विंशः सर्गः
**सायं राधां स्व-सख्या निज-रमण-कृते प्रेषितानेक-भोज्यां
सख्य्-आनीतेश-शेषाशन-मुदित-हृदं तां च तं च व्रजेन्दुम् ।
सुस्नातं रम्य-वेशं गृहम् अनु जननी-लालितं प्राप्त-गोष्ठं
निर्व्यूढोस्रालि-दोहं स्व-गृहम् अनु पुनर् भुक्तवन्तं स्मरामि ॥१॥ **
सायङ्काले तां राधां तञ्च व्रजेन्दुं कृइष्णं स्मरामि । कीदृइषीं तां ? स्वस्य सख्या कारणभूतया निजरमणस्य कृइते प्रेषितमनेकभोज्यं यया तां । सखीभिरानीत ईशस्य कृइष्णस्य शेषो भोजनशेषस् तस्याशनेन भोजनेन मुदितं ह्रित् यस्यास् तां । कीदृइशं तं ? स्नानमित्यादि । निर्व्यूढ्ः समाप्तीकृइतः उस्रालेर् गोश्रेण्यादोहो दोहनं येन तं । स्वगृइहे पुनर्भुक्तवन्तं ॥१॥
अथागता सा सदनं व्रजेश्वरी
सुतौ विधायाप्लव-वेदिकां गतौ ।
नियुज्य दासान् अपि तन्-निषेवणे
धनिष्ठिकाम् आह निजान्तिक-स्थिताम् ॥२॥
सदनमागता व्रजेश्वरी-सूतौ स्नानवेदिकां गतौ विधाय तत्-तयोर् निषेवने दासान्नियुज्य धनिष्टामाह ॥२॥
राधां प्रयाहि बटकैः सह लड्डुकानि
स्वादूनि कृष्ण-रुचि-दानि तया कृतानि ।
तां प्रार्थ्य पुत्रि शुभदान्य् अधुनानय त्वं
स्यातां सुतौ यद्-अदनाच् चिर-जीविनौ मे ॥३॥
हे पुत्रि धनिष्ठके ! तां राधां प्रार्त्य तया राधया कृइतानि वटकेः सह लड्डुकानि अधुना त्वमानय । यददनात् येषां लड्डूकानां भोजनात् मे सुतौ चिरजीविनौ स्यातां ॥३॥
सा गत्वा राधिकाम् एतां व्रजेश्वर्या निदेशतः ।
भक्ष्याण्य् अयाचतैतेषां स्वयं प्रस्थापनोत्सुकाम् ॥४॥
सा धनिष्ठा एतेषां लड्डुकानां स्वयं प्रस्थापनोत्सुकामेतां राधां लड्डुकान्ययाचत ॥४॥
मालती तावद् अभ्येत्य वृन्दया प्रहिता सखी ।
सङ्केत-कुञ्जम् आचख्यौ श्री-गोविन्द-स्थलाभिधम् ॥५॥
वृइन्दया प्रहिता मालती सखी सङ्केत-कुञ्जं ॥५॥
श्री-राधिकापि भक्ष्याणि तानि कृत्वा पृथक् पृथक् ।
वस्त्राच्छान्नास्य-सन्नव्य-मृत्-पात्रेषु भृतान्य् अलम् ॥६॥
तानि चाधाय विस्तीर्णे चित्रिते दारु-सम्पुटे ।
स-कस्तूर्यां तुलस्यां तं न्यस्य शुक्लाम्बरावृतम् ॥७॥
ताम्बूल-वीटिकाश् चास्यां न्यस्य तत् सकलं पुनः ।
ज्ञात-सङ्केत-कुञ्जायै धनिष्ठायै समर्पयत् ॥८॥
राधा-भक्ष्याणि पृइथक् पृइथक् कृइत्वा वस्त्रावृइत-मुख-नव्यमृइत्पात्रेषु धृइतानि तानि दारुसम्पुटे आधाय धृइत्वा तदारु-सम्पुटं शुक्ल-वस्त्रावृइतं कृइत्वा कस्तुरी-नाम्न्याः तुलस्याञ्च न्यस्य अस्यां तुलस्यां ताम्बुल-वीटिकाश् च न्यस्य । तत् सकलं वटक-लड्डुक-ताम्बूलं । ज्ञातं सङ्केत्-कुञ्जं यया तस्यै धनिष्ठायै समर्पयत् ॥६-८॥
सापि ताभ्यां तद् आनीय व्रजेश्वर्यै न्यवेदयत् ।
सा ताभिस् तानि पात्रेषु पृथक् पृथग् अकारयत् ॥९॥
सा धनिष्ठा ताभ्यां कष्तूरी-तुलसीभ्यां सह तत्-वटकादिकमानीय यशोदायै । सा यशोदा ताभिर् धनिष्ठादिभिः सह तानि वटकादीनि ॥९॥
तेषां तथा स्वालय-संस्कृतानां
कियत् कियत् सा सद्-उपायनानाम् ।
विधाय पत्रेषु ददौ तद् आदौ
नारायाणायार्पयितुं बटुभ्यः ॥१०॥
तेषां राधा-कृइतानां स्वगृइह-संस्कृइतानां सदुपायनानां कियत्-पात्रेषु विधाय कृइत्वा नारायणाय अर्पयितुं आदौ वटुभ्यः ददौ ॥१०॥
अङ्ग-प्रक्षालनाभ्यङ्गोन्-मर्दनोद्वर्तनाप्लवैः ।
मार्जनोद्गमनीयाच्छ-नव्यांशुक-समर्पणैः ॥११॥
केश-संस्कार-तिलकालेप-माल्य-विभूषणैः ।
कृष्णाद्याः सेविता दासैर् निविष्टा भोक्तुम् आसने ॥१२॥
अङ्ग-प्रक्षालनादिभिर् दासैः सेविताः कृइष्णाद्या भोक्तुमासने प्रविष्टा वभूवुरिति परश्लोकेनान्वयः । उद्गमनीयं परिधेयमुत्तरीयञ्च वस्त्र-युग्मं अच्छं स्वच्छं नव्य-वस्त्रं तस्य समर्पणैः ॥११-१२॥
**क्रमान् माता तेभ्यो नारिकेलान्य् अथाग्रतः ।
पानकादि-रसालादि-फलानि विविधानि च ॥१३॥
पीयूष-ग्रन्थि-कर्पूर-केलिकामृत-केलिकाः ।
बटकान् लड्डुकान्य् आज्य-संस्कृतान्नादिकानि च ॥१४॥ **
(युग्मकम्)
माता तेभ्यः कृइष्णादिभ्यः क्रमादादौ नारिकेलानि । अथाग्रथः पूर्वोक्ता रसाला तदादि पानकानि । विविधानि आम्रादि-फलानि । पीयूष-ग्रन्थि-प्रभृइतीन् लड्डुकानि घृइत-संस्कृइतान्नादिकानि च ददौ ॥१३-१४॥
हसन्तो हासयन्तस् ते मधुमङ्गल-नर्मभिः ।
भुक्त्वा पीत्वा मुदाचम्य क्षणं तल्पे विशश्रमुः ॥१५॥
त एते सेविता दासैस् ताम्बूल-व्यजनादिभिः ।
गोशालं मिलितैर् मित्रैर् गो-दोहाय पुनर् ययुः ॥१६॥
ते कृइष्णादयः ॥१५-१६॥
तद्-भुक्त-शेषं तत् सर्वं श्री-राधायै धनिष्ठिका ।
निभृतं प्रेषयामास स्व-सख्या गुण-मालया ॥१७॥
धनिष्ठा कृइष्ण-भुक्तशेषं तत्सर्वं स्वसख्या गुण-मालया राधिकायै प्रेषयामास ॥१७॥
सालि-वृन्दा तद् आस्वाद्य सारूढा चन्द्र-शालिकाम् ।
कृष्णं गो-दोह्न-क्रीडं पश्यन्ती मुमुदे भृशम् ॥१८॥
आलि-वृइन्द-सहिता । सा राधा तत्-कृइष्ण-भुक्तशेषमासाद्य चन्द्र-शालिका सर्वोपरि गृइहमारूढा कृइष्णं पश्यन्ती मुमुदे ॥१८॥
क्वचिद् ग्रीष्मे कृष्णः पथि सखि-कुलैः प्रार्थ्य जननीं
समं तैः संस्नातुं सरति यमुनां क्वापि च सरः ।
तदा दासा मात्रार्पित-विविध-भक्ष्याणि मुदिता
गृहीत्वा स्नानीयाभरण-वसनादीन्य् अपि ययुः ॥१९॥
कृइष्णः सखि-कुलैः सह क्वचिद्दिने ग्रीष्मकाले पथि गोष्ठ प्रवेशं न कृइत्वा जननीं यशोदां प्रार्थ हे मातरद्य स्नानार्थं यमुनां सरोवरं वा यास्यामः । इति प्रर्थनां कृइत्वा यमुनां सरो वा सं सम्यक् जल-क्रीडादि-पूर्वर्कं स्नातुं सरति गच्छति । तदा दास्य यशोदार्पित विविधभक्ष्याणि स्नानीयाभरण-वसनादीनि गृइहीत्वा मुदिताः सन्तो ययुः ॥१९॥
तत्र स्नाताः सुवेशास् ते भुक्त्वा पीत्वा गत-श्रमाः ।
गो-दोहाय पथा तेन पुनर् यान्ति गवालयम् ॥२०॥
तत्र यमुनादौ स्नाताः सुवेशाः । ते कृइष्णादयः भोजन-पानेन गत-श्रमास्तेन पथा गोदोहनाय गवालयं पुनर्यान्ति ॥२०॥
**तदा राधापि सा सायं स्नान-व्याजात् सखी-चयैः ।
गत्वानुस्रोतसि स्नात्वा कृष्णाङ्ग-सङ्ग-वारिणि ॥२१॥
रहो भक्ष्याणि कृष्णाय कुन्दवल्ल्यार्पयत्य् असौ ।
भुक्त्वा तयाप्त-तत्-शेषं पश्यन्ती याति तं गृहम् ॥२२॥ **
(युग्मकम्)
तदा सखीचयै सह राधापि स्नानच्छलात् यमुनादौ गत्वा । अनुस्रोतसि कृइष्णाङ्ग-सङ्गवारिणि श्रि-कृइष्णो यत्र स्नाति तज्-जलं यत्र याति तत्र स्नात्वा । असौ राधा कुन्द-वल्लीद्वारा रहः श्रि-कृइष्णाय भक्ष्याण्यर्पयति । तया कुन्दवल्या द्वारा प्राप्त-तत्-कृइष्ण-भुक्त्शेषं भुक्त्वा तं कृइष्णं पश्यन्ती गृइहं याति ॥२१-२२॥
दासा भृङ्गार-ताम्बूल-पात्र-व्यजन-पाणयः ।
निर्योग-पाश-वेत्रादि-धारिणस् ते तम् अन्वययुः ॥२३॥
भृइङ्गारं जल-पात्रं तदादिपाणौ हस्ते येषां ते दासाः । निर्योगपाशो गोदोहनादौ रज्जु-विशेषः वेत्रादिधारिणस् ते दासास् तं कृइष्णं ॥२३॥
तातं स खट्टोपरि सन्निविष्टं
पुरो-धृतानेक-पयो-घटालिम् ।
गोपांश् च दासांश् च समादिशन्तं
तत्-तत्-कृतौ स्वाध्वनि दत्त-दृष्टिम् ॥२४॥
स हरि तातं धेनूश् च सखिगणञ्च पश्यन् परिचारक-गणं षण्डान् वत्सांश् च दृइष्ट्वा मुमुदे इति षष्ठ-श्लोकष्थेनान्वयः । तातं कीदृइशं ? खट्वापरि सन्निविष्टं अग्रे धृइतानेक-दुग्धघटानां श्रेणी यस्य तं । तत्-तत्-कृइतौ कार्ये गोपान् दासांश् च समादिशन्तं । एवमेवं कुर्वति कथयन्तं । कदा कृइष्ण आगमिष्यतीति स्वस्य कृइष्णस्याध्वनि दत्ता दृइष्टिर् येन तं ॥२४॥
हम्बा-रावैस् तृषित-रुवतो वत्सकान् आह्वयन्तीर्
उत्कर्णास्याः स्व-पथि निहित-स्वावलोकोत्क-नेत्राः ।
ऊधो-भारैः स्थगित-चलना दुग्ध-पूरान् स्रवन्तीर्
दुग्धा दोह्याः कतिचिद् अपरा दुह्यमानाश् च धेनूः ॥२५॥
धेनूः कीदृइशीः ? तृइषितरुवतो वत्सकान् हम्बारावैराह्वयन्तीः । ऊर्धीकृइते कर्णास्ये याभिस् ताः । स्वस्य कृइष्णस्य पथि निहितानि स्वान्यवलोकनायोत्कण्ठितानि नेत्राणि याभिस् ताः । ऊधोभारेण स्तनस्थ-दुग्धभारेण स्थगितं गमनं यासां ताः । ऊधः दुग्ध-पूरान् श्रवन्तीः । कतिचित् धेनूर् दुग्धाः कृइत-दोहनाः । कतिचित् दोह्याः पश्चाद्-दोहनीयाः अपरा दुह्यमानाः वर्तमानदोहनाः ॥२५॥
तत्-तद्-धेनोर् मुहुर् अभिधया ता हिही पूर्वयोत्कास्
तत्-तन्-मातुः पुनर् अभिधया वत्सकांश् चाह्वयन्तम् ।
दोहं दोहं पय इह गवां पूरयन्तं घटालिं
विन्यस्ताक्षं स्वक-पथि गणं गोदुहां चापि पश्यन् ॥२६॥
गोदुहां गणं चापि पश्यन् मुमुदे । कीदृइशं ? हिही पूर्वया तत्-तधेनोरबिधया ता धेनूर्-मुहुराह्वयन्तं । तत्-तन्मातुर् वत्सकांश् च पुनर्बिधया आह्वयन्तं । गवां पयः दोहं दुग्ध्वा दुग्ध्वा घटालिं पूरयन्तं । स्वकपथि विन्यस्ताक्षं ॥२६॥
स्व-दर्शनोत्कं परिचारकाणां
गणं पयो-भार-वहं च कुम्भान् ।
पूर्णान् नयन्तं गृहम् आनयन्तं
शून्यान् गृहाद् गोप-पतेः पुरस्तात् ॥२७॥
परिकराणां गणं कीदृइषं । पयोभारवहं । स्वदर्शनोत्सुकं । दुग्धैः पूर्णान् कुम्भान् गृइहं नयन्तं । शून्यान् कुम्बान् व्रजपतेः पुरस्तादग्रे गृइहादानयन्तं ॥२७॥
शृङ्गैः खुरैर् दारयतो धरां मुहुर्
गम्भीर-तार-स्वन-नादिताम्बरान् ।
तान् वासिता-सङ्गतये परस्परं
प्रयुध्यतः षण्ड-वरांश् च धावतः ॥२८॥
षण्डवरान् कीदृइशान् । वासितानां गवां सङ्गतये सङ्गार्थं परस्परं प्रयुध्यतो धावतश् च षण्डवरान् तान् दृइष्ट्वा मुमुदे । कीदृइशान् तान् । शृइङ्गैः खुरैः धरां पृइथ्वीं दारयतः । गम्बीरतारैरुच्च-स्वनैर् नादितमम्बरं यैर्स्तान् ॥२८॥
**मस्तकामस्तकि क्रीडा-युद्धं विदधतो मिथः ।
मुहुर् वत्सतरांश् चापि दृष्ट्वा सम्मुमुदे हरिः ॥२९॥ **
(षड्भिः कुलकम्)
वत्सतरान् कीदृइशान् । मस्तकेन मस्तकं प्रह्रित्य वृइत्तं क्रीडा-युधं विदधतः ॥२९॥
विज्ञाप्य तातं दोहाय गतोऽसौ गाश् च ता मुदा ।
मिलिताः स्वाभितः कृष्णः सान्त्वयामास सान्त्वनैः ॥३०॥
असौ कृइष्णः तातं विज्ञाप्य उक्त्वा दोहाय दुघ-दोहनार्थं गतः कृइष्णोऽभितश् चतुर्दिक्षु मुदा हर्षेण मिलितास् ता गाश् च हस्त-मार्जनादिभिः सान्त्वनैः सन्त्वयामास ॥३०॥
श्री-हस्त-मार्जनैः कण्डूयनैर् गाः प्रीणयन् हरिः ।
दुदोह दोहयामास वत्सांस् तैस् तैश् च पाययन् ॥३१॥
वत्सा निपीयोदर-पूरम् उच्चकैस्
तृप्तिं गता गोप-गणा यथेप्सितम् ।
दुग्ध्वा निवृत्ताश् च गवां तथाप्य् अहो
नोधः-पयः-पूर्तिर् अवाप हीनताम् ॥३२॥
वत्सा उदर पूरं निपीय उच्चैरतिशयेन तृइप्तिं गताः गोप-गणाश् च यथेप्सितं दुग्ध्वा निवृइत्ता वभूवुः । तथापि गवामूधः पयः पूर्तिहीनतां नावाप न प्राप । अहो आश्चर्यं ॥३२॥
कृष्णाननाब्जार्पित-नेत्र-चेतसां
गवां स्वयं संस्रवद्-औधसं पयः ।
गोपाः स्तनाधो-धृत-कुम्भ-सञ्चयैः
सम्भृत्य निन्युः पुरतो व्रजेशितुः ॥३३॥
ततः किं वृइत्तं । कृइष्णमुख-पद्मेऽर्पितानि नेत्राणि चेतांसिच याभिस् तासां गवां स्वयं संश्रवदौधसम्पयः गोपास्तनाधोधृइत-कुम्ब-समूहैः सम्भृइत्य गृइहीत्वा व्रजेशितुः पुरतो निन्युः ॥३३॥
प्रवेश्य गोपैर् निज-मातृ-लालितान्
वत्सालयं वत्स-गणान् बलान्वितः ।
गास् ता यथा-स्थानम् असौ निवेश्य च
व्रजाधिपस्यागमद् अन्तिकं हरिः ॥३४॥
वलान्वितो हरिः गोपैर् निज-मातृइ-लालितान् वत्सगणान् वत्सालयं प्रवेश्य । ता गा यथास्थानं निवेश्य व्रजाधिपस्यान्तिकम् अगमत् ॥३४॥
प्रस्थाप्य दुग्धानि गृहं स भाविकैर्
गवालय-द्वार्षु नियुज्य किङ्करान् ।
समं सुताभ्यां सुहृदां च सञ्चयै
राजा व्रजस्याव्रजद् आत्म-मन्दिरम् ॥३५॥
स व्रजस्य राजा नन्दो भारिकैर् दुग्धानि गृइहं प्रस्थाप्य गवालयर्द्वाषु किङ्करान् गोरक्षार्थं नुयुज्य सुताभ्यां सुहृइदां सञ्चयैश् च समं आत्ममन्दिरम् अव्रजत् ॥३५॥
शालग्राम-शिलायां ते पूजा-कृद्-बटुना कृतम् ।
सान्ध्यम् आरात्रिकं विष्णोर् ददृशुः क्षालिताङ्घ्रयः ॥३६॥
क्षालिताङ्घ्रयस्ते नन्दादयः शालग्राम-शिलायां पूजक-ब्राण-वालकेनकृइतं विष्णोः सान्ध्यं सन्ध्याकाले कर्तव्यमारात्रिकं ददृइशुः ॥३६॥
**सदस्येषूपविष्टेषु प्रहितानि व्रजेशया ।
नाना-विधानि सार्पिष्काण्य् ऐक्षवाणि फलानि च ॥३७॥
स्रग्-गन्ध-वीटिकादीनि नैवेद्यानि रमापतेः ।
यानि तानि व्रजाधीशः सर्वेभ्यो व्यभजन् मुदा ॥३८॥ **
(युग्मकम्)
सदस्येषु सभ्येषु उपविष्टेषु सत्सु व्रज्केशया प्रहितानि यानि नाना-विधानि सार्पिष्कानि घृइत-पक्वानि । ऐक्षवाणि इक्षुविकार-शर्करादि-तत्-कृइतानि फलानि च । स्रग्-गन्धवीटिकादीनि रमापतेर् विष्णोर् नैवेद्यानि तानि व्रजेशस् तेभ्यः सदस्येभ्यो व्यभजत् विभागं कृइत्वा ददौ ॥३७-३८॥
इष्टगोष्ठीं क्षणं कृत्वा कृष्णेक्षां त्यक्तुम् अक्षमाः ।
कृष्णे न्यस्तेन्द्रिय-प्राणाः सुहृल्-लोका गृहं गताः ॥३९॥
सुह्रिल्लोका क्षणं व्याप्य इष्ट-गोष्ठीं कथोपकथनं कृइत्वा स्व-स्व-गृइहं गताः ॥३९॥
सुभद्रादीन् भ्रातृ-पुत्रान् राजा कृष्णेन सग्धये ।
सदा निमन्त्रयत्य् एष सहजांस् तु क्वचित् क्वचित् ॥४०॥
एष राजा नन्दः सुभद्रादीन् भ्रातृइ-पुत्रान् कृइष्णेन सग्धये सग्धिः सह-भोजनं तदर्थं सदा निमन्त्रयति । सहजान् सहोदरानुपनन्दादीन् क्वचित् क्वापि दिवसे निमन्त्रयति ॥४०॥
तद्-दिने तांस् तु सर्वान् स निमन्त्र्य स्व-गृहेश्वरीम् ।
तेषां भोजन-सिद्ध्य्-अर्थं बटु-द्वारा समादिशत् ॥४१॥
तद्-दिने तानुपनन्दादीन् स निमन्त्र्य तेषां भोजन-सामग्री-सिध्यर्थं वटुद्वारा स्व-गृइहेश्वरीं समादिशत् ॥४१॥
ततो व्रजेश्वरी तुङ्गीं पीवरीं कुवलां तथा ।
स्व-यातॄर् आहवयत् तत्-तत्-स्नुषा-पुत्र्य्-आदि-संयुताः ॥४२॥
ततस् तच्छ्रवणानन्तरं व्रजेश्वरी तुङ्गीं तन्नाम्नीं पीवरीं कुवलाञ्च स्वस्य यातॄइः स्व-स्वामिनः भ्रातृइ-पत्नीः । तत्-तत् तस्यास्या स्नूषाः कुन्द-वल्यादयः पुत्र-वध्वः पुत्राः कन्यास् तदादि-संयुता आह्वयत् ॥४२॥
आहूता बटुना राज्ञ्या तत्र प्रक्षालिताङ्घ्रयः ।
भोजनायोपविविशुर् मध्ये कृत्वा व्रजेश्वरम् ॥४३॥
राज्ञ्या यशोदया वटुनाहूतः अत्र प्रक्षालितपादाः ते भ्रातरः व्रजेशं मधे कृइत्ना भोजनायोपविविशुः ॥४३॥
दक्षिणेऽस्याग्रजौ वामेऽनुजौ पुत्रौ पुरःसृतौ ।
सुभद्राद्या हरेर् वामे बटवो बल-दक्षिणे ॥४४॥
उपवेशन-परिपाटिमाह । अस्य नन्दस्य दक्षिणे अग्रजौ ज्येष्ठ-भ्रातरौ । वाम-शेऽनुजौ कनिष्ठ-भ्रातरौ । पुरःस्थितौ पुत्रौ राम-कृइष्णौ हरेर् वामे सुभद्राद्याः कृइष्ण-पितृइव्य-पुत्राः । वलदेवस्य दक्षिणे वटवो-ब्राह्मण-वालकाः ॥४४॥
तुङ्गी सुभद्र-जननी जन-नीति-विज्ञा
विज्ञापिता व्रज-पया परिवेशनाय ।
भोज्यं क्रमात् परिविवेश स-रोहिणीका
विप्रात्मज-स्व-धव-देवर-पुत्रकेभ्यः ॥४५॥
जनानां नीतौ विज्ञा । तुङ्गी नन्दस्य सर्वज्येष्ठ-भ्रातुः पत्नी रोहिणी-सहिता यशोदया परिवेशनाय विज्ञापिता क्रमात् भोज्यं वटु-स्व-स्वामिदेवर्-पुत्रादिभ्यः परिविवेश ॥४५॥
सत्-सौरभैः कनक-वर्ण-घृताभिषिक्तैः
स्तूपीकृतैर् विविध-तेमन-पात्र-युक्तैः ।
स्थालीर् भूताः सुमृदुलैर् विशदोदनैः सा
सन्दानिकोपरि पुरो निदधे स्म तेषाम् ॥४६॥
सा तुङ्गी तेषां वटु-धवादीनां पुरोऽग्रे सन्दानिकोपरि स्थाल्याधारपात्रोपरि विशदोदनैः सच्छुक्ल-तण्ड्लान्नैर्भृइताः पूर्णाः स्थालीर् निदधेस्म । कीदृइशैरोदनैस्तूपीकृइतैः सज्जीकृइतैः सत्सौरभैरित्यादि विविध तेमनस्य व्यञ्जनस्य पात्रैर् युक्तैः ॥४६॥
जेमत्सु तेषु परिवेशयति क्रमात् सा
शेषाणि भूरि-विध-षड्-रस-तेमनानि ।
संयाव-पायस-लसद्-बटकान् अपूपान्
सद्-भाजनान्तर-धृता मृदु-रोटिकाश् च ॥४७॥
तेषु श्री-नन्दादिषु जेमत्सू भुञ्जानेषु । शेषाणि प्रथम-दत्त वस्तुभिन्नानि । भूरिविधानि नाना-प्रकाराणि ष्ड्रसयुक्तानि तेमनानि व्यञ्जनानि संयावादीन् संयावो दुग्ध-पक्व गोधूम-चूर्णः । पायसं परमान्नं । वडा इत्याख्यान् । सद्वटकान् । अपूपान् पीष्टकान् सम्भाजनान्त्र-धृइतास् तथा मृइदुरोटिकाश् च सातु सरोहिणी तुङ्गी सा यशोदा रोहिणी तुङ्गी द्वारा वा परिवेशयति ॥४७॥
यस्य यस्य प्रियं यद् यत् तज् ज्ञात्वाथ रोहिणी ।
इङ्गितेन व्रजेश्वर्यास् तस्मै तत् तद् असौ मुहुः ॥४८॥
यस्य जनस्य यद्-यद्-वस्तु प्रियं व्रजेश्वर्या इङ्गितेन रोहिणी ञ्जात्वा तत्-तस्मै मुहुर् ददौ ॥४८॥
दुग्धं घनं शिखरिणीं मथितं रसालां
सत्-षाडवं दधि घनं बहु-सन्धितानि ।
पक्वाम्र-सद्-रसम् अपि व्रज-राज-राज्ञी
तेभ्यः क्रमेण परिवेशयति स्म शश्वत् ॥४९॥
दुघं घनं घनीभूतं । शिखरीणीं दधि-शर्करा-सुगन्ध-द्रव्यादिमिलनादिना भवति । मथितं किञ्चित् पक्व-दुग्ध-मथनात् फेनं श्रि-गोविन्ददेवालये भवेत् । रसालामिति स्वयमेवादौ कथितं । सत् षाडवमपि पुरा लिखितं । सन्धितं आचाराख्यं पक्वाम्रस्य सद्रसं ॥४९॥
सर्वं भोजयितुं समुत्सुक-मनो-वाग्-दृक्-प्रकाशी-कृतैर्
गूढैर् मातृ-ततेः स्फुटैः पितृ-ततेः स्नेह-द्रवच्-चेतसः ।
बाष्प-क्लिन्न-तनोस् तद्-आग्रह-शतैः कृष्णादयः प्रेरिताः
सन्तृप्ता अपि ते मुहुर् बुभुजिरे नान्तं मुदां चाययुः ॥५०॥
स्नेहेन द्रवच्चेतसः । वाष्पेण नेत्र-जलेन क्लिन्नतनोर् मातृइततेर् गूडैराग्रहशतैः । स्वामिनामग्रे स्फुट-कथनासामर्त्यात् । तथा-भूतपितृइततेः स्फुटैराग्रहशतैः । कीदृइशैः आग्रहशतैः । यद्-यद्-यद्त्-तं तत्-सर्वं भोजयितूं समुत्सुकाभिर् मनोवागदृइग्भिः प्रकाशीकृइतैः कृइष्णादयः प्रेरिताः सन्तृइप्ता अपि ते कृइष्णादयो मुहुर् वुभुजिरे । मुदां चान्तं नाययुः । अनन्तमुदं हर्षञ्च ते प्रापुः ॥५०॥
द्वयं व्यस्तम् अभूत् प्रातराशात् सायन्तनाशने ।
गाम्भीर्यं नर्मणि बटोर् गूढता मातुर् आग्रहे ॥५१॥
प्रातर् भोजनात् द्वयं व्यस्तमभूत् तयोरेकं वटोर् मधुमङ्गलस्य नर्मणि परि-हसते गाम्भीर्यं । अन्यत् मातुराग्रहे गूढता । श्रीनन्दादीनामग्रे द्वयोरेवानौचित्यात् ॥५१॥
अस्वाच्छन्द्यं यद् अपि लपितान्योन्य-हास-क्रियादौ
कृष्णादीनाम् अभवद् अशने लालने चापि मातुः ।
प्रातर् भुक्तेस् तद् अपि शतधा सग्धितस् तात-मुख्यैस्
तेषां सौख्यं तद्-अवकलनात् कोटिधासीच् च तस्याः ॥५२॥
यदपि कृइष्णादीनां लपिते भाषितेऽन्योन्य-हासक्रियादौ च अस्वाच्छन्द्यं तथा मातुर् लालने चास्वाच्छन्द्यमशने भोजन-समये ऽभवत् । तदपि प्रातर्भूक्तेः प्रातर् भोजनात् तातमुख्यैः श्री-नन्दादिभिः सग्धितः सह-भोजनात् तेषां कृइष्णादीनां शतधा सौख्यं तस्या मातुश् च तदवकलनात्-तदवलोकनात् सह-भोजन-दर्शनात् कोटिधा सौख्यमासीत् ॥५२॥
वक्त्रेन्दोः स्मित-सम्पदा व्रज-विधोस् तद्-वाक्-सुधा-बिन्दुभिस्
तत्-सौरभ्य-विमिश्र-धूप-विसरैस् तत्-ताल-वृन्तानिलैः ।
तच्-छ्री-सन्ध्यामृताभिषिक्त-मधुरैर् भोज्यैश् च संलेभिरे
ते पञ्चेन्द्रिय-तृप्तिजाम् अतितमां सम्भोजनीयां मुदम् ॥५३॥
व्रजविधोः कृइष्ण-चन्द्रस्य स्मित-सम्पदा । वाक्यामृइत-विन्दुभिः । सौरभ्य-मिश्र-धूपैः । तालपत्र-वृइन्त-कृइतपवनैः । सह-भोजनामृइताभिषिक्त-मधुरैः । भोज्यैः ओदनादिभिः । ते पित्रादयः पञ्चेन्दिय्-तृइप्तिजां मुदं लोभिरे ॥५३॥
भुक्त्वा पीत्वाचम्य पल्याङ्किकालौ
विश्रान्तास् ते सेविता दास-सङ्घैः ।
सत्-ताम्बूलैर् वीजनाद्यैः पिता स्वैर्
वर्गैर् वेद्यां सूनुर् अट्टालिकायाम् ॥५४॥
ते उपनन्दादयो भुक्त्वा पीत्वा आचम्य पल्यङ्किकाश्रेणौ विश्रान्ताः । दास-सङ्घैः । सत्ताम्बूलैर् वीजनाद्यैश् च सेविताः वभूवुः । पिता श्री-नन्दः स्वैर्वर्गैः । सह वेद्यां सूनुः श्री-कृइष्णः अट्टालिकायां पल्यङ्के विरान्तो दासैः सत्-तामूल-वीजनैः सेवितोऽभूत् । यद्-वा ते उपनन्दादयः पर्यङ्क-श्रेण्यां सेवनादिभिरादे विश्रान्ताः पश्चात् वेद्यां पिता अट्तालिकायां सूनुर्गतं ॥५४॥
अट्टालोदय-शैलतः प्रसृमरां कृष्णाननेन्दु-द्युतिर्
ज्योत्स्नां सालि-चयेश्वरी स्व-वडभी-जालाध्व-दत्तानना ।
पायं पायम् अपाय-शून्यम् अपुषच् छ्री-दृक्-चकोर्यौ निजे
सर्वत्रैव हि सर्वदा फलवती सद्-भाग्य-भाजां स्पृहा ॥५५॥
अट्टालिका-रूपोदय-पर्वतात् प्रसृइमरां निर्गतां कृइष्ण-मुख-च्न्द्र-ज्योत्स्नां आलिचयैः सह ईश्वरी राधा वडभ्याश् चन्द्रशालाया जालाध्वनि गवाक्ष-द्वारे दत्ते नयने यया सा अपाय-शून्यं विघ्नरहितं यथा स्यात्-तथा सख्यादीनामग्रे कृइष्ण-सन्निदौ च यथेष्ट-दर्शने लज्जा-विघ्नकरी पायं पायं पीत्वा पीत्वा निजदृइक्चकार्यौ अपुयत् । अत्र प्राचीन-सद्वाक्यं प्रमाणयति । सद्भाग्यभाजां स्पृइहा सर्वत्र सर्वदा फलवती स्यात् ॥५५॥
तस्या मुखाब्ज-सुषमा-मकरन्द-धाराम्
आराद् गवाक्ष-मुखतो मिलितां पिबन् सः ।
कृष्णः पुपोष तृषितौ निज-नेत्र-भृङ्गाव्
उत्कण्ठितैव महतां हि फलाप्ति-हेतुः ॥५६॥
स कृइष्णस् तस्या राधाया मुखाव्जस्य सुषमा शोभा सैव मकरन्द-धारा तां आरात् दूरतोगवाक्ष-मुखान्मिलितां पिवन् तृइषितौ निज-नेत्र-भृइङ्गौ पुपोष । महतां जनानां फलाप्तौ हेतुरुत्कण्ठिता उत्कण्ठैव ॥५६॥
अथ व्रजेशा तुलसीं सहालिकां
कृताग्रहा भोजयितुं धनिष्ठया ।
अभाणि सेयं प्रथमं न राधिकां
विनात्ति भोज्यं न जलं पिबत्य् अपि ॥५७॥
श्री-कृइष्ण-भोज्यमादायागतां सहालिकां तुलसीं भोजयितुं क्रीताग्रहा व्रजेशा धनिष्ठया अभाणि । धनिष्ठा व्रजेशां किमाह । सेयं तुलसी राधां विनादौ भोज्यं नात्ति जलमपि न पिवति ॥५७॥
सा श्रुत्वा स्नेह-रीतिं तां प्रीताहान्नं स-तेमनम् ।
स-सखी-वृन्द-राधार्थम् आभ्यां प्रस्थापय द्रुतम् ॥५८॥
सा व्रजेशा तां स्नेहरीतिं श्रुत्वा प्रीताह सतेमनं व्यञ्जन-सहितमन्नं सखी-वृइन्द-सहितराधार्थमाभ्यां स-सखी-कस्तूरी-तुलसीभ्यां प्रस्थापय ॥५८॥
ततो धनिष्ठा हरि-भुक्त-शेषं
सतेमनान्नं निभृतं निधाय ।
ददौ तुलस्यै तत-सम्पुटेऽन्यद्
बलाम्बया दत्तम् अपि स्फुटं सा ॥५९॥
सा धनिष्ठा हरि-भुक्तशेषं वलाम्बया रोहिण्या दत्तमन्नञ्च ततसम्पुटे विस्तृइत-सम्पुटे निधाय ददौ ॥५९॥
व्रजेशा भोजयित्वादौ दासीर् दासान् स-गोपकान् ।
स-स्नुषाभिः स-पुत्रीभिर् यातृभिः सग्धिम् आचरत् ॥६०॥
व्रजेशा दासी-दासगोपानादौ भजयित्वा पुत्रवधू-कन्याभिः सह यातृइभिरुपनन्दादि-पत्नीभीः सग्धिं सहभोजनमाचरत् ॥६०॥
अन्नम् आदाय यातायां तुलस्यां सुबलाय सा ।
धनिष्ठाख्यत् केलि-कुञ्जं ददौ च वीटिका रहः ॥६१॥
धनिष्ठा सुवलाय केलिकुञ्जं रहः एकान्ते आख्यत् वीटिकाश् च ददौ ॥६१॥
अथागतासौ तुलसी तद्-अन्नं
सख्यै समस्तं समदर्शयत् सा ।
तद्-गन्ध-वर्णानुभवेन चादौ
नासा-दृशोस् तृप्तिर् अभूद् अमूषाम् ॥६२॥
स असौ तुलसी ॥६२॥
तद् रूप-मञ्जरी नीत्वा तुलस्या भोजनालयम् ।
स-सखी-वृन्द-राधायै पृथक् पात्रेष्व् अकल्पयत् ॥६३॥
रूप-मञ्जरी तदन्नं तुलस्याः सकाशात् तुलस्या सहेते वा भोजन-गृइहं नीत्वा ॥६३॥
अथाहूयाह जटिला विशाखां मत्-सुतो गतः ।
गोशालां शयितुं भुक्त्वा भोक्तुम् आह्वय मे स्नुषाम् ॥६४॥
मे सुतः शयितुं गोशालां गतः । स्नुषां राधां ॥६४॥
साह सास्ते गृहे सुप्ता श्रान्तारण्य-परिक्रमात् ।
तत्रैवात्स्यति देह्य् अन्नं सा ददेऽन्नं स-तेमनम् ॥६५॥
सा विशाखाह । सा राधा वन-परिक्रमात् श्रान्ता सुप्ता सती गृइहे आस्ते । सतेमनं व्यञ्जन-सहितमन्नं । सा जटिला ॥६५
सापि हृष्टा तद् आनीय चाधाय भोजनालये ।
श्री-राधाम् एत्य तस्यै तद्-वार्ताम् आवेदयन् मुदा ॥६६॥
सा चिशाखा तदन्नं भोजनालये नीत्वा । तस्यै राधायै ॥६६॥
ततः समेत्योपविवेश भोक्तुं
भृङ्गार-पीठालि-विराजि-वेद्याम् ।
सहालि-पालिः प्रिय-भुक्त-शेषं
राधा मरालीव सुधां समुत्का ॥६७॥
समुत्का राधा सुधां मरालीव । प्रिय-भुक्त-शेषं । भोक्तुं भृइङ्गारादि-युतायां वेद्यामुपविवेश ॥६७॥
असव्ये ललिता सव्ये विशाखास्या उपाविशत् ।
पुरतः पार्श्वतश् चान्या यथा-स्थानं सखी-ततिः ॥६८॥
असव्ये दक्षिणे । सव्ये वामे । यथायोग्यं स्थानं ॥६८॥
ताभ्यः परिविवेशान्नं तुलस्या रूप-मञ्जरी ।
स्नेहेन मोहिनी यद्वद् देवताभ्योऽमृतं क्रमात् ॥६९॥
मोहिनी यथा देवताभ्यो ऽमृइतं परिविवेश । अत्र अमृइतदानाण्शे दृइष्टान्तस्तु असुर-वञ्चनमिवात्र श्वश्व्रादिवञ्चनं वोध्यं ॥६९॥
प्रणयि-जन-विसृष्टं श्री-हरेर् भुक्त-शिष्टं
तद्-अधर-मधु-मिष्टं तत्-करेणाभिमृष्टम् ।
निज-निखिल-गणेष्टं राधया नेत्र-दृष्टं
मितम् अपि च तदासीद् अक्षयं बण्टनेऽन्नम् ॥७०॥
मितं अल्पमप्यन्नं वन्टनेऽक्षयमासीत् । अत्र कारणमाह प्रणयिजनेन विसृइष्टं दत्तं । कृइष्ण-भुक्तशेषं । तत्-तस्य कृइष्णस्याधरधुमिष्टमित्यादि तत्करेण कृइष्ण-करेण स्पृइष्टं ॥७०॥
रमण-कवल-शिष्टं सन्-मृणालं मराल्यः
किशलय-कुलम् एण्यः श्री-मरन्दं भ्रमर्यः ।
अमृतम् इव चकोर्यश् चैन्दवं राधिकाद्या
मुमुदुर् अधिकम् अन्नं प्रास्य कृष्णावशिष्टम् ॥७१॥
राधिकाद्य मराल्यादिभ्योऽपि कृइष्णावशिष्टन्नं प्राश्य अधिकं झृइषुः । मराल्यो हंस्यः रमणस्य भोक्तावशिष्टं सन्मृइणालं प्राश्य । चकोर्य ऐन्दवममृइतं प्राश्य यथा ह्रिष्यन्ति ॥७१॥
आचम्यास्वादयन्त्यस् ताः कृष्ण-ताम्बूल-चर्वितम् ।
दासीभिः सेवितास् तृप्ता पल्यङ्कालौ विशश्रमुः ॥७२॥
कृइष्ण-ताम्बूल-चर्वितामास्वादयन्त्यस् ता दासीभिः सेविता पल्यङ्केषु विशश्रमुः विश्रामं चक्रुः ॥७२॥
तुलसी-रूप-मञ्जर्यौ तत्-तच्-शेषान्न-तेमनम् ।
वृन्दायै मालती-द्वारा प्रेसयामासतुर् मुदा ॥७३॥
तत्-तयो राधा-कृइष्णयोः तासां वा शेषान्नेन सह शेष-व्यञ्जनं वृइन्दायै ॥७३॥
ततस् ते भोजयित्वान्या वयस्या दासिका अपि ।
स-गणैः सह संहृष्टैः स्वेशा-शेषान्नम् आदतुः ॥७४॥
ते तुलसी-रूप-मञ्जार्यौ । अन्या वयस्या दासिका अपि भोजयित्वा स्वेशा राधिका तस्याः शेषान्नं ॥७४॥
तत्रेष्ट-व्यञ्जनादीनाम् अन्योन्य-परिवेशने ।
भोजनादौ तयोर् आसीद् व्यतिदान-कलिः क्षणम् ॥७५॥
भुक्त्वाचम्य तद्-आयाते राधायाश् चरणान्तिकम् ।
ताम्बूल-चर्वितं तस्या अश्नन्त्यौ ताम् असेवताम् ॥७६॥
ते तुलसी-रूप-मञ्जार्यौ । अन्या वयस्या दासिका अपि भोजयित्वा स्वेशा राधिका तस्याः शेषान्नं ॥७४॥
हृद्-अमृत-रुचि-रत्न-द्राविणी हर्ष-सिन्धुं
नयन-कुवलयालिं चालम् उफुल्लयन्ती ।
व्रज-वसति-जनानां साधु सायन्तनीया
जयति विशद-लीला-कौमुदी गोकुलेन्दोः ॥७७॥
गोकुलेन्दोः साधुसायन्तनी सयङ्काल-कृइता वा विशदलीला सैव कौमुदी ज्योत्स्ना सा जयति । ज्योत्स्ना-धर्ममाह । व्रज-वसतिजनानां हृइन्मनस् तदेवामृइत-रुचितत्नं चन्द्रकान्तमणिस् तस्य द्राविणी ह्यर्ष-सिन्धुं नयन-कुवलय-श्रेणीञ्चालम् अतिशयेनोत्फुल्लयन्ती ॥७७॥
श्री-गोविन्द-लीलामृइतकाव्यस्य सायङ्केलिमय-विंशति-सर्ग टीका सम्पूर्णासीत् ॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सायं केलि-मयोऽत्र विंशतितमः सर्गोऽगमत् पूर्णताम् ॥
॥२०॥
…
(२१)