सप्तदशः सर्गः
श्री-राधया प्रेरितयाथ वृन्दया
संलालितः स्वास्थ्यम् उपागतः शुकः ।
दिष्टश् च कृष्णस्य गुणानुवर्णने
स-सारिकः प्राह सभां स नन्दयन् ॥१॥
अथ श्रीराधाप्रेरितया व्रिन्दया संलालितः स्वास्थ्यमुपागतः सन् स शुकः कृष्णगुणानुवर्णने दिष्टः प्रेरितः ससारिकः स्भां नन्दयन् प्राह ॥१॥
**कविभिर् अनवगाह्यं तं महद्भिर् वराकोऽप्य्
अहम् अजित-गुणाब्धिं जिह्वया लेढुम् ईहे ।
यदपि फलम् अभेद्यं लाङ्गलीयं सुपक्वं
स्पृशति तदपि चञ्च्वा तन् मुहुर् लुब्ध-कीरः ॥२॥ **
(निदर्शना)
महधिः कविभिर् अनवगाह्यमगम्यं तं प्रसिद्धमजितस्य गुणाव्धिं फलं चञ्च्वा यदप्यभेद्यं तदापि लुव्धकीरः तत्फ्लं मुहुश् चञ्च्वा स्प्रिशति । असम्बन्धरूपं यदुपमाक्रितिः । निदर्श नैषा द्रिष्टान्तप्राया । अस्यर्थः । यदुपमाक्रितिर् असम्बन्धरूपं एषा निदर्शना किन्तु द्रिष्टान्तप्रया च । द्रिष्टन्तप्रायत्वम् उपमाक्रितित्वं । शुकचञ्च्वा अभेद्यस्य लाङ्गलीयफलस्य इव कृष्णगुणाव्धेर् आस्वादनं असम्बन्धरूपं असाध्य रूपं निदर्शना ॥२॥
**इहानिनीषामि करेण भास्करं
मूर्ध्ना बिभित्सामि सुमेरु-पर्वतम् ।
दोर्भ्यां तितीर्षामि महार्णवं यतो
गुणान् विवक्ष्यामि हरेर् अपत्रपः ॥३॥ **
(माली-निदर्शना)
अपत्रपो मिर्लज्जोऽहं यतो हरेर्गुणान् वक्तुम् इच्छामि । अतः करेण भास्करं सूर्यमत्रानेतुम् इच्छामि । मूर्ध्ना सुमेरुं भेत्तुम् इच्छामि । दोर्भ्यां महार्णवं तितीर्षामि । करेण सूर्यानयनम् इव मूर्ध्ना सुमेरुभेदनम् इव दोर्भ्याम् इहार्णव तरणम् इव हरेर्गुण वर्णनं असम्बन्धरूपं निदर्शना । माला स्यात् पूर्व पूर्वञ्चेदुत्तरोत्तरम् ऋच्छति । पूर्वे करेण सूर्यानयनं तथा उत्तरे मूर्ध्ना सुमेरुभेदनम् इव कृष्णगुणवर्णनम् असम्बन्ध रूपं माला । अलङ्कार कौस्तुभस्य मूले तु या निदर्शना सैव मालामिदर्शना ॥३॥
**या या जाता हरि-गुण-लव-स्पर्श-पूता रसज्ञा
सा सा जातु स्पृशति नितरां क्वापि वार्तां तद् अन्याम् ।
माकन्दीय-प्रथम-मुकुलास्वाद-पुष्टान्य-पुष्ट-
श्रेणी या सा रसयति कथं कुट्मलं पैचुमर्दम् ॥४॥ **
(दृष्टान्तः)
या या रसञ्जा हरेर्गुण्लवस्य स्पर्शेन पूता जाता सा सा रसञ्जा तदन्यां कृष्णगुणाद्भिन्नां वार्त्तां क्वापि समये जातु कदचिद् अपीतरामतिशयेनादरेण न स्प्रिशति । अत्र द्रिष्टान्तम् आह । माकन्दीयेति । आम्राज्जात प्रथम मुकुलस्यास्वादेन पुष्टा या अन्यपुष्टानां कोकिलानं श्रेणी सा पैचुमर्दं । कुट्मलं निम्बमुकुलं कथं रसयति । न रसयत्येवेत्यर्थः सर्वेषाम् एव धर्माणां द्रिष्टान्तः प्रतिविम्बवत् । कोकिलस्य धर्माः यथा आम्रमुकुलास्वादपुष्टाः कोकिलाः निम्बफले स्प्रिहारगितास् तथा कृष्णगुण स्पर्शपूता रसञ्जा अन्य वर्णने विमुखा इत्यत्र ॥४॥
**यद् उक्तं गर्गेण व्रज-पति-पुरस् तेऽस्य हि शिशोर्
गुणैस् तैस् तैः साम्यं लभत इह नारायण इति ।
गुणानाम् आनन्त्यं परम-शुभता गोकुल-विधोर्
महत्त्वं गाम्भीर्यादिकम् अपि च तेनैव कथितम् ॥५॥ **
(उदात्त-स्वभावोक्ती)
व्रजपतेर् नन्दस्य पुरोऽग्रे गर्गेण यदुक्तं । किमुक्तं । ते तवास्य शिशोस् तैस् तैर् गुणैर् नारायणं साम्यं लभते इत्यनेन रूपेण गोकुलविधोः कृष्णस्य गुणानामानन्त्यं परमशुभता मह्त्त्वं गम्भीर्यादिकं च तेनैव गर्गेण कथितं दशमे । नारायणसमोगुणैः । श्रिया कीर्त्यानुभावेने त्यादि । सम्रिधिरूदत्तं वस्तुनः प्रा । कृष्णगुणानां प्रा सम्रिधिर् अत्र उदत्तं । कृष्णसभावस्य वर्णनं स्वभावोक्तिः ॥५॥
स्व-भक्ते वात्सल्य-प्रणय-वशतादेर् गुण-ततेर्
अनन्तत्वात् सङ्ख्या दनुज-जयिनो नैव घटते ।
बहुत्वात् पाल्यानाम् अनिशम् उरु-वृत्तेः समुदयाद्
इहाप्य् एकैकस्यापि हि भवति सम्यङ् न गणनम् ॥६॥
(उदात्त-स्वभावोक्ती)
दनुजजयिनः श्रीकृष्णस्य स्वभक्तविषये वात्सल्यादि गुणसमूहस्य सङ्ख्या न घटते । तत्र हेतुमाह । पाल्यानां भक्तानां वहुत्वात् । तेषां भक्तानां मध्ये इहैकैकस्मिन्न्पि भक्ते नियुक्तानां तेषां गुणानामेकैकस्यापि गुणस्य व्रित्तेः सम्यग् गणनं न भवति । तदपि कुतः । उरु यथास्यात्तथाऽनिशं सदा सम्यगुदयात् ॥ तत्रापि गुण्स्य परा सम्रिधिः । स्वभाववर्णनं चोदात्तस्वभावोक्ती ॥६॥
रूपं भूषण-भूषणं नव-वयः कैशोर-मध्य-स्थितं
वीर्यं कन्दूकिताद्रि-शिलम् अमलं लीला जगन्-मोहिनी ।
औदार्यं स्व-समर्पणावधि दया यस्याखिल-प्लाविका
कीर्तिर् विश्व-विशोधिनी कथम् असौ कृष्णोऽस्तु वर्ण्यः क्षितौ ॥७॥
(उदात्त-स्वभावोक्ती)
असौ कृष्णः कथं वर्णोऽस्तु हेतुमाह । यस्य रूपं भूषणं भूयतीति भूषणभूषणं । यस्य नववयः कैशोरमध्ये स्थितं मध्यकैशोरस्थं वीर्यं कन्दुकितः कन्दुक इवाचरितोऽद्रिर् गोवर्धन पर्वतो यतः । कन्दुकीक्रितोऽद्रिवर्यो येनाभ्यन्तर करणभूतेनेति वा । औदार्यं स्वस्य समर्पणम् अवधिः सीमा यस्य अखिलप्लाविका दया । विश्वविशोधिनी कीर्त्तिः । तथाहि श्रीभागवते, भूष्ण भूषणाङ्ग मिति । कैशोरे वयसि स्थिति इति । गोवर्धनधारणं । शीलादे रमलादिकं तत्र वहुधा प्रसिधं । वस्तूनां रूपादीनां परा सम्रिद्धिरूपमुदात्तम् अत्र एताद्रिशी सम्रिधिरन्यत्र नास्तीत्यर्थः एताद्रिशस्वभावस्य वर्णनरूपा स्वभावोक्तिः । सम्पूर्णमत्रैव । अन्यत्र विन्दु विन्दुतया क्वचिदिति श्रीभागवतोक्तेः ॥७॥
**तत् कैशोरं स च गुणचयः सा च गोपाङ्गनालिः
सा वेश-श्रीः स च मधुरिमा सा च कन्दर्प-लीला ।
सा वैदग्धी स च शुचि-रसः सा च चापल्य-लक्ष्मीर्
अङ्गीकाराद् अजनि सफला श्रील-गोपेन्द्र-सूनोः ॥८॥ **
(दीपक-तुल्य-योगिते)
तत्कैशोरं स च गुणचयः सा च गोपाङ्गनालिः । शुचिरसः श्रिङ्गाररसः कृष्णस्याङ्गीकारात् सफला अजनि । कारकैक्ये क्रियावह्वोव्यत्ययेऽपि च दीपकं । अत्र वहूनि कारकाणि तत् स सादयः । अजनि क्रिया एकैवात्र व्यत्ययं दीपकं । प्रक्रितानां चैकदोक्तिरुच्यते तुल्ययोगिता । चकारादैरक्रितानां प्राकरणिकानाम् अप्राकरणिकां च । अत्र प्राक्रितानां प्राकरणिकानां कृष्णस्य गुणकीत्तअन रूप प्रकरणप्राप्तानां कैशोरादीनाम् एकदोक्तिः त्ल्ययोगिता ॥८॥
**श्री-कृष्णस्याखिलाङ्गान् मृगमद-रस-संलिप्त-नीलोत्पलानां
कक्ष-भ्रू-श्रोणि-केशाद् अगुरु-रस-लसत्-पारिजातोत्पलानाम् ।
श्री-नासा-नाभि-वक्त्रात् कर-पद-नयनाच् चेन्दु-लिप्ताम्बुजानां
सत्-सौरभ्यामृतोर्मिः प्रसरति जगद् आप्लावयन्ती समन्तात् ॥९॥ **
(स्वभावोक्तिः)
श्रीकृष्णस्याखिलाङ्गात् म्रिगमदरस संलिप्त नीलोपलानां । सत्सौरभ्याम्रितोर्मिः । तत्र विशेषम् आह । कक्षभ्रूश्रोणिकेशात् अगुरुरसलसत् पारिजातोत्पलानां सत्सौरभ्याम्रितोर्मिः । श्रीनासानाभिवक्त्रात् करपदनयनात् कर्पूलिप्ताम्बुजानां सत्सौरभाम्रितोर्मिः समन्तात् प्रसरति, किं कुर्वती जगदासम्यक् प्लावयन्ती । पूर्ववत् स्वभाववर्णनं स्वभावोक्तिः ॥९॥
**गुणा हि गोपी-तति-हारिण्यो हरेः
गोपी-ततिः प्रेम-परिप्लुताशया ।
प्रेमा हरेर् इन्द्रिय-चित्त-हारको
हरिश् च तस्या वशताम् उपागतः ॥१०॥ **
(एकावली)
हरेर्गुणाः गोपीततेर् मनोहराः । गोपीततिरपि हरेः प्रेम्नैव परिप्लुता व्याप्ता आश्योऽन्तःकरणं यस्या सा । तासां प्रेमा हरेरिन्द्रियाणां चित्तस्य च हारकः । हरिस् तस्या गोपीततेर् वशतामुपागतः । एकावली लक्षणं, स्थाप्यते खण्द्यते चैव पूर्व पूर्वं परेण यत् । विशेषणतया वस्तु सा द्विधैकावलि भवेत् । अत्र पुर्वं हरिगुणाः परेण प्रेमप्लुताशयेन स्थाप्यते । यतो गोपीततिः प्रेमाप्लुताशया । अतो हरिगुणास् तस्या गोपीततेर् मनोहराः प्रेमा यतो हरेरिन्द्रिय चित्तहारकः । तेन गोपीततिः प्रेमप्लुताशया यतो हरिस् तस्या गोपीततेर् वशतां प्राप्तस् तेन प्रेमा हरेरिन्द्रिय चित्तहारकः इत्येकावली ॥१०॥
वंशी-स्वनैर् गोप-वधू-गणाहृतिः
गोपी-हृते रास-महा-महोत्सवः ।
रासोत्सवाद् व्यञ्जित-पूर्तिर् ईशितुस्
तत्-पूर्तितोऽभूत् सुख-सम्भृतं जगत् ॥११॥
(कारण-माला)
कृष्णस्य तत्पूर्तितो वाञ्छा पूर्तितो जगत् सुखसम्भ्रितं सुखपुष्टम् अभूत् । यथोत्तरं पूर्व पूर्वहैतुकस्य तु हेतुता । तदा कारणमाला स्यात् । पूर्वम् अत्र वंशीशव्दैर् गोपवधूनाम् आह्रितिः । गोपीगणह्रिते रासमहोत्सव कृष्णवाञ्छापूर्तिः । कृष्णवाञ्छापूर्तेर् जगतः सुखसम्भ्रितत्वं । तथा च गोपवधूगण्ह्रितेः कारणं वंशीध्वनिः रासमहामहोत्सवस्य कारणं गोपाङ्गनाह्रितिः । कृष्णवाञ्छापूर्तौ रासमहोत्सवो हेतुः । जगत्सुखसम्ब्रितौ कृष्णवाञ्छापूर्तिर् हेतुरभूदिति कारणमाला ॥११॥
**बभौ व्रजेशोरसि या मुरारेर्
नीलोत्पलाली-दल-मालिकेव ।
तनौ ममुस् तत्र कथं गुणास् ते
सहस्र-वक्त्रेण सदाप्य् अगण्याः ॥१२॥ **
(आश्रयाधिकेऽधिकम्)
व्रजेशस्य नन्दस्य वक्षःस्थले या तनुः नीलपद्म पत्रमालेव वभौ । तत्र तनौ अनन्तेनागण्या गुणाः क्थं ममुः । “आधेयाधारयो भूम्नोर्मिथस्तत् प्रतियोगिनौ । ततोऽप्यधिकभूमानौ स्यातां तदधिकं भवेत्” । अस्यार्थः भूम्नोर् व्याप्ययोस् तत्प्रतियोगिनौ । आधेयस्य प्र्तियोगी आधारः । आधारस्य प्रतियोगी आधेयः । अत्र सहस्रवक्त्रागण्यत्वेनाधेय गुणानां व्यापकत्वं ततो गुणाधारस्य कृष्णतनोराश्रय भूतस्याधिक्यं । कृष्णतनोराधारस्य नन्दवक्षस आधिक्यम् अत्राश्रयाधिकेऽधिकं ॥१२॥
**यथा तनोर् अन्तर् अलोकि मात्रा
विश्वं करेऽद्रिः कमलत्वम् आप ।
श्री-राधिकास्याम्बुज-दर्शनोत्था
मुदो ममुस् ता न हरेर् बतास्याम् ॥१३॥ **
(आश्रिताधिकेऽधिकम्)
हरेस् तनोरन्तर् मध्ये मात्रा यथा विश्वमालोकि । हरेः करेऽद्रिर् गोवर्धनः कमलत्वमाप । राधामुखाम्बुज दर्शनोत्थास् ता मुदः हरेरस्यां तनौ तथा न ममुः स्थानं न प्रापुः । विश्वाधारे हरेस्तनौ आश्रित राधादर्शनजमुद आधिक्येनाश्रिताधिकेऽधिकं ॥१३॥
**लावण्य-वन्योत्सलिलेऽघ-विद्विषो
राधात्म-मूर्तिं प्रतिबिम्बितां हृदि ।
दृष्ट्वाङ्गनां स्वं प्रति कुर्वतीं परां
निश्चित्य रोषाद् विमुखी स्म वेपते ॥१४॥ **
(भ्रान्तिमान्)
अघविद्विषो लावण्यवन्योत्सलिले ह्रिदि अतिलावण्ययुक्ते वक्षसि राधा प्रतिविम्बतामात्ममूत्तिं द्रिष्टा अन्यामङ्गनां स्वं प्रति कुर्वतीं स्वस्या अनुकारं कुर्वतीं निश्चिय रोषाद्विमुखी सती वेपते कम्पतेस्म । भ्रान्तिमानभिदस्तद्धीर तस्मिन् साम्यभाजि यत् । अतस्मिन्ने अन्याङ्गनाभिन्ने स्वप्रतिविम्बे यत् साम्यभाजि इयमन्याङ्गना इति मननं तदत्र भ्रान्तिमानाख्यालङ्कारः ॥१४॥
श्री-राधयानन्य-समोर्ध्वयाहृतं
मनो हरेर् धावति नापराङ्गनाम् ।
सरोजिनी-सन्-मधु-लम्पटः सदा
वल्लीं पराम् इच्छति किं मधुव्रतः ॥१५॥
(प्रतिवस्तूपमा)
अनयसमोर्धया नास्त्यन्या यस्यास् तया श्रीराधया ह्रितं हरेर्मनः अपराङ्गनां न धावति । पद्ममलम्पटो भ्रमरो वल्लीमिव । प्रतिवस्तूपमा तदा । सामान्यस्य स्थितिर्वक्य उपमानोपमेययोः । उपमानोपमेययोर् भ्रमर कृष्णमनसोर् वाक्ये सामान्यस्यान्यत्र पद्ममधु राधां च विहाय वल्लीमन्याङ्गनां च गमनाभावस्य स्थितिर् अत्र प्रतिवस्तूपमा ॥१५॥
**उष्णो रविः शीतल एव चन्द्रः
सर्वंसह भूश् चपलः समीरः ।
साधुः सुधीरोऽम्बुनिधिर् गभीरः
स्वभावतः प्रेमवशो हि कृष्णः ॥१६॥ **
(माला-प्रतिवस्तूपमा)
यथा रविः स्वभावतः एव उष्नः, चन्द्रादयोपि यथा स्वभावतः शीतलादयस् तथा कृष्णः स्वभावतः प्रेमवशः ॥ अनेन पूर्व पूर्वं सूर्यादिगुण उत्तरस्थं कृष्णं उपमेयम्रिच्छतीति माला । उपमानाः सूर्यादयः कृष्णस् तयोर्वाक्ये सामान्यस्य प्रेमवश्यत्वस्य स्थितिर् अत्र प्रतिवस्तूपमा ॥१६॥
गम्भीरोऽपि स्थिर-मतिर् अपि क्षान्ति-पूर्णः सुशीलः
श्री-कृष्णोऽयं सुख-मय-वपुः सत्रपो निर्विकारः ।
श्री-राधायाः प्रणय-विवशस् तन्-मुखालोक-जातैर्
भावैर् लोलः मदन-विकलः सम्भ्रमाद् बम्भ्रमीति ॥१७॥[^१]
(परिकरः)
अयं श्रीकृष्णः गाम्भीर्यादि गुणपूर्णोऽपि राधाप्रणय वोइवशः सन् राधामुख दर्शनजैर्भावैर् लोलः मदनविकलश् च सन् पुनः पुनर्तिशयं च भ्रमति । विशेष्योक्तिः परिकरः स्यात् साकुतैर् विशेषनैः । गम्भीरादि साकुत विशेष्णैः साकुतम् त्र गम्भीरोऽपि भूत्वा स्थिरमतिरपि भूत्वा राधायाः प्रणयवशः सन् पुनः पुनर्भ्रमण रूपविशेष्यस्य उक्तिः परिकरः ॥१७॥
**रमादिकानां धृति-धर्म-बद्धं
मनो हृतं कृष्ण-गुणैः सुदूरात् ।
दशेयम् आसाम् अपि चेत् तदैता
व्रजाङ्गनाः काः प्रणयार्द्र-चित्ताः ॥१८॥ **
(अर्थापत्तिः)
रमा लक्ष्मीः सा आदिर्यासां तासां देवाङ्गनानां ध्रितिधर्मेण वधम् अपि मनः दूरात् कृष्णगुणैर् ह्रितं । आसां रमादिकानां चेद्यदि इयं दशा तदा प्रयणार्द्रचित्ता एता व्रजाङ्गनाः काः कस्यां गणनायामित्यर्थः । पीनो देवदत्तो दिवा न भुङ्क्ते । अर्थादर्धरात्रौ भुङ्क्ते इतिवदत्र वजाङ्गनाः कृष्णगुणैर् ह्रितमनस्का अर्थत आपत्तिर् अर्थापत्तिः ॥१८॥
**प्रस्वेदोत्पुलकादरोक्त्य्-अमृत-सत्-सौरभ्य-मन्द-स्मितैः
पाद्यार्घ्याचमनीय-गन्ध-कुसुमान्य् आजह्रुर् आराधने ।
कृष्णस्य व्रज-सुभ्रुवस् त्व् इह परीरम्भादि-लीलामृतं
नैवेद्यं च तदा सुधाधर-रसस् ताम्बूलम् आसाम् अभूत् ॥१९॥ **
(परिणामः)
व्रजसुभ्रुवः कृष्णस्याराधने प्रस्वेदैः पाद्यमुत्पुलकैर् अर्घ्यमादरोक्त्यम्रितै राचमनीयं स्वाङ्गसम्बन्धिभिः सत्सौरभैर् गन्धं मन्दस्मितैः कुसुमान्याजह्रः कल्पयामासुः । प्रस्वेदादीनां पाद्यादिरूपेण परिणतिर् अत्र परिणामालङ्कारः ॥१९॥
**वदान्येशस् तृष्णा-निचय-चित-चित्तैः करुण-राट्
विपन्नैः कन्दर्पो युवति-निकरैर् मृत्युर् अरिभिः ।
अधीशः सद्-भक्तैः सहज-निज-बन्धुर् व्रज-जनैः
प्रतीतः कृष्णोऽसाव् इति विविध-लोकैर् बहु-विधः ॥२०॥ **
(उल्लेखः)
असौ कृष्णः विविधलोकैर् वहुविधः प्रतीतो ञ्जानविषयः । तदेवाह । समूहव्याप्तचित्तैर् वदान्यानामीशः । “वदान्यो दात्रिमहतो”रित्यमरः । विपन्नैरापद्युक्तैः करुणराट् युवतिव्रिन्दैः कन्दर्पः । अरिभिर्म्रित्युः । सद्भक्तैरधीशः । व्रजजनैः सहजनिजवन्धुः प्रतीतः त्रिष्नाक्रान्तचित्तादीनां कृष्ण एक एव वदान्य श्रेष्ठादिरूपेण प्रतीतत्वनोल्लेखः सङ्क्षेपेण कथनं अत्र उल्लेखः ॥२०॥
साम्मुख्यात् श्वपचो द्विजोऽस्ति विमुखश् चेद् यस्य विप्रोऽन्त्यजो
यत् प्रेमाप्य् अमृतायते प्रणयिनां ह्री कालकूटन्न् अपि ।
कीर्तिः कृष्ण-रुचीन् करोति विषदीकुर्वत्य् अशेषान् जनान्
इन्दुर् यद् विरहेऽग्निर् अग्निर् अमृतं कृष्णाय तस्मै नमः ॥२१॥
(जाति-क्रिया-गुण-द्रव्याणां स्व-स्व-विरोधः)
यस्य साम्मुख्यात् श्वपचश् चण्डालोऽपि द्विजोऽस्ति भावति । द्विजो ब्राह्मणस् तत्तुल्यमान्ये भावति । यस्य विमुखश् चेद्विप्रो द्विजोऽपि अन्त्यजश् चाण्डालश् चाण्डालतुल्यो भवति । अत्र द्विजत्व अन्त्यजत्वरूपजातेर् विरोधे विरोधः । यद्यस्य प्रेमा प्रणयिनां ह्रीकाककूटन्नपि ह्रीर्लज्जा । भीरितिपाठे भीर्भयं सैव कालकूटः स इवाचरन्नप्यम्रितम् इवाचरति अम्रितायते । अत्र क्रियाया विरोधः । यस्य कीर्तीरशेषान् जनान् विषदी कुर्वती सती कृष्णरुचीन् कृष्णे रुचिः स्प्रिहा येषां तथाभूतान् करोतीथ्यर्थः । कृष्णरुचिः कान्तिर्येषां तानिति अर्थाभाषे तु गुणविवोधः । यद्विरहे इन्दुश् चन्द्रोऽग्निवदग्निः । अग्निरम्रितम् इवाम्रितं भवतीति शेषः अत्र द्रव्यस्य विरोधः ॥२१॥
बकी-मुखानां हि हरेर् अरीणां
दौर्जन्य-सङ्घा[^२]** अमुना हतानाम् ।
सहास्य-कारुण्य-मुखैर् गुणौघैस्
गीयन्तकेऽद्याप्य् अनिशं कवीन्द्रैः**[^३]** ॥२२॥ **
(विशेषः)
अस्य कृष्णस्य कारुण्यमुख्यैर् गुणसमूहैः समामुना कृष्णेन हतानां वकी पूतना तदादीनां हरेः शत्रुणां दौर्ज्जन्यव्रिन्दानि कवीन्द्रैर् अनिशमद्यापि गीयन्तके गीयन्ते स्वार्थेऽक् । आख्याताव्यय सर्वादेष्टेः प्राक्स्वार्थेऽग्विकल्पते इति विशेषक्षणं । आधारस्याप्रसिद्धस्याभावेऽप्याधेयदर्शनं । एकस्य युगपद्व्रितिरनेकत्र स्वरूपतः । एकस्यैवातिचित्रस्य वस्तुनः करणेन हि । तत् समान्यवस्तुनां करणेन सम्भवेत् त्रिधा । आधारस्य पूतनादेर् अभावेऽपि आधेयस्य दौर्ज्जन्य व्रिन्दस्य हननरूपैक वस्तुनः अनेकक विक्रितपद्येषु गानस्य दर्शनं विशेषः । कृष्णक्रितारीणां हननरूपस्यैक स्यातिचित्रस्य वस्तुनः करणेन् विशेषः इति द्वितीयः । अरिवधरूप सामान्यवस्तूनां करण इति त्रितीयः । यद्वा कृष्णक्रितारिवध रूपाधारस्याभावेऽपि तज्जन्यकृष्ण गुणकीर्तन रूपाधेयस्य दर्शनं विशेषः ॥२२॥
**न वपुर् इदम् अघारेर् एष क्र्ष्णा प्रवाहो
न वदनम् इदम् अब्जं नाक्षिणी उत्पले ते ।
न विततिर् अलकानां सेयम् एषालि-माला
सखि नयन-युगे ते धावतः किं प्रलुब्धे ॥२३॥ **
(निश्चयः)
यमुनायां श्रीकृष्णभान्त्या पश्यन्तीं सखीं सख्याह । हे सखि अघारेरिदं वर्पुन तदा किं । एष कृष्णाया यम्नायाः प्रवाहः । निश्चयः । एवमग्रेऽपि । इदं वदनं न किन्त्वव्जं । अक्षिणी न ते उत्पले । अलकानां विततिर् न एषा अलीनां माला । प्रलुव्धे ते तव नयनयुगे किं कथं धावतः ॥२३॥
**नाना-विकारान् व्रज-सुभ्रुवां मनः
प्रविष्ट आदौ मदनस् ततान ।
कलायतः श्री-व्रज-राज-सूनोर्
विवेश पश्चात् मुरली-निनादः ॥२४॥ **
(पञ्चमातिशयोक्तिः)
व्रजसुभ्रवां मनः प्रविष्टो मदनः आदौ नानाविकारान् ततान् विस्तारयामास । तनु विस्तारे धातुः? पश्चात् कलायतः कलैर् मधुरध्वनिभिः कलाभिर् वैदग्धीभिर् वा आयतो विस्त्रितो व्रजराजसुनो मुर्रली निनादस् तासां कथनं पञ्चमातिशयोक्तिरियम् अलङ्कार कौस्तुभोक्त प्रथम द्वितीय त्रितीय चतुर्थ सञ्ञ्जाद्भिन्ना ॥२४॥
**कामोत्पत्तिर् धृति-धन-हृतिः संहृतिर् लोक-भीतेर्
धर्मोच्छित्तिः कुवलय-दृशाम् आहृतिः पत्युर् अङ्कात् ।
कम्पोद्भिः स्थिरम् अनुचरे स्तब्धिर् अप्य् आपगानां
या सा जीयान् मधुर-मुरली-काकली गोकुलेन्दोः ॥२५॥ **
(हेत्व्-अलङ्कारः)
गोकुलेन्दोः सा मधुरमुरल्याः काकली सूक्ष्म मधुरास्फुटध्वनिर् जीयात् । या कुवलयसद्रिशं कामोत्पत्तिः कामोत्पत्ति हेतुभूता । कामस्योत्पत्तिर् यस्यां सकाशात् इत्यर्थः । एवं ध्रितिधनस्य ह्रितिः । लोकभीतेः संह्रिति । धर्मस्योत्क्रिष्टा छित्तिः । पत्युः क्रोडात् ह्रितिर्ष्क्रिष्टिः । स्थिरमनुस्थिरे स्थावरे कम्पोत्पत्तिः । चरे जङ्गमे स्तव्धिः । आपगानां नदीनामपि स्तव्धिः । एतत् सर्वहेतुभूता । कामोत्पत्त्यादौ काकलेर् हेतुत्वात् हेत्वलङ्कारः ॥२५॥
**गुण-गण-रस-लीलैश्वर्य-रत्नैर् लसन्तो
बहव इह जगत्यां सन्ति धन्या यदीत्थम् ।
वदत वदत लोका आकरः किन्त्व् अमीषां
व्रजपति-सुत एको निश्चितः श्री-मुनीन्द्रैः ॥२६॥ **
(विध्य्-आभासः)
गुण गणादिरूपरत्नैर् गुण गणादिब्सिरत्नैश् च वा लसन्तो धन्या स्थिरा वहवो जना इह जगत्यां यदि सन्ति । हे लोकाः वदत वदतेति वीप्सादरे, वदथ वदथेति पाढे यूयं वदथ चेत् वदथ । किन्तु यथार्थविचारे अमीषां गुणगणादीनाम् आकरः श्रीमुनीन्द्रैरेको व्रजपतिसुतो निश्चितः । विधेयाभासत्वाद् विद्भ्याभासः न तु विधिः अनादिसिद्दौ विधेरभावात् ॥२६॥
**नाद-व्याजात् क्षिपसि कठिने गारलीम् आमृतीं वा
धारां वंशि प्रणय सखि नो जीवनं वा मृतिं वा ।
ताभ्यां नान्यां वितर विषमां हा दशाम् अत्यसह्यां
गोप्यः कृष्ण-प्रणय-विकला वंशिकाम् इत्थम् आहुः ॥२७॥ **
(विकल्पः)
हे कड्तिने ! हे वंशि ! हे सखि ! त्वां नादव्याजात् गारलीं राधां आम्रितीं वा धारां क्षिपसि । ताभ्यां धाराभ्यां करणाभ्यां नोऽस्माकं म्रितिं वा जीवनं वा प्रणय प्रकाशय कुर्वित्यर्थः । आभ्यां जीवन्म्रितिभ्यां भिन्नां विषमामत्य सह्यां दशां वक्तुमनर्हां न वितर । हा दैन्ये । जीवनम्रित्योर् विकल्पत्वाद्विकल्पः ॥२७॥
**भोगेप्सवः सकल-कामदम् अर्थ-लुब्धाः
सर्वार्थदं सुख-तृषश् च सुख-स्वरूपम् ।
लोकाधिपत्य-लसिता जगद्-ईश्वरं तत्
कृष्णं द्विषन्ति दनुजाः कुधियो बतैते ॥२८॥ **
(विचित्रम्)
कुधियः एते दनुजा दानवा भोगेप्सवः अर्थलुव्धाः सकलकामदं सर्वार्थदं कृष्णं द्विषन्तीति । सुखत्रिषश् च दनजाः सुखस्वरूपं कृष्णं । लोकाधिपत्ये लषिता । कान्तिरिच्छा । अभिलाषवन्तो दनुजा ज् लष कान्तौ अगदीश्वरं कृष्णं द्विषन्तीति । विचित्राद्विचित्रं ॥२८॥
**तल्-लीलामृत-रस-झरैर् भावितात्मा मृगाक्षी
बाला काचित् स्व-सदन-गताप्य् अग्रतो वीक्ष्य वृद्धाम् ।
भीता पार्श्वे स्व-भुज-शिरसि न्यस्त-हस्तं स्फुरन्तं
कृष्णं प्राहापसर दयितालोकयात्रागतेयम् ॥२९॥ **
(भाविकम्)
तत्तल् लीलाम्रित रसस्य झरैः प्रवाहैर् भावितात्मा शोधितात्मा । रसोत्का इति वा पाड्तः । काचित् म्रिगाक्षी वाला स्वस्य सदनगतापि सग्रिहस्थितापि अग्रे व्रिधां वीक्ष्य भीता सती पार्श्वे स्वस्य भुजशिरसि स्कन्धे न्यस्तहस्तं स्फुर्त्तिप्रप्तं कृष्णं प्राह । हे दयित अपसर गच्छ । अत्रेयं व्रिधा आगता आलोकय । अतीतानागतार्थानां साक्षात्त्वम् एव भाविकं । अत्र पुरा श्रीकृष्ण भुजालिङ्गिता वाला तदा श्रीकृष्ण क्रितभुजालिङ्गनस्य साक्षात्कारं भाविकं ॥२९॥
**निखिल-गुण-गभीरे क्ष्माधरोद्धार-धीरे
सकल-सुखद-शीले क्षालिताशेष-पीडे ।
सुभग-नव-किशोरे विश्व-चित्ताक्षि-चौरे
मुराजिति युवतीनां हृन्-निमग्नं सतीनाम् ॥३०॥ **
(वाक्य-गत-काव्यलिङ्गम्)
मुरजिति कृष्णे सतीनां युवतीनां ह्रिन्निमग्नम् अभूत् । क्षालिस्ताऽशेषपीडा येन तत्र । दलयोरैक्यात् । पदवाक्यार्थता हेतोः काव्यलिङ्गं प्रकीर्यते । निखिल गुणगभीरादि वाक्यहेतोः कृष्णे सतीनां ह्रिन्मग्नम् इति वाक्यगत काव्यलिङ्गं ॥३०॥
**प्राणापहारं हरिर् अप्रियं द्विषां
मखापहारं च बलाच् छची-पतेः ।
स्थानापहारं फणिनश् चकार यत्
तेनैव तेषां विहितं सुमङ्गलम् ॥३१॥ **
(अनुकूलम्)
हरिर्द्विषां प्राणापहारम् अप्रियं । श्चीपतेर् वलात् मखापहारम् अप्रियं । फणिनः कालियस्य स्थानापहारम् अप्रियं यच्चकारः । तेनैव हरिणा तेषां द्विट् इन्द्रफणिनां सुमङ्गलं विहितं क्रितं । एष कृष्णस्यानुकुल्याद् अनुकुलं ॥३१॥
लाक्षाङ्कपालिर् अलिके गिरि-धातु-चित्रे
वक्षस्य् उरोज-मद-लक्षणम् अम्बुदाभे ।
राधालयाद् उपगतस्य हरेः प्रभाते
कैश्चिन् न नीति-निपुणैर् अपि पर्यचायि ॥३२॥
(मीलितम्)
प्रभाते राधाग्रिहादागतस्य हरेः । गिरिधातुना चित्रे अलिके ललाटे लाक्षाङ्कानां पालिः समूहः अम्बुदाभे वक्षसि उरोजसम्बन्धिनो म्रिगमदस्य लक्षणं व्चिह्नं । नीतिनिपुणैर् अपि कैश्चित् नपर्यचायि परिचितं नाभ्रित् । तुल्येन लक्ष्मणास्तोकेनान्यत् यदि निगूह्यते । सहजेनेतरेणापि तन्मीलितमपि द्विधा । गिरिधातु लाक्षारसयोस्तुल्य वर्णेन चिह्नेन । तथा म्रिगमदकृष्ण वक्षसोस्तुल्यवर्णेन लक्षणा । अन्येन लाक्षारस म्रिगमदात् भिन्नेन । अन्ययोर् लाक्षारस म्रिगमदयोर् निग्रहं नेदं गिरिधातुचित्रं किन्तु लाक्षारसम् इत्याकारम् अत्र मीलितं ॥३२॥
**कृष्णस्य राधा-प्रणयोच्च-सम्पदा
माधुर्य-सम्पत् सह वर्धतेऽनिशम् ।
तयोश् च कुञ्जेषु विलास-सन्ततिं
सार्धं सखीनां सुख-सञ्चयाप्तिभिः ॥३३॥ **
(सहोक्तिः)
राधाप्रणयोच्चसम्पदा सह कृष्णस्य माध्र्य सम्पदनिशं वर्धते । तयोर् आधाकृष्णयोर् विलाससन्तितिः सखीनां सुखसम्पत् प्राप्तिभिः साकं वर्धते । सहोक्तिः सा सहार्थेन शव्दनैकत्रिया यदि । अत्र सह शव्देन सह वर्धते इति एकैव् क्रिया सहोक्तिः ॥३३॥
**सौन्दर्यं पदयोः सरोजवद् अहो कान्तं तथेन्दुर् मुखं
रम्या भ्रु-भ्रमरावलीव मधुरः पीयूष-तुल्योऽधरः ।
लोलाब्जेन समे चले सुनयने शुभ्रा रदा कुन्दवत्
कंसारेर् अमृतं यथा सुलपितं ज्योत्स्नेव हास-द्युतिः ॥३४॥ **
पञ्चविंशति प्रकारोपमा ञ्जानार्थमादौ सप्तविंशति प्रकारोपमालङ्कारम् अलङ्कार कौस्तुभोक्तम् आह, यथा कथञ्चित् सधर्म्यमुपमा । अस्यार्थः । उपमानोपमेययोर् यथाकथञ्चित् येन केनापि सामान्येन धर्मेन सम्बन्ध उपमा । स चाम्शेन न तु सर्वैरंशैः सर्वांशत्बेनाभेदाद् उपमानोपमेयभाव एव नतु भवति । सा भवेद्द्विधा पुर्णा लुप्ता इति । सा उपमा । पूर्णा तु धर्मेणैव यथादिभिः । उपमानोपमेयाभां । धर्मः सामान्यधर्मः आह्लादकत्वादि । इव यथा वादय औपम्यवाचकाः । उपमानं चन्द्रादि । उपमेयं मुखादि । एतैरुयुक्ता पूर्ंएत्यर्थः । इयमेवेवादिभिर् युक्ता श्रौती । इयमेव पूर्णा इव यथादिभिर् युक्ता चेद्भवति तदा श्रौती । तत्र तस्येवेत्यनेन विहितोवतिश् च श्रौत्यामेव समाद्यैस् तु साम्यादार्थी च । सा पूर्णासमाद्यैर् युक्ता भवति यदा तदा आर्थी । समादयस् तु । सम समान सद्रिश सद्रिक्ष सद्रिक् तुल्य सम्मितनिभ चौर वन्धु-प्रभ्रितयः । तेन तुल्यं क्रियाचेदित्यनेन वतिना चार्थी । तत्र तेन तुल्यमिति तच्छव्दः । उपमानपरः तुल्यशव्द उपमेयपरः । तस्य तुल्यमित्यत्र विपर्ययः । उभयं तुल्यमित्युभयनिष्ठः । तद्धिते वाक्ये समासे चेति षोढा । एते श्रौती आर्थी च तद्धितादि त्रिके षड्विधा भवति । तद्धितं वत्यादि । तद्यथा । वति कल्प देश्य देशीय वहुच्-प्रभ्रितयः वाक्यं प्रसिधितं समासश् च । तद्धितगा शौती । समागता श्रौती वाक्यगा श्रौती । तद्धितगा आर्थी । वाक्यगा आर्थी । समासगा आर्थीति । पूर्णा ष्डेव १। लुप्तातु लोपतः धर्मेवाद्युपमानानाम् एक द्वि त्रि क्रमेण हि । धर्मादीनां एकस्य द्वयोस्त्रयाणां वा लोपतो लुप्ता भवतीत्यर्थः । धर्मलोपे क्रमेणैषा पूर्णवत् षड्विधोचिता । किन्तु तद्धितगा शौती लुप्तायां नेति पञ्चधा एषा लुपता तद्धितगादिभेदेन पूर्णावत् षड्विधोचिता । श्रौती लुप्ता त्रिविधा । आर्थी लुप्ता त्रिविधेति । किन्तु धर्मलोपे वक्ष्यमाणोदोहरणे । त्वदाननस्य माधुर्यं लोचनानन्दि चन्द्रवत् । अक्ष्णोश् च तरला नित्यं राधे नीलसरोजवदित्यत्र । माधुर्यादि धर्मलोपे वाक्यार्थ सङ्गतिर् नस्यादिति । श्रौती लुप्ता तद्धितगा न भवतीति पञ्चैवा वाक्यगा श्रौती लुप्ता तद्धितगा आर्थी लुप्ता । वाक्यगा आर्थीलुप्ता समासगा आर्थी लुप्तेति । २। क्वचित् कर्मधारक्रिते कर्त्रिकर्मक्रिते णमि । क्यञि चेति पुनः पञ्चेवादिलोपे यथाक्रमं । कर्मक्रिते क्यचि । आधारक्रिते क्यचि । कर्त्रिक्रिते णमि णमुलि कर्मक्रिते क्यचि । सा लुप्ता पुनः पञ्चेति दश । उपमानानुपादाने द्वैधं वाक्यसमासयोर् द्वैविध्यं भवति । इवादेर्नुपाने द्वैधं स्यात् क्विप् समासयोः । द्वैधं वाक्यसमासयोः । पुनर्द्वैधमित्यर्थः उपमेयस्य लोपेतु स्यादेका प्रत्यये क्यचि । पुनरेका । धर्मोपमेय लोपेऽन्या त्रिलोपे तु समासगा । एवं दशैकादश च लुप्ता स्यादेक् विंशतिः । पूर्णा ष्डेव तेन स्युरुपमा सप्तविंशतिः । कंसारेः पदयोः सौन्दर्यं सरोजदत् । अत्र स्रोज इव सरोजवदित्यनेन वतिः श्रौत्यर्थ प्रतिपादकतया तद्धितगा श्रौती पूर्णा ।२। अहो कंसारेः कान्तं कमनीयं मुखं यथेन्दुः । अत्र यथाशव्द उपमावाची उपमानं चन्द्रः । उपमेयं मुखं वाक्यगा शौती पुर्ण ।२। भ्रूभ्रमरालीव रम्या । भ्रमरालेरिव रम्या । समास्गा श्रौती पूणा ।३। अधरः पीयूषतुल्यो मधुरः । अत्र तुल्य शव्ददानादार्थी पूर्णा ।४। चले सुनयने लोलाव्जेन समे । समासाभावाद् वाक्यगा समशव्द दानादार्थी पूर्णा ।५। रदाः दन्ताः कुन्दवत्शुभ्रां । वति-प्रत्यये सूत्रद्वयं तस्य तुल्यं तेन तुल्यमिति च । तथा च । तस्य तुल्यमिति सूत्रविहित वतिप्रत्ययः श्रौत्यामेव् पूर्णायां । अन्यस् तु आर्थीरूपायां पूर्णायां । कुन्देन तुल्यमित्यर्थात् समासगा आर्थी पूर्णा ।६। सुलपितं शोभनभाषणं यथा अम्रितं । अत्राम्रितमिव स्वादुमधुरत्वादि साधारण धर्माभावात् । धर्मलोपे वाक्यगा शौती लुप्ता ।७। हासद्युतिर् ज्योत्स्नेव अत्रापि ज्योत्स्ना इव इति समसात् । शुभ्रादि साधारण धर्माभावात् । समासगा श्रौती लुप्ता ।८॥
३४॥
श्री-पाणी नव-पल्लवेन सदृशौ पूर्णेन्दु-तुल्या नखा
गण्डौ दर्पणवद् द्युतिर् नव-घन-श्यामा च यस्याङ्गनाः ।
दृष्टाम्भोरुह-दर्शम् आस्यम् अलि-सञ्चारं चरन्त्य् उत्तृषः
साधौ चन्द्रति यः सूतीयति नतान् कुञ्जेषु सौधीयति ॥३५॥
यो दैत्येष्व् अशनीयतीह रमणी-वृन्दे मनोजायते
दाता येन समः क्वचिन् नहि न यत् तुल्योऽस्ति शूरः क्वचित् ।
यल् लीला सदृशी क्वचिन् नहि न येनास्ते समानोऽपि वा
चुम्बन्त्य् आनन-पद्मम् एण-नयना यस्यैष कृष्णोऽवतु ॥३६॥
(युग्मकम्, पञ्चविंशति-प्रकारोपमाः)
यस्य श्रीपाणी करद्वयं नवपल्लवेन सद्रिशौ अत्रापि रक्तकोमलादि साधरण धर्मस्याभावात् । सद्रिश शव्ददानात् आर्थी लुपता ।९। नखाः पूर्णेन्दूतुल्याः अत्रापि शुक्लत्वादि साधार्ण धर्माभावात् । तुल्यशब्ददानाच् च वाक्यगा आर्थी लुप्ता ।१०। दर्पणवत् यस्य गण्डौ । अत्र स्वच्छत्वादि साधारण धर्मादानात् वतिप्रत्ययेन च तद्धितगा आर्थी लुप्ता ।११। यस्य द्युःति कान्तिर्नवघनश्यामा । अत्रौपम्यवाचक इवादि शब्ददानात् । नवघनस्येव श्यामा इति समासगा आर्थी लुप्ता ।१२। अम्भोरुहस्य दर्शं दर्शनमिव यस्यास्यं मुखं अङ्गना स्त्रियो द्रिष्ट्वा उत्रिष अतित्रिष्नाकुलास् ता अलिसञ्चार मिवेत्यत्र इव लोपे कर्त्रिणमुलि आर्थी लुप्ता ।१३। यः कृष्णः साधौ साधुजने चन्द्रति चन्द्र इवाचरति । अत्र इव लोपे क्विप् ।१५। नतान् प्रणतान् प्रति सुतमिवाचरति सुतीयति इत्यत्र इव-लोपे कर्मक्यचि ।१६। कुञ्जेषु सौधमिव राजसदनम् इवाचरति । इव-लोपे आधारे क्यचि ।१७। यः कृष्णो दैत्येषु अशनिरिव व्ज्र इवाचरतीत्यत्र इवाद्यनुपादाने अत्राप्याधारे क्यचि ।१८। रमणीव्रिन्दे मनोज इवाचरति अत्र इवादिलोपे क्यचि ।१९। येन समो दाता क्वचिन्निह । उपमानादेरनुपादानेन वाक्यगा उपमा लोप्ता ।२०। यद्यस्य तुल्याः शूरः क्वचिन्न । अत्र इवादि साधारण धर्मोपमेयानुपादाने समासगा उपमा ।२१। यस्य लीला सद्रिशी क्वचिन्न । अत्र इवादि साधार्ण ध्रर्मोपमानोपमेयानां लोपात् समासगा लुप्ता ।२२। येन समानोऽपि नास्ति क्वचित् अत्र इवादि साधार्ण ध्रर्मोपमानोपमेयानामदानात् वाक्यगा लुप्ता ।२३। एणनयना यस्या नयनपद्मं चुम्ब्न्ति । एष कृष्णोऽवतु । आननकमलं चुम्ब्न्तीत्यत्र इवादि साधार्ण ध्रर्मोपमानोपमेयानां लोपतो लुप्ता ।२४। यस्य एणनयना एणो म्रिगस् तय नयने इव नयने यासां ताः । इत्यत्रापि धर्मादीनां लोपात् । समासगा लुप्ता ।२५। ॥३५-३६॥
**स्तनैर् इव फलैः पुष्पैः स्मितैर् इव सुपल्लवैः ।
अधरैर् इव कृष्णस्य नव-वल्ल्यो मुदेऽभवन् ॥३७॥ **
(एक-देश-विवर्तिन्य् उपमा)
नववल्ल्यः कृष्णस्य मुदे अभवण् । कैः । स्त्नैरिव फलैः स्मितैरिव पुष्पैः । अधरैरिव पल्लवैः । अत्र फले आकारांशे । पुष्पे शुक्लांशे । पल्लवे रक्तिमांशे । एकांशे एव उपमा न तु सर्वांशे ॥३७॥
**योगेश्वराणाम् इव योग-सिद्धिर्
उपासकानाम् इव विष्णु-भक्तिः ।
नारायणस्येव चिद्-आख्य-शक्तिः
कृष्णस्य वंशीप्सित-सिद्धिदाभूत् ॥३८॥ **
(साधर्म्ये मालोपमा)
वंशी कृष्णस्य ईप्सिता सिद्धिदाभूत् । यद्वा कृष्णस्य वंशी सर्वेषामीप्सित सिद्धिदाभूत् । अत्र द्रिष्टान्तमाह । योगेश्वराणाम् इत्यादि । एकत्त्वमुपमेयानाम् उपमानान्यनेकधा । धर्मैकरूप्य वैरूप्ये द्वेधा मालोपमा भवेत् । अत्र कृष्णस्य वंशीरूपोपमेयस्य एकत्वं । योगसिधाद्यनेकोपमानानां दानात् धर्मस्य ईप्सित सिधिरूपस्यैक रूप्यात् साधर्म्ये मालोपमा ॥३८॥
**सुधा-धारेव मधुरा कौमुदीव सुशीतला ।
कीर्तिः श्री-कृष्ण-चन्द्रस्य गङ्गेव जन-पावनी ॥३९॥ **
(वैधर्म्ये मालोपमा)
कृष्णचन्द्रस्य कीर्त्तिः सुधाधारेव मधुरा । अत्र मधुरा सुशीतला जनपावनीरूप धर्माण्ं वैरूप्येण । कीर्त्तिरूपोपमेयस्यैकस्य सुधाधाराद्युपमानानाम् अनेकानां च कथनात् वैधर्म्ये मालोपमा ॥३९॥
**कृष्णस्यानुपमाङ्ग-श्रीर् अङ्ग-श्रीर् इव माधुरी ।
माधुरीव गुणाल्यस्य गुणालीव सुशीतला ॥४०॥ **
(साधर्म्ये रसनोपमा)
कृष्णस्याङ्ग श्रीरनुपमा अङ्गश्रीरिव माधुरी अनुपमा माधुरीवास्य गुणाल्यनूपमा । गुणालीव सुशीतला अनुपमा । उपमेयस्य उपमानत्वमुत्तरत्र यदि भवति । यदि अभिन्नहेतुत्वे द्विधा सा रसनोपमा । उपमेयस्योपमानत्वम् उत्तरत्र यदि भवति । तदा रसनोपमालङ्कारो ञ्जेयः । सा उपमा द्विधा । उपमानोपमेययोरभिन्न एको धर्मश्चेद् उपमालङ्कारस्य हेतुस् तदा एका । एवम् उपमेयोपमानानां भिन्ना नाना धर्माश् चेत् हेतवस् तदा अन्या । अत्र कृष्णाङ्ग श्रीरादौ उपमेयं सा अङ्गश्रीमाधुरी रूपोपमेयस्योपमानं । एवम् अग्रेऽपि । गुणालेर्माधुरी उपमानम् अत्र अनुपमरूपाभिन्न धर्मस्य हेतुत्वं । साधर्म्ये रसनोपमा ॥४०॥
**कान्तावली-प्रेम-परिप्लुता हरेः
कान्तावलीव प्रचुरा विदग्धता ।
विदग्धतेवास्य रसज्ञतोत्तमा
रसज्ञतेवानुपमा विलासिता ॥४१॥ **
(वैधर्म्ये रसनोपमा)
हरेः कान्तावली प्रेम्ना परिप्लुता । अस्या विदग्धता कान्तावलीव प्रचुरा । अस्य रसञ्जता विदग्धतेवोत्तमा । अस्य विलासिता रसञ्जतेवनुपमा । अत्रोपमेयं कान्तावली सा विदग्धता रूपोपमेयस्य उपमानं । एवम् उत्तरोत्तरे उपमेयस्योपदानत्वं । उपमेयोपमाना भिन्ना नाना धर्मा हेतवश्चातो वैधर्म्ये रसनोपमा ॥४१॥
**सख्यं विचित्रं सुबलादिकानां
कृष्णस्य विज्ञाय निगूढ-तृष्णाम् ।
शय्यां निकुञ्जे विरचय्य यत्नाद्
आनीय कान्तां रमयन्त्य् अमूम् ये ॥४२॥ **
(रसवत्, अत्र सख्य-रसस्याङ्गं शृङ्गारः)
सुबलादीनां सख्यं विचित्रं । ये सुवलादयः कृष्णस्य निगूडां अतिगुप्तां रिष्नां विञ्जाय निकुञ्जे शयां विरचय यत्नात् कान्तामानीय अमुं कृष्णं रमयन्ति । रसवत्प्रेय उर्जास्व समाहित-समाख्यया । रसालङ्क्रितयोऽप्यन्याश् चतस्रो रसपोषिकाः । यत्र रसे स्फुटतया शब्दार्थाल्ङ्कारा निर्णेतुं न शक्यते । केवल रससामग्री स्हुरति । तत्रैता रसालङ्क्रितयो वोद्धव्याः । ते च थायोग्यमेव सम्भवन्ति । श्रिङ्गारे प्रेय उर्ज्जस्वी वीरवीभत्स रौद्रएषु । अन्यावन्येषु एतेऽपि सति सम्भावे शब्दार्थालङ्काराभ्यां संस्रिष्टौ वहवो भवन्तीत्यादि ञ्जेयं । अस्यार्थः । अन्यौ रसवत् समाहितौ अन्येषु अलङ्कारेषु ञ्जेयौ । एतेषाम् अलङ्काराणामुदाहरणे सम्भवे सति एते रसालङ्काराभ्यां सह संरिष्तौ सत्यां वहवो भवन्ति । संस्रिष्टिरङ्गाङ्गिभावः । स एवात्र । अत्र सखरसस्य मुख्यत्वं श्रिङ्गारस्य गौणत्वम् अङ्गाङ्गित्वं ॥४२॥
**धन्यं वृन्दारण्यं यस्मिन्
विलसति स वर-रमणीभिः ।
प्रति-कुञ्जं प्रति-पुलिनं
प्रति-गिरि-कन्दरम् असौ कृष्णः ॥४३॥ **
(रसवत्, अत्र वन-वर्णन-भावस्याङ्गं शृङ्गारः)
व्रिन्दारण्यं धन्यं । यत्र कृष्णः कुञ्जं कुञ्जं प्रति रमणीभिर् विलसति । अत्रापि पूर्ववत् । वनवर्णनभावोऽङ्गी तस्याङ्गं श्रिङ्गारः ॥४३॥
**कान्ताङ्ग-सङ्गम-विलग्न-विलेपनानि
शष्पेषु भान्ति पतितानि हरेः पदाब्जात् ।
आलिप्य यानि हृदये विजहुः पुलिन्द्यस्
तद्-वेणु-गीत-मुख-दर्शन-कामजाधिम् ॥४४॥ **
(प्रेयः, अत्र शुचेर् आङ्गं पुलिन्दीनाम् एक-निष्ठत्वाद् भावः)
हरेः पदाव्जात् शष्पेषु वालत्रिणेषु पतितानि भान्ति कान्ताङ्ग सङ्गमविलग्न विलेपनानि यानि पुलिन्द्या ह्रिदये आलिप्य तत्तस्य कृष्णस्य वेणुगीतमुख दर्शनाभ्यां कामजन्यमाधिं मनःपीडां विजहुः । श्रिङ्गारे प्रेय इत्युक्त्यात्र शुचेः श्रिङ्गारस्य अङ्गं पुलिन्दीनां भावः कृष्णैकनिष्ठत्वात् प्रेयः ॥४४॥
**वृन्दावनम् अतिपुण्यं यस्मिन् कुसुम-स्मितैः फलोरोजैः ।
पल्लव-कुलाधैर् अपि सुखयति कृष्णं लतापालिः ॥४५॥ **
(प्रेयः, अत्र वन-वर्णन-भावस्याङ्गं लतानां भावः)
यस्मिन् व्रिन्दावने लतापालिः कुसुमफल पल्लव रूपस्मित स्तनाधरैः कृष्णं सुखयति । पूर्ववत् वनवर्णन भावोऽङ्गी लतानां भावोऽङ्गं प्रेयः ॥४५॥
शुशुभुर् अचल-दर्यो यासु लीना रमण्यो
हरि-हत-दनुजानां चण्ड-रण्डाः पुलिन्दैः ।
अशन-सुरत-सत्रैः पोषितास् तोषम् आप्तास्
तद्-अमल-गुण-गानैः श्री-हरिं ताः स्तुवन्ति ॥४६॥
(ओजस्वी, अत्र दरी-वर्णन-भावस्याङ्गं पर-स्त्री-रति-रसाभासस् तस्याङ्गं शत्रु-कृत-शत्रु-स्तुति-रूप-भावाभासः)
अचलस्य गोवर्धनाद्रेर् दर्यः शुशुभुः । यासु दरीषु हरिणा हतदनुजानां रमण्यो लीनाः । चण्ड्यश् च ता रण्डा विध्वाश्चेति तथाभूतां । पुलिन्दैस् तत्रस्तैः सह अशनं भोजनं तथा सुरतसत्रं च तैः पोषिता स्तएव तोषमानन्दं प्राप्तास् ता स्तत्तस्य कृष्णस्यामल गुणगनैः श्रीहरिं स्तुवन्ति । पूर्ववत् श्रिङ्गारे प्रेय ओजस्वी वीरवीभत्स रौद्रेषु असौ । अत्र वीररस श्रिङ्गार रसयोः स्त्त्वादोजस्वी । दरीवर्णनमङ्गं तयाङ्गं परस्त्रीरतिरूपो रसाभासस्तस्याङ्गं शत्रुस्तुतिरूपो भावाभासः ॥४६॥
देवेन्द्रजित्सु पृथुकात् पृथुकोपमाद् भीर्
अस्मासु सत्सु न तवेति गिरासुराणाम् ।
कंसस्य यो हृदि मदः स तु तेषु सर्वेष्व्
आप्तेषु तत्-पृथुकतां क्व गतो न जाने ॥४७॥
(समाहितम्, अत्र वीर-रसे मदाख्य-व्यभिचारि-भावस्य प्रशमोऽङ्गं)
देवेन्द्रजित्सु अस्मासु सत्सु विद्यमानेषु प्रिथुकोपमात् चिपिटकतुल्यात् । ये चिपिटका धान्योत्पन्ना अनायासेन भक्ष्याः, ताद्रिशात् प्रिथुकात् वालकात् कृष्णात् तव भिर्भयं न स्यात् । इत्य्सुराणां गिरा कंसस्य ह्रिदि यो मद आसीत् तेषु सर्वेषु तत्तां प्रिथुकतामाप्तेषु सत्सु स तु मद क्व गतो न जाने । प्रिथुकौ विपिटार्भक वित्यमरः । अत्र समाहितं वीररसोऽङ्गी तस्य मदाख्य व्यभिचारिभावस्य प्रशमोऽङ्गं । समाहितसमाक्यया इत्युक्तं तस्योदाहरणं ॥४७॥
**एवं हि कृष्णस्य गुणा अनन्ता
लीलाप्य् अनन्ता महिमाप्य् अनन्तः ।
तत्-तत्-कण-स्पर्शनम् आत्म-वाचां
विशुद्धये तद्-गणनाशयालम् ॥४८॥ **
(आक्षेपः)
तत्तत् तेषां तेषां गुणलीला महिम्नां कर्णस्य स्पर्शनं आत्मवचसां विशुधये क्रितं । तत्तेषां गुणादीनां गणनाशयालं वर्थं आनन्त्यात् । आक्षेपो वक्तुमिष्टस्य यो विशेषविवक्षया । निषेधो वक्ष्यमाणत्वे नानात्वेन च स द्विधा । अत्र विशेषस्य विवक्षया वक्तुमिष्टानां गुणादीनामानन्त्यम् उक्त्वा निषेध आक्षेपः ॥४८॥
**इत्थं हरेस् तद्-गुण-वर्णनाम्बुधौ
निमज्जनोन्मज्जन-फुल्ल-मानसौ ।
सारी-शुकौ स्वेप्सितम् ईश्वरौ निजा-
वयाचतां तद्-गुण-वर्णनैः पुनः ॥४९॥ **
कृष्णस्य तत्तत्र गुण वर्णनाम्बुधौ निमग्नोन्मग्नेन फुल्ले मानसे ययोस्तौ सारीशुकौ । पुनर्निजौ ईश्वरौ तद्गुण वर्णनैः स्वेप्सितमयाचतां ॥४९॥
अथ श्री-कृष्ण-चन्द्राष्टकम्
अम्बुदाञ्जनेन्द्रनील-निन्दि-कान्ति-डम्बरः
कुङ्कुमोद्यद्-अर्क-विद्युद्-अंशु-दिव्यद्-अम्बरः ।
श्रीमद्-अङ्ग-चर्चितेन्दु-पीत-नाक्त-चन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥५०॥
कृष्णस्य तत्तत्र गुण वर्णनाम्बुधौ निमग्नोन्मग्नेन फुल्ले मानसे ययोस्तौ सारीशुकौ । पुनर्निजौ ईश्वरौ तद्गुण वर्णनैः स्वेप्सितमयाचतां ॥४९॥
गण्ड-ताण्डवाति-पण्डिताण्डजेश-कुण्डलश्
चन्द्र-पद्म-षण्ड-गर्व-खण्डनास्य-मण्डलः
बल्लवीषु वर्धितात्म-गूढ-भाव-बन्धनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥५१॥
गण्डद्वये ताण्डवं न्रित्यं तत्रतिपण्डिते अण्डजेशकुण्डले मकरकुण्डले यस्य सः । चन्द्रादीनां गर्वं खण्डतीति गर्वखण्डनमास्य मण्डलं यस्य सः । वल्लवीषु गोपीषु वधितं आत्मनो गुप्तभावस्य वन्धनं वन्धो येन सः ॥५१॥
नित्य-नव्य-रूप-वेश-हार्द-केलि-चेष्टितः
केलि-नर्म-शर्म-दायि-मित्र-वृन्द-वेष्टितः ।
स्वीय-केलि-काननांशु-निर्जितेन्द्र-नन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥५२॥
नित्यनव्यानि रूपवेशहार्दं प्रेमकेलिचेष्टितं तानि यस्य सः । केलिनर्मणा क्रीडायां परिहासवाद्येन शर्मदायिनां सुखदायिनां मित्राणां व्रिन्दैः वेष्टितः । स्वीयकेलिकाननानां अंशुभिः किरणैर् निजितमिन्द्रस्य नन्दनं तदाख्यं येन सः ॥५२॥
प्रेम-हेम-मण्डितात्म-बन्धुताभिनन्दितः
क्षौणी-लग्न-भाल-लोक-पाल-पालि-वन्दितः ।
नित्य-काल-सृष्ट-विप्र-गौरवालि-वन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥५३॥
प्रेमरूपहेम्ना मण्डितो व्याप्त आत्मा मनो येषां तेषां वन्धुतयाऽभिनन्दितः आनन्दितः । क्षौणीलग्नं भालं ललाटं येषां लोकपालानां पालिभिः श्रेणीभिर् वन्दितः । नित्यक्ष्लस्रिष्टं प्रतिदिनं प्रातरादियथोचित समयेषु क्रितं विप्राणां गौरवाणां गुरुलोकानामालिषु समूहेषु वन्दनं नमस्कारो येन सः ॥५३॥
लीलयेन्द्र-कालियोष्ण-कंस-वत्स-घातकस्
तत्-तद्-आत्म-केलि-वृष्टि-पुष्ट-भक्त-चातकः ।
वीर्य-शील-लीलयात्म-घोष-वासि-नन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥५४॥
लीलाया इन्द्रस्य कलियस्य चोष्नोमदस् तं कंसं वत्सं वत्सासुरं च । कंस वंशमिति पाठे तु कंससहितं तत्प्रेरितारिसमूहं हन्तीति यः सः । तासां तासामिन्द्रदिमदघातादि रूपाणामात्मनः स्वस्य केलीनां व्रिष्टिभिः पुष्टा भक्तचातका येन सः । वीर्यादिभिरात्मघोष वासिनो नन्दयतीति सः ॥५४॥
कुञ्ज-रास-केलि-सीधु-राधिकादि-तोषणस्
तत्-तद्-आत्म-केलि-नर्म-तत्-तद्-आलि-पोषणः ।
प्रेम-शील-केलि-कीर्ति-विश्व-चित्त-नन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥५५॥
कुन्ञ्जकेलिरासकेलि रूपसीधुना राधिकादीन्तोषयतीति सः । तैस्तैरात्मनः केलिषु कुञ्जरासकेलिषु यानि नर्माणि तैस् तत्तदालीराधादीनां सखीः पुष्नातीति पोषणः । प्रेमशीलकेलिभिर् याः कीर्तयस्ताभिर् विश्वचित्तं चन्दति आह्लादने दीप्तौ च ॥५५॥
रास-केलि-दर्शितात्म-शुद्ध-भक्ति-सत्पथः
स्वीय-चित्र-रूप-वेश-मन्मथालि-मन्मथः ।
गोपिकासु-नेत्र-कोण-भाव-वृन्द-गन्धनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥५६॥
रासकेलिभिर् दर्शित आत्मनः शुधभक्तेः सत्पथः याः श्रूत्वा तत्परो भवेत् इत्यनेन रूपेण साधुः पन्थाः भजनमर्गः सतां भक्तानां भजनमार्गो वा येन सः स्वीयाभ्यां चित्राभ्यां मनोहराभ्यां रूपवेशाभ्यां मन्मथश्रेणेर् मनांसि मथ्नातीति मन्मथः । गोपिकासु गोपीषु नेत्रकोणेन भावव्रिन्दस्य गन्धनः । गन्धयति चूचयतीति सः । किम्बा गोपिकानां सुष्ठु नेत्रकोणभावव्रिन्देन पुनः पुनर् नेत्रकोणेक्षणेन गन्धन उत्साहकः । ताः एव तेन गन्धेन उत्साहिका यस्य वा सः । उत्साहेन च हिंसायां सूचनेचापि गन्धन मिति नानार्थवर्गः ॥५६॥
पुष्पचायि-राधिकाभिमर्ष-लब्धि-तर्षितः
प्रेम-वाम्य-रम्य-राधिकास्य-दृष्टि-हर्षितः ।
राधिकोरसीह लेप एष हरिचन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥५७॥
पुष्पाणां चयने उत्थापने शीलं यस्यास् तस्या राधिकायाः अभिमर्शलव्धौ स्पर्शलवधौ तर्षितस् त्रिषितः । किम्बा तर्षोऽभिलाषः स जातो यस्य सः । इतोजातार्थे । प्रेमवाम्येन रम्यस्य राधिकाया आस्यस्य द्रिष्ट्या दर्शनेन आस्यद्रिष्टिभ्यां वा । ते द्रिष्त्वेत्यर्थः हर्षितः । इह राधिका उरसि एष कृष्णः हारिचन्दनो मनोहरचन्दन सम्ब्न्धी किम्वा कर्पूरादियुक्तं चन्दनं हरिचन्दनं तत्सम्वन्धी । किम्वा हरिचन्दनं चन्दनजातीयदेव व्रिक्षस्तत् सम्बन्धी लेपः । “पुंसि वा हरिचन्दन” इत्यमरः ॥५७॥
अष्टकेन यस् त्व् अनेन राधिकाऽसुवल्लभं
संस्तवीति दर्शनेऽपि सिन्धुजादि-दुर्लभम् ।
तं युनक्ति तुष्ट-चित्त एष घोष-कानने
राधिकाङ्ग-सङ्ग-नन्दितात्म-पाद-सेवने ॥५८॥
इति श्री-कृष्ण-चन्द्राष्टकं सम्पूर्णम्
अथ श्री-राधिकाष्टकम्
यो जनः अनेनाष्ट्केन राधायाः असूनां प्राणानां वल्लभं कृष्णं संस्तवीति । कीद्रिशं सिन्धुजा लक्ष्मीस् तदादेर् दर्शनमपि दुर्लभं । एष कृष्णस्तुष्टचित्तः सन् तं जनं घोषकानने व्रजवने । राधिक्ष्या अङ्गसङ्गेनानन्दितस्यात्मनः स्वस्य किम्वा राधिकाङ्गसङ्ग नन्दितासन्नात्मनः स्वस्य पादसेवने युनक्ति ॥५८॥
कुङ्कुमाक्त-काञ्चनाब्ज-गर्व-हारि-गौरभा
पीतनाञ्चिताब्ज-गन्ध-कीर्ति-निन्दि-सौरभा ।
बल्लवेश-सूनु-सर्व-वाञ्छितार्थ-साधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥५९॥
राधिका मह्यमात्मनः स्वस्य प्ष्दपद्मयोर् दास्यदा भवतु, कीद्रिशी ? Kउङ्कुमलिप्तस्य स्वर्णपद्मस्य सुवर्णवर्ण पद्मस्य्स वा अभिमानापहारिणी गौरी भा कान्तिर् यस्याः सा । पीतनेनाञ्चितस्य युक्तस्याव्जस्य गन्धरूपा गन्धजन्या वा या कीर्तिस् तस्या निन्दि निन्दनशीलं सौरभं यस्याः सा श्रीकृष्णस्य सर्वाञ्छितार्थानां साधिका दात्री ॥५९॥
कौरविन्द-कान्ति-निन्दि-चित्र-पट्ट-शाटिका
कृष्ण-मत्त-भृङ्ग-केलि-फुल्ल-पुष्प-बाटिका ।
कृष्ण-नित्य-सङ्गमार्थ-पद्म-बन्धु-राधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥६०॥
कुरुविन्दः प्रवालस् तस्य कान्तेर् निन्दिनी निन्दनशीला चासौ चित्रा चित्रयुक्ता च पट्टसूत्र निर्मिता शाटिका यस्याः सा । कृष्णरूपमत्तभ्रमर केल्यर्थं प्रफुल्ल पुष्पवनस्वरूपा । कृष्णस्य सङ्गमार्थ पद्मवन्धोः सूर्यस्याराधिका आराधनकारिणी ॥६०॥
सौकुमार्य-सृष्ट-पल्लवालि-कीर्ति-निग्रहा
चन्द्र-चन्दनोत्पलेन्दु-सेव्य-शीत-विग्रहा ।
स्वाभिमर्श-बल्लवीश-काम-ताप-बाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥६१॥
सौकुमार्येण स्रिष्टः पल्लवश्रेणीनां कीर्त्तेर्निग्रहोऽपमानो यया सा । चन्द्रः कर्पूरस् तेन सह चन्दनोत्पलेन्दुभिः सेव्यो दुर्लभत्वात् लव्धुमाराधो यः शीतः शितगुणः स विग्रहो यस्याः सा । अतः स्वस्याभिमर्शेन वल्लवीशश्य कृष्णस्य कामतापस्य वाधिका ॥६१॥
विश्व-वन्द्य-यौवताभिवन्दितापि या रमा
रूप-नव्य-यौवनादि-सम्पदा न यत्-समा ।
शील-हार्द-लीलया च सा यतोऽस्ति नाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥६२॥
सौकुमार्येण स्रिष्टः पल्लवश्रेणीनां कीर्त्तेर्निग्रहोऽपमानो यया सा । चन्द्रः कर्पूरस् तेन सह चन्दनोत्पलेन्दुभिः सेव्यो दुर्लभत्वात् लव्धुमाराधो यः शीतः शितगुणः स विग्रहो यस्याः सा । अतः स्वस्याभिमर्शेन वल्लवीशश्य कृष्णस्य कामतापस्य वाधिका ॥६१॥
रास-लास्य-गीत-नर्म-सत्कलालि-पण्डिता
प्रेम-रम्य-रूप-वेश-सद्गुणालि-मण्डिता ।
विश्व-नव्य-गोप-योषिद्-आलितोऽपि याधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥६३॥
रासे लास्यं न्रित्यं च नर्मक्रीडा चैषां सत्कलानां सद्वैदग्दग्धीनामालौ श्रेण्यां पण्डिता प्रेम्ना च रम्यौ रूपवेशौ च सद्गुणाश्चैषामालिभिश् च मण्डिता विश्वनव्या विश्वाः सर्वा नव्याः नवीना या या गोपयोषितस् तासामालितः श्रेणितोऽपि या राधा अधिका ॥६३॥
नित्य-नव्य-रूप-केलि-कृष्ण-भाव-सम्पदा
कृष्ण-राग-बन्ध-गोप-यौवतेषु कम्पदा ।
कृष्ण-रूप-वेश-केलि-लग्न-सत्-समाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥६४॥
नित्यनव्या ये रूपं च केलिश् च । कृष्णभावः कृष्णे स्वस्याः भावः कृष्णस्य स्वस्यां वा भावः स च एव सम्पत्तया करणेन । क्रिषे रागवन्धो यासां कृष्णस्य रागवन्धो यासु वा तासु गोपयुवतीषु कम्पदा । स्वपक्षासु हर्यजं विपक्षासु कातरजं कम्पं ददातीति भावः । कृष्णस्य रूपवेश केलिषु लग्नः सत्समाधिः शोभनं चित्तैकाग्र्यं यस्याः सा ॥६४॥
स्वेद-कम्प-कण्टकाश्रु-गद्गदादि-सञ्चिता-
मर्ष-हर्ष-वामतादि-भाव-भूषणाञ्चित ।
कृष्ण-नेत्र-तोषि-रत्न-मण्डनालि-दाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥६५॥
स्वेदो घर्मः कम्पः कण्टकं पुलकं तदादिभिः सञ्चिता संयुक्त्या । अमर्षः क्रोधस् तदादिभाव भूषाभिरञ्चिता पूजिता शोभिता । किम्बा तद्भूषन्यञ्चिता गता प्राप्ता । गतिञ्जान प्राप्त्यर्थानाम् एकवद्भावात् । कृष्णनेत्रेयोस् तोषिण्यास् तोष्णशीलाया रत्नभूषणालिदाधिका धात्री । दध धारणे धातुः ॥६५॥
य क्षणार्ध-कृष्ण-विप्रयोग-सन्ततोदिता-
नेक-दैन्य-चापलादि-भाव-वृन्द-मोदिता ।
यत्न-लब्ध-कृष्ण-सङ्ग-निर्गताखिलाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥६६॥
या राधा क्षणार्धमेव कृष्णवियोगेन हेतुना समन्त्यतं अनिशं सम्यक् ततं विस्रितं विपुलं यथा स्यात्तथा वा । उदितानां अनेकानां भावानां व्रिन्देन कर्त्रा तोदिता व्यथिता । यद्वा । तद्व्रिन्देन हेतुना तोदो व्यथा जातो यस्याः सा । तुद व्हथने धातुः । इतो जातार्थे । नोदिता वेति पाठे तेन प्रेरिताऽनायत्तीक्रित्येत्यर्थः । नुद प्रेरणे । यत्नेन स्वक्रितेन कृष्णक्रितेन वा दूतीप्रेष्णादिना प्रेष्णादिना प्रयत्वेन लव्धेन कृष्णसङ्गेन निर्गता अखिला आधयो मनःप्ःल्दाः यस्याः सा ॥६६॥
अष्टकेन यस् त्व् अनेन नौति कृष्ण-वल्लभां
दर्शनेऽपि शैलजादि-योषिद्-आदि-दुर्लभाम् ।
कृष्ण-सङ्ग-नन्दितात्म-दास्य-सीधु-भाजनं
तं करोति नन्दितालि-सञ्चयाशु सा जनम् ॥६७॥
इति श्री-राधिकाष्टकं सम्पूर्णम्
अनेनाष्टकेन कृष्णवल्लभां श्रीराधां यस्तु नौति स्तौति । कीद्रिशीं । दर्शनेऽपि शैलजा पार्वती तदादियोषिच्छ्रेणे दुर्लभां । तां जनं सा राधा नन्दितः आलीनां सञ्चयः समूहो यया सा । किम्वा । अलिसञ्चयेन सहानन्दिता सती । राजदन्तादिवत् पूर्वनिपातः । कृष्णसङ्गेन नन्दिताया आत्मनः स्वस्या दास्यरूप सीधुरम्रितं तस्य भाजनं पात्रमाशु शीघ्रं करोति ॥६७॥
इति तन्-मुखतः कृष्ण-गुणाली-वर्णनामृतम् ।
पीत्वा मग्ना सभा सासीद् अपारानन्द-वारिधौ ॥६८॥
तन्मुखतस् तयोः सारीशुकयोर् मुर्खाभां कृष्णगुणाली वर्णनाम्रितं पीत्वा सा सभा पारानन्दसमुद्रे मग्नासीत् ॥६८॥
इति सदानन्दविधायिन्यां सप्तदशसर्गार्थः ॥
गोविन्दलीलाम्रिते मद्याह्न लीलायां सप्तदशसर्गः समाप्तोऽभूत् ।
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः सप्तदशाभिधोऽयम् अगान् मध्याह्न-लीलाम् अनु ॥
॥१७॥
…
(१८)