त्रयोदशः सर्गः
ततस् तैर् आगतः कृष्णः सीमां कानन-भागयोः ।
तच्-छोभाम् आह कान्तायै ऋतु-युग्म-श्रियान्विताम् ॥१॥
निर्यद्-वर्षाख्य-बाल्योद्यच्-छरत्-तरुणिमाङ्कुरा ।
किशोरी-तनुवद् भाति प्रिये पश्याटवी पुरः ॥२॥
कृष्णस् तैः स्वजनैः सह प्रावृट् शरदीय-कानन-भागयोः सीमाम् आगतः ऋतु-युग्मयोः प्रावृट् शरदोः श्रियान्वितां तच्-छोभां वन-शोभां कान्तायै आह ॥१॥
हे प्रिये ! किशोर्यास् तनुवत् अटवी भाति । पश्य उभय-साम्यम् आह । निर्यत् निर्गच्छत् वर्षाख्यं बाल्यं यस्याः सा चासौ उद्यच्-छरद्-रूप-तरु;निम्;अङ्कुरो यस्याः सा च ॥२॥
प्रविगत-कुसुमां काले प्रवयसम् इव यूथिकां हित्वा ।
प्रोद्यत्-कुसुमां जातीं मुग्धाम् इव सम्मिलत्य् असौ भ्रमरः ॥३॥
काले प्रवयसं प्राप्त-वृद्धावस्थां, अतः प्रकर्षेण विगतं रहितं कुसुमम् ऋतु-कालो यस्यास् ताम् । अविगत-कुसुमां नारीम् इव । प्रवयसं समयातीतां, अतः प्रविगत-पुष्पां यूथिकां हित्वा । असौ भ्रमरो भ्रमर इव कामुक-पुरुष इव मुग्धां बालिकाम्, अतः प्रोद्यत्-कुसुमां प्रोद्यद्-ऋतु-मुग्धां प्राप्त-समयां, अतः प्रोद्यत्-कुसुमां जातीं सम्मिलति । भ्रमरः कामुके भृङ्गे इति । कुसुमं स्त्री-रजो-नेत्र-रोगयोः फल-पुष्पयोर् इति च मेदिनी ॥३॥
**परिणत-वर-गुञ्जा-पुञ्ज-शोणाटवीयं
पतित-शिखि-शिखण्डा काश-पुष्पैः सिता भूः ।
शिखि-ततिर् अपि मूका वाग्मिनी हंस-पङ्क्तिः
कथयति ऋतु-लक्ष्मीः शारदीम् आगतां नः ॥४॥ **
इयम् अटवी नः अस्मभ्यम् आगतां शारदीम् ऋतु-लक्ष्मीं कथयति । चिह्नम् आह—कीदृशी अटवी ? परिणताः पक्वा या वर-गुञ्जास् तासां पुञ्जेन शोना रक्ता भूश् च कथयति । कीदृशी पतितानि शिखिनां मयूराणां शिखण्डानि पुच्छानि यत्र सा । पुनः कीदृशी ? काशानां काशिया इति ख्यातानाम् उड्डीय पतित-पुष्पैः सिता शुक्ला मूका शिखि-ततिर् अपि कथयति । वाग्मिनी अतिवाक्-युता हंस-पङ्क्तिः कथयति ॥४॥
सेफालिका-कुसुम-पालिम् अलिः सतृष्णा
यां यां मुदा स्पृशति संस्खलति स्म सा सा ।
आली-ततिः सुमुखि यद्वद् अहं तदानीं
यां यां ससार चकितापससार ॥५॥
स-तृष्णोऽलिर् भ्रमरः यां यां शेफालिका-पालिं मुदा स्पृशति, सा सा संस्खलति । हे सुमुखि ! वंश्य्-अन्वेषण-समये यद्वत् तदानीं यां याम् आली-ततिम् अहं ससार, सा सा चकिता सती अपससार पलायन-परा बभूव, तद्वद् इत्य् अर्थः ॥५॥
अथावद् कुन्दलता निचायतं
वृन्दावनेशौ वन-भागम् अग्रतः ।
इमं शरच्-चारुतयेह विश्रुतं
वयस्यया वां शरदा विभूषितम् ॥६॥
अथानन्तरं कुन्दलताह—हे वृन्दावनेशौ ! इहाग्रतोऽग्रे इमं वन-भागं निचायतं पश्य । तं कीदृशं ? वां युवयोर् वयस्यया शरदा कर्त्या विभूषितम् । अतः शरच्-चारुतया शरदि शरदा चारुर् इति शरच्-चारुस् तस्या भावेन विश्रुतं ख्यातम् ॥६॥
चञ्चत्-खञ्जन-लोचनाम्बुज-मुखी लोलालि-मालालका
खेलत्-कोक-कुचा सिताभ्र-सिचया रक्तोत्पलौष्ठाधरा ।
कूजत्-सारस-पालि-रम्य-रसना नीलोत्पलोत्तंसिका
नाथौ पश्यतम् अत्र वां शरद् इयं सेवोत्सुकास्ते सखी ॥७॥
हे नाथौ ! इयं शरत् सखीनां युवयोः सेवोत्सुकास् ते युवां पश्य तं सखी रूपम् आह—चञ्चत्-खञ्जन-लोचने यस्याः सा । अम्बुजानि मुखं यस्याः, चञ्चल-भ्रमर-श्रेणी अलका यस्याः सा । खेलन्तः कोकाश् चक्रवाकाः कुचौ यस्याः, सितः शुक्लो मेघ एव । सिचयं वस्त्रं यस्याः, कुजन्ती सा रस-पालिः सारस-श्रेणी रम्या रसना काञ्ची यस्याः, नीलोत्पलानि उत्तमाः कर्ण-भूषा यस्याः सा । सखी-पक्षे, चञ्चत्-खञ्जनाव् इव लोचने यस्याः । एवं सर्वत्र ज्ञेयम् ॥७॥
जातीभिः सह रङ्गणाभिर् अखिलाङ्गालङ्कृतीः कैरवैर्
उत्तंसान् अवतंसकांश् च सुभगौ रक्तोत्पलेन्दीवरैः ।
शय्यां कुञ्ज-गृहे स्वयं निपतितैः शेफालिका-सञ्चयैर्
निर्मायार्पयितुं शरत् सहचरी वां वर्त्म संवीक्ष्यते ॥८॥
शरत्-सहचरी इदं सर्वं निर्माय वां युवाभ्याम् अर्पयितुं वर्त्म युवयोर् वर्त्म संवीक्ष्यते । किं किं ? तद् आह—रङ्गण-पुष्पैः सह वर्तमाना सह रङ्गणास् ताभिः जातीभिर् अखिलाङ्गान् आलङ्कृतीः । कैरवैः कुमुदैर् उत्तंसान् शिरोभूषणानि । रक्तोत्पलेन्दीवरैर् अवतंसकान् कर्ण-भूषणानि शेफालिकाभिः शय्याम् ॥८॥
प्रफुल्ल-सप्त-च्छद-दान-सौरभः
सिताम्बुदाली-कुथ-संवृताङ्गकः ।
काश-प्रसूनावलि-चारु-चामरः
स्मरोन्मदोक्षालि-विराव-बृंहितः ॥९॥
स एव दानस्य मदस्य सौरभो यत्र सः । सिताम्बुद-श्रेणी कुथेन कम्बल-विशेषेण संवृतम् अङ्गं यस्य सः । काशस्य काश इति मुञ्जा इत्य् आख्यस्य प्रसूनावलिश् चारु-चामरं यत्र सः । स्मरेण उन्मदा मत्ता उक्षा वृषा अलयो भ्रमरा वयः पक्षिण एषां रावः शब्द एव बृंहितं यत्र सः ॥९॥
**नभो-नदत्-सारस-किङ्किणी-कलः
सोऽयं शरत्-काल-मनोज-वारणः ।
स्वनन्-मरालादिक-पत्रि-निस्वनद्-
घण्टा-चयो दीव्यति कानने पुरः ॥१०॥ **
(युग्मकम्) नभो-नदत्-सारसैः किङ्किणीनां कल-मधु-ध्वनिर् यत्र सः । यद् वा, नभसि नदन्तः सारसा एव किङ्किण्यस् ताः कलयतीति सः । स्वनन्तो मरालादिका हंसादयः पत्रिणः पक्षिण एव निस्वनच् छब्द-युक् घण्टा-समूहो यस्य सः ॥१०॥
कमला-कर-लालिता सदा परमहंस-कुलैक-संश्रया ।
विलसच्-चक्र-रुचिर् बभौ पुरः शरद् एषा भगवत्-तनूर् इव ॥११॥
भगवतस् तनूर् मूर्तिर् इव एषा शरत्-पुरोऽग्रे बभौ । उभय-साम्यम् आह—कमलाया ऌस्मृत्याः करेण लालिता सेविता । शरत्-पक्षे, कमलस्य पद्मस्य आकरेण उत्पादकेन सरोवरेण शोभा-युक्ता । परम-हंसाश्रम-युतानाम् एक-संश्रया । पक्षे, श्रेष्ठ-हंस-पक्षिणाम् एक-संश्रया । विलसच्-चक्र-रूप-चिह्नेन चक्राख्यास्त्रेण वा रुचिर् यस्याः सा । पक्षे, चक्रवाकेण ॥११॥
अथ ते शुश्रुवुः सर्वे पक्वामृत-फल-द्रुमे ।
शुकानां शारिका-वृन्दैर् वितण्डां तद्-अधः-स्थिताः ॥१२॥
अथानन्तरं रे सर्वे पक्वामृत-फल-द्रुमे शुकानां सारिका-वृन्दैः सह वितण्डां शुश्रुवुः । किम्-भूताः ? तस्य वृक्षस्याधः-टाः ॥१२॥
**वेदान्ताध्यापनाचार्या अनूचाना वयं द्विजाः ।
स्त्रीभिर् अस्पृष्ट-वृक्षाणां पतामः फल-भक्षणात् ॥१३॥
वनं वृन्दावनेशेन दत्तम् एतत् प्रतुष्यता ।
अस्मभ्यं शारिकास् तस्माद् गच्छतान्यत्र दासिकाः ॥१४॥ **
युग्मकम् । शुक-वाक्यम् । वयं द्विजास् तत्रापि वेदान्त-शास्त्रस्याध्यापने पाठने आचार्याः । तत्रापि अनूचाना गुरोः सर्व-वेदाध्यापन-कृतः । अनूचानः प्रवचने साङ्गेऽधीती गुरोस् तु यः इत्य् अमरः । स्त्रीभिर् असम्यक् स्पृष्ट-वृक्षाणां फल-भक्षणात् पतामः ॥१३॥ प्रत्युष्यता वृन्दावनेशेन कृष्णेन एतद् वनम् अस्मभ्यं दत्तम् । तस्माद् दासिकाः शारिकाः ! यूयम् अन्यत्र गच्छत ॥१४॥
प्रभु-द्विषः प्रजा यूयं राधाइव यद् वनेश्वरी ।
पुराणेष्व् इदम् एवोक्तं राधा वृन्दावने वने ॥१५॥
सारी-वाक्यम् । प्रजा यूयं प्रभोः श्री-राधायाः द्विषः, यद् यस्मात् वनेश्वरी राधाइव । अत्र शास्त्र-प्रमाणम् आह—पुराणेष्व् इत्य् आदि । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इत्य् आदि ॥१५॥
श्रुत्या कृष्ण-वनत्वेन यद् एतद् गीयते वनम् ।
बाध्यते हि स्मृतिः श्रुत्या तद् विचारयत स्वयम् ॥१६॥
शुक-वाक्यम्—श्रुत्या कृष्ण-वनत्वेन वृन्दावनं गीयते यत्, तत् स्वयं विचारयत । हे सारिकाः ! तत् किं नो वेत्थ इति पाठान्तरम् । हि यस्मात् । श्रुत्या स्मृतिर् बाध्यते, तस्मात् कृष्णस्यैवेदं वनम् ॥१६॥
हरेर् इयं वनेशता समस्त-लोक-विश्रुता ।
श्रुति-स्मृति-प्रमाणिका जगन्-मनः-प्रमोदिका ॥१७॥
हरेर् इयं वनेशता वनेश्वरत्वं समस्त-लोकेषु च विश्रुता ख्याता । किं-भूता श्रुतिः स्मृतिश् च प्रमाणं यस्यां सा । जगतां मनः प्रमोदा यस्यां ।तथा-भूता च । अतः सर्वत्र प्रसिद्ध्या वेदादि-सम्मत्या च श्री-कृष्णस्यैव वनेशता दृढेत्य् अर्थः ॥१७॥
नात्र स्व-स्वामि-सम्बन्धो राधायाः केवलो वने ।
अपि चाङ्गाङ्गि-सम्बन्धस् तद्-अङ्ग-बिम्बतात्र यत् ॥१८॥
वने श्री-कृष्णैकान्ताधिकार-श्रवणम् असहमानाह् शार्य आहुः—अत्र वने युष्मद्-उक्तः श्री-कृष्णस्य स्व-स्वामि-सम्बन्ध इव श्री-राधायाः केवलः स्व-स्वामि-सम्बन्धो न, अपि चाङ्गाङ्गि-सम्बन्धो वर्तते । अङ्गाङ्गि-सम्बन्धम् आह—यद् यस्माद् अत्र वने तत् तस्याः राधायाः अङ्ग-बिम्बतास्ति । अतोऽस्मद्-ईश्वर्या एवेदं वनम् ॥१८॥
अन्तः-कौटिल्य-मालिन्या बहिर्-वीक्षण-रञ्जनाः ।
गोपाला भान्त्य् अमी पक्व-महाकाल-फलोपमाः ॥१९॥
इत्थं वनाधिकारि-विषये शार्यः शुकान् निर्वचनीकृत्य, श्री-राधाया उत्कर्ष-वर्णनावेशेन गोपाला इति सामान्येन कृष्णस्य लघुत्वम् उद्गारयन्त्य आहुः—अन्तर् इति । पक्व-महाकाल-फलं माखालाख्यं फलम् उपमा येषां तेऽमी गोपाला भान्ति । फलेन साम्यम् आहुः—अन्तर् मध्ये कौटिल्य-रूपं मालिन्यं येषां ते । बहिर् वीक्षणे रञ्जना मनोहराः । फलस्य मध्ये मालिन्यं रक्त-वर्णं तु बहिः ॥१९॥
वाम्य-वल्कल-सञ्छन्ना दृढ-मानास्थि-संवृता ।
नारिकेल-फलानां वा गोपिकानां रस-स्थितिः ॥२०॥
वाम्य-रूप-वल्कलेन त्वचा सञ्छन्ना सम्यग् आवृता । दृढ-मान-रूपास्थिना संवृता । नारिकेल-फलानां वा इव गोपिकानां रस-स्थितिर् इति । वा-शब्द इवार्थे ॥२०॥
बहिर्-अन्तश् चैक-रूपा दोष-हेयांश-वर्जिता ।
द्राक्षा-फलोत्करस्येव स्वामिनो मे रस-स्थितिः ॥२१॥
शुकोक्तिः—मे स्वामिनः कृष्णस्य रस-स्थितिः द्राक्षा-फल-समूहस्येव । साम्यम् आह—बहिर्-अन्तश् चैक-रूपा दोष-रूप-हेयांशो बल्कलाष्ठ्य्-आदिस् तेन वर्जिता । अत्र बहूनाम् अपि शुकानां कृष्णे मदीयतां दार्ढ्याद् एकैकस्य मे इत्य् एक-वचनम् ॥२१॥
अन्तः सदा रस-मयोऽपि बहिः समुद्यत्-
कौटिल्य-धार्ष्ट्य-वर-वल्कल-पर्व-रुक्षः ।
मानाख्य-यन्त्रणम् ऋते न रस-प्रदोऽसाव्
इक्षु-प्रकाण्ड इव वः प्रभुर् अच्युताख्यः ॥२२॥
सारी-वाक्यम्—वो युष्माकं प्रभुर् अच्युताख्यः, अन्तर् मध्ये सदा रस-मयोऽपि बहिः समुद्यद्भिः कौटिल्य-धार्ष्ट्य-रूप-वर-वल्कल-पर्वभी रुक्षो नीरस इक्षु-प्रकाण्डो यन्त्र-जन्यं यन्त्रणं निष्पीडनं विना यथा रस-प्रदो न, तथा मानाख्यो यन्त्रणं विना असौ वः प्रभुः रस-प्रदो न भवति ॥२२॥
अन्तः-स्निग्धाद् बहिः-शाठ्य-वल्कलात् स्नेह-लम्भनम् ।
वाम्य-निष्पीडनाद् एव कृष्णात् कृष्ण-तिलाद् इव ॥२३॥
स्व-प्राप्त्या पुनर् दृष्टान्तान्तरम् आह—अन्तः स्निग्धाद् बहिः शाठ्य-रूप-वल्कलं यस्य तस्मात् कृष्णात् अपादानात् वाम्य-निष्पीडनाद् धेतोः स्नेहस्य तैलस्य लम्भनम् इव ॥२३॥
गोपी-श्रेणी जवालीवासौरभा बहिर् उज्ज्वला ।
नीलोत्पल-निभः कृष्णः सुरुचिः सौरभान्वितः ॥२४॥
शुक-वाक्यं—जवा-श्रेणीव गोपी-श्रेणी असौरभा गुण-हीना केवलं बहिर् उज्ज्वला कृष्णो नील-कमलम् इव यथा द्रष्टुं सुरुचिस् तथा साद्गुण्य-युक्तः ॥२४॥
मञ्जिष्ठेव मद्-ईशा
स्वान्तर् बहिर् अपि सदैक-रागेयम् ।
स्फटिक-मणिवद् ईशस् ते
नव-नव-सङ्गाद् विभिन्न-रागोऽयम् ॥२५॥
श्री-गोपीभ्यः श्री-कृष्णोत्कर्षं श्रुत्वा, शार्य उद्भटाः सत्य एकैकं शुकं प्रति एकैकश आहुः—मञ्जिष्ठेति । मद्-ईशा राधा मञ्जिष्ठा-रागो यथा तथान्तर् बहिः सदैक-रागा । ते तव ईशः कृष्णः स्फटिक-मणिवन् नव-नव-सङ्गाद् विभिन्न-रागः ॥२५॥
दाहिता दैत्य-शलभाः प्रज्वाल्य स्व-बलानलम् ।
येन येनोद्धृतोऽद्रीशस् तेन साम्यं क आप्नुयात् ॥२६॥
शुक-वाक्यं—येन कृष्णेन स्व-बलाग्निं प्रज्वाल्य दैत्य-कीटा दाहिता भस्मी-कृताः । येन गोवर्धनो धृतः ॥२६॥
व्रजेश्वराराधान-तुष्ट-विष्णुना
कृष्णे निधायाद्भुत-शक्तिम् आत्मनः ।
बकी बकाद्य निहताः सुरारयः
कृष्णेनभिज्ञैर् इह कीर्तिर् अर्पिता ॥२७॥
शारी-वाक्यं—नन्दस्याराधनेन तुष्टो यो विष्णुस् तेनात्मनः अद्भुतां शक्तिं कृष्णे निधाय पूतना-बकाद्या निहताः । ईदृशे कृष्णे अज्ञैः एतत् अजानद्भिः कीर्तिर् अर्पिता ॥२७॥
तुष्टोऽयम् अद्रिर् बलि-भुग् व्रजस्य
स्वयं समुत्थाय नभस्य् अतिष्ठत् ।
अधोऽस्य हस्तं विनिधाय कृष्णोद्-
धरोद्धृतौ कीर्तिम् उरीचकार ॥२८॥
व्रजस्य बलिः पूजोपहारस् तद्-भुग् अयम् अद्रिः स्वयं समुत्थाय नभसि आकाशेऽतिष्ठत् । अस्याद्रेर् अधो हस्तं विनिधाय कृष्णो धरोद्धृतौ कीर्तिं स्वीचकार ॥२८॥
सौन्दर्यं ललनालि-धैर्य-दलनं लीला रमा-स्तम्भिनी
वीर्यं कन्दुकिताद्रि-वर्यम् अमलाः पारे-परार्धं गुणाः ।
शीलं सर्व-जनानुरञ्जनम् अहो यस्यायम् अस्मत्-प्रभुर्
विश्वं विश्व-जनीन-कीर्तिर् अवतात् कृष्णो जगन्-मोहनः ॥२९॥
शुक-वाक्यं—अस्मादृशां स्वामी जगन्-मोहनः विश्वम् अवतु । कीदृशः ? विश्व-जनीना विश्व-जनाय हिता कीर्तिर् यस्य सः । अतः हितार्थे ईनः, यस्य सौन्दर्यः ललनालेर् धैर्यं दलतीति धैर्य-दलनम् । लीला रमाया लक्ष्म्याः स्तम्भिनी विस्मयादिना स्तम्भ-कारिणी । वीर्यं कन्दुकिनः कन्दुकी-कृतः आद्रि-वर्यो गोवर्धनो येन तत् । गुणाः परार्धतोऽप्य् अधिका अमलाश् च । शीलं सर्व-जनान् अनुरञ्जयति सुखयतीति तत् ॥२९॥
श्री-राधिकायाः प्रियता सुरूपता
सुशीलता नर्तन-गान-चातुरी ।
गुणालि-सम्पत् कविता च राजते
जगन्-मनो-मोहन-चित्त-मोहिनी ॥३०॥
सारी-वाक्यं—श्री-राधिकायाः प्रियता प्रेम । प्रेमाना प्रियता हार्दं प्रेम स्नेहः इत्य् अमरः । सुरूपता सौन्दर्यं, सुशीलता सुस्वभावः, नर्तने गाने च चातुरी चतुरत्वं, गुण-श्रेणी-रूपा सम्पत्, कविता च पाज्ञानित्यं च राजते । कीदृशी सती ? जगन्-मनो-मोहनः श्री-कृष्णस् तस्य चित्त-मोहिनी ॥३०॥
रसयति राधा कृष्णे
रसयति तच्-चरण-सेवातिसौख्यम् ।
अलिर् इव मल्ल्यां सोऽस्यां
रसयन्त्यां रसयति तद्-अधर-मात्रम् ॥३१॥
शुक-वाक्यं—कृष्णे रसयति रसं परिहासालिङ्गन-चुम्बन-सम्भोगादिकं कुर्वति सति । राधा तस्य कृष्णस्य चरणयोः सेवा-रूपम् अतिसौख्यं सुखं रसयति आस्वादयति चरण-सेवां करोतीत्य् अर्थः । अस्यां राधायां रसयन्त्यां रसं रागम् अनुरागं कुर्वत्यां सत्यां स कृष्णस् तस्या राधाया अधर-मात्रं रसयति आस्वादयति पद-सेवादिकं तु न । कस्यां क इव, मल्ल्यां रसयन्त्यां रसं गुणं स्व-सद्-गुणं विकाशं कुर्वन्त्याम् अर्थाद् विकसन्त्यां सत्याम् अलिर् भ्रमरस् तस्या मधु-मात्रम् आस्वादयति न मूल-शाखोपशाखादिकं किम् अपि तथा । शृङ्गारादौ विषे वीर्ये द्रवे रागे गुणे रस इति विश्वः । द्रव-केलि-परिहासाः इत्य् अमरः । रस आस्वादने धातुः ॥३१॥
कृष्णस्य सङ्गम् इह नाथति राधिका तं
लब्धं तु नाथति सुमान-वृषार्क-तापः ।
तत्-प्रीति-सेवन-ततेर् अपि नाथमाना
नाथत्य् अलं विपिन-नीवृतिं तस्य चित्रम् ॥३२॥[^२९]
सारी-वाक्यं—इह वृन्दावने राधिका कृष्णस्य सङ्गं नाथयति याचते । लब्धं तं कृष्णं तु पुनः सुमान-वृषार्क-तापैः सुष्ठु मान एव ज्यैष्ठ-सूर्य-तापस् तैर् नाथयति उपतापयति। तत् तस्य कृष्णस्य प्रीति-सेवा-ततेर् नाथमाना याचमाना अपि विपिन-नीवृतिं वृन्दावन-देशे तस्य कृष्णस्य अलं नाथति नाथ इव ईश्वरीव आचरति इति चित्रम् । नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु । नीवृज् जन-पदो देश- इत्य् अमरः ॥३२॥
या सरित्-स्तम्भिनी विश्वाकर्षिणी सर्व-मोहिनी ।
सद्-धर्मोच्चाटिनी स्त्रीणां सा वंशी सङ्गिनी हरेः ॥३३॥
सारी-वाक्यं—या वंशी सरितां नदीनां स्तम्भिनी, स्त्रीणां सद्-धर्मोच्चाटिनी, सा वंशी हरेः सङ्गिनी । सङ्ग-दोषेण साधूनाम् अपि दुष्टत्वं स्याद् एव ॥३३॥
कथयतु महिमानं को नु कृष्णस्य वंश्यास्
तद्-इतर-पुरुषे या राग-पङ्कं विधूय ।
हृदि जगद्-अबलानां नाद-पीयूष-वृष्ट्या
सहज-दयित-कृष्णे रागम् आविष्करोति ॥३४॥
शुक-वाक्यं—कृष्णस्य वंश्या महिमानं कः कथयतु ? या वंशी नाद-पीयूष-वृष्ट्या जगद्-अबलानां हृदि तद्-इतर-पुरुषेषु तस्मात् कृष्णाद् इतरेषु पुरुषेषु स्व-पतिषु यो राग आसक्तिः स एव पङ्कस् तं विधूय दूरीकृत्य सहज-दयिते कृष्णे । कुर्वन्ति हि त्वयि रतिं कुशलाः स्म आत्मन् नित्य-प्रिये [भा।पु। १०.२९.३३] इत्य्-आद्य्-उक्त्या स्वतः-प्रसिद्ध-प्राणनाथे श्री-कृष्णे रागं जनयति ॥३४॥
अथ कीराश् च शार्यश् च स्वेशयोः प्रणयोन्मदाः ।
चक्रुः प्रश्नोत्तरालापं स्व-स्व-गोष्ठ्यां मुदा मिथः ॥३५॥
अथ कीराश् च शार्यश् च राधा-कृष्णयोः प्रणयोन्मत्तता मिथः स्व-स्व-गोष्ठ्याम् ॥३५॥
बिभ्रत्-करैकेन नभस्य् अहार्यं
महेन्द्र-गर्वाद्रिम् अधोऽनयत् कः ।
कः कालियाहेः फण-वृन्द-रङ्गे
ननर्त तं भो वद कृष्ण एषः ॥३६॥
क एकेन करेण नभस्य हार्य पर्वतं बिभ्रत् सत् महेन्द्रस्य गर्व-रूपम् अद्रिं पर्वतम् अधोऽनयत् । अहार्य-धर-पर्वताः अद्रि-गोत्र-गिरि-ग्रावाचल-शैल-शिलोच्चयाः इत्य् अमरः । कः पुनः कालिय-फण-समूह-रूप-रङ्ग-भूमौ ननर्त । तं वदेति प्रश्नं शारीः श्रावयति । कस्मिन् शुके कं प्रति कुर्वति सति । एष कृष्ण इत्य् उतंरं तस्मै सोऽवदत् ॥३६॥
निज-हृदि धृत-वक्षोजाद्रि-युग्मोपरिष्टाद्
गिरिधरम् अपि लीलाम्भोजवत् का बिभर्ति ।
भुजग-दमन-चेतो-वृत्ति-चञ्चद्-भुजङ्गी
शिरसि नटति का तां ब्रूहि सा श्रील-राधा ॥३७॥
सारी शुकं प्रति प्रश्न-द्वयं चकार । एष कृष्ण इति द्वयोर् उत्तं शुकोऽवदत् । निज-हृद्-धृत-स्तन-पर्वत-युग्मोपरि धृत-गोवर्धन-धरं श्री-कृष्णं नील-कमलम् इव का बिभर्ति ? भुजग-दमनस्य कृष्णस्य चित्त-वृत्तिः सैव भुजङ्गी सर्पी तस्याः शिरसि का नटति ? तां ब्रूहीति । कस्याम्चित् शार्या तथा पृच्छन्त्यां काचिद् आह—सा श्रील-राधेति ॥३७॥
सदैव मुक्ताश् च तथातिमुक्ता
जाता वनेऽस्मिन् परिफुल्लताङ्गाः ।
पुष्णन्ति सारङ्ग-गणान् रसैः स्वैः
कस्य प्रभावाद् वद माधवस्य ॥३८॥
शुकं शुकः—सदैव मुक्ता ब्रह्मैक-निष्ठाः प्रेम-गन्ध-रहिता अपि अस्मिन् वने श्री-वृन्दावने श्री-वृन्दावन-विषये परिफुल्लताङ्गाः प्रेम-पुष्टाः सन्तो जाताः, जन्म-प्राप्ताः सन्तः स्वैः रसैः प्रेमभिः सारङ्ग-गणान् भक्त-गणान् पुष्णन्ति । सारङ्गः पुंसि हरिणे चातके च मतङ्गजे । सरले त्रिषु इत्य् आदि मेदिनी । आस्ताम् एषां जङ्गमानाम् अयं प्रेम-विषयः स्थावरा अपि अतिमुक्ता माधव्यस् तिनिश-वृक्षाश् च तथा सदैव मुक्ता इव परिफुल्लताङ्गाः पत्र-पुष्पादि-पूर्णस् तच्-छलेन प्रेम-पुष्टा जाताः सन्तः स्वैः रसैर् मधुभिः, तच्-छलेन प्रेमभिः सारङ्ग-गणान् भ्रमर-गणान् तच्-छलेन भक्त-गणान् पुष्णन्ति । कस्य प्रभावाद् वदेति पृच्छन्तं पृष्ट आह—माधवस्य कृष्णस्य प्रभावात् । मुक्ता अपि लीलया विग्रहं कृत्वा भगवन्तं भजन्ति इति प्रमाणात् ।
स्थावर-पक्षे तु, वसन्तस्य तच्-छलेन कृष्णस्येत्य् अर्थः ।
वन-लतास् तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्प-फलाढ्याः । प्रणत-भार-विटपा मधु-धाराः प्रेम-हृष्ट-तनवो ववृषुः स्म ॥ [भा।पु। १०.३५.९] इत्य्-आद्य्-उक्तेः ।
अतिमुक्तः पुण्ड्रकः स्याद् वासन्ती माधवी-लता इति, तिनिशे स्यन्दनो नेमी रथद्रुर् अतिमुक्तकः इति चामरः ॥३८॥
सदैव मुक्ताश् च तथातिमुक्ता
माध्वी-ककारा मधुपालि-सङ्गाः ।
उत्पद्य जाता वद तत्र हेतुं
कस्यापि रामानुगतस्य सङ्गात् ॥३९॥
एवं श्री-कृष्णस्योत्कर्षं श्रुत्वा श्री-राधा-पक्षपातिन्यः शार्योऽन्तर् अतिमुदिता अपि बहिर् असहमाना निकर्षन्त्यः सत्यस् तम् आहुः—सारीं सारी । सदैव मुक्ताः संसारातीता अपि माध्वीक-कारा माध्वीकं मधु तद्वत् सर्व-सारत्वात् । माध्वीकं प्रेम तच्-छलेन मद्यं कुर्वन्तीति माध्वीक-कारा उत्पद्य, अतो मधुपालि-सङ्गाः मधुपा इव मधुपाः सार-ग्राहिणो भक्तास् तच्-छलेन मद्यपास् तेषां श्रेणी सङ्गाज् जाता भवन्ति । तथा अतिमुक्ता माधवीति निशाश् च माध्वीकं तच्-छलेन मद्यं कुर्वन्तीति ते उत् पद्य मधुपानां भ्रमराणां, तच्-छलेन मद्यपानां श्रेणी सङ्गाज् जाता भवन्ति । तत्र हेतुं वदेति पृच्छन्ती पृष्टाह—रामानुगतस्य सङ्गात् रामः श्री-बलरामस्यानुगतः कनिष्ठत्वात्, पश्चाद् गतः श्री-कृष्णः ।
स्थावर-पक्षे तु, आरामानुगतो वसन्तः, एक-देश-विकृतम् अनन्यवद् अतिवचनात्, स तु रामानुगतः, अतो नाम्ना कृष्ण-मित्रं श्लेषेण कृष्ण एव वसन्त एव च रामानुगतो रामा स्त्री तद्-अनुगतस् तत्-सङ्गी विषयि-जनस् तस्य सङ्गात् । यतो योषित् सङ्गात् मुक्तानाम् अपि भ्रंशो भवति ।
न तथास्य भवेन् मोहो बन्धश् चान्य-प्रसङ्गतः । योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः ॥ [भा।पु। ३.३१.३५] इत्य्-उक्तेः ॥३९॥
हृत्वांशुकं पश्यति कोट्टवीः कः
साध्वी-ततेः कः सुकृतं भिनत्ति ।
को वा स्त्रियं वत्स-वृषौ च निघ्नन्
न लज्जते तं वद कृष्ण एषः ॥४०॥
कः अंशुकं वस्त्रं हृत्वा कोट्टवीर् नग्निकाः पश्यति । कः साध्वी-ततेः सुकृतं भिनत्ति ? को वा स्त्रियं पूतनां वत्सासुरं वृषासुरं च छलेन स्त्री-वत्स-वृषां च निघ्नन् न लज्जते तं वद । तत्राह—एष कृष्णः ॥४०॥
तां मातृकां कः किल मातृ-कारकः
को वत्सकं वत्सक-पालको व्रजे ।
को धेनुकं धेनुक-रक्षकोऽप्य् अलं
वृषं च निघ्नन् वृष-वर्धनोऽभवत् ॥४१॥
शुकं शुको द्वाभ्याम् । को व्रजे तां मातृकां निघ्नन् मारयन् मातृकाया मातैव मातृका तस्या अबको रक्षकः सुख-वर्धकः । यो हन्ता यस्य स एव तस्य रक्षक इति विरोधः । अत्र विरोधाभासालङ्कारः । प्रथम-मातृका-शब्दोऽत्र पूतना-वाचकतया विरोधवत् भासते, न तु विरोधः । धेनुकं धेनुकासुरं निघ्नन् धेनुक-रक्षकः । धेनुर् एव धेनुको धेनुकं वा तेषां रक्षकः । स्वार्थिकाः प्रकृतितो लिङ्ग-वचनान्य् अतिवर्तन्ते इति पाणिनीय-सूत्रात् । स्वार्थे क-प्रत्यये कृते नित्य-स्त्री धेनु-शब्दस्य पुंस्त्वं क्लीबत्वं वा । यद् वा, धेनूनां कस्य सुखस्य रक्षको वर्धकः, वृषासुरं निघ्नन् वृषं सुकृतं वर्धयतीति वृष-वर्धनोऽभवत् । पुण्य-श्रेयसी सुकृतं वृष इत्य् अमरः ॥४१॥
नीतिः कुमारी-वरणे तद्-अङ्ग-
हृद्-वाक्-परीक्षेत्य् अकरोच् च तां कः ।
सतीत्वम् आच्छिद्य महा-सतीत्वं
चक्रेऽबलानां वद तं स कृष्णः ॥४२॥
कुमारीणां वरणे विवाहोद्यमे तत् तासां कुमारीणाम् अङ्ग-हृद्-वाक्-परीक्षा नीतिर् न्याय इति विचार्य, नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः [भा।पु। १०.२२.४] इति वृतः सन् तासां कुमारीणां तां नीतिं कोऽकरोत् ? पुनः कोऽबलानां सतीत्वम् आच्छिद्य महा-सतीत्वं चक्रे । तं वदेति प्रश्नोत्तर एष कृष्ण इति ॥४२॥
इति पटु-विहगानां वाग्-विलासामृतानि
श्रवण-चषक-पूरं तौ पिबन्तौ स-सभ्यौ ।
निज-निज-सुहृदं तत्-प्रीणनायाविशन्तौ
तत-शरद्-ऋतु-लक्ष्मीं चेरतुर् लोकयन्तौ ॥४३॥
इत्य् अनेन पटूनां निपुणानां विहगानां पक्षिणां वाग्-विलासामृतानि श्रवण-रूप-चषकस्य पान-पत्रस्य पूरं पूरणं यथा स्यात् तथा पिबन्तौ स-सभ्यौ तौ राधा-कृष्णौ । तत् तेषां विहगानां, दाडिम-बीजादिभिः प्रीणनाय विशन्तौ निज-निज-सुहृदं ललिता सुबलं च दिशन्तौ विस्तृतां शरद्-ऋतु-लक्ष्मीं लोकयन्तौ चेरतुः ॥४३॥
पक्व-द्राक्षा-बलजकं शारिभ्यो ललिता ददौ ।
कीरेभ्यः सुबलः प्रादात् पक्व-दाडिम-बाटिकाम् ॥४४॥
ललिता सारिभ्यः पक्व-द्राक्षा-बलजकं द्राक्षा-क्षेत्रं ददौ । सुबलः कीरेभ्यः पक्व-दाडिम-बाटिकां प्रादात् ॥४४॥
**नान्दीमुखी तद् अनु ताव् अवदद् वनेशौ
निध्यायतं स्व-पुरतो वन-भागम् एतम् ।
हेमन्त-शन्तमतया प्रथितं निजैः सत्-
सम्पच्-चयैश् चरणम् अर्चितुम् उत्सुकं वाम् ॥४५॥ **
तद्-अनु तत्-पश्चात् नान्दीमुखी तौ राधा-कृष्णौ अवदत् । स्व-पुरत एतं वन-भागं हेमन्त-शन्तमतया ख्यातं निजैः सत्-सम्पत्ति-समूहैर् वा युवयोश् चरणम् अर्चितुम् उत्सुकम् । निध्यायतं पश्य तम् ॥४५॥
चित्रा-म्लान-कुरुण्डकैः फुल्लैर् लसत्-सौरभा
माद्यत्-तित्तिरि-लाव-षट्पद-किखी-कीरा-रवैर् मञ्जुला ।
हृद्या पक्त्रिम-नागरङ्ग-रुचकैः शीता तुषारानिलैः
सेयं भाति वन-स्थलीह भवतोः पञ्चेन्द्रियाह्लादिनी ॥४६॥
भवतोः पञ्चेन्द्रियाह्लादिनी सेयं वन-स्थलीह भाति, अम्लान-कुरु-कण्टकैर् झिण्टी-पुष्पैश् चित्रा नेत्रस्य, फुल्लैः कुरुवकैः रक्त-झिण्टीभिर् लसत्-सौरभा नासायाः, तित्तिर्य्-आदीनां रवैः शब्दैर् मञ्जुला कर्णस्य । तित्तिर् इति, लावः गुड्गुड् इति षट्पदी भ्रमरः । किखी तिटा सकुला गौडे प्रसिद्धा यस्य पक्षः कर्ण-वेदनां नाशयति । कीराः शुकाः । पक्त्रिम-नागरङ्ग-रुचकैः नारङ्ग इति बीज-पुर इत्य् आख्यैर् हृद्या रसनायाः । तुषारो हिम-कणा तत्-सहित-पवनैस् त्वचः ।
सहा कुमारी तरणिर् अम्लानस् तु महासहा । तत्र शोणे कुरबकस् तत्र पीते कुरकण्टकः । नीली झिण्टी द्वयोर् बाणा दासी चार्तगलश् च सा । सैरेयकस् तु झिण्टी स्यात् इत्य् अमरः ॥४६॥
स्फुरित-सहचराली-वेष्टितोऽम्लान-कान्तिस्
तत-कुसुम-धनुर् मूर्च्छालि-गोपी-प्रगीतः ।
विकच-कुसुम-बाणः कृष्ण ते देह-तुल्यो
मुखरित-शुक-लीलो भाति हेमन्त-कालः ॥४७॥
हे कृष्ण ! ते देह-तुल्यो हेमन्त-कालो भाति । ते देह-पक्षे, स्फुरितानां मुदितानां सहचराणां सखीनाम् आलीभिः श्रेणिभिर् वेष्टितः । काल-पक्षे, पीता झिण्टीं तस्याः श्रेणीभिर् वेष्टितः । देह-पक्षे, अम्लाना कान्तिर् यस्य सः । पक्षे, अम्लानेन झिण्टी-पुष्पेण शोभा यत्र सः । ततः विस्तृतः समृद्धः कुसुम-धनुः कन्दर्पो यस्मात् । काल-पक्षेऽप्य् अयम् एवार्थः । यद् वा, ततानि विस्तृतानि कुसुमान्य् एव धनुः कन्दर्प-धनुर् यत्र सः । देह-पक्षे, मूर्च्छालिनीभिर् गोपीभिः प्रगीतः । प्रवीत इति पाठे प्रकर्षेण वेष्टितः । गोपी श्यामा शारिका स्याद् इत्य् अमरः । विकचः प्रफुल्लः कुसुम-बाणः कन्दर्पो यतः सः । अयम् अर्थः काल-पक्षेऽपि । यद् वा,, विकचानि कुसुमानि एव बाणाः कन्दर्प-बाणा यत्र सः । यद् वा, ते विकचानि कुसुमानि येषां तथा-भूता बाणाः, तत्-पुष्प-वृक्षा यत्र सः । नील-झिण्टी द्वयोर् बाणाः इत्य् अमरः । मुखरित उच्चैर् बहु-जल्पकी-कृतः शुकः श्री-शुकदेवो यया । किं वा, मुखरिताः शुकाः पूर्वोक्त-शुका यया, तादृशीं लीलां यस्य सः । काल-पक्षे, मुखरित-शुकानां लीला यत्र सः ॥४७॥
**हिम-ऋतु-लक्ष्मीम् अतिमुदितस् ताम् ।
हरिर् अथ कान्तां प्रतिकुरुते स्म ॥४८ ॥ **
अतिमुदितो हरिस् तां हिम-ऋतु-लक्ष्मीं कान्तां राधां प्रति कुरुते स्म, उपमानान्तरेण दर्श्यते स्म ॥४८ ॥
रुचिर-विविध-वर्णा पक्व-शाल्य् अंशुकाङ्गी
मद-कल-शुक-पाली-नाद-नान्दीमुखी व ।
सुमुखि परिणतोच्चैर् नागरङ्ग-स्तनीयं
कलय वर-नटीवाभाति हेमन्त-लक्ष्मीः ॥४९॥
इयं हेमन्त-लक्ष्मीर् वर-नटी इव आभाति । कीदृशी मनोज्ञो विविधो वर्णो यस्या सा । आपक्वा ईषत् पक्वा वा शाली चान्यम् अंशुकं वस्त्रम् अङ्गे यस्या सा । मद-कलानां मोदोत्कटानां शुक-श्रेणीनां नाद एव नान्दी नाट्यारम्भे कृता स्तुतिर् यस्या सा । हे सुमुखि ! परिणताः पक्वा नागरङ्गा नारङ्ग इत्य्-आख्य-फलानि स्तनौ यस्या सा ॥४९॥
औष्ण्यं हिम-र्तुम् अनु ते हृदयाख्य-दुर्गं
भानोः समाश्रयति साध्वि तुषार-भीत्या ।
तत्-सङ्गमाद् अनुपलब्ध-वियोग-दुःखं
रात्रिन्दिवं विलसति स्तन-कोक-युग्मम् ॥५०॥
हे साध्वि ! तुषारस्य हिमस्य भीत्या हिमर्तुम् अनु हिम-ऋतौ भानोः सूर्यस्य औष्ण्यं ते हृदयाख्यं दुर्गं समाश्रयति । तत्-सङ्गमात् भानोर् औष्ण्यम् असङ्गात् । भानुर् अस्तीति बुद्ध्या तव स्तन-रूप-कोक-युग्मम् अनुपलब्धं वियोग-दुःखं सूर्याभाव-जन्यं द्वयोर् विच्छेद-रूपं येन तादृशं सत् रात्रिन्दिवं विलसति विशेषेण लसति, लसद् दीप्तौ । रात्रौ चक्रवाकस्य वियोगः ।
कूपोदकं बट-च्छाया श्यामा स्त्री इष्टकालयम् । शीत-काले भवेद् उष्णम् उष्ण-काले च शीतलम् ॥ इति प्रमाणात् । तप्त-काञ्चन-वर्णाभ इन्द्रनील-मणि-द्युतिः । द्व्य्-अर्थः श्याम-स्वरूपस्य कविभिः परिकीर्तितः ॥ इति ।
श्यामा तु कठिन-स्तनी इति च । तस्याः शीते उष्णत्वं च प्रसिद्धम् ॥५०॥
**ऋताव् इहाग्नेः प्रबलोष्ण-भावा
भिया हिमान्याः परितो द्रवन्तः ।
कूपाप्सु केचिद् विनिपत्य लीनाः
क्रोडे द्रुमस्याद्रि-दरीषु चान्ये ॥५१॥ **
हिमान्याः हिम-समूहस्य भिया इह शीत-ऋतौ अग्नेः प्रबलोष्ण-भावाः परितः पलायन-पराः केचित् कूप-जले अन्ये च वृक्ष-क्रोडे पर्वत-कन्दरासु च विनिपत्य लीना अभवन् । हिमानी हिम-संहतिः इत्य् अमरः ॥५१॥
हिमानी-डाकिनी सेयम् अलक्षितम् अहर्निशम् ।
इह भानु-बृहद्भान्वोः प्रपिबत्य् औष्ण-शोणितम् ॥५२॥
सेयं हिमानी डाकिनी इह ऋतौ अहर्-निशं सूर्य-वह्न्योर् औष्ण-शोणितं प्रपिबति ॥५२॥
आलिङ्ग्य कान्तां तरुणैः शयानैः
कुचोष्णतासङ्ग-विभङ्ग-दीनैः ।
आराधितोऽर्कः कृपया विलम्ब्य
प्रोद्यन् विधत्तेऽद्य निशाभिवृद्धिम् ॥५३॥
कुचोष्णतासङ्ग सङ्गस्य विभङ्गेन दीनैः शयानैस् तरुणैः आराधितोऽर्कः सूर्यः विलम्बं कृत्वा प्रोद्यत् उदयं कुर्वन् निशा-वृद्धिं विधत्ते ॥५३॥
रासे कुमारी-गण-कुङ्कुमाञ्चित-
स्तनावली यां स्मृतिम् आनिनाय नौ ।
सा पक्व-नारङ्ग-फलालिर् अग्रतस्
तत्-स्मारकत्वं स्व-गुणं व्यनक्त्य् असौ ॥५४॥
रासे कुमारी-गण-कुङ्कुम-युक्त-स्तनावली यां पक्व-नारङ्ग-फलावलिं नाव् आवयोः स्मृतिम् आनिनाय स्मृति-विषयी-भूतां चकार । इदानीम् अग्रतः साहसौ वन-भाग-वर्तिनी पक्व-नारङ्ग-फलालिस् तत्-स्मारकत्वं रासे कुमारी-गण-स्तनावलि-स्मारकत्वं स्व-गुणं स्व-धर्मं व्यनक्ति पूर्व्कार्य् ॥५४॥
अथालोकयन्तौ पुरोऽरण्य-भागम् ।
समुत्कौ निजेशाव् अवादीद् वनेशा ॥५५॥
वनेशा वृन्दा । पुरोऽग्रे अरण्य-भागं लोकयन्तौ समुत्कौ निजेशौ राधा-कृष्णौ ॥५५॥
प्रविशद्-अखिल-जन्तूत्कम्प-रोमाञ्च-कारी
क्वचिद् अलघु-नगाधः-कोष्णता-शीत-हारी ।
मृदुलित-रवि-कान्तिर् दक्षिणाशागतार्कः
शिशिर-रुचिर-नामा भात्य् अरण्यैक-देशः ॥५६॥
शिशिर-रुचिर-नामा वनैक-देशो भाति, प्रविशताम् अखिल-जन्तूनां कम्पादि-कारी । क्वापि अलघूनां बृहतां नगानां वृक्षाणाम् अधः-कोष्णता अल्पोष्णता तया करणेन शीत-हारी मृदुलिता मृदुलाम् इव आचरिता सस्यऊर्यस्य कान्तिर् यत्र स दक्षिण-दिग्-गतोऽर्को यत्र सः ॥५६॥
जवा-बन्धूकाभारुण-वर-दुकूलं दमनक-
प्रभा-चोलीं कुन्द-द्युति-सित-निचोलं च दधती ।
भरद्वाज-श्रेणी-विरुति-युत-हारीत-रुतिभिः
स्तुवन्तीव प्रेम्ना शिशिर-ऋतु-लक्ष्मीर् मिलति वाम् ॥५७॥
शिशिर-ऋतु-लक्ष्मीर् वां युवाभ्यां प्रेम्ना मिलति । कीदृशी ? जवा-बन्धूक-पुष्पाणाम् आभया कान्त्या अरुण-वर्णं वर-दुकूलं श्रेष्ठ-वस्त्रं दधती । दमनक-प्रभया चोलीं कञ्चुकीं दधती । कुन्द-द्युतिभिः सित-निचोलं शुक्लोत्तरीयं च दधती भरद्वाज-पक्षि-श्रेणीनां विशिष्ट्-रुतिभिः शब्दैः सह हारीत-पक्षि-रुतिभिः स्तुवन्तीव ॥५७॥
निविड-दल-तरूणां वासराद्य्-अन्त-काला-
गत-रवि-करकोष्णे सूर्यकान्ताञ्चितेऽङ्के ।
मृग-ततिर् उपविष्टा मन्द-रोमन्थ-रम्या
प्रकट-पुलक-बाष्पा वां समीक्ष्याभ्युपैति ॥५८॥
निविडानि दलानि पत्राणि येषां तेषां तरूणाम् अङ्के क्रोडे । कीदृशे ? दिवसस्याद्य्-अन्त-काले प्रातर् अपराह्ने चागत-रवि-किरणेन कोष्णे अल्पोष्णे सूर्यकान्त-मणिना युते उपविष्टा मन्द-रोमन्थेन तृणस्य मृदु-चर्वणेन रम्या मृग-ततिर् वां युवां समीक्ष्य प्रकट-पुलक-बाष्पा सती अभ्युपैति समीपम् आयाति ॥५८॥
ऋताव् अस्मिन् तेजः क्षतिर् अनुदिनं प्राण-सुहृदां
सरोजानां नष्टिः स्व-सुख-समयाह्नोऽपि लघुता ।
तुषारैश् चण्डांशोर् अपि मृदुभिर् उच्चैर् बत कृता
विनैकं विश्वेशं भवति न हि कः काल-वशगः ॥५९॥
एकं विश्वेशं विना को वा काल-वशगो न हि भवति । अन्या का वार्ता । बत आश्चर्ये । अस्मिन् शिशिर-ऋताव् मृदुभिस् तूषारैश् चण्डांशोः सूर्यस्यापि उच्चैस् तेजसः क्षतिः क्षयोऽनुदितं कृता । चण्डांशोः प्राण-सुहृदां सरोजानां नष्टिर् नाशः कृता । स्व-सुख-समय-दिवसस्य लघुता कृता ॥५९॥
प्रबल-शिशिर-भीत्या भानुर् औष्ण्यं स्व-वित्तं
स्तन-युग-गिरि-दुर्गे बल्लवीनां न्यधत्त ।
त्वरितम् इदम् अमूभिः कृष्ण भोगाय कॢप्तं
प्रभवति नहि गाढ-प्रेम्नि धर्माद्य्-अपेक्षा ॥६०॥
भानुः प्रबल-शिशिर-भीत्या वल्लवीनां स्तन-युग-रूप-गिरि-दुर्गे स्व-वित्तम् औष्ण्यं न्यधत्त । अमूभिर् बल्लवीभिस् त्वरितं तद् औष्ण्यम् । हे कृष्ण ! भोगाय तव भोगाय कॢप्तं कृतं तुभ्यं दत्तम् । एकस्य स्थापितं धनम् अन्यस्मै दाने धर्मादि-विरुद्धिः स्यात्, तत्राह—गाढ-प्रेम्नि धर्माद्य्-अपेक्षा न हि प्रभवति, प्रभुः समर्था न भवति । किं वा, प्रकर्षेण न हि भवतीति निषेधस्यैव प्रकर्षः किञ्चिद् अपि न भवतीति फलितार्थः ॥६०॥
इति तद्-गिरा प्रमुदितोऽत्र
शिशिर-ऋतुजां वन-श्रियम् ।
बकरिपुर् अथ कलयन् स
तदा ललितं जगाद निज-प्रियाम् ॥६१॥
वृन्दा-गिरा प्रमुदितः कृष्णो ललितं यथा स्यात् निज-प्रियां राधां जगाद । शिशिर-ऋतुजाम् इति, कौमुद्याम् ऋत्यकः इति सूत्रात् सन्धेर् विकल्पत्वम् । हरि-नामामृते च ऋ-द्वयाद् व-ययोर् ऋतीति सूत्रात् । हिम-ऋताव् अपि ताः स्म भृश-स्विद [शि।व। ६.६१] इति माघः ॥६१॥
भ्रमद्-इन्दिन्दिर-वृन्दं सुन्दरि शिशिरागमम् ।
दिशत्य् अत्र मन्दादरम् अरविन्दे विन्दति कुन्दे यद् आनन्दम् ॥६२॥
हे सुन्दरि ! अत्र वन-प्रदेशे भ्रमद्-इन्दिन्दिराणां भ्रमराणां वृन्दं यद् यस्मात् अरविन्दे मन्दादरं कुन्दे आनन्दं च विन्दति, तस्मात् शिशिरागमं दिशति ॥६२॥
पश्येन्दिरेन्दिन्दिर-वृन्द-संयुता
दन्दह्यमानं प्रबलैर् हिमैर् निजम् ।
विहाय सम्प्रत्य् अरविन्द-मन्दिरं
कुन्दावलौ सुन्दरि मन्दिरीयति ॥६३॥
इन्दिन्दिर-वृन्देन भ्रमर-समूहेन संयुता इन्दिरा लक्ष्मीः प्रबलैर् हिमैर् सम्प्रति दन्दह्यमानं निजम् अरविन्द-मन्दिरं विहाय त्यक्त्त्व कुन्दावलौ मन्दिरम् इव करोतीत् मन्दिरीयति । कमले भ्रमरैः सह या शोभा आसीत्, अधुना कुन्द-पुष्पे अभूद् इत्य् अर्थः ॥६३॥
हिमानी राहु-सेनानी सूर्यं निर्जेतुम् अक्षमा ।
तस्मिन् प्रणयिनीं ज्ञात्वाज्वालयत् पद्मिनी-ततिम् ॥६४॥
राहोः सेनानीः हिमानी सूर्यं निर्जेतुम् असमर्था, तस्मिन् सूर्ये प्रणय-युक्तां पद्मिनी-ततिम् अज्वालयत् ॥६४॥
तोयोत्थिताया व्रज-कन्यका-ततेः
स्तनावली यां स्मृतिम् आनिनाय मे ।
पाकोन्मुखी सद्-बदरी-फलावली
ताम् अत्र सा मत्-स्मृतिम् आनयत्य् असौ ॥६५॥
वस्त्र-हरण-दिने तोयाद् उत्थिताया व्रज-कन्यका-ततेः स्तनावली यां पाकोन्मुखीं सद्-बदरी-फलावलीं, सा अत्र वने तां स्तनावलीं मम स्मृतिम् आनयति प्रापयति ॥६५॥
हरिर् अथ दयिताया वृन्दयानीय दत्तौ
सित-मृदुल-जवान्तर्-मञ्जरी-कर्ण-पूरौ ।
स-पुलक-कर-कम्पं कर्णयोः सन्न्यधत्त
श्रुति-युगम् अनु तस्यैषापि कौन्दावतंसौ ॥६६॥
हरिर् वृन्दया आनीय दत्तौ सित-मृदुल-जवा सुगन्ध-पुष्प-विशेषोऽन्तर् मध्ये ययोस् तौ । मञ्जरी-रूप-कर्ण-पूरौ कर्ण-भूषणे स-पुलक-कर-कम्पं यथा स्यात् तथा दयिताया राधायाः कर्णयोः सन्न्यधत्त । एषा राधापि तस्य कृष्णस्य श्रुति-युगे तथा कौन्दावतंसौ सन्न्यधत्त ॥६६॥
राधायाः कर-पङ्कजेऽथ निहिता कौन्दी मुदा वृन्दया
या माला लघु-लोहितोत्पल-कुल-स्रग्-दीप्तिम् एषा दधे ।
सूक्ष्मेन्दीवर-माल्य-रोचिर् अनया कृष्णस्य कण्ठेऽर्पिता
तेनास्या हृदि योजिता स-पुलके चाम्पेय-माल्य-द्युतिम् ॥६७॥
वृन्दया राधायाः कर-पङ्कजे कौन्दी कुन्द-निर्मिता या माला निहिता, एषा माला राधा-करस्यारुणिम्ना लघु-लोहितोत्पल-कुलस्य स्रग्-दीप्तिं दधे । अनया राधया कृष्णस्य कण्ठे सा माला अर्पिता सती कृष्णाङ्ग-कान्ता सूक्ष्मेन्दीवरस्य नीलोत्पलस्य माल्य-रोचिः कान्तिं दधे । तेन कृष्णेन स-पुलके अस्या राधाया हृदि योजिता सा माला राधाङ्ग-कान्त्या चाम्पेय-माल्य-द्युतिं दधे । एका कुन्द-माला संसर्ग-जन्य-वर्ण-त्रय-युक्ता अभूद् इत्य् अर्थः ॥६७॥
स्मेरा विशाखाऽवदद् एतद् अद्भुतं
सुकोमला पश्यत कुन्दवल्लिका ।
एकैव पुष्पिण्य् अनिशं स्मरोन्मदैः
क्रमोत्क्रमाभ्यां भ्रमरैः प्रपीयते ॥६८॥
स्मेरा विशाखाह । एतद् अद्भुतं पश्यत । एकैव सुकोमला कुन्दवल्लिका अनिशं सदा पुष्पिणी स्मरोन्मदैः स्मरोन्मत्तैः भ्रमरैः क्रमोत्क्रमाभ्यां प्रपीयते । इति कुन्दवल्लिकेति परिहासाक्षिप्त तन्-नाम-गोपी-पक्षे । अद्भुतं तनु-लता पक्षे । गोपी-पक्षे तु पुष्पिणी ऋतुमती। भृङ्गैः पुरुषैः । अद्भुतम् इति परिहासेन निन्दा ॥६८॥
चित्राब्रवीत् साध्वि न चित्रम् एतत्
सौभद्रम् एषां रमणं यद् अस्याम् ।
विभात्य् अमीष्व् अत्यनुरागवत्यां
प्रचेतसाम् आस यथैव वार्क्ष्याम् ॥६९॥
श्री-चित्रा तद् द्रढयन्ती सती समादधाति—हे साध्वि विशाखे ! अमीषु भ्रमरेषु अनुरागवत्याम् अस्यां कुन्दलतायाम् एषां भ्रमराणाम् एतद् रमणं यद् यस्मात् सौभद्रम्, स्वार्थेऽण् सुमङ्गलं सुखदं विभाति, तस्माच् चित्रं न । कथम् इव ? यथा प्रचेतः-स्वनुरागवत्यां वार्क्ष्यां कन्यायां प्रचेतसां रमणं सुमङ्गलं, तथा गोपी-पक्षे तु, सुभद्रोऽस्याः पतिस् तस्य रमणं यस्माद् अस्यां विभाति, तस्माद् एषां भ्रमराणां, श्लेषे पुरुषाणाम् एतद् रमणं सौभद्रं रमणम् अस्यां न चित्रम् । सौभद्र-रमण-पात्र्यां सौभद्र-रमणम् उचितम् एवेत्य् अर्थः ।
एतत् सर्वं लीलांशे, सिद्धान्ततस् तु श्री-कृष्ण-शक्तीनां श्री-कृष्णैकान्त-कान्तानां श्रीमद्-व्रज-सुन्दरीणाम् ऋत्व्-आदिकः सामान्य-स्त्री-धर्मोऽपि पति-सङ्गश् च नास्ति ।
तथा हि—
आनन्द-चिन्मय-रस-प्रतिभाविताभिस् ताभिर् य एव निज-रूपतया कलाभिः [ब्र।सं। ५.४८] इति, श्रियः कान्ताः कान्तः परम-पुरुषः [ब्र।सं। ५.५६] इति, नासूयन् खलु कृष्णाय मोहितास् तस्य मायया । मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [भा।पु। १०.३३.३७] इति, न जातु व्रज-देवीनां पतिभिः सह सङ्गमः [उ।नी। ३.३२] इत्य् अत्र प्रमाणानि प्रसिद्धानि॥६९॥
कौन्द्य् आललाप कलयाद्भुतम् आलि फुल्लान्
स्वान् स्वान् निजान्तिक-गतान् अपि बन्धुजीवान् ।
सन्त्यज्य धैर्य-रहिता नव-बन्धु-जीवम्
एकं पिबन्ति तम् इमं शतशो भ्रमर्यः ॥७०॥
कौन्दी सर्वाः प्रत्याक्षिप्य तां चित्राम् आललाप—हे आलि चित्रे ! अद्भुतं पश्य, शतशो भ्रमर्यो धैर्य-रहिताः सत्यः फुल्लान् अपि निजान्तिक-गतान्, अत एव स्वान् स्वान् बन्धुजीवान् बन्धुजीव-पुष्पाणि सन्त्यज्य, एकम् अपि तं प्रसिद्धम् इमम् अङ्गुली-निर्दिष्टं नवं बन्धु-जीवं पिबन्ति । श्लिष्ट-पक्षे, शतशो भ्रमर्य इव भ्रमर्यो गोप्यो अर्थाद् इमाः फुल्लान् अपि निजान्तिक-गतान् निज-गृह-स्थितान् अपि स्वान् स्वान् अपि बन्धुजीवान् बन्धूनां निज-निज-कुलानां जीवन-तुल्यान् अपि पतीन् पाणि-ग्राहकान् सन्त्यज्य, एकम् अपि तम् इमं बन्धुजीवं बन्धुश् चासौ जीवश् चेति तम् । बन्ध्यते अस्मिन्न् इति बन्धुः जीवस्य बन्धुः बन्धुजीवः राजदन्तादिवत् । तं श्री-कृष्णं पिबन्ति भजन्ति ॥७०॥
चित्राह सार-ग्रहिलातिपूता
कृष्ण-त्विड् उद्यन्-मधु-मात्र-वृत्तिः ।
भृङ्गी-ततिः पञ्चम-गान-गुर्वी
यत्रातिशुद्धं मधु तत्र सक्ता ॥७१॥
चित्रा प्रत्युत्तरम् आह । कृष्णस्य त्विड् इव त्विट् कान्तिर् यस्या । अत एव अतिपूता कृष्ण-मुरली-गानवत् । पञ्चम-गाने गुर्वी श्रेष्ठा भृङ्गी-ततिः, यत्रातिशुद्धं मधु तत्र सक्ता आसक्ता, यतः सार-ग्रहिला सार-ग्राहिणी । उद्यन्ती मधु-मात्र-वृत्तिर् जीवनोपायो यस्या सा । श्लिष्ट-पक्षे, कृष्णा त्विट् कान्तिर् यस्या । तडित इव तो मेघ-चक्रे विरेजुर् इति । किं वा, कृष्णस्य त्विट् कान्तिर् यस्या सकाशात् तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः [भा।पु। १०.३२.२] इति। किं वा, चन्द्रस्य चन्द्रिकावत् कृष्णस्य त्विट् कान्ति-रूपा सा अतिपूता पञ्चम-गान-गुर्वी भृङ्गी-ततिर् गोपी-ततिः । यत्र मधु मधुवद् आस्वाद्यमानत्वात् सर्व-सारत्वाच् च मधु प्रेम तत्रासक्ता । यतः सार-ग्रहिला, प्रेम-मात्रं वृत्तिः प्राण-धारणं यस्या सा ॥७१॥
तां नर्मणाथ दयितां हरिर् आबभाषे
राधे तवातुल-गुणैर् विधुताभिमाना ।
श्रीः सापि नार्हति तवानुगतिं कुतोऽन्याः
श्रुत्वेति सापि हरिणा सह संललाप ॥७२॥
अथ हरिस् तां प्रसिद्धां दयितां श्री-राधां परिहासेनाह—हे राधे ! सा प्रसिद्धा श्रीर् लक्ष्मीर् अपि तवातुल-गुणैर् विधूताभिमाना सती तवानुगतिं नार्हति । अन्याः कुतः ?
नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः । रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ- लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ [भा।पु। १०.४७.६०]
इति श्रुत्वा सा श्री-राधा हरिणा सह संललाप, संलापी भाषणं मिथः ॥७२॥
सा श्रीः । त्वत्-स्त्री ॥७३॥
यत् त्वम् । सा श्रीः ॥७४॥
छन्दो-मञ्जर्य्-उक्त-चतुर्-अक्षरादि-छन्दो वृद्धि-क्रमेणाह—श्री-राधाह—सा श्रीस् तव स्त्री ॥७३॥ श्री-कृष्ण आह—यत् यस्मात् त्वम्, सा श्रीः ॥७४॥
गोप-स्त्रीणाम् । श्रीत्वं कस्मात् ॥७५॥
गोप-स्त्रीशः । श्रीशो यस्मात् ॥७६॥
श्री-राधाह—गोप-स्त्रीणाम् अस्माकं श्रीत्वं लक्ष्मीत्वं कस्मात् ? ॥७५॥ श्री-कृष्ण आह—यस्माद् गोप-स्त्रीशोऽहं श्रीशः, तस्माद् यूयं श्रियः ॥७६॥
व्यक्तस् ते नारीत्वे । लोलाया रागोऽस्याः ॥७७॥
सत्यं मे नारित्वम् । प्राप्ता सा त्वद्-रूपा ॥७८॥
श्री-राधाह—अस्या लोलायाश् चञ्चलायाः लक्ष्म्यास् ते नारीत्वे देवीत्वं विहाय नव-रूपस्य तव पत्नीत्वे रागो व्यक्तः । यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रता [भा।पु। १०.१६.३६] इत्य्-आदि ॥७७॥ श्री-कृष्ण आह—त्वद्-रूपा सा श्रीः सत्यं मे नारीत्वं प्राप्ता ॥७८॥
वेणुनाकर्षिता । मृग्य् अपि त्वत्-प्रिया ॥७९॥
त्वत्-सदृग्-लोचना । तन् मृगी मत्-प्रिया ॥८०॥
श्री-राधाह—वेणुनाकर्षिता मृग्य् अपि तव प्रिया ॥७९॥ श्री-कृष्ण आह—यस्मान् मृगी तव लोचनयोः सदृशे लोचने यस्या सा, तस्मात् मम प्रिया ॥८०॥
कान्त्या नाम्ना साम्यं प्राप्ता ।
भास्वत्-कन्या सा ते कान्ता ॥८१॥
यालीयं ते शाखा हीना ।
कान्तेयं मे सा त्वद्-रूपा ॥८२॥
श्री-राधाह—भास्वत्-कन्या यमुना कृष्ण-कान्त्या कृष्णा नाम्ना च साम्यं प्राप्ता ॥८१॥ श्री-कृष्ण आह—ते तव या इयम् आली शाखा-रहिता विशाखा इयम् । मे कान्ता सा विशाखा त्वद्-रूपा ॥८२॥[^३०]
वक्षसि भृङ्गी-पङ्क्तिर् इयं ते ।
सा स्रजि सुप्तास्ते रमणीव ॥८३॥
अलकावली सदृशीह ते ।
यद् असौ सदा मम तत्-प्रिया ॥८४॥
श्री-राधाह—प्रसिद्धेयं सा भृङ्गी-पङ्क्तिस् ते रमणीव स्रजि ते वक्षसि सुप्ता अयित्वास्ते, अत इयं ते रमणी ॥८३॥ श्री-कृष्ण आह—असौ भ्रमर-पङ्क्तिर् यद् यस्मात् ते अलकावल्याः सदृशी, यद् यस्मात् सदा मम प्रिया ॥८४॥[^३१]
नीलोत्पल-मृद्वी मूर्तिस् तनु-मध्या[^३२]** ।
सप्ताहम् अगं ते दध्रे कथम् एषा ॥८५॥
अञ्जः कथम् उच्चैर् हेमाचल-युग्मम् ।
मृद्वी तव मूर्तिर् धत्ते हृदि नित्यम् ॥८६॥**
श्री-राधाह—एषा ते मृद्वी मूर्तिस् अगं गोवर्धनं कथं दध्रे ॥८५॥ श्री-कृष्ण आह—मया सप्ताहं पर्वतो धृत एव मृद्वी मूर्तिर् नित्यं सुमेरु-युग्मं धत्ते ॥८६॥
वियोगासहिष्णुः प्रिया सोम-राजी[^३३]** ।
कलाभिर् विभिन्ना हृदि भ्राजते ते ॥८७॥
शशि-वदनायास् तव नख-पङ्क्तिः ।
मनसि धृता मे बहिर् अपि साभूत् ॥८८॥**
श्री-राधाह—वियोगासहिष्णुः कलाभिर् विभिन्ना प्रिया सोम-राजी तत्-तुल्य-स्वर्ण-रेखा ते हृदि विराजते ॥८७॥ श्री-कृष्ण आह—मनसि धृता ते नख-पङ्क्तिः मे बहिर् अपि साभूत् ॥८८॥
व्रतति-ततिर् इयं सतत-मधुमती[^३४]** ।
भ्रमर-युग् अपि ते मुदम् अति तनुते ॥८९॥
सद्-अधरम् इव ते किशलय-निचयम् ।
वहति च कुसुमं स्मितम् इव यद् इयम् ॥९०॥**
श्री-राधाह—सदा मधु-युता इयं व्रतति-ततिर् लता-श्रेणी भ्रमर-युग् अपि ते मुदम् अति तनुते ॥८९॥ सद्-अधरम् इव ते किशलय-निचयम् । वहति च कुसुमं स्मितम् इव यद् इयम् ॥९०॥
कुमार ललितेयं[^३५]** कुमार-ललिताङ्गी ।
सुमार-रण-शूरा कुमार-जननीव ॥९१॥
वचः-समर-शूरा सुकण्ठि-ललितेयम् ।
सुमार-रण-हूता पलायन-परास्ते ॥९२॥**
श्री-राधाह—कुमारयति क्रीडतीति कुमारस् तत्-सम्बोधनम् । कुमार् क्रीडायां धातुः । हे कुमार ! इयं ललिता कुमारे क्रीडायां, किं वा, कुमारस्य भावः। कुमारं भावेऽण् तस्याणित्त्वं, कौमारम् इत्य् अर्थः । तद् अभिव्यप्य ललितं मनोज्ञम् अङ्गं यस्यास् तथा-भूतापि शोभनं यथा स्यात् तथा मारस्य कन्दर्पस्य रणे शूरा कुमार-जननी पर्वतीव ॥९१॥
श्री-कृष्ण आह—हे सुकण्ठि ! इयं ललिता वाचः-समरे वाग्-युद्धे शूरा, सुमार-रणे हूता शोभन-कन्दर्प-युद्धे आहूता सती, पलायन-परा आस्ते भवति ॥९२॥
सौवर्णाम्बुज-कोषे लग्ना भात्य् अलि-पङ्क्तिः ।
वक्षोजोपरि चित्रा यद्वत् ते मद-लेखा[^३६]** ॥९३॥**
सर्वेषाम् एव व्रज-वासिनां यथा-योग्य-चेष्टा-मात्रस्य कृष्ण-सुख-तात्पर्यत्वेन श्री-राधिकाया उत्कर्ष-शास्त्रेन श्री-कृष्णस्यापार-सुखं ज्ञात्वैव यथा सखीभिः श्री-राधिकायाः प्रत्यङ्गस्यानेक-विधोपमा-चातुर्य-वैदग्ध्यादि-भङ्ग्या श्री-कृष्ण-वाञ्छा-पूर्तिः क्रियते । तथैव श्री-राधिकाया अवज्ञा-बोधक-वाक्ये ततोऽधिक-सुखं ज्ञात्वैव श्री-राधायाः प्रश्नः कृतः । तेन स्व-वाञ्छा-पूर्तिं कृत्वा पुनस् तस्या वाङ्-माधुरी नास्वादयितुं स्वयं श्री-कृष्णः पृच्छति—सौवर्णेति । श्री-कृष्ण आह—ते वक्षोजोपरि मृगमदस्य यद्वत् चित्रा मनोहरा तथा सुवर्ण-पद्म-कोषे लग्ना भ्रमर-पङ्क्तिर् भाति ॥९३॥
चित्रपदा तव वाणी भाति यथा सुकृपाणी ।
इन्द्रिय-हृद् विहरन्तः कृतन्ति हृत् तरुणीनाम् ॥९४॥
श्री-राधाह—चित्रपदा तव वाणी सैव सुष्ठु कृपाणी शाणित-लघु-खड्गो भाति । अल्पार्थे ईप् । साद्धर्म्यम् आह—सा यथा छेद-भेद-क्रियाभ्यां बहिर् अन्तश् च कृतन्ति, तथा ते वाणी बहिर्-इन्द्रियाणि अन्तर्-हृद् हृदयं कृन्तति । इन्द्रिय-हृदोः समाहारोऽत्र ॥९४॥
गायति पञ्चमम् उच्चैर् यत् सहजं पिक एषः ।
दर्पक-रुक् तरुणीनां स्याद् इह कः पिक-दोषः ॥९५॥
श्री-कृष्ण आह—एष पिकः यत् सहजं पञ्चम-स्वम् उच्चैर् गायति । तेन तरुणीनां दर्पकः कन्दर्पस् तज्-जन्या रुक् रोगः स्यात् । इह स्थले कः पिकस्य दोषः, तथा मे वाण्याः को दोषः ॥९५॥
विधर्म-शास्त्र-शंसिका तवातुला सुवंशिका ।
कुकुट्टिनी-क्रिया-परा जगद्-वधू-प्रमाणिका ॥९६॥
श्री-राधाह—विगतो धर्मो लौकिको वैदिकश् च यस्मात् तत् । शास्त्रं शंसितुं शीलं यस्या सा । कुत्सित-कुट्टिनीनां क्रिया सैव परा यस्या सा ते सुष्ठु वंशिका । असवः प्राणास्तीव वंशिका अनुवंशिका वा अतिप्रियत्वात्, असुः असाधुर् वा वंशिका । उत्क्रियायाः सकाशात् । जगतां वध्वः, प्रमाणं यस्या सा ॥९६॥
योषिद्-आलि-दोष-नाश-हेतुर् अस्ति वंशिकेह ।
धर्म-शास्त्र-शंसिकाद्य मत्-स्पृहा-समानिका हि ॥९७॥
श्री-कृष्ण आह—येन केन प्रकारेण मनः कृष्णे निवेशयेत् इत्य्-आदि-धर्म्-शास्त्र-शंसिका । अन्यद् अपि परम-धर्मम् आह—योषिद्-आलि-दोष-नाश-हेतुर् योषितां श्रेणीनां को दोषः वंशी-ध्वनिना विमोहिताः सत्यः कृष्णं यान्तीत्य्-आदि रीत्या स्वस्मिन् तासां दोषं नीत्वा तासां दोष-नाश-हेतुः । मे या याः स्पृहा जायन्ते नासां समानिका-सदृशो सिद्धि-कर्त्री, वा किं वा, सम्यक् प्रापयित्री नीञ् प्रापणे आनयतीति आनीः क्विब्-अन्तः स्वार्थे कः । स्त्रीत्वाद् आप् ह्रस्वो वा इति सूत्रेण कापि परे ह्रस्वः । किं वा, तासां सम्यक् आनिका जीवयित्री सकलीकर्त्री । अनप्राणने, ञ्-यन्तो वुण् ॥९७॥
कात्यायनी-व्रत-परा मृदुला कन्यका-ततिः ।
सहते कथम् आमर्दं मत्तेभ-सदृशस् तव ॥९८॥
मृदुला कन्यका-ततिः मत्त-हस्ति-तुल्यस्य ते । आमर्दं कथं केन प्रकारेण सहते ॥९८॥
गणिका कलिका-प्राया मत्तोऽयं भ्रमरो महान् ।
पुष्णाति तं तदामर्दं सहमानाक्षता न किम् ॥९९॥
श्री-कृष्ण आह—कलिका-प्राया गणिका यूथिका-पुष्पं वेश्या च । अयं भ्रमरो महान् मत्तः । तत् तस्य भ्रमरस्य भृङ्गस्य कामुकस्य च आमर्दं सहमाना सती अक्षया सती, तं मत्त-भ्रमरं कामुकं च न किं पुष्णाति, अपि तु पुष्णात्य् एव । गणिका यूथिकाम्बष्ठा इति । वार-स्त्री गणिका वेश्या इत्य् अमरः । भ्रमरः कामुके भृङ्गे इति विश्वः ॥९९॥
तव नव-कनक-क्षौणी भुजग-शिशु-सृतापीष्टा ।
इयम् इह तनु रोमाली-युग् उदर-सदृशी यत् ते ॥१००॥
तवेयं नव-कनकस्य क्षौणी पृथ्वी यद् यस्मात् ते रोमावली-युक्तोदर-सदृशी तस्माद् इयं भुजग-शिशोः सर्प-बालकस्य सृतं सृतिर् गमनं यत्र तथा-भूतापीष्टा ॥१००॥
तव सा प्रियाद्रि-हाटक-स्थल्य् अपि भुजङ्ग-सङ्गता ।
यद् इयं विभाति वेणिकायुत-पृष्ठ-पट्टिके रतिः ॥१०१॥
तवेयं सा अद्रेः पर्वतस्य स्वर्ण-स्थली यद् यस्मात् ते वेणु-युता पृष्ठ एव पट्टिका सा इव, तस्मात् भुजङ्ग-सङ्गतापि प्रिया सती विभाति ॥१०१॥
कथम् इयं चकोर-वीथिका
प्रिय विहाय चन्द्र-सन्निधिम् ।
अहनि सङ्गतेह खेऽन्तिके
भ्रमति नन्दिता मनोरमा ॥१०२॥
श्री-राधाह—हे प्रिय ! इयं नन्दिता मनोरमा चकोर-वीथिका चन्द्र-सन्निधिं विहाय इहान्तिके खे आकाशे अहनि सङ्गता भ्रमति ॥१०२॥
हित्वा खेन्दुं क्षय-युजम् एषा
दृष्ट्वा कल्पं निज-परिपोषे ।
पीत्वा तत् श्री-मुख-विधु-कान्ति-
ज्योत्स्नां मत्वा सुखम् इह भाति ॥१०३॥
श्री-कृष्ण आह—राधे ! खे आकाशे इन्दुः खेन्दुस् तं क्षय-युक्तं हित्वा ते मुख-चन्द्रो ज्योत्स्नां पीत्वा निज-परिपोषे कल्प-समर्थ्यं ते मुखं मत्वा यथा स्यात् तथा इह भाति ॥१०३॥
प्रश्नोत्तराभ्याम् अथ नर्म-भङ्ग्या
तत्-तत्-स्वभाव-स्तुति-गर्भ-पद्यैः ।
राधाच्युतौ तत् प्रणयातिनिघ्नौ
विलज्जयामासतुर् आलि-पालीः ॥१०४॥
तत् तासां प्रणयेनातिनिघ्नौ अत्यायत्तौ राधाच्युतौ प्रश्नोत्तराभ्यां नर्म-भङ्ग्या परिहास-च्छलेन तत् येषां स्वभावस्य स्तुति-गर्भं येषां तैः । पद्यैर् आलि-पालीः सखी-श्रेणीर् विलज्जयामासतुः । तादृश-प्रश्नोत्तरे सामर्थ्याभावात् ॥१०४॥
पटु-वाक् प्रखरा चण्ड्य् अपि
विषमेषु रणे पलायते हूता ।
तत्रोत्कान्याश् चास्मान्
निवारयति का वदाशु ललिता सा ॥१०५॥
यथा राधा-कृष्णयोः स्वरूपादि-वर्णनं कृत्वा निर्वृति-युक्ताः ललितादयो भवन्ति । तथा ललितादीनां कृत्वा राधा-कृष्णौ भवतः । इति कृष्ण-प्रश्न-राधोत्तराभ्याम् आह—पटुर् निपुणा वाक् यस्या प्रखरा चण्डी अपि विषमेषुः कन्दर्पस् तस्य रणे आहूता पलायते । तत्र रणे उत्कण्ठिता अन्याः अस्मात् रणात् या निवारयति सा का आशु वद, तत्राह ललिता ॥१०५॥
विषम-शराहव-विमुखी
कुच-युग-कुङ्कुम-मदागुरु-पटीरैः ।
क्वचिद् आराधयतीष्ट-
देवं वद का विशाखेयम् ॥१०६॥
कन्दर्प-युद्धे विमुखी । क्वचिद् अभीष्ट-देवं स्व-कुच-गतैः कुङ्कुमादि पटीरैः सुगन्ध-चूर्णैर् आराधयति का इयं, विशाखा ॥१०६॥
वल्ल्य् अपि चङ्क्रममाणा
हित्वान्तिकगं धवं सुदूरस्थम् ।
समिता कृष्ण-तमालं
विभाति का कथय चम्पकलतेयम् ॥१०७॥
वल्ली लता तन्-नाम्नी च चङ्क्रममाणा गमन-परा अन्तिकगं धवं कृष्णं पतिं च हित्वा सुदूरस्थं कृष्ण-तमाल-वृक्षं श्री-कृष्णं च सम्यक् इता प्राप्ता का विभाति । चम्पकलतेयम् ॥१०७॥
नाना-चित्रे निपुणा
बहु-विध-शृङ्गार-रचनाभिः ।
मृदु-रति-मानासहना
सुखयति नः केह चित्रेयम् ॥१०८॥
बहु-विध-शृङ्गार-रचनाभिः सह नाना-चित्रे निपुणा, मृदुः कोमला, अतिभावं न सहते । अतिमानासहना का नोऽस्मान् सुखयति—चित्रा ॥१०८॥
कन्दर्पागम-विद्या-
पटुर् इह निभृतं स्व-शिष्यस्य ।
स्वाङ्गान्य् अङ्गे न्यस्यति
या तां कथयाशु तुङ्गविद्येयम् ॥१०९॥
कन्दर्पागमस्य कन्दर्प-शास्त्रस्य विद्यायां पटुर् निभृतं यथा स्यात् तथा स्व-शिष्यस्य स्वस्यास् तस्यास् तां विद्याम् अर्थान् मम अङ्गे या स्वाङ्गानि न्यस्यति तां वद—तुङ्गविद्या । गुरुत्वे प्रमाणं,
सहाया गुरवः शिष्या भुजिष्या बान्धवाः स्त्रियः । सत्यं वदामि ते पार्थ गोप्यः किं मे भवन्ति न ॥ इति ॥१०९॥
उदये प्रकटित-रागा
विशदापीह कुटिला स्व-कलायाम् ।
मदनोदय-जननेक्षा
का तां ब्रूहीन्दुलेखेयम् ॥११०॥
उदय-समये प्रकटित-रागो यया सा, स्वस्याः कलायाम् । गोपी-पक्षे, काम-कलायाम् । चन्द्र-पक्षे, षोडश-भाग-रूप-कलायां विशदापि सुष्ठु कुटिला । मदनोदयस्य जननम् उत्पत्तिर् ईक्षाया दर्शनात् यस्या सा का ? इन्दुलेखा ॥११०॥
रङ्गे नटनैर् लास्यैर्
दीव्यन्ती नः सुखयति सह नृत्ये ।
वेवेष्टि द्रुत-गत्या
माम् अपि केह वद रङ्गदेवीयम् ॥१११॥
रङ्गे रङ्ग-भूमौ सह नृत्ये नटनैर् लास्यैर् दीव्यन्ती नोऽस्मान् सुखयति । द्रुत-गत्या
माम् अपि वेवेष्टि । रङ्गदेवी ॥१११॥
पाशक-केलौ निपुणा
चुम्बक-रत्नं पणी-कृतं जित्वा ।
माम् अपि गृह्नात्य् अजये
दित्सति नहि का सुदेवीयम् ॥११२॥
पाशक-केलौ निपुणा मां जित्वा पणी-कृतं चुम्बक-रत्नं न गृह्नाति । अजये पराजये च चुम्बक-रत्नं का नहि दित्सति दातुम् इच्छति, तां वद । सुदेवी ॥११२॥
तृप्ताव् अन्य-जनस्य तृप्तिम् अयिता दुःखे महा-दुःकिता
लब्धैः स्वीय-सुखालि-दुःक-निचयैर् नो हर्ष-बाधोदयाः ।
स्वेष्टाराधन-तत्-परा इह यथा श्री-वैष्णव-श्रेणयः
कास् ता ब्रूहि विचार्य चन्द्र-वदने ता मद्-वयस्या इमाः ॥११३॥
अन्य-जनस्य तृप्ताव् सत्यां यास् तृप्तिम् अयितास् तृप्तिं प्राप्ताः । अन्य-जनस्य दुःखे प्राप्ते स्वयं महा-दुःखिताः । स्वीय-सुख-समूहैनं हर्षस्य उदयो दुःख-समूहैर् न बाधोदयः पीडाया उदयो यासां ताः । स्वेष्टस्य राधने तत्-पराः, इह स्थाने, ताः काः ? हे चन्द्र-वदने ब्रूहि ! श्री-राधाह—इमा ललितादयो मद्-वयस्याः ।
यथा श्री-वैष्णव-श्रेणय इत्य् अनेन वैष्णव-मात्रस्य ग्रहणात्, सकल-वैष्णवेषु सूक्ष्म-रूपेण एतेषां गुणानां स्थिताव् अनुमानम् । स्थूल-रूपेण तु श्री-नारद-प्रह्लादादिषु सर्वत्र प्रसिद्धम् । सनातन-गोस्वामि-प्रभृतिषु गुरु-परम्परया श्रुतम्, अधुना श्री-गौर-भक्त-गणेषु क्वापि क्वापि अन्य-भगवद्-भक्तेषु च क्वापि क्वापि दृष्टं, भाग्य-वशात् यथार्थानुभवं भवति ॥११३॥
इत्थं दीव्यन्न् अविकल-कला-शालि-सीमन्तिनीनां
नर्म-च्छद्माधर-कुच-कर-स्पर्श-पुष्पार्चनाद्यैः ।
वल्लीनां वा किशलय-फलास्वाद-मत्तः पिकेशो
भ्रामं भ्रामं स किल ललितानन्ददं कुञ्जम् आप ॥११४॥
न कृष्णः वल्लीनां किशलयादि-फलास्वादेन मत्त-कोकिलो वा इव दीव्यन्न् अविकल-कला-शालिन्यः पूर्ण-कला-युक्ता याः सीमन्तिन्यस् तासां व्रज-सुन्दरीणां नर्म-च्छलेनाधर-कुच-कर-स्पर्शं पुष्पार्चनाद्यैर् भूमिं ललितानन्ददाख्यं कुञ्जं प्राप ॥११४॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽगाद् गणितस् त्रयोदशतया मध्याह्न-लीलाम् अनु ॥
गोविन्द-लीलामृतस्य मध्याह्न्व-लीलायां त्रयोदशतया गणितः सर्गः समाप्तोऽभूत् । इति सदानन्द-विधायिन्यां त्रयोदश सर्गार्थः
॥१३॥
॥।
(१४)