा-भुजग-वल्लीनां वलजैश् च क्वचित् क्वचित् ॥३६॥ **

(युग्मकम्)

तत् योगपीठं पुनः कीदृइशं तदाह श्रीत्यादि द्वाभ्यां । श्री-युक्ता वासन्ती माधवीलता । सप्तला वनमल्लिका । स्वर्ण-यूथी । जाती यूथी मल्लिका । मुद्गराद्यैः । विष्णुक्रान्ता अपराजिता । कृइष्णला गुञ्जा । चिञ्चागुञ्जे तु कृइष्णले त्यमरः । भीरुः शतमूली विम्वा विम्ब-फललता । क्वचित् क्वचित् । द्राक्षाणां भुजगवल्लीनां ताम्बुल-वल्लीनाञ्च-वलजैः क्षेत्रैश्चाम्बितं । वलजे क्षेत्र-पूर्द्वारे वलजा वल्गु-दर्शना इति नानार्थः । वलजं गोपुरे क्षेत्रे शस्य सङ्गरयोरपि । वलजा वरषोषाया मिति मेदिनी ॥३५-३६॥

वल्ल्यः सर्वा यत्र ताः कल्पवल्ल्यो
वृक्षाः सर्वे कल्पवृक्षा बकारेः ।
गोपीनां चाभीष्ट-पूर्तौ समर्था
जात्या या ये तादृशः किन्तु तास् ते ॥३७॥

यत्र पीठे ताः सर्वाः वल्ल्यः कल्प-वल्ल्यः सर्वेः वृइक्षाः कल्प-वृइक्षाः । कृइष्ण-गोप्योरभीष्ट-पूर्ति-विषये समर्थाः किन्तु जात्या या लताः ये वृइक्षाः ता लताः ते वृइक्षाः तादृइशास्तदाकाराः ॥३७॥

पुष्पवत्योऽप्य् अमालिन्याः सन्दृष्ट-रजसोऽप्य् अहो ।
सुकुमार्यः स-प्रसवा अपि मुग्धा लता इह ॥३८॥

इह पीथे लताः । स्त्रीजातयोऽपि स्त्रीभ्योऽपि विलक्ष्णा इत्याह, वैलक्षण्यं यथा पुष्पवत्यः विकसित-कुसुमा अपि पुनः अमालिन्याः । सन्दृइष्टरजसः सम्यक् दृइष्टानि रजांसि धूलयः परागा यासां ता अपि पुनः सुकुमार्यः सुन्दर-कोमल-पत्र-शाखादियुताः सप्रसवाः सफला अपि पुनः मुग्धाः सुन्दर्यः सन्तीत्यूह्यं । पुष्पफलानाम् एककालोदयात् अहओ आश्चर्यमिति । अस्मिन्नर्थे अपि शब्दानां समुच्चयार्थः । स्त्रीजातितः स्त्रीत्वारोपेतु गर्हार्थाः । यथा पुष्पवत्योऽप्यमालिन्यः । सन्दृइष्टरजसोऽपि सुष्ठु कुमार्यो वालिकाः । सप्रसवाः प्रसूत-पुत्रा अपि मुग्धा अशृइङ्गारविदः एतत् सर्वमहो आश्चर्यम् ॥३८॥

यत्रानिशं कृष्ण-सङ्गाद्
गोप्यः श्यामलतां गताः ।
स्तब्धाः स्थावरतां प्राप्ताः
सन्ति श्याम-लता-च्छलात् ॥३९॥

यत्रानिशं सदा कृइष्ण-सङ्गात् गोप्यः श्यामलतां श्याम-वर्णतां गताः । श्यामलताच्छलात् स्त्व्धा स्थावरतां प्राप्ताः सन्ति ॥३९॥

**सहचर्यश् च दास्यश् च राधेशालोक-मोदतः ।
स्तब्धाः कण्टकिता मूर्ति-भेदैर् गुल्मतया स्थिताः ॥४०॥ **

(युग्मकम्)

सहचर्यं सख्यो दास्यश्च राधेशः कृइष्णस् तस्य राधेशयोराधाकृइष्णयोर्वा दर्शनानन्दात् स्त्व्धाः सथः स्थावरतां प्राप्ता मूर्तिभेदैः कण्टकिताः पुलकेन कण्टक्युता गुल्मलताक्यतया स्थिताः ॥४०॥

श्री-भू-लीलाः सेवने नन्द-सूनोर् लुब्धा
लब्धाः स्थास्नुतां भूरि-पुण्यैः ।
जाती-धात्री-श्री-तुलस्यात्मनाद्धा
कुर्वन्त्यस् तद् यत्र नित्यं वसन्ति ॥४१॥

कृइष्ण-सेवने लुव्धाः श्री-भूलीलाशक्तयः भूरि-पुण्यैः क्रमेण जाती धत्री श्रि-तुलसी स्वरूपेनाद्धा साक्षात् स्थावरतां लव्धाः सत्यः तत्-कृइष्ण-सेवनं कुर्वन्त्यः सत्यो यत्र नित्यं वसन्ति ॥४१॥

ब्राह्मी हैमवती चात्र कृष्णालोक-त्र्ष्णया ।
सोमवल्ली-हरीतक्योश् छलेन स्थास्नुतां गते ॥४२॥

ब्राह्मी सावित्री हैमवती पार्वती चत्र सोव-वल्ली हरितक्योर्मिषेण स्थावरतां गते । ब्राह्मीतु मत्स्याक्षी वयस्था सोम-वल्लरीति । हरीतकी गैमवतीति चामरः ॥४२॥

कृष्णायानन्ददा भान्ति पद्मिन्योऽत्र जले स्थले ।
चर-स्थिरतया तद्वज् जले राजीव-पालयः ॥४३॥

अत्र जले पद्मिन्यः कमलिन्यः स्थले पद्मिन्या करिण्यः । तद्-वज्-जलेचर-स्थिरतया राजीवपालयः । स्थिरतया राजीव-पालयः पद्म-श्रेणयः । एताः कृइष्णाया नन्ददा हर्षदाः । कृइष्णया यमुनायाः नन्ददा समृइद्धिदा वा भान्ति । टु नदि समृइद्धौ ॥४३॥

यत्र भाति स्थिरा फुल्ला रजनी दिवसेऽप्य् अहो ।
दिनेऽपि कृष्ण-पक्षेऽपि ज्योत्स्नी च स्थास्नुतां गता ॥४४॥

यत्र दिवसे स्थिरा फुल्ला च सति रजनी भाति । अत्र दिवसे रजनी रात्रिस् तस्याः स्थितिर् विरोधः रजनी लताविशेषः स्थिरा इति विरोधाभावाद्-विरोधाभासा लङ्कारः । जनी जतूका रजनी त्यमरः ज्योत्स्नी चन्द्रकयान्वितेति चन्द्र-किरण-युक्ता रात्रिः सा दिनेऽपि कृइष्ण-पक्षेऽपि स्थास्नु तां गता इति विरोधः । ज्योत्स्नीलता इति विरोधाभावात् विरोधाभासः । ज्योस्नी पटोलिका जाली त्यमरः ॥४४॥

शरालिर् भात्य् अप्सु चरा शरालिश् च स्थिरा स्थले ।
चर-स्थिरतया यत्र झषा भान्ति जले स्थले ॥४५॥

अप्सुचरा शरालिः पक्षि-विशेषः । स्थले स्थिया शरालिः शराणां मुञ्जनां श्रेणीः । चरतया जले झषा मत्स्याः स्तिरतया स्थले झषा गोरखभटाः । गाङ्गेरुकी नागवला झषा ह्रस्व गवेषुका इत्यमर ॥४५॥

शाला भान्ति चरास् तोये यत्र शाला स्थिरा स्थले ।
रोहितोऽप्सु चरस् तीरे रोहितौ च चर-स्थिरौ ॥४६॥

यत्र तोये चराः शालाः रोहितमत्स्या भान्ति । रोहितोमुद्गरः शाल इत्यमरः । स्थले स्तिरा शाला वृइक्षा गृइहाणि वा भान्ति । शाल-द्रु-स्कन्द-शाखायां गृइहगेहैकदेशयो रिति मेदिनी । अप्सुचरो रोहितमतस्यः मत्स्य-विशेषस्तीरे स्थलेचर-रोहितो मृइग-विशेषः । स्थिररोहितो वृइक्ष्-विशेषः ।

रोहितं कुङ्कुमे रक्ते ॠजु शत्रु-शरासने । पुंसि स्यान्मीन-मृइगयोर् भेदेरोहितकद्रुमे । इति मेदिनी ॥४६॥

कमला भान्ति कुञ्जेषु यत्र कृष्णस्य तुष्टये ।
दीव्यन्ति कमलास् तीरे कमले कमलान्य् अपि ॥४७॥

यत्र कृइष्णस्य तुष्टये कुञ्जेषु कमला नायिका भान्ति तीरे कमलाः कुरङ्गा-मृइग-विशेषा भान्त्नि । स्यात् कुरङ्गस्तु कमल इत्यमरः । मृइगभेदेतु कमलः कमलाः श्री-वरस्त्रियो रिति मेदिनी कमले जले कलानि पद्मानि भान्ति—सलिलं कमलं जलमिति वा पुंसि पद्मं नलिनमरविन्दं महोत्पलं । सहस्रपत्रं कमलम् इति चामरः ॥४७॥

विरहितम् अपि रक्ताक्षैः प्राणिभिर् अभितः सदा यद् इदम् ।
रक्ताक्षै रक्ताक्षै रक्ताक्षैश् चान्वितम् सततम् ॥४८॥

रक्ताक्षैः क्रूरै प्राणिभिः सदा विररितं यदपीदन्तीरं तदपि सततं रक्ताक्षैरन्वतमित्यत्र भावा-भावयोर् एकत्र स्थितेर् असम्भवाद्-विरोधः रक्ताक्षैः सारसैः रक्ताक्षैः पारावतैः राक्त्क्षैः चकोरैश् चान्वितमित्यत्र रक्ताक्ष्-श्ब्देन सारसादि परतया व्याख्यानात् विरोधाभावाद्-विरोधाभासः । एवमग्रे ज्ञेयं । रक्ताक्षः सारसे क्रूरे पारावत चकोरयो रिति विश्व-प्रकाशः ॥४८॥

वियुतं कलिकारैर् यत् संयुतं कलिकारकैः ।
भीमैः सत्त्वैर् विहीनं च स्थिरैर् भीमैः सदान्वितम् ॥४९॥

यत्कलिकारैः कलिं कलहं कुर्वन्तीति कलिकाराः । कर्मण्यन् तैः । यद्-वा । रलयोरैक्यात् कलिकालैर् वियुक्तं रहितं कलिकारैः करञ्जाख्य-वृइक्षैः संयुतं । प्रकीर्य पूतिकरजः पूतिकः कालकारक इत्यमरः । भीमैर्भयानकैः सत्त्वैर् जङ्गमैः प्राणिभिर् विहीनं स्थिरैः स्थावरैर् भीमैरम्लवेतस-वृइक्षैः सदान्वतं भीमोऽम्लवेतसे घेरे शम्बौ मध्यमपाण्डवे इति मेदिनी ॥४९॥

विहीनम् अपि खर्जूरैर् अरिष्टैश् च पलाशकैः ।
खर्जुरैर् अप्य् अरिष्टैश् च पलाशैश् चान्वितं सदा ॥५०॥

खर्जुरैः खलैः खर्जुरैर् अप्यखलयोरिति मेदिनी । अरिष्टम् अमङ्गलं तैः सूतिका-गृइहैश् च अरिष्टं सूतिकागृइह मित्यमरः । पलं मांस अश्नातीति पलाशका राक्षसास् तैस् च विहीनम् अपि । खर्जूर-वृइक्षै अरिष्टैः अरिष्टः फेनिलः समावित्यमरात् रीठाख्य-वृइक्षैः सर्वतोभद्र-वृइक्षैर् वा पलाश-वृइक्षैश् च सदान्वितं यदिति शेषः ॥५०॥

कनकाचित-भूः कनकैः कनकैः
कनकैः कनकैः कनकैश् च वृता ।
विबभाव् इह सा क्रमुकैः क्रमुकैः
क्रमुकैः क्रमुकैर् अपि य निचिता ॥५१॥

इह योगपीठस्थले या कनकाचितभूः सर्णमयीभूः कनकैश् चम्पकैः कनकैः किंशुकैः कनकैर् नागकेशरैः कनकैः कनकैर् दुस्तूरैः काञ्चनारैश् च वृइता सा भूः क्रमुकैः लोध्ररक्षैः क्रमुकैः भद्रमुस्तक्-वृइक्षैः क्रमुकैः गुवाकैः क्रमुकैः ब्रह्मदारु-वृइक्षैः निचिता व्याप्ता । कनकं चम्पके स्वणे किंशुके नागकेशरे । धुस्तूरे काञ्चनारेचेति । क्रमुकः पट्टिकालोध्रे भद्रमुस्तक पूगयोः । फले कार्पासके चैव क्रमुकौ ब्रह्म-दारुणी ति विश्वः ॥५१॥

प्रियकैर् जङ्गमैर् युक्तं प्रियकैः प्रियकैः स्थिरैः ।
मयूरैर् जङ्गमैस् तद्वन् मयूरैः स्थावरैर् अपि ॥५२॥

जङ्गमैः प्रियकैः मृइगैः कदली-कन्दली-चीनश् चमूर-प्रियकावपीत्यमरः । स्थिरैः प्रियकैः प्रियङ्गु-वृइक्षैः । सर्जकासन-वन्धूक-पुष्प-प्रियकजीवका”इत्यमरः । प्रियकैः कदम्बैः । नीपप्रियक कदम्बास्तु हलिप्रिय इत्यमरः । चरैर्मयूरैः पक्षिभिः स्थावरैः मयूरैः वृइक्षभेदेऐः युक्तं तदिति शेषः मयूरो लोचमस्तक इति । अपामार्गः शैखरिको धामार्गव-मयूरकाविति चामरः ॥५२॥

बकुलैश् च नव-कुलैस् तमालैर् नत-मालकैः ।
सद्रुमा विद्रुमा चेति वृताश् चर्यास्ति यन् मही ॥५३॥

यद्-यस्य स्थलस्य मही आश्चर्यस्ति । कथं । वकुलैर् वकुल-वृइक्षैः प्रसिद्धैर् वृइता कीदृइशैः नवानि मनोहराणी कूलानि समूहा येषां तैः । कीदृइशैः नतपत्र-पल्लव-पुष्प-फलातिभारेण नता नम्रा माला श्रेणी येषां तैः सद्रुमा द्रुमैर् वृइक्षैः सह वर्त्माना विद्रुमाः पवालास्ते सन्त्यस्यामिति अस्त्यर्थेऽच । अत्र वकुलैर् नवकुलैरि सद्रुमा इति च विरोधः भावाभावयोर् एकत्र सत्ताभावात् । नवकुलादि-शब्दानाम अर्थान्तर-विवरणान्नविरोधस् तस्माद्-विरोधाभासालङ्कारः ॥५३॥

कृष्णसारैः कृष्ण-सारै रुरुभी रुरुभिश् च यत् ।
शम्बरैः शम्बरैर् व्याप्तं रोहिषै रोहिष-प्रियैः ॥५४॥

यत्योगपीठं । कृइष्णं सरन्त्यनुसरन्तीति कृइष्ण-साराः कर्मण्यन् किम्बा कृइष्णः-सारो वलं जीवनं येषां तैः सृओवले स्थिरांशे च त्यमरः । तादृइशैः कृइष्ण-सारैः पुंहरिणै ।

धन्याः स्म मूढमतयोऽपि हरिणा एता या नन्द-नन्दनमुपात्त विचित्रवेशं । आकर्ण्य-वेणुरणितं सह कृइष्ण-साराः पूजां दधुर्विरचितां प्रणयावलोकैर् । इत्याद्युक्तेः ।

उरुभिर् महद्भिः रुरुभिर् मृइगभेदैः शं सुखं वृइणुते सम्यग् भजन्तीति शम्वराः सम्यक् सुखिन इत्यर्थः । वृइङ्सम्भ्क्तौ तादृइशैः शम्बरैः मृइगविशेषैः रोहिषैर् मृइगभेदैः रोहिषप्रियैस् तृइणभेदैश् च व्याप्तं ॥५४॥

यत् कर्ण-हारि-हारीत-भरद्वाज-शुकोक्तिभिः ।
वत्स-गालव-शाण्डिल्यान्वितं मुनि-सदो यथा ॥५५॥

तद्-योगपीठं हारीतभरद्वाजशुकानां पक्षिनामुक्तिभिः शब्दैः कर्णहारि कर्णसुखदं वत्स-गालव-शाण्डिल्यैर् वृइक्षभेदैरन्वितञ्च किमिव मुनिसदोमुनिसभा यथा । हारीत भरद्वाज शुकाख्य-मुनीनाम् उक्तिभिर् वाक्यैः कर्णहारी । वत्स-गालव-शाण्डिल्यैर् मुनिभिश् चान्वितञ्च तथा ॥५५॥

**श्रुति-ऋतु-वसुकोणैर् मण्डलाङ्गैश् च कैश्चिद्
विविध-मणि-विचित्रैर् दिक्षु सोपान-युक्तैः ।
गल-हृद्-उदर-नाभि-श्रोणि-जानूरु-दघ्नैर्
वलित-ललितमूला-कुट्टिमैः सालबालैः ॥५६॥
नील-रक्त-मणिबद्ध-कुट्टिमाः
केचिद् इन्दु-मणि-जाल-वालकाः ।
नील-रक्त-मणि-जाल-वालकाः
केऽपि चन्द्रमणि-बद्ध-कुट्टिमाः ॥५७॥
वृक्षा हैमा हरिमणि-मयैः काञ्चनैर् ऐन्द्रनीला
वैदुर्याभाः स्फटिक-मणिजैः स्फाटिकाः पद्मरागैः ।
ग्लौकान्ताङ्गा मरकत-मयैस् तैश् च तेऽन्ये तथान्यैर्
दीव्यन्त्य् अस्मिन् व्रतति-वलयैः श्लिष्ट-शाखाः प्रफुल्लाः ॥५८॥ **

(सन्दानितकम्)

अस्मिन् योगपीठे व्रततयो लतास् तद्रुपवलयैः श्लिष्टा आलिङ्गिताः शाखा येषां ते । प्रफुल्लाश् च वृइक्षा दीव्यन्तीति त्रृइतीय-श्लोकेनान्वयः । कीदृइशा वृइक्षाः सालवालैः आलवाले वृइक्ष-मूलजलाधारेण सहितैः कुट्टिमैर् वेदिकाभिर् वलितानि वद्धानि ललितानि मूलानि येषां ते । स्यादालवालमावालवाप इत्यमरः । कीदृइशैः कुट्टिमैः श्रुतयश् चत्वाराः ॠतवः षट् वसवोऽष्तौ तत्-सख्यानि कोणानि येषां तैः । कैश्चित् कैट्टिमैर् मण्डलाङ्गैर् मण्डलाकारैः किट्टिमानां चतुष्कोण षट्कोणाष्टकोणाकारं मण्डलाकारञ्च्वो मणिनिर्मितत्वमाह । विविद-मणिभिर् विचित्रैः दिक्षु सोपानयोक्तै उच्चांशमाह । गलदघैः गलदेश-परिमितोच्चैः । एवं ह्रित् उदरनाभी-श्रोणिजानु उरुपरिमितैः विविधमनि-निर्मितालवालैः सह विदिध-मणि-निर्मितैः कुट्टिमैर् वद्धा वृइक्षा इत्युक्त्वा तद्-भेदानाह । केचिद्-वृइक्षाः नीलमि-रक्तमणिभिर् वधकिट्टिमाः तेषु कुट्टिमेषु इन्दुमणिभिर् जातान्यालवालानि येषां ते केऽपि वृइक्षाः चन्दमणि-निर्मित वधकुट्टिमाः नील-रक्त-मनिजातालवालाः कुट्टिम-वृइक्षयोर् वर्णभेदेन शोभामाह । ये वृइक्षा हैमाः स्वर्ण-वर्णास्ते वृइक्षा हरिमणिमयैरिन्द्र-नीलमनिमयैः कुट्टिमैः वद्धाः ये इन्द्र-नीलमणि वर्णा वृइक्षास् ते काञ्चनैर् वद्धाः वैदुय-वर्णा वृइक्षास्फटिकमणिजैः कुट्टिमैः स्फाटिकाः पद्मरागैः ग्लौश्चन्द्रस् तत्-कान्तमणि-वर्णा मरकतमयैः तथा ऽन्येऽन्यैः अन्यरत्नकुट्टिमैः ते तैश् च यद्रत्न-वर्णास् तद्रत्न कुट्टिमैश् च वद्धा इति वद्ध्यं व्रततिवलयैरित्यनेनान्वयो वा ॥५६-५८॥

हरिमणि-भुवि हैमा वैद्रुमा वै द्रुमाश् च
स्फटिक-मणि-धरायां स्फाटिकाः स्वर्ण-भूमौ ।
अरुण-मणि-धरायां शाक्र-नीलाश् च यस्मिन्
मरकत-मणि-धात्र्यां पद्मरागा विभान्ति ॥५९॥

यस्मिन् हरिमणिमयां भूवि भूमौ हैमाः सुवर्ण-वर्णा द्रुमा वृइक्षाः वै निश्चितं स्फटिक-मणिमय-भूमौ वैद्रुमाः प्रवालवर्णा वृइक्षाः स्वर्ण-भूमौ स्फटिकाः स्फटिक-वर्णा-वृइक्षाः । एवमग्रेऽपि अरुण-भूमौ शाक्रनीला इन्द्रनीलमनि-वर्णा वृइक्षाः । मरकत-मणिधात्र्यां पृइथिव्यां भूमौ वृइक्षा भान्ति । धात्री-जन्यामलकी वसुमत्युपमात्रिषिति मेदिनी ॥५९॥

स्वर्ण-स्कन्धाः शिति-सितमणि-स्थूल-शाखोपशाखाः
केचिद् वृक्षा मरकत-दलाः पद्मराग-प्रवालाः ।
विभ्राजन्ते स्फटिक-कुसुमाः स्थूल-मुक्ताफलौघाश्
चान्ये तत्-तन्-मणि-विरचना वैपरीत्येन यस्मिन् ॥६०॥

यस्मिन् केचिद्-वृइक्षाः स्वर्णस्कन्धाः शितिः श्यामः श्याममणेः स्थूल-शाखाः सितः शुक्लः शुक्लमणेरुपशाखाः मरकत्यस्य दलानि पत्राणि येषां ते । पद्मराग-मणेः प्रवालाः किषलयाः येषां तेस्थुल-मुक्तां फलौघा येषां ते अन्ये वृइक्षाः तत्-तन्मणिभिर् विरचनाया वैपरीत्येन विब्राजन्ते । किशलोऽस्त्री किशलयः प्रवालल्ः प्रवलोऽपि स इति वाचस्पतिः ॥६०॥

तेषां फलान्य् अखिल-वाञ्छितदान्य् अगानां
दीव्यन्ति रत्न-पृथु-सम्पुट-सन्निभानि ।
श्री-कृष्ण-कृष्ण-रमणी-चय-योग्य-वस्त्रा-
लङ्कार-गन्ध-पटवास-यूतानि यत्र ॥६१॥

यत्र तेषामगानां वृइक्षाणां फलानि अखिल-वाञ्छितदानि दिव्यन्ति फलानि कीदृइशानि रत्नाधार-पृइथु-सम्पुटानां तुल्यानि कृइष्ण-रमणी-समूहस्य च योग्य-वस्त्रालङ्कार-गन्ध-पट-वासैः गन्ध-चूर्णैर् युतानि ॥६१॥

स्वभाव-मालाकृति-पुष्प-भाजां
फलानि तासां रुरुचुर् लतानाम् ।
कुष्माण्ड-तुम्बी-सदृशानि यत्र
श्री-कृष्ण-लीलोचित-वस्तु-भाञ्जि ॥६२॥

यत्र स्वभावादेव मालानामाकृइतिराकारो तेषां तादृइश-पुष्पभाजां तासां लतानां फलानि रुरुचुर् दिदीपुः । “रुच दीप्तौ” । फलानि कीदृइशानि कुष्माण्ड-तुम्बी सदृइशानि श्री-कृइष्ण-लीलायां उचितानि योग्यानि वस्तूनि भजन्तीति तानि । तद्-वस्तु युक्तानीत्यर्थः ॥६२॥

कुसुम-रचित-शय्योल्लोच-भूषोपधानैः
स-मधु-चषक-ताम्बूलाम्बु-गन्धादि-पात्रैः ।
व्यजन-मुकुर-सिन्दूराञ्जनामत्रकैश् चा-
न्वित-मणि-निचितान्तर्-भूमयो भूरि-चित्राः ॥६३॥
कुसुमित-बहु-वल्ली-मण्डलैर् भित्ति-कल्पैर्
उपरि च पटलाभैः श्लिष्ट-शाखा-समूहैः ।
निविड-दल-फलानां छादिताः पादपानां
मणि-मय-गृह-तूल्या यत्र कुञ्जा विभान्ति ॥६४॥

यत्र कुञ्जा विभान्तीति परश्लोकेनान्वयः । किम्भूताः पुष्पशया उल्लोचश् चन्द्रातपः भूषा उत्तमालङ्करणानि उपधानं मस्तकाधारं एतैः समधु मधुना सह चषकं पानपात्रं तेन । ताम्बुलादि-पात्रैः व्यजनेन मुकुरेन दर्पणेन एतैः सिन्दुराञ्जनयोर् अमत्रकैरम् अत्रैः पात्रैश् चान्विता युक्ता मनिनिचिताश् चान्तर् भूमयो येषां ते । पुनः भूरीनि चित्राणि तेषु ते पुनः किम्भूताः कुञ्जाः भित्ति-कल्पैः भित्तयः इव कल्पन्त इति तैर् भित्तिरूपैः कुसुमित वहु-वल्ली-मण्डलैरुपरिच पटलाभैश् छादनरूपैः । निविड-फलदलानां पालपानां श्लिष्टैः परस्पर-संलग्नैः शाखा-समूहश् छादिताः । आतो मणिमय गृइहतुल्याः ॥६३-६४॥

यत्रातिचित्राम्बर-पुष्प-चित्रिताः
शाखासु सत्-कल्प-पलाशिनां सिताः ।
दीव्यन्ति नाना-मणिभिः सुचित्रिता
हिन्दोलिकाः श्री-हरि-राधिका-प्रियाः ॥६५॥

यत्र योगपीठे सत्कल्पलाशिनां कल्प-वृइक्षाणां शाखासु सिताः वद्धाः हिन्दोलिका दिव्यन्ति कीदृइश्यः अतिचित्राम्वरैः पुष्पैश् च चित्रिताः ॥६५॥

कपोत-पारावत-कोकिलानां
हारीत-कापिञ्जल-टैट्टिभानाम् ।
मायूर-चाकोरक-चातकानां
चाषालि-लावावलि-वर्तकानाम् ॥६६॥

यद्योगपीठं कपोतादीनां स्वनैः शब्दैर् विलासैश् च श्रुतिनेत्रहारि कपोतेत्यादि स्वार्थेऽण् । कपोतादित्रयं प्रसिद्धं तेषां विशेषाः हारीतोमद्गुः कारण्डवः प्लवः” इत्यमरः कापिञ्जलः पक्षी-विशेषः । कोषष्टिकटिट्टिभ इत्यमरः । मयूरादित्रयं सिधं चाषालि चातकशेणी लावावलिः । तित्तिरिः ककुभो लावो जीवञ्जीवश् चकोरक इत्यमरः । वर्त्तकोवर्तिकादयः ॥६६॥

**यच् छौक-शारी-तति-चाटकानां
कालिङ्ग-पादायुध-तैत्तिरीणाम् ।
व्याघ्राट-भाषावलि-कौक्कुभानां
स्वनैर् विलासैः श्रुति-नेत्र-हारि ॥६७॥ **

(युग्मकम्)

शुकशारी चाटकानां । कलिङ्ग-भृइङ्ग-धूम्याटः फिङ्गा इत्याख्यस्त्स्य । पादायुधः कुक्कुटः । तित्तिरी तितिरीत्याख्या । व्याघ्राटः स्याद्भर्द्वाज इति चामरः । भाषा वलिर्भाव इत्याख्याः कौक्कुभः पक्षीविशेषः ॥६७॥

विस्तीर्णा रत्न-चित्रान्ता तद्-अन्तः-कनक-स्थली ।
निकुञ्ज-मण्डलैः कल्प-द्रुमानाम् अस्ति वेष्टिता ॥६८॥

पुनः कीदृइशं तद्योगपीठं तद्-वर्णत्युनविंशति-श्लोकैः तदन्तस् तन्मध्ये कल्पद्रुमाणां निकुञ्जमण्डलैर् वेष्टिता कनकस्थल्यस्ति । कीदृइषी स्थली विस्तिऋणा रत्नचित्रास् ता रत्नैश् चित्रोऽन्तः स्वरूपं यस्याः सा । रत्नैश् चित्रेत्यथः । अन्तःप्रान्तस्वरूयो रिति विश्व ॥६८॥

मध्ये विचित्र-मणि-मन्दिरम् अस्ति तस्याः
कल्प-द्रुमाङ्कम् अनु कुट्टिम-शोभि-दिक्षु ।
सोपान-पालि-ललितं वलितं विदिक्षु
सन्तानकाद्य्-अपर-वृक्ष-चतुष्टयेन ॥६९॥

तस्याः कनक्स्थल्या मध्ये कल्प-द्रुमाङ्कमनु-कल्प-वृइक्षस्य कृओडे मूले इत्यर्थः । विचित्र-मणिमन्दिरम् अस्ति । कीदृइशं । दिक्षु पूर्वादिषु कुट्टिम-चतुर्भिः शोभि शोभायुतं सोपानपालिभिर् ललितं विदिक्षु वन्ह्यादिकोणेषु सन्तान-काद्य-परवृइक्ष-चतुष्टयेन वलितं युक्तं । आदिशब्देन हरिचन्दन मन्दार-पारिजाताः वस्तु-तस्तु कल्पवृइक्षा एव ॥६९॥

**स्व-कान्ति-जालायत-लोल-पक्षैर्
ऊर्ध्व-क्रमात् कुञ्चित-पूर्व-पादैः ।
पश्चाद् अधो न्यस्त-दरायतान्य-
स्वीयाङ्घ्रि-युग्मार्पित-देह-भारैः ॥७०॥
माणिक्या नेत्रै रवि-कान्त-गात्रैर्
उत्पुच्छ-कर्णैः कपिशोच्छटौघैः ।
उड्डीयमानैर् इव रत्न-सिंहैर्
यद् उह्यमानं वियतीव दिक्षु ॥७१॥
सुचेल-तूलीषुत-हेम-कर्णिकं
खट्टायमानं मणि-कान्ति-केशरम् ।
यस्यान्तर्-अष्ट-च्छद-पद्म-सन्निभं
कृष्णस्य सिंहासनम् अस्ति काञ्चनम् ॥७२॥ **

(सन्दानितकम्)

तन्-मन्दिरं कीदृइशं यस्यान्तर् मध्ये काञ्चन-निर्मितम् मष्टच्छद-पद्मसन्निभं कृइष्णस्य सिंहासनम् अस्तीति तृइतीय-श्लोकेनान्वयं । कीदृइशं सिंहासनं सुचेलतुल्या हेम-निर्मित कणिका यस्य तत् । मणीनां कान्तय एव केशरा यस्य तत् । खट्वायमानं खट्टतुल्यं पुनः कीदृइशं । यत् सिंहासनमुड्डीयमानैरिव रत्न-सिंहै रत्न कृइतसिंहैर् वियति आकाशे इव पृइथ्वीतोभिन्नम् इव दिक्षु चतुर्दिक्षूह्यमानं धार्यमानं कोन-चतुष्टये सिंह-चतुष्टयोपरि स्थितमासनं सिंहासनमिति मध्यपदलोपी कीदृइशैः सिंहैः स्वेषां तेषां सिंहानां कान्तिजालं किरण-समूहस्तदेवायतौ विस्तृइतौ लोलौ चञ्चलौ पक्षौ येषां तैः उर्धक्रमादूर्धमाक्रमाणत् कुञ्चितानि पूर्वचराणानि येषां तैः पश्चद् अधोदेशे न्यस्तानि स्थापितानि दरेषदायतान्यन्यानीतराणि स्वीयाङ्घि युग्मानि तेष्वर्पितो देहभारो यैस्तैः मानीक्यानां नेत्राणि येषां तैः रविः सूर्यस् सत्कान्तमणीनां गात्रं शरीरं येषां तैः उर्ध्देशे कृइता पुच्छकर्णा यैस् तैः कपिषः कपिश-वर्ण उत्कृइष्टानां स्कन्धोपरिकेशानामोघः समूहो येषां तैः ॥७०-७२॥

लघु-रत्नालय-स्वाङ्कैः कुञ्जैः कल्प-लतावृतैः ।
अष्टभिः कल्प-वृक्षाणां बहिर् यद् दिक्षु शोभितम् ॥७३॥

यन् मन्दिरं वहिर्वाह्ये दिक्ष्वष्ट्सु दिक्षु कल्प-वृइक्षाणाम् अष्टभिः कुञ्जैः शोभितं कीदृइशैः । लघुः क्षुद्रो-रत्नालयः स्वेषामङ्के कृओडे येषां तैः कल्पलताभिरावृइतैः ॥७३॥

वल्ली-युक्-कल्प-वृक्षाणि कुञ्जानां तद्-बहिर्-बहिः क्रमाद् ।
द्विगुण-सङ्ख्यानां बहुभिर् मण्डलैर् वृतम् ॥७४॥

पुनः कीदृइशं मन्दिरं तत्-तेषाम् अष्ट-कुञ्जानां वहिर्वहिः क्रमाद्द्विगुण-सङ्ख्यानां षोडशानां तद्-वहिर् द्वात्रिंशतस् तद्वहिश् चतुःषष्ट्यास् स्तद्वहिर्ष्टाविंशोत्तरशतस्यैवं क्रमे वल्लीयुक् कल्प-वृइक्षाणि कुञ्जानां वहुभिरनेकैर् मण्डलैर्वृइतम् ॥७४॥

भास्वता मृग-पक्ष्यादि-मिथुनै रत्न-चित्रितैः ।
शून्य-हेम-स्थली-प्रान्त-भागेन तद्-बहिर् वृतम् ॥७५॥

तत्-तेषां कुञ्जमण्डलानां वहिः रत्नचित्रितैर् मृइग-पक्ष्यादिमिथुनैः सह भास्वता प्रकाशमानेन शून्यहेमस्थल्याः प्रान्तभागेन वृइतम् ॥७५॥

तद्-बहिः कदली-षण्डैः सफलैः शीतल-च्छदैः ।
वृतं नाना-जाति-भेदैः कर्पूराकर-वल्कलैः ॥७६॥

तद्वहिः कर्पूराणामाकरा उत्पादका वल्कला येषां तैः नानाजातिभेदैः सफलैः फल-सहितैः शीतलानि छदानि पत्राणि येषां तैः कदलीनां षण्डैः समूहैवृइतम् ॥७६॥

तद्-बहिर् वेष्टितं पुष्पोद्यानेनातिप्रथीयसा ।
पृथक्-तत्-तत्-पुष्प-बाटी-वलितेन समन्ततः ॥७७॥

तद्-वहिः पृइथक् तत्-तत्-पुष्पाणां पूर्वोक्तमालत्यादि-पुष्पाणां वाटीभिः पुष्पोद्यानैर् वलितेन वेष्टितेन अतिप्रथीयसा विस्तीर्णेन पूष्पोद्यानेन अत्र पुष्पोद्यानेन इति जातवेकवचनं पुष्पोद्यानैरित्यभिप्रायः । समन्ततः सर्वतोदिक्षु वेष्टितम् ॥७७॥

तद्-बहिर् भूरि-भेदानां नम्राणां फल-भारतः ।
आराम-मण्डलैस् तैस् तैर् वेष्टितम् फल-भूरुहाम् ॥७८॥

तद्-वहिर् भुरिभेदानानां पनसाम्रादीनां फलभारतः फलभारान्नम्राणां फलभूरुहां फलद्-वृइक्षाणां तैस् तैः पूर्वौक्तैर् आराम-मण्डलैर् उपवन-मण्डलैर् वेष्टितम् ॥७८॥

तयोर् मध्येऽरण्य-देवी-कुञ्ज-दासी-शतान्वितैः ।
सेवोपकरणागार-निकरैः परितो वृतम् ॥७९॥

तयोः पुष्पवाटी आरामयोर् मध्येऽरण्यदेवीनां कुञ्जदासीनाञ्च शतेन समूहेनान्वितैर् युक्तैः सह सेवोपकरणानां पुष्प-फल-वस्त्रालङ्कार भक्ष्यभोज्य सुगन्ध कस्तूर्यादीनाम् आगारनिकरैः परितोवृइतम् ॥७९॥

बहिर् बहिः क्रमात् तस्माद् वृतं तत्-तल्-लता-युतैः ।
सान्तरालैः पृथक् तैस् तैः श्रेणी-भूतैर् द्रु-मण्डलैः ॥८०॥

तस्माद् आरामाद्-वहिर्वहिः क्रमात् सन्तरालैर् अवकाश-सहितै रसंलग्नैः तत्-तल्ल्ताः पूर्वोक्तस् ताभिर् युतैः पृइथक्-श्रेणी-भूतैस् तैस् तैर् द्रुममण्डलैर् वृइतम् ॥८०॥

कर-लभ्य-हरित्-पीतारुणाच्छ-फल-गुच्छकैः ।
तद्-बहिर् वृत-कण्ठानां पूगानां मण्डलैर् वृतम् ॥८१॥

तद्-वहिः करेण लभ्या हत प्राप्या हरित्पीतारुण वर्णाश् च तेऽच्छा निर्मलाश् च फलानां गुच्छास् तैर् वृइतकण्ठानां पुगानां गुवाक-वृइक्षाणां मण्लैर् वृइतम् ॥८१॥

आलबाल-निटिलोपरि-सुप्तैर् वेष्टितं सुफल-गुच्छक-वृन्दैः ।
भूषणालिभिर् इवाङ्कित-कण्ठैर् नारिकेल-वलयैर् बहिर् अस्मात् ॥८२॥

अस्माद् वहिर् नारिकेल-वृइक्षाणां वलयैः ष्रेणीभिर् वेष्टितं । कीदृइशैः । आलवालस्य वृइक्ष-सेचनार्थं जलाधारस्य निटिलो मस्तकस् तदुपरि सुप्तैः पतितैः । पुनः कीदृइशैः । भूषणालिभिरिव सुफल-गुच्छकानां वृइन्दैरङ्कित-कण्डैः ॥८२॥

चम्पकाशोक-नीपाम्रादीनां कृष्णा-तटोपरि ।
पुन्नाग-बकुलादीनां निकुञ्जैस् तद्-बहिर् वृतम् ॥८३॥

तद्-वहिः यमुनातटोपरि चम्पकादीनां पून्नागो नागकेशरस् तदादीनां वृइक्षाणां निकुञ्जैर् वृइतं ॥८३॥

तीर-नीरानम्र-शाखैः फुल्ल-वासन्तिकावृतैः ।
मञ्जुलैर् वाञ्जुलैः कुञ्जैर् वाञ्जुलैश् चाभितो वृतम् ॥८४॥

यमुनायास् तीरस्थनीरमभिव्याप्य नम्रशाखा येषां तैः फुल्लमाधवीलतावृइतैः मञ्जुलैर् मानोज्ञैः वाञ्जुलैराशोकैर् वाञ्जुलैर् वेतसैः पानिच्छिटकाख्यैः कुञ्जैरभितः सर्वतोदिक्षु वृइतं । वकुलोवञ्जुल इति वञ्जुलश् चित्रकृइच्चाथ इति अथ वेतसे । रथाभ्र पुष्पविदुलशीतवानीरवञ्जुला इति चामरः ॥८४॥

स्व-पार्श्वयोः श्री-बकुलावलिभ्यां
सञ्च्छादितान्य् अत्र चितानि रत्नैः ।
आमन्दिराद् यामुन-तीर्थगानि
चत्वारि वर्त्मानि विभान्ति दिक्षु ॥८५॥

अत्र स्थलेमन्दिरमारभ्य यमुनायास् तीर्थगानि दिक्षु चत्वारि वर्त्मानि विभान्ति । कीदृइशानि पार्श्वद्वये वकुल-श्रेणीभ्यां चितानि मध्ये रत्नैशितानि ॥८५॥

**यस्यैशान्यां दिशि मणि-तटं ब्रह्म-कुण्डं यद् आस्ते
तस्यैशान्यां शिव इह सदा सोऽस्ति गोपीश्वराख्यः ।
तस्योदीच्यां तट-भुवि तरुः सोऽस्ति वंशी-वटाख्यस्
तिष्ठन् वंश्य् आह्वयति रमणीः कुट्टिमे यस्य कृष्णः ॥८६॥ **

(ऊनविंशत्या कुलकम्)

यस्य योगपीठस्यैशान्यां दिशि ब्रह्म-कुण्डमास्ते । अस्य ब्रह्म-कुण्ड्स्यैशानकोणे गोपीश्वराख्यः शिवोऽस्ति शिवस्योत्तरे यमुनातटे वंशीवटाख्यस् तरुरस्ति । यस्य वंशीवटस्य कुट्टिमे वेद्यां श्री-कृइष्णस् तिष्ठन् वंश्या रमणीर् व्रजसुन्दरीराह्वयति ॥८६॥

जानूरु-दघ्नैः कटि-नाभि-मात्रैर्
हृत्-कण्ठ-मूर्ध-द्वयसैः क्वचिच् च ।
कुत्राप्य् अगाधैः सलिलैर् अघारेः
सम्पादयित्री जल-केलि-सौख्यम् ॥८७॥

पुनस् तद्-योगपीठं वर्णयन् सन् तद्विशेषणतया यमुनां वर्णयति जानूरुदघ्नैरित्यादि सप्तभिः सा कीदृइशी । जानु ऊरु-कटि-नाभि-हृइत्-कण्ठ-मूर्धद्वयसिः जान्वाद्विपरिमितैः सलिलैः परिमितार्थे द्वयसट् प्रत्यः । अघारेर् जलकेलिसौख्यं सम्पादयित्री ॥८७॥

कह्लार-कोकनद-कैरव-पुण्डरीकैर्
इन्दीवराम्बुरुह-हल्लक-हेम-पद्मैः ।
फुल्लैर् लसन्-मधुकरैः सरसैर् मनोज्ञा
तत्-तत्-पराग-मकरन्द-सुगन्ध-तोया ॥८८॥

फुल्लैः सरसैः लसन्मधुकरैः कह्लारादिभिर् मनोज्ञा । तत्-ततेषां कह्लरादीनां पुष्परजः पुष्परसैः सुगन्धं यस्याः सा तोयं सौगन्धिकन्तु कह्लार मिति। रक्तोत्पलं कोकनद मिति । सिते कुमुदकैरव इति । पुण्डरीकं सिताम्भोज मिति । इन्दीवरञ्च नीलेऽस्मिन्नि ति । अम्बुरुहं कमलं हल्लकं रक्त-सन्ध्यकमिति चामरः ॥८८॥

चक्राङ्ग-मद्गु-प्लव-चक्रवाक-
सरारि-कोषष्टिक-सारसानाम् ।
कादम्ब-कारण्डव-खञ्जनानां
स्वनैर् विलासैर् युत-तीर-नीरा ॥८९॥

चक्राङ्गो-हंसः सारीतोमद्गुः कारगुवः प्लवः सरारिराटिवाटि-वाडिश्चेति कोषष्टि-कष्टिट्टिभकः ना इति सारसः स्वनामप्रसिधः कादम्वः कलहंसः स्या दिति चामरः । खञ्जनश्च एषां स्वनैः शब्दैर् विलासैश् च युतं तीरं नीरञ्च यस्या सा ॥८९॥

गोकर्ण-रोहिषिक-शम्बर-कृष्णसारैर्
न्यङ्क्वेण-रङ्कु-पृषतैर् गवयैः शशैश् च ।
गन्धर्व-रोहित-समूरु-चमूरु-चीनैर्
अन्यैर् मृगैर् वलित-तीर-वनान्त-भागाः ॥९०॥

गोकर्णादिभिरन्यैर् मृइगैर् वलितं युतं तीरं वनञ्च यस्याः सा । गोकर्ण-रिहिषिकशम्वर कृइष्णसारन्यङ्कु एण रङ्कु पृइषत गवय शश गन्दर्व-रोहितमयुरचीनैर् मृइगभेदैः । गोकर्ण-पृइषतैणाश् च रोहिताश् चमरो-मृइगा इत्यमरः कृइष्णसाररुरु न्यङ्कुरङ्कुशम्वर रोहिषा इत्यमरः । गन्धर्वः सरभोरामः सृइमरोगवयः शश इति चामरः ॥९०॥

एकानि निर्झर-वृतान्य् अभितोऽपराणि
प्रान्तेऽतिमुक्त-सुनिकुञ्ज-शतान्वितानि ।
अन्यानि दिक्षु कुसुमोपवनावृतानि
पूर्णेन्दु-मण्डल-निभानि मनोहराणि ॥९१॥
कर्पूर-चूर्ण-मद-निन्दक-बालुकानि
पूर्णामृत-द्युति-कर-द्विगुणोज्ज्वलानि ।
श्री-क्र्ष्ण-बल्लव-वधू-चय-रास-नृत्य-
लक्ष्मान्वितानि पुलिनानि च भान्ति यस्याः ॥९२॥

सा पुनः कथम्भूता तदाह द्वाभ्यां । यस्याः यमुनायाः पुलिनानि भान्ति । एकानि मुख्यानि पुलिनान्यभितो निर्झरै रावृइतानि अपरानि अतिमुक्तः पुण्डकः स्या दित्यमरः । प्रान्तेऽतिमुक्तानां सुनि-कुञ्ज-शतिरन्वितानि अन्यानि पुलिनादि दिक्षु कुसुमानाम् उपवनैर् आवृइतानि । पूर्ण-चन्द्र-मण्डल-सदृइषानि कर्पूरचूर्णस्य मदनिन्दका वालुका येषां तानि पुर्णचन्द्रस्य करात् किरणाद्-द्विगुणोज्जलानि कृइष्ण-गोपी-समूह-कृइतरासनृइत्यस्य चिह्नैरन्वितानि ॥९१-९२॥

**यस्योत्तरायां यमुना-दिशि स्वयं
सारण्य-तीरैः पुलिनातिराजितैः ।
स्वैर् निर्झरैर् भूरिभिर् आन्तरान्तरा
संवेष्ट्य रास-स्थलिकां विभाति सा ॥९३॥ **

(सप्तभिः कुलकम्)

यस्य योगपीठस्योत्तरस्यां दिशि स्वयं सा यमुनासारण्यतीरैः सरणिः पन्थास् तत्सम्वन्धि तीरं येषां तैः पुलिनैर् अतिशयेन राजितैर् भूरिभिः स्वैर् निझरैर् अन्त्रान्तरा म्ध्ये रासस्थलिकां संवेष्ट्य विभाति । मानसरोवरं मध्ये कृइत्वा पुरा श्री-यमुना उत्तर-दिशायामासीत् । यत्राधुना श्री-यमुना वर्तते तत्रादौ श्री-यमुना निर्झरैरासीत् ॥९३॥

कल्प-द्रुमाधः-स्थित-रत्न-मन्दिरं
गोपाल-सिंहासन-योग-पीठकम् ।
यम् आगमज्ञाः प्रवदन्ति यं हरेः
प्रिया-गणः केलि-निकुञ्जम् आह च ॥९४॥
एवं-विधं तं स्थल-राजतल्लजं
कन्दर्प-लीला-सुख-सत्र-मन्दिरम् ।
गोविन्द-संस्मारकम् आत्मनो गुणैर्
वीक्ष्यापराधा स-सखी-ततिर् मुदम् ॥९५॥

एवं विधं तं स्थलराजतल्लजं प्रशस्तस्थलराजं वीक्ष्य । सखीततिभिः सह राधा मुदमापेति परश्लोकेन सम्वन्धः । “मतल्लिकामर्च्चिका प्रकाण्ड-मुद्घतल्लजौ । प्रशस्त-वाचकान् यमूनीत्यमरः । कीदृइशं कल्प-द्रुमस्याधः स्थले स्थितं रत्न-मन्दिरं यस्मिन् । आगमज्ञाः यं गोपाल-सिंहासन-योगपीठं वदन्ति हरेः प्रियागणोऽयं केलि-कुञ्जमाह च कन्दर्प-लीलाभिः सुखानां सत्रस्य मन्दिरं आत्मनोगुणैर् गोविन्दस्य सम्यक् स्मारकं ॥९४-९५॥

वृन्दा सवृन्दात्र विभूषयन्ती
कुञ्जानि नाना-रचनोपचारैः ।
निजेशयोर् वर्त्मनि दत्त-दृष्टिः
स्वेशाम् अकस्मान् मिलिताम् ददर्श ॥९६॥

एवं विधं तं स्थलराजतल्लजं प्रशस्तस्थलराजं वीक्ष्य । सखीततिभिः सह राधा मुदमापेति परश्लोकेन सम्वन्धः । “मतल्लिकामर्च्चिका प्रकाण्ड-मुद्घतल्लजौ । प्रशस्त-वाचकान् यमूनीत्यमरः । कीदृइशं कल्प-द्रुमस्याधः स्थले स्थितं रत्न-मन्दिरं यस्मिन् । आगमज्ञाः यं गोपाल-सिंहासन-योगपीठं वदन्ति हरेः प्रियागणोऽयं केलि-कुञ्जमाह च कन्दर्प-लीलाभिः सुखानां सत्रस्य मन्दिरं आत्मनोगुणैर् गोविन्दस्य सम्यक् स्मारकं ॥९४-९५॥

अभ्युद्गतास्यै विनिवेद्य हल्लके
सा केशवोत्तंस-चरे मुदान्विता ।
सन्दर्शयन्ती वन-कुञ्ज-मञ्जुतां
निकुञ्ज-राजं प्रति ताम् अनैषीम् ॥९७॥

सा वृइन्दा अभ्युद्गता अभिगमनं कुर्वती केशवस्य कृइष्णस्योत्तंसचरे पूर्वं कर्णभूषणे हल्लके रक्त-सन्ध्यके अस्यै राधायै विनिवेद्य तां राधां वनकुञ्जयोर् मञ्जुतां मनोज्ञतां सन्दर्शयन्ती सती निकुञ्जराजं प्रत्यनैषीत् ॥९७॥

शोभां वनस्येन्दु-करानुरञ्जितां
सोद्दीपनीं भाव-ततेः स्वभावतः ।
निकुञ्ज-वृन्दस्य च वृन्दयाचितां
वीक्ष्यास लोला हरि-सङ्गमाप्तये ॥९८॥

सा राधा वनस्य निकुञ्ज-वृइन्दस्य च शोभां वीक्ष्य हरि-सङ्गमाप्तये लोला चञ्चला सतृइष्णावास । कीदृइशीं शोभां वृइन्दयाचितां नानारचनोपचारैर् विभूषितां चन्द्रकरानिरञ्जितां स्वभावतो भावततेर् उद्दीपनीं ॥९८॥

तस्या उद्दीप्त-भावाली वात्ययोच्चालितं मनः ।
कृष्णाप्त्य्-आशापगोत्कण्ठावर्ते तूलम् इवापतत् ॥९९॥

तस्याः राधाया मनः धूमायित-ज्वलित-दीप्तेभ्योभावेभ्यश् चतुर्था उद्दीप्ता ये भावास् तेषामाली सैव व्यात्या वायु-समूहस् तया तूलवद् उच्चालितं उर्धं नीतं भूत्वा कृइष्णस्याप्तिः प्राप्तिस् तत्र या आशा सैवापगा नदी तस्याम् उत्कण्ठा-रूपावर्ते घूर्णयामापतत् तूल-खण्डो यथा वात्यानीतोन-दीघूर्णा-मध्ये पतित्वा घूर्णाति तथाऽभूदित्यर्थः ॥९९॥

कुञ्जं मुहुर् विशति पश्यति तत्र चित्रान्य्
अस्मान् निरेति सरणिं सरति प्रियस्य ।
पत्रे क्वचिच् चलति तं मनुते समेतं
वृन्दां च पृच्छति तद्-आगमम् उत्सुकेयम् ॥१००॥

मनसो-घ्ऽउर्णनात्-तस्याश् चेष्टितम् आह । मुहुः कुञ्जं विशति तत्र कुञ्जे चित्राणि पश्यति । अस्मात् कुञ्जान्निरेति निर्गच्छति । प्रियस्य सरनीं पन्थानं सरति गच्छति । क्वचित् पत्रे चलति सति समेतमागतं तं कृइष्णं मनुते । उत्सुकेन तदागमं तस्य कृइष्णस्यागमं वृइन्दाञ्च पृइच्छति ॥१००॥

सङ्कल्पान् हरिणा विलास-विततेः प्राप्तौ विकल्पान् हरेः
सञ्जल्पान् स्फुरतामुना च पुरतः सन्तन्वती भूरिशः ।
आकल्पं स्व-तनोः सुकल्पम् अपि सा तल्पं च सङ्कुर्वती
सुकल्पं कालम् अनल्प-कल्प-दृशं मेने प्रियाप्त्य्-उत्सुका ॥१०१॥

सा श्री-राधा हरिणा सह विलासततेः विलास-श्रेणेः सङ्कल्पान् अभिलाषान् “सङ्कल्पः कर्म मानस” मित्यमरः । हरेः प्राप्तौ विकल्पान् हरिरागमिष्यत्येव किम्बा केनापि विघ्नेन नागमिष्यतीत्यादि प्रकारान् स्फुरता स्फुर्ति-प्राप्तेनामुना कृइष्णेन सह सञ्जल्पान् परस्पर-कथोपकथनानि भूरिशः सन्तन्वती सती स्वतनोः स्वशरीरस्याकल्पं भूषणं सुकल्पं सुभूषितं तल्पं शयामपि संस्कुर्वती च स्वऌपमपि कालं अनल्पश् चासौ कल्पस् तस्य सदृइशं मेने । अत्र हेतुमाह । प्रियेत्यादि ॥१०१॥

अथात्र घोषेश-सुतः सवित्र्यां
स्वं शाययित्वा स्व-गृहं गतायाम् ।
क्षणं स विश्रम्य बहिः-स्वदासान्
प्रस्थाप्य गेहाच् छयनाद् उदस्थाम् ॥१०२॥

अथात्र च स्वगृइहे समये वा कृइष्णः सवित्र्यां मातरि स्व-मात्मानं शाययित्वा स्व-गृइहं गतायां सत्यां स कृइष्णः क्षणं विश्रम्य गृइहाद्-वहिः स्व-दासान् प्रस्थाप्य शयनात् तल्पादुदस्थात् उत्थितः ॥१०२॥

कीलयित्वा पुरो-द्वारं दासान् प्रस्थाप्य तद्-बहिः ।
गन्तुम् उत्कमनाः कुञ्जं पक्ष-द्वारेण निर्ययौ ॥१०३॥

तद्-वहिः दासान् प्रस्थाप्य पुरोद्वारं कीलयित्वा शृइङ्खलादिहिः रुद्धं कृइत्वा कृइष्णः कुञ्जं गन्तुमुत्कमनाः पक्ःअद्वारेण खिद्कीत्याख्यद् वारेन निर्ययौ ॥१०३॥

**अनाच्छन्नं हित्वा शशि-कर-चितं घोष-वसतेः
पुर-द्वारं सम्भावित-विविध-लोकागम-गमम् ।
सुखम् पश्चात्-सृत्या विटपि-वृतया यामि विपिनं
विचार्येत्थं गन्तुं पद-युगम् अधाद् यर्हि स पुरः ॥१०४॥
तदैव सा स्वे व्रज-भूर् अतर्कितं
निधाय यन्त्रार्पित-यान-सन्निभे ।
मनोजवे हृत्-कमले निनाय तं
कुञ्जालयं तन्-मनसा सह द्रुतम् ॥१०५॥ **

(युग्मकम्)

घोष-वसतेः पुरद्वारमनाच्छन्नं । शशिकरेण ज्योत्स्नयाचितं सम्भावितं विविधजनानां गमनागमनं यत्र तं । हित्वा विटपिभिर् वृइतया पश्चात् सृइत्यासुखं यथास्यात्-तथा विपिनं यामीत्थं विचार्य सः कृइष्णः गन्तुं पुरोऽग्रे यर्हिपद-युगमधात् । तदैव सा व्रज-भूरतर्कितं यथास्यात्-तथा यन्त्रार्पित-यानसन्निभे यन्त्रार्पित-वाहनतुल्ये मनोजवे मनसो मन इवर् वा जवोवेगो यस्य तस्मिन् । स्वे स्वीये हृइत्कमले तं कृइष्णं निधाय तस्य कृइष्णस्य मनसा सह द्रुतं कुञ्जालयं निनाय प्रापयामास ॥१०४-१०५॥

ज्योत्स्ना-पूर्णं तूर्णम् उल्लङ्घ्य यत्नाच्
छायाच्छन्नं वर्त्म गृह्णंस् तरूणाम् ।
आयातोऽहं प्रेयसी सागता मे
किं वा नेत्थं कृष्ण आसीत् तदोत्कः ॥१०६॥

ज्योत्स्ना-पूर्णं वर्त्न यन्तात् तूर्ण-मूल्लङ्घ्य तरूणां छायाच्छन्नं वर्त्न गृइह्नन्नहमायातः मे प्रेयसी सा राधा आगता कीम्वा नागता इत्थमनेन पृइकारेण कृइष्णस् तदोत्क आसीत् ॥१०६॥

इतस् तावज् ज्योत्स्नोज्ज्वलित-पवनान्दोलित-दलं
तमालं राधारात्-कनक-चितम् आलोक्य मुदिता ।
प्रियं मत्वायान्तं विहसितुम् अमुं कौतुकवती
निलीनासीत् कुञ्जालयम् अनुवयस्याल्य्-अनुमता ॥१०७॥

तावदितोऽत्र राधा आरात् समीपे ज्योस्नयोज्वलितश् चासौ पवनेनान्दोलितानि दलानि यस्य स चेति तं कनकचितं कनक-वधं मूलञ्च तमालं तमाल-वृइक्षमालोक्य भावावेशेन ज्योत्स्ना-जन्योज्वले हासभ्रान्त्या मूल-वधकनके पीत-वसन-भ्रान्त्या पवन-कृइतान्दोलने आगमन-भ्रान्त्या तमाले कृइक्ष्ण-भ्रान्त्या तं प्रियं कृइष्णमायान्तं मत्वा । तं विहसितौं वयस्यालिभिरनुमता कौतुकवती राधा कुञ्जालयेन निलीनासीत् ॥१०७॥

रत्न-प्रदीपादिक-धारि-भित्ति-
प्रलग्न-हैम-प्रतिमालि-मध्ये ।
स्थिता प्रियं प्रेक्ष्य पुरः स्फुरन्तं
दृष्टास्म्य् अनेनेति मुहुर् निलिल्ये ॥१०८॥

रत्नदीपधारि स्वर्ण-प्रतिमा श्रेणिमध्ये स्थिता राधा पुरःस्फुरन्तं प्रियं प्रेक्ष्यानेन दृइष्टास्मीति मत्वा मुहुर्निलिल्ये ॥१०८॥

**तावत् कृष्णोऽपि तत्रायाद् वृक्षाच्छन्नेन वर्त्मना ।
वृन्दाभ्येत्य ददौ तस्मै कर्णिकारावतंसकौ ॥१०९॥ **

(सन्दानितकम्)

तावत् समये कृइष्णोऽपि वृइक्षाच्छन्नपथाःतत्रायात् । तं वृइन्दाभ्येत्य तस्मै कृइष्णाय कर्णिकार-पुष्प-कृइतावतंसकौ कर्णभूषणौ ददौ ॥१०९॥

पुलक-मुकुल-जाला-बाष्प-धारा-मरन्दा
विकृति-मलय-वातोत्कम्पिता सालि-पालिः ।
स्मित-कुसुम-सिताङ्गी गद्गदालि-स्वनासीद्
उदयति दयितेऽस्मिन् माधवी माधवीव ॥११०॥

सा ललिताद्यालिपालिः अस्मिन् दयिते उदयति सति माधवी वसन्तर्तु सम्वन्धिनी माधवीलतेवासीत् । कीदृइशी पुलकमेव मुकुलजालं यस्याः सा वाष्पस्य धारैव मरन्दो मधु यस्याः विकृइतिर् विकारः सैव मलयवातस् तेनोत्कम्पिता । स्मितमेव कुसुमं तेनासिताङ्गी शुक्लाङ्गी । गद्गदं गद्गद-वचनमेवालिस्वनो भ्रमर-शब्दो यस्यां सा कृइष्ण-दर्शनेन तासामष्टसात्त्विकत्वम् अभूदित्यर्थः ॥११०॥

कृष्णोऽपि तासाम् अवलोक-जाता-
नन्दोत्थ-भावालि-विभूषिताङ्गः ।
कान्तावलोकोत्तरलाक्षि-चेताः
कान्ताम् अपश्यन्न् अवदत् तदालीः ॥१११॥

कृइष्णोऽपि तासां दर्शन-जभावविभूषिताङ्गः सन् कान्तावलोकनायोत्तरलानि अक्षिणी चेतश्च यस्य सः कान्तां राधाम् अपश्यन् तदाली तस्या राधाया आलीः किम्बा । ता आलीरवदत् ॥१११॥

वयस्या वः सख्यः क्व नु निज-गृहे तद्-विरहिताः
कथं यूयं प्राप्ताः कुसुमम् अवचेतुं रवि-कृते ।
कुतस् तत्-सौरभ्यं प्रसरति तद्-अङ्गेन मिलिताच्
छरिराद् अस्माकं वितथम् इदम् अस्त्व् एव वितथम् ॥११२॥

हे सख्यः वः वयस्या राधा क्व ? ता आहुर् निजगृइहे, स आह तदित्यादि ता आहुः, रविकृइते कुसुम-म्वचेतुं । स आह कुत इत्यादि । ता आहुरस्माकं तदङ्गेनेति । स आह इदं वितत्थं मिथ्या-वाक्यं ता आहुर् वितथमेवासु । वितथं त्वनृइतं वच इत्यमरः ॥११२॥

तां विना न वने युष्मद्-गतिः सम्भाव्यते क्वचित् ।
चन्द्र-मूर्तिं विनाकाशे नेक्ष्यन्ते तन्-मरीचयः ॥११३॥

कृइष्णः मिथ्यात्वं सिधयति तामिति । चन्द्रं विना चन्द्रज्योत्स्नेव तां विना युष्मद्गतिर् नसम्भाव्यते ॥११३॥

नेयं चन्द्र-तनूः किन्तु श्रीर् इयं वृषभानुजा ।
यैक-देशे स्थिता व्याप्नोत्य् अमूं त्वां च स्व-दीप्तिभिः ॥११४॥

ता आहुः इयं चन्द्रतनूर् न किन्तु वृइषभानुजा । वृइषभानुरेव वृइषभानुर्जैष्ठ-सूर्यस् तस्माज्जाता श्री-द्युतिः या श्री-रेकदेशे स्थितापि अमूं चन्द्रं त्वाञ्च स्वकान्तिभिर् व्याप्नोति । चन्द्रं मलिनयति त्वाम् उत्कण्ठयतीत्यर्थ ॥११४॥

एवं नर्मालिभिस् तन्वन् वृन्दयासौ दृशेरितः ।
कान्ता सन्दर्शनोत्कण्ठः प्राविशत् स्वर्ण-मन्दिरम् ॥११५॥

असौ कृइष्णः आलिभिः सहैवं नर्म तन्वन् वृइन्दयेरितः स्वर्णमन्दिरं प्राविशत् ॥११५॥

राधा-कान्त्य्-उच्छलत्-स्वर्ण-गेह-कान्त्याखिले कृते ।
पीताद्वैतेऽन्तरेऽपश्यत् सर्वं हेम-मयं हरिः ॥११६॥

राधाकान्त्या हेतुनोच्छलन्त्या स्वर्ण-गृइह-कान्त्याऽखिले पीताद्वैते पीतेन पीत-वर्णेनाद्वैतेऽभिन्ने कृइते सति हरिरन्तरे गृइहमध्ये सर्वं हेममयमपश्यत् ॥११६॥

तावत् स्व-कान्ति-मिलनात् प्रोच्छलन्त्या च तत्-त्विषा ।
व्याप्तं सापश्यद् अत्रत्यं सर्वं मरकत-प्रभम् ॥११७॥

तावत् सा राधा स्वस्याः कान्तेर् मिलनादुच्छलन्त्या तत्-तस्या कान्त्या च व्याप्तं तत्रत्यं मन्दिरे स्थितं सर्वं मरकत-प्रभमपश्यत् ॥११७॥

पञ्चालिकान्तरेऽन्विष्य पश्यन्न् अपि मुहुः प्रियाम् ।
स्तब्धां स्वालोक-मुद्-भीभ्यां मेने पञ्चालिकां प्रियः ॥११८॥

प्रियः कृइष्णः पञ्चालिकाः स्वर्ण-प्रतिमाः तासामन्तरे मध्येऽन्विष्य मुहुः पश्यन्नपि स्वस्यावलोकेन मुदानन्दो भीर्भयञ्च ताभ्यां स्तव्धां प्रियां पञ्चालिकां स्वर्ण-प्रतिमां मेने ॥११८॥

तां लालसा दयित-सङ्गतये पुरस्ताद्
द्रग्-वामतापसृतये च चकर्ष पश्चात् ।
तावन् मुद्-उत्थ-जडतैत्य निवार्य तां तां
वामा सखीव निरुरोध हरेः पुरस्तात् ॥११९॥

तां राधां दयितस्य सङ्गतये सङ्गार्थं लालसा पुरस्तात् अग्रे चकर्ष । वामता वाम्यं द्राक् शीघ्रमपसृइतये गमन-निवृइत्त्यर्थं पश्चाद्देशे चकर्ष । तावत्-तस्यामुदुत्थाजडता जाड्यमेत्यागत्य । तां वामतां निवार्य तां राधां वामा सखीव हरेः पुरस्तात् निरुरोध जाड्यभावेन श्री-राधा । ततोऽपगन्तुं न समर्था वभूवेत्यर्थः ॥११९॥

तां स्प्रष्टुम् उत्सुकतयेरितम् अन्तिकाप्तं
तं स्तब्धताध्वनि रुरोध बलान् मुद्-उत्था ।
तां लालसेत्य विनिवार्य हठात् प्रियां तं
प्रापय्य तत्-करम् अधारयद् आशु सोग्रा ॥१२०॥

तां राधां स्प्रष्टुमुत्सुकतया औत्सुक्येन कर्त्रेरितं प्रेरितं अन्तिकाप्तं तस्या अन्तिके समीपे आप्तं तं कृइष्णं मुदुथा हर्योत्था-स्त्व्धताऽद्व्हनि पथि रुरोध लालसैत्य आगत्य तां स्त्व्धतां हठात् विनिवार्य तां कृइष्णं प्रियां राधां प्रापय ऊग्रा सा लालसा तत्करं राधा-करमाश्वधारयत् ॥१२०॥

तत्-स्पर्शतः पुलक-कम्प-दृग्-अम्बु-कीर्णा
वैवर्ण्य-घर्मजलभाक्-तरलायताक्षी ।
पश्यन्त्य् अमुं कुटिल-चिल्लि-लता तिरो-दृक्-
प्रान्तेन सा प्रिय-करात् स्व-करं चकर्ष ॥१२१॥

तत्-तस्य स्पर्शात् पुलकादिभिः कीर्णा व्याप्त्या वैवर्ण्य-स्वेदभाक् सा राधा कुटिलचिल्लिलतया सह तिर्यक् नेत्रा तेनामुं कृइष्णं पश्हन्ती प्रियस्य करात् स्वकरं चकर्ष ॥१२१॥

स्मेरारुणान्त-कुटिलाश्रु-कलाञ्चि-पक्ष्म-
हेलोल्लसच्-चपल-लोचनम् उत्स्मितार्द्रम् ।
कण्ठाध्व-खञ्जित-स-हुङ्कृति-भर्त्सनोक्ति
प्रेक्स्यामितां मुदम् अवाप हरिः प्रियास्यम् ॥१२२॥

हरि प्रियामुखं प्रेक्ष्यामितामपरिमितां मुदमवाप । कीदृइशं मुखं स्मेरे विकसितेच ते अरूणान्ते च अश्रुकलाञ्चि पक्ष्मणी च हेलया शृइङ्गारभावजया उल्लसन्ती च चपले ते लोचने यत्र तत् । मुदा हर्षेण हेतुना यत्स्मितं तेनार्द्रं तच्च तच्च तत्-कण्ठस्याद्य्वनि मार्गे खञ्जिता भुग्ना हुङ्कृइत्या सह भर्त्सनोक्तिर् यत्र तत् ॥१२२॥

नासा-रसज्ञा-श्रुति-नेत्र-वर्ष्मभिर्
लुब्धैः स्व-तत्-तद्-विषये प्रियौ मिथः ।
तौ लुण्ठयामासतुर् अङ्ग-नीवृतं प्रिया
छलाच्छन्न-मयं बलात् स्फुटम् ॥१२३॥

स्वेषां नासादीनां तत्-तद्-विषये तेषां नासादीनां क्रमेण गन्ध-रस-शब्द-रूप-स्पर्शाकार-विषये लुव्धैर् नासादिभिः करणै तौ प्रियौ राधा-कृइष्णौ मिथः परस्परं अङ्गरूपनीवृइतं देशं लुण्ठयामासतुः । कथं प्रिया छलाच्छन्नमयं वलात्स्फुटं । प्रिया श्री-राधा छलं कृइत्वा भ्रूतर्जनादिकं कृइत्वा छन्नं गूढं यथास्यात्-तथा प्रियास्याङ्गदेशं लुण्ठयामस । अयं श्री-कृइष्णः वलात्कारेण स्फुटं व्यक्तं यथा स्यात्-तथा प्रियाया अङ्गदेशं लुण्ठयामासेत्यर्थः । लुण्ठापहरेणे धातुः ॥१२३॥

गूढौ पुनः स्वर्ण-घटौ विमोषितुं
सरीसृपन्तं निज-कञ्चुकान्तरे ।
कामाङ्कु-शास्त्रं कर-तस्करं हरेः
करेण सारुद्ध परं न वाञ्छितम् ॥१२४॥

पुनः गूढौ गुप्तौ स्वर्णघटौ विमोषितौं चोरयितुं निजकञ्चुक-मध्ये सरीसृइपन्तं कामाङ्कुशास्त्रं हरे करतस्करं कररूपचौरं परं केवलं सा राधा करेणारूधं न वाञ्छितमरुद्धेत्यर्थः । यद्वा करतस्करमरुध परं ततो भिन्नं तस्य हरेर्वाञ्छितं नारुधेत्यर्थः ॥१२४॥

इति सुमधुर-लीलानन्द-सिन्धौ निमग्ने
शिथिलित-तनु-चित्ते प्रेयसि प्रेयसी सा ।
प्रिय-सह-निज-लीलालोकनायागताली
वलित-मुदित-वाम्या कुट्टिमं प्राप गेहात् ॥१२५॥

प्रेसि कृइष्णे सुमधुर्-लीलानन्द-सिन्धौ निमग्ने सति तथा षिथिलिते तनुचित्ते यस्य तथाभूते प्रेयसि कृइष्ण सति । सा प्रेयसी राधा प्रियेण सह निजलीलाया दर्षनायागतालिभिर् वलितं युक्तं कुट्टिमं वहिर्वेदीं उदितवाम्या सा गेहात् प्राप् ॥१२५॥

हरिर् अपि रस-भङ्गैः प्रापितस् तत्-समीपं
तद्-अवकलन-भीत्या सा निलिल्ये सखीषु ।
स पुनर् इह विचिन्वन् तासु तां तच्-छलात् ताः
प्रणय-कुटिल-दृष्टिः संस्पृशन् मोदम् आप ॥१२६॥

रसभङ्गैः रसतरङ्गैर् हरिरपि तस्या राधायाः समिपं प्रापितं तस्य कृइष्णस्यावकलने ग्रहणे या भीतिस् तया सा राधा सखिषु निलिल्ये । भङ्गस् तरङ्ग उर्मिर्वे त्यमरः । स तासु सखिषु मध्ये तां विचिन्वन् तच्छलात् तस्या अन्वेषणच्छलात् प्रणयेन कुटिला द्रिष्टिः यासां ताः सखीः संस्पृइशन् मुदमाप् ॥१२६॥

यद् अपि हृदि विवृद्धां काञ्चिद् आशां तयोस् तां
न्यरुणद् अतिबलिष्ठा वामतैत्य प्रियायाः ।
तद् अपि सुख-समृद्धिं प्रापतुस् ताव् उदग्रां
प्रथयति हि सुखाब्धीन् वामताप्य् अङ्गनानाम् ॥१२७॥

यदपि तयो रादा-कृइष्णयोर् हृइदि काञ्चिदाशां विवृइधां प्रियाया राधाया अतिवलिष्ठा वामता एत्यागत्य तामाशां न्यरुणत् तदपि तौ राधाकृइष्णौ उदग्रां अतिशयां सुख-समृइद्धिं प्रापतुः । अत्र हेतुमाह ।अङ्गनानां वामतापि सुखाव्धीन् प्रथयति ॥१२७॥

इति श्री-गोविन्द-लीलामृइते पूर्वनिशायां प्रदोषे ये विलासास् तैर् वलित एकविंशः सर्गः समाप्तोऽभुत् ।

इति सदानन्द-विधायिन्यामेकविंश-सर्गार्थः ॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गः पूर्व-निशा-विलास-वलितोऽगाद् एकविंशाभिधः ॥

॥२१॥

(२२)