षोडशः सर्गः
अथ क्षणात् तौ प्रतिलब्ध-बोधाव्
उत्थाय तल्पोपरि सन्निविष्टौ ।
पूर्वं प्रबुद्धाः प्रसमीक्ष्य सख्यो
ययुः सखीभ्यां सह तत्-समीपम् ॥१॥
तौ राधाकृष्णौ उत्थाय तल्पोपरि उपविष्टौ प्रसमीक्ष्य सख्यः । सखीभ्यां
सुबलमधुमङ्गलाभ्यां सह तयोः समीपं ययुः ॥१॥
वृन्दाप्य् आयात् स्व-शिष्यौ सा बालौ विद्या-विशारदौ ।
कलोक्ति-मञ्जुवाक्-सञ्ज्ञौ गृहीत्वा सारिका-शुकौ ॥२॥
वृन्दा स्वशिष्यौ बालौ सारीशुकौ गृहीत्वा आयात् ॥२॥
ततस् तौ पठतो नम्रौ जय वृन्दावनेश्वर ।
जय वृन्दावनेशानि जयताल्यः प्रसीदत ॥३॥
ततस्तौ नम्रौ सन्तौ पठतः । पाठमाह जयेत्यादि ॥३॥
राधा-दृग्-इङ्गिताभिज्ञा वृन्दा विज्ञा समादिशत् ।
पठेति कीरं कीरोऽपि पपाठानन्दयन् सभाम् ॥४॥
विज्ञ पण्डिता वृन्दा राधाया दृगिङ्गितस्याभिज्ञा सती कीरं पठेति समादिशत् ।
सोऽपि कीरः सभामानन्दयन् पपाठ ॥४॥
**गुणैः स्वैर् हीना मे यदपि कविता नातिमधुरा
सतां स्वाद्याथाप्य् अच्युत-गुण-युतत्वेन भविता ।
अयः-शस्त्री स्पृष्टा मृगयु-गृह-गा स्पर्श-मणिना
सुवर्णत्वं प्राप्ता भवति महतां भूषण-कृते ॥५॥ **
(दृष्टान्तः)
मे कविता अति मधुरा न स्वैर्गुणैर् हीना यदपि अथाप्यच्युतगुणयुतत्वेन
सतां स्वाद्या भविता दृष्टान्तमाह । अयो लौहः धातूनां मध्ये हीनगुणस्तत्रापि शस्त्री स्वल्पप्रमाणा । स्यात् शस्त्री चासिपुत्री च छूरिका इत्यमरः । व्याधेन स्पृष्ट ततो व्याधस्य गृहं गता दैवात् स्पर्शमणिना स्पृष्टा सुवर्णत्वं प्राप्ता सती महतां भूषणकृते भवति । सर्वेषामेव धर्माणां दृष्टान्तः प्रतिबिम्बद् इति दृष्टान्तलक्षणात् । अलङ्कारादिगुणैर्हीना स्वल्पप्रमाणा मृगयुवदयमपवित्रः स्पर्शमणिवत् अच्युतगुणः लौहस्य सर्वधर्मो ज्ञेयः ॥५॥
**चक्रार्धेनु-यवाष्ट-कोण-कलसैश् छत्र-त्रिकोणाम्बरैश्
चाप-स्वस्तिक-वज्र-गोष्पद-दरैर् मीनोर्ध्वरेखाङ्कुशैः ।
अम्भोज-ध्वज-पक्व-जाम्बव-फलैः सल्-लक्षणैर् अङ्कितअं
जीयात् श्री-पुरुषोत्तमत्व-गमकैः श्री-कृष्ण-पाद-द्वयम् ॥६॥ **
(स्वभावोक्तिः)
मे कविता अति मधुरा न स्वैर्गुणैर् हीना यदपि अथाप्यच्युतगुणयुतत्वेन
सतां स्वाद्या भविता दृष्टान्तमाह । अयो लौहः धातूनां मध्ये हीनगुणस्तत्रापि शस्त्री स्वल्पप्रमाणा । स्यात् शस्त्री चासिपुत्री च छूरिका इत्यमरः । व्याधेन स्पृष्ट ततो व्याधस्य गृहं गता दैवात् स्पर्शमणिना स्पृष्टा सुवर्णत्वं प्राप्ता सती महतां भूषणकृते भवति । सर्वेषामेव धर्माणां दृष्टान्तः प्रतिबिम्बद् इति दृष्टान्तलक्षणात् । अलङ्कारादिगुणैर्हीना स्वल्पप्रमाणा मृगयुवदयमपवित्रः स्पर्शमणिवत् अच्युतगुणः लौहस्य सर्वधर्मो ज्ञेयः ॥५॥
श्री-कृष्णाङ्घ्रि-युगं सकृच् छ्रुति-गतं सर्वान्य-तृष्णा-हरं
ध्यातं यद् विपदां विलोप-निपुणं सत्-सम्पदां दायकम् ।
दृष्टं चारुतया चमत्-कृति-पदं सर्वेन्द्रियाह्लादकं
पृष्टं यत्-क्लम-हन्तृ-निवृति-करं तन् मे क्रियात् काङ्क्षितम् ॥७॥
(उदात्त-स्वभावोक्ती)
यत् कृष्णाङ्घ्रियुगं सकृदेकवारं श्रुतिगतं सत् सर्वान्यतृष्णां कृष्णचरणभिन्ने तृष्णां हरतीति तं यदङ्घ्रियुग्मं ध्यातं सत् विपदां नाशे निपुणं । सत्सम्पदां दायकञ्च । दृष्टं चारुतया सौन्दर्येण चमत्कृतीनां पदं स्थानं सर्वेन्द्रियाणामानन्दकरञ्च । स्पृष्टं क्लमस्य दुःखस्य हन्तृ सुखकरञ्च । तं चरणयुगं मे काङ्क्षितं क्रियात् । उदात्तलक्षण—समृद्धिरुदात्तं वस्तुनः परा । अत्र श्रीकृष्ण चरणयुगस्यान्यतृष्णानाशकादिरूपा परा समृद्धिरुदात्तं । कृष्णाङ्घ्रियुगस्यान्यतृष्णाहरत्वादिरूपं स्वभाववर्णनं स्वभाबोक्तिश्च ॥७॥
**सौभाग्यानां सद्-रुचां सद्-गुणानां
सम्पत्तीनां प्राकृताप्राकृतानाम् ।
लीलागारं दातृ च ध्यात-मात्रं
सर्वस्वं नः कृष्ण-पादाब्जम् अस्तु ॥८॥ **
(उदात्त-स्वभावोक्ती)
यत् कृष्णपादाब्जं ध्यातमात्रं प्राकृताइप्राकृतानां सौभाग्यादीनां दातृ
दायकं लीलागृहञ्च । तच्चरणं नोऽस्माकं सर्वस्वमस्तु । अत्रापि पूर्ववत् चरणस्य परा समृद्धिः । चरणस्य स्वभावर्वर्णनं । उदात्त स्वभावोक्तौ ज्ञेये ॥८॥
यस्योपासनयाप्त-शक्ति-लवतश् चिन्तामणित्वं शिलाः
काश्चित् काम-गवीत्वम् एत्य धवलाः काश्चिच् च कल्पागताम् ।
केचिद् भूमि-रुहा बभूवुर् अखिलाभीष्ट-प्रदाः प्राणिनां
तच् छ्री-कृष्ण-पदारविन्द-युगलं को नाश्रयेत् स्व-प्रदम् ॥९॥
(पद-गत-काव्य-लिङ्गम्)
यस्य कृष्णपादाद्जस्य उपासनया प्राप्तशक्तिलवात् काश्चित् शिलाश्चिन्तामणित्वमेत्य प्राप्य, तथा काश्चिद्गावः कामगवीत्वं कामधेनुत्वमेत्य, केचिद्वृक्षाः कल्पागतां कल्पवृषतामेत्य, प्राणिनामखिलाभीष्टप्रदा बभुवुः । तत् कृष्णपादपद्मयुगलं को जनो नाश्रयेत् । कीदृशं स्वप्रदं स्वः प्रददातीति तत् । ते त्वभीष्टदा एव नतु स्वप्रदाः । काव्यलिङ्गलक्षणं—पदवाक्यार्थताहेतोः काव्यलिङ्गं प्रकीर्त्यते । अस्यार्थः । पदार्थतारूपहेतोर् यत्र कार्यसिद्धिस्तथा वाक्यार्थतारूपहेतोः सकाशात् कार्यसिद्धिस्तत्र काव्यलिङ्गं । यस्योपासनापुशक्तिलवात् शिलादीनामखिलाभीष्टप्रदत्वरूपकार्यसिद्धिरत्र पदार्थता हेतुकं काव्यलिङ्गं व्याप्तुम् ॥९॥
परिमल-वासित-भुवनं
स्व-रसामोदित-रसज्ञ-रोलम्बम् ।
गिरिधर-पादाम्भोजं
कः खलु रसिकः समीहिते हातुम् ॥१०॥
कृष्णपदाम्भोजं कः हातुं त्यक्तुं समीहते । कीदृशं परिमलेन सौगन्ध्येन वासितं सुगन्धीकृतं भुवनं येन तत् । स्वस्य रसेनामोदिता हर्षिता रसज्ञरूपरोलम्बा भ्रमरा येन तत् ॥१०॥
**लवणिम-मधु-पूर्णं स्वाङ्गुलि-श्रेणि-पर्णं
युवति-नयन-भृङ्ग-व्यूह-पीतं सुशीतम् ।
नखर-निकर-रोचिः केशरं सौरभोर्मी-
परिमलित-दिग्-अन्तं कृष्ण-पादाब्जम् ईडे ॥११॥ **
(रूपकम्)
कृष्णपादाब्जमीडे स्तौमि । कीदृशं लवणिममधुपूर्णं । पदाङ्गुलिश्रेणयः पत्रापि यस्य तत् । युवतीनां नेत्ररूपभ्रमरसमूहेन पीतं । नखानां कान्तयः केशरा यत्र तत् । सौरभपरस्परया परिमलिता वासिता दिगन्ता दिशामन्ताः प्रान्तः-सीमानो वा येन तत् । अन्तः प्रान्तस्वरूपयोरिति विश्वः । रूपकं तु तत् यत्ता दात्म्यं द्वयोः । अस्यार्थः । द्वयोरूपमानोपमेययोः । अतिशयाभेदादपह्नुतिभेदत्वं तादात्म्यं । यत्रारोपविषयस्योपमेयस्य तथारोप्यमाणस्य उपमानस्य च द्वयोरेव बोधकशब्दौ वर्तेते । तत्र समस्तवस्तविषयकं रूपकं । तदुक्तं । तच्च, द्विधैवेति विदुर्बुधाः । समस्तवस्तविषयमेकदेशविवर्ति च । आरोप्यमाणारोप्यविषयौ यत्र शब्दगौ तदादि । तत्र पद्मश्रीकृष्णपदयोस्तादात्म्यं परिमलमध्वादीनां तादात्म्यं समस्तवस्तुविषयं रूपकं । अनेकसजातीयरूपस्य विद्यमानात् प्रासङ्गिकञ्च ॥११॥
**पञ्चेन्द्रियाह्लादि-गुणैर् महत्तमै
रक्तोत्पलाब्जानि वदान्यतादिभिः ।
कल्प-द्रुमाणां जितवच् च पल्लवान्
केनोपमेयं चरणाम्बुजं हरेः ॥१२॥ **
(व्यतिरेकः)
महत्तमैः पञ्चेन्द्रियाण्याह्लादयितुं शीलं येषां तथाभूतैर्गुणैरक्तोम्पलाब्जानि जितवत् । वदान्यतादिभिर्महत्तमैर्गुणैः कल्पद्रुमानां पल्लवान् जितवत् । समस्तस्यासमस्तेन नित्यापेक्षेण सङ्गतेर् इति समस्तानां गुणानां विशेष्याणां वदान्यतादिभिरसमस्तै नित्यापेक्षैर् विशेषणैः सङ्गतिः । इत्थम्भुतं हरेश्चरणाम्बुजं केनोपमेयं न केनापीत्यर्थः । उपमानाद्विलक्षणो व्यतिरेकः । गुणेन दोषेण चात्र उपमानात् रक्तोत्पलाब्जात् कल्पद्रुमपल्लवात् । हरेः पदाम्बुजं विलक्षणं । गुणेनाधिकं व्यतिरेकः ॥१२॥
**नख-शितिरुचि-गङ्गा कृष्ण-पाद-प्रयागे
तद्-उपरि शिति-रोचिर् भानुजा सङ्गतासीत् ।
अरुण-किरण-धारा धातृ-कन्याप्य् अधस्ताल्
लसति निखिल-सर्वाभीष्ट-देयं त्रिवेणी ॥१३॥ **
(रूपकोत्प्रेक्षे)
कृष्णपादप्रयागे निखिलानां जनानां सर्वाभीष्टदेयं त्रिवेणी लसति ।
त्रिवेणीत्वमाह—चरणाग्रस्थितानां नखानां सुक्लकान्तिरेव गङ्गा चरणोपरिशिति रोचिः कृष्णकान्तिर्भानुजा यमुना । अधस्ताच्चरणयोरधस्तदरुणधारा धातृकन्या सरस्वती च सङ्गता मिलितासीत् । शितिधवलमेचकाव् इत्यमरः । रूपकमत्रोपमानोपमेययोः । त्रिवेणी कृष्णचरणसम्बन्धित्रिविधकान्त्यो स्तादात्म्यं अतिशयाभेदादपह्नुतिप्रभेदत्वं तादात्म्यं । समस्तवस्तुविषयं उपमानोपमेययोर् विद्यमानत्वात् प्रासङ्गिकञ्च । अनेकसजातीयरूपकस्य विद्यमानत्वात् रूपकमत्र । उत्प्रेक्षालक्षणं सम्भावनोपमानोपमेययोरुत्कर्षहेतुका उत्प्रेक्षा नूनमित्यादिशब्दद्योत्याम्। अस्यार्थः । उपमानेन न्युनमित्यादिशब्दद्योत्या उपमेयोत्कर्षहेतुका सम्भावना उत्प्रेक्षा सम्भावना हेत्वन्तरोपन्यासेन । वितर्कणं नूनं मन्ये शङ्के इव ध्रुवं नु किं किमुतेत्यादयो नूनमादयः । त्रिवेण्यां शरीरत्यागिनामेव सर्वाभीष्टदा त्रिवेणी कृष्णपादस्थत्रिवेणीतु ध्यानार्चनादिभिरेव सर्वाभीष्टदेति तत्तद्रूपहेत्वन्तरोपन्यासेन किं शब्दद्योत्या तस्या अप्युत्कृष्टा ॥१३॥
अपूर्वः कंसारेश् चरण-युगलस्यैष महिमा
यद् आश्रित्य ध्वान्तं स्व-कदन-कृते प्राप्त-मरणम् ।
नियुद्धेऽधः कृत्वोपरि लसति यद् वीक्ष्य सभयाद्
वपुर् व्यूहं कुर्वन्न् अमलम् उडुपोऽप्य् आश्रयद् इदम् ॥१४॥
(प्रथमातिशयोक्त्य्-उत्प्रेक्षे)
कृष्णपदयुगस्यैष महिमा अपूर्वः । यच्चरणयुगमाश्रित्य ध्वान्तं तमः—तस्य ध्वान्तस्य कदनकृते नाशाय प्राप्तमन्धकारं नाशयिष्यामि इति निश्चित्या-गतमरुणं नियुद्धेऽधः कृत्वा उपरि लसति । स प्रसिद्धः पूर्णः उडुपश्चन्द्रः । षत्पदाश्रिततमसा अरुणनयनं वीक्ष्य भयाद्वपुयषोऽमलं व्युहं कुर्वन् अहो चरणयुगलमहिमेति विचार्य इदं चरणयुगलं आश्रयत् । किम्वा इदं पदाश्रितध्वान्तमाश्रयत् स्तुवन्निव तदग्रवर्ती बभूवेति भावः । अतिशयोक्तिलक्षणं । निगीर्णस्योपमानोपमेयस्य निरूपणं यं स्यादतिशयोक्तिः सा । निगीर्णं ग्रस्तं । तथाचोपमानस्यैव प्रयोगो नतु उपमानेन ग्रस्तस्योपमेयस्य । अत्र उपमानानां ध्वान्तारुणचन्द्राणामेव प्रयोगः नतुपमेयानां श्यामवर्णरक्तवर्णनखानां प्रयोगः । तदेवान्यतया यदि निरूप्यते सा द्वितीया । अस्यार्थः । तदेव प्रकृतं वस्तु उपमानं वा अन्यदेवेदमिति निरूप्यते तदा सा अतिशयोक्ति द्वितीया । अत्र प्रकृतानां चरणस्य श्यामवर्णरक्तवर्णनखानां ध्वान्तारुणचन्द्रतया निरूपणमतिशयोक्तिः । ध्वान्ताद्यपेक्षया श्यामादिवर्णानामुत्कर्ष उत्प्रेक्षा ॥१४॥
कलोक्तिः सा ततः सारी वृन्दया प्रेरिता दृशा ।
रसज्ञां वासितां चक्रे कृष्ण-पादाब्ज-वर्णनैः ॥१५॥
वृन्दया दृशा प्रेरिता कलोक्तिनाम्ना सा सारी कृष्णपादाब्ज वर्णनैः रसज्ञां जिह्वां वासितां चक्रे ॥१५॥
चण्डांशोः प्लुष्ट-वर्ष्मारुण इह किरणैः कृष्णपादाब्ज-युग्मं
शीतच्छायं प्रविष्टोऽत्यरुणम् इदम् अभूद् व्याप्तम् अस्यारुणिम्ना ।
उत्प्रेक्षेयं कवीनां मम तु मतम् इदं कृष्ण-रागातिरक्तं
राधा-चित्तं ममैवास्पदम् इदम् इति तद् व्यश्नुत स्वस्य धाम्ना ॥१६॥
(उत्प्रेक्षा)
चण्डांशोः सूर्यस्य किरणैः प्लुष्टं दग्धं वर्ष्म विग्रहो यस्य स अरुणः शीत च्छायं कृष्णपादाब्ज युग्मं प्रविष्टोऽस्ति । अस्य अरुणस्य अरुणिम्ना व्याप्तमिदं पदयुग्मत्यरुणमभूदिति कवीनामुत्प्रेक्षा । मम तु इदं मतं तत् कृष्णपादयुगं ममैवास्पदं इति मत्वा राधाचित्तं कृष्णविषयकरागेणातिरिक्तं सत् स्वस्य धाम्ना कान्त्या इदं कृष्णपादयुगं व्याश्नुत व्याप्नों । अशुङ्ल, व्याप्तौ सङ्घाते च । उत्प्रेक्षात्रारुणादप्यरुणात् श्रीकृष्ण्चरणादपि श्रीराधायाः श्रीकृष्णविषयकरागस्योत्कर्यः ॥१६॥
**लीलारविन्दम् अरविन्द-दृशां कराब्जे
कङ्केल्लि-पल्लवम् उरोज-सुवर्न-कुम्भे ।
रक्तोत्पलं यद् इह हृत्-सरसीदम् ईडे
पादारविन्दम् अरविन्द-विलोचनस्य ॥१७॥ **
(माला-रूपकम्)
कृष्णस्या पादारविन्दमीडे स्तौमि । कीदृशं ? अरविन्ददृशां कराब्जे लीलारविन्दं । उरोजसुवर्णकुम्भे कङ्केल्लिपल्लवं रक्तवर्णमशोकपत्रं हृत्सरसि रक्तोत्पलं । माला स्यात् पूर्वपूर्वं चेदुत्तरोत्तरमृच्छति । पूर्वपूर्वमत्र कृष्णपादारविन्दं उत्तरोत्तरे । लीलारविन्दकङ्केल्पिपल्लवरक्तोत्पलं प्रति गमनमत्र माला तद्रूपमिति श्लोकान्वयरीत्या श्लोकवर्णनरीत्या पूर्वपूर्वलीलारविन्दादिकं उत्तरं पादारविन्दं गच्छति । रूपकमुक्तरीत्या । कृष्णपादारविन्द लीलारविन्दयोस्तादात्म्यं ॥१७॥
**चन्द्रेन्दीवर-चन्दनेन्दु-नलदाच्छीतं लसत्-सौरभं
राधायाः स्तन-सङ्ग-लोलुपतमं तत्-पाणि-संलालितम् ।
तच्-छ्री-कुङ्कुम-चर्चितं सुललितं शोभालि-लीलास्पदं
तच्-छ्री-कृष्ण-पदाम्बुजं भवतु नः संवाहनीयं सदा ॥१८॥ **
(उदात्त-स्वभावोक्ती)
तत् प्रसिद्धं कृष्णचरणाम्बुजं नः सम्वाहनीयं सेव्यं भवतु । कीदृशं ? चन्द्रादेरपि शीतं शीतलं । लसत्सौरभं । इन्दुः कर्पूरः । नलद उशीरमूलं । श्रीराधायाः स्तनसङ्गे अतिशयलोलुपं । तत्तस्याः राधायाः पाणिना संलालितं । तस्याः कुङ्कुमेन कुचकुङ्कुमेन चर्चितं लिप्तं । सुरम्यं शोभालिभिः सह लीलाया आस्पदं, यद्वा, शोभा एव अलयो भृङ्गास्तेषां विलासस्थानं । समृद्धिरुदात्तं वस्तुनः परा । स्वभावोक्तिः स्वभाववर्णनं यत् । अत्र कृष्णपदाम्बुजस्य परा समृद्धिश्चन्द्रादेः शीतं सौरभं । राधास्तनसङ्गलोलुपं राधा पाणिसंलालितरूपा स्वभाववर्णनं स्वभावोक्तिर्व्यक्तं ॥१८॥
**सभ्य-कर्णौ सुधा-पूर्णौ रचयन् राधयेरितः ।
स-सारिकः शुकोऽन्यानि कृष्णस्याङ्गान्य् अवर्णयत् ॥१९॥ **
श्रीराधया प्रेरितः सारिकया सह शुकः सभ्यानां कर्णौ सुधाभिः पूर्णौ रचयन् कृष्णस्यान्यान्यङ्गान्यवर्णयत् ॥१९॥
**गुल्फौ बकारेर् लसतोऽतिचिक्कणौ
लावण्य-भङ्गोच्छलितौ सुवर्तुलौ ।
कलिन्द-कन्या-तनु-वीचि-निर्झराद्
अर्द्धोदितेन्दीवर-कोरकाव् इव ॥२०॥ **
(उत्प्रेक्षा)
वकारेर् गुल्फौ लसतः । कीदृशौ । लावण्यानां भङ्गैर् लहरीभिरुच्छलितौ । उच्चौ भूत्वा उत्पन्नौ । अतिचिक्क्कणौ सुवर्तुलौ च । ययुनायास्तनवः सूक्ष्मा वीचयो यस्मिन् तस्मात् निर्झरात् प्रवाहात् अर्धोदिताबिन्दीवरकोरकाविव । अत्र कृष्णस्या जङ्घा यमुना । प्रवाह इह तन्माधुर्यः लहर्य इवेति ध्वनितं । लावण्यभङ्गोच्छलितत्वहेत्वन्तरोपन्यासेन इव शब्दद्योत्यार्द्धोदितेन्दीवरकोरकात् गुल्फावुत्कृष्टावित्युत्प्रेक्षा ॥२०॥
**लावण्य-धन्य-मधु-पूर्ण-तमाल-नव्य-
पर्णाति-चित्र-पुटिके घुटिके मुरारेः ।
आलिह्य नेत्र-रसना-शिखया सकृद् ये
मत्ता विघूर्णति सदा ललनालिर् आरात् ॥२१॥ **
(रूपकानुमाने)
ललना लिर्ललनैवालिर्भ्रमरललनाश्रेणी वा नेत्ररूपरसनायाः जिह्वायाः शिखया
अग्रेण सकृन्मुरारेर् ये लावण्यरूपधन्यमधुभिः पूर्णे तमालस्य नव्यपर्णैः कृते अतिचित्रे पुटिके इव घुटिके आलिह्य आरात् शीघ्रं मत्ता सती विघूर्णति । रूपकमस्य ललनाया अलित्वेन, लावण्यस्य मधुत्वेन, घुटिकायास्तमालपुटिकत्वेन नेत्रस्य रसज्ञात्वेन तादात्म्यं रूपकं । साध्यसाधनसद्भावेऽनुमानमनुमानवत् । ललनानिष्ठघूर्णनं हेतुं कृत्वा लावण्यमधुपानजन्य मत्तता साध्यमत्रानुमानं ॥२१॥
श्रीमत्-पदाम्बुज-युगोपरि-पूतनारेर्
निह्नुत्य गुल्फ-युगलस्य मिषेण धात्रा ।
श्री-राधिका-नयन-कीर-युगस्य पुष्ट्यै
मन्ये न्यधायि कर-मर्द-फले सुपक्वे ॥२२॥
पुतनारेश्चरणयुगोपरि धात्रा निह्नुत्य गुल्फयुग्मस्य मिषेण राधानेत्रकीरयुगस्य पुष्ट्यर्थं सुपके करमर्दफले न्यधायीत्यहं मन्ये । श्रीराधानयनकीरपुष्ट्ये इति हेत्वन्तरोपन्यासेन मन्ये इति पदद्योत्या करमर्दापेक्षा गुल्फयोरुत्कर्ष उत्प्रेक्षा । करमर्दफलगुल्फयो स्तादात्म्यं रूपकं । प्रकृतस्य गुल्फस्य
करमर्दफलत्वेनान्यथाकृतिरपह्नुतिः ॥२२॥
**बभौ हरेः श्री-घुटिका-युगं तत्
सुश्लिष्ट-पार्श्वं यद् अवाप शश्वत् ।
राधा-मनोवृत्ति-कुमारिकालेः
कुमारयन्त्या लघु-कन्दुकत्वम् ॥२३॥ **
(रूपकोत्प्रेक्षे)
हरेः श्रीघुटिकायुगं बभौ । कीदृशं । सुश्लिष्टे पार्श्वे यस्य तत् । यत् घुटिकायुगं कुमारयन्त्याः क्रीडन्त्याः राधामनोवृत्तिरूपकुमारिकाणां कन्यानां ततेः । लघुकन्दुकत्वं शश्वदवाप । कुमार क्रीडायां धातुश्चौरादिकः । राधामनोवृत्तौ सदा वर्तमानमिति भावः । घुटिकायुगस्य लघुकन्दुकत्वेन तादात्म्यं-रूपकं । समस्तवस्तुविषयं निःसङ्गञ्च । कुमारयन्त्य इति हेत्वन्तरोपन्यसेन शश्वदिति पदद्योत्या कन्दुकात् घूटिकायुगस्य उत्कर्षोऽत्रोत्पेक्षा ॥२३॥
**गोकुल-कुल-युवतीनां
धैर्योद्भट-विनष्टयेऽस्त्य् अतनोः ।
हरि-जङ्घा-युग दम्भाल्
लघु-परिघ-युगं तमाल-सारस्य ॥२४॥ **
(रूपकापह्नुती)
गोकुलकुलयुवतीनां धैर्याण्येवोद्भटा बलवन्तो भटाः सेना स्तेषां नाशाय अतनोः कन्दर्पस्य हरिजङ्घाव्याजात् तमालसारस्य लघुपरिघयुगमस्ति । कन्दर्पस्य परिघयुगहरिजङ्घायुगयोस्तादात्म्यमत्र रूपकं । पूर्ववत् प्रकृतस्य
जङ्घायुगस्य कन्दर्पस्य परिघयुगत्वेनान्यथाकृतिरपह्नुतिः ॥२४॥
**मरकत-मणि-रम्भा-स्तम्भ-सम्भेदि-धात्रा
भुवन-भवन-मूल-स्तम्भतां लम्भितं यत् ।
युवति-निचय-चेतः पीलु-नीलाश्म-कीलं
प्रणयतु हरि-जङ्घा-युग्मम् अङ्घो विघातम् ॥२५॥ **
(व्यतिरेक-रूपके)
हरेर्जङ्घायुग्मं अङ्घसः पापस्य विघातं प्रणयतु करोतु । यं जङ्घायुग्मं मरकतमणिकृतरम्भाणां स्तम्भं धैर्यं सम्यक् भिनत्तीते । धात्रा भुवनस्य त्रिभुवनस्य भवने उत्पत्तौ त्रिभुवनरूपगृहस्य वा यूलस्तम्भतां प्रथमावलम्बतां लम्भितं प्रापितं । युवतिनिचयस्य चेतःपीलुनां हस्तिनां नीलाश्मकीलं इन्द्रनीलमणेः
कीलं । मरकतमणिस्तम्भात् जङ्घायुग्मं विलक्षणं गुणेनाधिकमित्यत्र व्यतिरेकः । जङ्घानीलाश्मकीलयोस्तादात्म्याद्रूपकं पूर्ववत् ॥२५॥
**दीव्यतो लवणिमामृत-भङ्गे
चारु-हंसक-कला-ललितान्ते ।
देह-कान्ति-यमुना-लघु-धारा
सन्निभे मुररिपोः प्रसृते ते ॥२६॥ **
(व्यतिरेक-रूपके)
मुररिपोस्ते पूर्वोक्ते प्रसृते जङ्घे दीव्यतः । जङ्घातु प्रसृता जानुर् इत्यमरः । कीदृशे एतस्य कृष्णस्य देहकान्तिरूपयमुनायाः लघुधारायाः सन्निभे । सादृश्यमाह—लवणिमैवामृतं तस्य भङ्गा लहर्यो यत्र ते ! चारवो मनोहरा ये हंसका हंसास् तेषां कलाभिः श्रेणिभिर् ललितौ रम्यौ अस्तौ तटौ ययोस्ते । धारे इव चार्वोर् हंसकयेर् नूपुरयोः कलैर् मधुरध्वनिभिरासम्यक् ललितौ रम्यौ किम्वा तेषां कलध्वनीनां ललितं विलासस्फुरणं ययोस् तथाभूतावन्तावधोदेशौ ययोस्ते । यमुनादिभ्यः कृष्णदेहकान्त्यादीनां गुणाधिक्याद्वतिरेकः । तासामेताभिस्तादात्म्यं रूपकं ॥२६॥
**सौन्दर्य-सौष्ठव-विलोकनतः प्रलुब्धे
जङ्घे मिथो मिलितुम् अस्य समुत्सुके ये ।
ते वेणु-वादन-कृते स्थिरताङ्गतेऽस्मिन्
लब्धान्तरेऽनु परिरभ्य हरौ चिरं स्तः ॥२७॥ **
(उत्प्रेक्षा)
अस्य कृष्णस्तय ये जङ्घे मिथः परस्परं सौन्दर्यसौष्ठवयोर्विलोकनाच्चिरं प्रलुब्धे सत्यौ मिलितुं समुत्सुके जङ्घे । वेणुवादनकृते वेणुवादनार्थमस्मिन् हरौ स्थिरतां गते सति । लब्धोऽन्तरोऽवसरो याभ्यां तथाभुते सत्यौ परिरभ्य परस्परमालिङ्गन्त्यः । नु वितर्के इत्यहं तर्कयामि । अन्यजङ्घयोः सौन्दर्यसौष्ठवादस्य जङ्घयोरुत्कर्षोऽत्रोत्प्रेक्षा ॥२७॥
**माधुर्य-लक्ष्म्या रुचिरासन-द्वयं
लावण्य-वल्ल्या गुरु-पर्व-युग्मकम् ।
शोभा-श्रियोऽलङ्कृति-पेटिका-युगं
जानु-द्वयं भाति मनोहरं हरेः ॥२८॥ **
(माला-रूपकम्)
हरेर्मनोहरं जानुद्वयं भाति । कीदृशं ? माधुर्यलक्ष्म्या मनोज्ञासन-
द्वयं । लावण्यलतायाः गुरुपर्वणोः पुष्टपर्वणोर्युग्मं । शोभासम्पत्तेरलं कृतीनां पेटकायुगं अलङ्काराधारौ । माला स्यात् पूर्वपूर्वं चेदुत्तरोत्तरमृच्छति । पूर्वपूर्वमादौ माधुध्यलक्ष्म्यासनं तदा उत्तरोत्तरे गमनमत्र लावण्य-लतायाः पर्वयूगस्य माधुर्यलक्ष्म्या आसनमाश्रयः । एवमग्रे शोभासम्पत्तेरलङ्कारस्य पेटिकायुगं जानुद्वयं अनेन जानुद्वयस्य माधुर्यलावण्यपूर्नं तल्लावण्यं शोभामयमित्यर्थः माधुर्यलक्ष्म्यादेः सह जानुद्वयस्य तादात्म्यं रूपकञ्च ॥२८॥
**रम्योरू-पर्व-द्वयम् अद्भुतं हरेर्
माहेन्द्रनीलं लघु सम्पुट-द्वयम् ।
असङ्ख्य-गो-सङ्ख्य-कुलाङ्गना-ततेस्
ते चित्त-चिन्तामणयोऽत्र मान्ति यत् ॥२९॥ **
(रूपकाधिकानुमानानि)
हरेरिदं रम्योरुपर्वद्वयमद्भुतं । इदमित्यत्र पदाक्षेपितं । अद्भुतत्वमाह—न सङ्ख्या यासां तासामसङ्ख्यानां गाः सङ्ख्यान्ति गणयन्ति इति गोसङ्ख्या गोपस्तेषां कुलाङ्गनानां ततेस्ते प्रसिद्धाश्चित्तरूपचिन्तामणयो यदत्र मास्ति आव्रियन्ते । क्षुद्रसम्पुटद्वये असङ्ख्यमणयस्तिष्ठस्तीति । अत्र चित्रं उरुद्वयसम्पुटद्वययो स्तादात्म्यमत्र रूपकं । समस्तवस्तविषयं उपमानोपमेययोर्लघुसम्पुटोरुपर्वणो शब्दगत्वात् । लघुसम्पुटरूपकस्य प्राधान्येन कथनात् निःसङ्गं । अधिकलक्षणं—
आधेयाधारयोर् भृम्नोर् मिथस्तत्प्रतियोगिनौ । ततोऽप्यधिकभूमानौ स्यातां तदधिकं भवेद् । इति ।
अत्र आधेयाः सुन्दरीणां चित्तचिन्तामणयः आधारः हरेरूरुपर्वद्वयं, उभयोराधिक्यादधिकं । असङ्ख्य-चित्तचिन्तामणेराधारत्वं हेतुं कृत्वा उरूपर्वद्वयस्याद्भुतत्त्वमनुमानं ॥२९॥
**प्रसारणे यद् बलिमन् निकुञ्चने
श्री-पादयोर् निर्वलितं सुमांसलम् ।
श्री-राधिका-श्री-कर-लालितं हरेस्
तज्-जानु-युग्मं रुचिरं श्रियेऽस्तु नः ॥३०॥ **
(स्वभावोक्तिः)
राधाकरलालितं हरेर्जानुयुग्मं नः श्रियेऽस्तु । कीदृशं पादयोः प्रसारणयमये यज्जानुयुगं बलिर्विद्यते यस्य तत् बलिमत् । पादयोर् निकुञ्चने निर्वलितं बलिरहितं । सुमांसलं शोभनञ्च तत् मांसपूर्णञ्चेति जानुद्वयस्य स्वभाववर्णनमत्र स्वभावोक्तिः ॥३०॥
**उरु-द्वयं सुवलितं ललितं बकारेः
पीनं सुचिक्वणम् अधः-क्रम-कार्श्य-युक्तम् ।
कन्दर्प-वृन्द-वर-नर्तक-लास्य-रङ्गं
लावण्य-केलि-सदनं हृदि नश् चकास्तु ॥३१॥ **
(रूपक-स्वभावोक्ती)
वकारेरूरुद्वयं नो हृदि चकास्तु । कन्दर्पवृन्दान्येव नर्तकास् तेषां लास्यस्य रङ्गं वृत्यस्थानं । कन्दर्पनर्तकयोस्तादात्म्यमत्र रूपकं । अतिशयाभेदाऽपह्नुतभेदत्वं तादात्म्यं । तच्च द्विविधं समस्तवस्तुविषयं एकदेशविवर्ति च । यत्रारोपविषयस्योपमेयस्य तथारोप्यमाणस्योपमानस्य च द्वयोरेव बोधक-शब्दौ वर्तेते तत्र समस्तवस्तुविषयं रूपकं । सुबलितत्वादि अनेकसजातीय-सङ्गवत्त्वात् प्रासङ्गि । ऊरुद्वयनिष्ठकन्दर्पननर्तकं स्वभाववर्णनं सभावोक्तिः ॥३१॥
**जम्भारि-रत्न-घटितं किम् अजाण्ड-शाला
स्तम्भ-द्वयम् किम् अतनोर् मख-यूप-युग्मम् ।
किं वेदम् अस्ति ललना-हृदयेभ-बान्धा-
लान-द्वयं न तद् इदं हरि-सक्थि-युग्मम् ॥३२॥ **
(निश्चयान्त-सन्देहः)
इदं किं जम्भारिरत्नं इन्द्रनीलमणिस्तेन घटितं अजाण्डं ब्रह्मण्डं तद्रूप-शालायाः गृहस्य स्तम्भद्वयं । अतनोर्यज्ञस्य किं यूपयुग्नं । ललनाहृदयरूपहस्तिन आलानद्वयं हस्तिबन्धनस्तम्भद्वयं । न तदा किं हरेः सक्थिद्वयं ऊरुद्वयं । भेदानुक्तौ तदुक्तौ तु सन्देहः । अत्रोरोर्जम्भारिरत्नादि सन्देहान्ते हरिसक्थियुग्मस्य निश्चयोऽत्र निश्चयान्तसन्देहः ॥३२॥
**ऊरु-च्छलाच् छ्रोणि-वराञ्जनोच्च-
स्थली-भवाधो-मुख-नील-रम्भे ।
एते हरेर् ये ललनाक्षि-कीर-
पुष्ट्यै स्व-माधुर्य-फलैर् अलं स्तः ॥३३॥ **
(रूपकापह्नुती)
हरेः ऊरुच्छलां एते श्रोणिरूपवरा श्रेष्ठ अञ्जनस्योच्चस्थली तत्र भवे
तत्रोत्पन्ने अधोमुखेच ते नीलरम्भेच । ये रम्भे स्वस्य माधुर्यरूपफलैर्ललनानामक्षिरूपकीरस्य पुष्ट्यर्थमलमतिशयेन स्तः भवतः । श्रोणेरुच्चभूमित्वेन, ऊरुद्वयस्य कदलीवृक्षत्वेन तत्रस्थमाधुर्यस्य कदलीफलत्वेन, सुन्दरीनेत्राणां कीरत्वेन, तादात्म्याद्रूपमानोपमेययोर् नीलकदल्युर्वोः शब्दगत्वात् समस्तवस्तुविषयं । नीलरम्भारूपैकरूपकस्य प्राधान्येन कथनान्निःसङ्गं । श्रेण्यादीनां नीलोच्चभूम्यादिरूपेण अन्यथा करणमपह्नुतिरत्र ॥३३॥
**रम्भालि-गर्व-भर-दारण-सन्निवेशे
मत्तेभ-हस्त-मद-मर्दन-मार्दवे ये ।
श्री-राधिका-करभ-सन्तत-सेव्यमाने
केनोपमान्तु कवयो हरि-सक्थिनी ते ॥३४॥ **
(व्यतिरेकः)
कवयः केन वस्तुना ते हरिसक्थिनी उपमान्तु उपमाविषयं कुर्वन्तु । ये हरिसक्थिनी रम्भालीनां गर्वातिशयस्य दारणो विदारणः सन्निवेशः संस्थानं ययोस्ते । मत्तेभस्य मत्तहस्तिनो हस्तः शुण्डस्तस्य मदो गर्वस्तन्मर्दनं मार्दवं मृदुता ययोस्ते । राधिकायाः करभेण मणिबन्धात् करस्य बहिर्देशेन मुष्टिबद्धकरेणेत्यर्थः । सदा सेव्यमाने । मणिबन्धादाकनिष्टं करस्य करभोबहिर् इत्यमरः । कदलीवृक्षहस्किशुण्डात् विलक्षणं व्यतिरेकः ॥३४॥
**विस्तीर्ण-पीनम् अतिसुन्दर-सन्निवेशं
रास-स्थलं सरति काम-नटार्बुदानाम् ।
आभीर-धीर-रमणी-कमनीय-शोभं
श्री-श्रोणी-मण्डलम् अलं विलसत्य् अघारेः ॥३५॥ **
(रूपकम्)
अघारेः श्रीः शोभा तद्युक्तश्रोणिमण्डलं विलसति । कीदृशं ? विस्तीर्णं विस्तृतं पीनं स्थूलञ्च अतिस्तुन्दरः सन्निवेशः सुसंस्थानं यस्य तत् । सरतीनां रतिसहितानां कामरूपनटार्बुदानां रासस्थलं विलासस्थलं, रससमूहो रासस्तस्य स्थूलं वा । अतः आभीरधीररमणीनां कमनीया काम्या मनोहरा वा शोभा यस्य तत् । रासस्थलेन श्रोणेस्तादात्म्यं रूपकमत्रोपमानोपमेययोः श्रोणिमण्डल-रासस्थलयोः शब्दगत्वात् समस्तवस्तुविषयं । अत्र रासस्थलरूपैकस्य रूपकस्य प्राधान्येन कथनात् निःसङ्गं ॥३५॥
कतीर-बिम्बम् लसद्-ऊर्ध्व-
काय-तमाल-नीलाश्म-कृताल-बालम् ।
कृष्णस्य लावण्य-जलालि-खेलत्-
काञ्ची-मराली-वलितं विभाति ॥३६॥
(रूपकम्)
कृष्णस्य कटीरबिम्बं कटिबिम्बं विभाति । कीदृशं । लसदूर्धशरीरमेव
तमालवृक्षस्तस्य मूलसिक्तजलरक्षार्थं नीलवर्णाश्मना मरकतेन कृतमालरालं । लावण्यरूपश्रोणिषु खेलन्तीभिः काञ्चीरूपमरालीभिर् बलितं वेष्टितं । कट्या आलबालेन । शरीरस्य तमालेन । लावण्यस्य जलेन । काञ्च्या मराल्या तादात्म्यमत्र रूपकं । कटीरबिम्बालबालयोः शब्दगयोस्तादात्म्यात् समस्तवस्तुविषयं प्रासङ्गि च ॥३६॥
**कृष्णाङ्ग-सिंहासन-सन्ततोप-
विष्टस्य राधा-हृदयस्य राज्ञः ।
धात्रा कृतं श्रोणि-मिषात् सुखाप्त्यै
नीलांशुक-स्थूल-विधूपधानम् ॥३७॥ **
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
कृष्णाङ्गरूपसिंहासने सदोपविष्टस्य राधायाः हृदयस्य मनसो राज्ञः
सुखाप्त्यै सुखप्राप्त्यर्थं धात्र श्रोणिमिषात् नीलवस्त्रेण स्थूलं विधूपधानं चन्द्राकृत्युपधानं कृतं । उपधानोपमया कौमल्यं । विधुश्चन्द्रस्तदुपमया शैत्यञ्च विधुः कर्पूरस्तस्य नामग्रहणात् सौगन्ध्यञ्चनीतं । कृष्णाङ्गस्य सिंहासनत्वेन, राधाहृदयस्य नृपत्बेन, श्रोण्या उपधानत्वेन तादात्म्याद्रूपकं । कृष्णाङ्गादीनां सिंहासनादिरूपेणान्यथाकृतिरत्रापह्नुतिः । अन्यसिंहासनाद्यपेक्षया कृष्णाङ्ग-सिंहासनादेः सखाप्त्यै इति विशेषणान्तरोपन्यासेन कीर्तनं श्रोणिमिषात् इति पदद्योत्कर्षोऽत्रोत्प्रेक्षा ॥३७॥
**ये गोपिका-दृक्-शफरालि-केलये
लावण्य-वन्यामृत-पूर्ण-पल्वले ।
ये राधिका-चित्त-मृगेन्द्र-कन्दरे
ते सुन्दरे नौमि हरेः ककुन्दरे ॥३८॥ **
(रूपकम्)
हरेः सुन्दरे ते ककुन्दरे नौमि । कीदृशे ? ये ककुन्दरे गोपीनां नेत्रशफरीश्रेणेः केलये केल्यर्थं । लावण्यरूपवन्यामृतेन जलसमूहामृतेन पूर्णे पल्वले अल्पसरोवररूपे । राधाचित्तसिंहस्य पर्वतगुहारूपे । कूपकौ तुनितम्बस्थौ द्वयहीने ककुन्दरे इति । वन्या वनसमूहे स्याद् इति । वेशन्त पल्वलं चाल्प-सर इति चामरः । ककुन्दरस्याल्पलसरोवरेण तादात्म्यं अत्र रूपकं अत्र समस्त वस्तुविषयं निःसङ्गञ्च पूर्ववत् ॥३८॥
**अधस्-तीर्यग्-रेखा-सरिद् उपरि सा नाभि-सरसि
तयोर् मध्ये वस्तिर् ध्रुवम् अघरिपोर् अस्ति पुलिनम् ।
सदा रास-क्रीडां यद् इह निज-वृत्त्य्-अद्भुत-नटी-
चयैः श्री-राधाया हृदय-नटराजः प्रणयति ॥३९॥ **
(रूपकानुमानोत्प्रेक्षाः)
अघरिपोर्वस्तिपुलिनमस्ति । पुलिनत्वे हेतुमाह, वस्तेरधस्तिर्यग्रेखा सैब
सरित् नदी उपरि नाभिः सैब सरसी तयोर् मध्ये वस्तिः । वस्तिर्नाभेरध इत्यमरः । इह वस्तौ राधाया हृदयं मनस्तदेव नटराजः निजवृत्तयो मनोवृत्तयस्तद्रूपाद्भुतनटाचयैः सह सदा यद्यस्मात् रासक्रीडां प्रणयति करोति । वन्तेः पुलिनेन तादात्म्यमत्र रूपकं समस्तवस्तुविषयं निसङ्गञ्च । राधाहृदयनटस्य नृत्यं हेतुं कत्वा वस्तौ पुलिनत्वं साध्यमत्रानुमानं पुलिनापेक्षया वस्तेः सदा रासमिति विशेषणास्तरोपन्यासेन कीर्तनं ध्रुवमिति पदद्योत्या उत्कर्षोऽत्र उत्प्रेक्षा ॥३९॥
**श्री-वस्ति-रोमावलि-नाभि-दम्भान्
निपान-सद्-रज्जु-सुधोद-कूपान् ।
तृषार्त-गोपी-गण-गोगणानां
पानाय धातासृजद् अच्युताङ्गे ॥४०॥ **
(रूपकानुमानापह्नुत्य्-उत्प्रेक्षाः)
धाता अच्युताङ्गे गोपीगणस्य गोगणा इन्द्रियगणा एव गोगणा धेनुगणास्तेषां पानाय श्रीवस्तिरोमावलिनाभीनां मिषात् निपानं कूपनिकटवर्ति जलाशयश्च सद्रज्जुश्च सुधोदकूपश्च एतानसृजत् । आहावस्तु निपानं स्यादुपकूपजलाशये इत्यमरः । वस्तिनिपानयोः रोमालिरज्जोः नाभिसुधाकूपयोस्तादात्यमत्र रूपकं समस्तवस्तुविषयं निःसङ्गञ्च । गोपीन्द्रियपानं हेतुं कृत्वा वस्तादौ निपानादिकं साध्यमत्रानुमानं । वस्त्यादीनां निपानादित्वेनान्यथा-करणमपह्नुतिः । अन्यनिपानाद्यपेक्षया वस्त्यादीनां सुधोदसद्रज्ज्विति विशेषदानात् दम्भादिति पद्योत्या उत्कर्योऽत्रोत्प्रेक्षा ॥४०॥
**गोपी-मनो-धान्य-चयान्य-वासना
तुषापहारोत्तर-संस्कृतौ विधिः ।
नीलोपलोलूखलतां निनाय यत्
कृष्णावलग्नं हृदि ये चकास्तु तत् ॥४१॥ **
(रूपकम्)
विधिर् यत् कृइष्णया वलग्नं मद्य-देशं गोपीनां मनोरूप-धान्य-समूहस्यान्य-वासनारूप-तुषाणां वल्कलानां अपहाराय दूरीकरणाय व उत्तर-संस्कृइतिस् तन्निमित्तं नील-पाषाणस्य उलूखलतां निनाय । तन्मध्यं ये हृइदि चकास् तु । कृइष्ण-मध्यदेशो लूखलयोस् तादात्म्यं रूपकं । समस्त-वस्तु-विषयं निसङ्गञ्ं च ॥४१॥
**कृष्णावलग्नस्य मिषाद् उमापतेर्
विस्पर्धयाराधनयार्दिते मुहुः ।
पूर्वापर-स्थूल-विभाग-संयुतो
धात्रा वितीर्णो डमरुः स्मराय किम् ॥४२॥ **
(उत्प्रेक्षापह्नुती)
उमापतेः शिवस्य विस्पर्धया मुहुः स्मर्स्यार् आधनया धात्रा पूर्वा परयोः स्थुल-विभागयोः सं-योगो यत्र तस्य क्र्ष्ना वलग्नस्य मिषात् अर्दते याचमानाय प्रार्थयते स्मराय डमरु किं वितिर्णो दत्तः । अर्द-गतौ याचने च । कीदृइशः पूर्वा पराभ्यां नितम्ब-वक्षःस्थल-रूप-स्थल-विभागाभ्यां सं-युतः । ड्मरुतः कृष्णस्या वलग्नस्य उत्कर्ष उत्प्रेक्षा । अवलग्नस्य डमरुत्वेन् आन्यथाक्रितिर् अपह्नुतिः ॥४२॥
**हरेर् वक्षः-ककुद्मत्योर् विसर्गम् अन्तरा-स्थितम् ।
मध्य-दम्भा-द्वयोर् नव्यं जैह्वा-मूलाक्षरं व्यधात् ॥४३॥ **
(उत्प्रेक्षा)
हरेर् नव्यं वयः मध्य-दम्भात् मध्यदेशच्छलात् वक्षः-ककुद्मत्योर् अन्तरास्थितं कटिश्रोक्णी ककुद्मती त्यमरः विसर्गं जैह्वा-मूलिय-सञ्ज्ञकं वज्राकारम् अक्षरं व्यधात् । विसर्गस्य वज्राकृइतिर् वर्ण-वन्नितम्ब-वक्षसोर् विस्तरार्ं मध्यस्य च क्षिणं चकारेति भावः । जिह्वामूलीयाक्षरात् वक्षो-नितम्बयोर् उत्कर्षोऽत्रोत् प्रेक्षा ॥४३॥
**दृष्ट्या बकारेर् अवलग्न-सौष्ठवं
निजावलग्नस्य कुकीर्ति-शङ्कया ।
दुर्गासु दुर्गा-जनकस्य भू-भृतो
दरीषु पारीन्द्र-गणा विलिल्यिरे ॥४४॥ **
(उत्प्रेक्षा)
पारीन्द्र-गणाः सिंहगणाः वकारेर् अवलग्नस्य सौष्ढवं दृइष्ट्य । निजा वलग्नस्य कुकीर्ति-शङ्कय दुर्गा-जनकस्य हिमालयस्य बूबृइतो दुर्गासु दुर्गम्यासु दरीषु कन्दरासु विलिल्यिरे । अत्रापि सिंह-मध-देशात् । कृइष-मध-देशस्य उत्कर्षोऽत्रोत्प्रेक्षा ॥४४॥
**लावण्य-वन्या-भ्रम-भङ्ग-पूर्णे
बकीरिपोर् नाभि-ह्रदे गभीरे ।
तृषार्त-गोपी-हृदयेभ-पालि-
मग्नैव नोन्मज्जति सा कदापि ॥४५॥ **
(रूपकोत्प्रेक्षे)
लावण्य ऊप वन्याया जलसमूहस्य ये ब्रमभङ्ग आवर्त्तलहर्य्यस् तैः पूणे गभीरे । श्रीक्ष्नस्य नाभिह्रदे मग्नैव सा त्रिषार्त गोपीह्यदयऊप गजश्रेणी कदापि नोन्मज्जति नोत्तिष्ठति । नाभिह्रदयोस् तथा लवण्य जलयोस् तथा गोपीमनोहस्तिनोस् तादात्म् अत्र ऊपकं समस्त वस्तु विषयं निःसङ्गञ् च । अन्यह्रदाद्यपेक्षया कृष्णनाभेर् लावण्य वन्या भ्र्मभ्ङ्ग पूर्णे । इति विषेशणस्य क्र्तनं क्दापीति प्दद्योत्या चोत्कर्षोऽत्रत्प्रेक्षा ॥४५॥
श्री-कृष्ण-विग्रह-तमाल-सुर-द्रुमेऽस्मिन्
शोभा-मरन्द-भृत-नाभि-सुकोटरोऽस्ति ।
लोभाद् वधू-दृग्-अलिपालिर् इह प्रविष्टा यत्
सा पुनर् नहि निरेति रसे निमग्ना ॥४६॥
(रूपकानुमाने)
अस्मिन् श्रीकृष्ण विग्रह रूप तमाल कल्पव्रिक्षे । शोभा मरन्द्नपूर्ण नाभिकोटरोऽस्ति । लोभादिह नाभिकोटरे वधूनां नेत्र भ्रमर श्रेणी प्रविष्टा रसे म्ग्ना सती सा पुनर् नहि निर्गच्छति । विग्रह त्मालयोः शोभामरन्दयोः नाभिकटरयोः नेत्रभ्रमरयोस् तादात्म्यं रूपकं समस्त वस्तु विषयं प्रासङ्गि च । वधूद्रिगलीनां निर्गम नाभावं हेतुं क्रित्वा कृष्णदेहे समधुकटरस्यानुमानम् अत्र ॥४६॥
**विष्णोर् गङ्गाजनि बलि-नुतान् नीचगाऽग्रेऽङ्घ्रि-पद्मात्
तन् मात्सर्यात् त्रिवलि-महिताद् ऊर्ध्वगा नाभि-पद्मात् ।
शौरेः कृष्णाऽजनि तनुरुहालि-च्छलात् पश्यतां
या तस्मिन् प्रीतिं जनयति परां वासनां संविधूय ॥४७॥ **
(अपह्नुत्य्-उत्प्रेक्षा-व्यतिरेकाः)
वलिना राज्ञा नुतात् विष्नोरङ्घि पद्मात् गङ्गा नीचगा अजनि । तस्मात् सर्य्यात् शौरेः कृष्णस्य त्रिवलि महिता तिस्रोवलय एव् त्रयोः वलयाः वलिराजास् तैर् महितात् पूजितात् त्रिवलिहेतुना शोभितात् नाभि पद्मात् कृष्णा य्मुना उर्धगा अजनि, या कृष्णा रोमरेख पश्यतां जनानां परां कृष्णादन्यां वासनां विधूय तस्मिन् कृष्णे प्रीतिं जनयति । अत्र रोमावलेः कृष्णात्वेनान्य्था क्रितिरपह्नुतिः । गङ्गतस् त्रिवलि महितादिति विशेषणान्तरोपन्यासेन क्रीतन्ं मत्सर इति पदद्योत्या कृष्णाया उत्कर्षादुत्प्रेक्षा । उपमायाः गङ्गया कृष्णागुणेन विलक्षणोऽत्र व्यतिरेक्ः ॥४७॥
**नाभी-बिलात् सामि समुत्थिता हरेर्
या भाति रोमावलि कृष्ण-पन्नगी ।
स्वं पश्यतां सूक्ष्मतमाप्य् अहर् निशं
चित्तानिलान् सञ्चुलुकीकरोति सा ॥४८॥ **
(रूपकम्)
हरेर्नाभि विलात् सामि अर्धं समुत्थिता सती या रोमवलीरूपा कृष्ण पन्नगी भाति सा सुक्ष्मत्मपि स्वं पश्यतां ज्नानां चित्तानिलान् अहर्निशं सं चुलुकी करोति । सम्यक् पिवतीत्य् अर्थः । सर्पस्य वयुभक्षनं प्रसिधं । तक्षण्मत्र चित्तस्यान्यत्र गमनासामर्थ्यात् तन्मध्ये स्थितिरूपकं । नाभीविलयोः रोमावली सर्प्योः चित्तानिलयोस् तादात्म्य् अत्र रूपकं समस्त वस्तु विषयं प्रासङ्गि च ॥४८॥
**लवणिम-मधु पीत्वा नाभि-पद्मान् मुरारेर्
व्रज-युवति-जनानां नेत्र-भृङ्गार्भकालिः ।
उदर-नलिन-पत्रे या पपातोच्चलन्ती
तनुरुह-तति-दम्भात् सैव शेते प्रमत्ता ॥४९॥ **
(रूपकापह्नुती)
व्रजाङ्गनानां या नेत्ररूप भ्रमर वालक श्रेणी कृष्ण नाभिपद्मात् लावन्यम्धु पीत्वा उच्चलन्ती प्रमत्ता सती उदरमेव नलिनीपत्रं तत्र पपात । सैव भ्रमर वालक श्रेणी रोमततिदम्भत् शेते । नेत्रभ्र्मरयोः नाभिपद्मयोः लावन्यम्द्वोः उदर नलिनी पत्रयोस् तादात्म्य् अत्र रूपकं । नेत्रदिनां भ्रमरादिरूपेणान्यथा क्रितिरत्रापह्नुतिः ॥४९॥
**जित-चलदल-नीलाम्भोजिनी पर्ण-जालं
मधुरिम-हृत-पश्यल्-लोक-नेत्रालि-मालम् ।
तिलकितम् इव लोम-श्रेणि-कालीयकेन
त्रिभुवन-जय-लक्ष्म्या भाति गोविन्द-तुन्दम् ॥५०॥ **
(व्यतिरेक-रूपकोत्प्रेक्षाः)
गोविन्दस्य तुन्दं लोमश्रेणी रूपेण कालीयकेन कस्तूर्य्या वा तिलकितमिव त्रिभुवनजयलक्ष्म्या भाति । कीद्रिशं? Jइतं चलदलस्याश्वथ व्रिक्षस्य नीलाम्हो जिन्याश् च पर्णजालं पत्रसमूहो येन तत् आकारेणाकार वर्णाभ्यां चेति । क्रमेण वोधत् । म्धुरिम्ना क्रिवा पशल्लोकानां नेत्ररूप भ्रमराणां माला समूहो येन तत् । क्र्ष्नागुरुतिलकाश्वत्थनीलाम्भोज दलाद्विलक्षणं सरोमगोविन्दस्य तुन्दम् अत्र व्यातिरेकः । रोमावली कस्तूरीर्तिलकयोः, अश्वत्थदल नीलकमल दल कृष्णतुन्दयोः नेत्र भ्रमरयोः तादात्म्यं रूपकं । कस्तूरीतिलकान्य् अपेक्षया जितचलेत्यादि विशेषणेन कीर्त्तनं त्रिभुवनेत्यादि पदद्योत्या तुन्दस्योत्कर्ष उत्प्रेक्षा ॥५०॥
**कस्तूरिका-लिप्त-तमाल-नव्य-
दलोष्म-हृत्-सौरभ-मार्दवाभम् ।
अतुन्दिलं तुन्दिलिताखिलाक्षि-
भृङ्गालि दीव्यत्य् उदरं बकारेः ॥५१॥ **
(व्यतिरेक-रूपकोत्प्रेक्षाः)
वकारेरुदरं दीव्यति । कीद्रिशं । कस्तूरीकाभिर् लिप्तस्य तमालनव्य दलस्योष्माणम् अभिमानं हरतीति तथा सौरभं सौगन्ध्यं मार्दवं म्रिदुता च आभा कान्तिश् च यस्य तत् । अतुन्दिलं अस्थूलमपि । तुन्दिलिता तुन्दिलिक्रिता अखिलानां नेत्र रूप भ्रमरश्रेणी येन तत् । कस्तुरीलिप्त तमालप्त्रादुदरं गुणेन विलक्षनं अत्र व्यतिरेकः । कस्तुरीलिप्त तमालप्त्र कृष्णोदरयोस् तादात्म्यं । रूपकं । कस्तुरीलिप्त्यादि विशेषणेन कीर्तनं त्मालप्त्रादुदरस्य उत्कर्षोऽत्रोत्प्रेक्षा ॥५१॥
**हृद्य् उच्छलत्-तनुरुह-च्छल-निःसृत-
श्री-नाभि-ह्रदानुपतितादि-रस-प्रवाहम् ।
अल्पोच्च-पार्श्व-युगलं दर-निम्न-मध्यं
मध्ये मनो मम हरेर् उदरं चकास्तु ॥५२॥ **
(अपह्नुत्य्-उत्प्रेक्षा-स्वभावोक्तयः)
मम म्नोमद्ये हरेरुदरं चकास्तु । कीद्रिशं? Hरिदि उच्छलन् तनुरुहाणां रोम्नां छलेन निस्रितो निर्गतः । श्री नाभिह्रदम् अनुलक्षीक्रित्य पतित आदिरसस्य श्रिङ्गारसस्य प्रवाहो यत्र तत् । अल्पोच्चं पार्श्व युगलं यत्र तत् । दरं ईषन्निम्नं नीचं मद्य्हं यस्य तत् । रोमावलेरादिरस प्रवाहरूपेणान्यथाक्रितिर् अपह्नूतिः । अन्योदरात् कृष्णोदरस्योत्कर्ष उत्प्रेक्षा पूर्ववत् क्रितोदरस्य स्वभवकथनम् अत्र स्वभवोक्तिः ॥५२॥
**राधा-चित्त-मराल-दृक्-शफरिका-शश्वद्-विलासास्पदम्
काञ्ची-सारस-पालि-निस्वनि-तटं लोमालि-शैबालकम् ।
लावण्यामृत-पूरितं त्रिवलिका सूक्ष्मोर्मि-विभ्राजितं
श्री-नाभी-नलिनं लसत्य् अघरिपोः श्री-तुन्द-सत्-पल्वलम् ॥५३॥ **
(रूपकम्)
मम म्नोमद्ये हरेरुदरं चकास्तु । कीद्रिशं? Hरिदि उच्छलन् तनुरुहाणां रोम्नां छलेन निस्रितो निर्गतः । श्री नाभिह्रदम् अनुलक्षीक्रित्य पतित आदिरसस्य श्रिङ्गारसस्य प्रवाहो यत्र तत् । अल्पोच्चं पार्श्व युगलं यत्र तत् । दरं ईषन्निम्नं नीचं मद्य्हं यस्य तत् । रोमावलेरादिरस प्रवाहरूपेणान्यथाक्रितिर् अपह्नूतिः । अन्योदरात् कृष्णोदरस्योत्कर्ष उत्प्रेक्षा पूर्ववत् क्रितोदरस्य स्वभवकथनम् अत्र स्वभवोक्तिः ॥५२॥
**श्री-राधिका-पार्श्व-मतल्लिका-युग-
स्व-प्रेयसी-स्पर्श-समुत्सुकौ सदा ।
श्री-पार्श्व-सन्-नागर-तल्लजौ हरेः
सुवर्तुलौ स्निग्ध-मृदू विराजतः ॥५४॥ **
(रूपक-स्वभावोक्ती)
हरेः पार्श्वरूप सन्नागर तल्लजौ प्रशस्तनागरौ श्रीराधायाः पार्श्वरूप प्रशस्त प्रेयस्योः स्पश्रे समुत्सुकौ सन्तौ सदा विराजत्ः । हरेः पार्श्वनागरयोः राधापार्श्व प्रेयसोस् तादात्म्यं रूपकं समस्त वस्तु विषयं । पार्श्वयोः स्व्भाववर्णन्ं स्वभावोक्तिः । नायकतल्लजाविति पाढो वा ॥५४॥
रेखा-स्वरूप-रमयाश्रित-वाम-भागं
श्रीवत्स-सच्-छवि-विराजित-दक्षिणांशम् ।
कण्ठ-स्थ-कौस्तुभ-गभस्ति-विराजमानं
शश्वद्-विलास-ललितं वन-मालिकायाः ॥५५॥
अघारेः सुविपुलं वक्षःस्थलं विलसतीति परेणान्वरः । कीद्रिशं रेखास्वरूपं लक्ष्म्याश्रितो वामभागो यस्य तत् । श्रीवत्सस्य छव्या उत्तम शोभया विराजितो दक्षिणांशो दक्षिणभागो यस्य तत् । कण्ठस्थ कौस्तुभमणेर् गभस्तिभिः किरण्र् विराजमानं । वनमालिकायाः शश्वद्विलासेन ललितं ॥५५॥
**श्री-बल्लवी-हृदय-दोहद-भाजनं
श्री-राधा-मनो-नृप-हरिन्मणि-सिंह-पीठम् ।
त्रैलोक्य-यौवत-मनोहर-माधुरीकं
वक्षः-स्थलं सुविपुलं विलसत्य् अघारेः ॥५६॥ **
(युग्मकम्, रूपक-स्वभावोक्ती)
वल्ल्वीनां ह्रदयदोहदस्य ह्रदयस्प्रिहाया भाजनं पात्रं । राधा मनो राज्ञः हरिण्म्णेः सिंहपीठं सिंहासनं । त्रैलोक्य वर्त्ति यौवतस्य युवती समूहस्य मनोहरा माधुरी यस्य तत् । दोहदः, इच्छाकाङ्क्षा स्प्रिहे त्यमरः । इन्द्र नीलमणि क्रित सिंहासन कृष्ण वक्षःस्थलयोस् तादात्म्यं रूपकं । वक्षसः स्वरूप वर्णनं स्वभावोक्तिः ॥५६॥
**मुक्तावली-सुरधुनी-तनु-रोमराजी-
भास्वत्सुता-तरल-कान्ति-सरस्वतीनाम् ।
सङ्गेन मङ्गल-करं त्रिजगज्-जनानां
कृष्णस्य नौमि तम् उरः-स्थल-तीर्थ-राजम् ॥५७॥ **
(रूपकम्)
सुरधुनी गङ्गा भास्वत्सुता यम्ना । तरलो हारमध्य गरत्नालङ्कार विशेषस् तस्य कान्तिररुण वर्णः सैव सरस्वती । आसां गङ्गा यमुना सरस्वतीनां सङ्गेन त्रिजज् जनानां मङ्गलकरं ! कृष्णस्योरःस्थल रूपं तं तीर्थराजं प्रयागं नौमि । उरःस्थल प्रयागौयोस् तादात्म्यं रूपकं ॥५७॥
**दोः-स्तम्भ-युग्मम् अनुकान्ति-बटी-निबद्धा
वक्षः-स्थली-लवणिमोच्छलिता मुरारेः ।
अश्रान्त-दोलन-विहारि-रतीश-यूनोर्
दोलेव जिष्णु-मणि-सङ्घटिता विभाति ॥५८॥ **
(रूपकोत्प्रेक्षे)
सुरधुनी गङ्गा भास्वत्सुता यम्ना । तरलो हारमध्य गरत्नालङ्कार विशेषस् तस्य कान्तिररुण वर्णः सैव सरस्वती । आसां गङ्गा यमुना सरस्वतीनां सङ्गेन त्रिजज् जनानां मङ्गलकरं ! कृष्णस्योरःस्थल रूपं तं तीर्थराजं प्रयागं नौमि । उरःस्थल प्रयागौयोस् तादात्म्यं रूपकं ॥५७॥
**वक्षो हरेर् मदन-शाकुनिकस्य मन्ये
गोपाङ्गना-नयन-खञ्जन-बन्धनाय ।
श्रीवत्स-कुण्डलिकयान्वितम् अङ्क-कील-
लावण्य-जाल-वितति-स्थलतां प्रपेदे ॥५९॥ **
(रूपकोत्प्रेक्षे)
ह्रेर्वक्षः गोपसुन्दरी नयनखञ्जन वन्न्धनार्थं कन्दर्पव्याधस्य स्थलतां प्रपेदे इति मन्ये । कीद्रिशं ? श्रीवत्स एव कुण्डलिका पक्षिधारण पात्रं तया युतं । अङ्कः स्तनस्य चतुर्द्दिक्षु कुण्डलाकारेण श्वेतरोमावली रूपचिन्हं स्वर्णरेखाकार-लक्ष्मी रूपचिन्हं च वक्षो मध्यं वा । उत्सङ्गचिन्हयोरङ्क इत्यमरः । कीले किञ्चिनुच्चस् तनयोर् मध्यवर्तिनौ अङ्ग विशेषौ तस्य तयोश् च लावण्य रूपजालस्य विततिर् विस्तारो यत्र ताद्रिशं । नयन खञ्जनयोः अङ्गकीलयोः । लावण्य जालस् तादात्म्यं रूपकं । खञ्जनादिभ्यो नयनादेर् उकषोऽत्रोत्प्रेक्षा ॥५९॥
**वक्षश् छलात् सुलघु-कीलक-युक्-स्तनाख्य-
श्री-चक्रिका-खचित-पार्श्व-युगं बकारेः ।
श्री-राधिका-युवति-रत्न-विराजि-चेतः
कोषालयस्य हरि-रत्न-कपाटम् अस्ति ॥६०॥ **
(रूपकापह्नुत्य्-उत्प्रेक्षे)
वकारेर् वक्षश्छलात् श्रीराधिका एव युवतिरत्नं तेन विराजिराधारूप युवति रत्नाधारं यत् श्रीकृष्ण चेतस्तदेव कोषालयो भाण्डारग्रिहं तस्य हरिरत्न मिन्द्र नीलमणिस् तन्निर्मितं कपाटमस्ति कीद्रिशं? Sउलघू कीलकाभ्यां युज्येते ये स्तन नामनी चक्रिके ताभ्यां खचितं युक्तं पार्श्वयुगं यस्य । कृष्णवक्षः कपाटयोस् तादात्म्यं रूपकं । वक्षःस्थलादीनां कपाटादिनान्यथा करणम् अपह्नुतिः । कपाटाद्यपेक्षया सुलघू इत्यादि विशेषणेन कीर्तनं वक्षश्हलात् इति पदद्योत्या वक्षस उत्प्रेक्षा ॥६०॥
**गोपालिका-हृदय-वाञ्छित-पूर्तये श्री-
तापिञ्छ-कल्प-तरु-सुन्दर-कन्दलौ यौ ।
साध्वीत्व-गर्व-शश-घात-कृते सतीनां
तापिञ्छ-सार-परिघौ स्मर-लुब्धकस्य ॥६१॥ **
(रूपकम्)
अघारेस् तौ श्रीमद् भुजौ मे मनसि स्फुरतामिति त्रितीय श्लोकेन सम्वधः । कीद्रिशौ । यौ गोपिका वाञ्छा पूर्त्त्ये तमालकल्पतरोः सुन्दरकन्दलौ नवाङ्कुरौ सतीनां साध्वीत्व रूपगर्व एव शशो म्रिगविशेषस् तस्य घातार्थं स्मरलुव्धकस्य स्मर्व्याधस्य तापिञ्छ सारपरिघौ । कन्दलभुजयोः परिघभुजयोस् तादात्म्यं रूपकं समस्त वस्तु विषयं निःसङ्गं च ॥६१॥
**गोपाङ्गना-हृदय-तण्डुल-कण्डनाय
माहेन्द्रनील-मुषलौ कुशलार्गले यौ ।
राधाधि-हृन्-निलय-वत्स-कपाटिकायाः
राधादि-चित्त-शुक-पञ्जर-दण्डिके च ॥६२॥ **
(माला-रूपकम्)
यौ भुजौ गोपीनां ह्रदयरूप तण्डुलस्य कण्डनाय साध्वीत्वादि तुषाणां दूरीकरण पूर्वक शोधनार्थं इन्द्रनीलमणि मुषलौ । यौ राधादीनां ह्रदयग्रिहस्य वत्सं वक्षःस् तद्रूप कपाटिकायाः कुशलार्गले । चकाराद्यौ राधादीनां चित्तमेव शुकस् तस्य पञ्जरस्य दण्डिके । माला स्यात् पूर्व पूर्वं चेदुत्त्रोत्तर म्रिच्छ्ति । पूर्वम् अत्र यौ भुजौ माहेन्द्रनील मुषलौ । उत्तरं पश्चादपि यौ भुजौ मूष्लार्गले । प्ञ्जरदण्डिके चेत्यनेन प्रकारेण माला भुज मूषलयोस् तादात्म्यं रूपकं च समस्त वस्तु विषयं प्रासङ्गि च ॥६२॥
**पीनायतौ लवणिमोच्छलितौ सुवृत्तौ
पद्मादि-विश्व-रमणी-कमनीय-शोभौ ।
पीन-स्तनी-हृदय-दोहद-भाजनं तौ
श्रीमद्-भुजौ मनसि मे स्फुरताम् अघारेः ॥६३॥ **
(सन्दानतिकम्, रूपक-स्वभावोक्ती)
कीद्रिशौ पीनौ स्थूलौ आयतौ दीर्घौ च । लवणिम्नोच्छलितावति पूर्णौ । सुव्रित्तौ सुवलितौ पद्मा लक्ष्मीस् तदादि विश्वस्त्रीणां कमनीय शोभालयोस् तौ । पीनस्तनीह्रदय दोहदस्याकाङ्क्षायां पूर्त्तेर् वा भाजनं पात्रे । भुजयोः स्वभावकथनं स्वभावोक्तिः ॥६३॥
**तरुणिम-मधुफुल्ल-श्री-हरेस् तन्व्-अरण्ये
मधुरिम-मदनाख्यौ किं प्रविष्टौ मदेभौ ।
सुभुज-युगल-शुण्डा-पाणि-सत्-पुष्कराभ्यां
निरवधि-चरतस् तौ जानु-रुक्-पल्लवानि ॥६४॥ **
(रूपकानुमानोत्प्रेक्षाः)
तरुणिम् अरूपेण् मधुणा वसन्तेन फुल्ले हरेस् तनुरूपवने मधुरिममदनाख्यौ । मधुरिमा च मदनश् चेत्याख्ये ययोस् तौ किम्बा मधुरिममदनौ तदाख्यौ मदेभौ मत्तहस्तिनौ किं प्रविष्टौ । सुभुजयुगलं सुन्दरं कृष्णभुज युजलं । तद्रूपशुण्डयोर् ये पाणिरूप सत्पुष्करे ताभ्यां शुण्डाग्राभ्यां जानुनोरुचः कान्तयः एव पल्ल्वानि कोमलपत्राणि तानि निरवधि सदा चरतः भक्षयतः आजानुवाहुत्वम् उक्तं तन्वनयोः । भुज शुण्डयोः । पाणि पुष्करयोः । समस्त वस्तु विषयं तादात्म्यं रूपकं । शुण्डाग्रेण भोजन्ं हेतुं क्रित्व कृष्णशरीरे हस्तिःस् प्रवेशः साध्यम् अत्रानुमानं । शुण्डोपमानोनोपमा । ययोर् भुजयोः किमिति पदद्योत्या उत्कर्ष उत्प्रेक्षा ॥६४॥
**श्री-कृष्ण-दोर्-युग्म-मिषेण वेधसा
तन्-माधुरी-दोलिकया समन्वितौ ।
रमादि-योषिन्-मति-दोलनाय किं
स्तम्भौ विचित्रौ हरि-रत्नजौ कृतौ ॥६५॥ **
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
श्रीकृष्णदोर् युग्ममिषेण लक्ष्म्यादीनां मतेर् दोलनाय वेधसा इन्द्रनीलमणिजौ विचित्रौ मनोहरौ स्तम्भौ क्रितौ । कीद्रिशौ तयोर् भुजयोर् माधुरी इतस्ततो गमनशीला सैव दोलिका तया समन्वितौ युक्तौ । भुजस्तम्भयोर् माधुरी दोलिकयोस् तादात्म्यं रूपकं पूर्ववत् । भुजदीनां स्तम्भादित्वेनान्यथाक्रितिः । प्रक्रितान् भुङ्गदीन् निषिध्य स्तम्भादीनां स्थापनम् अपह्नुतिः । स्तम्भापेक्षया भुजयोरुत्कर्षः पूर्ववदुत्प्रेक्षा ॥६५॥
**स्मर-नृप-कृत-गोपी-धैर्य-नाशाभिचार-
क्रतु-हरिमणि-यूपौ दोर्-मिषात् कृष्ण-देहे ।
लसत इह कवीनां काव्यम् एतन् मतं मे
प्रणय-शुचि-रसाब्धेर् निर्गतौ सत्-प्रवाहौ ॥६६॥ **
(उत्प्रेक्षा-रूपकापह्नुतयः)
कृष्णदेहे दोषोर् हस्तयोर् मिषात् स्मरन्रिप क्रितस्य गोपीनां धैर्यनाशाय अभिचारक्रतोर् मारणयञ्जस्य हरिमणिक्रितौ युपौ लसतः इह जगति कविनां एतत् काव्यं, मे मतन् तु प्रणयः प्रीतिस्तज्जन्य शुचिरसाव्धेः श्रिङ्गार रससमुद्रस्य सत्प्रवाहौ निर्गतौ । इन्द्रनीलमणि युपश्र्ङ्गार रसप्रवाहात् हस्तयोर् उत्कर्ष उत्प्रेक्षा । हस्तयुपयोः हस्र्तप्रवाहयोः पूर्ववत् समस्त वस्तुविषयं प्रासङ्गि च । तादात्म्यं रूपकं युपप्रवाहाभ्यां हस्तयोर् अन्यथाक्रितिः प्रक्रितं हस्तं निषिध्यं युप प्रवाहयोः स्थापनम् अपह्नुति ॥६६॥
**शङ्खोर्धेन्दु-यवाङ्कुशैर् अरि-गदाच् छत्र-ध्वज-स्वस्तिकैर्
यूपाब्जासि-हलैर् धनुः-परिघकैः श्री-वृक्ष-मीनेषुभिः ।
नन्द्यावर्त-चयैस् तथाङ्गुलि-गतैर् एतैर् निजैर् लक्षणैर्
भातः श्री-पुरुषोत्तमत्व-गमकैः पाणी हरेर् अङ्कितौ ॥६७॥ **
(स्वभावोक्तिः)
हरेः पुरुषोत्तमत्वञ्जापकैर् निजैरेतैर् लक्षणैर् अङ्कितौ पाणी करतलद्वयं भातः । अङ्कान्याह । शङ्खः १ अर्ध्वेन्दुः २ यव ३ अङ्कुशः ४ अरिश्चक्रं ५ गदा ६ छत्रं ७ ध्वजः ८ स्वस्तिकं ९ युप्ं १० अव्जं ११ असिड्गः खः १२ हलं १३ धनु १४ परिघः १५ श्रीव्रिक्षो विल्वव्रिक्ष्ः शोभितव्रिक्षो १६ मीनः १७ इषुर्वाणः १८ अङ्गुल्यग्रगतैर्न् न्न्द्यावर्त्चयैश् चक्रसमूहैः उनविंशतिश् चिह्नानि । स्वभावसिद्धानि स्वभावोक्तिः ॥६७॥
**हस्तौ स्वभाव-मृदुलाव् अपि कर्कशौ तौ
शौरेर् महा-पुरुष-लक्ष्मतयोचुर् एके ।
तन् नामृतं यदि तदा कमठी-कठोर
गोपी-स्तनानिश-विमर्दनम् अत्र हेतुः ॥६८॥ **
(काव्यलिङ्गोत्प्रेक्षे)
हरेः पुरुषोत्तमत्वञ्जापकैर् निजैरेतैर् लक्षणैर् अङ्कितौ पाणी करतलद्वयं भातः । अङ्कान्याह । शङ्खः १ अर्ध्वेन्दुः २ यव ३ अङ्कुशः ४ अरिश्चक्रं ५ गदा ६ छत्रं ७ ध्वजः ८ स्वस्तिकं ९ युप्ं १० अव्जं ११ असिड्गः खः १२ हलं १३ धनु १४ परिघः १५ श्रीव्रिक्षो विल्वव्रिक्ष्ः शोभितव्रिक्षो १६ मीनः १७ इषुर्वाणः १८ अङ्गुल्यग्रगतैर्न् न्न्द्यावर्त्चयैश् चक्रसमूहैः उनविंशतिश् चिह्नानि । स्वभावसिद्धानि स्वभावोक्तिः ॥६७॥
**अनङ्ग-शर-जर्जर-व्रज-नवीन-रामालि-हृद्-
विशल्य-करणौषधि-प्रथम-पल्लवौ सन्तमौ ।
रसोच्छलित-राधिकोरसिज-हेम-कुम्भ-द्वयी-
विभूषण-नवाम्बुजे व्रज-विधोः करौ दीव्यतः ॥६९॥ **
(रूपकम्)
व्रजविधोः करौ दीव्यतः । कीद्रिशौ । स्मरशरजर्ज्ज्रस्य व्रजनवीनरामा श्रेणीनां ह्रदो विशल्यकरणाखौषधेः प्रथम पल्लवौ । रसोच्छलितराधा कुचहेम कुम्भयोर् विभुषणरूप नवाम्भुजे । करविश्ल्याखौषधि पल्ल्वयोः कुचहेम कुम्भयोः । करनवाम्बुजयोर् उपमानोपमेयर्दानात् समस्तवस्तु विषयं प्रासङ्गि च रूपकं ॥६९॥
**श्री-कामाङ्कुश-तीक्ष्ण-शुद्ध-मुकुटैः पूर्णेन्दु-सन्-मण्डलैः
श्लिष्टान्योन्य-मिलद्-दलावलि-शिरः-पश्चाद्-विभागे क्वचित् ।
अब्जे चेद् अभविष्यतां विकसित-श्यामाम्बुजान्तर्गते
श्री-पाण्योर् उपमां तदात्र कवयोऽदास्यन्न् अमूभ्यां हरेः ॥७०॥ **
(तृतीयातिशयोक्तिः)
श्रीः शोभा तया सहितानां कामाङ्कुशानां तीक्ष्ण्श्रिङ्गाण्येवए मुकुटानि येषां तैः पूर्णेन्दु सन्मण्डलैः श्लिष्टा अन्योन्यं परस्परं मिलन्त्योर् दलवल्योः । शिरसामग्राणां पश्चाद्विभागो ययोस् ते । पुनर् विकसित श्यामाम्वुजयोर् अन्तर्गते मध्यगते अव्जे पद्मे रक्तपद्मे चेद्यदि क्वचित् स्थले अभविष्यतां तदात्र कवयोऽमुभ्याम् अव्जाभ्यां हरेः पाण्योर् उपमामदास्यन् । यद्यर्थेन तु कल्पना । यद्यसम्भाविनोऽर्थस्य त्रितीया च । अस्यार्थः । यदि शवार्थेन कल्पना स्यात्तदा त्रितीयातिशयोक्तिर् ञ्जेया । अत्र यदि शव्दार्थेन असम्भावितार्थस्य उक्तप्रकारस्य कमलद्वयस्य श्रीकृष्ण करद्वये कल्पनात् । त्रितीयातिशयोक्तिः । उपमानेन निगीर्णस्य ग्रस्तस्योपमेयस्य यन्निरूपणं सातिशयोक्तिः । अत्र पाणेरङ्गुलीनां उपमेयानां उपमानेन कामाङ्कुशत्वेन ग्रस्तं तथा न्खाग्राणां तीक्ष्णश्रिङ्गत्वेन नखानां चन्द्र मण्डलत्वेन । पाणेः प्रिष्ठदेशस्य श्यामाव्जत्वेन तलदेशस्य रक्ताव्जत्वेन निगीर्णस्य निरूपणं ॥७०॥
**वृषभ-ककुद-निन्दि-स्कन्धयोस् तुङ्गतां
सत्-पुरुष-वरतयैवेत्य् आहुर् एके बकारेः ।
मम तु मतम् इदं श्री-राधिका-दोर्-मृणाली
सतत-मिलन-मोदोत्फुल्लतैवात्र हेतुः ॥७१॥ **
(काव्यलिङ्ग-रूपके)
व्रिषभस्य् तुङ्गोः ककुदं स्कन्धोपरिस्थं उच्चमांसपिण्डं निन्दितुं शीलं ययोस्तयोर् वकारेः स्कन्धयोस्तुङ्गतां सत्पुरुष वरत्वेन एव एके आहुः । ममतु मतमिदं राधावाहु स्पर्शानन्दज पदार्थताहेतोः स्कन्धयोस्तुङ्गता सिद्धिर् अत्र काव्यलिङ्गं । स्कन्धककुदोस् तादात्म्यं अतिशयाभेदाद् अपह्नुत भेदत्वं रूपकं समस्त वस्तुविषयं निःसङ्गं च ॥७१॥
**अंसौ हरेर् उल्लसतः समुन्नतौ
मन्ये लसत्-कौस्तुभ-कण्ठ-माधुरीम् ।
द्रष्टुं सदोद्ग्रीविकयोत्सुकेन तां
पार्श्व-द्वयेनोन्नमितौ स्व-मस्तकौ ॥७२॥ **
(उत्प्रेक्षा)
हरेः समुन्नतौ अंसौ स्कन्धौ उल्लसतः । तां प्रसिद्धां सत्कौस्तुभ कण्ढमाधुरीं द्रष्टुं उत्सुकेन पार्श्वद्वयेन सदोद्ग्रीविकया उच्चग्रीवं यथा स्यात्था स्वमस्तकौ उन्नमितौ अह्ं मन्ये । अन्यमाधुर्यपेक्षया कस्तुभ कण्ढयोः स्कन्धयोश् च माधुर्यस्योउत्कर्षं मन्ये इति पद-द्योत्या उत्सुकेन इति हेतूपन्यासेन उत्प्रेक्षा ॥७२॥
**ऊर्ध्वे सुविस्तृतम् अधः क्रम-कार्श्य-युक्तं
माधुर्य-भूमि-भुज आसनम् ऐन्द्रनीलम् ।
लावण्य-पूर-वहनाद् दर-निम्न-मध्यम्
इष्टं दृशां मृगदृशां हरि-पृष्ठम् ईडे ॥७३॥ **
(स्वभावोक्ति-रूपकोत्प्रेक्षाः)
म्रिगद्रिशां द्रिशामिष्टं हरिप्रिष्ढं ईडे स्तौमि । उर्धे उर्धदेशे सुविस्त्रितं अधोदेशे क्रमेण कार्श्ययुक्तं । माधुर्य रूपस्य भूमिभुजो राञ्जः ऐन्द्रनील मिन्द्रनीलरत्न निर्मितम् आसन्ं । लावण्यातिशयस्य वहनाद्दरं ईषन्निम्नमध्यं जलप्रवाहेन भूमेर् इव । प्रिष्ठस्य स्वस्भाव वर्णनं स्वभावोक्तिः । माधुर्य राञ्जओः प्रिष्ठसनयोः । लावण्यजलयोस् तादात्म्य्ं रूपकम् इदं । प्रसङ्गिकम् अन्यप्रकारं । अन्यप्रिष्ठदितोऽस्य प्रिष्ठदेरुत्कर्ष उत्प्रेक्षा ॥७३॥
**सुस्थूल-मूलाद् दर-कार्श्य-मञ्जुला
स्व-माधुरी-सिंह-शिरोधि-दर्प-हृत् ।
श्री-केश-जूटस्य विलास-खट्टिका
सुवर्तुला भाति मुकुन्द-कन्धरा ॥७४॥ **
(स्वभावोक्ति-रूपक-व्यतिरेकाः)
मुकुन्दस्य कन्दरा भाति । सुस्थुल मुलमारभ्य दरं ईषत्कार्श्येन मनोञ्जा । स्वमाधुरीभिः सिंह स्कण्धरायाः दर्पह्रित् । श्रीकेशजुष्टस्य विलासाय खट्विका । कन्दरायाः स्वरूप वर्णनं कृष्णकन्धरा सिंहकन्दरयोस् तादात्म्यं । अन्यकन्धरातोऽस्या वैलक्षण्यं व्यतिरेकः ॥७४॥
पिक-तत-शुषिराली-नाद-निन्दि-स्वरोर्मिस्
त्रि-भुवन-जन-नेत्रानन्दि-रेखा-त्रय-श्रीः ।
नव-नव-निज-कान्त्या भूषित-श्री-मणीन्द्रो
विलसति बक-शत्रोः कण्ठ-नीलाश्म-कम्बुः ॥७५॥
(रूपकम्)
वकशत्रोः कण्ठरूपेन्र नीलमणेः कम्बुः शङ्खो विलसति । पिकस्य कोकिलस्य ततं वीणादिवाद्यं तस्य शुषिरं वंशादि वाद्यं तस्य चालीनां श्रेणीनां नादस्य निन्दी निन्दनशीलः स्वरोर्मिः स्वरतरङ्गो यस्य सः । नवनवनिजकान्त्या भूषितः श्रीमणीन्द्रः कौस्तुभो येन सः । कण्ढ शङ्खयोस् तादात्म्यं अतिशयाभेदाद् अपह्नुतभेदत्वं रूपकं । पिकादि प्रक्रिष्ट सजातीयवहूनां सङ्गात् प्रासङ्गि समस्त वस्तुविषयं च ॥७५॥
**कण्ठो हरेर् लसति कौस्तुभ-राजहंस-
लीलामृताक्षय-सरः सततं यतोऽस्मात् ।
लावण्य-नर्म-कविता-वर-गान-सम्पद्-
दिव्यापगाः प्रतिदिशं किल निःसरन्ति ॥७६॥ **
(रूपकानुमाने)
हरेः कण्ठो लसति । कीएरिशः । कौस्तुभ एव राजहंसस् तस्य लीला यत्र तथाभूतं च तदम्रितस्याक्षयसरः कण्ठाक्षसरसोः साधर्म्यमाह् । यतोऽस्मात् कण्ठसरसो लावण्यन्र्म परिहास वाक्यं कविता गद्य पद्यमयी वाणी श्रेष्ठ गानञ् च । एता एव सम्पदो दिव्या अलौकिका आपगा न्द्यः प्रतिदिशं सततं निःसरन्ति कण्ठसरसोर् लावण्यनर्म कविता वरगाणानां नदीनाञ् च तादात्म्यं रूपकं । लावण्यादि वहुसजातीय सङ्गात् प्रासङ्गि समस्त वस्तुविषयं । नदीनां निःसरणं हेतुं क्रिवा कण्ड्थऽक्षयसरः साध्यम् इत्यनुमानं ॥७६॥
**नासा-हन्व्-अधरोष्ठ-गण्ड-चिबुक-श्रोत्रादि-दिव्यद्-दलं
श्री-दन्तावलि-केशरं स्मित-मधु-भ्राज्य्-उल्लसत्-सौरभम् ।
श्री-नेत्र-द्वय-खञ्जनं भ्रमरिकैर् भ्रू-भृङ्गिकाल्य्-आवृतं
श्री-जिह्वाद्भुत-कर्णिकं विजयते श्री-कृष्ण-वक्त्राम्बुजम् ॥७७॥ **
(रूपकम्)
श्री कृष्ण वक्त्राम्बुजं विजयते, कीद्रिशं ? नासादयो दिव्यद्दलानि यस्य तत् । दन्तावली केशरा यस्य तत् । स्मितम् एव मधु तेन भ्रजत इति स्मितम् अधुभ्राजि उल्लसत् सौरभं साहजिकं मुख सौरभम् एव पद्मसौरभं यत्र तत् । नेत्रद्वयं खञ्जनौ यत्र तत् । भ्रुर् एव भ्रिङ्गि काली भ्र्मरी श्रेणी तया सह भ्रमरिका ललाट चुर्णकुन्तलास्त एव भ्रमरिका भ्रमरास्तैराव्रितं । भ्रमपक्षे स्वार्थे इकः अणित् । ते ललाटे भ्रमरिका इत्यमरः । श्रीजिह्वैवाद्भुता कर्णिका यत्र तत् । नासादि दलयोः । दन्तावलि केशरयोः स्मितमधुनोः मुखपद्मयोः नेत्र खञ्जनयोः भ्रमरिका भ्रमरयोः भ्रुभ्रिङ्गि काल्योः जिह्वा कर्णिकयोस् तादात्म्यं रूपकं । पूर्ववत् प्रासङ्गि समस्तवस्तु विषयं ॥७७॥
**अघरिपु-मुख-राका-नायको निष्कलङ्कः
समजनि निज-लक्ष्म-न्यस्य गोपी-कुले किम् ।
इति तु कुकवि-वाक्यं मन्-मतं शृण्व् अकार्षीत्
सहज-विमल एष स्वाश्रितं तत्-स्व-तुल्यम् ॥७८॥ **
(उत्प्रेक्षा-रूपके)
अघरिपोर् मुखम् एव राकानायकः पूर्णचन्द्रः स निजलक्ष्म सकलङ्कं गोपीकुलेन्यस्य निष्कलङ्कः सन् किं समजनि इति तु कुकवीनां वाक्यं । मन्मतं श्रिणु, सहज विमल एष मुखच्न्द्रः स्वश्रितं तत्लक्ष्म कलङ्कं स्वतुल्यं विमलम् अकार्षीत् । प्रसिद्ध चन्द्रान्मुख चन्द्रस्योत्कर्षोऽत्रोत्प्रेक्षा । मुखच्न्द्रयोस् तादात्म्यं रूपकं समस्तवस्तु विषयं निःसङ्गं च ॥७८॥
**बन्धूके मुकुरौ सुकुन्द-कलिका-पाल्यो नटत्-खञ्जनाव्
अर्धेन्दुं तिल-पुष्पकं स्मर-धनुर् लोलालि-मालाम् अपि ।
पूर्णेन्दौ यदि तत्-कलङ्कम् उदपास्यैतान्य् अधास्यद् विधिः
श्री-कृष्णस्य कवीश्वरा मुखम् उपामास्यांस् तदैवामुना ॥७९॥ **
(तृतीयातिशयोक्तिः)
विधिर् यदि पूर्णेन्दोः कलङ्कम् उदपास्य दूरीक्रिता एतानि वन्धुकादीन्यदास्यत् । तदैवामुना चन्द्रेण कवीश्वराः श्रीकृष्णस्य मुखम् उपमानस्यन् उपमितम् अकरिषण् । कृष्णमुखे वन्धूके इव ओष्ठाधरौ मुकुराव् इव गण्डद्वयं । कुन्दकलिका पाल्याविव दन्तापाल्यौ । खञ्जनाविव नेत्रे । अर्धेनुरिव ललाटं । तिलपुष्पम् इव नासा । स्मरधनुर् इव भ्रुवौ । लोलभ्रमर श्रेणीव अलकाः । वन्धूकादि युक्तस्य इन्द्रोरसम्भवात् यदिशव्दार्थेन कल्पनात्र त्रितीयातिशयोक्तिः । त्रितीयातिशयोक्ति लक्षण्ं । यद्यर्थेन तु कल्पना । यद्यसम्भावनार्थस्य त्रितीया च ॥७९॥
**बाल्ये जनन्याङ्गुलि-लालने यद्-
अङ्गुष्ठ-सङ्गाद् दर-निम्न-मध्यम् ।
अधोऽङ्गुलि-द्वन्द्व-कृतोन्नतेश् च
स्वल्पोन्नताग्रांशम् अमेय-शोभम् ॥८०॥
नीलोत्पलस्योदयद्-इन्दु-कान्ति-
फुल्लैक-पौरस्य दलोपमर्दि ।
लावण्य-वन्योच्छलितं मनोज्ञं
तच्-छ्री-हरेः श्री-चिबुकं चकास्ति ॥८१॥ **
(काव्यलिङ्ग-स्वभावोक्त्य्-उत्प्रेक्षा-व्यतिरेकाः)
श्रीहरेस् तत् श्रीचिवुकं चकास्तीति परेणान्वयः कीद्रिशः ? यत् वाल्येजनन्या कर्त्या अङ्गुल्या लालने अङ्गुष्ठ सङ्गाद्धेतोर् दरमल्पं निम्नं मध्यं यस तत् । अधोऽङ्गुलिद्वन्द्वेन तर्जनी म्ध्यमाभ्यां क्रितन्नतेर् हेतोश्चोन्न्तोऽग्रांशोऽग्रभागो यस्य तत् । अमेया अपरिमेया शोभा यत्र तत् । पदवाक्यार्थर्ताहेतोर् यत्र कार्यसिद्धिः काव्यलिङ्गम् अत्र जनन्यङ्गुलि लालनादि पदार्थता हेतोर् दरनिम्नमध्ं चिवुकः काव्यलिङ्गं । चिवुकस्य निम्नमध्यं स्वभावस्य वर्णनं स्वभावोक्तिः । अन्यमात्रि लाल्यचिवुकादत्र चिवुकस्योत्कर्ष उत्प्रेक्षा । पुनः कीद्रिशं ? नीलोत्पलस्य उदयत उदयं प्राप्नुवतः इन्दोः कान्तिभिः फुल्ल्म् एकं पौरस्यं अग्रिमं दलमुपमर्दितं शीलं यस्य तत् । अन्यचिवुकाद्वैलक्षण्यं व्यतिरेकः ॥८०-८१॥
**श्रवण-चिबुक-मूल-स्पर्शि सत्-सन्निवेशं
जन-नयन-विहङ्गाकर्षि माधुर्य-जालम् ।
विलसति हनु-युग्मं श्री-हरेः स्तोक-दीर्घं
प्रवितत-मुख-बिम्बस्यानुकूल्य-प्रवीणम् ॥८२॥ **
(स्वभावोक्ति-रूपके)
हरेर् हनुयुग्मं विलसति कीद्रिशं । श्रवण चिवुकमुलयोः स्पर्शशीलः सन् उत्तमश् च सन्निवेशो रूपं यस्य तत् । चिवुकमुलकर्णयोर् म्ध्यस्थलं हनुसङ्गम् इति ञ्जेय्ं । जननयनरूप पक्षिणामाकर्षण शीलं माधुर्यरूपं जालं विहङ्ग वन्धनं यस्य तत् । स्तोकदीर्घम् अल्पदीर्घम् अपि प्रविततं विस्त्रितं यन्मुखविम्बं तस्यानुकुल्ये प्रवीण्ं हनोश् चेष्टयेव मुख प्रसारादिकं भवेन्नान्यथेभ्यानुकुल्ये प्रवीणत्वं ह्नोः स्वरूप वर्णनं स्वभावोक्तिः । हनुजालयोर् अतिशयाभेदाद् अपह्नुतभेदत्वम् अत्र तादात्म्यं रूपकं समस्तवस्तु विषयं निःसङ्ग च ॥८२॥
**स्वाकार-मार्दव-विनिर्जित-शष्कुलीकं
साङ्गाति-चित्र-घटनाजित-विष्टराभम् ।
स्वीयांशु-जाल-गिलिताखिल-लोक-नेत्र-
चित्तोल्लसन्-मकर-कुण्डल-मण्डल-श्रीः ॥८३॥ **
(व्यतिरेकः)
माधव कर्णयुग्मं मे ह्रिदि स्फुरतु इति त्रितीय श्लोकेनान्वयः । कीद्रिशं कर्णयुग्मं स्वस्हाकारस्य मार्दवेन म्रदिन्मा विनिर्जिता शष्कुली पिष्टकविशेषो येन तत् । स्वाङ्गस्यातिचित्रा अनिर्वचनीया या घटना तयाजिता । विष्टरस्य कुशमुष्टि वन्धन निर्मितस्याभा मध्यदेशाकारो येन तत् । स्वीयांशुजालेन स्वकिरण समूहेन गिलिते वशीक्रिते अखिलानां नेत्रचित्ते येन तत् । उल्लसन्ती मकरकुण्डलयोः श्रीः शोभा यत्र यस्माद्वा तत् । तच् च तच् च तत् । अन्यकर्णाद्वै लक्षण्यम् अत्र व्यतिरेकः ॥८३॥
**श्री-कर्ण-भूषण-भराद् दर-दीर्घ-रन्ध्रं
विश्वाङ्गना-नयन-मीन-मनोज-जालम् ।
गोपी-मनो-हरिण-बन्धन-वागुरा यत्
श्री-राधिका-नयन-खञ्जन-बन्ध-पाशः ॥८४॥ **
(माला-रूपक-स्वभावोक्ती)
मकरकुण्डलयोर् भारेण दरं ईषद्दीर्घं छिद्रं यत्र तत् । विश्वस्त्रीनेत्रमीन् वन्धनार्थं स्मरजलं । वागुरा म्रिगवन्धनी पाशोरज्जुः । माला स्यात् पूर्व पूर्वं चेदुत्तरोत्तरम् ऋच्छति पूर्व पूर्वक्तम् उत्तरोत्तर गमनम् अत्र गोपीनां मनोऽरिण वागुरा इव मनोमीनस्य जालां राधिकायाश् च स्मरजाल वागुराकारञ् च । माला मनोज-जलवागुरापाशैः सह कर्णयोः पुर्ववत्तादात्म्यं रूपकं समस्त वस्तुविषयं प्रासङ्गि च । कर्णस्वभाव वर्णनं स्वभावोक्तिः ॥८४॥
**गान्धर्विका-सपरिहास-सगर्व-निन्दा
खञ्जद्-वचोऽमृत-रसायन-पान-लोलम् ।
शोणान्तरं सुरुचिरं सम-सन्निवेशं
तन् मे हृदि स्फुरतु माधव-कर्ण-युग्मम् ॥८५॥ **
(सन्दानितकम्, स्वभावोक्तिः)
मकरकुण्डलयोर् भारेण दरं ईषद्दीर्घं छिद्रं यत्र तत् । विश्वस्त्रीनेत्रमीन् वन्धनार्थं स्मरजलं । वागुरा म्रिगवन्धनी पाशोरज्जुः । माला स्यात् पूर्व पूर्वं चेदुत्तरोत्तरम् ऋच्छति पूर्व पूर्वक्तम् उत्तरोत्तर गमनम् अत्र गोपीनां मनोऽरिण वागुरा इव मनोमीनस्य जालां राधिकायाश् च स्मरजाल वागुराकारञ् च । माला मनोज-जलवागुरापाशैः सह कर्णयोः पुर्ववत्तादात्म्यं रूपकं समस्त वस्तुविषयं प्रासङ्गि च । कर्णस्वभाव वर्णनं स्वभावोक्तिः ॥८४॥
**कृष्णस्य पूर्ण-विधु-मण्डल-सन्निवेशं
राधाधरामृत-रसायन-सेक-पुष्टम् ।
गण्ड-द्वयं मकर-कुण्डल-नृत्य-रङ्गं
भातीन्द्रनील-मणि-दर्पण-दर्प-हारि ॥८६॥ **
(व्यतिरेक-रूपक-स्वभावोक्तयः)
कृष्णस्य गण्डद्वयं भाति कीद्रिशं । पूर्ण चन्द्राकारं । राधाया अधर एवाम्रितं किम्बा अधरस्याम्रितं तदेव रसायन्ं रसः प्रेमरसः स एव रसो मध्वादिमधुर रसस्तस्यायनमाश्रयस् तद्रसरूपम् इथर्थः । तस्य सेकेन पुष्टं मकर्कुण्डलयोर् न्रित्यरङ्गो यत्र तं । न्रित्यस्थानं वा इन्द्रनीलमणि दर्पण दर्पहारि । ततोऽप्यति निर्मलम् इत्यर्थः । अन्यगण्डात् कृष्णगण्डद्वयं विलक्षणं व्यतिरेक्ः । इन्द्रनीलमणि दर्पणपूर्ण चन्द्रयोर्गण्डेन तादात्म्यं रूपकं । समस्तवस्तु विषयं प्रासङ्गि च । गण्डयोः सभाववर्णनं स्वभावोक्तिः ॥८६॥
**पर्युच्छलन्-मधुरिमामृत-निम्नगाया
आवर्त-गर्त-निभ-सृक्व-युगातिरम्यम् ।
श्री-कान्त-दन्त-विसरत्-किरणाभिषिक्तं
दुग्धाभिधौत-नव-पल्लव-निन्दि-रोचिः ॥८७॥ **
(रूपकोपमाने)
तत् श्रीकृष्णाधरौष्ठं मे ह्रिदि चकस्त्विति चतुर्थ श्लोकेनान्वयः । कीद्रिशमोष्ठाधरं । पर्युच्छलन् मधुरिमैवाम्रित निम्नगा तस्या आवर्तो घूर्णा तद्रूपे गर्तनिभे गर्तसद्रिशे ये स्रिक्वणी तयोर् युगेनातिरम्यं । “प्रान्तावोष्ठस्य स्रिक्वणी” इत्यमरः । श्रिया शोभया कान्ताः कमनीयाः ये दन्तास् तेषां विसरद्भिर् विलसद्भिर् वा पाढः । किरणैर् अभिषिक्तं । दुग्धेनाभिधौतं नवपल्ल्वं निन्दितुं शीलं यस्य ताद्रिक् रोचिः कान्तिर् यस्य तत् । अत्र मधुरिमाम्रितन्द्योः स्रिक्वगर्त्योः दन्तकान्तिदुग्धयोः अधरौष्ठ नवपल्ल्वयोस् तादात्म्यं रूपकं । समस्तवस्तु विषयं प्रासङ्गि च । आवर्तगर्तनिभ इत्युपमानं च ॥८७॥
**ओष्ठोपरि श्वसन-निर्गमनाल्प-निम्नं
बन्धूक-जिच्-छवि-दरोच्छ्वसितोष्ठ-मध्यम् ।
श्री-श्यामिमारुणिमयोर् मिलन-प्रदेशे
स्तोकोन्नतायत मनोहर-सीम-शोभम् ॥८८॥ **
(स्वभावोक्त्य्-उत्प्रेक्षे)
ओष्ठपरि नासाश्वास निर्गमनेनाल्प निम्नं । वन्धूकपुष्पं जयतीति तज्जित् छविः रक्तकन्तिर् यस्य तत् । दरोच्छ्वसितः अल्पोच्चं ओष्ठमध्यं यस्य तत् । श्यामिमारुणिमयोरित्यत्र द्वन्द्वेऽ प्रत्ययेनातत्वाल्ट्रिलोपः । श्यामवर्ण रक्तवर्णयोर् मिलनप्रदेशे अल्पोन्न्ता चासावायता च मनोहरा सीम्नः शोभा यत्र तत् । ओष्ठस्य स्वभाव वर्णनं स्वभावोक्तिः । ओष्ठस्य मधदेशस्थ निम्ननासाश्वासजन्यत्व रूपहेत्वन्तरस्योपन्यासेन वितर्क णमात्रोत्प्रेक्षा ॥८८॥
**बिम्बाति-मञ्ज्व्-अधर-मध्यगताल्प-रेखं
स्वं पश्यताम् इतर-राग-हर-स्वभावम् ।
शश्वन्-निजामृत-सुवासित-मञ्जु-वंशी-
सूक्ष्मायत-ध्वनिभिर् आहृत-विश्व-चित्तम् ॥८९॥ **
(स्वभावोक्ति-व्यतिरेकौ)
विम्बफलादप्यतिमञ्जोर तिमनोञ्जस्याधरस्य मध्यगता अल्परेखा यत्र तत् । स्वन्तमधरं पश्यतां जानानामितरेषु अधरभिन्नेषु यो रागस् तस्य हरणे स्वभावो यस्य तत् । शश्वत् सदा निजस्व तस्याधरस्याम्रितेन सुवासिता या मनोञ्जवंशी तस्याः सूक्ष्मायत ध्वमिभिराह्रितं विश्वेषां चित्तं मनो येन तत् । अधरस्य स्वभाव वर्णनं स्वभावोक्तिः । अन्याधरात् कृष्णाधरो विलक्षणो व्यतिरेकः ॥८९॥
**सर्वस्व-रत्न-पिटको व्रज-सुन्दरीणां
जीवातु-सीधु-चषकं वृषभानुजायाः ।
तच्-छ्री-लसद्-दशन-लक्षण-लक्षितं श्री-
कृष्णाधरौष्ठम् अनिशं हृदि मे चकास्तु ॥९०॥ **
(रूपक-स्वभावोक्ती)
व्रजसुन्दरीणां सर्वस्वरूप रत्नानां पिटकः पेटिका राधाया जीवातुर् जीवनोपायस् तद्रूपसीधु चषकं अम्रित पानपात्रं तत् तस्याः राधायाः श्रिया लसद् दशनस्य लक्षणेन चिह्नेन लक्षितं चिह्नितं । रत्नपिटकेन सीधुचषकेण कृष्णाधरोष्ठयोर् अतिश्याभेदाद् अफ्नुतत्वं । तादात्म्यं रूपकं समस्तवस्तु विषयं प्रासङ्गि च । कृष्णाधरस्य स्वभाववर्णनं स्भावोक्तिः ॥९०॥
**स्वाकार-सौष्ठव-विनिन्दित-कुन्द-वृन्द-
सत्-कोरकान् शिखर-हीरक-मौक्तिकानाम् ।
शोभाभिमान-भर-खण्डन-कान्ति-लेशान्
वाम-भ्रुवाम् अधर-बिम्ब-शुकायमानान् ॥९१॥ **
(लुप्तोपमा)
सुभगाः श्रीकृष्ण दशनान् स्म्रन्तीति परश्लोकेनान्वयः । कीद्रिशान् । स्वानां तेषां दन्तानामाकारस्य सौष्ठवेन विनिन्दिताः कुन्दसमूहस्य सत्कोरकाः सत्कलिकाः यैस् तान् । शिखरादिनां शोभया योऽभिमानभरस् तस्य खण्डनः कान्तिलेशो येषां तान् । सुन्दरीणाम् अधर विम्बफले शुक इवाचरणशीलान् तदास्वादकान् । विम्बास्वादक शुकाद्विलक्षणा द्न्ता इतत्र व्यतिरेकः । कुन्दकोरकानिव श्वेतवर्णान् शिखरम् इव पक्वदाडिम वीजहीरक रत्नमिवेत्यनेन पार्श्वस्थित दन्तानाहुः । हीरकमिव दीप्यमानान् । मौक्तिकम् इव शुक्लवर्णान् इत्यनेन सम्मुखस्थ दन्तान् अधरविम्बे शुकानिव तानुक्ता लुप्तोपमा ॥९१॥
**जात्यैव पक्त्रिम-सुदाडिम-बीज-मञ्जून्
शश्वत्-प्रियाधर-रसास्वादनेन शोणान् ।
कान्तौष्ठ-शोण-मणि-भेदन-काम-टङ्कान्
श्रीमन्-मुकुन्द-दशनान् सुभगाः स्मरन्ति ॥९२॥ **
(युग्मकम्, रूपकोत्प्रेक्षे)
जातैव पक्वदाडिम वीजान्मनोञ्जानिति पार्श्वदन्तान् । शश्वत् प्रियाया अधररसानामास्वादनेन तस्य रक्तिम्ना शोणान् रक्तान् । कान्ताया ओष्ठरूप रक्तवर्णम् अणिभेदने कामस्य टङ्कान् पाषाणदारणान् । टङ्कः पाषाणदारण इत्यमरः । दन्तानां पक्वदादिम वीजेन टङ्केन च तादात्म्यं रूपकं । समस्तवस्तु विषयं निःसङ्गं च । पक्वदाल्दिम वीजात् टङ्काच्च दन्तानामुत्कर्षोऽत्रोप्रेक्षा ॥९२॥
**जीयान् निज-प्रणयि-वृन्द-मनस्-तमो-घ्नी
श्री-राधिका प्रणय-सागरम् एधयन्ती ।
आत्म-प्रसाद-कणिकोक्षित-विश्व-लोका
गोपी-प्रियानन-विधोः स्मित-कौमुदी सा ॥९३॥ **
(रूपकम्)
गोपीप्रियस्य मुखच्न्द्रस्य सा स्मितज्योत्स्ना जीयात् । विधुर्ममाह निजेत्यादि । निजप्रणयिव्रिन्दस्य भक्त व्रिन्दस्य मनसां तमांसि हन्तीति तमोघ्नी । राधाप्रणय समुद्र वर्द्धिनी । स्वप्रसादलेशेन सिक्तं विश्वं यया सा । विधुज्योत्स्नास्मितयोस् तादात्म्यं रूपकं ॥९३॥
**पद्मादि-दिव्य-रमणी-कमनीय-गन्धं
गोपाङ्गना-नयन-भृङ्ग-निपीयमानम् ।
कृष्णस्य वेणु-निनादार्पित-माधुरीकम्
आस्याम्बुज-स्मित-मरन्दम् अहं स्मरामि ॥९४॥ **
(रूपकम्)
कृष्णस्याम्बूज स्मितमरन्दं मकरन्दमहं स्म्रामि । पद्मा लक्ष्मीस् तदादिरमणीनां कमनीयो गन्धो यस्य तं । गोपीनां नयनान्येव भ्रिङ्गास् तैर् नितरां पीयमानं । वेणुनिनदे वेणुध्वनावर्पिता माधुरी येन तं । समासार्थे कः । स्मितमरन्दयोस् तादात्म्यं पूर्ववत् रूपकं ॥९४॥
**नाना-रसाढ्य-कविता-मणि-जन्म-भूमिर्
अश्रान्त-षड्-विध-रसास्वादन-प्रवीणा ।
विश्वाय विश्व-रसदापि हरे रसज्ञा
राधाधरामृत-रसास्वादनाद् यथार्था ॥९५॥ **
(रूपक-काव्यलिङ्गे)
कृष्णस्याम्बूज स्मितमरन्दं मकरन्दमहं स्म्रामि । पद्मा लक्ष्मीस् तदादिरमणीनां कमनीयो गन्धो यस्य तं । गोपीनां नयनान्येव भ्रिङ्गास् तैर् नितरां पीयमानं । वेणुनिनदे वेणुध्वनावर्पिता माधुरी येन तं । समासार्थे कः । स्मितमरन्दयोस् तादात्म्यं पूर्ववत् रूपकं ॥९४॥
**अन्तः-प्रेम-घृत-स्मितोत्तम-मधु-नर्मैक्षवैः संयुता
शब्दर्थोभय-शक्ति-सूचित-रसादीन्दुल्लसत्-सौरभा ।
आभीरी-मदनार्क-ताप-शमनी विश्वैक-सन्तर्पनी
सा जीयाद् अमृताब्धि-दर्प-दमनी वाणी रसाला हरेः ॥९६॥ **
(रूपक-व्यतिरेकौ)
हरेर्वाणी सैव रसाला घ्रितमधुशर्करा कर्पूरादि मिलनेन भवेत् । तदेवाह् । अन्तःप्रेमैव घ्रितं यत्र । स्मितमोवोत्तमं मधु यत्र । नर्म्रूपैक्षवैः शर्कराभिः संयुता । शव्दशक्त्यार्थशक्त्या च सूचितो यो रसादिः स एव इन्दुः कर्पूरस् तेनोल्लसत् सौरभं यस्याः । आभीरीणां स्म्रार्कस्य तापनाशिनी । सा जीयात् । रसालावाण्योरभेदकथनं पूर्ववत् रूपकं । रसालाया वाण्या वैलक्षण्यं व्यतिरेकः ॥९६॥
**अर्वाङ्-मुखेन्द्र-मणि-सृष्ट-तिल-प्रसून-
कान्तिः स्मराशुग-विशेष इवेन्द्रनीलः ।
नीलाश्म-कॢप्त-शुक-चञ्चु-विनिन्दि-रोचिः
श्री-नासिकोच्च-शिखरा विलसत्य् अघारेः ॥९७॥ **
(व्यतिरेकोत्प्रेक्षे)
अघारेरुच्चशिखरा उच्चाग्रानासिका विलसति । अर्वाङ् मुखस्याधोमुखस्येन्द्र मणिक्रित तिलपुष्पस्य कान्तिरिव कान्तिः शोभा यस्याः सा ईन्द्रनीलमणि क्रितः स्मरस्याशुगो वाणस् तस्य विशेष इव । नीलमणि क्रितशुकचञ्चु विनिन्दितुं शीलं यस्य ताद्रिशं रोचिर् यस्याः सा । इन्द्रनीलमणि तिलपुष्पवाण शुकचञ्चुभ्यो विलक्षणा नासा व्यतिरेकः । इन्द्रनीलमणि क्रिततिल पुष्पादिभ्यो नासाया उत्कर्षोऽत्रोत्प्रेक्षा ॥९७॥
**लोलेन्दु-कान्त-मणि-गोलक-बद्ध-चञ्चद्-
इन्द्राश्म-गोलक-समान-कनीनिके ये ।
अन्तर्-भ्रमद्-भ्रमर-फुल्ल-सिताब्ज-कोष-
सौभाग्य-गर्व-भर-खण्डन-पण्डिते च ॥९८॥ **
(उपमा-व्यतिरेकौ)
हरेस् ते नेत्रे मम ह्रिदि सदा स्पुरतामिति चतुर्थ श्लोकेनान्वयः कीद्रिशे । ये नेत्रे लोले चञ्चले च ते इन्दुकान्तमणि गोलकेचेति । अत्र वद्दे ये चञ्चदिन्द्रमणि गोलके च तत्समाने कनीनिके ताराख्ये यत्र ते । अन्तर्मध्ये भ्रमन्तौ भ्रमरौ ययोस् तयोः पुल्लसिताव्जकोषयोः सौभाग्यजन्य गर्वभरोऽ अभिमानातिशयस् तस्य खण्ड्नाय पण्डिते च ताद्रिशेन्द्राश्म गोलके इव समानकनीनिके इत्युपमा । मणिनिर्मित नेत्रगोलकात् श्रीकृष्ण नेत्रगोलकयोर् वैलक्षण्यं व्यतिरेकः ॥९८॥
**प्रान्तेऽरुणिम्ना परितः सितिम्ना
मध्येऽसितिम्ना च युते विलोले ।
शोभा-श्रियः कुन्दक-गोलके ते
सुचित्रिते श्री-विधि-कारुणा किम् ॥९९॥ **
(स्वभावोक्त्य्-उत्प्रेक्षे)
प्रान्ते अरुणिम्ना अरुणवर्णेन । परितश्चतुर्दिक्षु सितिम्ना श्वेत्वर्णेन । मध्येऽसितिम्ना कृष्णवर्णेन च युते । विलोले अतिचञ्चले शोभाश्रियः कन्दुकगोलके ते प्रसिद्दे विधिक्ष्रुणा नैपुण्यपारं गतेन विधिशिल्पकारेण किं सुचित्रिते । कृष्णनेत्रयोर् अरुणादि वर्णचाञ्चल्यादेः स्वरूपवर्णनं स्वभावोक्तिः । चित्रितकन्दुकात् नेत्रयोरुत्कष उत्प्रेक्षा ॥९९॥
**लावण्य-सार-समुदाय-सुधातिवर्षैः
कारुण्य-सार-निचयामृत-निर्झरोघैः ।
कन्दर्प-भाव-विसरामृत-वन्यया च
सम्प्लाव्य सर्व-जगद् उल्लसती समन्तात् ॥१००॥ **
(रूपकोदात्ते)
लावण्यसार समुदायरूप सुधानाम् अतिवर्षैः कारुण्यसार निचयाम्रितस्य निर्झरोघैः । कन्दर्पभावस्य विसरं निर्गमनमेवाम्रितवन्या तया सर्वजगत् सम्प्लाव्य समन्तादुल्लसती अतिदीप्तियुते । लावण्यसुधयोः कारुण्यनिर्झरयोः । कन्दर्पभाव वन्ययोर् अभेदकथनात् समस्तवस्तु विषयं प्रासङ्गि च । सम्रिद्धिरुदात्तं वस्तुनः परा । अत्र नेत्ररूप वस्तुनः सर्वजगत् प्लावनरूपा परासम्रिद्धिर् उदात्तं ॥१००॥
**अत्यायते सुविपुले मसृणे सुशोणे
सुस्निग्ध-पीन-घन-चञ्चल-पक्ष्म-रम्ये ।
तारुण्य-सार-मद-घूर्णन-मन्थरे च
नेत्रे हरेर् मम हृदि स्फुरतां सदा ते ॥१०१॥ **
(चतुर्भिः रूपकम्, स्वभावोक्तिः)
अत्यायते अतिविस्त्रिते । सुविपुले सुष्टुविपुले । मस्रिणे चिक्वणे । सुशोणे सुष्ठुरक्तवणे । सुस्निग्धं पीनं स्थुलं घनं निविल्दं चञ्चलञ्च यत्पक्ष्म तै रम्ये । तारुण्य सारस्य मदेन घूर्नेन मन्थरे मत्ते ॥ नेत्रयोः स्वभाववर्णनं स्वभावोक्तिः ॥१०१॥
**साध्वी-स्व-धर्म-दृढ-वर्म-विभेद-
दक्ष-कामेषु-तीक्ष्ण-कठिना विलसन्त्य् अघारेः ।
स्वप्नेऽपि दुर्लभ-समस्त-दरिद्र-गोष्ठी
वाञ्छाभिपूरण-वदान्य-वरा कटाक्षाः ॥१०२॥ **
(रूपकम्)
अघारेः कटाक्षा विलसन्ति, कीद्रिशाः साध्वीनां स्वधर्मरूप द्रिढवर्मणः कवचस्य विभेदे दक्षा ये कामस्य इषवो वाणास् तेतोऽपि तीक्ष्णाः कठिनाश् च रुचिराश् च इत्यपि पाठः । स्वप्नेपि दुर्लभाश् च ते समस्त दरिद्रगोष्ठिनं वाञ्छास् तासामभिपूरणे वदान्येषु दात्रिजनेषु वराः श्रेष्ठाः ॥ काम्वाणैर् वदान्यजनैश् च सह कृष्ण कटाक्षाणां अभेदप्रतीतिरूपं तादात्म्यं पूर्ववत् रूपकं ॥१०२॥
**या विश्व-यौवत-विलोल-मनः-कुरङ्गान्
आविध्य घूर्णयति नर्तन-मार्गणैः स्वैः ।
सा भ्रूलता मुररिपोः कुटिलापि कीर्त्या
कन्दर्प-पुष्प-तूणतां तृणतां निनाय ॥१०३॥ **
(रूपक-व्यतिरेकौ)
मुररिपोर् या भ्रूलता विश्वस्थ यौवतानां विलोलमनः कुरङ्गान् अतिचञ्चल मनोम्रिगान् स्वैर् नर्त्तनरूपमार्गणैर् वाणैराविध्य घूर्णयति । सा कुटिलापि कीर्त्या कामस्य पुष्पतूणतां पुष्पचापं त्रिणतां त्रिणतुल्यतां । निनाय प्रापयामास । कृष्णभूकामधनुषोस् तादात्म्यं रूपकं । स्मरधनुषः कृष्णभुवो वैलक्षण्यं व्यातिरेकः ॥१०३॥
**किं कालियेन हरये स्व-सुता विसृष्टा
तेनार्पिता भ्रुवि ह्रियाप तद्-आत्मतां या ।
सापत्न्यतो व्रजवधू-हृदयानि सर्पी
दृष्ट्वैव सा वितनुतेऽत्र विमूर्च्छितानि ॥१०४॥ **
(उत्प्रेक्षा)
कालियसर्पेणहरये या स्वसुता विस्रिष्टा दत्ता तेन ह्रिणा भुवि अर्पिता ह्रिया तदात्मतां भ्रुस्वरूपतामाप । सा सर्पी सर्पकन्या सापत्न्यतः सपत्नीभावेन व्रजवधू ह्रिदयानि द्रिष्त्ववात्र व्रजभूमौ विमूर्च्छितानि वितनुते कुरुते किमिति शङ्के । सर्पकन्यातोऽपि भ्रुव उत्कर्षोत्प्रेष्का ॥१०४॥
**चिल्ली-लतालक-वरूथक-रम्य-पार्श्वं
कृष्णाष्टमी-शशि-निभं गिरि-धातु-चित्रम् ।
राधा-मनो-हरिण-बन्धन-काम-यन्त्र-
काश्मीर-चारु-तिलकं हरि-भालम् ईडे ॥१०५॥ **
(स्वभावोक्ति-रूपकानुमानानि)
हरेर्भालं ललाटमीडे स्तौमि । कीद्रिशं चिल्लीलता भ्रूलता अलकवरूथकोऽलक सङ्घस् ताभ्यां रम्ये पार्श्वे यस्य तत् । अर्द्धचन्द्रतुल्यं राधाया मनोरूप हरिणवन्धनाय कामस्य यन्त्रं च तत् । काश्मीरः केशराख्यस् तस्य चारुतिलकं च यत्र तत् । स्वभावोक्तिरूपके स्पुटार्थे । राधामनोहरिणस्य वन्धनं हेतुं क्रित्वा काश्मीर क्रितकामयन्त्र तिलकं साध्यमनुमानं ॥१०५॥
**अलक-मधुप-माला-श्रील-भालोपरिष्टाद्
विलसति ललिता या बल्लवी-वल्लभस्य ।
नयन-शफर-बन्धे जालताम् अङ्गनानाम्
अलभत किल सेयं काम-कैवर्तकस्य ॥१०६॥ **
(रूपकोत्प्रेक्षे)
वल्लवी वल्लभस्य क्रिणस्य या ललिता अलकरूपभ्रमरमाला भालोपरि विलसति सैवाङ्गनानां नयनशफरीणां वन्धविषये कामकैवर्तक जालताम् अलभत । अलकजालयोस् तादात्म्यं रूपकं । जालादलकानाम् उत्कर्षोत्रोत्प्र्क्षा ॥१०६॥
**श्लघ्यायतो भ्रमर-गञ्जन-चिक्कणाभः
सूक्ष्मः सुकुञ्चिततरोऽतिघनः समग्रः ।
कस्तूरिका-युग-सितोत्पल-गन्ध-हृद्यः
काम-ध्वजासित-सुचामर-चारु-शोभः ॥१०७॥ **
(स्वभावोक्ति-व्यतिरेकोपमाः)
स केशव केशपाशो नश्चित्ते स्पुरत्विति परश्लोकेनान्वयः । कीद्रिशः केशपाशः श्लाग्यः प्रशंसनीयः आयतो दीर्घश् च । भ्रमरस्य गञ्जना तिरस्वारिणी चिक्वणा भा कान्तिर् यस्य सः । सुकुञ्चिततरो अतिकुञ्चितः । अतिघनो अतिनिविडः । सममग्रभागो यस्य सः । कस्तुरिका लिप्त नीलकमल वद्गन्धेन ह्रिद्यः । कामध्वजस्य कृष्णवर्ण चमरादपि चारुः शोभा यस्य सः ॥ केशस्य स्वभाववर्णनं स्वभावोक्तिः । उपमानात् भ्ररकान्ति कस्तूरिका लिप्तनीलोत्पलादेर् विलक्षणो व्यतिरेकः । असितोउपलगन्ध इव ह्रिद्यः । चमर इव चारुशोभा उपमा ॥१०७॥
**चूडा-द्विफालक-वरार्धक-जूट-वेणी
जूटादि-काल-कृत-बन्ध-विशेष-रम्यः ।
यो हृत्-सुधा-रुचि-कुरङ्गति-राधिकायाश्
चित्ते स नः स्फुरतु केशव-केश-पाशः ॥१०८॥ **
(रूपकोपमा-स्वभावोक्त्यः)
क्वापि समये चूडाप्रसिद्धा । क्वापि द्विफालो द्विभागीक्रितोर्द चूडार्धः कवर इति । क्वापि कवरः । क्वापि कवरार्ध्जुटः । अर्द्धः कवरोऽर्धजूटः । क्वापि जूटवेणी अर्धोजूटः अर्धोवेणीति । क्वापि वेणी प्रसिद्धा केशस्य त्रिभागीक्रित्य सम्बन्धनं । क्वापि जूत इत्यादिना कालक्रित प्रकारान्तर वन्धन विशेषेण रम्यः । यः केशपाशः राधाया ह्रिदेव सुधारुक् चन्द्र तस्मिन् कुरङ्ग इव म्रिग इवाचरतीति कुरङ्गति । राधिकाह्रित् कुरङ्गयोस् तादात्म्यरूपकं । कुरङ्ग इवावरतीत्युपमा । केशस्य वन्धन विशेषस्य च स्वभाव वर्णनं स्वभावोक्तिः ॥१०८॥
**अपार-माधुर्य-सुधार्णवानि
नानाङ्ग-भूषाचय-भूषणानि ।
जगद्-दृग्-आसेचनकानि शौरेर्
वर्ण्यानि नाङ्गानि सहस्र-वक्त्रैः ॥१०९॥ **
(स्वभावोक्ति-रूपकाक्षेपाः)
सहस्रवक्त्रैर् अनन्तैरपि शौरेरङ्गानि न वर्ण्यानि कीद्रिशानि । अपार्माधुर्य सूधैवार्णव इवार्णवो येषु तानि । नानाङ्गभूषा समूहानां भूषणानि भूषणरूपाणि जगद् द्रिशामासेचनकानि दर्शनादत्रिप्तिकराणि । तदासेचनकं त्रिप्तेर् नास्त्यन्तो यस्य दर्शना दित्यमरः । माधुर्यसुधा कृष्णाङ्गयोस् तादात्म्यं रूपकं । समस्तवस्तु विषयं निःसङ्गं च । आक्षेपो वक्तुमिष्टस्य यो विशेष विवक्षया । निषेधो वक्षमाणत्बनोक्तेन च स च द्विधा । विशेषं वक्तुमिच्छया वक्तुमिष्टानां श्रीकृष्णाङ्गानां सहस्रवक्त्रैर् अव्र्ण्यानीति निषेधोक्तेनाक्षेपः ॥१०९॥
इतीरयित्वा विरते शुकेशे
स-सारिके गद्गद-रुद्ध-कण्ठे ।
तद्-वाक्-सुधाम्भोधि-निमग्न-चित्ता
क्षणं सभा सा स्तिमिता तदासीत् ॥११०॥
इत्यनेन प्रकारेण ईरयित्वा वर्णयित्वा ससारिके शुकेशे शुकश्रेष्ठे प्रेम्ना गद्गदरुद्धकण्ठे विरते वर्णनान्निव्रिते सति तत्तस्य शुकस्य वाक्सुधाम्बोनिधि मग्नचित्ता सा सभा तदा क्षणं स्तिमिता अद्भुतानन्द मग्नासीत् ॥११०॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः षोडश एषः साम्प्रतम् अगान् मध्याह्न-लीलाम् अनु ॥
॥१६॥
…
(१७)