१४

चतुर्दशः सर्गः

अथालि-वर्गानन-सौरभाहृतस्
ताभिर् मुखाब्जेषु पतन् निवारितः ।
विन्दन् स राधा-वदनाम्बुजं रुवंस्
तद्-गन्ध-मत्तः परितोऽलिर् अञ्चति ॥१॥

अथालि-वर्गाणाम् आनन-सौरभेणाहृत आकृष्टोऽलिः आलीनां मुखाम्बुजेषु पतन् ताभिर् आलिभिर् निवारितः सन्, सोऽली राधा-मुखाम्बुजं तद्-गन्ध-मत्तो रुवन् परितोऽञ्चति ॥१॥

नेत्रान्तोद्धुवनैश् च कङ्कण-झनत्कारोर्मि-सन्तर्जनैस्
त्रासाद् दोलित-पाणि-पद्म-धुवनैः क्षिप्तोऽपि भृङ्गो यदा ।
लोभान् नापससार तर्ह्य् अपसृता श्री-राधिका श्री-हरेः
संव्यानाञ्चल-संवृतास्य-कमला पार्श्वे निलीय स्थिता ॥२॥

श्री-राधिका त्रासान् नेत्रान्तोद्धुवनैस् तथा कङ्कण-झनत्कारोर्मिभिः सह सन्तर्जनैस् तथा दोलित-पाणि-पद्म-धुवनैः क्षिप्तोऽपि भ्रमरो यदा लोभात् न अपससार, तदा अपसृता पलायिताराधा संव्यानम् उत्तरीय-वस्त्रं तस्याञ्चलावृत-मुखी कृष्ण-पार्श्वे निलीय स्थिता ॥२॥

तस्मिन् गते पद्म-वनीम् अलौ चले
ताम् आहुर् आल्यः सखि मा भयं कुरु ।
निवारितोऽस्माभिर् असौ रुवन् शठः
पद्मालिम् उत्को मधुसूदनो गतः ॥३॥

तस्मिन् चले चञ्चले अलौ भ्रमरे पद्म-वनीं गते सति आल्यस् तां राधाम् आहुः—हे सखि ! भयं मा कुरु । अस्माभिर् वारितो मधुसूदनोऽपि पद्मालिं गतः ॥३॥

आढ्यं-करण्या सुभगं-करण्या
स्थूलं-करण्या प्रणयोच्च-लक्ष्म्या ।
अन्धं-करण्या दयितं पुरस्थं
नान्धीकृतासाव् अनुसन्दधे तम् ॥४॥

सखीभिर् मधुसूदनो भ्रमरः पद्म-श्रेणीं गतः इत्य् उक्ते राधा तु मधुसूदनः कृष्णः पद्मालिं चन्द्रावलीं गत इतीति बुद्ध्वा । प्रणयस्योच्च-लक्ष्म्या कीदृश्या ? आढ्यं घनान्वितं करण्या सुभगं स्थूलम् अन्धम् अन्धीकृता सा राधा पुरस्थं तं दयितं कृष्णं न अनुसन्दधे ॥४॥

तावत् कृष्णेन ताः सख्य इङ्गित-ज्ञेन वारिताः ।
तत्-पक्षं जगृहुः सख्या विस्मिताः प्रेम-चेष्टितैः ॥५॥

सख्या राधायाः प्रेम-चेष्टितैर् विस्मिताश् च । तावत् समये ताः सख्यः कृष्णेन वारिताः । कीदृशेन कृष्णेन ? इङ्गितज्ञेन । इङ्गिते नेत्रान्त-क्रियायां ज्ञः पण्डितस् तेन इति विशेषणाद् इङ्गितेन वारिता इति बोध्यम् । यद् वा, इङ्गितम् एव ज्ञः स्व-क्रिया-कुशलस् तेनेति करणेन वारिताः । इङ्गितेनैव वारिता इति पाठः सुबोधः । तत् तस्य कृष्णस्य पक्षं जगृहुः, अत्रैव कृष्णोऽस्तीति उक्त्वा राधां न निवारयामासुः ॥५॥

प्रेम-वैचित्त्य-विभ्रान्ता कान्ता कान्तान्तरं गतम् ।
कान्तं मत्वा ततोऽभ्येत्य रुष्टा प्राह धनिष्ठिकाम् ॥६॥

प्रेम्णा वैचित्त्यं विचित्तता तेन विभ्रान्ता भ्रान्ति-युता कान्ता राधा कान्तं कृष्णं कान्तान्तरं चन्द्रावलीं गतं मत्वा रुष्टा ततोऽभ्येत्य धनिष्ठिकम् आगत्य ताम् आह ॥६॥

धनिष्ठे धृष्टस् ते क्व् अनु कपट-नाटीनटि नटस्
त्वद्-अर्थं स्व-प्रेयान् कुसुमम् अवचेतुं सखि गतः ।
गतोऽयं पद्मालीं कपटिनि स ताम् आनयति चेद्
भविष्यत्य् अप्य् एषा तव मुख-रुचा निर्जित-रुचिः ॥७॥

धनिष्ठे ! धृष्टस् ते क्व् अनु कपट-नाटी-नटि ! नटस् त्वद्-अर्थं स्व-प्रेयान् कुसुमम् अवचेतुं सखि गतः । गतोऽयं पद्मालीं कपटिनि स ताम् आनयति चेद् भविष्यत्य् अप्य् एषा तव मुख-रुचा निर्जित-रुचिः ॥७॥

दोषोऽत्र ते नास्त्य् अहम् एव मूढा
श्रुत्वापि यातं गहने स-शैब्यम् ।
विश्रभ्य वाण्यां तव कूट-दूत्या
यदागता तस्य शठस्य पार्श्वम् ॥८॥

श्री-राधाह—ते दोषो नास्ति । गहने स-शैब्यं यातं तत् श्रुत्वापि कूट-दूत्यास् तव वाण्यां विश्रभ्य शठस्य तस्य पार्श्वम् आगताहम् एव भ्रान्ता ॥८॥

धनिष्ठैषाप्य् अस्मद्-धृदय-सदृशी वञ्चयति नः
स चाप्य् अस्मान् अस्यन् विलसति तया मत्-प्रिय-वने ।
इदं चाप्य् अस्माकं नयन-विषयं सम्प्रति गतं
चिरं जीवेद् योऽस्मिन् जगति स हि वा पश्यति न किम् ॥९॥

अतिदुःखेन काम् अप्य् अनालोक्याधो-मुखी चिन्ताकुला सत्य् आह—धनिष्ठैषेत्य्-आदि श्लोक-द्वयम् । अस्मद्-धृदय-सदृशी एषा धनिष्ठापि नोऽस्मान् कृष्णोऽप्य् अस्मान् अस्यन् क्षिपन् अस्मान् त्यक्त्वा इत्य् अर्थः । तया पद्माल्या सह मत्-प्रिय-वने विलसति । इदं च मम कुञ्ज-मध्ये मम प्रतिपक्षया मत्-प्रियस्य रमणम् अस्माकम् अपि नयन-विषयं गतं प्राप्तम् । इह जगति चिर-जीवि-जनः किं वा, न हि पश्यति । अतो मरणम् एव श्रये इति भावः ॥९॥

इदं किं सोढव्यं भवति यद् अयं मत्-प्रिय-सरो-
निकुञ्जे पद्मालीं क्वचिद् अपि निधायात्र निभृतम् ।
समानाय्याप्य् अस्मान् क्षणम् अहह सन्दर्श्य शठ-धीर्
मुधालापारम्भं न इह स विहायागमद् अमूम् ॥१०॥

नन्व् एवं किम्-अर्थं वदसि चेत्, तत्राह—अहह इति खेदे । अयं कृष्णः अत्र मत्-कुण्डस्य कुञ्जे क्वापि निगूढ-स्थाने पद्मालीं निभृतं निधाय स्थापयित्वा अस्मान् समानाय्य क्षणं मुधालापारम्भं सन्दर्श्य आचरित्वा । शठ-धीर् नोऽस्मान् विहाय त्यक्त्वा अमूं पद्मालीम् अगमत् । यद् इदं किं सोढव्यं भवति ? न सोढव्यम् इति भावः ॥१०॥

ललिता प्राह तद्-धार्ष्ट्यं मया दृष्टं मुहुः सखि ।
नावैषि सरला तत् त्वम् एहि यामः स्व-मन्दिरम् ॥११॥

कृष्णस्य धार्ष्ट्यं मया मुहुः दृष्टम् । सरला त्वं न जानासि । एहि स्व-मन्दिरं यामः ॥११॥

इति तां ललिता-पाणौ धृत्वा चक्रे गृहोन्मुखीम् ।
सापि तद्-विरहाद् भीता दीनार्तोत्का जगाद ताम् ॥१२॥

इत्य् उक्त्वा ललिता-पाणौ धृत्वा तां राधां गृहोन्मुखीं चक्रे । सा राधापि तद्-विरहाद् भीता, अत एव दीनार्ता उत्कण्ठिता सती तां ललितां जगाद ॥१२॥

दृष्टान् दोषान् न गृह्नाति चिन्तयत्य् असतो गुणान् ।
दिदृक्षते तादृशं तं वामं चेतः करोमि किम् ॥१३॥

असतोऽविद्यमानान् अपि गुणान् चिन्तयति । दृष्टान् अपि दोषान् न गृह्नाति । तत्र हेतुम् आह—वामं चेतः तादृशम् उक्त-प्रकारं तं कृष्णं दिदृक्षते । अत्र किं करोमि ? ॥१३॥1

स्त्री-ततेर् न क्वचित् कामजाप्य् उर्जिता
लालसा-वल्लरी दृश्यते बाह्य-गा ।
षष्ठिका-धान्य-जातेर् इवेतीरिता
सा तया तां सखीं राधिका व्याहरत् ॥१४॥

षष्ठिका-धान्य षाठी-धान इति प्रसिद्धं तस्य जातेर् धानं पक्वम् अपि यथा पत्रावृतं तिष्ठति, न बहिर् गतं भवति, तथा स्त्री-ततेर् कामजा कामजन्या उर्जिता वर्धितापि लालसा-वल्लरी न क्वचिद् अपि बाह्य-गा भूत्वा न दृश्यते । इति सञ्चिन्त्य तया ललितया ईरिता—सखि ! निज-हृदय-वृत्तिं कथयेति प्रेरिता सती सा तां राधिका-सखीं ललितां व्याहरत् अवदत् ॥१४॥

त्यज व्यर्थां नारी-चय-नय-कथां कर्ण-तुदनीं
विनिर्यान्ति प्राणाः स्फुटति मम हृद् घूर्णति वपुः ।
व्रजेन् नाशं मानो व्रजतु महिमा ह्रीश् च स-धृतिः
सखि त्वां वन्दे हा हृदय-दयितं दर्शय लघु ॥१५॥

किम् आह ? व्यर्थां नारी-समूहस्य नीति-कथां कर्ण-तुदनीं कर्ण-व्यथा-करीं त्यज । कर्ण-व्यथायां हेतुम् आह—प्राणाः विनिर्यान्ति, हृत् स्फुटति, वपुः घूर्णति । एवं चेत् मानादिर् न स्थास्यति, तत्राह—मानो नाशं व्रजेत्, विध्य्-अर्थे लिङ्, व्रजत्व् इत्य् अर्थः । धृत्या सह महिमा महत्त्वं ह्रीर् लज्जा च व्रजतु दूरीभवतु । हा इति कष्टे । हे सखि ! त्वां वन्दे लघु शीघ्रं हृदय-दयितं कृष्णं दर्शय ॥१५॥

सारल्यं ते विविध-रमणी-लम्पटो धृष्ट-भूपश्
चापल्यं चाप्य् अनुपमम् इदं क्वापि रामास्व् अदृष्टम् ।
आलोक्येतोऽप्य् अधिकम् अहहो वञ्चयिष्यत्य् असौ त्वां
त्वच्-चारित्रैर् वयम् इह हताः किं पुनर् हंसि वास्मान् ॥१६॥

श्री-ललिताह—स धृष्टानां राजा, तत्रापि विविध-रमणी-सुलम्पटः । ते सारल्यम् ऋजुतां, तथा ते चापल्यं च रामासु क्वाप्य् अदृष्टम् अनुपमं चालोक्यासौ कृष्णस् त्वाम् इतोऽप्य् अधिकं वञ्चयिष्यति । त्वच्-चरित्रैः स्वार्थेऽण्, तव चरित्रैर् हता वयं किं वा पुनर् अस्मान् हंसि ॥१६॥

इतोऽपि का सास्त्य् अधिकात्र वञ्चना
यया शठोऽस्मान् स कदर्थयिष्यति ।
इत्य् आलपन्ती प्रियम् ऐक्षताग्रतः
सालिङ्ग्य काञ्चिद् दयितां समागतम् ॥१७॥

इति श्रुत्वा श्री-राधातिकातरा सत्य् आह—इतोऽपीति पद्यार्धम् । इतोऽप्य् अधिका सा का वञ्चनास्ति, यया वञ्चनया स अस्मान् अतोऽधिकं कदर्थयिष्यति ? इत्य् आलपन्ती सती सा राधा अग्रतः काञ्चिद् दयिताम् आलिङ्ग्य समागतं प्रियं श्री-कृष्णम् ऐक्षत ॥१७॥

तां वीक्ष्य पश्चाद् दयितोपगूढां
स्व-सम्मुखीनां प्रतिकुर्वतीं स्वम् ।
पद्मा-सखीत्वेन विनिर्णयन्ती
ह्रियेर्ष्यया सा विमुखी चकम्पे ॥१८॥

तां दयिताम् आलिङ्गितां नायिकां कीदृशीं ? पश्चात् पृष्ठ-देशे दयितेनालिङ्गिताम् । श्री-कृष्णस्याङ्गे स्व-प्रतिबिम्बस्य तथैव दर्शनात् । अत एव स्व-सम्मुखीनां स्व-सम्मुखे स्थितानां स्वं प्रति कुर्वतीं स्व-सदृश-चेष्टां कुर्वति तां वीक्ष्य सा राधा पद्मा-सखीत्वेन विनिर्णयन्ती ह्रियेर्ष्यया विमुखी सती क्रोधेन चकम्पे ॥१८॥

वल्गूयन्तीं समीक्ष्यामूं मन्तूयन्तीह राधिका ।
सा कुन्दलतयाभाषि कृष्णेनेरितया दृशा ॥१९॥

वल्गूयन्तीं विराजतीम् अमूं दयित-वक्षो-लग्नां समीक्ष्य मन्तूयन्ती रुष्यन्ती सती सा राधा इह समये कृष्णेन दृशा ईरितया कुन्दलतयाभाषि । वल्गू पूजा-माधुर्ययोः । माधुर्यं शोभा, मन्तु रोषे, एतौ कण्ड्व्-आदि-धातुः ॥१९॥

कान्तं द्रष्टुं समुत्का त्वम् आगतं तं समुत्सुकम् ।
द्रुतं मिल कथं जातास्य् अकस्माद् विमुखी रुषा ॥२०॥

हे सखि ! कान्तं कृष्णं द्रष्टुम् उत्कण्ठिता त्वं त्वां द्रष्टुम् उत्सुकम् आगतं तं द्रुतं मिल । कस्मात् हेतोः रुषा विमुखी जातासि ? ॥२०॥

साप्य् आह तां हरेर् वक्षस्य् अमूं किं त्वं न पश्यसि ।
यां प्रदर्शयितुं गेहाद् आनीताहं त्वया शठे ॥२१॥

सा राधा ताम् आह—हरेर् वक्षसि अमूं पद्मालिं किं न पश्यसि ? हे शठे ! यां कृष्ण-वक्ष-स्थां पद्मालिं प्रदर्शयितुम् अहं त्वया गेहाद् आनीतास्मि ? ॥२१॥

कृष्णाब्रवीद् यां मनुसे न सैषा
काप्य् आगतैकात्र मयानुयुक्ता ।
राधा-वयस्या वन-देवतास्मीत्य्
उक्त्वा बलान् मां परिरभ्य सास्ते ॥२२॥

श्री-राधं कृष्ण आह—हे राधे ! यां मनुसे एषा सा पद्माली न, एषा काप्य् अनिर्वचनीया एका सत्य् आगता मया अनुयुक्तादृष्टैव, “अहं राधा-सखी वन-देवता” इत्य् उक्त्वा बलान् मां परिरभ्यालिङ्ग्यात्र मद्-वक्षसि सास्ते ॥२२॥

आलिङ्ग्य सञ्चुम्ब्य च मां स्व-विद्यया
पृष्ठेन लग्नोरसि मे तथासकौ ।
यथा न निःसारयितुं क्षमोऽस्म्य् अमूं
स्वयं च निःसर्तुम् अपि प्रयत्नतः ॥२३॥

असकौ वन-देवतां माम् आलिङ्ग्य सञ्चुम्ब्य च स्व-विद्यया मे उरसि पृष्ट्ःएन पृष्ठ-देशेन तथा लग्ना यथाहम् अमूं देवतां प्रयत्नतोऽपि निःसारयितुं न क्षमोऽस्मि । स्वयं चासौ प्रयत्नतोऽपि निःसर्तुं समर्था न भवति ॥२३॥

प्रार्थितापि मया नैषा मां जहात्य् अतिकामुकी ।
वारयैनां निज-सखीं बलान् मां पीडयत्य् असौ ॥२४॥

एषा मां न जहाति । एनां वारय ॥२४॥

लग्नायां ललितायां तच् छ्रुतौ सासीद् अधो-मुखी ।
स-कृष्णा जहसुः सभ्याः कुन्दवल्ली जगाद ताम् ॥२५॥

तत् तस्याः राधायाः श्रुतौ कर्णे ललितायां लग्नायां कृष्णाङ्गे तवैव प्रतिबिम्बं चन्द्रावली न इति कथयन्त्यां सत्यां सा राधाम् अधो-मुखी आसीत् । स-कृष्णाः सभ्याः सख्यो जहसुः । कुन्दलता राधां जगाद ॥२५॥

नैवाक्षि-लग्नं दयितं विलोकसे
छायां निजाम् अन्य-जनीं च मन्यसे ।
सर्वत्र चन्द्रावलिकां विशङ्कसे
चित्रं तवेदं प्रणयाख्य-नर्तनम् ॥२६॥

नेत्र-गोचरं कृष्णं न विलोकसे निजां छायाम् अन्यां मन्यसे ॥२६॥

तथाह वृन्दा व्रज-मङ्गलाकरा
वालेप-चित्रै रुचिरां सुविस्तृताम् ।
वसन्त-लीलोत्सव-रङ्ग-वेदिका-
स्थलीम् इमां पश्यतम् अग्रतः स्थिताम् ॥२७॥

हे व्रज-मङ्गलाकराः ! आलेपानाम् अगुरु-प्रभृतीनां चित्रैर् नाना-विधै रुचिराम् अग्रतः स्थितां वसन्त-लीलोत्सवस्य रङ्गो यत्र तां वेदिका-स्थलीं पश्यतम् ॥२७॥

अगुरु-घुसृण-कस्तूरीन्दु-सच्-चन्दनानां
पृथग् अपृथग् उदञ्चत्-कर्दमाम्भः-प्रपूर्णैः ।
विविध-मणि-चिताम्बु-क्षेप-यन्त्रैर् विराजद्-
वितत-वदन-कुम्भैर् अन्वितां शातकुम्भैः ॥२८॥

वेदीं कीदृशीं ? अगुरु-केशरादीनां पृथग् अभिन्नम् अपृथङ् मिश्रितं च यथा तथा उदञ्चतः कर्दमस्य जलेन प्रपूर्णैः शातकुम्भैः स्वर्ण-कृतैर् विविध-मणि-निर्मिताम्बु-क्षेप-यन्त्रैर् विराजन्ति तेषां संयोगाद् अतिशोभमानानि विततानि विस्तृतानि वदनानि झटिति जल-ग्रहणार्थं येषां तैः कुम्भैर् अन्विताम् ॥२८॥

सैन्दूर-कार्पूरक-पौष्प-कन्दुकैः
शरासनैर् बाण-चयैश् च कौसुमैः ।
ताम्बूल-माल्यैः कुसुमाम्बु-चन्दनैर्
आपूर्ण-सौवर्णक-भाजनैर् युताम् ॥२९॥

सिन्दूरादि-कृतैस् त्रिविधैः कन्दुकैस् तथा पुष्प-कृत-धनुर्-बाणैस् तथा ताम्बूलैर् माल्यैः कुसुमैर् अम्बुभिश् चन्दनैर् एतैर् भोग-योग्यैः पञ्चभिश् चापूर्णैः स्वर्ण-पात्रैर् युतां वेदीम् ॥२९॥

कर्पूर-कुङ्कुम-मदागुरु-चन्दनानां
पङ्कैश् च चूर्ण-निकरैर् अतिपूरिताभिः ।
श्वासाभिलव्य-मृदु-जातुष-कूपिकाभिर्
आपूर्ण-हैम-तत-भाजन-वृन्द-युक्ताम् ॥३०॥

कर्पूरादीनां पङ्कैः चूर्ण-निकरैश् च काश्चित् पङ्कैः काश्चित् चूर्णैर् इति भेदेनातिपूरिताभिः श्वासेनापि अभिलव्या भेद्याः शोष्या वा भेत्तुं शोषयितुं वा शक्याः । मृद्व्यः कोमलाश् च या जातुष्यो जतु-निर्मिताः कूपिकास् ताभिर् आपूर्णानां स्वर्ण-कृत-विस्तृत-भाजनानां वृन्दैर् युक्ताम् ॥३०॥

आरुह्य तां श्री-रमणी-चयो भवंस्
तदैकतः श्री-रमणोऽप्य् अथैकतः ।
गृहीत-तत्-तज्-जल-यन्त्रकादिकः
परस्परं प्रेम-भराद् अरीरमत् ॥३१॥

श्री-रमणी-समूहस् तां वेदिका-स्थलीम् आरुह्य एकतो भवन् सन् श्री-कृष्णोऽपि ताम् आरुह्य एकतो भवन् सन् गृहीतं तत्-तत्-पूर्वोक्त-जल-यन्त्रकादिकः, आदि-शब्देन कर्पूरादि-पङ्क-पूरित-चूर्ण-पूरित-द्विविध-जातुष्यः कुप्यश् च, एतत् सर्वं क्रीडा-योग्यं वस्तु येन स नारी-चयो रमणश् च प्रेमातिशयात् परस्परम् अरीरमत् ॥३१॥

विधृत-लघु-सितांशुकौ रम्य-ताम्बूल-पूर्णाननौ
रति-पति-रण-यान्त्रिकत्वं गतौ तोय-यन्त्रैर् धृतैः ।
चल-निशित-कटाक्ष-कन्दर्प-नाराच-वृष्ट्या समं
विसृजत इह यन्त्र-मुक्ताम्बु-वृष्टिं मुदा तौ मिथः ॥३२॥

तौ श्री-रमणी-गण-रमणौ । विधृतं लघु शुक्ल-वर्णम् अंशुकं वस्त्रं याभ्यां तौ । रम्याणि ताम्बूल-पूर्णानि आननानि ययोस् तौ । धृतैस् तोय-यन्त्रै रति-पतेः कामस्य रण-यान्त्रिकत्वं गतौ । चञ्चल-कटाक्षा एव कन्दर्पस्य नाराचा बाणाः, तेषां वृष्ट्या समं यन्त्र-मुक्ताम्बु-वृष्टि विसृजतः ॥३२॥

क्लिन्नातिसूक्ष्म-वसनान्तर्-उदीर्ण-तत्-तद्-
अङ्गावली-मधुरिमामृत-सत्-प्रवाहैः ।
संसिक्त-कान्त-नयनाब्ज-मनस्-तटीकास्
तस्यापि तैर् अतिनिषिक्त-वितृप्त-नेत्राः ॥३३॥

तत्र श्री-राधादि-व्रज-सुन्दरीणां क्रीडा-सौष्ठवं वर्णयति चतुर्भिः । ताः कथं-भूताः ? क्लिन्नातिसूक्ष्म-वसनस्य अन्तर् मध्ये उदीर्णाङ्गावलीनां मधुरिमामृतस्य सत्-प्रवाहैः संसिक्त-कान्तस्य नयनाब्जे मनस्तटीका याभिस् ताः । तस्य कान्तस्य तैस् तादृशामृत-सत्-प्रवाहैर् अतिनिषिक्तानि वितृप्तानि अतृप्तानि विशेषेण तृप्तानि नेत्राणि यासां ताः ॥३३॥

ताम्बूल-चर्वित-दरोच्छ्वसितैक-गण्डाः
क्लिन्नालकालि-वृत-घर्म-जलाञ्चि-भालाः ।
विस्रस्त-केश-विगलत्-कुसुमावलिका
लोलत्-कचांस-युग-चारु-कुचांश-मध्याः ॥३४॥

ताम्बूल-चर्वितेन दरोच्छ्वसितं स्वल्पोच्चम् एकं गण्डं यथान् ताः । क्लिन्नालकाभिर् वृतं च तद्-घर्म-समूहेनाञ्चि युक्तं च भालं कपालं यासां ताः । विस्रस्त-केशेभ्यो विगलन्ती कुसुमावली यासां ताः । लोलन्तश् चलन्तः कचाः केशा अंस-युगे स्कन्ध-युगे चारु-कुचांशे कुचयोर् उपरि-भागे मध्ये च यासां ताः ॥३४॥

वासोऽञ्चलीं विविध-गन्ध-सुचूर्ण-पूर्णां
काञ्च्यां तिरःसुदृढ-शृङ्खलितां दधानाः ।
कन्दर्प-दीपन-सनर्म-मनोज्ञ-गानाः
कृष्णाभिषिक्त-निज-गुप्तिषु सावधानाः ॥३५॥

विविध-गन्ध-द्रव्याणां सुचूर्णैः पूर्णां वासोऽञ्चलीं परिहित-वस्त्र-प्रान्त-भागम् । कीदृशीं ? काञ्च्यां तिरो-भूत्वा वक्री-भूय सुदृढ-शृङ्खलितां सुदृढ-बद्धां दधानाः । कन्दर्पस्य दीपनं यस्मात् ।तथा-भूतं नर्म-सहितं मनोज्ञं गानं यासां ताः । कृष्णस्याभिषिक्तस् ताभ्यो निज-गुप्तिषु स्व-रक्षासु सावधानाः ॥३५॥

नाना-प्रकार-पट-वास-चयान् क्षिपन्त्यः
पौष्पादि-कन्दूक-गणान् मृदु-कूपिकाश् च ।
प्रेम्णा सुगन्ध-सलिलैर् जल-यन्त्र-मुक्तैः
श्री-राधिका-प्रभृतयः सिषिचुः स्व-कान्तम् ॥३६॥

एवं-भूताः श्री-राधिका-प्रभृतयो नाना-प्रकार-पट-वासस्य सुगन्ध-चूर्णस्य चयान् । पौष्प-सैन्दूरादि-कन्दूक-गणान् मृदु-जातुष-कूपिकाश् च क्षिपन्त्यः सत्यो जल-यन्त्र-मुक्तैः सुगन्ध-सलिलैः प्रेम्णा स्व-कान्तं सिषिचुः ॥३६॥

अंसालम्बित-पौष्प-कार्मुक-लतां बाणावलीं कौसुमीं
वंशीं चातुल-तुन्द-बन्ध-निहितां रत्नाम्बु-यन्त्रं करे ।
बिभ्रत् श्री-घटिकाण्चलं च निभृतं पिष्टातकैः श्री-हरिः
कान्ता-यन्त्र-विमुक्त-गन्ध-सलिलैः सिञ्चन्न् इमा दिव्यति ॥३७॥

श्री-हरिः अंसे स्कन्धे आलम्बितं पुष्प-धनुर् बिभ्रत् । अतुल-तुन्द-बन्धे तुलना-रहित-जठर-पट-बन्धे कौसुमीं कुसुम-कृतां बाणावलीं वंशीं च बिभ्रत् करे । रत्नाम्बु-यन्त्रं रत्न-निर्मितं पिचकारीति ख्यातं बिभ्रत् । पिष्टातकैः सुगन्ध-चूर्णैर् निभृतं पूर्णं श्री-युक्त-घटिकां चलं च बिभ्रत् । यन्त्र-विमुक्त-गन्ध-सलिलैर् इमाः कान्ताः सिञ्चन् दीव्यति क्रीडत् ॥३७॥

एकास्य निःसरति या जल-यन्त्र-धारा
व्योमाध्वनीह शतधा च सहस्रधा च ।
आसन्न-पात-समये किल लक्षधासौ
लक्ष्येषु पात-समये बत कोटिधा स्यात् ॥३८॥

अस्य कृष्णस्य या जल-यन्त्र-धारा जल-यन्त्रान् निःसृता जल-धारा । किं वा, यन्त्रस्य जलं जल-यन्त्रं राज-दन्तादिवत्, तस्य यन्त्र-जलस्य धारा । एका सती निःसरति सा धारा व्योमाध्वनि आकाश-मार्गे शतधा च ततः सहस्रधा च स्यात् । असौ धारा आसन्न-पात-समये पतन-पूर्व-क्षणे लक्षधा स्यात् । लक्ष्येषु पात-समये श्री-व्रजाङ्गनानाम् अङ्गेषु पतन-समये सा धारा कोटिधा स्यात् । मथुरायां जरासन्ध-सेनायां श्री-कृष्णस्य शर इव ज्ञेयम् । शरादि-क्षेपोद्देश्यं लक्ष्यम् ॥३८॥

जातुष्यो या गन्ध-चूर्णैः प्रपूर्नाः
क्षिप्तास् ताभिस् तेन वा कूपिकास् ताः ।
भूमौ पेतुः क्षेप-वेगैर् विशीर्णास्
तन्-मध्य-स्था गोलिका लक्ष्यम् आपुः ॥३९॥

ताभिः श्री-राधिकादिभिः । तेन श्री-कृष्णेन वा क्षिप्ता या गन्ध-चूर्णैः प्रपूर्नाः जातुष्यः कूपिकास् ताः क्षेप-वेगैर् विशीर्णाः भूमौ पेतुः । तन्-मध्य-स्थाः सिन्दूरादि-गोलिका लक्ष्यं श्री-कृष्णस्याङ्गं च परस्परम् अवापुः ॥३९॥

तासां तनौ कुङ्कुम-बिन्दु-जाल-
मध्ये विराजन् मद-बिन्दवस् ते ।
सुवर्ण-वल्ली-तति-पुष्प-वृन्द-
सुप्तालि-सङ्घ-भ्रमम् उन्नयन्ति ॥४०॥

श्री-कृष्णस्य जल-यन्त्रादिभिः कुङ्कुमानां क्षेपेऽचिन्त्य-कौशलम् उक्त्वा जातुष-कूपिका-क्षेपणेऽप्य् अचिन्त्य-कौशलम् आह । तासां श्री-राधिकादीनां तनौ कुङ्कुम-बिन्दु-समूह-मध्ये विराजन्तो मृगमदानां ये बिन्दवस् ते । सुवर्ण-लता-तति-सुपुष्प-वृन्देषु सुप्तानाम् अलीनां भ्रमराणां सङ्घस्य समूहस्य भ्रमम् उन्नयन्ति पूर्व्कार्य्२इ । तासां तनुषु स्वर्ण-लता-भ्रमस् तनु-संलग्न-कुङ्कुम-बिन्दुषु पुष्प-भ्रमः कुङ्कुम-बिन्दु-मध्य-संलग्न-मृगमद-बिन्दुषु भृङ्ग-भ्रमश् च जायते । तनु-स्वर्णं लतादीनाम् एकाकारत्वाद् इत्य् अर्थः ॥४०॥

श्री-राधिका-प्रथम-कीर्ण-सुसूक्ष्म-रन्ध्र-
सद्-यन्त्र-कुङ्कुम-जलामल-बिन्दु-जालैः ।
व्याप्तं परिस्फुरति संहननं बकारेर्
उद्यत्-सुधा-किरण-बिम्ब-शतैर् नभो वा ॥४१॥

श्री-राधायाः प्रथम-क्षिप्तैः सुसूक्ष्म-रन्ध्रं छिद्रं यत्र तस्य यन्त्रस्य कुङ्कुम-जल-बिन्दु-समूहैर् व्याप्तं मुरारेः संहननं शरीरम् उदय-समये कुङ्कुम-वर्ण-चन्द्र-किरणैर् नभ इव स्फुरति । वा इवार्थे ॥४१॥

ताः क्षेप-वेग-गलितावृति-कूपिकानां
कर्पूर-नागज-परागज-गोलिकाभिः ।
लग्नाभिर् अङ्ग-वसनेऽथ सुगन्धि-तोयैः
पङ्कत्वम् एत्य विहिताः शवलाङ्ग-भासः ॥४२॥

क्षेपस्य वेगेन गलिता गता आवृत्तिर् यासां तासां कूपिकानां कर्पूर-जन्याभिर् नागजं सिन्दूरं तज्-जन्याभिः पुष्प-धूलि-जन्याभिश् च । किं वा, कर्पूर-सिन्दूराणां परागाश् चूर्णास् तज्-जन्याभिर् गोलिकाभिः । कीदृग्भिः ? सुगन्धि-तोयैः पङ्कत्वं प्राप्य तासाम् अङ्गे वसने च लग्नाभिस् ता राधादयः शवलाङ्ग-भासो विहिताः । अनेकस्य मिलनं शवलम् । अनेक-वर्ण-युता बभूवुर् इत्य् अर्थः ॥४२॥

नाना-वर्णैर् गन्ध-चूर्णैर् विकीर्णैर्
आदौ भूर् द्यौर् व्यानशे दिग् विदिक् च ।
गन्धाम्बूनां वृष्टि-सञ्छिन्न-मूलैर्
लेभे पश्चाच् चित्र-चन्द्रातपत्वम् ॥४३॥

आदौ विकीर्णैः क्षिप्तैर् नाना-वर्णैश् चूर्णैर् भूः पृथिवी द्यौर् आकाशं च दिग्-विदिक् च व्यानशे व्याप्ता बभूवुः । गन्ध-चूर्णैर् भूर् द्यौर् गन्धाम्बूनां वृष्टि-सञ्छिन्न-मूलैर् लेभे पश्चात् यन्त्र-निर्गत-गन्ध-जल-वृष्टिभिः सञ्छिन्न-मूलैस् तैर् गन्ध-चूर्णैश् चित्र-चन्द्रातपत्वं लेभे । तासां मध्ये द्यौर् एवेति ज्ञेयम् ॥४३॥

तं गन्ध-लेपन-चलं प्रियया स्व-हस्त-
स्पर्शोत्थ-कुट्टमितया कलहायमानम् ।
काचित् सुगन्धि-सलिलैर् घटिकात्त-मुक्तैः
सिञ्चन्त्य् उपेत्य निभृतं रमणं चलाक्षी ॥४४॥

स्वस्य कृष्णस्य हस्त-स्पर्शेनोत्थ-कुट्टमिताख्यां भावो यस्यास् तया प्रियया राधया गन्ध-लेपनेन कलहायमानं तं रमणं काचित् चलाक्षी निभृतम् उपेत्य घटिका क्षुद्र-घटस् तत्राद्यैर् आत्तैर् गृहीतैः पश्चात् मुक्तैः सुगन्धि-सलिलैः सिञ्चन्ति ॥४४॥

यका सकाभ्येत्य यतस् ततो वपुष्य्
अवाकिरत् सत्-पट-वासकान् हरेः ।
यकां तकां सोऽप्य् अवरुध्य वक्षसा
तदाननः तैः समरूषयन् पपौ ॥४५॥

यका सका या सा सामान्या यतस् ततोऽभ्येत्य आगत्य हरेर् वपुषि सत्-पट-वासकान् शोभ-सुगन्ध-चूर्णान् अवाकिरत् । स कृष्णोऽपि यकां तकां यां ताम् अपि वक्षसावरुध्य तैः सुगन्ध-चूर्णैस् तस्या आननं समरुषयन् सङ्घर्षयन् पपौ ॥४५॥

राधां किरन्तीं पट-वासकान् मुहुर्
निरोधितां वीक्ष्य बकारिणोरसा ।
सखी-चयेऽकाण्ड-पटायितेऽभितस्
तेनापि पूर्णत्वम् अनायि वाञ्छितम् ॥४६॥

मुहुः पट-वासकान् सुगन्ध-चूर्णान् किरन्तीं राधां बकारिणोरसा निरोधितां वीक्ष्य सखी-जनेऽसमये परितः पटायिते पटम् इवाचरिते सर्व-दिक्षु आवरणी-भूते सति तेन कृष्णेन वाञ्छितं पूर्णत्वम् अनायि ॥४६॥

कृष्णस् तीक्ष्णैर् अतनु-विशिखैर् नर्म-मन्त्र-प्रवीणैस्
तासाम् आसीन् मदन-विवशो विद्ध-मर्मा कटाक्षैः ।
तत्-प्रत्यस्त्रैः स दर-हसितापाङ्ग-लोकाशुगैस् तान्
प्रत्यावर्त्य व्यधद् अथ ता व्याकुलाः सोऽपि शश्वत् ॥४७॥

तासां तीक्ष्णैर् नर्म-मन्त्रेण प्रवीणैः कटाक्षैः कन्दर्प-बाणैर् विद्ध-मर्मा कृष्णो मदन-विवश आसीत् । सोऽपि कृष्णः दर-हसितेन सह कटाक्ष-बाणैस् तत्-प्रत्यस्त्रैस् तान् बाणान् प्रत्यावर्त्य निवार्य उत्तम-नायिकानाम् अयं स्वभावः स्व-कृत-कटाक्षे नायक-कटाक्ष-पाते सति कटाक्षं न करोति, ता राधादयः शश्वत् व्याकुला व्यदधत् सोऽपि कृष्णः शश्वत् व्याकुलोऽभवत् ॥४७॥

मह्यां मेघः स च नर-वपुस् तं च सिञ्चन्त्य् अजस्रं
शम्पास् तस्मात् पृथग्-इत-लसन्-मूर्तयो गन्ध-वाराम् ।
धारा-सारैः सततम् अमुना सिच्यमाना मुदास्मिन्
वृन्दादीनाम् अपिबद् अमृतं नेत्र-वापीह वर्गः ॥४८॥

मह्यां मेघ इति चित्रं स च मेघो नर-वपुर् इत्य् अतिचित्रम् । तं मेघं शम्पा विद्युतोऽजस्रं सिञ्चन्तीति, ततोऽपि चित्रम् । तस्मात् मेघात् पृथग् इताः पृथग् इवाचरिताः पृथग्-भूताः सत्यो लसन्त्यो मूर्तयो यासां ताः शम्पा गन्ध-वारां गन्ध-जलानां धारा-सारैर् धारा-सम्पातैस् तं मेघम् अजस्रं सिञ्चन्तीति ततोऽपि चित्रम् । ताः कीदृश्यः तेन मेघेन तैर् गन्ध-वारां धारा-सारैः सततं सिच्यमानाः सत्यः । अस्मिन् मुदा वृन्दादीनां, नेत्र-वापीह-वर्गः चातक-समूहोऽमृतम् अपिबत् इत्य् अत्र कृष्णो मेघः राधादयः शम्पाः ॥४८॥

क्रीडन्न् इत्थम् असाव् अमूभिर् अगमद् दोलाब्ज-वेद्य्-अन्तिकं
वृन्दा कुन्दलते दृग्-इङ्गित-नयैः कृत्वा सहाये हसन् ।
कान्तायाः कर-पङ्कजात् कृत-पयो-यन्त्रापहारो हरिर्
हिन्दोलाम्बुजम् आरुरोह स हठाद् आच्छिन्न-वेणुस् तया ॥४९॥

असौ हरिः कृष्णोऽमूभिः क्रीडन् हिन्दोल-वेदी-निकटं गत्वा दृग्-इङ्गितैर् वृन्दा कुन्दलते सहाये कृत्वा राधा-करात् कृतं जल-यन्त्रस्यापहरणं येन सः । तया राधया हठाद् आच्छिन्नो बलाद् गृहीतो वेणुर् यस्य ।तथा-भूतः सन् हिन्दोलाम्बुजम् आरुरोह ॥४९॥

अवदद् अथ हसन्ती कुन्दवल्ली त्वम् अस्मै
विसृज सुमुखि वंशी-कुट्टिनीं मा स्पृशामूम् ।
त्वम् अपि सलिल-यन्त्रं स्त्री-धनं माधवास्यै
त्वरितम् इति तयोक्तं तौ विधातुं प्रवृत्तौ ॥५०॥

कुन्दवल्ली अवदत्, हे सुमुखि ! अस्मै कृष्णाय कुट्टिनीं वंशीं विसृज । अमूं वंशीं मा स्पृश यतः कुट्टनीम् । हे माधव ! त्वम् अप्य् अस्यै राधायै स्त्री-धनं जल-यन्त्रं विसृज । तौ तयोक्तं कर्तुं प्रवृत्तौ भवतः ॥५०॥

यच्छन्न् असव्येन करेण यन्त्रकं
सव्येन गृह्नन् मुरलीं तयार्पिताम् ।
ताभ्यां निजाभ्यां स दधार तच्-छलात्
तत्-तद्-युते तत्-कर-पङ्कजे हरिः ॥५१॥

हरिर् असव्येन दक्षिणेन करेण यन्त्रं यच्छन्, सव्येन राधार्पितां मुरलीं गृह्नन् निजाभ्यां ताभ्यां कराभ्यां तच्-छलात् दान-ग्रहण-च्छलात् तत्-तद्-युते यन्त्र-वंशी-युते राधायाः ते कर-पङ्कजे स दधार ॥५१॥

अधस्ताद् वृन्दया कुन्दवल्ल्या चोत्थापितां हरिः ।
दोलाम् आरोहयामास प्रतीपाम् अपि तां बलात् ॥५२॥

अधस्ताद् वृन्दया कुन्दवल्ल्या चोत्थापितां प्रतीपां दोलारोहयणेऽनिच्छावतीम् अपि तां राधां बलात् हरिर् दोलाम् आरोहयामास ॥५२॥

हिन्दोल-मध्यं प्रियया गतेऽच्युते
गायन्त्य उच्चैर् मुदितस् तद्-आलयः ।
पश्चाद् गताः काश्चिद् अथाग्रतः परा
हिन्दोलिकान्दोलनम् उद्वितेनिरे ॥५३॥

हिन्दोल-मध्यं राधा-कृष्णे गते सति आलयः काश्चित् पश्चाद् गताः, परा आग्रतः स्थिता गायन्त्यः सत्यो हिन्दोलिकायाः आन्दोलनम् उद्वितेनिरे कृतवत्यः ॥५३॥

हिन्दोलिकायां सहसालि-वृन्दैर्
आन्दोलितायां बलवच् चलन्त्याम् ।
उद्वेल्लिताङ्गी किल चञ्चलाक्षी
सालिङ्ग्य कान्तं ललना ललम्बे ॥५४॥

सहसा आली-वृन्दैर् आन्दोलितायां तत एव बलवद् अतिचलन्त्यां हिन्दोलिकायाम् उद्वेल्लितानि अतिचालितानि अङ्गानि यस्या सा ललना राधा कान्तम् आलिङ्ग्य ललम्बे तम् आलम्ब्य स्थिता ॥५४॥

तयोर् भ्रश्यत्-कैश्यं मिथ इह चलत्-कुण्डल-युगे
तथा चञ्चत्-काञ्ची-स्तवक-पटलं तत्-समुदये ।
परिम्लायन्-माल्य-द्वयम् अपि चलत्-कङ्कण-वरे
दृढं दोलान्दोले सति सपदि सन्दानितम् अभूत् ॥५५॥

दृढं दोलान्दोले सति तयो राधा-कृष्णयोर् भ्रश्यत् कैश्यं केश-समूहः मिथः परस्परं चलत्-कुण्डल-युगे सन्दानितं संयुक्तम् अभूत् । तथा चञ्चत्-काञ्च्याः स्तवक-पटलं स्तवक-समूहस् तत्-समुदये काञ्ची-समुदये सन्दानितम् अभूत् । परिम्लायन्-माल्य-द्वयं कङ्कण-वरे सन्दानितम् अभूत् ॥५५॥

दोलायाम् अतिलोलायां राधा चञ्चल-लोचना ।
सखी साहाय्यम् इच्छन्ती व्यतर्कि ताभिर् इङ्गितैः ॥५६॥

राधा सखा-सहाय्यम् इच्छन्ती ताभिः सखीभिर् इङ्गितैर् व्यतर्कि ॥५६॥

ताभिर् लोलित-दोलाम् ईशां ताम् अतिलोलाम्
आप्तात्मेप्सित-शस्तां गाढान्दोल-विहस्ताम् ।
स्वालीनां परिचर्यां वाञ्छन्तीं हृदि वर्यां
प्रेङ्खोलीं च मुहुस् ताम् आज्ञायारुरुहुस् ताः ॥५७॥

वितर्कम् आह । ताभिः सखीभिर् मुहुर् लोलिता दोला यस्यास् ताम् ईशाम् ईश्वरीम् आप्तात्मेप्सितेन प्राप्त-स्व-वाञ्छितेन शस्तां प्रशस्ताम् । गाढान्दोलेन विहस्तां व्यग्राम् । हृदि स्व-सखीनां परिचर्यां वाञ्छन्तीं, यतो वर्यां तां राधाम् आज्ञाय । प्रेङ्खोलीं चातिलालाम् आज्ञाय, ताः सख्यस् तां प्रेङ्खोलीम् आरुरुहुः ॥५७॥

ताम्बूल-वीटीर् ललिता विशाखया
चम्पालिका स व्यजने च चित्रया ।
श्री-तुङ्गविद्या सहितेन्दुलेखया
पानीय-जाम्बूनद-झर्झरी-युगम् ॥५८॥

परिचर्या-सामग्र्या सह सखीनाम् आरोहणम् आह—विशाखया सह ललिता ताम्बूल-वीटीर् गृहीत्वा हिन्दोलिकाम् आरुरोह इति पर-श्लोक-स्थेनान्वयः । एवम् अग्रेऽपि । चित्रया सह चम्पालिका व्यजने गृहीत्वारुरोह । इन्दुलेखया सह श्री-तुङ्गविद्या पानीय-स्वर्ण-पात्र-युगम् ॥५८॥

सार्धं सुदेव्या किल रङ्गदेवी
सुगन्ध-पङ्कान् पटवासकांश् च ।
प्रेम्ना समुत्काति मुदा गृहीत्वा
हिन्दोलिकां तूर्णम् अथारुरोह ॥५९॥

पट-वासकान् सुगन्ध-चूर्णान् ॥५९॥

ताभिः सेवितयोस् तैस् तैः प्रेष्ठयोर् नयनेङ्गितैः ।
क्रमात् पूर्वादि-दलगा विरेजुर् ललितादयः ॥६०॥

ताभिस् तैस् तैस् ताम्बूल-वीटिकादिभिः सेवितयो राधा-कृष्णयोर् नयनेङ्गितैः ललितादयोऽष्ट-दल-कमलाकार-दोलायाः पूर्वादि-दलगाः सत्यः विरेजुः ॥६०॥

तत्राश्चर्यम् अभूद् एकं राधा-कृष्णौ पुरः स्थितौ ।
युगपद् ददृशुः सर्वाः स्व-स्वाभिमुखतां गतौ ॥६१॥

तत्रैकम् आश्चर्यम् अभूत् । सर्वाः सख्यः युगपद् एकदा राधा-कृष्णौ स्व-स्वाभिमुखतां गतौ ददृशुः ॥६१॥

पुनर् आन्दोलनात् ताभिर् वृन्दा-कुन्दलतादिभिः ।
दोलायाम् अतिलोलायां चित्रम् आसीद् इदं परम् ॥६२॥

दोलायाम् इदं परं चित्रम् अभूत् ॥६२॥

तासां दलाल्यां परितः स्थितानां
पार्श्वे हरिः स्व-प्रतिबिम्ब-दम्भात् ।
तिष्ठन्न् अमूभिः सहसोपगूढः
श्री-राधयान्याभिर् अपि व्यलोकि ॥६३॥

चित्राम् आह—दलालीं परितः स्थितानां तासां सखीनां पार्श्वे हरिः स्व-प्रतिबिम्ब-च्छलात् तिष्ठन् सन्न् अमूभिः सखीभिः सहसा शीघ्रम् उपगूढ आलिङ्गितोऽस्तीति राधया तथा अन्याभिश् च व्यलोकि ॥६३॥

अनाछन्नेऽम्भोदैर् दिवस-कर-बिम्बोपरि स चेन्
नवाम्भोद-व्यूहः प्रकट-चलाभिः सुवलितः ।
महा-वात्योद्भ्रान्तः सततम् अभविष्यत् तत इतस्
तदा तस्याघारेर् उपमितिम् अलप्स्यन्त कवयः ॥६४॥

मेघैर् अनाछन्ने सूर्य-बिम्बोपरि-भागे प्रकट-चलाभिः स्थिर-विद्युद्भिर् युतः स नव-मेघस्य व्यूहः चेद् यदि महा-वायु-समूहेन उद्भ्रान्तः सन्न् इतस् ततः सततम् अभविष्यत्, तदा कवयस् तस्याघारेर् उपमितिम् अलप्स्यन्त । दोलात्र सूर्य-बिम्बः, कृष्णो मेघः, गोप्यस् तडितः ॥६४॥

राधा-दृग्-इङ्गित-नयाल् ललिताम् अघारिर्
आकृष्य दक्षिण-भुजं विनिधाय तस्याः ।
कण्ठे परं भुजम् असौ दयितांस-देशे
मध्ये तयोः स विबभौ तडितोर् इवाब्दः ॥६५॥

अघारी राधा-दृग्-इङ्गितनयाल् ललिताम् आकृष्य तस्याः कण्ठे दक्षिण-भुजं विनिधाय वामं भुजं राधा-कण्ठे निधाय तडितोर् मध्ये इव मेघः विबभौ ॥६५॥

कौन्द्य् अब्रवीत् पश्यताल्यो ज्योतिश्-चक्रे चले पुरः ।
राधानुराधयोर् मध्ये पूर्णोऽयम् उदितो विधुः ॥६६॥

कुन्दलता अब्रवीत्—हे आल्यः ! पश्यत पुरोऽग्रे राधानुराधयोः श्री-राधा-ललितयोर् मध्ये पूर्णः समस्त-केलि-कला-कुशलो विधुः श्री-कृष्णोऽयम् उदित उदयति ॥६६॥

एवं विशाखिकाद्यास् ताः क्रमाद् आकृष्य माधवः ।
आलिङ्ग्य दक्षिणांसेऽमूर् हिन्दोल-सुखम् अन्वभूत् ॥६७॥

माधवः एवं क्रमात् ता विशाखिकाद्या आकृष्य दक्षिणांसे अमूर् आलिङ्ग्य हिन्दोल-सुखम् अन्वभूत् ॥६७॥

अथावरुह्य हिन्दोलाद् द्वाभ्यां द्वाभ्यां विराजतम् ।
विशाखा-ललितादिभ्यां श्री-राधान्दोलयत् प्रियम् ॥६८॥

श्री-राधा हिन्दोलाद् अवरुह्य द्वाभ्यां विशाखा-ललितादिभ्यां विराजतं प्रियम् आन्दोलयत् ॥६८॥

ततोऽवरूढा ललितादयस् तदा
राधेङ्गितैः काञ्चनवल्लिकादिकाः ।
आरोहयामासुर् अधः स्थिताः सखीर्
हिन्दोलिकां तां क्रमशो बलाच् छलैः ॥६९॥

राधाया इङ्गितैर् हिन्दोलिकाया अवरूढा ललितादयोऽधः-स्थिताः काञ्चनवल्लिकादिकाः सखीस् तां हिन्दोलिकां क्रमात् बलाच् छलैर् आरोहयामासुः ॥६९॥

तासां द्वयी-द्वयी-पूर्ण-पार्श्वं तं क्रमशो मुदा ।
गोविन्दं दोलयामासुर् गायन्त्यस् ताः स-राधिकाः ॥७०॥

स-राधिकास् ताः ललितादयः तासां काञ्चनवल्लिकादीनां द्वय्या द्वय्या द्वाभ्यां द्वाभ्यां पूर्ण-पार्श्वं तं कृष्णं दोलयामासुः ॥७०॥

राधायाः श्रुति-लग्नायां ललितायां हसन्त्य् असौ ।
आरुह्य दोलाम् आलीनां चकार बहु-मण्डलीः ॥७१॥

राधायाः श्रुतौ कर्णे लग्नायां कथयन्त्यां ललितायाम् असौ राधा हसन्ती दोलाम् आरुह्यालीनां बहु-मण्डलीश् चकार ॥७१॥

तस्यां स्थितायां प्रिय-वाम-पार्श्वे
प्रान्दोलयन्तीषु सखीषु दोलाम् ।
एकं पुनश् चित्रम् अभूद् अमूषां
द्वयोर् द्वयोर् आस हरिः स मध्ये ॥७२॥

तस्यां राधायां प्रियस्य वाम-पार्श्वे स्थितायां दोलां सखीषु प्रान्दोलयन्तीषु एकं चित्रं पुनर् अभूत् । चित्रम् आह—अमूषां सखीनां द्वयोर् द्वयोर् मध्ये स हरिर् आस बभूव ॥७२॥

तापिञ्छश् चेत् खेचर-कनक-क्ष्माभृद्-उत्थोऽभविष्यत्
प्रोत्फुल्लाङ्ग्या पुरट-लतया वेष्टिताङ्गः परीतः ।
तापिञ्छानां कनक-कदली-संयुजां मण्डलीभिः
साम्यं शौरेर् जगति स तदा तादृशस्याप्य् अवाप्स्यत् ॥७३॥

जगति प्रोत्फुल्लाङ्ग्या पुरट-लतया वेष्टिताङ्गस् तापिञ्छश् तमालश् चेत् खेचर आकाश-गामी कनकस्य क्ष्माभृत् पर्वतस् तद्-उत्थोऽभविष्यत् । कनक-कदली-संयुजां तापिञ्छानां मण्डलीभिः परीतो व्याप्तः सन् कनक-लता-वेष्टितः तापिञ्छोऽभविष्यत् । तदा तादृशस्य हरेः साम्यम् अवाप्स्यत् । दोलायाः खेचर-पर्वतेन, राधायाः स्वर्ण-लतया, कृष्णस्य तापिञ्छेन । सखीभिः सह कृष्णस्य मूर्तीनां स्वर्ण-कदली-युक्त-तमालैः साम्यम् ॥७३॥

अथारूढासु विशाखिकेङ्गितैः
सखीषु सख्यौ ललितादयो मुदा ।
राधाच्युतौ सम्भ्रमयन्त्य उच्चकैः
प्रेङ्खोलिकान्दोलनम् आशु चक्रिरे ॥७४॥

विशाखेङ्गितैः सखीषु दोलातो भूमाव् अवरूढासु ललितादयः सख्यः मुदा राधा-कृष्णौ सम्यग् भ्रमन्त्यः प्रेङ्खोलिकायाम् आन्दोलनम् उच्चैर् आशु चक्रिरे ॥७४॥

व्याकुलां राधिकां प्रेक्ष्य गाढालिङ्गित-वल्लभाम् ।
स्मेरास्व् आलीषु गृह्णंस् तां हसन्न् अवरुरोह सः ॥७५॥

स कृष्णो व्याकुलां राधिकां वीक्ष्य हसन् तां गृह्णन् अवरुरोह ॥७५॥

अभीरीभिः सच्-छम्पाभिः संवीताङ्गः कृष्णाब्दः
कौन्दी-वृन्दादीनां चक्षुर्-वापीहाली-तृष्णा-हृत् ।
लीला-कीलालाली-धारा-पातैः सिञ्चन् विश्वं श्री-
वृन्दारण्येऽसौ जीयाद् एवं दोला-लीला-खेलः ॥७६॥

अभीरीभिः सच्-छम्पाभिः शोभन-विद्युद्भिः संवीताङ्गः वेष्टिताङ्गः कृष्ण-मेघः कौन्द्य्-आदीनां चक्षुर्-वापीहाली नेत्र-चातक-श्रेणी तस्यां तृष्णा-हृत् । लीला-रूप-कीलालस्य जलस्य श्रेणीनां धारा-पातैर् विश्वं सिञ्चन् वृन्दावने एवं दोला-लीलायां खेला यस्य, सोऽसौ कृष्णो जीयात् ॥७६॥

अथ ताभिः समं कृष्णो माध्वीक-पान-कुट्टिमे ।
निविष्टः शीतल-च्छाये विश्राम-सुखम् अन्वभूत् ॥७७॥

मधु-पान-वेदिकायां निविष्टः कृष्णः विश्राम-सुखम् अन्वभूत् ॥७७॥

गोपीनाम् अरविन्द-सुन्दर-दृशां श्री-कृष्ण-पार्श्व-द्वयाद्
आरभ्याग्रत एव मण्डलतया तत्रोपवेश-स्थितिम् ।
लब्धानां पुरतः स राजति धृतालङ्कार-पीताम्बरो
रत्नाली-खचितो यथा हरिमणिः सौवर्ण-हारान्तरे ॥७८॥

श्री-कृष्णस्य दक्षिण-वाम-पार्श्व-द्वयाद् आरभ्याग्रत एव तत्र वेद्यां मण्डलाकारतया उपवेश-पूर्वक-स्थितिं लब्धानां गोपीनां पुरतो धृतालङ्कार-पीताम्बरः स कृष्णो राजति । सौवर्ण-हार-मध्ये रत्नाली-खचितो हरिमणिर् इन्द्रनील-मणिर् इव ॥७८॥

अथालयः स्वके करे सरोज-सञ्चयाद् वरे
निधाय पञ्च-चामरं चिता भरैर् मुदामरम् ।
निविष्टम् अत्र कान्तया नितान्त-केलि-तान्तया
न्यवीजयन् निजं प्रियं रुचा जित-स्मर-श्रियम् ॥७९॥

मुदां भरैश् चिता व्याप्ता आलयः सरोज-समूहाद् वरे श्रेष्ठे स्वके करे स्वीये हस्ते अरं शीघ्रं पञ्च-चामरं विस्तृतं निधाय । अत्र वेद्यां नितान्त-केलिभिस् तान्तया क्षीणया प्रियया सह निविष्ट-रुचा कान्त्या चिता स्मरस्य श्रीः शोभा येन तं निजं प्रियं न्यवीजयत् ॥७९॥

गत-श्रमेऽस्मिन् स-गणे सखीभिः
पदाब्ज-संवाहन-वीजनाद्यैः ।
माध्वीक-पूर्णं चषकं पुरस्तात्
तयोः समानीय दधार वृन्दा ॥८०॥

सखीभिः पाद-संवाहन-वीजनैः स-गणेऽस्मिन् कृष्णे गत-श्रमे सति, वृन्दा मधु-पूर्णं चषकं पान-पात्रम् आनीय तयोर् अग्रे दधार ॥८०॥

विकसितम् अनु नृत्यत्-खञ्जनाभ्यां विराजत्
कनक-कमलम् एकं नील-राजीवम् अन्यत् ।
वरतनु-बकशत्र्वोः पश्यतोः प्रादुरासीद्
अधि चषकम् अकस्मात् पद्म-युग्मं विचित्रम् ॥८१॥

पश्यतो राधा-कृष्णयोर् अधि चषकं चषक-मध्ये अकस्मात् विचित्रं पद्म-युग्मं तयोर् मुख-प्रतिबिम्ब-युग्मं प्रादुरासीत् । कीदृशं ? विकसितं फुल्लम् अनु लक्षीभूय स्वस्मिन् नृत्यत् खञ्जनाभ्यां विराजत् । एकं कनक-कमलं राधा-वदनम् अन्यत् नील-कमलं कृष्ण-मुखम् ॥८१॥

नयन-मधुप-युग्मं राधिकायाः प्रलुब्धं
झटिति पतितम् आसीन् नील-पद्मेऽथ तस्मात् ।
द्युति-भर-मधु-पूर्णान् नालम् उत्थातुम् आसीत्
कनक-कमल-मध्ये तद्वद् एवाच्युतस्य ॥८२॥

राधायाः नेत्र-भ्रमर-युग्मं नील-पद्मे झटिति पतितम् आसीत् । कान्त्य्-अतिशय-मधुभिः पूर्णात् तस्मात् नील-पद्मात् कृष्ण-मुख-प्रतिबिम्बाद् उत्थातुं नालं न समर्थम् आसीत् । तद्वद् अच्युतस्य नेत्र-भ्रमर-युग्मं कनक-पद्मे राधा-मुख-प्रतिबिम्बं पतितं तस्माद् उत्थातुं नालं न समर्थम् अभूत् ॥८२॥

सौन्दर्यं मधुतां मुखं चषकतां माध्वीकम् आदर्शतां
नेत्र-द्वन्द्वम् अवाप सन्-मधुपतां सर्वेन्द्रियं नेत्रताम् ।
अन्याङ्गं जडतां तयोः स-पुलकं चित्तं स्मरोन्मत्ततां
सामग्र्य् एव तदेतरेत्थम् अभवत् पान-क्रियाप्तोन्नतिम् ॥८३॥

तयोः राधा-कृष्णयोः सौन्दर्यं मधुतां पेयत्वम् अवाप । मुखं चषकतां पान-पात्रत्वम् अवाप । माध्वीकम् आदर्शतां दर्पणत्वम् अवाप । नेत्र-द्वन्द्वं सन्-मधुपतां भ्रमरत्वम् अवाप । सर्वेन्द्रियं नेत्रतां नेत्र-धर्मं दर्शनेच्छा-रूपम् अवाप । अन्याङ्गम् इन्द्रिय-भिन्नाङ्गं स-पुलकं जडताम् अवाप । चित्तं स्मरोन्मत्तताम् अवाप । इत्थम् अनेन प्रकारेण मधु-पानेनाप्ता या उन्नतिः, तां प्रतीतरा सामग्र्य् एव तदाभवत् । मधु-पान-जन्य-भ्रमादिकं मधु-पान-सामग्र्य् एवाभवद् इत्य् अर्थः ॥८३॥

कौन्द्य् अब्रवीत् पेयम् इदं स्व-चक्षुषा
पीतं युवाभ्यां मधु पङ्कजाननौ ।
नेत्रोत्पलास्याब्ज-सुवासितं द्वयो
रसज्ञया पेयम् इदं निपीयताम् ॥८४॥

हे पङ्कजाननौ ! पेयम् इदं मधु युवाभ्यां स्व-चक्षुषा पीतम् । द्वयोर् युवयोर् नेत्रोत्पलाभ्यां सह आस्य-पद्माभ्यां सुवासितम् इदं पेयं रसनया निपीयताम् ॥८४॥

आदाय निन्ये चषकं बलानुजः
पिबेति कान्ता-वदनाब्ज-सन्निधिम् ।
तिर्यङ्-मुखी तद्-दयितापि लज्जया
करेण जग्राह निजेन तत्-करात् ॥८५॥

बलानुजश् चषकम् आदाय पिबेत्य् उक्त्वा कान्ता-वदन-निकटं निन्ये । तद्-दयिता राधापि लज्जया तिर्यङ्-मुखी सती तच् चषकं तत्-करात् निजेन करेण जग्राह ॥८५॥

आवृत्य वक्त्रं वसनाञ्चलेन सा
माध्वीकम् आघ्राय सकृत् सुधा-मुखी ।
निजाधर-स्पर्श-सुवासितीकृतं
समर्पयामास करे प्रियस्य सा ॥८६॥

सा माध्वीकम् आघ्राय निजाधर-स्पर्श-सुवासितं मधु प्रियस्य करे ददौ ॥८६॥

प्रियाटवी-वृक्ष-लतोद्भवं प्रियं
प्रियाधर-स्पर्श-सुसौरभं मधु ।
निज-प्रियाली-परिहास-वासितं
प्रियार्पितं स-स्पृहम् आपपौ प्रियः ॥८७॥

प्रियाटवी श्री-वृन्दाटवी तस्या वृक्ष-लतासूद्भवो जन्म यस्य तत् प्रियं प्रियाया अधर-स्पर्श-सुवासितं मधु प्रियः स-स्पृहम् आपपौ ॥८७॥

दयिता-गुण-मेदुरेण तद्-
दयिता-पाणि-तलेऽमुनार्पितम् ।
दयिताधर-वासितं पपौ
दयिताप्य् अंशुक-संवृतानना ॥८८॥

दयितायाः श्री-राधाया गुणैर् मेदुरेण स्निग्धेन अमुना कृष्णेन दयितायाः तस्या राधायाः पाणि-तलेऽर्पितम् । दयितस्य कृष्णस्याधरेण वासितं तन् मधु वस्त्रावृत-मुखी दयिता सा राधापि पपौ ॥८८॥

तद्-वक्त्र-शेषामृत-मिश्रितासवैः
पूर्णानि कृत्वा चषकाणि सादरम् ।
वृन्दा स-वृन्दा सह-कुन्दवल्लिका
न्यधात् सखीनां पूरतः प्रमोदतः ॥८९॥

तयो राधा-कृष्णयोर् वक्त्र-शेषामृत-मिश्रितासवैस् तयोर् अधरामृत-शेषम् अन्य-मधुना सह मिश्रितं कृत्वा तैश् चषकाणि पान-पात्राणि पूर्णानि कृत्वा वृन्दा वृन्देन स्व-गणेन कुन्दलतया च सहिता सती सखीनां पूरतो न्यधात् ॥८९॥

ताभिः सखीनां चषकेष्व् अथाग्रतो
न्यस्तेषु कृष्णः स्व-विचित्र-विद्यया ।
पार्श्वेऽखिलानां युगपत् स दक्षिणे
नालोकि केनापि परिस्फुरन्न् अपि ॥९०॥

ताभिर् वृन्दादिभिः सखीनाम् अग्रतस् तेषु चषकेषु न्यस्तेषु सत्सु श्री-कृष्णः स्वस्य विचित्र-विद्यया अखिलानां सखीनां दक्षिणे पार्श्वे स परिस्फुरन्न् अपि केनापि नालोकि ॥९०॥

सख्यस् ताः केवलं स्वस्य स्वस्यैव पार्श्वम् आगतम् ।
पाययन्तं पिबन्तं च मधु तं ददृशुः प्रियम् ॥९१॥

ताः सख्यः स्वस्य स्वस्य पार्श्वम् आगतं तं कृष्णं मधु पाययन्तं पिबन्तं च केवलं ददृशुर् न त्व् अन्याः ॥९१॥

कादम्बरी-मद-विघूर्णित-शोण-कोण-
प्रोत्फुल्ल-लोचन-सरोज-विराजितानि ।
आमोद-मोदित-निमन्त्रित-षट्पदानि
हासेन्दु-कान्ति-वलिताधर-पल्लवानि ॥९२॥
कृष्णस्य नेत्र-रसना स्वदनीय-भूरि-
सौन्दर्य-सल्-लवणिम् आसव-पूरितानि ।
तस्याति-पानम् अनु तृट्-परिपूरणाय
वक्राण्ययुश् चषकतां सुदृशाम् अमूषाम् ॥९३॥

अस्य कृष्णस्यातिपाने तृट् तृष्णा तस्याः परिपूरणाय अमूषां सुदृशां वक्त्राणि चषकताम् अयुः प्रापुर् इति पर-श्लोकेनान्वयः । वक्त्राणि विशिनष्टि—कादम्बरी-मदेन विघूर्णितं च तच्-छोण-वर्णं कोणं च यत्र तादृशैः प्रोत्फुल्ल-लोचनैर् विराजितानि । आमोदेन सौरभेण मोदितानि च तानि निमन्त्रित-षट्पदानि च यत्र तानि । हासेन्दोः कान्तिभिर् वलितानि युक्तानि अधर-पल्लवानि यत्र तानि । कृष्णस्य नेत्राभ्यां रसनया जिह्वया च सुष्ठु अदनीयम् आस्वादनीयम् आस्वाद्यं वा भूरि-सौन्दर्यं सल्-लवणिमा चासवं मधु तेन पूरितानि वक्त्राणि ॥९२-९३॥

स्मर-युजां सरकाय मृगीदृशां
सरक-पान-मदोन्मद-चेतसः ।
सरकताम् अयिते मुख-पङ्कजे
सरकतां समगाद् अधरो हरेः ॥९४॥

सरक-पान-मदेनोन्मद-चेतसः कृष्णस्य सरकाय पानार्थं स्मर-युक्तानां मृगीदृशां मुख-पङ्कजे सरकतां पान-पात्रताम् अयिते गते सति हरेर् अधरोऽपि तासां मृगीदृशां सरकताम् अगात् । कृष्णेन तासां मुख-पङ्कजे पीते सति, ता अपि तस्याधरं प्रापुर् इत्य् अर्थः । चषकोऽस्त्री पान-पात्रं सरकोऽप्य् अनुतर्पणम् ॥९४॥

माध्वीक-भेदान् विविधान् स-वृन्दा
वृन्दाथ वृन्दावन-नाथयोः सा ।
नाना-विदंशैः सहितान् पुरस्तात्
समर्पयामास तथा सखीनाम् ॥९५॥

अथ सा वृन्दा वृन्देन स्व-गणेन सहिता राधा-कृष्णयोः सखीनां चाग्रे नाना-विदंशैर् मधु-पानानन्तर-भोज्यैः सहितान् विविधान् माध्वीक-भेदान् समर्पयामास ॥९५॥

तांस् तान् प्रपिबतां तेषां पान-पायन-माधुरी ।
नेत्रोन्मादाय वृन्दादेश् चिराय मदिरायते ॥९६॥

तेषां मिथुनानां स्व-कर्तृक-पाने अन्य-कर्तृक-पायने माधुरी वृन्दादेर् नेत्रोन्मादाय चिराय मदिरा इवाचरति मदिरायते ॥९६॥

अविरत-मधुपाने स्वादु-कान्ताधरोष्ठं
सततम् अधर-पाने मध्वभूत् तद्-विदंशः ।
मदन-मधुमदाभ्यां तृष्णया पानभाजां
मिथ इह मिथुनानां निश्चयो नास पाने ॥९७॥

अविरत-मधु-पाने कृते स्वादु कान्ताधरोष्ठं विदंशोऽभूत् । सततम् अधर-पाने कृते सति, तन्-मधु-मदाभ्याम् इतस् तृष्णया मिथः परस्परं पान-भाजां मिथुनानां श्री-कृष्ण-व्रज-सुन्दरीणाम् इह अधर-मधु-पाने निश्चयो नास न बभूव । किं मधु को विदंश इति कः कान्तः का कान्ता इति वा निश्चयो न बभूव ॥९७॥

माधवागत्य्-अनङ्गोत्थैर् मदैर् माधव-पानजैः ।
माधव-स्पर्शजैश् चासन् व्याकुलास् ताः वराङ्गनाः ॥९८॥

माधवस्य वसन्तस्यागतिर् आगमनं तज्-जन्यैर् अनङ्गोत्थैश् च मदैः । माधव-पानजैर् मधु-पानजैर् मदैर् माधवस्य कृष्णस्य स्पर्शजैर् मदैस् ता वराङ्गना व्याकुला आसन् ॥९८॥

स्खलित-वसन-भूषाङ्गाद्य्-अ सम्भालनं
यत्-स्फुट-हसितम् अकाण्डेऽप्रश्न-पूर्वोत्तरं च ।
प्रलपित-मणि-दानं चोत्थितं वल्लवीनां
प्रथयति मदम् अन्तर्-वारुणी-पानजं तत् ॥९९॥

वल्लवीनां वारुणी-मदिरा-पानजं तद्-अन्तर्-मदं पूर्वोक्तं प्रथयति । पूर्वोक्तं तत् तद् एवाह—स्खलित-वसनादेर् असम्भालनम् अदर्शनम् अज्ञानम् इति यावत् । पुनर् अबन्धनादिना अकाण्डे कारणं विना असमये स्फुट-हसितम् । प्रश्नं विनोत्तरं निदानं कारणं विना प्रलपितं जल्पितम् उत्थितं च ॥९९॥

निधुवनम् अनु पूर्वं यत् प्रियेण प्रियाणां
स्खलनम् अयन-वासः केश-वाचां विधेयम् ।
मधु-मद इह कुर्वन् तद् वधूनाम् अमूषाम्
अकुरुत मुरशत्रोः प्रीति-साहाय्यम् अस्य ॥१००॥

निधुवनम् अनु निधुवने रहस्य-लीलायां पूर्वम् आदौ प्रियेण प्रियाणां यत् अयनं गमनं तत् । गमन-वासः केश-वाचां चतुर्णां स्खलनं विधेयम् । इह मधु-पान-केलौ मधु-मदोऽमूषां वधूनां तत् तेषां स्खलनं कुर्वन् मुररिपोर् अस्य प्रीत्याः साहाय्यं स्वयम् एवाकुरुत ॥१००॥

उक्तौ लोहलता गतौ स्खलितता केशांशुके स्रस्तता
नेत्रान्तेऽरुणता मुखे सुरभिता नेत्रे तथोद्घूर्णता ।
नर्मोक्तौ स्फुटता दृशि भ्रमितता तत्-तत्-कृतौ धृष्टता
यायासीत् सुदृशां तदा त्रि-सरकोत्पन्नाधिनोत् सा प्रियम् ॥१०१॥

तदा सुदृशां त्रिसरकोत्पन्ना । त्रिभ्यो वृक्षज-गुडज-पुष्पजेभ्यः सरकेभ्यो मधुभ्य उत्पन्ना या या चेष्टाभूत्, सा सा प्रियं कृष्णम् अधिनोत् प्रीणयामास । सा सा का ? उक्तौ लोहलता गद्गदता, गतौ स्खलितता, केशांशुके स्रस्तता, नेत्रान्तेऽरुणता, मुखे सुरभिता, नेत्रे उद्घूर्णता, नर्मोक्तौ स्फुटता दृशि भ्रमितता, तत्-तत्-कृतौ तत्-तल्-लीलादि-चेष्टायां धृष्टता ॥१०१॥

कृष्णे व्रजाम्बुजदृशां हृदि गाढ-
रागो नारी-स्वभावज-ह्रिया विनिगूहितो यः ।
आडम्बरं मधु-मदस्य न सोढुम् ईशो
नेत्रोत्पलेषु बहिर् एत्य चकार वासम् ॥१०२॥

व्रजाम्बुजदृशां कृष्णे यो गाढ-रागः स्त्री-स्वभावज-ह्रिया विनिगूहितो गुप्तोऽस्ति । स-राग-मधु-मदस्याडम्बरं सोढुं नेशो न समर्थः सन्, बहिर् एत्य नेत्रोत्पलेषु वासं चकार । रागस्यारुण-वर्णत्वं नेत्रस्य मद-जन्यारुण्यं च प्रसिद्धम् ॥१०२॥

नवेन मधु-पानेन काचिन् नव-किशोरिका ।
मदोद्रेकाद् भ्रान्त-नेत्रा प्रललापातिविह्वला ॥१०३॥

प्रललाप प्रलापोऽनर्थकं वचः । मधु-पानस्य वयसश् च नव्यत्वेन मदस्याधिक्येन उद्भ्रान्त-नेत्रा अतिविह्वला च ॥१०३॥

ल-ल-ल-ललिते प-प-प-पश्य राधाच्युतौ
स-स-स-सह वो म-म-म-मण्डलैर् भ्राम्यतः ।
वि-वि-वि-विपिनं म-म-म-मही च ताभ्यां
समं ग-ग-ग-गगनं लम्बते हा कथम् ॥१०४॥

ललिते ! पश्य राधाच्युतौ वो युष्माकं मण्डलैः सह भ्राम्यतः । विपिनं मही च ताभ्यां राधाच्युताभ्यां समं गगनं लम्बते गच्छति कथं ? हा इति विस्मये । कथम् एवं भवति । पदम् इदम् आदौ सद्-अर्थाभावात् सल्-लग्नार्थं न । तत्रापि ललितादि-शब्द-कथने अधिक-ल-कारादेः स्खलनं सुतराम् एव व्यर्थम् ॥१०४॥

**विसृत्वरामोद-विकृष्ट-भृङ्ग-
विकस्वराम्भोज-विनिन्दि-वक्त्रः ।
मध्वासवेष्टाधर-सीधु-पान-
प्रोद्बुद्ध-कन्दर्प-मदातिलोलः ॥१०५॥
अन्तर्-विलोलालि-समीर-वेल्लत्-
प्रोत्फुल्ल-रक्तोत्पल-जैत्र-नेत्रः ।
ललास लोलल्-ललना-सुधृष्णक्
कृष्णः स-तृष्णालिर् इवाब्जिनीषु ॥१०६॥ **

(युग्मकम्) अब्जनीषु पद्मिनीषु सतृष्ण-भ्रमर इव लोलल्-ललनासु चञ्चल-गोपीषु सुधृष्णक् कृष्णो ललास । कीदृशः कृष्णः ? विसृत्वरामोदेन दूरागामि-सौगन्धेन विकृष्टा आकृष्टा भृङ्गा येन तादृशं ? विकस्वरं प्रफुल्लम् अम्भोजं विनिन्दितुं शीलं यस्य तादृशं मुखं यस्य सः । मध्वासवस्य इष्टाधरामृतस्य च पानेन प्रोद्बुद्धौ यः कन्दर्प-मदस् तेनातिलोलः । अन्तर् मध्ये विलोलोऽलिर् यत्र तादृशं च तत्-समीरेण वायुना वेल्लत् चालितं प्रोत्फुल्ल-रक्तोत्पलं तस्य जैत्रं जय-शीलं नेत्रं यस्य सः ॥१०५-१०६॥

मदेरिताभ्याम् अथ तौ सखीभ्यां
रिरंसयान्तश् च सुषुप्सया च ।
निषेविताव् आसतुर् आलि-पालिः
सुषुप्सया केवलयाञ्चितासीत् ॥१०७॥

तौ राधा-कृष्णौ मदेरिताभ्यां सखीभ्यां सखी-रूपाभ्यां रिरंसा रमणेच्छा सुषुप्सा शयनेच्छा ताभ्यां निषेवितौ आसतुर् बभूवतुः । आलि-पालिः सखी-श्रेणी केवलया सुषुप्सयाञ्चिता युतासीत् ॥१०७॥

**तयोर् मदोत्पन्न-निगूढ-लीला-
स्पृहा-विदह् प्रेरणयाथ कौन्द्याः ।
कान्तावतंसार्थम् अशोक-पुष्प-
गुच्छाय गच्छत्य् अरविन्द-नेत्रे ॥१०८॥
कान्तापि घूर्णा परिपूर्णिताक्षी
सेवा-पराली-तति-सेव्यमाना ।
निकुञ्ज-कुञ्जाभिध-कुञ्ज-राजे
सुष्वाप पुष्पावलि-तल्प-भाजि ॥१०९॥ **

(युग्मकम्) तयो राधा-कृष्णयोर् मदोत्पन्न-निगूढ-लीलायां या स्पृहा तां जानाति या तस्याः कौन्द्याः प्रेरणया कान्तायाः राधायाः अवतंसार्थं कर्ण-भूषणार्थम् अशोक-पुष्प-गुच्छाय अरविन्द-नेत्रे कृष्णे गच्छति सति, कान्तापि राधापि घूर्णया परिपूर्णिताक्षी सेवा-परालीनां तस्या सेव्यमाना । पुष्पावलि-तल्प-भाजि निकुञ्ज-कुञ्जाभिध-कुञ्ज-राजे । निकुञ्जोऽयं कुञ्जाभिधः कुञ्जाकारत्वात् निकुञ्ज-कुञ्जाभिध उत्तर-पद-विशेषणः कर्मधारयः । स एव कुञ्जानां कुञ्जेषु वा राधा कुञ्ज्-राजः । अवधारण-पूर्व-पदः । किं वा, निकुञ्जेषु मध्ये कुञ्जाभिधः कुञ्ज-राजः । निकुञ्ज-कुञ्जाभिध-कुञ्ज-राजस् तस्मिन् विशेषतः पद्म-कुल्य-वर्णिते श्रीमल्-ललिता-कुञ्जे सुष्वाप ॥१०८-१०९॥

गन्धोत्तमाः परिमलाधिक-वासितोद्यज्-
जृम्भोद्गमास्य-कमला गलद्-अम्बराङ्ग्यः ।
घूर्णायमान-नयनाः शयनाभिलाषाः
सख्योऽप्य् अयुस् तत इतः स्खलिताङ्घ्रि-पाताः ॥११०॥

तथा सख्योऽप्य् अयुः कुञ्जान् गताः । कथं-भूताः सत्यः ? गन्धेन श्रीमद्-अङ्ग-सौरभेणोत्तमाः परिमलो दूर-गामि-जन-मनोहर-गन्धेनाधिकं यथा स्यात् तथा वासि तानि युक्तानि च तानि उद्यत् जृम्भाया उद्गमो येषु तादृशानि चेति । किं वा, परिमलेनाधिकं वासितः सन् उद्यत् जृम्भोद्गमो येषु तादृशानि आस्य-कमलानि यासां ताः । गलन्ति अम्बराणि अङ्गेभ्यो यासां ताः घूर्णित-नेत्राः शयनेऽ भिलाषो यासां ताः । तत इतः स्खलितानि चरणानि यासां ताः ॥११०॥

**तल्पोपकल्पन-गृहीत-दलालि-कञ्ज-
किञ्जल्क-धूलि-परिपिञ्छरितान्तरेषु ।
संवर्तिकाब्ज-दल-पल्लव-पुष्प-तल्प-
पुञ्जेषु चञ्चद्-अलि-गुञ्जित-मञ्जुलेषु ॥१११॥
गुञ्जावली-कुसुम-मञ्जरि-चित्रितेषु
ताम्बूल-गन्ध-जल-भाजन-राजितेषु ।
कुञ्जेषु कञ्ज-वदना मद-खञ्जनाक्ष्यः
सर्वाः पृथक् पृथग् इताः सुषुपुर् वयस्याः ॥११२॥ **

(युग्मकम्) सर्वा वयस्याः पृथक् पृथग् इता गताः कुञ्जेषु सुषुपुः । कीदृशेषु ? तल्पानां शय्यानाम् उपकल्पनाय कारणाय उपकल्पने वा गृहीता ये दलालिं कोमल-पत्र-समूहश् च कञ्जानां पद्मानां किञ्जल्काः केशराश् च धूलयश् च तैः । किं वा, गृहीता या दलालिश् च पद्म-किञ्जल्कानां धूलयः सूक्ष्म-चूर्णाश् च ताभिः परि सर्वतः परिपिञ्जरितं व्याप्तम् अन्तरं मध्ये येषां तेषु । पुनः कीदृशेषु ? नवीन-पत्र-पद्म-दल-पल्लवैश् च पुष्प-शय्यानां पुञ्जः समूहो येषु तेषु । चञ्चद्-अलीनां पुञ्जितेन मनोज्ञेषु ॥१११॥

गुञ्जावलीभिः सह कुसुम-मञ्जरिभिश् चित्रितेषु । ताम्बूलस्य गन्ध-जलस्य । यद् वा, चन्दन-केशर-कस्तूर्य्-आदि-गन्धस्य जलस्य च भाजनानि पात्राणि तै राजितेषु ॥१११-११२॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽगाद् गणितस् चतुर्दशतया मध्याह्न-लीलाम् अनु ॥

श्री-गोविन्द-लीलामृत-काव्यस्य मध्याह्न-लीलायां चतुर्दशतया गणितः सर्गः समाप्तोऽभूत् । इति सदानन्द-विधायिन्यां चतुर्दश-सर्गार्थः ॥

॥१४॥

॥।

उद्वर्तनं वात-हरं कफ-मेदो-विनाशनम् । स्थिरी-करणम् अङ्गानां त्वक्-प्रसाद-करं परम् ॥

द्रव्य-मात्रं शिला-पिष्टं शुष्कं वा जल-मिश्रितम् । तद् एव सुरिभिः पूर्वैः कल्क इत्य् अभिधीयते ॥

कास्य प्रेयस्य् अनुपम-गुणा राधिकैका परा न । का चक्रे तं स्व-वशम् अनिशं राधिका नेतरा तद् वाञ्छा-पूर्तौ प्रभवति हि का राधिका नापरेह ॥१२२॥ इति पाठान्तरः।

गणयति गुण-ग्रामं भ्रामं भ्रामाद् अपि नेहते

वहति च परितोषं दोषं विमुञ्चति दूरतः ।

युवतिषु वलत्-तृष्णे कृष्णे विहरति मां विना

पुनर् अपि मनो वामं कामं करोति करोमि किम् ॥


  1. द्रष्टव्यम् गीत-गोविन्दे ३.१०— ↩︎