१९

एकोनविंशः सर्गः

**श्री-राधां प्राप्त-गेहां निज-रमण-कृते कॢप्त-नानोपहारां
सुस्नातां रम्य-वेशां प्रिय-मुख-कमलालोक-पूर्ण-प्रमोदाम् ।
कृष्णं चैवापराह्णे व्रजम् अनु चलितं धेनु-वृन्दैर् वयस्यैः
श्री-राधालोक-तृप्तं पितृ-मुख-मिलितं मातृ-मृष्टं स्मरामि ॥१॥ **

अपराह्नए अह्नः शेषे । श्री-राधां श्री-कृइष्णञ्च स्मरामि । दीदृइशीं । राधां प्राप्त-गेहां निज-रमणार्थं कॢअप्तः कृइतो नानोपहारो यशोदाज्ञप्त-कर्पूरकेल्य-मृइत-केल्यादिको यया तां । वनात् गोष्ठागमन-समये प्रियस्य मुख-पद्मा-लोकनेन पूर्णः प्रमोदो हर्षो यस्यास् तां प्रमोदेन पूणां पूर्ण-प्रमोदाम्बा । कीदृइशं कृइष्णं । धेनु-वृइन्दैर् वयस्यैश् च सह व्रजमनु व्रजे चलितं व्रज-गमन-मार्गे श्री-राधायाः दर्शनेन तृइप्तं । पित्रादिहिर् मिलितं । मातृइभिर् मिष्टं स्नानादिना मार्जितं ॥१॥

हरिर् अथ दल-शृङ्गी वेणु-वीणा-प्रवीणैः
सखिभिर् अखिल-लीला-लालसैस् तस्य सङ्गात् ।
सपदि समुदितैः स्वैः स्वैः स्वभावैर् मनोज्ञैर्
अलभत मुदम् उच्चैः सेव्यमानोऽम्बु-जास्यः ॥२॥

अम्बुजास्यो हरिः । सखिबिस् तस्य कृइष्णस्य सङ्गात् समुदितैः प्रकाशितैः मनोज्ञैः स्वैः स्वैः स्वभावैः करणैः सेव्यमान उच्चैर् मुदमलभत । कीदृइशैः सखिभिः दल-शृइङ्गी-वेणु-वीणासु प्रवीणैः । यद्वा दलञ्च शृइङञ्च दल-शृइङ्गे ते अस्य स्त-इति स कृइष्णः वेणु-वीणा-प्रवीणैः सक्ःइभिः ॥ अखिलास्वनन्तासु लालसाभिलाषो येषां तैः ॥२॥

**आलापैर् अनुलापैश् च प्रलापैर् विप्रलापकैः ।
संलापैः सुप्रलापैश् च विलापैर् अपलापकैः ॥३॥
केचिद् ग्रस्तैर् अविस्पष्टैर् निरस्तैर् भाषितैः परे ।
अवज्ञैर् वितथैर् अन्ये सङ्गतैः सुनृतैः परे ॥४॥
सोपालम्भैश् च सोत्प्रासैः स्तुति-गर्भैश् च निन्दनैः ।
नर्माञ्चि-गूढ-काव्यैश् च समस्या-दान-पूरणैः ॥५॥
अन्योऽन्ये चित्र-काव्यैश् च समस्या-दान-पूरणैः ।
हसन्तो हासयामासुर् वयस्या बल-केशवौ ॥६॥ **

(चतुर्भिः कुलकम्)

कोचित् आभाषणम् आलापस्तैः । अनुलापो-मुहुर्भाषा प्रलापोऽनर्थकं वचः । विप्रलापो-विरोधोक्तिः संलापो-भाषणं मिथं । सुप्रलापः सुवचननं विलापः परिवेदनं । अनुशोचनोक्तिः । अपलापस्तु निह्स्नवस्तैः । परे ग्रस्तैः लुप्त-वर्ण-पदं ग्रस्तं तैः । अविस्पष्टैः गुप्तैः निरस्तैः पराभवैः निरस्तं त्वारितोदितं भाषितैः कथानैः । अन्ये अवज्ञैर् अनर्थकैः । अवज्ञं स्यादनर्थं । वितथैः । वितथं त्वनृइतं वचः परे सङ्गतैः । सङ्गतं हृइदयङ्गमं । सुनृइतैः प्रियवाक्यैः । अन्ये अयोग्य-कार्य-कर्तारं प्रतिभाष्णम् उपालम्भस् तेन सहितैः सोपालम्भैः । सोत्प्रासैः । मनाक्-स्मित-सहितैः स्तुतिर् गर्भैर् यत्र तादृइशैर् निन्दनैः । नर्म-युक्तं गूढं गुप्तं काव्यं यत्र तैः । प्रहेलीदान-भाषणैः समस्यादान-पूरणैः चित्र-काव्यैः । एतैः करणैर् वयस्याः सखायो हसन्तः सन्त्य्ः वलकेशवौ हासयामासुः ॥३-६॥

संव्याने बद्ध-नैवेद्यं निह्नुवानं सखि-व्रजात् ।
चौराद् इव धनं रामो बभाषे मधुमङ्गलम् ॥७॥

चौराधनमिव सखि-व्रजात् सखि-समूहात् संव्याने उत्तरीय-वस्त्रे वध-नैवेद्यं निह्नुवानां गोपयन्तं मधुमङ्गलं रामो वभाषे ॥७॥

संव्याने किम् इदं बटो दिन-पतेर् नैवेद्यम् आप्तं कुतो
याज्येभ्यः क इमेऽखिला व्रज-जना वारोऽद्य यद् भास्वतः ।
मुक्त्वा दर्शय किं न्व् इदं न हि भवान् लुब्धः सखायश् च ते
तेभ्यो देहि विभज्य भुङ्क्ष्व च न मे दित्सा बुभुक्षास्त्य् अलम् ॥८॥

हे वटो ! संव्याने इदं किं । वटुर् आह दिनपतेर् नैवेद्यं । राम आह कुतः प्राप्तं । वटुर् याजेभ्यः । रामः इमे के । वटुः अखिला व्रजजनाः । यत् अद्य भास्वतः सूर्यस्य वारः । रामः-नु भो वटो ! किमिदं मुक्त्वा दर्शय । वटुः नहि । यतो भवान् लुव्धस् ते सखायः लुव्धाः । रामः तेभ्यः सखिन्भ्यः बिभज्य देहि स्वयं च भुङ्क्ष्व । मे दित्सा नास्ति वभुक्षा च अलम् अतिशयेन नास्ति ॥८॥

एते जिघृक्षन्ति बलात् तवैतत्
तृणाय मन्ये न भवद्-वयस्यान् ।
एते तु के त्वाम् अपि भूसुरोऽहं
वर्णी तृणं नो मनुवे स्व-शक्त्या ॥९॥

रामः । एते वलाद् एतन् नैवेद्यं ग्रहतुम् इच्छन्ति । वटुः-भवद्वयस्यानहं त्रिणाय न मन्ये । अहं भूसुरो ब्राह्मणस् तत्र वर्णी ब्रह्मचारी । अतस्त्वमपि स्वशक्त्या त्रूणं न मनुवे ॥९॥

अथ रामेङ्गित-ज्ञास् ते गोपाः स-विनयं पुरः ।
अयाचन्त बटुं भक्ष्यं तन् निह्नुत्य स मौन्य् अभूत् ॥१०॥

रामस्येङ्गितज्ञास्ते गोपाः सविनयं यथास्यात्-तथापुरोऽग्रे वटुं प्रति भक्ष्यं नैवेद्यम् अयाचन्त । स वटुः तन्नैवेद्यं निह्नुत्य मौन्यभूत् ॥१०॥

पृष्ठतोऽभ्येत्य तस्यान्यः कराभ्यां पिदधेऽक्षिणी ।
संव्यानम् अपरे तूर्णं स-नैवेद्यम् अपाहरन् ॥११॥

अन्यो गोपस् तस्य वटोः पृइष्ठतं अभ्येत्य कराभ्याम् अक्षिणी पिदधे । अपरे गोपाः सनैवेद्यं संव्यानम् उत्तरीयम् अपाहरन् ॥११॥

विलुण्ठ्यादुश् च तत् सर्वे मुद्रिकाः सुबलोऽग्रहीत् ।
अभ्येत्य पृष्ठतोऽस्यैकः पश्चात् कच्छम् अमोचयत् ॥१२॥

सर्वे गोपास् तन्नैवेद्यं विलुण्ठ्य अदुश्च लुण्ठनं कृइत्वा वभुजुः अस्य वटोः । एकः सखा पृइष्ठे गत्वा पश्चात् कच्छं मोचयामास ॥१२॥

**अग्रतोऽभ्येत्य तस्यान्यः पुरो वस्त्रं समक्षिपत् ।
तम् अभिद्रवतस् तस्य पार्श्वतोऽभ्येत्य चापरे ॥१३॥
उष्णीषं शिथिलं चक्रुः केश-बन्धम् अमोचयन् ।
वेणुं केचित् परे यष्टिं गृहीत्वास्य प्रदुद्रुवुः ॥१४॥ **

(युग्मकम्)

यः पुरो वस्त्रं समक्षिपत् तं अभिलक्षीकृइत्य गच्च्यतस् तस्य वटोरपरे पार्श्वतोऽभ्येत्य उष्णीषं शिथिलं चक्रुः । केचित् केश-वन्धममोचयन् । परे वेणुं यष्टिं च गृइहीत्वा पलायनपरा वभूवुः ॥१३-१४॥

रुदन्न् उच्चैर् हसन् गर्जन् तर्जंस् तान् गर्हयन् शपन् ।
कृष्णस्य यष्टिम् आदाय सर्वान् अभ्यद्रवद् बटुः ॥१५॥

वटुः रुदन् उच्चैर् हसन् ॥१५॥

कैश्चिद् युद्धम् अभूत् तस्य लगुडालगुडि क्षणम् ।
ततः कृष्णस् तम् आलिङ्ग्य सखीन् सर्वान् न्यवारयत् ॥१६॥

कैश्चित् सह तस्य वटोः लगुडेन लगुडं निहत्य वृइत्तं लगुडालगुडि युद्धं क्षणम् अभूत् । कृइष्णस् तं वटुमालिङ्ग्य सखीन् न्यवारयत् ॥१६॥

स-वेणु-यष्टि-संव्यानं कृष्णस् तस्मा अदापयत् ।
निर्मुद्रिकं स वीक्ष्यैतद् गोपान् आह शपन् रुषा ॥१७॥

सः कृइष्णः अस्मै वटवे वेण्वादिकमदापत्यत् । एतत् संव्यानं निर्मुद्रिकं वीक्ष्य स वतुर्गोपान् रुषा शपन्नाह ॥१७॥

ब्रह्म-स्वं वो बलाद् भुक्तं हृता मे स्वर्ण-मुद्रिका ।
सर्वदापावना यूयं न मां स्पृशत चञ्चलाः ॥१८॥

ब्रह्मम्व-हरणात् यूयम् अपावना अपवित्राः मां न स्पृइशत ॥१८॥

एष यामि व्रजं युष्मत्-कर्माख्यातुम् इति द्रुतम् ।
गच्छन् फुत्कृत्य फुत्कृत्य स रामेण निवर्तितः ॥१९॥

युष्माकं कर्म कथितुं, एषोऽहं व्रजं यामि । इति फुत्कृइत्य द्रुतं गच्छन् स वटुः रामेण निवर्तितः ॥१९॥

तम् असौ प्राह पापेऽस्मिन् भवान् कर्ता प्रयोजकः ।
संलपामि त्वया नाहं प्रायश्चित्तम् अकुर्वता ॥२०॥

असौ वटुस् तं राममाह, किमाह, अस्मिन् ब्रह्मस्वभोजनादिजे पापे भवान् प्रयोजकः कर्ता । प्रायश्चित्तमकुर्वता त्वया सह अहं न संलपामि । संलापो भाष्णं मिथ्ः ॥२०॥

इत्थं क्रीडन् सखिभिर् अखिलैश् चारयन् गाः समन्तात्
श्री-गोविन्दः प्रति-तरु-लतं सञ्चरंश् चापराह्ने ।
वृन्दारण्य-स्थिर-चर-गणान् नन्दयित्वा व्रज-स्थान्
स्वालोकेच्छून् सुखयितुम् असौ संस्मरन्न् उत्क आसीत् ॥२१॥

असौ गोविन्दः प्रति-तरुलतं सञ्चरन् गच्छन् गाश्चारयन् वृइन्दारण्य-स्थिरचरान् नन्दयित्वा स्वस्यालोकेछुन् व्रजस्थ-जनान् अपराय्ह्ने संस्मरन् तान् सुखयितुम् उत्कण्टितो ऽभूत् ॥२१॥

हरिर् अथ धवला-श्रेणीः परितो दूर-प्रचारिणीर् दृष्ट्वा ।
ताः सङ्कलयितुम् उत्कस् तत्-तन्-नाम्ना जगौ वंशीम् ॥२२॥

दूरगता धवला-श्रेणीः दृइष्ट्वा तत्तन्नाम्ना ता गाः सङ्कलयितुम् आनेतुम् उत्को हरिर् वंशीं जगौ ॥२२॥

पद्मे हिही हरिणि रङ्गिणि कञ्जगन्धे
रम्भे हिही चमरि खञ्जनि कज्जलाक्षि ।
शन्दे हिही भ्रमरिके सुनदे सुनन्दे
धूम्रे हिही सरलि कालि मरालि पालि ॥२३॥
गङ्गे तुङ्गि हिही पिषङ्गि धवले कालिन्दि वंशी-प्रिये
श्यामे हंसि हिही कुरङ्गि कपिले गोदावरीन्दु-प्रभे ।
शोणे श्येणि हिही त्रिवेणि यमुने चन्द्रालिके नर्मदे
नाम-ग्राह-मयं समाह्वयति गाः प्रेम्णेत्थम् ईशो गवाम् ॥२४॥

गवां नामान्याह पद्मे हरिणात्यादि । हिहीति गवां आह्वान-समये अद्यापि व्रजस्था उच्चारयन्ति ॥२३-२४॥

कृष्णः पश्चाल् लसति सखिभिश् चारयन् नस् तदेत्थं
प्रेम-भ्रान्त्या प्रथमम् अभवत् सन्निवेशोऽतिचारे ।
सन्तृप्तानाम् अपि तृण-ततेर् नैचिकीनाम् इदानीं
ताभिर् दूर-स्थितिर् अवगता तस्य तद्-वेणु-नादात् ॥२५॥

नोऽस्मान् चारयन् पश्चादेशे सखिभिः सह क्रीष्णो लसति वर्तते इतितदा नैचिकीनाम् इथम् अनेन प्रकारेण प्रेम-भ्रान्त्या अतिचारे अति-तृइण-भोजने सन्नैवेशः प्रथमम् अभवत् । इदानीं तृइण-ततेरतिचारे सन्तृइप्ता-नामापि नैचिकीनां गवां तद्-वेणु-नादात् तस्य कृइष्णस्य दूरस्तितिस् ताभिः गोभिर् अवगता ज्ञाता ॥२५॥

ऊधो-भर-प्रणय-मन्थर-शीघ्र-याना
हुङ्कार-गर्भ-चल-सास्न-गला बकारेः ।
ऊर्ध्वानन-श्रवण-बालधयोऽस्य पार्श्वं
दन्ताग्र-शाद-कवला धवलाः समीयुः ॥२६॥

धवला गावस् तस्य वकारेः पार्श्वं समीयुः । कीदृइशो गावः । उधः स्तनस् तस्य भरेण प्रणयेन च मन्थरा अतिशीग्रयानाः । हुङ्कारो गर्भे मध्ये यस्य चला चञ्चला सास्ना गल-कम्ब्लं यत्र तादृइशो गलो गलदेशो यासां ताः । उर्द्धे आननं श्रवणं वालधिर् लङ्गुलञ्च यासां ताः । दन्ताग्रे शादकवलं नवीनं तृइणं कवलं यासां ताः ॥२६॥

**स्व-गणेन गणाध्यक्षा गङ्गाद्या धेनवो हरेः ।
नेत्रैः पिबन्त्यः सौन्दर्यं जिघ्रन्त्योऽङ्गानि नासया ॥२७॥
आलिङ्गन्त्य इव स्वाङ्गैर् लिहन्त्य इव जिह्वया ।
वत्सलास् तं स-हुङ्काराः परितः परिवव्रिरे ॥२८॥ **

(युग्मकम्)

हरेर् गङ्गाद्याः गणाध्यक्षाः धेनवः । गङ्गा इत्याद्युच्चार्याह्वाने कृइते सगणेन सहागत्य नेत्रैर् हरेः सौन्दर्यं पिवन्त्य इव तं कृइष्णं परिवव्रिरे । एवमग्रे नासयाङ्गानि जिग्रन्त्य इवेत्यादि ॥२७-२८॥

तत्-स्नेह-वशगः सोऽपि सुधा-स्पर्शेन पाणिना ।
कण्डूयनैर् मार्जनैस् ताः प्रीणयन्न् आह केशवः ॥२९॥

स केशवः कण्डूयनैस् ताः गाः प्रीणयन्नाह ॥२९॥

तृप्ताः स्थ यवसैर् यूयं गत-प्रायं दिनं व्रजे ।
वत्सा वः क्षुधिता यत् तद् व्रजं व्रजत मातरः ॥३०॥

हे मातरः यूयं यवसैर् घासैस् तृइणैस् तृइप्ताः स्थ । यत् वो वत्साः क्षुधितास् तत्-तस्माद्-व्रजं व्रजत ॥३०॥

ततो वयस्या यत्नात् ताः कृष्ण-स्नेहातिविह्वलाः ।
वियुज्य कृष्णतश् चक्रुर् व्रज-वर्त्मोन्मुखीः क्रमात् ॥३१॥

तत इत्थं कृइष्ण-कथनानन्तरं वयस्याः सखायः यत्नात् कृइष्णतः कृइष्ण-स्नेहातिविह्वलास्ता गाः वियुज्य क्रमात् व्रज-वर्त्मम्-मुखीच्क्रुः ॥३१॥

नाना-भेदाकृति-ध्वान-घण्टा-किङ्किणी-कण्ठिकाः ।
स्व-स्व-यूथाग्रगा गावो घोषाभिमुखतां ययुः ॥३२॥

नानाव्हेदा आकृइतिर् ध्वनिश्च यासां तथाभूता घण्टा किङ्किणी च कण्ठे यासां तादृइश्यो गावः स्व स्व यूथानामग्रण्यः सत्यो घोषाभिमुखतां ययुः ॥३२॥

नैचिकी-सैरिभी-श्रेण्यौ चलन्त्यौ सव्य-दक्षयोः ।
स्वर्गिणां दधतुर् भ्रान्तिं गङ्गा-कृष्णा-प्रवाहयोः ॥३३॥

नैचिकीनां नव-प्रसूत-गवां सैरिभीणां महिषीणां श्रेण्यौ वामदक्षिणयोश् चलन्त्यौ स्वर्गस्थानां गङ्गा-यमुनयोः प्रवाह-भ्रान्तिं दधतुः ॥३३॥

धेनु-वृन्दम् अनु मन्दम् अयन्तं
वेणु-गीतम् अमृतं विसृजन्तम् ।
रेणु-रूषित-चलालक-वन्तं
के नु वीक्ष्य समयुर् न मुदं तम् ॥३४॥

धेनु-वृइन्दमनु धेनु-वृइन्दस्य पश्चात् मन्दं यथास्यात्-तथा अयन्तं गच्छन्तं वेणुगीतामृइतं विसृइजन्तं त्यजन्तं प्रसारयन्तं । रेणुना रूषितं भूषितं चला अलका दिद्यन्ते यस्य तं वीक्ष्य के जना मुदं हर्षं न समयुः न प्रापुः अपितु सर्वे मुदं प्रापुः नु वितर्के ॥३४॥

न वर्त्म तद् यत् सखिभिर् न मण्डितं
नासौ सखा यो न विलास-वृन्दवान् ।
नासौ विलासोऽपि हि यो न नर्मसूर्
न नर्म तद् यन् न मुदेऽघ-विद्विषः ॥३५॥

तद्वर्त्म तन्मार्गं न षन्मार्गं सखिभिर् मण्डितं न । असौ सखा न यः सखा विलासस्य वृइन्दवान् समूहवान् न । असौ विलासोऽपि न यो विलासः नर्मसूः परिहास-जनको न । तन्नर्मापि न यन्नर्म अघविद्विषो मुदे हर्षाय न ॥३५॥

गायं गायं वेणुना याति मित्रैर्
यायं यायं प्रत्यगं तिष्ठति स्म ।
स्थायं स्थायं केलिभिः शं प्रदत्ते
दायं दायं तत् पुनः स प्रयाति ॥३६॥

स कृइष्णः वित्रैः सह वेणुना गायं गायं गीत्वा गीत्वा याति । प्रत्यगं वृइक्षं वृइक्षं प्रति यायं यायं गत्वा गत्वा तिष्ठति स्म । वृइक्ष-मूले स्थायं स्थायं स्थित्वा स्थित्वा केलिभिः शं सुखं प्रदत्ते । तत् सुखं दायं दायं दत्वा दत्वा । स कृइष्णः प्रयाति प्रगच्छति ॥३६॥

विधि-शिव-मुख-देवैः सोपदेवैर् मुनीन्द्रैः
स्तुति-नृति-नति-गीतैः पुष्प-वर्षैः सुवाद्यैः ।
पथि पथि महितोऽसौ सङ्कुचन् स्वैर-केलौ
स्मित-सकरुण-दृष्टिस् तुष्टुवे भक्ति-नम्रैः ॥३७॥

उपदेवैः सहितैर् मुनीन्द्रः सह भक्ति-नम्रैर् ब्रह्म-रुद्रादि-देवैः स्तुत्यादिभिः पथि पथि महितः पूजितोऽसौ कृइष्णः स्वैरकेलौ यथेप्सित-लीलायां सङ्कुचन् स्मित-सकरुण-दृइष्टिः सन् तुष्टुवे स्तुतोऽभूत् ॥३७॥

नुमस् त्वां सुहारं यशोदा-कुमारम्
गुणानाम् अगारम् कृपोघैर् अपारम् ।
विराजद्-विहारं प्रदानेऽत्य् उदारम्
खल-श्रेणि-मारं सदा निर्विकारम् ॥३८॥

यशोदा-कुमारं त्वां नुमः । कीदृइशं ? सुष्ठु हारो मुक्तादि-माला यस्य तं । गुणानामगारं गृइहं । कृइपा-समूहैर् अपारं अर्थात् समुद्रं । विराजन् विहारो यस्य तं । प्रकृइष्ट-दानेऽत्युदारं अतिदातारं । सदा निर्विकारं । खलमारण-विहारादि-सत्वेऽपि सदा निर्विकारं परब्रह्मणि न विरुद्धं । त्वयीश्वरे ब्रह्मणि नोविरुद्ध्यते इति श्री-भागवतोक्त्ः ॥३८॥

नुमस् त्वाम् अनन्तं निकुञ्जे वसन्तं
प्रकाशं व्रजन्तं वसन्तं भजन्तम् ।
सखीन् प्रीणयन्तं सुकुन्दात् सुदन्तं
तद्-आस्ये दृग्-अन्तं नुदन्तं हसन्तम् ॥३९॥

अनन्तं त्वां नुमः स्तमः । आनन्त्यमाह, निकुञ्जे वसन्तं स्थितं । प्रकाशं रासादि-लीलायां अभेदानेक-स्वरूपं व्रजन्तं प्राप्नुवन्तं । यद्वा अनन्तं प्रकाशं व्रजन्तं गच्छन्त्ं । वसन्तं ऋतुं सखायञ्च भजन्तं । सखीन् सुवलादीन् प्रीणयन्तं शोभन-कुन्द-पुष्पात् सष्ठ दन्ता यस्य तं । तत्तेषां सक्ःईनां मुखे दृइगन्तं नेत्रान्तं नुदन्तं प्रेरयन्तं हसन्तं । तद्वर्त्म न यद्वर्त्म सखिब्न्हिर् मण्डितं न इत्यनेन च प्रकाशा नन्त्यम् आयाति ॥३९॥

नुमस् त्वां सुधेनुं सुवेणुं सुलीलं
सुहासं सुवासं सुभाषं सुशीलम् ।
सुवेशं सुकेशं सुरेशं सुचित्रं
सुसृत्यं सुभृत्यं सुकृत्यं सुमित्रम् ॥४०॥

सु शोभनाः धेनवो यस्य तं । सुभाषं सुवाक्यं । सुभृइत्यं सुगमनं सुकृइत्यं कार्यञ्च यस्य तत् ॥४०॥

नुमस् त्वां प्रशान्तं सुदान्तं सुकान्तं
दिनान्ते निशान्ते वनान्तात् प्रयान्तम् ।
समस्तान् महान्तं नितान्तं विभान्तं
खलाली-कृतान्तं श्रमौघेऽप्य् अतान्तम् ॥४१॥

वनान्ताद्वतात् दिनान्ते निशाते गृइहं प्रयान्तं । अन्तः प्रान्त-स्वरूपयो”रिति विश्वः । निशान्तवन्त्यसदनं भवनागार-मन्दिर मित्यमरः । समस्तात् प्राकृइता-प्राकृइत-सर्वस्मान्महान्तं श्रेष्ठं । यथा दशमे,-असमोर्द्धममन्यसिद्धि मित्यादि । नितान्तम् अतिशयेन विभान्तं सर्वोर्द्धं काक्तिमन्तं । खल-श्रेणी-नाशकं । श्रम-समूहेऽप्यक्षीणं ॥४१॥

नुमस् त्वाम् अघारे बकारे मुरारे
सुधीरं बलारेर् निकारेऽद्रि-धारे ।
निदानं पुरारेर् अपारे विहारे
प्रवीणं सुरारेर् उदारे विदारे ॥४२॥

हे अघारे ! हे वकारे हे मुरारे ! वलारेरिन्द्रिस्य निकारे निग्रहे अद्रिधारे गोवर्धन-धारणे सुधीरं । पुरारेः शिवस्य निदानम् आदिकारणं । आथर्वणीय पुरुष-सूक्तौ नवम-प्रपाठके । तदशांशेने महाविष्णुरिति महाविष्णुतो ब्रह्म-विष्णु-शिवानां जन्म । ब्रह्म-संहितायां । क्षीरं यथे त्यादिना शिवस्य कारणं श्री-कृइष्ण इति । अपारे विहारे प्रवीणं । सुरारेर् असुरस्य उदारे विदारे अति-विदारणे प्रवीणं त्वं नुमः ॥४२॥

नुमस् त्वां गरिष्ठं महिम्ना महिष्ठं
विसारि-प्रतिष्ठं सुराणां वरिष्ठम् ।
असद्-धृद्-दविष्ठं सुमेरोर् गरिष्ठं
बलिभ्यो बलिष्ठं पटुभ्यः पटिष्ठम् ॥४३॥

गरिष्ठं अति-शयेन गुरूतरं । गुरुतरत्वम् आह । महिम्ना महिष्ठम अतिमहत्-स्वरूपं । विसारिणी दूरगामिनी प्रतिष्ठा सुयशो यस्य तं । असद् वृइदां दविष्ठं दूरतरं । सुमेरु-पर्वतात् गरिष्ठं पटिष्ठं अतिनिपुणं ॥४३॥

नुमस् ते चरित्रं सुतीर्थात् पवित्रं
खलालि-लवित्रं भवाब्धेर् वहित्रम् ।
सतां हृत्-सुचित्रं द्विषं हृत्-खनित्रं
नतानां सुमित्रं प्रभावैर् विचित्रम् ॥४४॥

गरिष्ठं अति-शयेन गुरूतरं । गुरुतरत्वम् आह । महिम्ना महिष्ठम अतिमहत्-स्वरूपं । विसारिणी दूरगामिनी प्रतिष्ठा सुयशो यस्य तं । असद् वृइदां दविष्ठं दूरतरं । सुमेरु-पर्वतात् गरिष्ठं पटिष्ठं अतिनिपुणं ॥४३॥

स्व-गाश् चारयन्तं सुलीलाः सृजन्तं
खलान् मारयन्तं त्रिलोकीम् अवन्तम् ।
अहो नः सुदिष्टं भवन्तं सद्-इष्टं
सदालोकयामः स्तुमः सन्नमामः ॥४५॥

सुलीलाः सृइजन्तं प्रकाशयन्तं । अहो आश्चर्यं ! नोऽस्माकं सुदिष्टं सुभाग्यं । सादिष्टं सतामिष्तं भवन्तं सदा पश्यमः स्तमः सन्नमामश् च ॥४५॥

इति स्तुवन्तः स-दयावलोकनैः
पूर्णास् तद्-अङ्घ्री प्रणिपत्य निर्जराः ।
तत्-केलि-सङ्कोच-भयात् तिरोहितास्
तं लोकयन्तोऽनुययुर् नभो-गताः ॥४६॥

निर्जरा देवाः तत्-तस्य कृइष्णस्याङ्घ्री प्रणिपत्य तस्य कृइष्णस्य केलौ अस्माकम्ग्रे यः सङ्कोचस् तस्य भयात् तिरोहिताः सन्तः नभोगताः तं कृइष्णं लोकयन्तस् तस्यानु पश्चात् ययुः ॥४६॥

व्रजपति-सेवित-विष्णुर्
न्यस्य स्व-बलं हरौ निहन्त्य् असुरान् ।
तान् हन्त्य् अयम् इति मत्वा
मूढा देवाः स्तुवन्त्य् एनम् ॥४७॥

व्रज-पतिना सेवितो विष्णुर् हरौ कृइष्णे स्वस्य दत्वा असुरान्निहन्ति । मूढा देवा अयं कृइष्णस् तान् असुरान् हन्तीति मत्वा एनं कृइष्णं स्तुवन्ति ॥४७॥

इत्थं देवान् हसन्तस् तान् तेषाम् आकार-चेष्टितैः ।
सखायस् तेऽनुकुर्वन्तः स-खेलं हरिणा ययुः ॥४८॥

इत्थं तान् देवान् हसन्तस्ते सखाय स्तेषां देवानाम् आकारचेष्टितैर् अनुकुर्वन्तः ॥४८॥

अथागता सा सदनं हरि-प्रिया
विश्रम्य दासीभिर् उपासिता क्षणम् ।
सायं निशा-भोग-कृते हृदीशितुर्
भक्ष्याणि वीटीर् विदधे सहालिभिः ॥४९॥

सदनमागता सा राधा क्षणं विश्रम्य हृइदीशितुः कृइष्णस्य सायं-निशा-भोजनार्थं भक्ष्याणि वीटीश् च विदधे ॥४९॥

कदल-कुसुम-मास-क्षोद-सत्-सीरि-शस्यैर्
मरिच-सुघन-दुग्धैः सच्-चतुर्जात-चन्द्रैः ।
कृत इह घृत-पक्वो यः पतेत् खण्ड-पाके
बटकम् अमृत-केलिं सा व्यधात् तं प्रियेष्टम् ॥५०॥

कदलः कदली-वृइक्षस् तस्य कुसुमं फलं । पक्व-फलम् इति वोध्यं । कदलि-कदलौ पुनः रम्भा-वृइक्षे इति । कुसुमं स्त्री-रजो-नेत्र-रोगयोः फल-पुष्पयो रिति च मेदिनी । मासक्षोदो मास-चूर्णः । सत्सीरी उत्तम-नारिकेलस् तस्य शस्यैः । तथा मरिचैः सह सुघनदुग्धैः । सच्चतुर्जातेन एला-लवङ्ग-जातीफल-गुडत्वग्भिः सह च्वन्द्रै कर्पूरैः कृइतो यो घृइत-पक्वः पदार्थः स इह स्थले खण्डपाके पतेत् तं प्रियेष्टं अमृइत-केलाख्यं वटकं सा राधा व्यधाद् अकरोत् ॥५०॥

सामिक्षैः शालि-चूर्णैर् दधि-मरिच-सिता-नारिकेलार्ध-सस्यैर्
जात्य्-एला-सल्-लवङ्गामृत-दल-फलैः फेनितैः पिष्ट-मुद्गैः ।
सृष्टः पक्वो घृते यः प्रपतति समधौ दुग्ध-पूरे प्रगाढे
सेन्दौ कर्पूर-केलिं तम् इह सुबटकं सा व्यधात् स्व-प्रियेष्टम् ॥५१॥

उष्ण-दुग्धे दध्नः पातात् छेनाख्या आमिक्षा तत्सहितैः सामिक्षैः शालि-चूर्णेस् तण्डुल-चूणैः । तथा दधि मरिच शर्करा नारिकेलशस्य । अर्धशस्यैरिति पाठे नारिकेलस्य चूर्णशस्यैः । आर्द्रशस्यै रिति-पाठे कोमलशस्यैः जातीफल-एला-लवङ्गामृइत-कदलाख्य-फलैः । अङ्गुलीचालनेन फेनितैः पिष्टमुद्गद्वैलैः सृइष्टो यो घृइते पक्वः समधौ दुग्धपुरे प्रगाढे घनीभूते सेन्दौ सकर्पूरे इह प्रपतति तं सुवटकं कर्पूरकेल्याख्यं सा राधा व्यधात् ॥५१॥

ग्रन्थिवद्-बटिकालिस् तैर् द्रव्यैः सृष्टा तु या पतेत् ।
पञ्चामृते व्यधात् तां सा पीयूष-ग्रन्थि-पालिकाम् ॥५२॥

तैः पूर्व-श्लोकोक्तैराक्षादिद्रव्यैः सृइष्टा या ग्रन्थि-वद्वटिकालिः । ग्रन्थि-कृइदिति वा पाठः । स-पञ्चामृइते दुग्ध-दधि-घृइत-मधु-शर्करायां पतेत् तदा पीयुष-ग्रन्थि-पालिकाख्या तां सा राधा व्यधात् ॥५२॥

स-क्षीर-सार-शशि-तण्डुल-नारिकेल-जाती
लवङ्ग-मरिचैः ससितैः सुपिष्टैः ।
रम्भैलया च घृत-भावनया भवेद् या
सा ताम् अनङ्ग-गुटिकां विदधे प्रियेष्टाम् ॥५३॥

क्षीरसारेण सह शशी कऋपूरस् तण्डुलादयश् च तैः । कीदृइशैः ? ससितैः शर्करा-सहितैः सुपिष्टैश् च । रम्भया एलयाच । घृइत-भावनया घृइत-सहितया पक्वया वा यानङ्गगुटिका भवेत् तां प्रियेष्टां सा राधा विदधे ॥५३॥

कदल-मरिच-दुग्धैः खण्ड-गोधूम-पक्व-
प्रकटित-बटकोऽयं भूरि-जातीफलाढ्यः ।
नव-विधु-मधु-मध्ये यो विलासं विधत्ते
रचित इह तयासौ सीधु-पूर्वो विलासः ॥५४॥

कदल-मरिच-दुग्धैः सह खण्ड-गोधूम-पक्वस् तेन प्रकशितोऽयं वटकः । कीदृइषः । भूरिजातीफलाढ्यो यो नवविधुः कर्पूरः मधु च तन्मध्ये विलासं स्तितिं विधत्ते । असौ सीधु-पूर्वो विलासः सीधु-विलसाख्यस् तया राधया रचितः ॥५४॥

उपायनानाम् इति पञ्चकं सत्
श्री-राधया स्वीय-धिया कृतं यत् ।
कृष्णस् तद् एतत् प्रणयी सतृष्णः
सुधां विनिन्दन् परम् अत्ति नन्दन् ॥५५॥

उपायनानां मध्ये यत् सत् पञ्चकं श्री-राधया स्ववुद्ध्या कृइतं तदेतत् अमृइत-केल्यादि पञ्चकं प्रणयी कृइष्णः सतृइष्णः सन् सुधां विनिन्दन् नन्दन् परमुत्कृइष्टं यथा स्यात्-तथा अत्ति ॥५५॥

तेषु व्रज-प्रसिद्धानि त्रीण्य् अन्तिम-युगं च यत् ।
रहो भोग्यं निशायां तन्-मधु-पाने विदंशवत् ॥५६॥

तेषु पञ्चसु मध्ये ऽमृइत-केल्यादीनि त्रीणि व्रजे प्रसिधानि । अन्तिम-युग्मं अनङ्ग-गुटिका-सीधु विलासश् च । मधुपने मादक-द्रव्य-पानानन्तरं विदंशवत् चर्व्य-द्रव्यवत् निशायां रहोभक्ष्यं मधु-जातिफलयोर् मादकतया ॥५६॥

लवङ्गैलेन्दु-मरिचैः संयुतैः शर्करा-चयैः ।
चक्रे गङ्गा-जलाख्यानि लड्डुकान्य् अपराणि च ॥५७॥

लवङ्गै-लाकर्पूर-मरिचैः सह संयुतैः शर्करामयै गङ्गा-जलाख्यानि पक्रे ॥५७॥

**तैस् तैर् युतैः क्षीर-सारैस् तथा लाङ्गलि-शस्यकैः ।
अन्यान्य् अप्य् आज्य-भृष्टैः सा सरैश् च सर-पूपिकाः ॥५८॥ **

(युग्मकम्)

तैः लवङ्गादिभिस् तैः शर्कराचयैश् च युतैः क्षीरसारैस् तथा लाङ्गलीर् नारिकेलस् तस्य शस्यैरन्यानि लड्डुकानि । तथा लवङ्गादि शर्करायुतैः आज्य-भ्रष्टैरन्यानि लड्डुकानि तथा सरैः सर-पूपिकाश् च सा राधा चक्रे । पूर्व-श्लोकस्थेनान्वयः ॥५८॥

साथ स्नातानुलिप्तारुण-रुचि-सिचया बद्ध-वेणी सुचित्रा
श्री-सिन्दूरेन्दु-भाला मृगमद-चिबुका मालिनी साब्ज-हस्ता ।
नासाग्रान्दोल-मुक्ताञ्जन-युत-नयनोत्तंसिनी बद्ध-नीवी
राधा ताम्बूल-वक्त्रा सुकुसुम-चिकुरा भाति यावोज्ज्वलाङ्घ्रिः ॥५९॥

सा राधा स्नाता कस्तूर्यादिभिरनुलिप्ता । अरुणरुचिः सिचयो यस्याः सा, वद्ध-वेणी । सुचित्रा गण्डद्वये स्तनद्वये च सुचित्रं यस्याः सा, सिन्दुरस्य पूर्णेन्दुवद्भाले तिलकं यस्याः सा । मृइगमदस्य भ्रमर-शिशुवच्चिवुके यस्याः सा । माला विद्यते यस्याः सा मालिक्नी साव्जहस्ता लीला-कमल-हस्ता । उत्तंसः कर्ण-भूषा तद्युता । वद्धा नीवी अधो-वस्त्रस्य वन्धनं यस्याः सा । कुसुम-सहितं चिकुरं केशं वेण्यादिरूपं यस्याः सा । यावोऽलक्तकस्तेन उज्जलचरणा ॥५९॥

चूडा-रत्न-ललाटिके सुवलयांश् चक्री-शलाका-युगं
काञ्ची-कुण्डल-कङ्कणाङ्घ्रि-कटकान् पदाङ्गुलीयान्य् अपि ।
ग्रैवेयं पदकाङ्गदादि विविधान् हारांस् तथा मुद्रिका-
मञ्जीराव् इति रत्न-भूषण-चयं राधा बभौ बिभ्रती ॥६०॥

ललाटोपरि द्विविभक्तस्य केशस्य मध्यदेशे सीमन्तोपरि चूडारत्नः चूडा-रत्न-लग्नैकदेशस्यान्यदेशं कर्ण-पर्यन्तं ॥ मुक्तान्य-रत्नादिनिर्मितं भूषणं ललाटिकाख्यं ते चूडी-रत्न-ललाटिके विभ्रती सुवलयांश् च विभ्रती वलयं इन्द्रनीलमणि-निर्मित चूडीत्याख्यं । चक्री-शलाकायुगं कर्ण-भूषणं । काञ्च्यादीन् । पदाङ्गुली-भूषणानि । ग्रैवेयकं कण्ड-भूषणं । पदकं प्रसिद्धं । अङ्गदं कफोणिको परि-भुजयोर् भूषणं । मुद्रिका हस्ताङ्गुली-भूषणं मञ्जीरं चरण-भूषणं विभ्रती राधा वभौ ॥६०॥

सुस्नातालङ्कृताभिः सा सखीभिश् चन्द्र-शालिकाम् ।
समारुह्य स्थिता कृष्ण-वर्त्मन्य् आहित-लोचना ॥६१॥

सा राधा सखीभिः सह चन्द्र-शालिकां सर्वोर्द्ध-गृइहं समारुह्य कृइष्ण-वर्त्मनि आहितनेत्रा दत्तनेत्रा सती स्तिता ॥६१॥

कृष्णाम्बुदागमे काले बल्लवी-चातकी-ततिः ।
व्यात्ताक्षि-चञ्चुर् उत्कासीच् चन्द्र-शाला-गतोन्मुखी ॥६२॥

श्री-कृइष्ण-रूप-मेघागम-काले गोपी-रूपा चातकीततिः व्यात्ता प्रसरितोऽक्षि-रूपा चञ्चुर्यया सा उत्कण्ठिताचासीत् ॥६२॥

स्वारूढोत्कण्ठि-गोपाली-वृन्द-वक्त्रेन्दु-मण्डलैः ।
आसन् यथार्थ-नाम्न्यस् ता व्रजस्थास् चन्द्रशालिकाः ॥६३॥

व्रजस्था स्ता श्चन्द्र-शालिकाः स्वारूढ-गोपी-समूह मुख-च्न्द्र-समूहैश् चन्द्राणां शालाश् चन्द्रशालिका इति व्युत्पत्त्या यथार्थनाम्न्य आसन् ॥६३॥

जातेऽपराह्ने तनयागमोत्सुका
व्रजेश्वरी स्नेह-परिप्लुताशया ।
तद्-भोज्य-संसाधन-सत्वरा सखीं
सा रोहिणीं पाक-कृते न्ययोजयत् ॥६४॥

सा यशोदा । सखीं रोहिणीं ॥६४॥

अथाहूयातुलाख्यां सा नन्दनस्य स-धर्मिणीम् ।
पाकाय रोहिणी-सङ्गे ददौ स्व-लघु-यातरम् ॥६५॥

सा यशोदा नन्दनस्य नन्द-भ्रातुः सधर्मिणीं पत्नीं स्वलघुयातरं । भर्तुर् भ्रातृइ-पत्नीनां परस्परं यात्रित्वं । तथा च । भार्यास्तु भ्रातृइ-वर्गस्य यातरः स्युः परस्पर मित्यमरः । अतुला-नाम्नी-माहूय पाकाय ॥६५॥

षड्-ऋतूत्पन्न-शाकादि-कन्द-मूल-फलादिकैः ।
तत्-तद्-व्यञ्जन-सम्पत्त्या कृष्ण-भोजन-पूर्तये ॥६६॥
व्यग्राभ्यां व्रजनाथाभ्यां नियुक्तैर् मालिकैः कृताः ।
शाकादि-बाटिकाः षट् या नाना-दोहद-पण्डितैः ॥६७॥
व्रजस्थैर् ज्ञायते तत्-तद्-दोहदोत्थं फलादिकम् ।
वस्तुतस् ताः षड्-ऋतवः सेवन्ते बाटिकाः सदा ॥६८॥
ताभ्यस् तत्-तद्-ऋतूत्पन्न-शाक-मूल-फलादि ते ।
उपजह्रुर् व्रजेश्वर्यै भूरि-कण्डोल-पूरितम् ॥६९॥

(चतुर्भिः कुलकम्)

षडृइतुत्पन्नैः शाकादिभिस् तद्व्यञ्जनस्य या सम्पत्तिरुत्पत्तिस् तया कृइष्णस्य भोजन-पूर्त्यर्थं व्यग्राभ्यां नन्द-यशोदाभ्यां नियुक्तैर् मालिकैः कृइता षट्-शाकादि वाटिकास् ताभ्यो वाटिकान्यस्ते मालिका भूरिकण्डोलः शाकाद्याहरक-पात्रविशेषस् तेषु पूरितं तत्-तद् ऋइत्युत्पन्न शाक-मूल-फलादि व्रजश्वर्यै उपजर्ह्रुरिति चतुर्थ-श्लोकेनान्वयः । ननु सदा षड् ऋइतुत्त्पन्न-शाकादिकं कथं भवेत्-त्राह । नानादेहद-पण्डितैः सदा सर्वा-शाकाद्युत्पादने निपुणैर् व्रजस्थैस् तत्-तदोहदोत्थं । फलादिकं येन प्रकारेण जलादि-पुरणेन यत् फलादिकं भवति तज्ज्ञायते वस्तुतः षड् ऋइतवः सदा ता वाटिकाः सेवन्ते । यथा गौतमीय-तन्त्रे । सर्वर्तुकुसुमोपेत मिति । सेवितं ॠतुभिः सर्वैरिति च ॥६६-६९॥

दासीभिस् तद् विभज्यार्धं सायं पाकार्थम् अम्बया ।
संस्कारितं परं चार्धं प्रातः-पाकाय धारितम् ॥७०॥

अन्वया दासीभिस् तत्-फलादिकम् अर्द्धं विभज्य ॥७०॥

नारिकेलादि-पक्वाम्र-फलान्य् एषाहृतानि तैः ।
दासैः संस्कारयामास सायं-भोगाय पुत्रयोः ॥७१॥

तैर् मालिकैराहृइतानि नारिकेलादीनि एषा पुत्रयोः सायङ्कालीन-भोगाय ॥७१॥

स्वे स्वे कर्मणि दासादीन् शीघ्र-पाके स्व-यातरौ ।
त्वरयन्ती हरेर् माता बभ्रामेतस् ततो मुहुः ॥७२॥

यस्य यत् कर्म तस्मिन् स्वे स्वे कर्मणि दासादीन् । शीघ्रपाके स्वस्य यातरौ रोहिणी अतुले हरेर्-माता त्वरयन्ती मुहुर्-वभ्राम ॥७२॥

ततः स्व-यातृ-प्रमुखाङ्गनावृता
व्रजेश्वरी पुत्र-विलोकनोत्सुका ।
स्तन्याश्रु-विक्लिन्न-पयोधराम्बरा
गत्वा पुर-द्वारम् उदानना स्थिता ॥७३॥

तदनन्तरं स्वस्य यातृइ-प्रमुखाङ्गनाभिरावृइता यशोदा पुरद्वारं गत्वा स्तिता ॥७३॥

सूर्यं समीक्ष्य चरमाचल-चङ्क्रमोत्कं
घोषेश्वरः सुत-समीक्षण-जात-तृष्णः ।
गो-रेणु-वेणु-निनदार्पित-नेत्र-कर्णः
सार्धं स गो-सदनम् आप मुदात्म-वृन्दैः ॥७४॥

सुत-सन्दर्शन-जात-तृइष्णो नन्दः सूर्यम् अस्ताचलगमनोत्सुकः समीक्ष्य गोरेणावर्पित-नेत्रः वेणु-शब्दार्पितकर्णः स आत्म-वृइन्दैः सह गोसदनम् आप ॥७४॥

उत्सर्पद्-गो-रजो-जाल-बाल-पूर्णेक्षणोत्सुकाः ।
उच्च-स्थाने स्थिता आसन् व्रज-लोका ग्रहा इव ॥७५॥

ग्रहाश् चन्द्र-सूर्यादयो यथा उत्सर्पत् गोरजो-जालं यस्मिन् तद्वालस्य गोधूली-रूप-शुभ-समये जातस्य वालस्य पूर्णेक्षणोत्सुकाः सन्त उच्चस्थाने स्थिता भवन्ति । तथा व्रजलोका उत्सर्पत् उद्गच्छत् गोरजसां जालं समूह एव वालस् तस्य किम्बा उत्सर्पतो गोरजो-जालाद्धेतोर् वालानां पूर्णेक्ष्णोत्सुकाः पूर्णं समग्रं यदीक्षणं तत्रोउसुकाः सन्तु उच्चस्थानस्तिता आसन् ॥७५॥

मण्डयन्तः सखीन् पुष्पैर् नन्दयन्तो गिरा हरिः ।
जनयन्तो मुदं तेषां व्रजान्तिक-वनं ययौ ॥७६॥

हरिः पुष्पैः सखान् मण्डयन्तं । गिरा सखीन्नन्दयन्तस् तेषां मुदं जनयन्तो व्रजान्तिकवनं ययौ ॥ गण्डि-मण्डिजिजनिनन्दिभोऽन्तः ॥७६॥

तत्र स्फारे सरसि मुरली-निस्वनैः स्तम्भयन् गा
यूथान् यूथान् पृथग् अरचयत् पाययित्वाथ पाथः ।
नाना-रङ्गैः स्व-हृदि मणिभिर् यान्ति माला तयाऽसौ
नाना-वर्णान् अगणयद् अपि स्वान् श्री-हरिर् धेनु-यूथान् ॥७७॥

तर व्रजान्तिकवने स्फारे अति-विस्तारे सरसि सरोवर्तीरे हरिर् गा मुरली-निस्वनैः स्तम्भयन् पाथो जलं पाययित्वा यूथान् यूथान् पृइथगरचयत् । नानारङ्गैर् नानावर्णैर् मणिभिः स्वस्य हृइदि या मालास्ति तया मालयासौ कृइष्णः नानावर्णान् स्वान् धेनु-यूथान् अगणयदपि ॥७७॥

सङ्ख्या-पूर्तौ भवति मुदितः स्वस्य किं वा सखीनां
सङ्ख्या-न्यूने सपदि स गवां वेणु-सङ्केत-नादैः ।
तत्-तन्-नाम्ना स्व-गण-वियुताः शीघ्रम् आहूया गास् तास्
तत्-तद्-यूथे चलति घटयंश् चालयंस् तान् व्रजाय ॥७८॥

स्वस्य सखीनाञ्च सङ्ख्या-पूर्तौ सत्यां मुदितो भवति । गवां सङ्ख्यायाः न्यूने सति स कृइष्णः वेणु-सङ्केतनादैः स्वगणाद्वियुतास्ता गास् तत्तन्नाम्ना आहूय शीघ्रं तत्-तद्-यूथे घटयन् प्रापयन् तान् यूथान् व्रजाय चालयन् स्वयं चलति ॥७८॥

श्री-धेनु-रेणु-परिपिञ्जरिताङ्ग-गुञ्जा-
वन्य-स्रग्-अम्बर-चलालक-केश-पिञ्छः ।
निर्योग-पाश-मुरली-दल-यष्टि-शृङ्गी
लोलारुणाति-विपुलायत-पक्ष्मलाक्षः ॥७९॥
वन्याटन-श्रमज-कान्त्य्-अमृताभिवर्षा-
संसिक्त-सर्व-जन-नेत्र-चकोर-वृन्दः ।
वंशी-कलाहृत-विघूर्णित-यौवतालिः
कृष्णः स घोषम् अविशत् स्व-समैर् वयस्यैः ॥८०॥

धेनूनां खुर-रेणुभिः परि सर्वतः पिञ्जरितानि व्याप्तान्यङ्गादीनि यस्य सः । निर्योगपाशो गवां दोहने छन्दन-रज्जुः । मुरलीदलं यष्टिः शृइङ्गञ्च वर्तन्ते यस्य सः । लोले अरुणे अतिविपुले आयते पक्ष्मले स्थुल-पक्ष्म-युक्ते अक्षिणी यस्य सः । वन्या वन-समूहस् तत्राटनेन भ्रमणेन या श्रमजन्या कान्तिः शोभा सैवाम्रितस्यातिवर्या तया संसिक्तः सर्वजनानां नेत्र-रूप-चकोर-समूहो येन सः । वंशाः कलैर् मधुर-धनिभिराहृइता आकृइष्टा विघुणिता च युवतीनां श्रेणी येन सः । सः कृइष्णः सखिभिः सह घोषमविशत् ॥७९-८०॥

उद्गच्छन्ती व्रज-भुवि विश्वक्-पातैर्
वंशी-ध्वानामृत-मधुरासारैस् ताम् ।
संसिञ्चन्ती स्व-विरह-दावोच्छेत्री
कार्ष्णी शोचिर् जलधर-माला रेजे ॥८१॥

कार्ष्णौ कृइष्ण-सम्बन्धिनी शोचिः कान्तिः सैव जलधर-माला मेघमाला व्रजभुवि उद्गच्छन्ती उदयं प्राप्नुवन्ती रेजे । विश्वक्-पातैः सर्वपतनशीलैर् वंशी-द्व्हान-रूपामृइत-मधुरासारैर् मधुर-धारा-सम्पातैस् तां व्रज-भूमीं संसिञ्चयन्ती स्वस्य कृइष्णस्य विरह-रूपदावं दावाग्निं उच्छिनत्ती त्युच्छेत्री नाशकत्री ॥८१॥

श्री-कृष्णागम-भूपतेः सखि-चमू-शृङ्गादि-कोलाहलं
श्रुत्वोद्यत्-सुरभी-रजो-ध्वज-चयान् दूराद् विलोक्योद्विजन् ।
घोषात् तद्-विरहाख्य-दस्यु-नृपतिर् भीत्यापयातः क्षणाच्
चिन्ता-तानव-दीनताति-जडतार्त्य्-उद्वेग-सेनान्वितः ॥८२॥

श्रि-कृइष्णागमन-रूपराज्ञः सखिचमूनां सखि-रूपसेनानां शृइङ्गादिकोलाहलं श्रूत्वा दूरात् गोदूली-रूप-द्वज-समूत्तान् वीक्ष्य विरहाख्यो दस्यु-राज उद्विजन् उद्वेगं प्राप्नुवन् भीत्या चिन्तादिसेनान्वितः सन् क्षणादपयातः पलायितः ॥८२॥

वंशी-गानामृत-मुचि गवां धूली-जालाब्द-माले
हम्बा-राव-स्तनित-वलिते श्री-हरेर् आगमाख्ये ।
प्रावृट्-कालेऽभ्युदयति मुदा सर्वतश् चोन्मुखीयं
प्रोद्यत्-तृष्णा व्रज-जन-ततिश् चातकाल्य् अभ्युपेता ॥८३॥

कृइष्णस्यागमाख्ये वर्षाकाले अभ्युदयति सति तृइष्णा-अतिशययुता व्रज-जनचातक-श्रेणी अभ्युपेता निकटमागता । प्रावृइट्-साधर्म्यमाह । वंशीगानामृइतस्य मोचनं वर्षा यत्र तस्मिन् । धूली-समूहो मेघमाला यत्र तस्मिन् । गवां हम्बा-शब्दः स्तनितं मेघ-गर्जितं तेन युक्ते । स्तनितं गर्जितं मेघनिर्घोषे इत्यमरः ॥८३॥

व्रजेशो भ्रातृभिर् गोपैर् व्रजेशा सह यातृभिः ।
तूर्णं दूरात् समभ्येत्य तनयौ परिषस्वजे ॥८४॥

नन्दः भ्रातृइभिः गोपैः यशोदा यातृइभिर् नन्दस्य भ्रातृइ-पत्निः सह तनयौ परिषस्वजे ॥८४॥

त्यक्त्वा रसवतीं दासीः संरक्ष्य तद्-अवेक्षणे ।
रोहिण्य् अतुलयाभ्येत्य ननन्दालिङ्ग्य तौ सुतौ ॥८५॥

रोहिणी रसवतीं पाकशालां त्यक्त्वा अतुलया सहाभ्येत्य सुतावालिङ्ग्याननन्द । तस्या रसवत्या अवेक्षणे दासीः संरक्ष । अतुला नन्दस्य भ्रातृइ-पत्नी ॥८५॥

मुरली-नदनाद् उत्थित-मदना
गद्गद-गदना व्रज-विधु-वदनाः ।
सुशिखर-रदना श्लथित-च्छदना
ययुर् अपकदनाः सदनात् सदनात् ॥८६॥

व्रस्थाश् चन्द्र-वदनाः सदनात् सदनात् प्रति-सदनात् । ययुः । कीदृइश्यः । सुशिखरवत् सुपक्व-दाडिम-वीजाभमाणिक्यवत् रदना दन्ता यासां ताः । श्लथितानि छदनानि व्रस्त्राणि यासां ताः । अपगतानि कदनानि दुःखानि यासां ताः ॥८६॥

उदयति बत कृष्णे चित्र-भानौ पुरस्तात्
व्रज-वसति-जनानां फुल्लताक्ष्य्-उत्पलेऽभूत् ।
स्मित-कुमुद-विकाशः स्विन्नताङ्गेन्दु-कान्ते
विरह-दहन-तप्तं जीवनं शीतलं च ॥८७॥

वत हर्षे कृइष्णे चित्रभानौ आश्चर्य-सूर्ये उदयति सति व्रजे वसतिर् येषां तेषां जनानां नेत्रोत्पले फुल्लताभूत् । स्मित-रूप-कुमुदस्य विकाशोऽभूत् । अङ्गरूपा इन्दुकानमणौय् स्विन्नता घर्मोऽभूत् । जीवनं विरहाग्नितप्तं प्राणं जलञ्च शीतलमभूदित्यद्भुतं । सूयोदये एषां वैपरीत्यं भवेत् ॥८७॥

उदयति बत कृष्णे नित्य-पूर्णेऽद्भुतेन्दौ
व्रज-युवति-जनानां फुल्लम् आसीन् मुखाब्जम् ।
अरति-वियुति-चिन्ता-घूक-पाली निलीना
मिलति च तनु-कोकी-संहतिः प्राण-कोकैः ॥८८॥

अत्रापि चन्द्रोदये मुख-पद्मं पुल्लमासीत् । अरतिः पीडा विषुतिर् वियोगः चिन्ता च घुकपाली पेचक-श्रेणी सा विलीना आसीत् । तनुरूप-कोकीनां चक्रवाकीनां संहतिः समूहः प्राण-रूपकोकैश् चक्रवाकैः सह मिलैईत्यद्भूतं । चन्द्रोद्रये एषां वैपरीत्यदर्शनात् ॥८८॥

व्रजाङ्गन-दृक्-तृषितालि-माला
विलङ्घ्य लज्जा-प्रतिकूल-वात्याम् ।
समुच्छलत्-कान्ति-मरन्द-लुब्धा
पपात कृष्णस्य मुखारविन्दे ॥८९॥

व्रजाङ्गनानां नेत्रालिमाला लज्जा-रूप-प्रतिकुलवात्यां वायु-समूहं विलङ्घ्य समुच्छलत्कान्तिरूप-मधुनि लुव्धा कृइष्ण-मुखपद्मे पपात ॥८९॥

लतान्तराल-स्थित-बल्लवीनां
वक्त्राणि मत्वा विकचाम्बुजानि ।
ह्री-वात्यया बम्भ्रमितापि लुब्धा
पपात शौरेर् दृग्-अलि-द्वयीह ॥९०॥

हरेर् नेत्रादिद्वयी लतामध्यस्थानि गोपी-वक्त्राणि फुल्लाम्बुजानि मत्वा ह्री-वात्यया वम्भ्रमिता पुनः पुनः भ्रमितापि कान्तिनरन्द-लुव्धा इह गोपी-वक्त्र-पद्मे-पपात ॥९०॥

दर्शं दर्शं वदन-कमलं तद्-वपुः-सङ्गि-वातं
स्पर्शं स्पर्शं तनु-परिमलं श्री-हरेर् गोपिकाल्यः ।
घ्रायं घ्रायं तद्-अधर-मधु-स्फीत-वंशी-निनादं
स्वादं स्वादं पुपुषुर् अधिकं स्वानि पन्चेन्द्रियाणि ॥९१॥

गोपिकाल्यः श्री-हरेर् वदनकमलं दर्शं दृइष्ट्वा दृइष्ट्वा । तस्य हरेर् वपूयः सङ्गिवायुं स्पर्शं स्पर्शं हरेस् तनुपरिमलं घायं घ्रायं । तस्याधर-मधुना सह स्फीतवंशीनिनादं स्वदं स्वादं । स्वानि पञ्चेन्द्रियाणि पुपुषुः । वंशीनादास्वादेन मधुना रसनेन्द्रियं । द्वनिना कर्णेन्द्रियं ॥९१॥

श्री-राधिकापाङ्ग-विलोकनेषुणा
संस्पृष्ट-मर्मा स यथाकुलोऽभवत् ।
नान्याङ्गना-श्रेणि-कटाक्ष-पत्रिभिः
सम्भिन्न-सर्वावयवोऽप्य् असौ तथा ॥९२॥

स कृइष्णः राधिका-कटाक्ष-वाणेन संस्पृइष्ट मर्मा सन् यथा व्याकुलोऽभवत् । तथान्यनायिका-श्रेणी-कटाक्ष-वाणैर् नाकुलोऽभवत् । सम्भिन्न-सर्वावयव्ऽपीत्यनेन । अत्र मर्म-स्पर्श-कथनेन श्री-राधिका-प्रेमादेराधिक्यं वोध्यमेवमग्रेऽपि ॥९२॥

यद्वत् सुनिर्वृतिम् अवाप स राधिकाया
वक्त्रेन्दु-मन्द-हसितामृत-लेश-सेकात् ।
तद्वन् न गोप-सुदृशां वदनेन्दु-वृन्द-
प्रोद्यत्-स्मितामृत-झर-प्रकरावगाहात् ॥९३॥

स राधिका-स्मित-लोशसेकात् यद्-वत् सुनिर्वृइतिमानन्दमवाप । तद्वन्निर्वृइतिमन्य-गोपीनां स्मित-प्रवाह-समूह-स्नानादपि न प्राप ॥९३॥

गो-कुलैर् गोकुलं निन्ये गो-कुलं गो-कुलैर् हरन् ।
गो-कुलं गोकुल-स्त्रीणां गो-कुलैर् गोकुलेश्वरः ॥९४॥

गोकुलेश्वरः कृइष्णः गोकुलैः कान्तिसमूहैः गोकुल-स्त्रीणां गोकुलं नेत्र-समूहं हरन् गवां कुलैः हिही यमुना-कालिन्दीत्यादिवाक्यानां कुलैः गोकुलं धेनु-वृइन्दं गोकुलं गोष्ठं गोकुलैर् वलीवर्दैः सह निन्ये । गौर् नादित्ये वलीर् वदे किरण-क्रतुभेदयोः । स्त्रीतु स्यादिशि भारत्यां भूमौ तु सुरभावपि । नृइ-स्त्रियोः स्वर्ग-वज्राम्बु-रश्मि-दृइग्वाणलोमसु ॥९४॥

आसाद्याग्रे भविक-वलितं काननात् सम्मिलन्तं
प्राण-प्राणं निधिम् इव गतं दूरतो हस्तम् आप्तम् ।
चुम्बन्तौ तं हृदि निदधतौ लोकयन्तौ तद्-आस्यं
सञ्जिघ्रन्तौ शिरसि पितरौ प्रापतुर् वाञ्छितानि ॥९५॥

भविक-वलितं क्षेमयुतं । काननात् सम्प्राप्तं । प्राणानां । दूरतो दूरदेशे गतं निधिं ततो हस्तप्राप्तमिवाग्रे तं कृइष्णमासाद्य प्राप्य पितरौ तं चुम्बन्तौ । तं ह्रिदि निदधतौ । तदास्यं लोकयन्तौ । तच्छिरसि सञ्जिघ्रन्तौ वाञ्छितानि प्रापतुः ॥९५॥

गोधूलि-धूम्रान् अलकान् सबर्हकान्
वितुस्तयन्तौ वसनाञ्चलेन तौ ।
प्रक्षालयन्तौ स्तन-दृक्-पयः-स्रवैर्
अङ्गानि सूनोः पितरौ ननन्दतुः ॥९६॥

पितरौ सूनोः सर्वहकान् मयुर-पुच्छ-सहितान् अलकान् गोधूलिभिर्धुम्रान् द्भुम्र-वर्णान् वसनाञ्चलेन वितुस्तयन्तौ निदूर्लीकुर्वन्तौ । सुनोरङ्गानि पिता अश्रु-जलस्रवैर् माताऽश्रु-जल-स्तन-दुग्धस्रवैः प्रक्षालयन्तौ ननन्दतुः ॥९६॥

तातादि-लोकैर् मिलनं बकीरिपोः
प्रातर्वद् आसीद् अधुनापि किन्तु तत् ।
प्रातस्तनं तद्-विरह-क्लमोत्तरं
सायन्तनं संयुति-सम्मदोत्तरम् ॥९७॥

तातः पिता तदादिलोकैः वकरिपोः प्रातःकाल-वदधुनापि मिलनयसीत् प्रतस्तनः प्रातःकालभवं मिलनं तत्-तस्य कृइष्णस्य विरह-जन्यक्लमो दुःखं उत्तरकाले वनगमने यत्र तत् । सायन्तनं मिलनं संयुतिः संयोगस् तज्जन्यः सम्मदो हर्षः श्रि-कृइष्ण-लालन-भोजनादिजन्य उत्तरे उत्तरकाले यस्य तत् ॥९७॥

सङ्कलय्याथ गो-जालम् अस्ताचल इवांशुमान् ।
वलयामास गोशाले केशवः स्व-प्रवेशतः ॥९८॥

अंशुमान् सूर्यो यथा गोजालं किरण-समूहं सङ्कलय्याताचले प्रविशति । तथा केशवः गोशाले गोजालं गवां समूहं सङ्कलय्य स्वरवेशतः वलयामास प्रवेशयामास ॥९८॥

धेनूर् वस्कयनीर् वत्सतरीर् गृष्टीः परेष्टुकाः ।
सन्धिनीर् उपसर्याश् च प्रष्ठौहीश् च पृथक् पृथक् ॥९९॥
वृषान् वत्सतरान् षण्डान् युग्य-प्रासङ्ग-शाकटान् ।
यथास्थानं निवेश्यासौ पाययामास तर्णकान् ॥१००॥

असौ कृइष्णः धेनूः नव-प्रसुता गाः । वस्कयनीः चिर-प्रसूताः । शकृइत्-करिस्तु वत्सः स्याद्-वत्स-वत्सतरौ समौ स्त्री-लिङ्गत्वाद् ईप् । गृइष्टिरलौकिकी गौः स्यात् । परेष्टुका वहु-प्रसूता स्रवद्गर्भातु सन्धिनी । उपसर्या ॠतुमती प्रष्ठौही वालगर्व्भिणी । पृइथक् पृइथक् पुङ्गवभेदान् वृइषान् इत्यादि । युग्यः युगादीनां वोढार । प्रासङ्ग्यशाकटाः सकटवोडारः तान् यथास्थानं निवेश्य तर्णकान् पाययामास । सद्योजातस्तु तर्णकः ॥९९-१००॥

तल्-लालनायोत्सुक-मानसाभ्यां
यदा पितृभ्यां मुहुर् अर्थितोऽपि ।
नैच्छद् गृहं गन्तुम् असौ गवाली
दोहोत्सुकस् तं जनकस् तदाह ॥१०१॥

तत्-तस्य कृइष्णस्य लालनायोत्सुकाभ्यां पितृइभ्याम् अर्थितोऽपि कृइष्णो गृइहं गन्तुं यदा नैच्छत् तदा तं कृइष्णं जनको नन्द आह ॥१०१॥

विश्राम्यन्तु क्षणं गावः पिबन्तु तर्णकाः पयः ।
अहम् अत्रास्मि सन्त्य् एते गोपा गो-दोहनोत्सुकाः ॥१०२॥
वत्सौ श्रान्तौ युवां यातं गृहं मात्रात्र लालितौ ।
स्नानाद्यैः पुनर् आयातं गो-दोहाय गत-श्रमौ ॥१०३॥

हे वत्सु ! वूवां श्रान्तौ गृइहं यातं । स्नानादैर् मात्रा लालितौ गत-श्रमौ गोदोहनाय पुनरायातं ॥१०२-१०३॥

कृष्णं कर्षन् बटुः प्राह क्षुत्-तृड्भ्यां बाधिता वयम् ।
एहि कृष्ण गृहं प्राणान् रक्ष नः पान-भोजनैः ॥१०४॥

वटुः कृइष्ण-वाहुं गृइहीत्वा कर्ष्न्नाह वयं क्षुत्तृइड्भ्यां वाधिताः पान-भोजनैर् नोऽस्माकं प्राणान् वक्ष ॥१०४॥

आम्रेडितो वत्सलया बलाम्बया
मुहुर् व्रजेन्द्रेण कृताग्रहोत्करः ।
निजाम्बयाकृष्ट-करः सहाग्रजः
कृष्णः प्रतस्थे सखिभिर् निजालयम् ॥१०५॥

वलाम्बया रोहिण्या आम्रेडितो द्विस्त्रिरुक्तः । व्रजन्द्रेण कृइत आग्रह्याणाम् ऊत्करोऽतिशयो यत्र सः । जिराम्ब्या यशोदया-कृइष्ट्करः सहात्रजः कृइष्णः ॥१०५॥

सर्वान् नयन्तीं स्व-गृहं व्रजेश्वरीं
सम्प्रार्थ्य मार्गे सखि-मातरो हरेः ।
त्यागेऽप्य् अनीशाः स्वयम् अप्य् अनीश्वरं
स्व-स्वात्मजं निन्युर् अहो निजालयम् ॥१०६॥

सखीनां मातरः सर्वान् कृइष्ण-सखीन् स्वगृइहं नयन्तीं व्रजेश्वरीं मार्गे सम्प्रार्थ्य स्वस्वात्मजं निजालयं निन्युः । कीदृइशा अपि । तस्मात् व्रएश्वर्याः गृइहान्नेतुमणीषा असमर्था अपि । अहो इति विष्मये आत्मजं कीदृइशं हरेस् त्यागेऽनीश्वरम् अपि ॥१०६॥

गृहे व्रजेशया नीते स-बटौ स-बले हरौ ।
बलाम्बातुलया धौत-पादा रसवतीं ययौ ॥१०७॥

सवटो रामे हरौ गृइहे नीते । अतुलया सह वलस्याम्बा माता रेहिणी रसवतीं ययौ ॥१०७॥

शमित-विरह-तापालोकनाद् गोकुलेन्दोर्
विहित-तद्-अनुयाना आ-व्रजान्तः प्रहृष्टाः ।
तद्-अवकलन-विच्छेदार्ति-संविग्न-चित्ता
निज-निज-भवनं श्री-राधिकाद्याः समीयुः ॥१०८॥

कृइष्णस्य अवकलनादवलोकनात् शमित-विरहतापाः । विहितं कृइतं तत्-तस्य कृइष्ण्स्यानु पश्चात् यानं गमनं याभिस् ताः व्रज-मध्य-पर्यन्तं प्रविष्टाः पश्चात् प्रह्रिष्टाः ।तदनन्तरं कृइआष्ण-दर्शन-विच्छेदार्त्या संविग्न-चित्ताः राधाद्याः निज-निज-गृइहं समीयुः ॥१०८॥

सुतस्यापूत्राणां बहु-कनक-वृष्टेर् अधनिनां
महा-वृष्टेर् दावानल-वलित-वन्या-स्थिति-युषाम् ।
यथाकस्माल् लब्धिर् भवति परमानन्द-जननी
तथा घोष-स्थानां पुनर् अपि हरेः सङ्गतिर् अभूत् ॥१०९॥

अपुत्राणां सुतस्य लवधिः । अधनिनां अकस्मात् कनक-वृइष्टेः कनक-लव्धिः । दावाग्नि-वेष्टित-वन-समूहस्थितानां अकस्मान्नह-वृइष्टेर् लव्धिर् यथा महानन्द-जननी । तथा घोषस्थानां हरेः सङ्गतिः प्राप्तिः परमानन्द-जननी अभूत् । इयं मालापमा । मालोपमा यदेकस्योपमानं वहु दृइश्यते । इति लक्षणात् ॥१०९॥

इति श्री-गोविन्द-लीलामृइतस्यापराह्न-लीलायुतोनविंशति सर्गस्य टीकापूणाभूत् ॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽसाव् अपराह्न-केलि-वलितोऽगाद् ऊनविंशाभिधः ॥

॥१९॥

(२०)