१५

पञ्चदशः सर्गः

कङ्केल्लि-पल्लवक-तल्लज-कर्ण-पूरः
कङ्केल्लि-वल्लि-नवक-स्तवकाञ्चि-पाणिः ।
तत्रागतोऽथ स हरिः प्रविवेश तूर्णं
वृन्दा-दृशोदित-निकुञ्ज-सरोजम् उत्कः ॥१॥

कङ्केल्लिरशोकस्तस्य पल्लवकतल्लजः प्रशस्तः पल्लवः स एव कर्णपूरः कर्णभूषा यस्य सः । कङ्केल्लिवलिनवकस्तवकेन नवीनपुष्पगुच्छेनाञ्ची युक्तः पाणिर्यस्य सः । उत्को हरिस्तत्रागतः सन् वृन्दादृशा कथितं निकुञ्जसरोजं निकुञ्जोऽयं सरोजं सरोजनामा । किम्वा निकुञ्जेषु सरोजं सरोजनामा तं प्रविवेश ॥१॥

राधा-सुरधनीं प्राप्ते कृष्ण-मत्त-मतङ्गजे ।
उड्डीयापससाराली मराली-पालिर् अञ्जसा ॥२॥

राधासुरधुनीं गङ्गां कृष्णमत्तमतङ्गजे प्राप्ते सति सखीश्रेणीरूपमरालीपालिः हंसीश्रेणी उड्डीयापससार । कृष्णमागतं दृष्ट्वा राधानिकटस्थाः सख्यो गताः ॥२॥

पिबन्न् असौ लोचन-पुष्करेण
लावण्य-रूपामृतम् अम्बुजाक्ष्याः ।
व्यदालयत् कञ्चुक-शैबलं श्री-
करेण नीवीं नलिनीं च लोलः ॥३॥

लोलोऽसौ कृष्णः राधायां लावण्यरूपामृतं लोचनपुष्करेण नेत्रपद्मेन क्लेषात् शुण्डेन पिबन् करेण पाणिनाश्लेषात् कञ्चुकशैबलं नीवीनलिनीं च व्यदालयत् अमोचयत् ॥३॥

कान्तापि तन्द्रा-विनिमीलिताक्षी
स्वप्ने ददर्श प्रियम् अन्तिकाप्तम् ।
नीवी-कुचाकर्षण-यत्नवन्तं
तं वारयन्ती प्रललाप वाम्यात् ॥४॥

तन्द्रया निमीलिताक्षी कान्तापि स्वप्ने निकटप्राप्तं नीवीकुचाकर्षणे यत्नवस्तं-प्रियं कृष्णं वाम्यात् वारयन्ती सती प्रललाप ॥४॥

म-म-म-मा पि-पि-पि-स्पृश मां हरे
कि-कि-कि-किं वि-विधातुम् इहेच्छसि ।
श-शयितुं द-द-देहि मम क्षणं
क-कलिताक्षि-युग्मास्मि घु-घूर्णया ॥५॥

प्रलापमाह । मा स्पृश मां, हरे ! किं विधातुमिह इच्छसि ? शयितुं देहि मम क्षणं कलिताक्षियुगास्मि घूर्णया इति वक्तव्ये मममेत्याद्यक्षराणां पुनः पुनरुच्चारणं मदावेशेन प्रलपनं ॥५॥

स्मित-रुदित-विमिश्रं गद्गदास्पृष्ट-वर्णं
रमणम् अनु तदेति व्याहरन्ती कराभ्याम् ।
प्रिय-करम् अतिलोलं वारयन्ती प्रबुद्धा
प्रियम् अथ तम् अपश्यत् स्वं च तादृक् क्रियं सा ॥६॥

तदा निद्रोवस्थायां स्मितरुदितमुक्तगद्गदास्पष्टवर्णं यथा स्यात् तथा रमण-मनुलक्ष्मीकृत्येति व्याहरन्ती सती अतिलोलं प्रियस्य करं कराभ्यां वारयन्ती सा राधा अथानन्तरं प्रबुद्धापि तं प्रियं तादृकृक्रियं नीविकञ्चु कादिमोचनपरं स्वञ्च तादृकृक्रियं स्मितादिसहितप्रियकरं वारयन्तीमपश्यात् ॥६॥

मीलितोन्मीलिताक्षी सा स्मर-माध्वीक-मादिता ।
स्वप्न-जागरयोर् आसीत् सम-वाक्-चेष्टितादिका ॥७॥

स्वप्ने यथा स्मितादिसहितप्रियकरवारणक्रिया तथा जागरेऽप्यासीत् ॥७॥

विषमेषु-रणाद् वाम्य-ह्रीभ्यां तां विमुखीम् अपि ।
बलाद् आक्रम्य निर्जेतुम् आरब्धेऽत्युन्मदेऽच्युते ॥८॥
काञ्चीं वीक्ष्याक्रमान् मूकां भयाद् इव नभो-गतम् ।
मञ्जीर-युगलं तस्याः फुत्करोतीव निस्वनत् ॥९॥

(युग्मकम्)

विषमेषोः कन्दर्पस्य रणात् वाम्यह्रीभ्यां विमुखीमपि तां बलादाक्रम्य निर्जेतुमत्युन्मदे अच्युते आरब्धे सति । काञ्चीत् आक्रमान्मुकां वीक्ष्य तस्याः मञ्जीरयुगलं नभोगतं तयात् फुत्करोतीव निस्वनत् निस्वनतीत्यर्थः ॥८-९॥

ग्रीवा-ग्रहणतो व्यग्रः कण्ठः कुण्ठोऽपि सुभ्रुवः
विचित्रैः कूजितैश् चक्रे सकाकु प्रार्थनं हरौ ॥१०॥

सुभ्रुवो ग्रीवाग्रहणात् व्यग्रः कुण्ठोऽपि कण्ठः विचित्रैः कुजितैः शब्दैः सकाकु । सविनयं हरौ प्रार्थनं चक्रे ॥१० ॥

पृथुल-भुज-गदाभ्यां वाम्य-दुर्गं विभिद्या-
धर-नख-दशनोरः-पाणि-दोर्-आननोद्यैः ।
द्रुतम् अथ सनिजैस् तैः प्रेष्ठ-सामन्त-वीरैः
सुतनु-तनु-पुरीं तां लुण्ठयामास कृष्णः ॥११॥

अथ चतुरशिरोमणिर्ग्रन्थकर्ता राधाक्ष्णयोः शृङ्गाररसमतिरहस्यत्वात् साक्षान्नोत्व वीररसरूपकेण वर्णयति पृथुनेत्यादिभिः । स कृष्णः पृथुल-भुजरूपगदाभ्यां वाम्यरूपदुर्गं पुरीरक्षकभितिं विभिद्याधरादिभिर् निजैस्तैः प्रेष्ठैः सामस्तरूपैः प्रियैः सेनापतिरूपैर्वीरैः सुतनो राधायास्तनुऊपां तां पुरीं लुण्ठयामास । नायिकया कृतं नायककृताधरपानादिवारणं वाम्यं ॥११॥

निखात-गूढ-रत्नज्ञैर् उत्खातात् खनकैर् नखैः ।
तारुण्य-रत्नं जगृहे पाणिभ्यां स्तन-कुम्भतः ॥१२॥

केनाङ्गेन किं लुण्ठितं तत्राह—निखातं भूम्यादौ खननं कृत्वा स्तापितं गूढरत्वं जानन्ति ये तैः खनकैर्नखैर्स्तादृशखनकरूपनखरैरुत्खातात् स्तनकुम्भतः अघवैरिणः पाणिभ्यां कर्तृभ्यां तारुण्यरत्वं जगृहे ॥१२॥

अधराद् दशनैः खाताद् वदनेनाधरामृतम् ।
बाहुभ्यां पीडिताद् अङ्गात् स्पर्श-रत्नं तु वक्षसा ॥१३॥

दशनैः खातां अधरात् वदनेनाधरामृतं जगृहे । बाहुभ्यां पीडितात् अङ्गां वक्षसा स्पर्शरत्नं जगृहे ॥१३॥

कराभ्यां कुन्तल-ग्राहं तत्-तत्-स्थानेषु गूहितम् ।
चुम्बकाख्यं वरं रत्नम् अधरेनाघ-वैरिणः ॥१४।

(सन्दानितकम्)

कराभ्यां कुन्तलग्राहं कृत्वा तत्तत्स्थानेषु गण्डद्वललाटेषु पञ्चस्थानेषु गृहीतं चुम्बकाख्यं वरं रत्नं अधरेण जगृहे ॥१४॥

त्रपा-दंशे छिन्नेऽमृत-उखधने तैर् विमूषिते
चमूनाथं धार्ष्ट्यं नख-दशन-सामन्त-सहितम् ।
पुरः कृत्वा व्यक्ती-कृत-निज-महा-पौरुषम् असौ
महामारारम्भं व्यदधद् अथ कान्ताप्य् असहना ॥१५॥

अथ त्रपारूपदंशे कवचे छिन्ने सति । अमृतादिधने तैः कृष्णाधरादिभिर्विमुषिते बलान्नीते सति । असौ कान्ता श्रीराधापि असहना भूत्वा व्यक्तीकृतं निजं महापुरुषं येन तं नखदशनरूपसामन्तैः सहितं धार्ष्ट्यं चमूनाथं धार्ष्ट्यरूपसेनापतिमग्रे कृत्वा महामारारम्भं महाकन्दर्पर्युद्धं व्यदधत् दध धारणे धातुः, व्यदधादित्यर्थः ॥१५॥

आक्रम्य कान्तं निज-पौरुषं तत्
प्रदर्शयन्त्यां हरि-वल्लभायाम् ।
काञ्ची-ध्वनिर् दुन्दुभि-शब्द उच्चैः
शीत्कार असीद् वर-सिंह-नादः ॥१६॥

हरिवल्लभायां श्रीराधायां कान्तमाक्रम्य तन्निजपौरुषं दर्शयन्त्यां काञ्चीध्वनिरूपदुन्दुभिशब्दस्तथा उच्चैःश्रीत्काररूपवरसिंहनादश्चासीत् ॥१६॥

तं कान्तयाक्रान्तम् अवेक्ष्य चञ्चलं
कान्तावतंसोद्भट-नर्तक-द्वयम् ।
मत्वाथ केनाप्य् अजितं जितं मुदा
मुक्तावली लासिकया ननर्त तत् ॥१७॥

चञ्चलं तं कान्तं कान्तयाक्रान्तमवेक्ष्य केनाप्यजितं तं कृष्णं जितं मत्व मुदा कान्ता अवतंसः कर्णभूषा तद्रूपोद्भटनर्तकद्वयं तत्तस्या मुक्तावलीरूपलासिकया नर्तक्या सह ननर्त । नर्तकी लासिके समे इत्यमरः ॥१७॥

हृद्-अधर-गत-रत्नं यद् यद् आहृत्य तस्या
निभृतम् अघ-भिदा स्वे गोपितं रत्न-वृन्दे ।
रद-नख-खनकैस् तत् सर्वम् अस्या गृहीतं
हृतम् इह परवित्तं स्वार्थ-नाशीति सत्यम् ॥१८॥

अघभिदा तस्य हृदधरगतं रत्नं यदयदाहृत्य स्वे रत्नवृन्दे गोपितं तत् सर्वं तस्य रदनखखनकैर्गृहीतं । इह जगति यत् परवित्तं हृतं भवति । तं स्वार्थं नाशयितुं शीलं यस्य तथाभूतं भवतीति सत्यं ॥१८॥

मुख-कमल-रथ-स्थौ सुभ्रुवौ नेत्र-वीरौ
वदन-नलिन-कोषात् श्री-हरेर् भा-मरन्दम् ।
नयन-मधुकराभ्यां रक्षिताल् लुण्ठतो यौ
द्रुतम् अपसृतवन्तौ तौ तयोः सम्मुख-स्थे ॥१९॥

इथं धार्ष्ट्यं प्रकाशयन्त्या अपि श्रीराधाया लज्जासौकुमार्यादिसहजगुणाना मुदयं दर्शयति, श्रीहरेर् नयनरूपमधुकराभ्यां रक्षकपुरुषाभ्यां रक्षितात् वदनरूपकमलमेव कोषो भाण्डारस्तस्मात् भा शोभा तद्रूपो मरन्दः पुष्परस एव रत्नादि धनं तत् लुण्ठो यौ सुभ्रुवौ मुखकमलरथस्थौ नेत्रवीरौ तौ नेत्रवीरौ तयोर्हरेर्नयनमधुकरयोः सम्मुखत्वे सति द्रुतमपसृतवस्तौ पलायितौ बभूवतुः । इत्यत्र वीरयोर् मधुलुण्ठने सम्भवाभावात् । मधुनो रत्नादिधनत्वं पद्मस्य धनाधारकत्वासम्भवात् कोषत्वं भ्रमरयोः कोषरक्षकत्वासम्भवात् रक्षकपुरुषत्वं ध्वनितं, श्रीकृष्णमुखारविन्ददर्शनासक्ते श्रीराधानेत्रे श्रीकृष्णेनालोकिते सती लज्जया मुद्रिते बभूवतुरित्यर्थः ॥१९॥

श्री-कृष्ण-नेत्र-द्वय-वीर-वर्य-
प्रदर्शनाद् एव भयाद् इवास्याः ।
अग्रेसरे नेत्र-भटेऽपयाते
सर्वाङ्ग-सैन्येऽपि बभूव भङ्गः ॥२०॥

श्रीकृष्णस्य नेत्ररूपवीरस्य दर्शनादेवास्याः अग्रेसरे नेत्रभटे भयादिव अपयाते पलायिते सति सर्वाङ्गसैन्येऽपि भङ्गो बभूव ॥२०॥

तदास्याः श्री-भालं श्रम-सलिल-लोलालक-वृतं
नितम्बो निष्पन्दः स्तन-युगलम् उच्छ्वास-चपलम् ।
भुज-द्वन्द्वं मन्दं नयन-युगम् आमीलितम् अभूत्
पराभूतेतीयं समिति दयितानन्दम् अतनोत् ॥२१॥

भङ्गप्रकारमाह—श्रीभालं ललाटं भ्रमजलेन लोलालकेन चावृतं ।

निष्पन्दश्चेष्टारहितः । आ ईषन्मीलितं नयनयुगमभूत् । इत्यनेन रूपेण समिति युद्धे पराभूता इयं राधा दयितस्यानन्दमतनोत् ॥२१॥

स्मर-नृपति-निदिष्टा कृष्णम् आक्रम्य राधा
निजम् अतिशय-यत्नात् पौरुषं दर्शयन्ती ।
स्वयम् अभवद् अकस्माद् यच् छ्रमाद् विश्लथाङ्गी
तद् इह न हि विचित्रं याबला साबलैव ॥२२॥

आदौ स्मरनुपतिनिदिष्टा राधा कृष्णमाक्रम्यातिशययत्नात् निजं पौरुषं स्वयं दर्शयन्ती सती सा अकश्मात् यच्छ्रमात् विश्लथाङ्गी अभवत् तद्विचित्रं नहि । चित्र भावमाह । या नाम्ना अबला सा दुर्बलैव ॥२२॥

श्रम-जल-कण-दिग्ध-निष्पन्द-मूर्तिर्
गलित-वसन-भूषाकल्प-तल्प-प्रजल्पा ।
प्रिय-हृदि पतिताङ्गी राधिका मीलिताक्षी
स्थिर-तडिद् इव नय्वाम्भोधरे सा रराज ॥२३॥

सा राधा नव्यमेघे स्थिरविद्यदिव रराज । कीदृशी ? श्रमजलकणैर्दिग्धा युक्ता स्निग्धा निष्पन्दाच मूर्ति यस्याः सा । गलितं वसनादि यस्यः सा । कृष्णहृदि न्यस्ताङ्गी ॥२३॥

अस्याः श्वासोच्चलत्-तुन्दं मुहुः कृष्णोदरं स्पृशत् ।
किम् आनन्द-जडं तस्याः सेवायै चेतयत्य् अमुम् ॥२४॥

अस्त्या राधायाः सेवायै सेवार्थममुमानन्दजडं श्रीकृष्णं चेतयति । किमिति तर्कयामि । लोके रीतिरियं कस्यापि चेतनार्थमुद्यतो जनो हस्तेन तस्योदरं चालयति ॥२४॥

दीव्यत्-तदात्वोदित-माधुरीणां
स्पर्शेक्षणेच्छा दयिताङ्गकानाम् ।
समागतालीव हरेर् मृगाक्ष्या
ग्लानिस् तदैका तनु-सेविकासीत् ॥२५॥

तदा हरेः श्रीकृष्णस्य दीव्यन्ती तदात्वोदिता तत्कालोत्पन्ना माधुरी येषां तेषां दयितायाः श्रीराधाया अङ्गकानामन्गानां स्पर्शे ईक्षणे च या इच्छा सा । आलीव समागता आसीत् । मृगाक्ष्याः श्रीराधायाः एका ग्लानिस्तनुसेविका आसीत् ॥२५॥

ताभ्यां तु सन्धौ विहिते तदा तयोः
प्रेम्णा प्रियायाः स्वकराम्बुजन्मना ।
उत्थाय चक्रे श्रम-तोय-मार्जनं
कैश्यालकाल्य्-अम्बर-संवृतिं च सः ॥२६॥

तदा ताभ्याः श्रीकृष्णकर्तृक श्रीराधाङ्गस्पर्शेक्षणेच्छा श्रीराधायाः ग्लानिरूपतनुसेविकाभ्यां तयोः राधाकृष्णयोः सन्धौ विहिते अर्थात् स्मरक्रीडान्ते श्रीकृष्णस्य श्रीराधाङ्गस्पर्शदर्शनाभिलाषे जाते सति श्रीराधायाश्च तत् कारयितुं योग्यायाः ग्लानौ जातायां सत्याञ्च स कृष्णः उत्थाय स्वकरकमलेन प्रेम्ना प्रियायाः श्रमजलमार्जनं चक्रे केशश्रेणी अलकाश्रेण्योरम्बरेण वस्त्रेण मार्जनं संवृतिं चक्रे ॥२६॥

सम्प्रार्थितो वपुर् अलङ्कृतये तया तां
नैच्छत् स तां विहसितुं पुरतः सखीनाम् ।
आम्रेडितः पुनर् इमां विदधन् निषिद्धस्
तत्-स्पर्श-सम्मदज-विभ्रमयानयोचे ॥२७॥

तया राधया स्ववपुषोऽलङ्कृतये भूषार्थं प्रार्थितः स कृष्णस्तामलङ्कृतिं नैच्छत् अत्र कारणमाह—सखानामग्रे तां राधां विहसितुं । पुनस्तया स कृष्ण आम्रेडितो द्विस्त्रिरुक्तः सन्निमां वपुरलङ्कृतिं विदधत् सन् । तत्त्तस्य कृष्णस्य स्पर्शसन्मदेन जातो विभ्रमाख्यो भावो यस्याः तयाऽनया राधया निषिद्धः सन् उचे ॥२७॥

मया किं भूषायै त्वम् असि रमण प्रार्थित इह
त्यज व्यर्थां श्रान्तिं विरम नहि भूषा मम मुदे ।
न चाहं शक्तालङ्करण-चय-भारस्य वहने
दुनोत्य् उद्घूर्णा मां क्षणम् अवसरं देहि शयितुम् ॥२८॥

कथं निषिद्धस्तदाह—हे रमण मया भूषायै किं त्वं प्रार्थितोऽपि नहीति

इह भूषाकरणे व्यर्थां श्रान्तिं त्यज विरम निवर्तम्ब । मम मुदे आनन्दाय भूषा न हि भवति । किमर्थं ? तत्राह—अलङ्करणसमूहभारस्य वहनेऽहं न शक्ता । उद्घूर्णा च मां दुनोति । क्षणं शयितुं अवसरं देहि ॥२८॥

इति गदित-मरन्दं प्रेयसी-वक्त्र-पद्मात्
स्मित-रुदित-सुरम्यान् मीलिताक्षात् सतृष्णः ।
हरिर् अथ स निपीयास्पष्ट-वर्णात् तदासीद्
उदित-मदन-मत्तः सस्मितो विस्मितश् च ॥२९॥

(युग्मकम्)

प्रेयस्या वक्त्रपद्मात् कीदृशात् स्मितसहितरुदितेन सुरम्यात् । अस्पष्टवर्णमक्षरं यत्र तस्मात् । गदितमरन्दं वचनरूपं मधु स सतृष्णो हरिर्निपीय उदितेन मदनेन मत्तः सन्मितो विस्मितश्चासीत् ॥२९॥

तावत् तयोः सेवन-मात्र-सौख्याः
प्रतीक्षमाणाः समयं वहिष्ठाः ।
सेवोपचारान्वित-पाणि-कञ्जाः
कुञ्जालयं ता विविशुः प्रियाल्यः ॥३०॥

तयोः राधाकृष्णयोः सेवनमात्रमेव सौख्यं यासां ताः । सेवासमयं

प्रतीक्षमाणाः प्रियाल्यः । सेवोपयोगिताम्बूलादि पाणिपद्मे यासां ताः । कुञ्जालयं विविशुः ॥३०॥

ताम्बूल-शीतल-जलामल-गन्ध-माल्यैः
पादाम्बुजादि-मृदु-मर्दन-बीजनाद्यैः ।
ताभिर् निषेवित-पदौ प्रणयोन्मदाभिर्
आमोदम् आपतुर् अलं विगत-श्रमौ ॥३१॥

ताभिः प्रियाभिस्ताम्बूलादिभिः पादसम्वाहनबीजनाद्यश्च निषेवितपादौ तौ

राधाकृष्णौ आमोदं हर्षं आपतुः ॥३१॥

साकूत-स-स्मित-दृशा प्रियम् ईरयन्ती
कान्ताब्रवीत् प्रिय न शर्म लभे विना याः ।
कुञ्जेषु कुञ्ज-वदना मद-विह्वलाङ्ग्यः
सख्यः स्वपन्ति रमणानय ताः प्रबोध्य ॥३२॥

कान्ता राधा आकूतेन स्वाभिप्रायेण सन्मितेन च सह वर्तमानया दृशा प्रियं ईरयन्ती अब्रवीत्, याः सखीर्विना शर्म सुखं न लभे, याः सख्यः कुञ्जेषु स्वपन्ति हे रमण ! ताः प्रबोध्य आनय ॥३२॥

तद् अनिच्छन् नर्मणासौ प्रियया मुहुर् अर्थितः ।
निर्ययौ ता रमयितुं मत्तेभ इव पद्मिनीः ॥३३॥

असौ कृष्णः, तत् श्रीराधां हित्वा तासु रमणमनिच्छन्नपि तया प्रियया मुहुः पुनः पुनर्नर्मणा अर्थितः सन् मत्तेभः पद्मिनीरिव ताः सखीः रमयितुं निर्ययौ । मत्तेभ इव पद्मिनीरित्युक्ते तासां रतिजनकं श्रीकृष्णस्य सामर्थ्यं दर्शितं । प्रायो वीररताः स्त्रिय इति शास्त्रोक्तिः । वीरः समर्थः ॥३३॥

कृष्णश् चक्रे मनसि ललितां यामि किं वा विशाखाम्
आदौ चित्राम् इति स निखिला भावयंस् ताः प्रियालीः ।
गच्छन् हर्षाद् युगपद् अखिले प्राविशत् कुञ्ज-वृन्दे
आत्मानं ते निज-विरचिते जीव-देहे यथैकः ॥३४॥

कृष्णो मनसि चक्रे, किमित्याह आदौ किं ललितां यामि किम्वा विशाखां चित्रां वादौ यामि इत्यादि प्रकारेण स ता निखिलाः प्रियालीर्भावयन् गच्छन् सन् हर्षादखिले कुञ्जवृन्दे युगपदेकदा प्राविशत् । लीलायां इच्छाशक्तेः प्राधान्यात्, यदैव कृष्णमनसि सर्वत्र गन्तुमिच्छाभुत्तदैव स कृष्णस्तावत् प्रकाशोऽभुदिति सिद्धान्तः श्रीभागवतादौ दृष्टः । यथा, कत्वा तावन्तमात्मानं यावतीर्गोपयोषित इत्यादि । अत्र दृष्टान्तमाह—यथा अनस्ते जीवदेहे एक आत्मा परमात्मा ॥३४॥

तासां कुञ्जेषु सर्वासां तेन लीला मनोहरा ।
स्वप्न-जागरयोर् आसीद् यूथेशाया यथा पुरा ॥३५॥

तेन कृष्णेन सह तासां सर्वासां कुञ्जेषु मनोहरा लीलासीत् । पुरा पूर्वे

यथा युथेशाया राधायाः स्वप्नदशायां कृष्णागमनादिकं तथैव जाग्रद्दशायां श्रीकृष्णागमनविलासादिपरिपाटा अभूत् तथैव अत्रापि अभूदित्यर्थः ॥३५॥

आली-मल्ली-मतल्लीस् ता दोर्-युद्धे तत्-कृते मिथः ।
जिगाय युगपत् सर्वाः श्री-कृष्णो मल्ल-तल्लजः ॥३६॥

पूर्ववत् तां लीलां वीररसरूपकेणाह, श्रीकृष्णएव मल्लतल्लजः, आल्यएव ।

मल्लीमतल्ल्यः प्रशस्ता मल्ल्यः स्त्रीमल्लरूपाः श्लेषेण प्रशस्तमल्लिकापुष्पतुल्याः ताः सर्वास्तत्कृते तदर्थं तासां सुखार्थं । मिथः परस्परं । दोर्युद्धे बाहुयुद्धे । किम्वा ताभिः कृष्णेन सह कृते दोर्युद्धे कृष्णएव मल्लतल्लजः प्रशस्तमल्लः स युगपदेकदा जिगाय । मतल्लिकामचर्चिका प्रकाण्डमुद्घतल्लजौ प्रशस्तवाचकान्यमूनि इत्यमरः ॥३६॥

तावच् छ्री-राधिका कुञ्जे सेविताली-जनैः क्षणम् ।
विश्रम्य तैः समायाता स्व-सरस्-तीर्थ-कुट्टिमम् ॥३७॥

तावत्समये श्रीराधिका आलीजनैः सेविता सती क्षणं कुञ्जे विश्रम्य तैरालीजनैः सह स्वकुण्डस्य तीरस्थवेदिकां समायाता ॥३७॥

स्वाधीन-कान्त-कर-कारित-भूरि-भूषा-
सञ्छादिताङ्ग-रति-लक्षण-सञ्चयापि ।
प्रौढ-स्मराहव-विमर्दन-सूचकाङ्गी
भूयोऽभिमार्जित-समाप्त-मख-स्थलीव ॥३८॥

तदा तत्र श्रीराधां सा आलीततिरालिश्रेणी इतस्ततोऽभ्युपेत्य मिलिता इति परश्लोकेनान्वयः । तदा तत्र श्रीराधामिति प्रकरणलब्धं । आलीततिः कीदृशी ? स्वाधीनकान्तस्य करेण कारिता भूरिभूषा यया सा । सञ्छादितः स्वाङ्गे यो रतिलक्षणानां सञ्चयः समूहः स यया सा । स्वाधीनकान्तकरकारितभूरिभूषाया सञ्छादितो रतिलक्षणसञ्चयो यया सा इत्येकपदम्बा । एवम्भूतापि प्रौडे कन्दर्पाहवे कन्दर्पयुद्धे यद्विमर्दनं स्वकुचादिविमर्दनं तस्य सूचकानि अङ्गानि यस्याः सा । केव ? दृष्टान्तमाह—समाप्तं मखं यत्र सा स्थली भूयोभिमार्जितापि तत्र कृतं यज्ञं यथा सूचयति तथेत्यर्थः ॥३८॥

**स्वालीं प्रति प्रणय-रोष-विभङ्गुर-भ्रूर्
लज्जा-विनम्र-वदना स्खलिताङ्घ्रि-पाता ।
आयास-विश्लथ-भुजार्ध-निमीलिताक्षी
सालि-ततिस् तत इतो मिलिताभ्युपेत्य ॥३९॥ **

(युग्मकम्)

पुनः कीदृशी । स्वस्याः सखीं राधां प्रति प्रणयगर्भरोषेण विभङ्गुरे भ्रुवौ यस्याः सा । लज्जया विनम्रं यस्याः सा । स्खलितोऽङ्ग्रीनां पातः पादपतनं यस्याः सा । आयासेन विश्लथा भूजा यस्याः सा । अर्धं निमीलितान्यक्षीणि यस्याः सा ॥३९॥

कृष्णोऽपि निर्गत्य निकुञ्ज-वृन्दान्
मिलन्न् अथैको मधुमङ्गलाद्यैः ।
स्मेराननां वीक्ष्य हसन् स कान्तां
तद्-अन्तिकं तैः सहितः समायात् ॥४०॥

कृष्णः कुञ्जवृन्दान्निर्गत्य एकः सन् मधुमङ्गलाद्यैः सह कान्तां स्मेरां वीक्ष्य तन्या अस्तिकं तैर् मधुमङ्गलादिभिः सह हसन् समायात् ॥४०॥

नर्म-द्यूतं दयित-सभिकं धूर्तया कुन्दवल्ल्या
तासां लज्जा-वितरण-पणं भोग-चिह्नावितानैः ।
वृन्दादीनां सदसि बलवद् वल्लवीनां तद् आसीद्
यस्मिन् सर्वाः सपदि विजिता ह्रेपितास् तास् तयासन् ॥४१॥

तदा वृन्दादीनां सदसि सभायां धूर्तया कुन्दवल्ल्या सह तासां वल्लवीनां गोपीनां नर्मैव द्यूतक्रीडा तत् आसीत् । तन्नर्मद्यूतं कीदृशं । दयितः श्रीकृष्णः सभिकः सभापतिर् यत्र तत् । लज्जाया वितरणमेव पणं दानं यत्र तत् । पुनः कीदृशं । यस्मिन् द्यूते धूर्तया कुन्दवल्ल्या भोगचिह्नावितानैर्भोगचिह्नानां दृष्टानां कथनादिना आ सम्यक् विस्तारैः करणैः । भोगचिह्नाभिधानैर् इति । पाठे भोगचिह्नानामभिधानैः कथनैः करणैः सर्वा गोप्यः सपदि तत्क्षणात् विजिताः ह्रेपिता लज्जिताश्चासन् ॥४१॥

मधु-रिपु-रति-लीलागाध-पीयूष-सिन्धुः
सतत-दुरवगाहः प्रेम-तीर्थावगाहैः ।
प्रणयि-विरल-लोकैः स्वाद्यतेऽसौ यद् अन्यैः
कविभिर् अपि तटस्थैः स्पृश्यते भाग्यम् एतत् ॥४२॥

अथ लीलायाः परमोत्कर्षवर्णनावेशेन तत्स्पर्शादात्मनस्तु भाग्यं सूचयति असौ मधुरिपुरतिलीलैव अगाधोऽतिगभीरः पीयूषसिन्धुः । कीदृशः ? केशशेषाद्यगम्या इत्युक्तेः कविभिर्भ्रह्मारुद्रादिभिरपि अन्यैश्च महद्भिः सततं सदैव दुरवगाहः अवगाहितुं प्रवेष्टुं दुःसाध्यः अगम्य इत्यर्थः । पुनः किम्भूतः ? आस्तामेषामगम्यता प्रणयिविरललोकैः प्रणयिषु दास्यसख्यवात्सल्यप्रेमवत्सुमध्ये विरललोकैर्मधुरप्रेमवज्जनैः । कीदृशैः ? प्रेमतीर्थावगाहैर्मधुरप्रेमरूपतीर्थेऽवगाहो मज्जनं येषां तथाभूस्तैरेव स्वाद्यते आस्वाद्यते । स्वद आस्वादने धातुः । एवम्भुतोऽपि तटस्थैः । अपटुरति तटस्थेति पूर्ववोक्तेरस्माभिर्यत् स्पृश्यते तत् अयोग्यानामपि अस्माकं भाग्यं स्पृश्यते । इत्यावेशेनात्मानं धन्यं मत्वा तटस्थैरिति स्वाभाविकदैतन्योक्त्या अपि बहुवचनं मादृशैः तटस्थैरन्यैर्वा ॥४२॥

अथ विविध-विलास-श्रान्तितः क्लान्ति-पूर्णा
अवसर-निज-सेवाभिज्ञयोपेत्य तूर्णम् ।
जलम् अनु जल-लीला-वाञ्छयाल्या तदान्तर्
हरि-हरि-दयिताल्यश् चाल्यमाना बभूवुः ॥४३॥

अथवसरसमये या निजसेवा तत्राभिज्ञा जनलीलायां वाञ्छा यस्यास्तयाल्या किम्वा तादृश्या जललीलावाञ्छारूपाल्याः । तदा तस्मिन् काले अन्तस्तन्मध्ये । सखीपक्षे सभामध्ये । इच्छापक्षे अन्तःकरणे तूर्णमुपेत्य विविधविलासेन श्रान्तितः क्लान्तिभिः पूर्णाः । हरिः कृष्णः हरिदयिता राधा आल्यो ललितादयस्ते सर्वे जलमनुलक्ष्य नीयमाना बभूवुः जलक्रीडायै तया प्रेरिताः सन्तो जलमध्यं जग्मुरित्यर्थः ॥४३॥

ग्रीव-संयमित-केलि-विमुक्त-केशाः
संवस्त्रिताभिनव-शुक्ल-सुचीन-चेलाः ।
सेवा-परालि-निचयैर् अवतारिताति-
भाराङ्ग-भूषण-चयाः सुदृशो बभुस् ताः ॥४४॥

आदौ जलक्रीडोपयोगिवेषभूषाञ्चिता गोप्यः बभुरित्याह—ग्रीवाया अन्ते संयमिता बद्धाः केलिभिर्विमुक्ताः केशा यासां ताः । सम्वस्त्रितानि । परिहितान्यभिनवानि शुक्लानि सूचीनानि सुसूक्ष्माणि चेलानि वस्त्राणि याभिस्ताः सेवापरालिसयूहैरवतारिता अतिभारोऽङ्गभूषणसमूहो यासां ताः । एवम्भूताः सुदृशो गोप्यो बभुः ॥४४॥

उद्यत्-सुधांशु-शत-पुष्कर-निन्दि-कान्तिः
प्रोद्यद्-विभाकर-विकस्वर-पुष्कराक्षः ।
कन्दर्प-सौमनस-पुष्कर-जित्-कटाक्षः
श्रान्ति-प्रशान्ति-कर-पुष्कर-केलि-लोलः ॥४५॥
संवेष्टितः सकल-पुष्करिणीभिर् आभिः
कृष्णः प्रिया-दयित-पुष्करिणीं जगाहे ।
श्रान्तः श्रमाकुलित-पुष्करिणी-घटाभिः
स्वैरी वनेचर-मदोत्कट-पुष्करीव ॥४६॥

(युग्मकम्)

श्रान्तो विलासश्रमयुक्तः स्वैरी स्वेच्छाचारी वनेचरमदमत्तपुष्करी आरण्यमत्तहस्ती श्रमाकुलितानां पुष्करिणीनां हस्तिनीनां घटाभिः सह यथा सरसीमवगाहते तथा स कृष्णः करे पुष्करं पद्मं यासां ताभिर्गोपीभिः सम्वेष्टितः प्रिया राधा तस्या दयितां प्रियां पुष्करिणीं कुण्डं जगाहे इति परश्लोकेनान्वयः । कीदृशं कृष्णः ? उद्यत्सुधांशूनां चन्द्राणां शतं यत्र तत्पुष्करमाकाशं निन्दितुं शीलं यस्यास्तादृशी कान्तिः शोभा यस्य सः । प्रोद्यता विभाकरेण सूर्येण हेतुना विकम्बरे विकशिते पुष्करे पद्मे इवाक्षिणी नेत्रे यस्य सः । कन्दर्पस्य सौमनसपुष्करं कुसुमथड्गफलकं जयतीति तज्जित् कटाक्षो यस्य सः । श्रास्तेः श्रमस्य प्रशान्तिकरे नाशकरे पुष्करकेलौ जलकेलौ लोलश्चलः । सतृष्णो वा । लोलश्चलसतृष्णयोर् इति ।

पुष्करं करिहस्ताग्रे वाद्यभाओण्डमुखे जले । वोम्नि खड्गफले पद्मे तीर्थौषधि विशेषयोर् । इति चामरः ॥४५-४६॥

नेत्रोत्पलास्य-कमलालक-लोल-भृङ्गा
वक्षोज-कोक-युगला तनु-दोर्-मृणाला ।
कृष्णाक्षि-मत्त-गजयोर् जल-केलि-तुष्ट्यै
गोपी-ततिः प्रथमतः सरसी तदासीत् ॥४७॥

कृष्णस्य नेत्ररूपमत्तगजयोर्जलकेलितुष्ट्ये प्रथमत आदौ गोपीततिः सरसी आसीत् । सरसीसाम्यमाह—नेत्राण्युत्पलानि यस्याः सा । आस्यानि कमलानि यस्याः सा । अलका लोकभृङ्गा यस्यां सा । वक्षोजयुगलानि कोकयुगलानि यत्र सा । तनवः शरीराणि हस्ताश्च मृणालानि यत्र सा ॥४७॥

भीरु-स्वभावाद् अजलावगाहाः
काश्चित् तटस्थाः सलिलैर् निषिच्य ।
बलाद् गृहीत्वा वसनेऽपयान्तीर्
निन्युर् हसन्त्यः सलिलान्तर् अन्याः ॥४८॥

भीरुस्वभावात् जलावगाहरहिता अतएव तटस्थाः काश्चिद्गापीरन्याः सलिलस्था गोप्यः सलिलैर्निषिच्य अतएवापयान्तीः पलायन्तीन्ता हसस्त्यः सत्यः बलात् वसने गृहीत्वा सलिलमध्ये निन्युः ॥४८॥

काश्चित् स्व-जानुद्वयसे स्थिता जले
भीत्योरु-दघ्ने प्रिय-सेकतो पराः ।
स्व-नाभि-मात्रे सलिले स्थितो हरिः
सर्वा न्यसिञ्चद् विहसन् बलाज् जलैः ॥४९॥

हरिः स्वस्य नाभिपरिमिते जले स्थितः सन् प्रियस्य तस्य हरेः सेकतोभीत्या स्वस्य जानुपरिमिते जले स्थिताः सर्वा गोपीर् विहसन् जलैर् बलात् असिञ्चत् ॥४९॥

क्लिन्नाति-सूक्ष्म-वसनान्तर् उदीर्ण-तत्-तद्-
अङ्गालि-सौष्ठव-सरित्-सुषमाप्सु तासाम् ।
मग्नं हरेर् लसति नेत्र-मदेभ-युग्मं
तस्यापि तासु दयितादृग्-इभी-घटापि ॥५०॥

तासां क्लिन्नातिसूक्ष्मवस्त्रमध्ये उदीर्णानां व्यक्तानां तत्तदङ्गालीनां सौष्ठवरूपसरितां शोभारूपाप्सु हरेर्नेत्ररूपमत्तहस्तियुग्मं मग्नं सल्लसति । तस्य कृष्णस्यापि तासु क्लिन्नातिसूक्ष्मवसनान्तरुदीर्णाङ्गसौष्ठवसरित्शोभाप्सु दयितानां गोपीनां दृग् रूपा इभी हस्तिनी तासां घटापि मग्ना सती लसति ॥५०॥

उद्वाम्याद् अनवतितीर्षवोऽपि सर्वाः
शीतार्ता इव रुदित-स्मितार्द्र-वक्त्राः ।
आकृष्टा युगपद् अनेन नाभि-दघ्ने
तोयेऽमूर् अमुम् अभितः स्थिता विरेजुः ॥५१॥

उत्कृष्टवाम्यभावात् अनवतितीर्षवो जलमध्ये गन्तुमिच्छारहिताः सर्वाः शीतार्त इव रुदितेन सन्मितार्द्रमुख्यो अमूर्गोप्यः नाभिपरिमिते जले अमुना कृष्णेन युगपदाकृष्टा अमुं कृष्णं मध्ये कृत्वा अभितः स्थितास्ता विरेजुः ॥५१॥

राजीव-रक्तोत्पल-पुण्डरीक-
कह्लार-नीलोत्पल-कैरवाणाम् ।
स्रवन्-मरन्दैश् च पतत्-परागैः
सौरभ्य-भाज्य्-अम्भसि ता विजह्रुः ॥५२॥

राजीवादीनां स्रवद्भिर्मरन्दैः पतद्भिः परागैः पुष्पधूलिभिः सौरभयुते अम्भसि ताः बिजह्रुः ॥५२॥

नान्दी-वृन्दा-धनिष्ठाद्याः स्थितास् तीर्थैक-कुट्टिमे ।
जय-शब्दैः पुष्प-वर्षै राधादीनां जयेप्सवः ॥५३॥
बटुः सुबल-कौन्दीभ्यां स्थितस् तीर्थान्य-कुट्टिमे ।
कृष्णस्य विजयं वाञ्छन् पुष्प-वर्षादिकं व्यधात् ॥५४॥

नान्द्यादयो राधादीनां । स्थवलकौन्दीभ्यां वटुः कृष्णस्य बिजयं वाञ्छन् पुष्पवर्षादिकं व्यधात् ॥५३-५४॥

व्यात्युक्षी-प्रधनं तदा समभवत् ताभिः समं श्री-हरेर्
यत्रासां मृदु-सेचनैः स विदधे प्रोत्साह-वृद्धिं क्षणम् ।
सिञ्चन्त्यः परितो निरन्तर-जलासारैर् अमुं ता व्यधुर्
भीत्याधो-वदनं कराङ्गुलि-दलै रुद्धाक्षि-नासा-श्रुतिम् ॥५५॥

ताभिः समं हरेः व्यात्यूक्षीप्रधनं परस्परजलयुद्धं तदा समभवत् । यत्र युद्धे स कृष्णः आसां मृदुसेचनैः स्वस्य प्रोत्साहवृद्धिं क्षणं । स्वस्य मृदुसेचनैरासां प्रोत्साहवृद्धिं च विदधे । ततः परं ताः गोप्यः अमुं कृष्णं । निरस्तरजलधारासम्पातैः परितः सिञ्चन्त्यः सत्यः अमुना निरन्तरजलासारैर्निषिक्ताः सत्ये भीत्या कराङ्गुलिदलैः रुद्धाक्षिनासाश्रुतिमधोवदनं च व्यधुः । अक्षिनासाश्रुतीनां रोधं वदनानां अधस्त्वं च धर्मं व्यधुरित्यर्थः ॥५५॥

उरीचकारेव सहस्र-नेत्रतां
तासां स सौन्दर्य-विलोकने हरिः ।
सहस्र-पादत्वम् अथान्तिके गतौ
सहस्र-बाहुत्वम् इहोपगूहने ॥५६॥

इह जलकेलौ स हरिस्तासां सौन्दर्यस्या विलोकने सहस्रनेत्रतां, तासां निकटगतौ सहस्रपादत्वं, तासामुपगृहवे सहस्रबाहुत्वमुरीचकार बभुवेति शेषः । नेत्राङ्घ्रिबाहूनां द्वाभ्यामेवाचिन्त्यशक्तितः सहस्रेणेव दर्शनगमनालिङ्गनानि चकार इत्यर्थः । इव शब्द एवार्थोऽपि । अत उरीचकार एवेति वार्थ- ॥५६॥

एणीदृशाम् उदर-दघ्न-जले स्थितानां
सेकेऽम्बुभिर् वदन-पद्म-विकाशने च ।
वक्षोज-कोक-मिथुनावलि-लालनेऽपि
कृष्णः सहस्र-करताम् उररीचकार ॥५७॥

कृष्णः अम्बुभिः सेके जलसेचने विषये । उदरपरिमिते जले स्थितानां तासां मृगीदृशां वदनपद्मविकाशने सम्मार्जनेच स्तनरूपचक्रवाकमिथुन-श्रेणीनां लालनेऽपि सहस्रबाहुत्वमुरीचकार । पक्षे सहस्रकिरणत्वं सूर्यत्वं उरीचकार । सूर्यस्य जलवर्षणपद्मविकाशनकोकाह्लादनैकाधिकारात् । अर्थात् यथेष्टं तत्तच्चकारेति भावः ॥५७॥

सहस्र-पात् सहस्राक्षः सहस्र-बाहुर् ईश्वरः ।
इति श्रुत्य्-अर्थम् अपठत् कृष्णं वीक्ष्य मुदा बटुः ॥५८॥

वटुः कृष्णं तथाभुतं वीक्ष्य सहस्रपादादि स्रुत्यर्थमपठत् ॥५८॥

सर्वतः पाणि-पादं तत् सर्वतोऽक्षि-शिरो-मुखम् ।
हसन्तीति स्मृतिं नान्दीमुखी तीर-स्थितापठत् ॥५९॥

तीरस्थिता नान्दीमुखी हसन्ती सर्वतः पाणिपादमित्यादि स्वतिमपठत् ॥५९॥

उद्वर्षन्ती दिशि दिशि तिर्यक् पातान्
तोयासारान् व्रज-रमणी-वल्लीनाम् ।
व्यालोलानाम् अविरत-सेके केलौ
कार्ष्णी मूर्तिर् जलधर-माला सासीत् ॥६०॥

दिशि दिशि तिर्यक्पातान् तोयस्यासारान् धारासम्पातान् उद्वर्षन्ती कार्ष्णी मूर्तिः श्रीकृष्णविग्रहः व्रजरमणीवल्लीनामविरतसेके केलौ च जलधरमाला मेघस्य श्रेणीवासीत् । मेलौ इत्यत्र लोला इति पाठे मूर्तेर्विशेषणं ॥६०॥

पाद-प्रान्तेऽत्यरुणतया किं तासां
यावैश् चेत्थं चिर-जल-वासैर् यत्नात् ।
कृत्वा वर्ण-द्वय-हतिम् आसाम् उच्चैर्
मत्तैवासीज् जलधर-मालाप्य् एषा ॥६१॥

एषा जलधरमाला मूर्तिः कृष्णः तासां व्रजसुन्दरीणां पादप्रान्ते यावैर् यावकरङ्गैरत्यरुणतया किं स्वतःसिद्धारुणतैव भद्रं, यद्वा अत्यरुणपादप्रान्ते यावैः किं इत्थमनेन प्रकारेण चिरकालं व्याप्य जले वासैर् वसतिभिर् यत्नादासामुच्चैः वर्णद्वयोरित्येकस्यारुणवर्णस्य यावजन्यस्वतः सिद्धत्वभेदात् द्वित्वं प्राप्तयोरिति वर्णद्वयस्य हतिं नाशं कृत्वा मत्ता आसीत् । तावत्कालं व्याप्य । जलक्रीडाऽभूत् । यावत्कालेन तासां चरणयोर् यावकरङ्गो लुप्तोऽभूदित्यर्थः । श्लेषेण जलधरमाला नाम छन्दः । पादप्राप्ते पद्यस्य चरणानामस्ते वर्णद्वयस्य हतिं कृत्वा मत्ता नाम छन्द आसीत् । अस्य पद्यस्य प्रथमपादस्यान्ते चासां द्वितीये यत्नात् । तृतीये उच्चैः । चतुर्थे एषा इति वर्णद्वयं ज्ञेयं । अस्य जलधरमालाख्यश्लोकस्य पादान्ते वर्णद्वयस्य दानाभावेऽपि स एवार्थो भवतीति काव्यकौशलं ।१ वर्णद्वयाभावे श्लोके यथा—पादप्रान्तेत्यरुणतया किं, यावैश्चेत्थं चिरजलवासैः । कृत्वा वर्णद्वयहतिमासां, मत्तैवासीज्जलधरमाला ॥६१॥

प्रियकर-मिलिताम्बु-स्पर्श-हृष्टापि पर्यक्
सतत-निपतद्-अम्भो-धारयोद्विग्न-चित्ता ।
शिथिलित-भुज-वल्ली-शस्त-केशाम्बर-स्रग्-
जल-युधि विमुखी सा सुन्दरी-पालिर् आसीत् ॥६२॥

सा सुन्दरीश्रेणी कृष्णकरमिलिताम्बुस्पर्शेन हृष्टापि । पर्यच्या चतुर्दिक्षु

चलन्त्या । सदा निपतदम्भसां धारया उद्विग्नचित्ता जलयुद्धे विमुखी आसीत् ॥६२॥

जले बलाद् अत्यमलेऽबलानां
निरुद्ध्य कान्तेन हृताम्बराणाम् ।
दलालि-दानेन तरङ्ग-हस्तैर्
व्यधायि सख्यं द्रुतम् अब्जिनीभिः ॥६३॥

अत्यमले जले कास्तेन बलान्निरुद्ध्य हृताम्बराणामबलानां सम्बन्धेऽजिनीभिः पद्मिनीभिः तरङ्गऽस्तैर् दलालिदानेन सख्यं व्यधायि ॥६३॥

इह राधिका प्रतिपदं पराभवैर्
मुख-वर्ण-युग्म-विरहात् सखी-ततेः ।
दयितं विजेतुम् अपि मञ्जु-भाषिणी
जल-सेचने मुहुर् अथोद्धताभवत् ॥६४॥

अथायनन्तरं इह जलक्रीडायां प्रतिपदं प्रतिक्षणं पराभवैः श्रीकृष्ण

कर्तृकजलप्रहारैः सखीततेर्मुखवर्णयुग्माविरहात् पूर्वत् ओष्ठाधराणां ताम्बूलरागस्य स्वतःसिद्धरागस्य च । किम्वा मुखमण्डलानां गौरवर्णस्य ओष्ठाधराणां रागस्य च विच्छेदं दृष्ट्वा मञ्जुभाषिणी राधा दयितमपि बिजेतुं जलसेचने मुहुरुद्धताभवत् । श्लेषेण मञ्जुभाषिणी नामछन्दः प्रतिपदं पदं पदं चतुर्षु पादेषु मुखे आदौ वर्णयुग्मस्याक्षरद्वयस्य विरहादथोद्धतानाम छन्दोऽभवत् । वर्णद्वयाभावेऽपि पद्यस्यार्थसाम्यां । यथा—राधिका प्रतिपदं पराभवैर्वर्णयुग्म विरहात् सखीततेः । तं बिजेतुमपि मञ्जुभाषिणी, सेचने मुहुरथोद्धताऽभवत् ॥६४॥

निवारित-सखी-पाल्योर् मिथः संस्पर्धिनोस् तयोः ।
ईशयोर् द्वन्द्व-युद्धं चाभवद् आदौ जलाजलि ॥६५॥

निवारिता सखीनां पालिर्याभ्यां तथाभूतयोर्मिथः परस्परं सम्यक्

स्पर्द्धा जेतुं विवादो ययोस्तयोरीशयोः राधाकृष्णयोर्द्वन्द्वयुद्धञ्चाभवत् । तत्राद्रौ जलेन जलेन प्रहृत्य युद्धं वृत्तं जलाजलि अभवत् ॥६५॥

सखी-पाल्यावृतौ सत्यां कराकरि भुजाभुजि ।
नखानखि च तत्-पश्चान् मुखामुखि रदारदि ॥६६॥

सखीपालिभिरावृतौ सत्यां कराकरि भूजाभुजि नखानखिच । तत्पश्चात् मुखामुखि रदारदि चेति क्रमेणैतत् सर्वं युद्धमभवदिति पूर्वोणान्वयः ॥६६॥

अन्योन्य-सङ्ग-संहर्षात् कृष्णम् आनन्द-मन्थरम् ।
राधां भावोद्गमैर् लोलां वीक्ष्यामुं ललिताब्रवीत् ॥६७॥

अन्योन्यासङ्गेन सम्यक् हर्षात् आनन्दमन्थरं कृष्णं भाबोद्गमेन लोलाञ्चराधां वीक्ष्य ललिताऽयुं राधामब्रवीत् ॥६७॥

चूडा पश्चाद् अपसृतवती कौस्तुभो बिम्ब-दम्भाद्
गण्डे तेऽसौ शरणम् अभजत् कुण्डले कम्प-लोले ।
लीनं चासीत् तिलकम् अलिके छिन्न-भिन्नास्य माला
तस्माद् युद्धाद् विरम सखि मा कातरं पीडयामुम् ॥६८॥

हे सखि राधे ! युद्धाद्विरम । कातरममुं कृष्णं मा पाडय ॥ कातरप्रकारमाह । अस्य चूडा पश्चाद्गता । कौस्तुभो बिम्बच्छलेन ते तव गण्डे शरणमभजत् ॥६८॥

व्यात्युक्ष्यां सलिले यद्वन् मुहुर् जय-पराजयौ ।
तेषां जातौ व्यावहास्यां तीरे तौ सुहृदां तथा ॥६९॥

व्यातुयुक्ष्यां जलयुद्धे कृष्णादीनां मुहुर्यद्वत् जयपराजयौ जातौ । तथा ।

तीरे तेषां सुहृदां सुबलादीनां व्यावहास्यां परस्परहास्यविशेषे तौ जयपराजयौ जातौ ॥६९॥

आकृष्य राधां स बलान् मुकुन्दः
स्व-कण्ठ-दघ्नेऽम्भसि तां निनाय ।
मग्नाम् इवैनां पुनर् उद्दधार
तरङ्ग-लोलां नलिनीम् इवेभः ॥७०॥

स मुकुन्दो बलात् राधामाकृस्य स्वस्य कण्ठजले तां निनाय । एनां राधां । मग्नामिब्व पुनरुद्धार । इभो हस्ती तरङ्गलोलां पद्मिनीमिव ॥७०॥

तत्-कण्ठ-देशार्पित-दोर्-मृणाला
केशालि-शैवालि-वृताननाब्जी ।
कृष्णेभ-हस्तोत्कलितातिलोला
राधाब्जिनीवाम्भसि सन्ततार ॥७१॥

कृष्ण एव इभो हस्ती तेन हस्तेन उत्कलिता उत्थाप्य धृता सती राधारूपपद्मिनी अतिलोला सती जले सन्ततार । कीदृशी ? तत्तस्य कृष्णेभस्य कण्ठदेशेऽर्पितं तुजरूपमृणालं यया सा । केशालिरूपशैबालेन आवृतमाननरूपमब्जं यस्याः सा ॥७१॥

तावत् प्रफुल्ल-कनकाब्ज-वने प्रमोदाल्
लीनासु तासु गल-दघ्न-जले सखीषु ।
कान्ता जगाद दयितं प्रिय मे वयस्या
याता द्रुतं क्व नु गवेषय तूर्णम् एताः ॥७२॥

गलपरिमितजले लीनासु सखीषु तासां मुखकमलस्वर्णकमलयोरभेदज्ञानात् ताः कुत्रापि गताः । इति मत्वा दयितं सा जगाद । हे प्रिय तास्तूर्णं गवेषय अन्वेषय ॥७२॥

निधाय तां तद्-गल-मात्र-पुष्करे
श्री-पुष्कराक्षे प्रविशत्य् अथालिकाः ।
अन्वेष्टुम् अस्मिन् स्फुट-पुष्कराटवीं
राधास लीना वर-पुष्करानना ॥७३॥

तद्गलमात्रपुष्करे राधायाः गलमात्रजले तां राधां निधाय । अस्मिन् श्रीपुष्करेक्षणे कृष्णे आलिका सखीरन्वेष्टुं स्फुटपुष्कराटवीं प्रविशति सति । वरपुष्करानना राधा लीना आस लीना बभूव ॥७३॥

नात्युत्थितानि जलतः कनकाम्बुजानि
फुल्लासितोत्पल-युगातिविराजितानि ।
दृष्ट्वा तरङ्ग-चल-शैवल-संयुतानि
तत्-पान-चञ्चल-मतिर् मधुसूदनोऽभूत् ॥७४॥

मधुसूदनः कृष्ण कनकाम्बुजानि दृष्ट्वा तत्तेषां सखीनां मुखकमलानां पाने चञ्चलमतिरभूत् । कीदृशानि । जलान्नात्युत्थितानि फुल्लासितोत्पलयुगेनातिविराजितानि तरङ्गैश्चञ्चलानि शैबलैः संयुतानि चेति ॥७४॥

मुखेषु तासां कनकारविन्द-
वृन्दायमानेषु मरन्द-पानम् ।
चक्रे हरिः प्रत्यरविन्दम् अञ्चन्
तृषार्त-रोलम्ब-कदम्बकं वा ॥७५॥

तृष्णार्तं रोलम्बकदम्बकं भ्रमरसमूहः प्रत्यरविन्दं अरविन्दमरविन्दं प्रत्यञ्चन् गच्छन् । वा इव । हरिस्तासां स्वर्णपद्मवृन्दमिवाचरितेषु मधुपानं चुम्बनादि चक्रे ॥७५॥

द्रुतम् उपनयतास्यं स्व-स्व-वक्त्रान्तिके स्वं
क्षणम् इह दयितेन द्वन्द्व-युद्धं समृद्धम् ।
निभृत-मिलितया श्री-राधयाप्य् अन्वितानां
युगपद् अभवद् आसाम् आननाब्जाननाब्जि ॥७६॥

स्वस्वक्त्रान्तिके गोपीनां स्वस्वमुखसमीपे द्रुतं स्वस्यास्यं स्वीयं मुखं उपनयता दयितेन सह आसां सखीनां क्षणं द्वन्द्वयुद्धं सम्यक् ऋद्धं वृद्धं वर्धमानमभवत् । तासां कीदृशानां ? निभृतमिलितया राधया सहान्वितानां । द्वन्द्वयुद्धं कीदृशं? । आननाब्जेन अननाब्जेन प्रहृत्य वृत्तं युद्धं आननाब्जाननाब्जि ॥७६॥

गोपी-स्तनास्फालन-जैस् तरङ्गकैर्
लोलाम्बुजान्य् उल्लल-षट्पदान्य् अलम् ।
आसां मुखानीव ददर्श चुम्बने
वैमत्य-लोलानि चलेक्षणानि सः ॥७७॥

गोपीस्तनानामास्फालनमाघातस्तज्जनैस्तरङ्गैरुल्ललाश्चञ्चला भ्रमरा यत्र तानि गोलाम्बुजानि स कृष्णः ददर्श । कानीव । चूम्बने चूम्बनसमये वैषत्येन लोलानि । चञ्चले ईक्षणे येषु तानि । आसां सखीनां मुखानीव । मुखस्थानी, यानि पद्मानि । नेत्रस्थानीयाः भ्रमराः ॥७७॥

आसां प्रियेण वलयावलि-पार्श्व-युग्मे
प्रेम्णा मृणाल-कृत-कङ्कण-सन्निवेशः ।
नाना-विलास-वितति-श्रमजाङ्ग-कार्श्यात्
पातोनुमुखान् स वलयान् परितो रुरोध ॥७८॥

आसां बलयाबलिपार्श्वयुग्मे प्रियेण कृष्णेन प्रेम्ना मृणालेन कृतो यः कङ्कणसन्निवेश । आसां नान्विलासविततिश्रमजाङ्गकार्श्यात् पतनोन्मुखान् बलयान् रुरोध ॥७८॥

कुसुम-विस-मरालाम्भोज-चक्रोत्पलानि
स्मित-भुज-गति-वक्त्रोरोज-नेत्रैर् विजित्य ।
निविड-कुच-नितम्बास्फालनैः कम्पयित्वा
जलम् अपि सरसी सा क्षोभितासीद् वधूभिः ॥७९॥

वधूभिः स्मितेन कुमुदं । भुजेन विसं मृणालं । गतिभिर्मरालं हंसं । वक्त्रेण पद्मं । उरोजेन चक्रवाकं । नेत्रेण उत्पलं बिजित्य कुचनितम्बानां आस्फालनैर् जलं कम्पयित्वा सा सरसी अपि क्षोभितासीत् ॥७९॥

लीलाक्षुभ्यत्-सलिलोत्थैस् तरङ्गैर्
वातोर्मीणां मिलिताः पुरस्तात् ।
सङ्घट्टोऽभून् मिथुनं यत्र वीणां
स्थातुं गन्तुं क्षमम् आसीन् न लोलम् ॥८०॥

लीलाजन्यतरङ्गैः सह पुरस्तान्मिलितानां वातोर्मीणां सङ्घट्टोऽभूत् । यत्र सङ्घट्टे वीनां पक्षिणां मिथुनं लोलं सं स्थातुं गन्तुं च क्षमं नासीत् ॥८०॥

तासां मुखामृत-रुचाम् उदयेऽपि नापुर्
विश्लेष-दुःखम् इह कोक-युगानि किन्तु ।
तत्-सन्निधौ प्रविलसत्-स्तन-कोक-युग्मान्य्
आलोक्य विश्वसितधीन्य् अतिमोदम् आपुः ॥८१॥

आसां मुखचन्द्राणां उदयेऽपि कोकयुगानि प्रकृतचक्रवाकपक्षियुगानि ।

। विश्लेषदुःखं नापुः किन्तु तत्सन्निधौ मुखचन्द्रसमीपे विश्वसितधीनि प्रविलसत्-स्तनकोकयुग्मान्यालोक्यातिमोदमापुः ॥८१॥

राधा-मुखेन्दोर् उदयात् सरोवरे
फुल्लेषु नीलोत्पल-कैरवेष्व् अपि ।
निश्य् अह्नि यद्वन् मधु-पानजं सुखं
तत् तद् द्विरेफाः सम-कालम् आपुः ॥८२॥

राधामुखचन्द्रस्योदयात् रात्रिविकासिनीलोत्पलादिषु रात्रिमधूपानजं सुखं दिनविकासिपद्मादिषु दिनमधुपानजं सुखं, द्विरेफा भ्रमराः समकालमापुः ॥८२॥

इन्दिन्दिराणां युगपद् विलासं
कुमुद्वतीष्व् अप्य् अरविन्दिनीषु ।
सखी-चये पश्यति सोऽतिचित्रं
नीलाब्ज-षण्डे हरिर् आस लीनः ॥८३॥

इन्दिन्दिराणां भ्रमराणां निशि अह्नि फुल्लेषु कुमुदेषु पद्मेषु च युगपद्विलासमितिचित्रं सखीचये पश्यति सति । नीलाब्जसमूहे हरिर्लीन आस ॥८३॥

अन्वेषणायास्या गतास् तदाल्यो
नीलाम्बुजान्य् अस्य मुखानि मत्वा ।
आनन्द-मत्ताः परिचुम्ब्य ह्रीणाः
परस्परालोकनतो बभूवुः ॥८४॥

अस्यान्वेषणाय गताः आल्यो नीलाम्बुजानि कृष्णमुखानि मत्वा परिचुम्ब्य सख्यः परस्पर दर्शनात् ह्रीणा लज्जिता बभुवुः ॥८४॥

राधां तु दैवात् प्रिय-वक्त्र-पार्श्वम्
आसादयन्तीं प्रविलोक्य चित्रा ।
सखीः समाभाषत पश्यताल्यः
पुरोऽब्ज-षण्डे महद् अद्भुतं नः ॥८५॥

चित्रा प्रियवक्त्रपार्श्वं राधामासादयन्तीं प्राप्नुवन्तीं प्रविलोक्य सखीः समाभाषत । नः पुरोऽब्जखण्डे महदद्भुतं पश्यत । हे आल्यः ॥८५॥

प्रलम्ब-शैवाल-कदम्ब-संवृतं
मध्ये नटत्-खञ्जन-युग्मम् अद्भुतम् ।
लोलालि-मालं चल-हेम-पङ्कजं
तथाविधं चञ्चति नील-पङ्कजम् ॥८६॥

प्रलम्बशैबालसमूहवेष्टितं मध्ये नटखञ्जनयुग्मां यस्य तत् । लोला अलिमाला यत्र तथाविधमद्भुतं चलहेमपङ्कजं राधामुखं प्रति तथाविधं प्रलम्बशैबालादि-संयुतं नीलपङ्कजं कृष्णमुखं कर्तृ चञ्चति गच्छति ॥८६॥

लसद्-अतनु-तरङ्गैश् चाल्यमानं पुरस्तात्
कनक-कमलम् एतन् नील-पद्मे ललाग ।
विरलितम् अपि तस्मात् प्रेरितं तैस् तद् अस्मिन्
मुहुर् अतिचलम् आसीत् संयुतं चायुतं च ॥८७॥

लसद्भिरतनुभिर् बृहद्भिस्तरङ्गैश्चाल्यमानं कनककमलं राधावक्त्रं नीलपद्मे कृष्णमुखे ललाग । तस्मान्नीलपद्मात् कृष्णमुखात् विरलितं पृथक् स्थितमपि तैरतनुतरङ्गैः प्रेरितं तं कनककमलं राधावक्त्रं अस्मिन्नीलकमले कृष्णमुखे अतिचलं यथा स्यात्तथा संयुतं असंयुतं चासीत् ॥८७॥

क्वचिद् इह जल-मध्याद् उत्थितौ चक्रवाकौ
तत उदितम् अकस्माद् आवृणोत् पद्म-युग्मम् ।
तद् अपि समुदितं श्री-हल्लक-द्वन्द्वम् अस्माद्
इति तद् अतिशयोक्त्या लेभिरे मोदम् आल्यः ॥८८॥

क्वचिच्च जलमध्यात् चक्रवाकौ स्तनाबुत्थितौ ततो जलादुदितं पद्मयुग्मं

कृष्णहस्तयुग्मं तौ स्तनावावृणोत् । समुदितं श्रीहल्लकद्वन्दं राधाकरद्वयमस्मात् चक्रवाकात् स्तनद्वयादपि कृष्णहस्तयुगमप्यावृणोत् दूरमकरोत् । आल्यः ललितादयः अतिशयोक्त्या मोदं लेभिरे । अतिशयोक्तालङ्कारेण चित्रया शैबालशब्देन केशः खञ्जनेन नेत्रमित्यादिकं यदुक्तं तत्श्लोकव्याख्यायामेव दर्शितं अत्रापि चक्रवाकः स्तनः । पद्मयुग्मं कृष्णकरद्वन्द्वं । हल्लकं राधाकरं दर्शितं । हलकं रक्तसन्ध्यक मित्यमरः ॥८८॥

ताम् आदायागते कृष्णे तासां मध्येऽथ तन्-मुखम् ।
बभौ हेमाब्ज-मण्डल्या वेष्टितं नील-पद्मवत् ॥८९॥

कृष्णे तां राधां गृहीत्वा तासां मध्ये आगते । तन्मुखं कृष्णमुखं ॥८९॥

जल-मण्डुक-वाद्यानि कृष्णस् ताभिर् अवादयत् ।
पटह-ध्वनिवत् क्वापि दुन्दुभि-ध्वनिवत् क्वचित् ॥९०॥

ताभिः सह कृष्णः जलमण्डुकाख्यवाद्यान्यवादयत् । वाद्यभेदमाह । क्वापि समये पटहध्वनिवत् । क्वचित् दुन्दुभिध्वनिवत् ॥९०॥

हरि-हरि-दयितानां गात्र-सौरभ्य-शैत्यैस्
अधिक-सुरभि-शीतं तोषम् आसीत् सरस्याः ।
असित-सित-पिशङ्गैः कर्बुरं चाङ्ग-रागैर्
भवति हि गुणि-सङ्गान् निर्मलानां गुणाप्तिः ॥९१॥

गात्राणां सौरभ्यशैत्यैः सरस्यास्तोर्यं जलमधिकसुरभिशीतमासीत् असितः श्यामः सितः शुक्लः पिङ्गलश्च एभिर्वर्णैरङ्गरागैः सरस्या जलं कर्बुरं मिलितं चित्रमासीत् । दृष्टान्तमाह—निर्मलानां स्फटिकादीनां रक्तादिगुणिसङ्गात् गुणप्राप्तिर्हि निश्चितः भवति ॥९१॥

प्रोद्भिन्न-पद्मीव स पद्मिनी-गणैः
संसिच्यमानः कर-पुष्करेण तान् ।
सिञ्चन् हरिः प्रस्फुट-पद्मिनी-वनाद्
उत्तीर्य तोयाद् अथ तीर्थम् आगमत् ॥९२॥

पद्मिनीगणैः संसिच्यमानः स हरिः प्रोद्भिन्नपद्मीव मत्तहस्तीव करपुष्करेण तान् पद्मिनीगणान् सिञ्चन् स्फुटं पद्मिनीनां वनं यत्र तस्मात् तोयात् उत्तीर्य तीर्थं घाटाख्यमगमत् ॥९२॥

सेवालीभिः कृष्ण-कृष्ण-प्रियास् तास्
तैलैर् गन्धोद्वर्तनैः सेविताङ्गाः ।
प्रेम्णान्योन्यं स्नापयित्वा प्रहर्षात्
स्नात्वोत्तस्थुर् नीरतस् तीर्थ-तीरे ॥९३॥

सेवापरासखीभिः कृष्णेन सह तां क्ष्णप्रियाः तैलैर्गन्धोर्द्वत्तनैश्च । सेविताङ्गाः प्रेम्ना अन्योन्यं स्नापयित्वा प्रहर्षात् स्नात्वा नीरतो जलात्तीर्थस्य तीरे उत्तस्थुः ॥९३॥

गौराङ्गीणाम् अङ्ग-लग्नाम्बरान्ता-
द्वारां धारा निष्पतन्त्यो विरेजुः ।
यद्वत् सौवर्णाचल-क्षुद्र-शृङ्ग-
श्रेणी-लग्नाच्छारदाम्भोद-वृन्दात् ॥९४॥

अत्र तासामङ्गान्येव सौवर्णपर्वतस्य क्षुद्रशृङ्गाणि तत्र लग्ना शुक्लवस्त्रमेव शारदमेघस्तस्मात् निष्पतन्त्यो जलधारा विरेजुः ॥९४॥

विस्रस्त-कुन्तल-ततेः शिखराद् गलन्तस्
तासां गुण-ग्रथित-मौक्तिक-पालित्-तुल्याः ।
अन्तर्-हृदीशितुर् अलं जल-बिन्दवोऽमी
एकावली-निचयताम् उपलभ्य रेजुः ॥९५॥

तासां विस्रस्तकेशततेरग्रात् गलस्तोऽमी जलबिन्दवः गुणेन सूत्रेण ग्रथित-

मुक्ताश्रेणीतुल्याः । ईशितुः कृष्णस्यान्तर्हृदि एकावल्या निचयतां समूहतां प्राप्य रेजुः । क्रमेणैकैयुक्तानिर्मिता माला एकावली ॥९५॥

स्वप्नेऽपि दुर्लभ-विलोक-लवस्य तस्य
दृष्टाप्त-विघ्न-रहितेष्ट-सुसङ्गम् अस्य ।
चित्रं चिरान् मधुर्मामृतम् आपिबन्त्यस्
तृष्णाभिवृद्धिम् अगमन् द्विगुणां मृगाक्ष्याः ॥९६॥

स्वप्नेऽपि दुर्लभो दर्शनलवो यस्य । इदानीन्तु दिष्ट्या प्राप्तो विघ्नरहित इष्टो वाञ्छितः सुसङ्गमो यस्य कृष्णस्य मधुरिमामृतं चिरमापिबन्त्यो मृगाक्ष्यः द्विगुणां तृष्णाया अभिवृद्धिमगमन्नितिचित्रं ॥९६॥

तासाम् असम्भावित-दर्शनानां
दिष्ट्याप्त-रत्यादिक-शर्मणोऽपि ।
क्लिन्नाम्बरान्तः-समुदीर्ण-तत्-तद्-
अङ्गालि-सन्दर्शनजा मुदो याः ॥९७॥
दामानि मात्रा निहितानि यस्यां
बाल्येऽप्य् अनन्तान्य् अगमन् समन्तात् ।
वितस्ति-मात्रत्वम् अघ-द्विषोऽस्यां
तनौ ममुस् ता नहि चित्रम् एतत् ॥९८॥

(युग्मकम्)

अघद्वियो यस्यां तनौ बालोऽपि मात्रा यशोदया निहितानि अनन्तानि दामानि वितस्तिमात्रत्वमगमन् । अस्यां कैशोरे तनौ दिष्टा याभिः सहाप्तं प्राप्तं रत्यादिना शर्म सुखं येन तस्य कृष्णस्यासम्भावितं दर्शनं यासां तासां शुक्लन्नाम्बरस्यान्तर्मध्ये तत्तदङ्गालीनां सन्दर्शनजा दर्शनजन्या या मुदः ता मुदो समुः स्थानं प्रापुः । एतच्चित्रं नहि । तत्तनोर् बहूनामल्पकरणशक्तिमत्त्वात् । अनेन तासामङ्गदर्शनजानन्दस्य परमावधित्वं गुरुत्वं बहुत्वञ्च दर्शितम् ॥९७-९८॥

आली-चयेन परिमार्जित-देह-केशश्
चीनांशुकैः परिहितोद्गमनीय-चेलः ।
कृष्णश् च कृष्ण-रमणी-निचयः ससभ्यः
श्री-पद्म-मन्दिरम् इतो द्रुतम् आरुरोह ॥९९॥

आलीचयेन चीनांशुकैः सूक्ष्मवस्त्रैः परिमार्जितो देहः केशश्च यस्य सः ।

परिहितं उद्गमनीयचेलं । परिधानोत्तरीयवसनयुगं येन सः । इत्थम्भूतः सन् कृष्णः कृष्णरमणीचयश्च सभ्येन वृन्दादिना सहितः सन् इतः श्रीकुण्डतटात् श्रीपद्ममन्दिरमारुरोह । श्रीपद्ममन्दिरं नाम नैरृत्यां राजते दलम् इत्युक्त । श्रीललिताकुञ्जस्य नैरृतकोणकुञ्जं ॥९९॥

अनल्पैर् आकल्पैः कुसुम-रचितैर् भूषण-चयैर्
निविष्टं तं याम्ये कमल-गृह-सत्-कुट्टिम-वरे ।
निज-प्राण-प्रेष्ठं प्रणय-परिपाटी-घटनया
स्वयं श्री-राधाली-निचय-सहिता मण्डयति सा ॥१००॥

याम्ये दक्षिणदिशायां कमलगृहस्य सत्कुट्टिमवरे शोभनवेद्यां निविष्टं तं निजप्राणप्रियं अनल्पैराकल्पैः कुसुमरचितैर् भूषणचयैः प्रणयपरिपाटीघटनया सखीभिः सह सा स्वयं राधा मण्डयति ॥१००॥

धूपैर् आगुरवैर् विशुष्क-सुरभीन् श्री-कङ्कती-शोधितान्
मल्ली-गर्भक-वेष्टितान् स्व-दयितस्योद्यम्य बद्ध्वा कचान् ।
जाती-रङ्गण-यूथिका-बकुल-सद्-गाङ्गेय-यूथी-कृतैर्
गुच्छोत्पल्लव-केतकी-दल-लसच्-चाम्पेय-बर्हान्वितैः ॥१०१॥

मण्डनप्रकारमाह—श्रीराधा स्वदयितस्य कृष्णस्य कचान् अगुरुकृतैर्धूपैर्विशुष्कसुरभीन् कृत्वा ततः श्रीकङ्कत्या शोधितान् मल्लीपुष्पगर्भकेण वेष्टितान् कृत्वा च उद्यम्य उर्द्धीकृत्वा बद्धा चूडां व्यधादिति परश्लोकेनान्वयः । केशमध्ये तु गर्भक इत्यमरः । चूडां कीदृशीं । जातीरङ्गणादिपुष्पकृतैर्माल्यकैर्मालाभिः कीदृशीभिः पुष्पगुच्छ उत उत्कृष्टपल्लवकेतकीदलेन सह लसच्चाम्पेयर्बर्हान्वितेः ॥१०१॥

गुञ्जा-मौक्तिक-माल्य-युग्म-विलसत्-पार्श्व-द्वयैर् माल्यकैर्
ऊर्ध्वोर्ध्व-क्रम-वेष्टितां स्तवक-युक्-पिञ्छैर् लसत्-शेखराम् ।
मूले स्थूलतां सुसूक्ष्म-शिखरां कृष्टालि-वृन्दां व्यधात्
चूडां चामर-डामरीम् अलिकगां राधा जगन्-मोहिनीम् ॥१०२॥

(युग्मकम्)

गुञ्जायास्तथा मौक्तिकस्य च माल्ययुग्मेन विलसत् पार्श्वद्वयं येषां तैर्माल्यकैरूर्द्धोर्द्धक्रमेण वेष्टितां । पुष्पस्तवकेन युक् पिञ्छैर्लसत्शेखरमग्रभागो यस्यास्तां । यूलदेश्र्ऽतिस्थूलां । सुसूक्ष्माग्रां । कष्टमाकृष्टमलिवृन्दं यया तां । चामरभामरीं चामरतुल्यां । अलिकगां ललाटगां । अत्र इदमायातं । आदौ जातिपुष्पमाला तस्याः पार्श्वद्वये गुञ्जामुक्तयोर्माला गुञ्जामुक्तामालोपरिरङ्गणमाला तदुपरि पुनर्गुञ्जामुक्तामाला एवं क्रमेण पूर्वापेक्षया सूक्ष्मयूथिकामाला बकुलादिमाला गुञ्जामौक्तिकमाल्ययुग्मं च ज्ञेयं

गुच्छादिभिरम्बितैरित्यनेन । जात्यादिमालावेष्टनसमये यथाशोभं मालामध्ये उच्चं कृत्वा पुष्पगुच्छादीनां चूडायाश्चतुर्दिक्षु वामदक्षिणपार्श्वे वा दानमिति । स्वबुद्ध्यसुमारेण दिग्दर्शनमिदं । सर्वाग्रे पुष्पगुच्च स्तदुपरि मयूरपुच्छं । मयूलदेशस्थूलां लग्नालकाञ्च ॥१०२॥

यस्यां लग्ना न दृग्-अलि-घटा निर्जिहीतेऽङ्गनानां
या संलग्ना हृदय-कमले जातु नैतज् जहाति ।
यस्याश् छाया भ्रमयति सकृद्-वीक्ष्यमाणापि कृष्णं
कार्ष्णी चूडा विलसति जगत् सा पिबन्ती स्व-धाम्ना ॥१०३॥

यस्यां चूडायां अङ्गनानां स्त्रीणां दृगलिघटा लग्ना सती जातु कदापि न

निर्जिहीते न बहिर्गच्छति । ओहाञ गतौ । या चूडा स्त्रीणां हृदये संलग्ना एतत्म् हृदयं कदापि न जहाति न त्यजति । यस्याश्छाया सकृद्वीक्ष्यमाणा कृष्णं अपिशब्दादन्यानपि भ्रमयति । सा कार्ष्णी चूडा स्वधाम्ना स्वमाधुर्येण जगत् पिबन्ती वशे कुर्वन्ती विलसति ॥१०३॥

यत् कौङ्कुमं ललितया तिलकं ललाटे
सृष्टं हरेः शशि-निभं मद-बिन्दु-मध्यम् ।
श्री-खण्ड-बिन्दु-निचितं बहिर् एतद् आसां
हृत्-खण्डने मदन-हाटक-चक्रम् आसीत् ॥१०४॥

ललितया हरेर्ललाटे शशिनिभं कौङ्कुमं यत्तिलकं सृष्टं । कीदृशं मदस्य

मृगमदस्य बिन्दुमध्ये यस्य तत् । बहिश्चन्दनबिन्दुभिर्निचितं व्याप्तं । एतत्तिलकं आसां हृदयस्य खण्डने मदनस्य हाटकचक्रं स्वर्णचक्रमासीत् ॥१०४॥

भक्ति-च्छेदैर् अन्वितां यां सुचर्चां
चित्रा चक्रे कौङ्कुमीं तत् तनौ सा ।
लावण्योर्मि-चञ्चलास्मारयत् तां
दीव्यद्-गोपी-कृष्ण-युग्माणि रासे ॥१०५॥

चित्रा सखी हरेस्तनौ यां भक्तिच्छेदैः खोर इत्याख्यैर्युक्तां कौङ्कुमीं

सुचर्चां चक्रे सा सुचर्चा लावण्यतरङ्गैश्चञ्चला सती तां चित्रासखीं रासे रास-लीलायां दीव्यद्गोपीकृष्णयोर्युग्मान्यस्मारयत् । कृष्णतनुरेखा कृष्णस्मृतिं कुङ्कुमरेखा गोपीस्मृतिमकारयदित्यर्थः ॥१०५॥

चित्राथ चित्रम् अकरोन् निज-मित्र-गात्रे
मैत्री-पवित्र-चरिताम्बुद-जैत्र-कान्तौ ।
यत् तत् सखी-नयन-खञ्जन-बन्धनाय
कन्दर्प-शाकुनिक-विस्तृत-जालम् आसीत् ॥१०६॥

मैत्री मित्रस्य भाव स्तया पवित्रं चरितं यस्याः सा चित्रा निजमित्रस्य कृष्णस्य गात्रेऽम्बुदजैत्रकान्तौ यच्चित्रमकरोत् तच्चित्रं सख्याः राधायाः नयनखञ्जनस्य बन्धनाय कन्दर्परूपशाकुनिकस्य व्याधस्य विस्तृतजालमासीत् ॥१०६॥

नाना-वर्ण-सुगन्ध-पुष्प-मुकुलैः पुष्पैः कृतैः पल्लवैः
कॢप्तैः कुण्डल-हार-कङ्कण-लसन्-मञ्जीर-काञ्च्य्-अङ्गदैः ।
ताभिर् याभरणैर् मुदा प्रिय-तनौ श्री-वेश-भङ्गी-कृता
सैवासां नयनैण-बन्धन-विधौ कामस्य पाशायते ॥१०७॥

ताभिर् गोपीभिर् नानावर्णनानासुगन्धयुतपुष्पमुकुलैः पूष्पैश्च कृतैस्तथा पल्लवैश्च कॢप्तैः कृतैः कुण्डलाद्यैराभरणैः प्रियस्य तनौ मुद्रा हर्षेण या श्रीर्वेशभङ्गीः कृता सा वेशभङ्गी आसां नयनरूपस्य एणस्य बन्धनविधौ कामस्य पाशवत् रज्जुवत् आचरति ॥१०७॥

पौष्पैश् चाभरणैस् तत्र राधा काण्ड-पटावृता ।
आलीभिर् भूषिताल्यश् च सेविका-निचयैः क्रमात् ॥१०८॥

तत्र स्थले आलीभिः राधा काण्डेन कालानुरूपेण पटावृता पोष्पैराभरणैर्

भूषिता कृता सेविकानिचरयैः सेवापरायणसखीसमूहैराल्यः सख्यश्च क्रमात् भूषिताः कृताः ॥१०८॥

ततोऽसौ वृन्दयानीतस् ताश् च तत् सौम्य-कुट्टिमम् ।
ददृशुस् तत्र भक्ष्याणि फल-मुख्यान्य् अनेकशः ॥१०९॥
पलाश-शाल-पत्राणां रम्भा-बल्कल-पत्रयोः ।
कुण्डी-स्थाल्यादि-पात्रेषु सम्भृतानि पृथक् पृथक् ॥११०॥

(युग्मकम्)

वृन्दया तत्तस्य पद्ममन्दिरस्य सौम्यदिग्वर्तिकुट्टममसौ कृष्णः नीतः ता राधाद्याश्च नीताः । तत्र सौम्यकुट्टिमे फलमुख्यानि भक्ष्याणि पलाशपत्रशालपत्ररम्भापत्ररम्भावल्कलकृतकुण्डीस्थाल्यादिपात्रेषु पृथक् पृथक् सम्भृतानि ददृशुः ॥१०९-११०॥

भोक्तुं तान्य् उपविष्टोऽसौ शुभ्र-पुष्पांशुकासने ।
सव्ये श्री-सुबलस् तस्य दक्षिणे मधुमङ्गलः ॥१११॥

शुभपुष्पासनोपरि शुभ्रवस्त्राच्छन्नासने असौ कृष्णः तानि भक्ष्याणि भोक्तुमुपविष्टोऽभूत् । तस्य कृष्णस्य वामे श्रीसुतबलः दक्षिणे मधुमङ्गलः उपविष्टः ॥१११॥

उपविष्टा पुरो राधा तानि साली वनेशया ।
आनीयानीय दत्तानि तेभ्यः परिविवेश सा ॥११२॥

पुरोऽग्रे आलीभिः सह श्रीराधा उपविष्टा । वृन्दया आनीय आनीय दत्तानि

तानि भक्ष्याणि तेभ्यः कृष्णादिभ्यः सा राधा परिविवेश ॥ ११२ ॥

श्वेत-रक्त-हरित्-पीत-वर्णानि जाति-भेदतः ।
असस्य-श्लथ-सस्येषद्-दृढ-सस्यान्य् अनेकशः ॥११३॥
सुकृत्त-बल्कलतया शङ्ख-वर्णाकृतीनि च ।
नारिकेल-फलान्य् आदौ तेभ्यः परिविवेश सा ॥११४॥

(युग्मकम्)

शुक्लरक्तादिवर्णानि यानि जातिभेदतोऽनेकेशः नारिकेलफलानि सस्ति । कीदृशानि । अशस्यानि शस्यरहितानि । श्लथशस्यानि हस्ताग्राह्यजलवत् शस्यानि ईषंशस्यानि दृढशस्यानि च तानि सुकृत्तं सुच्छिन्नं वल्ककलं येषां तथाभूतत्वेन । शङ्खवद्वर्णानि शङ्खाकाराणि नारिकेलफलानि आदौ सा राधा परिविवेश ॥११३-११४॥

तेषां तैः पीत-तोयानां भित्त्वा निष्काशितान्य् अमी ।
सस्यान्य् आली-युजा दत्तान्य् आदुः स्वादूनि राधया ॥११५॥

तैः कृष्णाद्यैः पीतं तोयं येषां तेषां शस्यानि जलरहितनारिकेलफलानि

तानि भित्त्वा निष्काषितानि स्वादूनि आलियुजा राधया दत्तानि । अमी कृष्णादयः आदुः बुभुजुः ॥११५॥

जाति-वर्णाकृति-स्वादु-पाक-संस्कार-भेदतः ।
नाना-विधानि चाम्राणि ददौ तेभ्यः क्रमेण सा ॥११६॥

जात्यादिभेदतो नानाविधानि चाम्राणि ददौ ॥११६॥

दर-पक्वानि शकली-कृतान्य् आम्राणि कानिचित् ।
निकृत्त-वल्कलाष्टानि चर्व्याण्य् आस्वादयन्त्य् अमी ॥११७॥

कानिचित् दरमीषत् पक्वानि । कानिचित् शकलीकृतानि खण्डीकृतानि । कानिचित् वल्कलं अष्टिर्बीजं तद्रहितानि चर्व्याणि अमी कृष्णादयः आस्वादयस्ति । भित्तं शकलखण्डे वा इत्यमरः ॥११७॥

स-वल्कल-निकृत्तानि किञ्चिद्-घन-रसानि च ।
ओष्ठावलोप्य-लेह्यानि पक्वान्य् आदन् पराणि ते ॥११८॥

वल्कलसहितानि कृत्तानि छिन्नानि । किञ्चिद्घनरसानि ओष्ठाधरचेष्टया लेह्यानि । पक्वानि पराणि आम्राणि ते आदन् ॥११८॥

पक्त्रिमाणि रसैः पूर्णान्य् आच्छिन्नास्यानि कानिचित् ।
सांशानि मधुराण्य् एते चुष्यन्तो मुदम् आययुः ॥११९॥

कानिचित् आम्राणि पक्त्रिमाणि रसैः पूर्णानि आ सम्यक् छिन्नानि आस्यानि येषां तानि । सांशानि सवल्कलानि । चुष्यन्त एते मुदमाययुः ॥११९॥

ते कण्टकि-फलान् निष्काशितान् कोषान् निरष्टिकान् ।
सौवर्णोत्पल-चाम्पेय-कोरकाभान् अखादिषुः ॥१२०॥

ते कृष्णादयः कण्टकिफलान्निष्काषितान् कोषान् निरष्टकान् बीजरहितान् स्वर्णपद्मचाम्पेयकालिकावर्णान् अखादिषुः ॥१२०॥

पीलूनि बहु-भेदानि द्राक्षा-खर्जुरकाणि च ।
ताल-श्रीफल-जम्बूनि लवली-लकिचानि च ॥१२१॥

पीलूनि व्रजे प्रसिद्धानि । द्रोक्षा खर्जूरयोर् बहुभेदानि तालादीनि प्रसिद्धानि । लवली लोयालि इत्याख्यः । लकुचो लिकुचो डहुत् इत्यमरात्गौडे डेयोमादार इत्याख्यः ॥१२१॥

कदली-वदरीणां च नाना-भेदान् फलोच्चयान् ।
शृङ्गाट-ताल-बीजानि क्षीरिका-तूतकानि च ॥१२२॥

शृङ्गाटः सिंहाड इति, व्रजे पाणिफल इति गौडे प्रसिद्धः । क्षीरिका क्षीरा क्षिरणि इति भूत इति च व्रजे प्रसिद्धः ॥१२२॥

अञ्जीराण्य् अमृताङ्कानि नास-पाती-फलानि च ।
नारङ्ग-कामरङ्गाणि विकङ्कत-फलानि च ॥१२३॥

अञ्जीरादीनि त्रीणि । अञ्गीर इति नासपाति इति मेयाख्यानि । नारङ्ग नारेङ्गि इति कामराङ्गा इति विकङ्कत बुङिछि इति ॥१२३॥

सुषेण-मातुलाङ्गानि कपित्थक-फलानि च ।
नाना-भेदानि बीजानि निष्कुलाकृत-दाडिमात् ॥१२४॥

सुषेणः करमर्दकः करोन्दा इति ख्यातः । मातुलाङ्गो बीजपूरः बिजुरा इति ख्यातः । इत्यादीनां कृष्णपाकफलाविग्नसुषेणः करमर्दकाः । फलपूरो बीजपूरो रुचको मातुलाङ्गके इत्यमरः । कपित्थकः कपित्थ इति प्रसिद्धः स्वार्थे कः । तस्य फलानिच । निष्कुलाकृतं स्फारीकृतं, च्व्यर्थेडा, यद्दाडियं तस्मात् । जातावेकवचनं दाडिमेभ्य इत्यर्थः । नानाभेदानि दाडिमभेदात् मधुराणि चाम्लानिच मधुराम्लानि चेति पृथक् पृथक् आस्वाद्यानि बीजानिच ॥१२४॥

मायाम्बूनि सुखाशानि कर्कटी-खर्बुराणि च ।
गुडालु-केश-राजादि-मूलानि मूलकानि च ॥१२५॥

सुखेनाश्यस्त इति सुखाशानि मायया अम्बूनीव तानि मुखमध्ये जलवत्त्वां कर्कटिका कडि इति खर्बुराणि खरबुजा इति ख्यातानिच फलविशेषाणि गुडालु इति केशराज इति चादौ येषां तानि यूलानि यूलकानि युला इति ख्यातानिच ॥१२५॥

शालूकार्द्र-पद्म-बीज-सस्यानि च विसानि च ।
पियाल-पिस्त-बद्दाम-बीज-सस्यान्य् अनेकशः ॥१२६॥

शालुकं पद्मयूलञ्च शालुकमेषां कन्दः स्यादित्यमरः । आर्द्राणां कोमलानां पद्मबीजानां श्यानिच । विसानि पद्ममृणालानिच । प्रियालादीनामनेकशः । बीजशस्यानि चात्र चकार उह्यः ॥१२६॥

सिताभिः क्षीर-सारैश् च कृतान् श्री-राधयालये ।
नारङ्ग-रुचकाम्रादि-फलाकार-विकारकान् ॥१२७॥
फल-पुष्प-युतान् वृक्षान् शर्करा-पाक-निर्मितान् ।
बिल्व-दाडिम-शीर्याम्र-नारङ्ग-रुचकादिकान् ॥१२८॥

श्रीराधयालये स्वगृहे सिताभिः क्षीरसारैश्च पृथक् कृता कृतान् नारङ्गादिफलाकारविकारान् । तया राधया गेहे कृतान् शर्करापाकेन निर्मितान् । बिल्वदाडिमादिकान् फलपुष्पयुतान् वृक्षान् वृक्षाकारविकारान् । किम्भुतान् एतान् फलवृक्षाकारविकारान् कृष्णस्य पञ्चेन्द्रिराणामाह्लादी गुणो येषां तान् । इत्येकसङ्गतं सार्धश्लोकद्वयं । अत्र राधयालये कृतानिति पदत्रयस्य पुनरुक्तिः । वृक्षाकारवस्तुपगता अतो न दोषः ॥१२७-१२८॥

कृष्ण-पञ्चेन्द्रियाह्लादि-गुणान् गेहे तया कृतान् ।
लड्डुकानि चन्द्रकान्ति-गङ्गाजल-मुखानि च ॥१२९॥
शर्करेन्दु-लवङ्गैला-मरिचादिभिर् अन्विताः ।
स्थूल-सन्तानिकाः पिष्टा-कृतानि लड्डुकानि च ॥१३०॥

शर्कराकर्पूरलवङ्ग एलामरिचादियुक्ताः स्थूलसन्तानिकाः दुग्धसारान् पिष्टा गेहे कृतानि स्वया कृतानि चन्द्रकान्तिगङ्गाजलादीनि लड्डुकानिच । इत्येकसङ्गतः सार्धैकश्लोकः ॥१२९ -१३०॥

पनसाम्रादिक-रसान् मधु-चन्द्र-सितान्वितान् ।
कर्पूरामृत-केल्य्-आदीन्य् आनीतानि प्रियालिभिः ॥१३१॥

मधुकर्पूरशर्करान्वितान् पनसाम्रादिरसान् गृहे कृत्वा प्रियसखीभिरानीतानि । कर्पूरकेल्यामृतकेल्यादीनिच । अयञ्च उह्यः ॥१३१॥

पर्यवेशयद् एतानि सर्वाणि राधिका क्रमात् ।
ताभ्यां सह हरिस् तानि बुभुजे कमलेक्षणः ॥१३२॥

एतानि सर्वाणि राधिका क्रमात् पर्यवेशयत् । ताभ्यां सुबलमधुमङ्गलाभ्यां सह हरिस्तानि बुभुजे ॥१३२॥

पत्र-पुष्प-फल-स्कन्ध-शाखा-मूलानि भूरुहाम् ।
सैतानां क्षैर-साराणां छेदं छेदम् अदन्त्य् अमी ॥१३३॥

सैतानां शर्कराकृतानां क्षैरसाराणां दुग्धसारकृतानां वृक्षाणां पत्रादीनि छेदं छेदं अमी कृष्णादयो अदन्ति ॥१३३॥

बटुर् निन्दन् प्रशंसंश् च भक्ष्याणि च तद्-अर्पिकाः ।
सर्वास् ता हासयामास स-नर्म-मुख-वैकृतैः ॥१३४॥

वटुः भक्ष्याणि तदर्पिकास्तानि भक्ष्यानि आनयित्रीः परिवेशयित्रीश्च । इदमस्वादु इदं स्वादु इति । इयमनिपुणेयं निपुणाच निन्दन् प्रशंसंश्च नर्मणा सह युखवैकृतै स्ताः सर्वा राधिकादीर् हासयामास ॥१३४॥

कर्पूर-वासितं तोयं पपुस् तेऽत्र यथा-सुखम् ।
ततश् चाचचमुस् तोयैः सखी-दत्तैः सुवासितैः ॥१३५॥

ते यथासुखं सुवासितं तोयं पपुः । सखीदत्तै स्तादृशै स्तोयैराचचमुश्च ॥१३५॥

यातस् ततः स हरिर् अम्बुज-मन्दिरान्तः
शेतेऽत्र सत्-कुसुम-कल्पित-तल्प-मध्ये ।
ताम्बूल-दान-पद-लालन-बीजनाद्यैस्
तत्र प्रियालिभिर् अमुं तुलसी सिषेवे ॥१३६॥

स हरिस्ततः श्रीपद्ममन्दिरादम्बुजमन्दिरास्तः वायव्यां दिशि भाति । अष्टदलकुञ्जाम्बुजं दलमित्युक्तस्य श्रीललिताकुञ्जवायूकोणकुञ्जस्य मध्यं । किम्वा सलिल-कमलसद्मेत्युक्तस्य श्रीमदनमञ्जर्याः कुञ्जस्य मध्यं यातः । सत्कुसुमैः कल्पितस्य तल्पस्य मध्ये शेते । तत्र प्रियालिभिः सह तुलसी ताम्बूलादिभिरमुं श्रीकृष्णं सिषेबे ॥१३६॥

ताम्बूल-वीटिकाम् अश्नन् तत्-पद्म-याम्य-कुट्टिमे ।
शेते शीतल-शय्यायां सुबलेन समं बटुः ॥१३७॥

तत्तस्य कृतभोजनस्य पद्ममित्येकदेशग्रहणे सर्वग्रहणमिति पद्ममन्दिरस्य । पद्मेति पाठेतु तदेवार्थः । तस्य दक्षिणे कुट्टिमे सुबलेन सह वटुः शेते ॥१३७॥

श्री-राधिकाथ सगणा मुदितोपविष्टा
कान्ताधरामृततया परिवाञ्छितानि ।
श्री-रूप-मञ्जरिकया च वनेशया च
भक्ष्याणि तानि बुभुजे परिवेशितानि ॥१३८॥

अथानन्तरं श्रीराधा सगणा श्रीललिताविशाखादिसखीगणयुक्तोपविष्टा सती श्रीरूपमञ्जरिकया वृन्दयाच परिवेशितानि तानि भक्ष्याणि बुभुजे । कीदृशानि ? कान्तस्याधरामृतत्वेन परिवाञ्छितानि ॥१३८॥

तत्र नान्दी-कुन्दवल्ल्योः सखीभिर् नर्म-विस्तृतिः ।
आलीवासाम् अभूत् सग्धि-सुखस्य परिवेशिका ॥१३९॥

तत्र नान्दीकुन्दवल्ल्योर् नर्मविस्तृतिरालीव सखीवत् सखीभिः सहासां श्रीराधादीनां सग्धिसुखस्य सहभोजनसुखस्य परिवेशिकाभूत् आसां नर्मजन्या सह भोजनजन्याच सुखवृत्तिरभूदित्यर्थः ॥१३९॥

अथाचम्याययुः सर्वाः श्री-पद्म-मन्दिरान्तरम् ।
तल्पे राधा सखी-पालिः परितः समुपाविशत् ॥१४०॥

सर्वा आचम्य पद्ममन्दिरमध्यं ययुः । राधा तल्पे समाविशत् । सखीपालिः परितः समुपाविशत् ॥१४०॥

ताम्बूल-चर्वितं ताभ्यः श्री-हरेस् तुलसी ददौ ।
नान्दीमुख्यै धनिष्ठायै कुन्दवल्ल्यै च वीटिकाः ॥१४१॥

हरेस्ताम्बुलचर्वितं तुलसी ताभ्यो राधादिभ्यः नान्दीमुखीधनिष्ठाकुन्दलताभ्यो वीटिकां ददौ ॥१४१॥

ततः सा तुलसी रूप-मञ्जरी च वनेश्वरी ।
भक्ष्याण्य् उर्वरितान्य् आदुः सेविकाली-चयैः समम् ॥१४२॥

तुलस्याद्याः सेविकानिचयैः सह उर्वरितानि अवशेषाणि भक्ष्याणि आदुः ॥१४२॥

तासु भुक्त्वागतास्व् अत्र सख्यस् तत्-पूर्व-कुट्टिमे ।
निर्गत्य सुषुपुः सर्वा नान्दीमुख्य्-आदयश् च ताः ॥१४३॥

भुक्त्वा तासु सेविकालीषु आगतासु सख्यो नान्दीमुख्यादयश्च निर्गत्य तत्पूर्वकुट्टिमे सुषुपुः ॥१४३॥

ततः श्री-राधिका ताभ्यो ददौ ताम्बूल-चर्वितम् ।
वृन्दायै वीटिकां सा च ताम् अदन्ती बहिर् ययौ ॥१४४॥

राधा ताभ्यो रूपमञ्जर्यादिभ्य स्ताम्बुलचर्वितं ददौ वृन्दाये वीटिकां ददौ । वृन्दा तां वीटिकां आदन्ती बहिर्ययौ ॥१४४॥

कृष्णः कान्तां तां समाकृष्य ह्रीणां
हासं हासं यत्नतः स्वाननाब्जात् ।
ताम्बूलीयं चर्वितं तन्-मुखाब्जे
न्यस्यन् हृष्यन् शाययामास पार्श्वे ॥१४५॥

कृष्णः ह्रीणां तां राधां हासं हासं यत्नतः समाकृष्य तन्मुखे स्वमुखात्ताबुलचर्वितं नस्यान् हृष्यन् सन् पार्श्वे शाययामास ॥१४५॥

श्री-रूप-मञ्जरी-मुख्य-सखीभिर् वीजनादिभिः ।
सेवितौ तौ क्षणं तत्र निद्रा-सुखम् अवापतुः ॥१४६॥

तौ राधाकृष्णौ ॥१४६॥

इति श्रीगोविन्दलीलामृते मध्याह्नलीलायं पञ्चदशः सर्गः समाप्तोऽभूत् । इति सदानन्दविधायिन्यां पञ्चदशसर्गार्थः ॥१५॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः पञ्चदशाभिधोऽयम् अगमन् मध्याह्न-लीलाम् अनु ॥

॥१५॥ …

(१६)