अष्टदशः सर्गः
अथ प्रीतेश्वरी कीरम् आदाय वत्सला करे ।
अपाठयल् लालयन्ती तद्वत् कृष्णश् च शारिकाम् ॥१॥
अथ ईश्वरी राधा प्रीता सती, वत्सला स्नेह-युक्ता च सती, कीरं करे आदाय लालयन्ती अपाठयत् । तद्वत् कृष्णश् च शारी करे ग्रिहीत्वा अपाठयत् ॥१॥
स्तुहि कीराभीर-वीरं नीरदाभ-शरीरभम् ।
गिरीन्द्र-धारिणं धीरं सरस्-तीर-कुटीरगम् ॥२॥
हे कीर आभीरवीरं स्तुहि । कीद्रिशं । नीरदो मेघस् तत्तुल्या शरीरस्य भा कान्तिर् यस्य तं अनेन वर्णगत सौन्दर्यमुक्तं । गोवर्धनधारिणमनेन व्रजरक्षकत्वं । प्रायो वीररता स्त्रियः इति प्रमाणात् । स्वस्य प्रीतिविषयमत आदौ आभीरवीरमिति विशेष्यपदं दत्तं । तत्रापि धीरं । सरसो मम कुण्डस्य तीरे यः कुटीरः कुञ्जकुटीरस् तत्र गतं ॥२॥
वद शुक सद्-गुण-मणि-निकराकर
तरुणी-मादक-मधु-मधुराधर ।
सुन्दर-शेखर शुचि-रस-सागर
व्रज-कुल-नन्दन जय वर नागर ॥३॥
हे शुक ! त्वं वद । किं तदाह, हे सद्गुणरूपमणिनां निकरस्य समूहस्याकर उत्पादक आश्रय । तरुणीनां मादको मधुतोऽपि मधुरोऽधरो यस्य हे तथाभूत । हे सुन्दरेषु शेखर श्रेष्ठ ! हे शुचिरसस्य सागर ! हे वरनागर ! त्वं जय सर्वोत्कर्षेण वर्त्तस्व ॥३॥
अघ-बक-शकटक-दव-भय-हरण
नव-दल-कमलज-मद-हर-चरण ।
चरण-जलज-नत-जन-चय-शरण
पठ खग जय जय धर-वर-धरण ॥४॥
हे शुक ! त्वं वद । किं तदाह, हे सद्गुणरूपमणिनां निकरस्य समूहस्याकर उत्पादक आश्रय । तरुणीनां मादको मधुतोऽपि मधुरोऽधरो यस्य हे तथाभूत । हे सुन्दरेषु शेखर श्रेष्ठ ! हे शुचिरसस्य सागर ! हे वरनागर ! त्वं जय सर्वोत्कर्षेण वर्त्तस्व ॥३॥
**मञ्जुल-कल-मञ्जीरं
गुण-गम्भीरं सुरारि-रणगं वीरम् ।
गिरि-वर-धारण-धीरं
भण धृत-हीरं हरिं कीर ॥५॥ **
(भाषा-समावेशः)
मुञ्जुलो मनोञ्जः कलो मधुरास्फुटो ध्वनि स्तेन युतौ मञ्जीरौ पादकटकौ यस्य तं । गुणगम्भीरं असुररणे वीरं । गिरिवरस्य धारणे धीरं, ध्रितं हीरं येन तं हरिं हे कीर भण । भाषासमावेषस् तु राधया हे कीरत्वमाभीरवीरं स्तुहि इत्युक्तेः । व्रिन्द्या शुकं सम्बोध्य यथा पाढयामास ततैव स्वस्य सम्बोधन सहितं वद शुक इत्यादिकं पपाठ ॥५॥
**कालिन्दी-जल-कल्लोल-विहार-वर-वारणम् ।
रमणी-करिणी-सङ्गं गिरि-कन्दर-मन्दिरम् ॥६॥
विलास-लहरी-सिन्धुं चपलोदार-कुण्डलम् ।
कीर चिन्तय गोविन्दं सरसं भासुराङ्गदम् ॥७॥ **
(युग्मकं भाषा-समावेशः)
हे कीर ! गोविन्दं चिन्तय इति परश्लोकेनान्वयः । कालिन्दीजलकल्लल विहारे वारणं गजं । करिणी हस्तिनी सङ्गे यस्य तं विलासरूपलऽर्या सिन्धुं अनन्तविलासोत्पादकं । भासुरं प्रकाशवहुलमङ्गदं वाहुभूषणं यस्य तं । इदं युग्मकं पूर्ववत् । भाषा-समकं । श्लाघ्यत्वेन भवेद् योग्यो यदि योगस् तदा समः । अत्र कालिन्दीत्य्-आदिना योग्या योगः समः ॥६-७॥
स्तुहि सारि मनोहारि वारिजालि-जिदाननाम् ।
जगन्-नारी-गर्व्-हारि-गुणोदारां मम प्रियाम् ॥८॥
श्री-राधिकावत् श्री-कृष्णोऽपि श्री-राधिका सद्-गुण-सौन्दर्यादिकम् आस्वादयितुं सारीम् अपाठयत् । हे सारि ! मम प्रियां स्तुहि । मनोहारि मनोहरण-शीलं वारि-जालिं कमल-चन्द्र-श्रेणीं जयतीति जित् आननं यस्यास् तां ॥८॥
नागरि नगधर-नागर-हृदय-मरालि असि राधिके धन्या ।
त्रिजगत्-तरुणी-श्रेणी कलासु शिष्यायते यत् ते ॥९॥
हे नागरि ! हे राधिके ! असि त्वं धन्या प्रशस्या । नगधर-नागरस्य कृइष्णस्य हृइदय-सरोवरे हे मरालि हंसि ! हंसीति हंसी-वाचर-सीत्यर्थः । यद्-यस्मात् कलासु काम-कलासु त्रिजगत्-तरुणी-श्रेणी ते तव शिष्य-वाचरति शिष्यायते । अत्रे मरालिति कर्तृइवाचि-दीर्घेकारस्य सम्बोधने विकल्प-विधिना ह्रस्वे कृइते न सन्धिः । क्वचित् सन्धेर् अनित्यत्वात् ॥९॥
गुण-मणि-खनिर् उद्यत्-प्रेम-सम्पत्-सुधाब्धिस्
त्रिभुवन-वर-साध्वी-वृन्द-वन्द्येहित-श्रीः ।
भुवन-महित-वृन्दारण्य-राजाधि-राज्ञी
विलसति किल सा श्री-राधिकेह स्वयं श्रीः ॥१०॥
गुणमणेः खनिरुत्पादिका पूर्णा । उद्यत्-प्रेम-सम्पद एव सुधास् तासां निधिः समुद्रश् चन्द्रो वा त्रिभुवनस्थ-साद्वी-वृइन्दैर्-वन्द्यं ईहितं श्रीः शोभा च यस्याः सा भूवनेषु महितं पूज्यं वृइन्दारण्यं तद्राज्येऽधिराज्ञी । सा श्री-राधिका स्वयं श्रीर्-लक्ष्म्या अंशिनी इह विलसति ॥१०॥
सल्-लक्षणैः सद्-गुण-सञ्चयैः परैर्
अनन्यगैः सत्-प्रणयैश् च निर्मलैः ।
वशं विधायाजितम् अप्य् अनेन या
लसत्य् अटव्याम् इह सा स्वयं रमा ॥११॥
सल्लक्षणैः सद्-गुण-समूहैश् च । कीदृइशैः । परैः सर्वोत्कर्षैः निर्मलैः सत्-प्रणयैश् चाजितं कृइष्णं वशं विधाय अनेनाजितेन सह इहाटव्यां या लसति सा स्वयं रमा अन्या तु रमा । यथा श्री-भागवते । कृइणस्तु भगवान् स्वयं । ब्रह्म-संहितायां । रामादि-मूर्तिषु कला-नियमेन तिष्ठन्, नानावतारम् अकरोद्भुवनेषु किन्तु । कृइष्णः स्वयं समभवत् परमः पुमान् यो, गोबिन्दमादि पुरुषं तमहं भजामि इत्यादि प्रमाणात् । यथा स्वयं भगवान् कृइष्णस् तथैव तत्रैव श्रियः कान्ताः कान्त इत्यनेन कान्ताः सर्वाः व्रज-सुन्दर्यः श्रियः लक्ष्मी-रूपाः । सा राधा स्वयं रमा स्वयं लक्ष्मीः । अथर्व-वेदस्य पुरुष-सूक्तौ सप्तम-प्रपाठके । गोकुलाख्ये मथुरा-मण्डले वृइन्दावन मध्ये कल्पतरोर् मूले अष्टदल-केशरे गोविन्दोऽपि श्यामः पीताम्बर-धरो द्विभुजो-मयुर-पुच्छ-शिरोवेनु-वेत्र-हस्तो निर्गुणः सगुणो निराकारः साकारो निरिहः सचेष्टो विराजत इति । द्वे पार्श्वे चन्द्रावली राधिका चेति । यस्यंशे लक्ष्मी दुर्गा विजयादि-श्क्ति रिति ॥११॥
**धराधर-धरं धीरं धरोद्धार-धुरन्धरम् ।
धारं धारं रुरोधारं राधा धीराधरेऽधरम् ॥१२॥ **
(द्व्य्-अक्षरम्)
धीरा राधा अधरे अर्थात् कृष्णस्याधरे अधरं धारा धृइत्वा धरा-धर-धरं गोवर्धन-धरं धरो-धारे गोवर्धनोधारे धुरन्धरं दक्षं कृइष्णं अधरं शीघ्रं रलयोः सावर्ण्या-दलम् अतिशयं वा रुरोध । धका-रकाराक्षराद्यं पद्यम् इदं द्व्यक्षरं ॥१२॥
**तीरे तीरे तत-तरौ तैर् आरात् तैत्तिरी-ततिः ।
रीत्य्-अतीते रुतैर् अत्र तारै रातितरां रतिम् ॥१३॥ **
(द्व्य्-अक्षरम्)
अत्रारान्निकटे तीरे तीरे यमुनादीनां तट्टवर्ति-भूमौ, कीदृइशे? तताः विस्तृइताष्-तरवो वृइक्षा यत्र तत्र । रीत्यतीते रीतिर् नयस्-तस्या अतीते । अत्र वृइन्दावने तैतिरीततिः तितिराख्य-प्क्षि-श्रेणी तैः प्रसिधैस्-तारै रुच्चैः रुतैः श्ब्दैः रतिं रातितराम् अतिशयेन राति ददाति । अत्र तकार-रकार-द्व्यक्षरं ॥१३॥
अथोड्डीयापतत् सारी स्वेश्वर्याः पाणि-पल्लवे ।
शुकोऽपीशस्य ताव् एतौ मुदापीपठतां पुनः ॥१४॥
सारी स्वेश्वर्या राधायाः शुकोऽपीशस्य कृइष्णस्य पाणि-पल्लवे उड्डीयापतत् । तौ सारी-शुकौ एतौ राधा-कृइष्णौ पुनर्-अपीपठतां पाठयामासतुः ॥१४॥
**लीलालिम् आलि भण सारि पटीर-हीर-
कुन्देन्दु-चन्द्र-करका-विमलाम् अघारेः ।
रोलम्ब-नीरद-तमाल-समाङ्ग-भासः
सम्फुल्ल-सारस-मरन्द-रसातिमञ्जुम् ॥१५॥ **
(समकम्)
हे सारि ! हे आलि ! भ्रमर-मेघ-तमाल-समाङ्ग-कान्तेर्-अघारेर्-लीलालिं भण । कीदृइशीं । पटीरश्-चन्दनं हीरः कुन्दपुष्पं इन्दुश्-चन्द्रः चन्द्रः कर्पुरः । करका वर्षोपलः, एतेभ्यो विमलां शीतलां चेत्युह्यं । सम्फुल्ल-पद्मस्य मकरन्द-रसादति-मनोज्ञाः मधुरां । पूर्ववत् समकं ॥१५॥
गोकुलेन्दोर् नरीनर्ति कीर्तिर् यस्या गुणैर् घुणैः ।
जर्जरीक्रियते विश्व-नारी-हृद्-वंश-सन्ततिः ॥१६॥
गोकुलेन्दोः कीर्तिर् नरीनर्ति पुनः पुनर् अतिशयेन वा नृइत्यति । इत्य-समस्त-रूपकं । अर्थात् गुणा एव घुणाः कीट-विशेषास्-तैः । कीदृइशी ? यस्याः कीर्तेर्-गुणैर् विश्व-नारीणां ह्रद्-रूपा वंशस्य सन्ततिः श्रेणी जर्जरी-क्रियते ॥१६॥
**सरारि-सारसैः सारैः सरसं सारसै रसैः ।
सोऽसुरारिः ससारारं सारि रास-रसी सरः ॥१७॥ **
(द्व्य्-अक्षरम्)
हे सारि ! रासे रस-ससमूहे रास-विलासे वा रासोऽस्यास्तीति रासरसी सोऽसुरारिः कृइष्णः अरं शीघ्रं सरो राधा-कुण्डं ससार जगाम । कीदृइशं सरः सारैः श्रेष्टैः सरार्योरलयोः सावर्ण्यात् सराल्यस्-ताश् च ते तैः पक्षि-विशेषैः सारसैः पद्मैः रसैर्-जलैः सरसं । अत्र च अप्यभावो न्युनपदत्वं सकार-रकाराभ्यां द्व्यक्षरं ॥१७॥
एतेऽदुः शील-वनिता मुरली-ध्वनयो रतिम् ।[^४]
**नीवी-विस्रंसनाद् यस्य गोपीभ्यः सारि तं स्तुहि ॥१८॥ **
(क्रिया-गुप्तकम्)
यस्य एते शीलवनिताः शिलयुताः मूर्ली-ध्वनयः नीवी-विस्रंसनात् परिहित-वस्त्रस्य वन्ध-विमोचनात् गोपीभ्योऽरतिं पीडां किम्बा नीवी-विस्रंसनं कृइत्वा रतिं कृइष्ण-सङ्ग-कृइडां अदुर्दत्त-वन्तः । ल्यव् लोपे पञ्चमी । तं स्तुहि । अदुरिति कृइयाया गोपनात् दुःशील-वनिता इति ज्ञानात् कृइया-गुप्तकं ॥१८॥
**मा धवस्य पुरो-नासां साध्वीनां गोप-सुभ्रुवाम् ।
राजते वदने तन्वाम् अपि स्व-प्रिय-चेतसाम् ॥१९॥ **
(कर्तृ-गुप्तकम्)
स्वस्य प्रिये कृइष्णे चेतो यासां तासामासां साध्वीनां गोपसुभ्रुवां पुरोऽग्रे धवस्य । जातावेकवचनं । धवानां पतीनां वदने तन्वाम् अपि मा लक्ष्मीः शोभा न राजते एतास् तान् सुन्दरं न पश्यन्तीत्यर्थः । यत कृइष्ण-चेतसः कृइष्ण-प्रियाः साध्व्यः कृइष्णैकनिष्ठाः । अत्र मा इति कर्तृइपदं गुप्तं । माधवस्येति वोधात् ॥१९॥
**गम्भीर-नीर-कण-हारि-सरोज-राजि-
सञ्चारि-मञ्जुल-समीर-विलास-लोले ।
दोला-विलास-सरसां सरसी-कुटीरे
गोविन्द-केलि-रमणीं भण कीर धीराम् ॥२०॥ **
(समकम्)
गम्भीर-नीरस्य कणहारी सरोज-राजिसु सञ्चरो भ्रमणं यस्य तथाभूतो मञ्जुलः । एवम्भूतस्य समीरस्य मान्द्यशैत्य-सौगन्ध्य-युक्तस्य वायोर् विलसेन लोले सरसी-कुटीरे दोला-विलास-सरसां गोविन्द-केलि-रमणीं धीरां राधां हे कीर ! त्वं भण । पूर्ववत् गम्भीरे-त्यादिना श्लाघ्यो योगोऽत्र समः समकं ॥२०॥
**साकं सखीभिर् आगत्य काननेऽस्मिन् दिने दिने ।
उत्काप्य् उत्काय मे राति राधा वामतया बत ॥२१॥ **
(कर्म-गुप्तकम्)
सा पूर्व-श्लोकोक्ता राधा दिने दिने प्रति-दिवसे अस्मिन् वने सखीभिः सहागत्य उत्का उत्कण्डितापि वाम्यतया वाम्येन उत्कारोत्-कण्ठिताय मे मह्यं कं सुखं, न कं अकं दुखं वा राति ददादि । वत खेदे । अत्र साकम् इति कर्मपदं गुप्तं ॥२१॥
**त्वया श्री-राधिके यावत् सञ्चुचुम्बे मयाननम् ।
तत् तयोष्ठाधरौ तावत् पिपासति निरन्तरम् ॥२२॥ **
(सम्बन्ध-गुप्तकम्)
हे राधिके ! त्वया यावत् मे आननं सञ्चूचुम्बे तावत् मे तदाननं ते ओष्टा धरौ पातुम् इच्छति । मयननं तयोष्ठा-धरावित्यत्र मे अग्रे आननं मयाननं । ते अग्रे ओष्ठाधरौ तयोष्ठाधरावित्यत्र स्थाने मे इति ते इति ते इति च पदयोरेकारस्य अयादेशात् मे ते इति सम्बन्ध-वोधक-शब्दस्या-ज्ञानात् सम्बन्ध-गुप्तकं ॥२२॥
**मयि मनसिज-लोले राधिकां स्प्रष्टुम् उत्के
श्रवण-नयन-शन्दे सुष्ठु वाम-स्वभावाः ।
हृदि विधृत-मदीहा-वर्धके तद्-वयस्याः
सतत-मधुर-मिष्टे भाषितालोकिते ते ॥२३॥ **
(क्रिया-गुप्तकम्)
सुष्ठुवाम् अस्वभावाः । तत्-तस्या राधायाः वयस्याः सख्यः । मनसिजलोले राधिकां म्प्रष्टुमुत्के उत्कण्ठिते मयि । ते प्रसिधे भाषितालोकिते वचन-दर्शने अधुर्-दधुः । कीदृइशे । ये श्रवण-नयनयोः शन्दे सुखदे । हृइदि विधृइते च ते मदीहा-वर्धके च । सततं सदा अमिष्टे मिष्टता-रहिते कठोरे । किम्बा न मिष्टे याभ्यां ते । अधुरिति कृइयापदं गुप्तं ॥२३॥
द्राक्षा-दाडिम-बीजानि वृन्दयोपहृतान्य् अथ ।
एताव् आदाय ताम् ईशौ स्व-हस्तेनातिवत्सलौ ॥२४॥
एतौ सारी-शुकौ । ईशौ द्राक्षा-दाडिम-विजानि स्वहस्तेनादाय तां ॥२४॥
ततः सारी-कीर-पाली द्यूत-केलीच्छयेरितौ ।
ययतुस् तौ हरित्-कुञ्जं सुदेवी-सुखदाभिधम् ॥२५॥
ततो द्यूत-केलीच्छया प्रेरितौ राधा-कृइष्णौ सारी-किरौ पालयत इति सारी-कीरपाली सन्तौ । सारी-कीरपाली इति वा पाठः । सुदेवी-सुखदाभिधं हरित्कुञ्जं ययतुः ॥२५॥
आसने पाशक-क्रीडा-कोष्ठ-चित्रान्तरे हरिः ।
निषषादैकतः स्वीयैः स-सखी राधिकान्यतः ॥२६॥
पाशक-कृईडा-कोष्ठैश् चित्रमन्तरं मध्यं यस्य तत्र आसने एकत एकदेशे स्वीयैः सुवल-मधुमङ्गलादिभिः सह हरिः । अन्यतः ससखी राधिका निषषाद उपविवेश ॥२६॥
हित-दायोपदेष्टाराव् अभूतां ललिता-बटू ।
सुदेवी-सुबलौ पार्श्वे परिणाय-विधायिनौ ॥२७॥
हितदयचलन-समये एवं एवं कुरु इत्युपदेष्टारौ । राधायां ललिता कृइष्णस्य । वटुर् अभूतां । एवं राधायां सुदेवी कृइष्णस्य सुवलः पार्श्वे परिणाय-विधायिना-वभूतां । परिणायः शारीचालनं ॥२७॥
नान्दी-वृन्दे च मध्य-स्थे कुन्दाली सभिकाभवत् ।
जगृहेऽष्टापदान् श्यामानीशा पीतांस् तदेश्वरः ॥२८॥
हितदयचलन-समये एवं एवं कुरु इत्युपदेष्टारौ । राधायां ललिता कृइष्णस्य । वटुर् अभूतां । एवं राधायां सुदेवी कृइष्णस्य सुवलः पार्श्वे परिणाय-विधायिना-वभूतां । परिणायः शारीचालनं ॥२७॥
प्रवृत्ते प्रथमे द्यूते सुरङ्ग-रङ्गिनी-ग्लहे ।
कृष्णोऽजयत् प्रफुल्लः सन् मृगीं बद्ध्वानयद् बटुः ॥२९॥
प्रथमे द्यूत-कृईडायां राधा-कृइष्णयोः सुरङ्ग-रङ्गिण्यौ मृइग-मृइग्यौ ग्लहौ देयौ पराजयौ तत्र तस्मिन् कृइष्णोऽजयत् । प्रफुल्लो वटुर् मृइगीं वध्वा अनयत् ॥२९॥
द्वितीये त्व् अजयत् कान्ता मुरली-पाविका-ग्लहे ।
आच्छिद्य जगृहे वंशीं ललिता कृष्ण-निह्नुताम् ॥३०॥
मुरली पाविका वेणुश् च देयौ यत्र तस्मिन् । ललिता वंशीं कृइष्ण-निह्नुता-माच्छिद्य वलादाकृइष्य जगृइहे ॥३०॥
द्वयोर् हार-ग्लहे वृत्ते तृतीये कैतवे बटुः ।
परिणायेऽवदत् कृष्ण सारीं तां मारयैकिकाम् ॥३१॥
द्वयो राधा-कृइष्णयोः हारौ ग्लहौ यत्र तृइतीये वृइत्ते याते । कपटे परिणाये चालन-विषये वटुर् अवदत् । हे कृइष्ण तामेकिकां शारिकां मारय ॥३१॥
तच् छ्रुत्वा सारिका भीता कलोक्तिः काकु-भाषिणी ।
उड्डीयागाद् अग्र-शाखां जहास कौतुकात् सभा ॥३२॥
तच्छ्रुत्वा शारी-पदेन स्वस्या मारणं ज्ञात्वा कलोक्तिः काकु-भाषिणी शोकभी-त्यादिभिर् ध्वनेर् विकारः काकुस् तद्युग्-भाषिणी । शारिका भीता सती उड्डीय वृइक्षस्य शाखाग्रे अगात् । सभा तत्र्स्था सर्वा जहास ॥३२॥
हास-कोलाहले वृत्ते कैतवे कैतवी हरिः ।
हीन-दायेऽपि तां सारीं हत्वा प्राह जितं मया ॥३३॥
हासजन्य-कोलाहले जाते कैतवे छले कैतवी हरिर् हीनदानेऽपि शारी-मारक-दानस्य पाशक-पतनस्याभावेऽपि शारीं हत्वा मया जितमित्याह ॥३३॥
तावद् ईशाभीष्ट-दाये पतितेऽष्टापदान् हरेः ।
बन्धान् कृत्वा स्व-सारीभिर् हसन्त्य् आह मया जितम् ॥३४॥
तावत् ईशा श्री-राधा स्वाभीष्टदाये पतिते स्वस्याः सारीभिः सह हरेर् अष्टापादन् वधान् कृइत्वा हसन्ती मया जितमित्याह ॥३४॥
मिथो हार-हृताव् आसीत् तयोर् युद्धं कराकरि ।
बटुना कुन्दवल्ल्या च वयस्यानां वदावदि ॥३५॥
तयो-राधा-कृइष्णयोर् मिथः परस्परं हार-हृइतौ हारहोर् हरण्-विषये कराकरि करेण करेण वृइत्तं युद्धमासीत् । वटुना कृइष्ण-पक्ष-पातिन्या कुन्द्वल्याद स वयस्यानां राधा-सखीनां वदावदि पूर्ववद् वाग्-युद्धमासीत् ॥३५॥
मध्यस्थे नान्दिका-वृन्दे पृष्टे सर्वैस् तदोचतुः ।
आवाभ्याम् अन्य-चित्ताभ्यां न सम्यग् अवधारितम् ॥३६॥
साम्यम् आस्तां द्वयोर् एव जयो वाथ पराजयः ।
हारोऽस्तु युवयोः कण्ठे पुनर् द्यूतं प्रवर्तताम् ॥३७॥
सर्वैः पृइष्टे मध्यस्थे नान्दी-मुखीवृइन्दे उचतुः । आवाभाम् अन्य-चित्ताभ्यां सम्यक् न श्रुतं ॥३६-३७॥
**वयस्याली-ग्लहे द्यूते चतुर्थे राधिका-जये ।
प्राप्ते सारीर् अदायेऽपि चालयन् शङ्कितो बटुः ॥३८॥
जितं जितं न इत्य् उक्त्वा द्वयोः सारीर् अमिश्रयत् ।
बन्धुं तम् उद्यद्-आलीनां तेनासीत् सुमहान् कलिः ॥३९॥ **
(युग्मकम्)
वस्यस्यः सखा आली सखी च तौ ग्लहौ पणौ यत्र तस्मिन् चतुर्थे द्यूते । राधिकाया जये प्राप्ते । ग्लहे स्वस्य ग्रहणभिया शङ्कितो वटुः । अदायेऽपि पाशके यन्न पतितं तत् पतितम् उक्त्वा अनधिकारेऽपि चतुर्येण वलात् शारीश् चालयन् सन् । नोऽस्माभिर् जितं जितमित्युक्त्वा द्वयोः राधा-कृइष्नयोः शाऋईर-मिश्रयदेकत्रस्थम् अकरोत् । तं वटुं वन्धुं वद्धं कर्तुं उधदालीनां तेन वटुना सह सुमहान् कलहोऽभूत् ॥३८-३९॥
ईशाम् ईशोऽब्रवीत् सारी-चालनेऽत्र भवेत् कलिः ।
शार्यास् तिष्ठन्त्य् अक्ष-दायैर् दाय-द्यूतं प्रवर्तताम् ॥४०॥
ईशः कृइष्णः ईशां राधाम् अव्रवीत् । शारीचालने कलिर् भवेत् । शार्यस् तिष्टन्तु शार्याश् चलनं मा कुरु अत्र दायैः अक्षस्थ-छ्नान्येव दायास् तैरेव दायद्यूतं । आदान-प्रदान-रुपदायस्य द्यूतं कृईडां प्रवर्ततां ॥४०॥
त्वया मया वा क्षिप्तेऽक्षे दायैर् एव जयाजयौ ।
दाया द्यूते दशैव स्युश् चत्वारस् तत्र ते समाः ॥४१॥
त्वा वा अक्षे क्षिप्ते मया वाक्षे क्षिप्ते दायैरेव अक्षगत-चिह्नैरेव जया-जयौ स्यातां । द्यूते दायाः दशैव स्युः । अत्र दश-दाय-मध्ये समाश् चत्वारो दायास्ते तव ॥४१॥
विषमा षट् तेषु पञ्च सवामञ्चाः समास् तव ।
भवन्तु जय-दायेऽन्ये विषमाः पञ्च ते मम ॥४२॥
दाया विषमाः षट् तेषु षट्सु मध्ये वामञ्च-सज्ञो यो दायस्तेन सह सवामञ्चाश् चत्वारः समा मिलित्वा पञ्च तव जयदा भवन्तु । अन्ये विषमास्ते दाया पञ्च मम जयदा भवन्तु कृइत-द्यूत-कृईडायां अक्षपाते सति वामञ्चा चौराचा द्वितीया इत्यादयो दश-सञ्ज्ञा भवनि । प्रसिद्धा च । तृइतीयापाते यथा पञ्चदशादायः सञ्ज्ञाः ॥४२॥
दाय-सङ्ख्यानि तत्-सङ्ख्यैर् अङ्गान्य् अङ्गैर् द्वयोर् हि नौ ।
जये सति प्रगृह्यन्ताम् इत्य् अयं विहितो ग्लहः ॥४३॥
द्वयोर् नौ आवयोर् मध्ये एकस्य जये सति । जत्रा पराजितस्य दाय-सङ्ख्यान्यङ्गानि तत्-सङ्ख्यैः दाय-सङ्ख्यैः स्वस्याङैः प्रगृइह्यन्तां ॥४३॥
अतोऽक्षे राधिका-क्षिप्ते दशाख्यो दाय आपतत् ।
जहसुर् मुदिताः सख्यः स विषण्ण इवाह ताम् ॥४४॥
दशाख्यो दायः दशाङ्ग-ग्रहणदायोऽपतत् । राधिकाया जयात् सख्ये जहसुः । स कृइष्णः विषण्ण इव न तु विषण्ण्स्तां राधामाह ॥४४॥
बाहु-वक्षः-कराव् औष्ठाधरौ गण्डौ मुखं मम ।
अङ्गान्य् एतानि गृह्णन्तु तत्-तद्-अङ्गानि ते दश ॥४५॥
किमाह । हे राधे ! मम वाह्वादि-दशाङ्गान्येतानि ते तद्वाह्वादि दशाङ्गानि गृइह्नुन्तु ॥४५॥
राधा कुन्दलताम् आह सभिके कुन्द-वल्लिके ।
अङ्गानि मज्जितान्य् अस्य स्वाङ्गेषु स्थापयात्मनः ॥४६॥
हे सभिके कुन्द्-वल्लिके अस्य मया जितान्यङ्गानि आत्मनः स्वस्याः स्वाङ्गेषु स्वेषु अङ्गेषु वान्यर्वाह्वोर् मुखं मुखे एवं तानि स्वस्मिन्न्ङ्गे स्थापयेत्यर्थः ॥४६॥
क्षिप्तेऽक्षे हरिणा तावच् चतुःपञ्चाख्य आपतत् ।
दायस् तेनातिसम्फुल्लं कुन्दवल्ली जगाद तम् ॥४७॥
हरिणा अक्षे क्षिप्ते सति चतुर्भिः स पञ्चाख्यो नवसङ्ख्यो दायोऽपतत् । तेनातिसम्फुल्लं तं कृइष्णं कुन्दवल्ली जगाद ॥४७॥
नयन-युग-कपोलं दन्त-वासो मुखान्तं
स्तन-युगल-ललाटे इत्थम् अस्या नवाङ्गीम् ।
कथम् अपि जल-लेशे गर्वितायाः सखीनां
पुरत इह बलात् त्वं स्वाधरेणाहराशु ॥४८॥
कथम् अपि जयलेशे गर्वितायाः राधायाः नयन-युगं च कपोलौ चैषां समाहारओ नयन-युग-कपोलं, इति चत्वारि मुखमन्ते यस्य दद्न्त्वासः इति द्वे, स्तन-युगलञ्च ललाटञ्च इति त्रीणि । एवं नवङ्गानि एवं समाहारे सङ्ख्या पूर्वत्वात् द्विगुत्वे ङीप् । नवाङ्गीं स्वाधरेणाशु सखीनामग्रे वलात्वमाहर ॥४८॥
ललिताह हरे यानि तवाङ्गानि दशानया ।
कौन्द्यां धृतानि तान्य् अस्याः स्वाधरेणाहराग्रतः ॥४९॥
कथम् अपि जयलेशे गर्वितायाः राधायाः नयन-युगं च कपोलौ चैषां समाहारओ नयन-युग-कपोलं, इति चत्वारि मुखमन्ते यस्य दद्न्त्वासः इति द्वे, स्तन-युगलञ्च ललाटञ्च इति त्रीणि । एवं नवङ्गानि एवं समाहारे सङ्ख्या पूर्वत्वात् द्विगुत्वे ङीप् । नवाङ्गीं स्वाधरेणाशु सखीनामग्रे वलात्वमाहर ॥४८॥
कौन्द्य् अब्रवीन् मया तानि ललिता-सव्य-गण्डके ।
धृतान्य् अस्माद् गृहाणेति सोऽभूत् तच्-चुम्बनोन्मुखः ॥५०॥
तानि दशाङ्गानि ललितायाः सव्ये गण्डे मया दृइतानि अस्मात् गृइहाण इत्युक्त्ः सन् स कृइष्णः तत् गण्डं चुम्बितुं उन्मुखोऽभूत् ॥५०॥
ब्रुवाना दशवामञ्चेत्य् अक्षं राधा तदाक्षिपत् ।
स यथाज्ञा तवेत्य् उक्त्वा वाम-गण्डोन्मुखोऽभवन् ॥५१॥
तदा राधा दश वामेञ्चेति व्रुवाणा सत्य-क्षमक्षिपत् । स श्री-कृइष्णः वामञ्चा-शब्दो वामं अञ्चतीति वामञ्चापदं निपात-सिद्धं वाम-वाचित्वेन सङ्केततया तव राधाया यथा आज्ञा तथा करोमीत्युक्त्वा ललिताया गण्डे चुम्बितुम् उन्मुखोऽभूत् ॥५१॥
विमुखी ललिता क्रोधात् कौन्दी-कृष्णाव् अभर्त्सयत् ।
कृष्णः प्राह प्रियां शश्वत् जितान्य् अङ्गानि मे नय ॥५२॥
ललिता विमुखी भूत्वा क्रोधात् कुन्द्वल्लीं कृइष्णाभर्सयत् । कृइष्णः प्रियां प्राह । हे प्रिये ! शश्वत् पुनः पुनः त्वया जितान्यपि मे अङ्गानि नय गृइहाण ॥५२॥
इति निज-मुखम् अस्यास् तत्-तद्-अङ्गे निधातुं
चपलम् अनृजु-नेत्रा भर्त्सयन्त्य् अस्फुटोक्तिः ।
स्मित-रुदित-विमिश्रं वारयन्ती कराभ्याम्
प्रियम् अतिकुटिल-भ्रूस् तस्य तुष्टिं व्यतानीत् ॥५३॥
इत्युक्त्वा निजमुखं । निजमुखम् इत्युपलक्षणम् अन्यान्यप्य् अङ्गानि । अस्या राधायास्ततदङ्गे मुखाद्यङ्गे निधातुं नियोक्तुं चञ्चलं तं प्रियं सा राधा अनृइजुनी वक्रे नेत्रे यस्याः । अस्फुटा उक्तिर् यस्स्याः । अति कुटिला भ्रूर् यस्याः सा । एवम्भूता सति स्मित-रुदित-विमिश्रं यथा स्यात्तथा प्रियं कृइष्णं भर्त्सयन्ती कराभ्यां वारयन्ती सति । तस्य प्रियस्य कृइष्णस्य परमानन्द-प्रदाः प्रसिद्धा एव ॥५३॥
एवं द्यूते वर्तमाने सहसा सारिकागता ।
आचख्यौ सूक्ष्म-धीर् गोष्ठाद् आगता जटिलेति सा ॥५४॥
एवं द्यूते द्यूत-कृइडायां वर्तमाने सति जटिला-निकटे स्थित्वा तस्याश् चेष्टितं ज्ञात्वा वक्तुं पुरा वृइन्दया प्रेरिता सूक्ष्मधी नाम्नी सारिका सह-सागता सती गोष्ठात् जटिला आगता इत्याचख्यौ ॥५४॥
तच् छ्रुत्वा चलितौ भीतौ स-गणौ राधिकाच्युतौ ।
मिलित्वैवागतौ शीघ्रं कुञ्जं कुञ्जेनराभिधम् ॥५५॥
तच्छ्रुत्वा तौ राधिका-कृइष्णौ भीतौ सगणौ सन्तौ । ततश् चलितौ मिलित्वैव कुञ्जेन-राभिधं शीघम् आगतौ । कुञ्जेषु इनं प्रभूं श्री-कृइष्णं राति ददाति प्रापयतीति कुञ्जेनरं अतस् तदभिधं तत् । पुम्पक्षे कुञ्जे-नराः कुञ्जे-नराभि-धस्तं कुञ्जं ॥५५॥
कृष्णोऽत्र स्थापितः कौन्द्या राधागात् सूर्य-मन्दिरम् ।
तावत् तत्रागता वृद्धा जगाद कुन्दवल्लिकाम् ॥५६॥
अत्र कुञ्जे-नर-कुञ्जे कौन्द्या कर्त्र्या कृइष्णः स्थापितः । राधा सुर्य-मन्दिरम् अगात् । अत्र कौन्द्या शब्दस्य काकाक्षि-गोलक-न्यायेन उभयत्र सम्बन्धः । आगता वृइद्धा जटिला कौन्दीं जगाद ॥५६॥
विलम्बः कथम् एतावान् सा ताम् आह न लभ्यते ।
बटुर् एकोऽपि ते नीता निमन्त्र्य यौवतैः प्रगे ॥५७॥
एतावान् विलम्बः कथं । सा तां एकोऽपि वटुर् ब्राह्मण-वालको न लभ्यते इत्याह । अन्य-दिवसीया वटवस्ते प्रगे प्रातःकाले यौवतैर् युवतीनां समूहैर् निमन्त्र्य नीताः ॥५७॥
एकः श्री-गर्ग-शिष्यो यो माथुरो बटुर् आगतः ।
विश्व-शर्माभिधः सूर्य-पूजायां स विचक्षणः ॥५८॥
एको गर्ग-शिष्यो-माथुरो वटुरागतः । स विश्व-शर्माभिधः सूर्य-पूजायां विचक्ष्णः ॥५८॥
कृष्णस्य काम्यक-वने गाः सञ्चारयतो गिरा ।
आगतोऽरिष्ट-कुण्डेऽसौ स्नातुं स-मधुमङ्गलः ॥५९॥
काम्य-कवने गाः सञ्चारयतः कृइष्णस्य गिरा अरिष्ट-कुण्डे कृइष्ण-कुण्डे स्नातुं स मधुमङ्गलः असौ वटु-रागतः ॥५९॥
प्रार्थनान्नस् तम् आयान्तं दोषांस् ते श्रावयन् पथि ।
भवत्-कटु-गिरा रुष्टो न्यषेधन् मधुमङ्गलः ॥६०॥
नो ऽस्माकं प्रार्थनादायान्तं तं वटुं भवत्-कटुगिरा रुष्टो मधुमङ्गलः ते तव दोषान् पथि न्यषेधत् ॥६०॥
वृद्धाह क्वास्त्य् असौ साह सोऽत्रैव वीक्षते वनम् ।
यत्नाद् आनय तं याहि नायात्य् एष गुणैस् तव ॥६१॥
वृइद्धाह । असौ वटुः क्वास्ति । सह । स वटुरतैव वनं वीक्षते । वृइद्धाह तं यत्नादानय । साह तव गुणैरेष नायाति नायास्यति । वर्तमान-सामीप्ये भविष्यति लट् ॥६१॥
अङ्गीकृत्य सुमिष्टान्नं भोजनं भूरि-दक्षिणम् ।
एको नायाति चेत् तौ द्वाव् आनयेह धनिष्ठया ॥६२॥
त्वं धनिष्ठया सह याहि याहीथूह्यं । स एको नायाति चेत्तदा तौ द्वौ भूरि-दक्षिणा-सहितं सुमिष्टान्न-भोजनम् अङ्गीकृइत्यात्रानय ॥६२॥
वृद्धयाम्रेडिते गत्वा ते गृहीत्वा गते द्रुतम् ।
ब्रह्म-वेशं स्फुरद्-वेदं कृष्णं स-मधुमङ्गलम् ॥६३॥
वृइधयाम्रेडिते द्विस्त्रिरुक्ते कौन्दी-धनिष्टे गत्वा समधुमङ्गलं कृइष्णं । कीदृइशं ब्रह्मवेशं । स्पुरद्वेदं साक्षाद्-वेदमुर्तिं वेदोच्चारकं वा शिघं गृइहीत्वागते ॥६३॥
वृद्धया मानितः कृष्णस् ताम् आनन्दयद् आशिषा ।
गोमांस् तेऽस्तु सुतः सर्व-मङ्गलालिङ्गिता स्नुषा ॥६४॥
वृइधया मानितः कृइष्णः आशिषा तां वृइधा-मानन्दयत् । आशीर्वादम् आह । ते सुतो गोमान अस्तु । ते स्नुषा पुत्र-वधुः सर्वमङ्गलैर् आलिङ्गितास्तु । श्लोषेण सर्व-मङ्गलेन मया ॥६४॥
पूजारम्भेऽवदत् कृष्णो वध्वास् ते नाम किं वद ।
राधेति वृद्धयोक्तोऽसौ स-चमत्कारम् आह ताम् ॥६५॥
पूजारम्भे कृइष्णोऽवदत् ॥ ते वद्वाः किं नाम वद । वृइधया राधेत्युक्तः सन् असौ कृइष्णः स चमत्कारं यथास्यात्तथा तामाह ॥६५॥
सेयं गुणवती यस्याः साध्वीत्वं श्रूयते पुरे ।
धन्या त्वं यत्-स्नुषा सैषेत्य् उक्त्वा राधाम् अथाब्रवीत् ॥६६॥
सा प्रसिधा गुणवतीयं । यस्याः साध्वीत्वं पुरेऽस्मिन व्रजे श्रूयते । एषा यद्-यस्या स्तव स्नुषा सा त्वमपि धन्यासीत्युक्त्वा । अथ श्री-राधामव्रवीत् ॥६६॥
नावृतं कारयेत् कर्म तद्-भास्वद्-अतनु-क्रतौ ।
वृणु मां स्त्री न मे स्पृश्या स्पृशन्ती मां कुशैः पठ ॥६७॥
अवृइतो वरणं विना कर्म न कारयेत् । पुरोहित इति वोध्यं । इति वेदवचनं । तत्तस्मात् भास्वतः सूर्यस्यानुक्रतौ महायज्ञे अत्र मां वृइणु । मे मया स्त्रीर् नस्पृइश्या । कुशैर् मां सृइशन्ती सती पठ । वक्ष्यमाण-मन्त्रमिति शेषः । पक्षे भास्वदतनोर् देदीप्यमान-कन्दर्पस्य यज्ञे वस्त्रादि-नावृइतः सन् कर्म न कारयेत् । अतस् तद्विहाय स्त्रीणामिनं स्वामिनं मां वृइणु । आ सम्यक् इः कामस्तेन स्पृइश्या त्वमङ्कुशैरिव तीक्ष्णैर् नखैर् मा मां स्पृइशन्ती पठ कृइयां कुरु ॥६७॥
जगन्-मङ्गल-कृद्-गोत्रं शुचि-वित्-प्रवरं शुचिम् ।
भवन्तं विश्व-शर्माणं पुरोहिततया वृणे ॥६८॥
वरणे पुरोहितस्य गोत्र-प्रवर-नामोच्चारणं कार्यमतस् तथा कारयन् स्वं वरयति । यथा जगन्मङ्गल-कृइद्-भवानेव गोत्रं यस्य तं शुचि शुद्ध्यादिवित् ज्ञानं यस्य तथाभूतं प्रवरं यस्य तं । प्रवरं सन्ततौ गोत्रे इति मेदिनिकरः । शुचिं शुद्धं विश्व-शर्माणं विश्व-शर्मा-नामकं भवन्तं पुरोहिततया वृइणे । पक्षे । जगतां मङ्गलकृइत् गोत्रं नाम यस्य तं । शुचिविदां शृइङ्गार-रस-विदां प्रवरं श्रेष्ठं । शुचिं शृइङ्गार-रस-रूपं । विश्व-सुखदायिनं । पुरोऽग्रे हिततया भवन्तं वृइणे । इति वरणमन्त्रः ॥६८॥
श्री-भास्वतेऽतनु-तमः-संहर्त्रेऽत्यनुरागिणे ।
पुरः सतेऽस्मै मित्राय पद्मिनी-बन्धवे नमः ॥६९॥
अथ पूजा-मन्त्र-माह । अस्मै श्री-भास्वते सूर्याय नमः । कथम्भूताय । अतनू-नाम-नल्पानां तमसां संहर्त्रेऽत्यनुरागिणे सायं प्रातरत्यनुरक्ताय । पुरः सते सम्मुखोपरि विद्यमानाय । मित्राय मित्रनाम्ने । पद्मिनीनां वन्धवे । पक्षे । अस्मै मित्राय प्रियाय नमो दीयमाना भवामि । कीदृइशाय । श्री-लक्ष्मीर् वक्षस्था स्वर्ण-रेखारूपा भासः कान्तयश् च तद्-युक्ताय । अतनोः कन्दर्पात् तमसां दुःखानां संहर्त्रे । अत्यनुरागवते । पुरोऽग्रे विद्यमानाय । पद्मानि मुख-नेत्रादि-रूपाणि कर-पद-चिह्न-रूपे च कर-धृइत-लीला-कमलं च सन्ति यस्यां सा । पद्मिनी सल्लक्षणा नायिका तद्वन्धवे नमः ॥६९॥
मन्त्रेणानेन पाद्यादीन् मित्राय त्वं समर्पय ।
स्वं च गौरांशुकः स्यात् ते यथा काम-प्रदो वशः ॥७०॥
त्वमनेन मन्त्रेण मित्राय सूर्याय पाद्यादीन् स्वमत्मानं मनश् च समर्पय । यथा गौरांशुको गौरकिरणः सूर्यस्ते वशः सन् कामोऽभिलाषस् तत्प्रदः स्यात् । पक्षे मित्राय प्रियाय । स्वं आत्मानं शरीरं । गौरांशुकः पीताम्बरो मल्लक्षणः । कामः कन्दर्प-विलासः । अन्यत् समं । गौरांशुकः सूर्यः कृइष्णश् च यथा येन प्रकारेण ते तव कामप्रदः तथा वशश् च स्यात्तथा स्वञ्च समर्पय । “गौरोऽरुणे सिते पीते” इत्यमर-नानार्थः ॥७०॥
तत्र स्वस्ति ऋचं शश्वत् पपाठ मधुमङ्गलः ।
पूजायाम् अथ पूर्णायां राधाम् उपदिदेश सः ॥७१॥
मधुमङ्गलः स्वस्ति न इन्द्र इत्यादि ॠचं पपाठ । स मधुमङ्गलः राधाम् उपदिदेश ॥७१॥
गोपतेर् याग-पूर्त्य्-अर्थं राधे त्वं निज-गो-ततिम् ।
पुरोहिताय देह्य् अस्मै दक्षिणां गो-समृद्धये ॥७२॥
गोः किरणस्य पत्युः सूर्यस्य । पक्षे । गवां पत्युर् मे यागपूर्त्यर्थं । निज-गवां ततिः निजेन्द्रिय-श्रेणीं च । गवाम् इन्द्रियाणाञ्च सम्रिद्धये । अस्मै पुरोहिताय । पक्षे पुरोऽग्रे हितकराय दक्षिणं देहि ॥७२॥
नैवेद्ये दक्षिणात्वेन राधा-स्वर्णाङ्गुलीयके ।
न्यस्तेऽग्रे वृद्धया भक्त्या स्मेरस् ताम् आह माधवः ॥७३॥
वृइद्धया भक्त्या नैवेद्य दक्षिणात्वेन दक्षिणार्थं राधायाः स्वर्णाङ्गुलीये स्वर्ण-मुद्रिका-द्वयं । कृइष्णस्याग्रे न्यस्ते दत्ते स्मेरो-माधवस्तां वृइद्धाम् आह ॥ ७३॥
नाद्मोऽन्य-देवताशेषं वयम् एकान्ति-वैष्णवाः ।
नान्य-वर्णार्थम् आदद्याम् शुक्ल-वृत्तिर् अहं बटुः ॥७४॥
अन्य-देवतायाः शेषं वयं नाद्मः । कीदृइशाः ? वयमेकान्ति-वैष्णवाः अनन्य-वैष्णवाः । अन्य-वर्णस्यार्थं च नाद्यां अन्य-वर्ण-धनञ्च न गृइह्णामि । शुक्ला शुद्धा वृइत्तिर् यस्य तादृइशो वटुरहं ॥७४॥
सर्वज्ञो गर्ग-शिष्योऽस्मि ज्योतिः-सामुद्रिकादिवित् ।
गुर्वी मे दक्षिणा प्रीतिर् युष्माभिर् व्रज-वासिभिः ॥७५॥
अन्य-देवतायाः शेषं वयं नाद्मः । कीदृइशाः ? वयमेकान्ति-वैष्णवाः अनन्य-वैष्णवाः । अन्य-वर्णस्यार्थं च नाद्यां अन्य-वर्ण-धनञ्च न गृइह्णामि । शुक्ला शुद्धा वृइत्तिर् यस्य तादृइशो वटुरहं ॥७४॥
वृद्धायां कर्ण-लग्नायां कौन्द्याः सा हरिम् अब्रवीत् ।
वृद्धा त्वां याचते वध्वाः करं वीक्ष्य फलं वद ॥७६॥
कौन्द्याः कर्णे लग्नायां कथयन्त्यां वृइद्धायां सा कौन्दी हरिम् अव्रवीत् । वध्वाः करं वीक्ष्य फलं वद ॥७६॥
हरिस् ताम् आह नास्माकं ललनाङ्ग-प्रदर्शनम् ।
कार्यं तथापि वः प्रीत्या वशः पश्यामि दूरतः ॥७७॥
ललनायाः अङ्ग-दऋशनम् अस्माकं कार्यां न । वः प्रीत्या दूरतः पश्यामि ॥७७॥
त्वम् एवास्याः करौ साध्व्याः प्रसारय पुरो मम ।
कौन्द्या तथा कृते सोऽभूत् कम्पाश्रु-पुलकान्वितः ॥७८॥
सः कृइष्णः कम्पादि-युतोऽभूत् ॥७८॥
आच्छाद्य विस्मयेनात्म-हर्षम् आहाद्भुतं त्व् इदम् ।
यान्य् अस्याः शुभ-चिह्नानि तैर् इयं स्यात् स्वयं रमा ॥७९॥
आत्म-हर्षं आत्मनः श्री-राधाङ्ग-दर्शनजं हर्षं तज्जन्य-कम्पादिकं विस्मय-रसेनाच्छाद्याह । इदं त्वद्भूतं । अस्याः करे यानि शुभ-छ्नानि सन्ति तैश् चिह्नैरियं स्वयं र्मा स्यात् ॥७९॥
अस्याः प्रसाद-दृष्टिश् चेद् वयं स्मः पूर्ण-सम्पदः ।
यत्रास्याः स्थितिर् अत्रैव स-सम्पत् सर्व-मङ्गलम् ॥८०॥
अस्याः प्रसाद-दृइष्टिश् चेत् यदि तदा वयं पूर्ण-सम्पदः स्मो भवामः । अस्याः स्तितिर् यत्र तत्रेति वक्त्व्ये अत्रैव सम्पद्भिः सह सर्व-मङ्गलं ॥८०॥
सूनोस् ते नाम किं ब्रूहीत्य् उक्तया वृद्धयोदिते ।
तन्-नाम्नि गणयित्वाह हरिस् ताम् अतिविस्मितः ॥८१॥
ते सूनोः पुत्रस्य किं नाम इत्युक्तया वृइद्धया कथिते सति । तत् तस्य नाम्नि गणयित्वा गणनां क्रित्वा हरिस्तां वृइद्धामाह ॥८१॥
वर्तन्ते बहवो विघ्ना वृद्धे ते तनयायुषि ।
अस्याः साध्व्याः प्रभावेण प्रभवन्ति न ते क्वचित् ॥८२॥
हे वृइद्धे ! ते पुत्रस्यायुषि वगवो विघ्ना वर्तन्ते । त्रे विघ्नाः अस्याः प्रभावेण अण्वपि स्वल्पममि ते पुत्रे न प्रभवन्ति ॥८२॥
तच् छ्रुत्वानन्दिता वृद्धा राधिका-रत्न-मुद्रिकाम् ।
अमूल्यां पुरतस् तस्य दधार पारितोषिकाम् ॥८३॥
अमूल्यां राधायाः रत्न-मुद्रां पारितोषिकां तस्य हरेः पुरतो-दधार ॥८३॥
तावद् एत्याह सुबलो विश्व-शर्मन् हरिर् युवाम् ।
पयः-फेण-फलादीनां भोजनाय प्रतीक्षते ॥८४॥
तावत्-समये सुवल आगत्याह । हे विश्व-शर्मन् हरिर् युवां त्वां वटुञ्च ॥८४॥
नाद्मि विप्रेतरान्नादि गार्ग्या चास्मि निमन्त्रितः ।
यामि शीघ्रं गृहाण त्वं नैवेद्यं मधुमङ्गल ॥८५॥
विश्व-शर्माह विप्र-भिन्नस्यान्नादि नाहमद्मि न भक्षयामि । गार्ग्याहं निमन्त्रितोऽस्मि ॥८५॥
मधुः प्राह देहि वृद्धे स्वस्ति-वाचन-दक्षिणाम् ।
आकृष्य साप्य् अदात् तस्मै स्वाङ्गुलेः स्वर्ण-मुद्रिकाम् ॥८६॥
स्वाङ्गुलेः स्वर्ण-मुद्रामाकृइष्य सा वृइद्धा तस्मै मधुगङ्गलायादात् ॥८६॥
बटुस् तां प्राप्य हृष्टः सन् कफोणिं वादयन् मुहुः ।
नैवेद्यम् अञ्चले बद्ध्वा तां प्रशंसन् ननर्त सः ॥८७॥
स मधुमङ्गलस् तां वृइद्धां प्रशंसन् मुहुः कफोनिं वादयन् ननर्त ॥८७॥
वृद्धया प्रार्थितः कृष्णं जगाद मधुमङ्गलः ।
अगृहीते दक्षिणार्थे त्वया न व्रत-पूर्णता ॥८८॥
दक्षिणा-ग्रहणार्थं वृइधया प्रार्थितो वटुः कृइष्णमाह । दक्षिणात्वेन दत्तेऽर्थे त्वया अगृइहिते व्रतस्य पूर्णता न स्यात् ॥८८॥
कृपया तद् गृहाणेमं स्वार्थश् चार्थेन ते न चेत् ।
विप्रेभ्यः कल्प्स्यते सोऽयं व्रतिन्या भविता शुभम् ॥८९॥
तत् तस्मादिमम् अर्थं कृइपया गृइहाण । अर्थेन चेद्यदि तव स्वार्थः प्रयोजनं न तदा सोऽयमर्थः विप्रेभ्यः कल्प्स्यते दास्यते तेन व्रतिन्या व्रत-कर्त्याः शुभं भविता ॥८९॥
स्वीकृतस् ते मया दोषो नेत्य् उक्त्वा स्वाञ्चले हसन् ।
बबन्ध मुद्रिके ते द्वे निषिद्धोऽप्य् अमुना मुहुः ॥९०॥
अमुना कृइष्णेन मुहुर् वारितोऽपि वटुर्मया स्वीकृइतस् ते दोषो न इत्युक्त्वा ते द्वे मुद्रिके हसन् सन् स्वस्याञ्चले ववन्ध ॥९०॥
जगाद कृष्णं जटिला बटो यदै-
वायाति गोष्ठं मम भाग्यतो भवान् ।
तदा मयास्या रवि-पूजने गुरुर्
वृतोऽस्ति ते भूरि ददामि दक्षिणाम् ॥९१॥
जटिला कृइष्णं जगाद । हे वटो ! मे भाग्याद्-यदा गोष्ठमायाति तदस्याः वध्वा रवे पूजने मया त्वं गुरुराचार्यो वृइतोऽस्ति । ते तुभ्यं भूरि-दक्षिणां ददामि ॥९१॥
इत्य् उक्त्वा जटिला हृष्टा नत्वादित्यं द्विजौ च तौ ।
कृतार्थं स्वं मन्यमाना ताभिः सा चलितालयम् ॥९२॥
सा जटिला आदित्यं सूर्यं । तौ कृइष्ण-मधुगङ्गलौ नत्वा ताभिः राधादिभिः ॥९२॥
यान्ती विवर्त्य सहसा लपन-च्छलेन
ग्रीवां मुहुर् ललितयानुगया मुरारेः ।
वक्त्राब्ज-सारघम् अपाङ्ग-तरङ्ग-भङ्ग्या
राधा पिबन्त्य् अपि न तृप्तिम् अवाप दीना ॥९३॥
यान्ती राधा अनिगया ललितया सह-पनस्यालानस्य छलेन ग्रीवां मुहुर् विवर्त्य मुरारेर् मुख-पद्ममध्वपाङ्गस्य नेत्रान्तस्य तरङ्ग-भङ्ग्या पिवन्त्यपि तृइप्तिं न प्राप अतो दीना ॥९३॥
हृदय-दयित-लीला-स्निग्ध-दुग्धैः प्रपूर्णा
तनु-कनक-घटीया सुभ्रूवोऽस्याः सखीनाम् ।
नयन-मुदम् अतानीत् साशु वैरस्यम् आप्ता
विरह-विष-विवर्णा नेत्र-सन्तप्तयेऽभूत् ॥९४॥
अस्याः सुभ्रुवो राधाया श्री-कृइष्ण-लीला-रूप-स्निग्ध-दुग्धैः प्रपूर्णाया तनुरूप-कनकस्य घटी क्षुद्र-घटः षखीनां नयनयोर् मुदमतानीत् । सा तनुघटी आशु वैरस्यं प्राप्ता विरह-विषेण विवर्णा सती सखीनां नेत्रयोः सन्तापायाभूत् ॥९४॥
कान्ता-सङ्गेन्दु-सम्फुल्लः कृष्णो नीलोत्पल-प्रभः ।
विच्छेदार्कोदये म्लायन् क्षणाद् अन्य इवाभवत् ॥९५॥
कान्तायाः सङ्ग एव इन्दुस् तेन सम्फुल्लः नीलोत्पल-प्रभः कृइष्णः राधायाः विच्छेदार्कस्य उदये म्लायन् अन्य इव अफुल्ल इवाभूत् ॥९५॥
सखिभ्यां सहितः सोऽथ विमनाः स्व-सखीन् अगात् ।
तेऽहम्पूर्विकया हृष्टा आलिङ्गन्तस् तम् अब्रुवन् ॥९६॥
सखिभ्यां सुवल-मधुमङ्गलाभ्यां सह कृइष्णः स्वसखीन् श्री-दामादीन् । ते सखायः । अहं पूर्वमहं पूर्वम् इत्यहं-पूर्विका । अहमादौ कृइष्ण-मनेनिजं इत्याद्युक्त्या ह्रिष्टाः सन्तस्तं कृइष्णमालिङ्गन्तोऽव्रुवन् ॥९६॥
अस्मान् हित्वा तव गतवतस् त्वद्-वियोगासहिष्णून्
काठिन्यं नः स्फुटम् अवगतं व्याकुलैर् दीन-चित्तैः ।
अन्वेष्टुं त्वां प्रतिजिगमिषून् यत् त्वम् आगाः क्षणार्धात्
तेन ज्ञातं प्रिय-सख परं प्रेम-कौमल्यम् एव ॥९७॥
तद्वियोगा-सहिष्णून् अस्मान् हित्वा गत-वतस्तव काठिन्यं नोऽस्माभिः स्फुटम् अवगतं ज्ञातं । कीदृइशैः । तेन दीनचित्तैर् व्याकुलैः । त्वामन्वेष्टुं त्वां प्रतिजिगमिषून् त्वं क्षणार्द्धात् यदागाः । हे प्रियसख ! तेनागमनेन हेतुना तव परं प्रेम-कौमल्यम् एव ज्ञातं ॥९७॥
सोऽयं राधा-सहचर-हरेः स्फीत-मध्याह्न-लीला
पीयूषाब्धिर् विलसति महान् दुर्विगाहोऽत्यपारः ।
भाग्यं तन् मे यद् इह विलसच्-छ्रील-रूपानुकम्पा-
वात्यानीता तद् अनु कणिकाप्य् अस्पृशन् मां तटस्थम् ॥९८॥
राधा-सहचरस्य हरेः । यद्वा राधा च सहचरीणां ललितादीनां समूहः सहचरः समूहार्थे सन् स च अणित् । ताभ्यां युक्तस्य हरेः । सम्प्रसिद्धोऽयं स्फीतोऽ तिविस्तीणो मध्याह्न-लीला-रूप-पीयूषाव्धिः । कीदृइशः । महान् प्रमाणातीतः । दुर्विगाहः अवगाहानर्हः । अत्यपारः । आनन्त्यात् विलासात् । अधुनापि विद्यमानत्वात् । इह तादृइश-मध्याह्न-लीलामृइत-समुद्रे विलसतः । श्री-रूप-गोस्वामिनः अनुकम्पैव वात्या वायु-समूहस्तेनानीता तदनुकणिका तत् तस्य समुद्रस्य क्षुद्रकणा तटस्थम्पि मां यदस्पृइशत् तन्मे भाग्यं ॥९८॥
श्री-गोविन्द-लीलामृइते मध्याह्न-लीलावर्णने अष्टादशः सर्गः समाप्तोऽभूत् ।
इति सदानन्द-विधायिन्यां अष्टादश-सर्गार्थः ॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गोऽष्टादश-सङ्ख्य एष निरगान् मध्याह्न-लीलाम् अनु ॥
॥१८॥
…
(१९)