द्वादशः सर्गः
अथाह वृन्दा व्रज-काननेशौ
पादाम्बुजे वाम् ऋतु-कारु-मुख्यैः ।
निवेदितं षड्भिर् इहास्ति यत् तत्
सार्धं समाकर्णयतं सखीभिः ॥१॥
अथानन्तरं श्री-वृन्दा-देव्य् आह—निजानाम् अस्माकं फल-पुष्पादि-रूपा येऽर्थाः, तैः । कीदृशैः ? वां युवयोः करुणोद्भवैर् एभिर् युवां हे व्रज-काननेशौ राधा-कृष्णौ वां युवयोः पदाब्जे षड्भिः ऋतु-कारु-मुख्यैः शिल्प-कारि-प्रधानैर् इह यन् निवेदितम् अस्ति, तत् सखीभिः सार्धं युवां समाकर्णयतम् ॥१॥
प्रीत्य्-अर्थं युवयोः सुचित्रितम् इदं वृन्दावनं किङ्करैर्
अस्माभिर् बहु-यत्नतो निपुणता-सर्वस्व-प्रत्यर्पणैः ।
तन् नाथौ कृपया समीक्ष्य सफलं कर्तुं युवाम् अर्हतं
भृत्यानां हि विशेष-कौशल-कृतेर् ईशावलोकः फलम् ॥२॥
निवेदितम् आह—युवयोः प्रीत्य्-अर्थं किङ्करैर् अस्माभिर् बहु-यत्नतो निपुणता-रूप-सर्वस्वस्य प्रत्यर्पणैर् इदं वृन्दावनं सुचित्रितम् । हे नाथौ तत् वृन्दावनं, यद् वा, तस्य वृन्दावनस्य नाथौ युवां वृन्दावनं समीक्ष्य सफलं कर्तुम् अर्हतम् । दर्शने भृत्यानां विशेष-कौशल-जन्य-कृतेः कार्यस्य फलम् ईशस्य स्व-प्रभोर् अवलोक एव ॥२॥
वृन्दावन-स्थिर-चरैस् तत्-तल्-लीला-स्थली-स्थितैः ।
निवेदितं पदाब्जे यत् तच् चाकर्णयतं प्रभू ॥३॥
तत्-तद्-रासादि-लीला-स्थलीषु स्थितैः स्थिर-चरैर् युवयोः पदाब्जे यन् निवेदितं, तच् च हे प्रभू युवाम् आकर्णयतम् ॥३॥
अन्योन्य-सङ्गोल्लसितौ भवन्तौ
द्रष्टुं निजार्थैः करुणोद्भवैर् वाम् ।
निषेवितुं चाजनि या समीहा
ताम् अर्हतं नः सफली-विधातुम् ॥४॥
वृन्दावनीय-स्थावर-जङमानां निवेदनम् आह—अन्यान्य-सङ्गेन उल्लासितौ उत्साह-युक्तौ भवन्तौ द्रष्टुं निषेवितुं च नौ अस्माकं या समीहा अजनि, तां समीहाम् इच्छां सफलली-विधातुं युवाम् अर्हतम् ॥४॥
तावद् एत्याब्रवीत् कृष्णं सुबलेन समं बटुः ।
वृन्दावन-प्रजाः कृष्ण निःस्वास् ते राधया कृताः ॥५॥
सुबलेन सह बटुर् मधुमङ्गलः कृष्णम् आह—हे कृष्ण ! ते वृन्दावन-प्रजाः राधया निर्धनाः कृताः ॥५॥
सौन्दर्य-माधुर्य-मयी वनस्य या
लक्ष्मीर् हृतास्यास् तनु-शोभयैव सा ।
फल-प्रसूनादि-मयी बहिश् च या
सखीभिर् एषापि समक्षम् आवयोः ॥६॥
अस्याः रूप्६स् तनु-शोभयैव वनस्य सौन्दर्यादि-मयी या लक्ष्मीः, सा हृता । सखीभिः सह एषा राधापि आवयोः समक्षं सा फल-पुष्पादि-मयी बहिश् च या लक्ष्मीः, ताम् अपहरद् इति शेषः ॥६॥
नान्दीमुखी समुपसृत्य ततोऽवदत् तौ
स्वस्त्य् अस्तु वां सहचरी-गण-संयुताभ्याम् ।
साशीः-शतं भगवती यद् इहादिशद् वां
तत् कर्णयोः पथिकतां नयतं शुभंयू ॥७॥
नान्दीमुखी सम्मुखम् आगत्य ताव् अवदत्—सखी-गण-संयुताभ्यां वां युवाभ्यां तौ स्वस्त्य् अस्तु । सा भगवती पौर्णमासी वां युवयोर् यद् आशीः शतम् आदिशत् शुभंयू शुभान्वितौ युवां कर्णयोः पथिकतां कर्ण-गतां नयतम् ॥७॥
स तीक्ष्ण-दण्डः स्मर-चक्रवर्ती
वृन्दाटवी-राज्य-पदे भवन्तौ ।
समान-सामन्ततयाभिषिच्य
न्ययोजयद् भृङ्ग-पिकादि-चारान् ॥८॥
तीक्ष्णोऽतिपीडको दण्डो यस्य स स्मर-चक्रवर्ती भवन्तौ वृन्दाटवी-राज्य-पदे समान-सामन्ततया तुल्य-सर्वाधिकारितया अभिषिच्य भृङ्ग-पिकादि-चारान् चर-समूहान् न्ययोजयत् ॥८॥
तद् आत्म-मध्ये कलिना न संयुतिः
सम्भोग-हानिर् नृपतेर् भयं तथा ।
समञ्जसत्वेन ततो मद्-आज्ञया
राज्ये सुखं निर्विशतं युवाम् इति ॥९॥
तत् तस्मा आत्मनोर् मध्ये कलिना कलहेन संयुतिः सम्भोगो न कार्येति शेषः । कलि-संयुतौ सत्यां सम्भोग-हानिर् भवेत् । तथा नृपतेर् भयं च भवेत् । ततस् तस्मात् ममाज्ञया राज्ये समञ्जसत्वेन ततो परस्पर-प्रीत्या युवां सुखं निर्विशतम् इति श्री-भगवत्या पौर्णमास्या आदेशः ॥९॥
माम् आवदत् सा पुनर् इत्थम् ईशा
विवाद आसीत् प्रथमं तयोश् चेत् ।
वृन्दा वृता त्वं सुविचार्य मह्यं
दोषोऽत्र क् अस्येति निवेदयाशु ॥१०॥
सा पौर्णमासी पुनर् माम् आ सम्यग् अवदत् । तयोश् चेद् विवाद आसीत्, वृन्दया सह त्वं विचार्य सा प्रथमं कस्य दोषो मह्यम् आशु निवेदय वद ॥१०॥
नान्दीमुखीम् अथ जगाद हरिस् त्वम् अस्या
जानासि वृत्तम् अखिलं मिलनं कुतो नौ ।
निःस्वीकृतं वनम् इदं सवयस्यया मे
वंशी च सा विमुषिता शठयानयाद्य ॥११॥
हरिर् नान्दीमुखीम् आह—अस्या राधाया अखिलं वृत्तं मिलनं त्वं जानासि । नौ आवयोर् कुतो मिलनं कुतः ? यत इदं वनं सवयस्यया अनया निःस्वीकृतम् । मे वंशी च अद्य मुषिता ॥११॥
कौन्द्य् अब्रवीद् यत् स्मर-सार्वभौम-
पार्श्वं प्रयातौ कलहायमानौ ।
हरे भवन्तौ पृथु-गर्ववन्तौ
किं तत्र वृत्तं कथयात्र सत्यम् ॥१२॥
हे हरे ! भवन्तौ स्मर-पार्श्वं गतौ तत्र किं वृत्तं, तेन को विचारः कृतः ? इति वृत्तान्तं तद् अत्र सत्यं कथय ॥१२॥
कृष्णोऽवदत् तस्य समीप एतां
नीत्वा मयोक्तं वन-लुण्ठिकेयम् ।
निगृह्यतां दण्डितम् एतद्-अर्थं
मद्-अर्थम् अस्या मयि दापयेति ॥१३॥
तस्य स्मरस्य समीपे एतां राधा२ नीत्वा इति मयोक्तम् । इयं वन-लुण्ठिका निगृह्यतां, एतद्-अर्थम् अस्या निमित्ते मद्-अर्थं मम धनं त्वया दण्डितम् अस्याः सकाशात् मद्-धनं मयि दापय ॥१३॥
पृष्टामुनेयं तम् उवाच गोपैर्
असङ्ख्य-गोचारणतो वनं ते ।
उन्मूलितं तत्-फल-पुष्प-लुब्धैः
स्वया श्रिया पोषितम् अस्त्य् अदो नः ॥१४॥
अमुना स्मर-नाम्ना राज्ञा पृष्टा इयं राधा तं स्मरम् उवाच—गोपैस् ते वनं गो-द्वारा उन्मूलितम् । कीदृशैः ? तस्य वनस्य फल-पुष्प-लुब्धैर् नोऽस्माभिर् अदो वनं स्वया श्रिया स्वीय-कान्त्या सम्पदा वा पोषितम् अस्ति ॥१४॥
शैथिल्य-भाजोऽस्य मृषा गिरास्या
दृष्टो मयास्यां दृढ-पक्ष-पातः ।
सिद्धेऽपि दोषे न कृतो विचारः
साक्षात् स युष्मासु समर्पितो यत् ॥१५॥
अस्या मृषा गिरा शैथिल्य-भाजोऽस्य स्मर-राज्ञः । अस्यां दृढ-पक्ष-पातो मया दृष्टः । पक्ष-पातम् आह—दोषे सिद्धेऽपि यद् यस्मात् साक्षात् विचारो न कृतः । स विचारो युष्मासु समर्पितः ॥१५॥
साब्रवीद् यदि तस्यास्यां पक्ष-पातस् तदासकौ ।
तारुण्य-रत्नं सन्दण्ड्य केन निर्वचनीकृता ॥१६॥
सा कुन्दवल्ल्य् आह—यदि तस्य स्मरस्य राज्ञः अस्यां राधायां पक्ष-पातस् तदास्यास् तारुण्य-रत्नं सन्दण्ड्य केनासकौ राधा निर्वचनीकृता ? ॥१६॥
नृपेङ्गितेनाध्वनि तं निजार्थं
मयार्थितापीच्छति चेन् न दातुम् ।
इमां तदा दण्डयितुं प्रवृत्तोऽ
नया बलात् प्रत्युत दण्डितोऽस्मि ॥१७॥
नृपस्येङ्गितेन मयाध्वनि म् आर्गे तं निजार्थं याचिताप्य् एषा चेद् यदि दातुं नेच्छति, तदा इमां दण्डयितुं प्रवृत्तोऽहं, प्रत्युत अनया बलात् दण्डितोऽस्मि ॥१७॥
कटाक्ष-बाणैः कुटिलीभवद्-भ्रुवा
विद्धस् तया गद्गद-रुद्ध-कण्ठया ।
मुदं स लेभे किल कुन्द-वल्लिका
सापि स्व-लीला-कमलेन ताडिता ॥१८॥
स कृष्णः । गद्गदेन रुद्धः कण्ठो यस्यास् तया । पुनः कीदृश्या ? कुटिलीभवन्ती भ्रूर् यस्यास् तया राधया कटाक्ष-बाणैर् विद्धः । सा कुन्दवल्ली च स्वस्यास् तस्या राधाया लीला-कमलेन ताडितापि मुदं लेभे ॥१८॥
ततः शिरो-वेष्टनतः स पत्रिकां
निष्कास्य नान्दी-वदना-करे न्यधात् ।
सा तां पठत्य् अस्फुटम् अर्थितोत्सुकैः
सभ्यैः पुनस् तैः स्फुटम् अप्य् अवाचयत् ॥१९॥
स कृष्णः पुरा यां पत्रिकां लिखित्वा शिरो-वेष्टनेऽधारयत्, तां पत्रिकां नान्दीमुखी करे न्यधात् । सा तां पत्रिकाम् अस्फुटं पठन्ती उत्सुकैः सभ्यैर् अर्थिता । पुनः स्फुटम् अप्य् अवाचयत् ॥१९॥
स्वस्ति श्री-स्मर-सार्वभौम-चरणाब्जानां स-नान्दीमुखी-
वृन्दा-कुन्दलतादि-सभ्य-निचयेष्व् एतत् समाज्ञापनम् ।
देया कानन-सत् प्रजाः प्रति हृता श्री-राधया श्रीस् ततो
राधा-माधवयोर् यथा मुरलिका-न्यायो विधेयश् च वः ॥२०॥
नान्दीमुख्य्-आदि-सभ्य-समूहेषु स्मर-राज्ञां समाज्ञापनम् । राधया कानन-प्रजानां या श्रीर् हृता, सा श्रीः कानन-सत्-प्रजाः प्रति तया देया । ततस् तद्-अनन्तरम् । वो युष्माभिः राधा-माधवयोर् यथा-योग्यो मुरलिका-न्यायश् विधेयः कर्तव्यः ॥२०॥
सभ्येषु पृच्छत्स्व् अथ राधिकां तां
पुरः स्थितोवाच तदा विशाखा ।
पुरानयाख्यायि नृपाग्रतो यत्
पुष्णाति सेयं वनम् आत्म-लक्ष्म्या ॥२१॥
तां राधिकां सभ्येषु पृच्छत्सु पुरः स्थिता विशाखा उवाच । अनया राधया पुरा नृपाग्रतः यद् आख्यायि, तत् सेयं राधा आत्म-लक्ष्म्या वनं पुष्णाति ॥२१॥
अथाह ललिता मुग्धे तद् एतत्-कथनेन किम् ।
प्रतिबिम्बं हि राधायाः श्री-मूर्तेर् व्रज-काननम् ॥२२॥
ललिताह—हे मुग्धे विशाखे ! एतत्-कथनेन किं ? राधायाः श्री-मूर्तेः प्रतिबिम्बं व्रज-काननम् ॥२२॥
किं करिष्यति राजा नः सूचकैर् उपयापितः ।
पालयामोऽटवीं स्वीयां गृह्णीमोऽस्याः फलादिकम् ॥२३॥
सूचकैः खलैः उपयापितः कथितो राजा नः किं करिष्यति ? ॥२३॥
तथाप्य् आज्ञास्य पाल्या चेद् गत्वाग्रे पश्यताटवीम् ।
वृन्दावनेशया पुष्टाम् आत्म-पोषं सखीम् इव ॥२४॥
चेद् यदि अस्य कामस्य आज्ञा पाल्या, तदा वृन्दावनेशया चेद् राधयाटवीं सखीम् इव आत्म-पोषं पुष्टां पश्यत ॥२४॥
नैवास्माभिः क्वापि दृष्टास्ति वंशी
धर्मोच्छित्त्यै दीक्षिता या सतीनाम् ।
सास्मद्-दिष्ट्या लभ्यते चेत् तदैनां
कृष्णापूरैर् वाहयामः समुद्रम् ॥२५॥
या वंशी सतीनां धर्मोच्छित्त्यै धर्म-नाशाय दीक्षिता, सा क्वापि दृष्टा नास्ति । दिष्ट्या चेत् लभ्येत, तदैनां कृष्णाया यमुनायाः पूरैः प्रवाहैः समुद्रं वाहयामः ॥२५॥
नान्द्य् अब्रवीत् कृष्ण वन-प्रजाभ्यो
दत्ता मया श्रीर् इति यद् वचोऽस्याः ।
सत्यं मृषा वेति विचार्य पूर्वं
वंश्या विचारः परतो विधेयः ॥२६॥
नान्द्मुख्य् आह—हे कृष्ण ! वन-प्रजाभ्यो मया श्रीर् दत्ता इत्य् अस्या राधाया वचः ऽसत्यं वा मृषा वा पूर्वं विचार्य परतः पश्चात् वंश्या विचारो विधेयः ॥२६॥
वनम् अनु ललिताग्रेकृत्य राधां चलन्ती
विपिन-विहरणेच्छुः प्रेष्ठयोः प्राह सभ्यान् ।
चलत सह मयैव स्व-श्रिया राधयाद्धा
कलयत वनम् एतत् पोषितं भूषितं च ॥२७॥
प्रेष्ठयोर् वन-विहरणेच्छुर् ललिता राधा२ अग्रे-कृत्य वनम् अनु वने चलन्ती सभ्यान् आह—हे सभ्याः ! यूयं मया सह चलत । अद्धा साक्षात् । राधया स्व-श्रिया एतद् वनं पोषितं भूषितं च कलयत पश्यत ॥२७॥
खग-मृग-तरु-वल्ली-पत्र-पुष्पादि-वृन्दे
प्रकट-कनक-गौराद्वैत-वर्णेऽथ जाते ।
अघरिपु-मुख-सभ्यानां तु ते ते पदार्थाः
परिचय-पदम् ईयुः केवलाकार-भेदैः ॥२८॥
अथानन्तरं खगादि-वृन्दे प्रकट-कनकवद् गौरेण अद्वैत-वर्णे स्व-वर्णवत् गौर-वर्णे जाते सति कृष्णादि-सभ्यानां केवलाकार-भेदैस् ते ते खगादयः पदार्थाः परिचय-पदम् ईयुः प्रापुः, स्व-स्व-वर्ण-भेदैस् तु नेत्य् अर्थः ॥२८॥
सभ्यान् पुरस्कृत्य जगाद नान्दी
सत्यं वचः श्री-वृषभानुजायाः ।
पुष्टं स्व-कान्त्या विपिनं यद् अस्या
नेत्रोत्सवं नस् तनुतेऽखिलानाम् ॥२९॥
नान्दीमुख्य् आह—श्री-राधाया वचः सत्यम् । राधा-कान्त्या पुष्टं वनं नोऽखिलानां नेत्रोत्सवं तनुते ॥२९॥
कृष्णोऽवदद् याति यदेयम् आलयं
सम्पत्तिम् आदाय वनस्य कृत्स्नशः ।
आयाति चेद् भूप भियार्पयत्य् अमूं
तद् इन्द्रजालं किम् उ वेत्ति राधिका ॥३०॥
श्री-कृष्ण आह— इयं राधा यदा आलयं गृहं याति, तदा वनस्य कृत्स्नशः, सर्वां सम्पत्तिम् आदाय गृहीत्वा याति, वनम् आयाति चेत् तदा भूप-भियामूं सम्पत्तिं वनेऽर्पयति । तत् तस्मात् राधिका इन्द्रजालं नट-विद्यां वेत्ति किम् उ । किम् उ वितर्के ? इत्य् अहं तर्कयामीत्य् अर्थः ॥३०॥
हर्षोत्फुल्लाः प्रहसित-मुखीर् वीक्ष्य सर्वा वयस्याः
कृष्णे यत्नात् सपदि बटुना प्रापितेऽग्रेसरत्वम् ।
श्री-राधाया द्युति-शवलिता कृष्ण-कान्तिः समृद्धा
प्रोत्सर्पन्ती मरकत-निभा व्यानशे काननं तत् ॥३१॥
हर्षोत्फुल्लाः प्रहसित-मुखीः सर्वा वयस्याः सखीर् वीक्ष्य बटुना सपदि कृष्णेऽग्रेसरत्वम् अग्र-गामित्वं प्रापिते सति राधाया द्युति-शवलिता कान्ति-युक्ता मरकत-वर्णा सम्यक् ऋद्धा वृद्धा श्री-राधा-कान्तेः पृष्ठ-साहाय्यं प्राप्य-वृद्धिं प्राप्ता । प्रोत्सर्पन्ती सती तत्-स्वर्ण-वर्णं काननं व्यानशे व्याप्तम् अकरोत् । अशुङ् व्याप्तौ सङ्घाते च धातुः । अनेन स्व-स्व-परिकरेच्छया सर्वा लीलाः प्रकटाः भवन्तीति ज्ञापितम् ॥३१॥
हृष्टोऽवदच् छ्री-मधुमङ्गलस् तान्
मिथो मिलद्भ्यः शवलोज्ज्वलाङ्गौ ।
राधा-मुकुन्दौ स्मर-तापितौ किं
तद्-वञ्चनायैक्यम् इह प्रयातौ ॥३२॥
हृष्टो मधुमङ्गलस् तान् सभ्यान् अवदत् । स्मर-तापितौ राधा-मुकुन्दौ मिथः परस्परं मिलन्त्यो या भाः कान्तयस् ताभिः शवलानि युक्तानि उज्ज्वलानि अङ्गानि ययोस् तौ तद्-वञ्चनार्थम् ऐक्यं प्रयातौ किम् ॥३२॥
सभ्यान् ऊचे प्रहसित-मुखी तुङ्गविद्या कवीशा
श्री-गान्धर्वा-द्युति-शवलितैः कान्ति-पूरैर् मुरारेः ।
यूयं सर्वे मरकत-मयीं दीप्तिम् आसाद्य सद्यः
प्राप्ताः स्थोदाहरण-पदतां तद्-गुणालङ्कृतेर् नु ॥३३॥
कवीशा तुङ्गविद्या सभ्यान् ऊचे । राधा-कान्ति-युतैर् मुरारेः कान्ति-पूरैः सर्वे यूयं सद्यो मरकत-कान्तिम् आसाद्य तत् तयो राधा-कृष्णयोर् गुणालङ्कृतेर् उदाहरणतां प्राप्ताः स्युः । नु इति तर्कयामि ॥३३॥
किञ्चिद् विवक्षौ पुरतः सरन्त्यां
चलत्-करायां वन-पालिकायाम् ।
दैवात् समीराभिमुखी यद् आसीद्
वंशी तद् आस्य ध्वनिर् उच्चचार ॥३४॥
वन-पालिकायां वृन्दायां किञ्चिद् वक्तुम् इच्छौ चलत्-करायां पुरतः सरन्त्यां सत्यां दैवात् वंशी-वायु-मुखी यदा आसीत् । तदास्या वंश्या ध्वनिर् उच्चचार शब्दोऽभूत् ॥३४॥
तत्-काकली-श्रवणतश् चकितासु सर्वा
स्वासाद्य तां सपदि कुन्दलता सखीभिः ।
आदाय तत्-कर-तलान् मुरलीम् अथैनां
चौरीयम् इत्य् उपनिनाय हरेः समीपम् ॥३५॥
तत्-काकली-श्रवणतश् चकितासु सर्वा स्वासाद्य तां सपदि कुन्दलता सखीभिः आदाय तत्-कर-तलान् मुरलीम् अथैनां चौरीयम् इत्य् उपनिनाय हरेः समीपम् ॥३५॥
राधाब्रवीन् मुरलिकां विनिधाय वृन्दा-
पाणौ कदर्थयति ते सखि देवरोऽस्मान् ।
तन् मन्यसे न यदि पृच्छ कुतोऽनयेयं
प्राप्ता न चेद् वदति सत्यम् इयं हि दण्ड्या ॥३६॥
राधाब्रवीन् मुरलिकां विनिधाय वृन्दा-पाणौ कदर्थयति ते सखि देवरोऽस्मान् तन् मन्यसे न यदि पृच्छ कुतोऽनयेयं प्राप्ता न चेद् वदति सत्यम् इयं हि दण्ड्या ॥३६॥
वृन्दाह कक्खटिकया वंशी शैव्या-कराद् बलात् ।
आच्छिद्यानीय मे दत्ता कुञ्जे नान्दीमुखी-पुरः ॥३७॥
अथ कुन्दलता वंशीं कृष्ण-पाणौ समर्पयत् ।
सोऽप्य् आदाय चिराल् लब्धां प्रहृष्टाम् अवादयत् ॥३८॥
कक्खटिकया वानर्या शैव्या-कराद् बलात् वंशी आच्छिद्यानीय मे मह्यं दत्ता नान्दीमुख्य्-अग्रे ॥३७-३८॥
मनो-वंशान् कुर्वंस् त्रिजगद्-अबलानां मदन-रुग्-
घुणोत्कीर्णान् जीर्णान् स्थिर-चरग-धर्मान् विनिमयन् ।
ऋतूनां सपत्तीर्-युगपद् इह षण्णां समुदयन्
सुधा-सारैः सिञ्चन् जगद् उदलसद् वेणु-निनदः ॥३९॥
वेणु-निनदः त्रिजगद्-अबलानां मनो-रूप-वंशान् मदन-जन्य-रुग् रोगः घुणाख्य-कीट-विशेषस् तेनोत्कीर्णान् भक्षितान् ततो जीर्णान् कुर्वन् । स्थिराणां स्थावराणां चराणां च धर्मान् विनिमयन्, स्थावरे चर-धर्मान्, चरे स्थावर-धर्मान् प्रापयन् । वृन्दावने ऋतूनां सम्पत्तीः युगपद् एकस्मिन् काले समुदयन् । जगत् सुधा-धाराभिः सिञ्चन् उदलसत् ॥३९॥
श्री-कृष्णस्याविकल-मुरली-ध्वान-बाणैर् विदूरान्
नारीणां यद् वर-धृति-युजां दर्पकोन्मत्ततासीत् ।
अस्त्री-लोकोऽप्य् अभवद् अतनूच्चण्ड-पीडा-विहस्तस्
तन् नाश्चर्यं यद् अयम् अभितो मार-मूर्ति-स्वरूपः ॥४०॥
श्री-कृष्णस्याविकलाः सावधाना ये मुरली-ध्वान-बाणास् तैर् वर-धृति-युजां नारीणां विदूरात् यत् दर्पकस्य कन्दर्पस्य उन्मत्तता आसीत् । एवम् अस्त्री पुरुष-लोकोऽपि अतनोः कन्दर्पस्य उच्चण्ड-पीडया विहस्तो व्यग्रोऽभवत्, तन् नाश्चर्यम् । यद् यस्माद् अयं कृष्णः कन्दर्प-मूर्ति-स्वरूपः ॥४०॥
द्रवति शिखर-वृन्देऽचञ्चले वेणु-नादैर्
दिशि दिशि विसरन्तीर् निर्झरापः समीक्ष्य ।
तृषित-खग-मृगाली गन्तुम् उत्का जडा तैः
स्वयम् अपि सविधाप्ता नैव पातुं समर्था ॥४१॥
धर्म-विनिमयम् आह—वेणु-नादैः पाषाणस्य द्रवीभावान् । अचञ्चले पर्वत-वृन्दे द्रवति सति दिशि दिशि गच्छन्ती निर्झरापः प्रवाह-जलानि समीक्ष्य जल-पानार्थं गन्तुम् उत्कण्ठितापि तृषित-खग-मृग-श्रेणी, तैर् वेणु-नादैर् जडा सती स्वयं समीप-प्राप्ता अपि ता निर्झरापः पातुं नैव समर्थाभूत् ॥४१॥
वंशी-नादैः सरसि पयसि प्रापिते ग्राव-धर्मं
हंसीः सन्दानित-पद-युगाः स्तम्भिताङ्गी रिरंसुः ।
आसन्न् ईशाः स्वयम् अपि जडा बद्ध-पादा न गन्तुं
ताभ्यो दातुं न विष-शकलं नापि भोक्तुं मरालाः ॥४२॥
ततो वृन्दाटवीं वृन्दा स्फीतां तत्-तद्-ऋतु-श्रिया ।
दर्शयन्ती स्व-नाथौ ताव् अभाषत पुरो-गता ॥४३॥
वंशी-नादैः सरो-वरे पयसि जले ग्राव-धर्मं पाषाण-धर्मं प्रापिते सति । स्वयम् अपि जडाः बद्ध-पादाः मराला हंसाः सन्दानितं बद्धं पद-युगं यासां तास् तैः स्तम्भिताङ्गीर् हंसीः रिरंसू रमणेच्छुर् अपि गन्तुं तथा ताभ्यो हंसीभ्यो विषस्य मृणालस्य शकलं खण्डं दातुं दाने वा का शक्तिः स्वयं भोक्तुम् अपि ईशाः समर्था नासन् ॥४२-४३॥
स्फुरत्-स्तम्भास्तब्धैर् विलसित-चरैः कम्प-वलिता
स्थिरैः कम्प्रैः स्विन्ना स्रवद्-उपलकैर् गद्गद-युता ।
विरावैर् अस्पष्टैः पुलक-वलिताङ्ग्य्-अङ्कुर-चयैः
सखी-श्रेणीवेशौ प्रणय-विवशा सेयम् अटवी ॥४४॥
पूर्व-श्लोकोक्त-तत्-तद्-ऋतु-श्रिया स्फीतां वृन्दाटवीम् इति । यद् उक्तं तद् एव वक्तुं तस्याः सखी-धर्मम् अप्य् आह—हे ईशौ ! सखी-श्रेणीव प्रणय-विवशा सेयम् अटवी विलसति । यथा सखी-श्रेणी स्फुरत्-स्तम्भादि-विशिष्टा लसति, तथा इयम् अटवी सर्वैः स्तम्भ-युक्तैश् चरैर् जङ्गमैः स्फुरत्-स्तम्भा स्फुरत्-स्तम्भो यस्या सा । कम्प्रैः कम्प-युक्तैः स्थिरैः स्थावरैः कम्प-वलिता । स्रवद्भिर् उपलकैर् उपलैः स्विन्ना स्वेद-युक्ता । अस्पष्टैर् अव्यक्त-विरावैः पक्षि-द्व्हनिभिर् गद्गद-युता । अङ्कुर-चयैः पुलक-वलिताङ्गी ॥४४॥
वासन्ती-बकुलादिकैर् विचकिलामोघा-शिरीषादिकैर्
यूथी-नीप-सुकेतकी-प्रभृतिभिर् जात्य्-अब्ज-बाणादिभिः ।
लोध्राम्लान-मुखैश् च चारु-कुसुमैर् बन्धूक-कुन्दादिभिः
कॢप्ताकल्प-विभूषणार्चित-तनुस् तैर् भाति सैषाटवी ॥४५॥
तैर् वासन्त्य्-आदिभिः कॢप्ता कृता ये आकल्पा वेश-रचनास्त एव विभूषणानि, तैर् अर्चिता तनुर् यस्या सैषाटवी भाति । वासन्ती-बकुलादिकैर् वसन्त-ऋतुजैः विचकिलादिकैर् ग्रीष्मजैः । यूथी-प्रभृतिभिर् वर्षा-ऋतुजैः, जात्य्-आदिभिः शरदिजैः, लोध्रादिभिर् हेमन्तजैः, बन्धूकादिभिः शिशिरजैः । वासन्ती माधवी-लता । विचकिलो मल्लिका । अमोघा पाटल-पुष्प-विशेषः । नीपः कदम्बः । अब्जं पद्मम् । बाणः पुष्प-विशेषः । गालवः सारवो लोध्रा-लीला झिण्टी-द्वयोर् बाणा इति, अम्लानं तु महासहा इति चामरः ॥४५॥
फुल्लाभिर् माधवीभिर् बकहर विलसन्त्य् अत्र फुल्ला रसालाः
सन्-मल्लीभिः शिरीषास् त्व् इह वर-गणिका वीथिभिश् चात्र नीपाः ।
जातीभिः सप्त-पर्णा इह च कुसुमिताम्लान-पालीभिर् अस्मिन्
लोध्रास् ते वां सपर्यार्थिन इह फलिनी श्रेणिभिः कुन्द-भेदाः ॥४६॥
वसन्तादिषु मिथुनी-भावेन लता-वृक्षाणां शोभा-विशेषम् आह—हे बकहर ! अत्र फुल्लाभिर् माधवीभिः फुल्ला रसाला आम्रा इह सन्-मल्लीभिः शिरीषाः । अत्र वरण्-गणिकाभिः यूथिकाभिर् नीपा इह जातीभिः सप्त-पर्णाः । अस्मिन् अम्लानैर् लोध्राः । इह फलिनीभिः प्रियङ्गुभिः कुन्द-भेदाः । वां युवयोः सपर्यार्थिनो विलसन्ति विशेषेण लसन्ति । आम्रश् चूतो रसालोऽसाव् इति । गणिका यूथिकाम्बष्ठा इति । सप्तपर्णो विशाल-त्वक् शारदी विषमच्छद इति । प्रियङ्गु फलिनी इति चामरः ॥४६॥
भृङ्गैः क्वापि वन-प्रियाः क्वचिद् इमे चाषैश् च धूम्याटका
दात्यूहैः शिखि-चातकास् तत इतो हंसादयः सारसैः ।
कीराः क्वापि किखी-कुलैर् इह भरद्वाजैश् च हारीतका
गायन्तीव मुदात्र वां गुण-यशः प्रेम्ना रुवन्तः सदा ॥४७॥
भृङ्गैः कोकिलाः, चाषैर् धूम्याटका पिङ्गाख्याः, दात्यूहैः डाहुक इत्य्-आख्यैः शिखि-चातकाः, सारसैर् हंसादयः, किखी-कुलैः खग-विशेषैः कीराः, भरद्वाजैर् हारीतकाः, मुदा वां गुण-यशः प्रेम्णा सदा गायन्तीव रुवन्तः सन्तः सन्तीति शेषः ॥४७॥
शाखैका मुकुलैर् युता किशलयैर् अन्या प्रसूनैः पराप्य्
एकस्येज-तरोर् हरिद्भिर् अपरा काचिद् दलैः पाण्डुरैः ।
अन्यान्यापि च जालकैः किल फलैः पाकोन्मुखैः पक्त्रिमैर्
यस्येत्थं तरु-मण्डलः सड्-ऋतुभिः स्वैः स्वैर् गुणैः सेव्यते ॥४८॥
शाखा एका मुकुलैर् युता किशलयैर् अन्या प्रसूनैः पराप्य् एकस्येज-तरोर् हरिद्भिर् अपरा काचिद् दलैः पाण्डुरैः । अन्यान्यापि च जालकैः किल फलैः पाकोन्मुखैः पक्त्रिमैर् यस्य इत्थं तरु-मण्डलः सड्-ऋतुभिः स्वैः स्वैर् गुणैः सेव्यते ॥४८॥
इयं वृन्दाटव्य् आतत-षड्-ऋतु-लक्ष्मी-सहचरी-
कुलैः स्वैः स्वैस् तत्-तन्-मधुर-विभवैर् मण्डित-तनुः ।
भृतोच्चैः-सम्भारा प्रणय-विवशालीव रभसात्
स्व-सम्पद्भिः साक्षाद् अभिलसति वां सेवन-सुखम् ॥४९॥
आतता विस्तृता या षड्-ऋतु-लक्ष्मीः सैव सहचरी, तासां कुलैः समूहैः । पक्षे, पीत-झिण्टीभिस् तथा स्वैः स्वैस् तत्-तत्-पूर्वोक्तैर् मधुरैर् मण्डिता तनुर् यस्याः सा । इयं वृन्दाटवी भृतो धृतः उच्चैः सम्भारो यया सा । तथा प्रणय-विवशा च या आली सखी सैव । स्व-सम्पद्भिः करणैः रभसात् हर्षात् वां युवयोः साक्षात् सेवन-सुखम् अभिलसति ॥४९॥
ऊर्ध्व-प्रसर्पत्-सुमनो-रजः-पटं
विधुन्वती वीक्ष्य गृहागतौ युवाम् ।
समीर-लोलाग-लतावलि-च्छलाद्
आनन्दिता नृत्यति वृन्दिकाटवी ॥५०॥
युवां गृहागतौ स्व-गृहम् आगतौ वीक्ष्यानन्दिता वृन्दिकाटवी समीरेण लीला या अगानां वृक्षाणां लतानां चावल्यस् तासां छलात् नृत्यति । किं कुर्वती सती ? ऊर्ध्व-देशे प्रसर्पन्ति गच्छन्ति सुमनसां पुष्पाणां रजांस्य् एव पटो वस्त्रं तं विधुन्वती सती ॥५०॥
नाना-वर्णैश् च पतितैः पुष्पैश् चित्राम्बरैर् इव ।
वर्त्मास्तरणम् आनन्दात् कुर्वत्य् अभ्येति वाम् इयम् ॥५१॥
इयम् अटवी चित्राम्बरैर् इव पतितैर् नाना-वर्णैश् पुष्पैर् वर्त्मनः आस्तरणम् आच्छादनम् आनन्दात् कुर्वती सती वां युवाम् अभ्येति, यथा कश्चित् अतिमान्यस्यागमन-समये वस्त्रैर् वर्त्माच्छादनं कृत्वा तद्-उपरि तम् आनयति ॥५१॥
युष्मन्-मुखेन्दु-स्रवद्-इन्दुकान्त-
सत्-कुट्टिमानां पयसार्पयन्ती ।
पाद्यं युतं तत्-सरणीषु जातैः
श्यामाक-दूर्वाञ्च्य-पराजिताब्जैः ॥५२॥
आदौ आसन-दानम् उक्त्वा पाद्यादि-दानम् आह—यव-दूर्व्या-श्यामाक-पद्मा-पराजिताभिः पाद्य-दानं शास्त्रोक्तम् आह । युष्मन्-मुखेन्दुना मुख-चन्द्र-कान्त्या स्रवन् चन्द्रकान्त-मणिर् यत्र, तेषां सत्-कुट्टिमानाम् उत्तम-वेदीनां पयसा, तथा तत्-सरणीषु मार्गेषु जातैः श्यामाक-दूर्वा-सहितापराजिताब्जैर् युतं पाद्यम् अर्पयन्ती । एवम् अर्घादिना च कृतान् महोत्सर्वान् आनन्द-रूप-सत्रैर् यज्ञैर् अखिलान् अतर्पयन् इति सप्तदश-श्लोक-स्थेनान्वयः ॥५२॥
अर्घ्यं च दूर्वा-सुमनोऽङ्कुरादिकैर्
निवेदयन्त्य् आचमनीयम् अम्बुभिः ।
तद्-अम्बु-पद्यान्तिकजाग-निष्पतल्-
लवङ्ग-जातीफल-कोरकान्वितैः ॥५३॥
दूर्वा-पुष्पाङ्कुरादिभिर् अर्घ्यं च शास्त्रोक्तं निवेदयन्ती तत् तस्या अटव्या अम्बु-पद्या नद्या अन्तिकजा ये अगा वृक्षास् तस्मान् निष्पतल्-लवङ्ग-जातीफल-कोरकान्वितैर् अम्बुभिर् आचमनीयं निवेदयन्ती । शास्त्रे जाती-लवङ्गक-कक्कोलैर् आचमनीयम् उक्तम् ॥५३॥
स्रवन्-मरन्दैर् मधुपर्कम् अब्द-
च्छायाहिमाम्भः-कण-भार-नम्रैः ।
शितानिलैस् तोय-निभैः सुगन्धैः
स्नानीयम् आनीय समर्पयन्ती ॥५४॥
स्रवन्-मरन्दैः पुष्प-मधुभिर् मधुपर्कं समर्पयन्ती । अब्दो मेघस् तस्य च्छायया तथा हिमाम्भः कणानां तन्-मुक्त-शीतल-बिन्दूनां भारेण नम्रैर् धीरैः शितानिलैः शितल-पवनैः । तोय-निभैर् जल-सदृशैः सुगन्धैः स्नानीयम् आनीय समर्पयन्ती ॥५४॥
किशलय-दल-नाना-वर्ण-पुष्पोच्चयानां
जित-मणि-मुकुरेष्व् अङ्गेषु वां बिम्बिताभिः ।
रुचिभिर् इह विचित्राण्य् अंशुकान्य् अङ्ग-योग्यान्य्
अवयव-चय-योग्यालङ्कृतीश् चार्पयन्ती ॥५५॥
वां युवयोर् जितं मणीनां रत्नानां स्वर्णानां मरकतानां च मुकुरं दर्पणं यैस् तेष्व् अङ्गेषु किशलयानां पल्लवानां दलानां पत्राणां नाना-वर्ण-पुष्प-समूहानां बिम्बिताभिः प्रतिबिम्बिताभिः रुचिभिः कान्तिभिर् विचित्राण्य् अंशुकानि वस्त्राणि अङ्ग-योग्यानि भूषणानि चार्पयन्ती ॥५५॥
स्वोत्पन्न-चन्दन-मदागुरु-कुङ्कुमानां
चञ्चत्-समीर-मिलितैर् वर-सौरभैर् वाम् ।
चर्चां मुदाङ्ग-निचयेषु समर्पयन्ती
नाना-पराग-मिलनैः पट-वासकांश् च ॥५६॥
स्वस्याम् अस्याम् अटव्याम् उत्पन्न-चन्दनादीनां चञ्चता सञ्चलता वायुना मिलितैः प्राप्तैर् वर-सौरभैश् चर्चां चन्दनादि-लेपं नाना-पुष्प-रजसां मिलनैः पट-वासात् सुगन्ध-चूर्णांश् च वां युवयोर् अङ्ग-निचयेषु समर्पयन्ती ॥५६॥
गुच्छार्धान् बकुलैः कृतान् विचकिलैर् एकावलीं गोस्तनान्
यूथीभिर् नव-मालती-सुकुसुमैः श्रोत्रावतंसान् अपि ।
अम्लानैर् अपि गर्भकांश् च रसनां कुन्दैः कृतां वाम् असव्
अन्यैर् अन्य-विभूषणानि कुसुमैर् अङ्गेऽर्पयन्ती मुदा ॥५७॥
बकुलैः कृतान् गुच्छार्धान् विचकिलैर् मल्लिकाभिः कृताम् एकावलीं, यूथीभिर् गोस्तनान् हारस्य नाम भेदान् । हार-भेदा यष्टि-भेदाद् गुच्छ-गुच्छार्ध-गोस्तनाः इत्य् अमरः । नव-मालती-कुसुमैः कृतान् श्रोत्रावतंसान् । अम्लानैः कृतान् गर्भकान्, केश-मध्ये तु गर्भकम् इत्य् अमरः । कुन्दैः कृतां रसनां क्षुद्र-घण्टिकाम् । अन्यैर् अपि कुसुमैः कृतानि अन्य-विभूषणानि । असौ अटवी युवयोर् अङ्गे मुदा अर्पयन्ती ॥५७॥
स्वोत्पन्नानेक-सत्-पुष्प-तुलसी-दल-मञ्जरीः ।
पल्लवांश् चार्पयन्त्य् एषा तैः कृताश् च बहु-स्रजः ॥५८॥
एषा स्वोत्पन्नानेक-सत्-पुष्प-तुलसी-दल-मञ्जरीः पल्लवांश् च । तैः पुष्प-तुलसी-पल्लवैः कृता बहु-स्रजो वल्गु-मालाश् चार्पयन्ती ॥५८॥
ऊर्ध्व-प्रसर्पद्-वर-सौरभोर्मी
लोलालि-माला-मिषतोऽत्र धूपम् ।
दीपं चलद्-गन्ध-फली-च्छलेन
नैवेद्य-मिष्टैः स्वफलैर् ददाना ॥५९॥
ऊर्ध्वं प्रसर्पन्ती प्रगच्छन्ती या वर-सौरभोर्मी तत्र लोल-भ्रमराणां श्रेणी तन्-मिषात् धूपं चलच्-चम्प-कालिका-च्छलेन दीपम् । इष्टैः स्वोत्पन्न-फलैर् नैवेद्यं ददाना ॥५९॥
रम्भा-गर्भज-कर्पूर-लवङ्गैलादि-संयुतैः ।
समर्पयन्ती ताम्बूलं स्व-पूगाहिलता-दलैः ॥६०॥
कदली-गर्भज-कर्पूरादि-युतैः । एला एलाचि ख्याता । पूगो गुवाकः । अहि-लता-दलैः पान इत्य् आख्या तैस् ताम्बूलम् ॥६०॥
स्वयं पतद्भिः कुसुमैः सुवहा-बकुलादिभिः ।
पुष्प-वर्षं विदधती शारी-शुक-जय-स्वनैः ॥६१॥
स्वयं पतद्भिः सुवहा शेफालिका तद्-आदि-कुसुमैः शार्य्-आदि-कृत-जय-स्वनैः सह पुष्प-वर्षं विदधती ॥६१॥
मरुच्-चलच्-चम्पक-शाखिका-दोश्-
छदाग्र-पाण्य्-उत्कलिकालि-दीपैः ।
विराव-वाद्यैर् अलि-नाद-गानैर्
नीराजयन्त्य् अद्य मुदाटवी वाम् ॥६२॥
वायु-चालित-चम्पक-वृक्षस्य शाखा एव दोर् बाहुः । तत्र ये छदाः पत्राणि, तेषाम् अग्र-भागः पाणिः करः । तत्र कलिकालिर् दीपाः, तैर् विराव-वाद्यैः पक्षि-शब्द-वाद्यैर् भ्रमर-नाद-गानैः सह वां युवाम् अद्य नीराजयन्ति ॥६२॥
समीरणोत्थापित-पातितैर् मुहुः
शाखाचयैः पुष्प-फलानि पल्लवैः ।
नम्रैर् मुदासौ युवयोर् वितन्वती
पादाम्बुजाग्रेऽमित-दण्डवन्-नतिम् ॥६३॥
समीरेण पुष्प-फलानि पल्लवैः सह मुहुर् वारं वारम् उत्थापितःअःऐः पातितैर् नम्रैः शाखा-समूहैर् युवयोश् चन्द्र्चरणाग्रे अमिताम् असङ्ख्यां दण्डवन् नतिं वितन्वती ॥६३॥
स्तुतिं खगानां निनदैर् अलि-स्वनैर्
नैवेद्यं च गानं पिक-पञ्चमैः कलैः ।
कथास् त्वदीयाः शुक-शारिकादिभिर्
नृत्यं च नृत्यच्-छिखिभिर् वितन्वती ॥६४॥
खग-श्रीशब्दःअःऐः स्तुतिम् । अलि-स्वनैर् वाद्यम् । कोकिल-कलैर् गानम् । शुक्रादिभिः कथा । मयूरैर् नृत्यम् ॥६४॥
चक्रानिलोत्थापित-पुष्पधूली
जालैर् उपर्याशु-वितायमानैः ।
माध्वीक-पीयूष-कणा-स्रवीणि
मुदातपत्राणि च विभ्रतीयम् ॥६५॥
आशु चक्रवाकेनोत्थापित-पुष्प-धूलि-समूहैर् औपरि चन्द्रातपायितैः । माध्वीक एवामृत तस्य कणास्रवाणि छत्राणि बिभ्रती ॥६५॥
इतस् ततो वल्लरि-चामरैर् मरुद्-
विलोल-रम्भा-दल-ताल-वृन्तकैः ।
संवीजयन्तीति कृतान् महोत्सवाद्
आनन्द-सत्रैर् अखिलान् अतर्पयत् ॥६६॥
सप्त-दशभिः कुलकम् । इतस् ततो वल्लरि-रूप-चामरैश् चामराकार-वल्लरीभिः वायुना लोल-कदली-दल-रूप-ताल-पत्र-व्यजनैः संवीजयन्ती । इत्य् अनेन आसनादि-दान-राधाएण कृतान् महोत्सवात् आनन्द-यज्ञैर् अखिलान् अतर्पयत् ॥६६॥
मुकुन्द मन्दानिल-सत्-कुविन्दकः
समुच्छलत् पुष्प-रजो-वितानकम् ।
इतस् ततोऽञ्चन्-मधुपावली-तुरीं
क्षिपन्न् इवोष्णावरणाय वां वयेत् ॥६७॥
हे मुकुन्द ! मन्दानिल एव सत्-कुविन्दकः साधु-तन्तुवायः वां युवयोर् उष्ण-निवारणाय इतस् ततोऽञ्चती गच्छन्ती । मधुपावली सैव तुरी, यन्-मध्ये सूत्रं धृत्वा तस्य इतस् ततश् चालनेन वस्त्राणि निर्माति । तां माकु इत्य् आख्यां क्षिपन्न् इव समुच्छलत् । पुष्प-रजोभिर् वितानकम् ।चन्द्रातपं वयेत् करोति । वेञ् तन्तु-सन्ताने धातुः ॥६७॥
ईशाव् इमं पश्यतम् आत्मनोऽग्रे
वसन्त-कान्ताख्यम् अरण्य-भागम् ।
यस्मिन्न् ऋतूनाम् अधिपो मुदा वां
सेवोत्सुकः स्वैर् विभवैश् चकास्ति ॥६८॥
हे ईशौ ! आत्मनोऽग्रे वसन्त-कान्ताख्यम् इमम् अरण्य-भागं पश्यतम् । यस्मिन् अरण्य-भागे ऋतूनाम् अधिपो वसन्तः वां युवयोः सेवोत्सुकः स्वैर् विभवैश् चकास्ति ॥६८॥
अथ तद्-विलोक-मुदितेन स्व-
मधुरिम-दर्शनोद्गता सा ।
हृदय-दयितां प्रति तां प्रमदाद्
अवर्णि हरिणा वन-द्युतिः ॥६९॥
वनालोक-मुदितेन हरिणा हृदय-दयितां तां राधा२ प्रति स्व-मधुरिम्नो दर्शनोद्गता सा वन-द्युतिर् अवर्णि ॥६९॥
कुन्दे मरन्दाशन-तुन्दिलान्ते
मन्दादराः सम्प्रति कुन्द-दन्ति ।
इन्दिन्दिराः पश्य मरन्द-लुब्धा
माकन्दम् उच्छून-शिखं प्रयान्ति ॥७०॥
हे कुन्द-दन्ति ! कुन्दे पुष्पे मधु-पान-तृप्ताः, तत एव मन्दादरास् ते इन्दिन्दिरा भ्रमरा मरन्द-लुब्धा उच्छून-शिख उच्च-शिखं माकन्दम् आम्रं प्रयाति पश्य ॥७०॥
मौन-व्रतं त्यक्तुम् इवान्य-पुष्टाः
कण्ठं कषायेण विशोधयन्तः ।
सार्धं पिकीभिः कल-कण्ठि पश्य
माकन्दम् उद्यन्-मुकुलं प्रयान्ति ॥७१॥
पिकीभिः सार्धं अन्य-पुष्टाः कोकिला मौन-व्रतं त्यक्तुम् इव कषायेण कण्ठं विशोधयन्तो माकन्दम् आम्रं प्रयान्ति । पश्य हे कल-कण्ठि आम्र-मुकुल-भोजनेन कोकिलस्य कण्ठ-ध्वनिर् भवतीति प्रसिद्धं ॥७१॥
वासन्ती स्वर्ण-यूथी-मुख-हसित-लतालीभिर् आलिङ्गिताङ्गी
फुल्लेयं चम्पकाली बकुल-ततिर् इयं सापि तापिञ्छ-माला ।
सेयं पुन्नाग-वीथी सुतिलक-विततिः सा त्व् इयं चूत-पाली
श्रेणीयं वञ्जुलानां विलसति पुरतश् चावलिः केशराणाम् ॥७२॥
वासन्ती माधवी-लता स्वर्ण-यूथी चैते मुखे आद्या यासां ताभिर् हसिताभिर् दीप्ताभिर् लता-श्रेणीभिर् आलिङ्गिता चम्पकालीयं तथा वक्ष्यमाणाभिः सप्तलादिभिर् आलिङ्गिता बकुल-ततिः तापिञ्छ-माला पुन्नाग-वीथी । सुतिलक-विततिः । चूत-पाली वञ्जुलानां श्रेणी । केशराणाम् आवलिः पुरतोऽग्रे विलसति । तापिञ्छस् तमालः । पुन्नागो देव-वल्ल्लभः । चुत आम्रः । वञ्जुलो बकुलः । केशरो नागकेशरः ॥७२॥
पुन्नागाः सप्तलाभिर् विधुमुखि बकुलाः सल्-लवङ्गावलीभिः
कुब्जाभिः कोविदाराः सुदति रुरुचिरे चम्पकाः केतकीभिः ।
तेऽशोकाः स्वर्ण-यूथी-ततिभिर् इह लसत्-किंशुकाः पाटलीभिर्
वासन्तीभी रसालाः सित-शत-दलिका-श्रेणिभिः केशराश् च ॥७३॥
हे विधु-मुखि ! हे सुदति ! पुन्नागाः सप्तलाभिर् वन-मालिकाभिः । लवङ्गावलीभिर् बकुलाः । कुब्जाभिः कोविदाराः । केतकीभिश् चम्पकाः । स्वर्ण-यूथीभिर् अशोकाः । पाटलीभिः किंशुकाः । वासन्तीभी रसालाः । सित-शत-दलिकाभिः केशराश् च रुरुचिरे । पुन्नागे पुरुषस् तुङ्गः केसरो देव-वल्लभः इति, अथ केसरे बकुलो वञ्जुलः इति, कोविदारे चमरिकः कुद्दालो युगपत्रकः इति, पलाशे किंशुकः पर्णो वातपोतोऽथ इति, चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः इत्य् अमरः ॥७३॥
अतिमुक्तैर् अतिमुक्तैर् अतिमुक्तैश् चान्वितं वनं यद् इदम् ।
रथ-कृन्-मालिक-मोक्षाकाङ्क्षैर् अपि सेवितं तस्मात् ॥७४॥
अतिमुक्तै रथद्रुः रथ-जनक-द्रुः-वृक्षैस् तैर् इदं वनं यद् यस्माद् अन्वितं युक्तं, तस्मा रथ-कृद्भिः सेवितम् । तिनिशे स्यन्दनो नेमी रथद्रुर् अतिमुक्तकः इत्य् अमरः । अतिमुक्तैर् माधवीभिर् इदं वनं यद् अन्वितं, तस्मात् मालिकैर् माला-कृद्भिः सेवितम् । अतिमुक्तः पुण्ड्रकः स्याद् वासन्ती माधवी-लता इत्य् अमरः । अतिमुक्तैर् इदं वनं यद् अन्वितं तस्मात् मोक्षाकाङ्क्षकैः सेवितम् । मोक्ष-पदेन सालोक्यं सामीप्यं च । अतिमुक्त-पदेन नित्यम्-मुक्त-पदेन नित्य-मुक्तोऽतिशयेन मुक्तश् चात्रायम् । विवेकः श्री-वृन्दावने भक्तानां श्री-कृष्ण-सायुज्य-सारूप्य-सार्ष्टि-मुक्तेर् अश्रवणात् श्रुति-पूर्वा पूर्वाणां गोपी-सारूप्यादि-श्रवणात् अतिमुक्त-पदेन नित्य-मुक्त-साधन-मुक्तश् च तैर् अन्वितम् इदं वनम् । तस्मात् मोक्षाकाङ्क्षिभिर् गोप्य्-आदीनां सारूप्यादि-मोकिषाकाङ्क्षिभिः साधक-भक्तैस् तद् अधुना च सेवितं, लीलाया नित्यत्वेन प्रायशः सदैकाकारेण च ग्रन्थ-कर्त्रादिभिर् महानुभाव-सात्वत-भक्तैः श्रवण-युक्त्या निरूपणाज् ज्ञेयम् ॥७४॥
शरोत्पत्ति-स्थानायत इदम् अरण्यं रतिपतेर्
लता-वृक्ष-व्रातः कुसुम-शर-कारायत इह ।
पतन् भृङ्ग-व्यूहः प्रतिकुसुमम् उच्चैर् ध्वनि-मिषाद्
दिशन् भद्राभद्रं गणयति परीक्षा-कर इव ॥७५॥
इदम् आरण्यं रति-पतेः शरोत्पत्ति-स्थानम् इवाचरति । अत्र कारणम् आह—इह वने लता-वृक्षाणां व्रातः समूहः कुसुम-शरकृद् इवाचरति । परीक्षाकर इव परीक्षा-कृद् इव । भद्राभद्रम् इदं कुसुम-बाण-रूपं भद्रम् इदम् अभद्रम् । उच्चैर् ध्वनिर् मिषात् दिशन् गणयति गणानां करोति ॥७५॥
मधुपी मधुपं विष्टं स्व-प्रतिबिम्बाञ्चि पुष्पम् अनु दृष्ट्वा ।
मिलितां मधुपीम् अन्यां मत्वा तृषितापि निववृते रोषात् ॥७६॥
मधुपी पुष्पम् अनु पुष्पे विष्टं मधुपं स्व-प्रतिबिम्बेन युक्तं दृष्ट्वा अन्यां मधुपीं मिलितां मत्वा रोषात् निववृते ॥७६॥
वनम् अनु मिलितौ नौ वीक्ष्य हर्षात् प्रकाश्य स्वक-
नव-फल-दन्तांस् तच्-छदौष्ठाधरांश् च ।
कमल-मुखि कदल्यः पश्य सङ्कोचयन्त्यः
पतद् अतिमधु-बाष्पाः कम्पिताङ्ग्यो हसन्ति ॥७७॥
कदल्यो वने मिलितौ नौ आवां वीक्ष्य हर्षात् स्वस्य नव-फल-रूप-दन्तांस् तेषां फलानां छद-रूपौष्ठाधरांश् च प्रकाश्य हसन्ति । कीदृश्यः ? सङ्कोच-बाष्प-कम्प-युक्ताः । कदल्या नवीन-फलस्य शुक्ल-वर्णेन दन्तस्य साम्यं, फलाच्छादकस्य रक्त-वर्णतया उष्ठाधरयोः । अधो-मुखतया सङ्कोचस्य । मधुना बाष्पस्य । कम्पेन कम्पस्य साम्यम् ॥७७॥
वल्लीषु हल्लीशक-केलि-रङ्गी
भृङ्गीभिर् अङ्गीकृत-नृत्य-भङ्गः ।
प्रस्थाप्य भृङ्गीं दयितां निगूढं
सरत्य् असौ भृङ्ग-युवाब्ज-षण्डम् ॥७८ ॥
वल्लीषु लतासु भृङ्गीभिः सह हल्लीशक-केलि-रङ्गी असौ भृङ्ग-युवा अङ्गीकृतो नृत्यस्य भङ्गोऽङ्गी येन सः । अब्ज-समूहं प्रति भृङ्गीं दयितां निगूढं यथा स्यात् तथा प्रस्थाप्य स्वयं तद्-अब्ज-षण्डं तां दयितां भृङ्गीं वा सरति ॥७८ ॥
अटवीं प्रियाम् अथ दर्शयन् ।
अवदत् प्रियौ मधुमङ्गलः ॥७९॥
प्रियौ श्री-राधा-कृष्णौ ॥७९॥
निचायतं श्री-व्रज-काननेशौ
निदाघ-मञ्जुं वन-भागम् एतम् ।
यः स्वागतौ वीक्ष्य पुरो-भवन्तौ
सेवोत्सुकः स्वैर् विभवैश् चकास्ति ॥८०॥
हे व्रज-काननेशौ ! निदाघेन मञ्जुं मनोज्ञम् एतं वन-भागं निचायतं पश्यतम् । सेवोत्सुको यो वन-भागः ॥८०॥
सोऽयं टिट्तिभ-दुन्दुभि-ध्वनि-भरैर् धूम्याट-भेरी-स्वरैर्
झिल्ली-झल्लरि-निस्वनैः पिक-पिकी-वीणा-निनादैर् मुदा ।
दृष्ट्वा वाम् इह चाष-डिण्डिम-रवैः शरी-वचः-संस्तवैर्
भृङ्गाली-ध्वनि-गीतकैर् वितनुते नृत्यं लताग्रैश् चलैः ॥८१॥
सोऽयं वन-भागः वां दृष्ट्वा टिट्तिभादयः पक्षि-विशेषास् तेषां शब्द एव दुन्दुभि-ध्वन्य्-आदयस् तैः सह चलैर् लताभिर् अगैर् वृक्षैश् च नृत्यं वितनुते । टिट्तिभः टिठा इत्य् आख्यः । धूम्याटो गुडगुड् इत्य् आख्यः । झिल्ली झिञ्जि इत्य् आख्या । पिकः पिकी कोकिलः कोकिल-स्त्री । चाषो नील-कण्ठः । शारी भृङ्गाली प्रसिद्धा ॥८१॥
वस्त्राणि सत्-पाटलि-पुष्प-वृन्दैः
शिरीष-पुष्पैर् अवतंसकांश् च ।
मल्लीभिर् अङ्गाभरणानि हर्षाद्
बिभर्त्य् असौ वाम् इव दातुम् उत्कः ॥८२॥
असौ निदाघ-मञ्जुर् वन-भागः वां युवाभ्यां पाटलाख्यः पुष्पैर् वस्त्राणि । शिरीषैर् अवतंसान् कर्ण-भूषणानि । मल्लीभिर् भूषणानि दातुं बिभर्ति ॥८२॥
सुपक्त्रिमैः पीलु-करीर-धात्री-
राजादनैः सत्-पनसाम्र-बिल्वैः ।
विकङ्कतैर् जालक-ताल-बीजैः
सिषेविषुर् वां धिनुतेऽसकौ माम् ॥८३॥
असकौ वन-भागः सुपक्व-पील्व्-आदिभिर् वां युवां सेवितुम् इच्छुर् मां मधुमङ्गलं भोजन-सामग्र्या धिनुते सुखयति । पीलुः करीरश् चेत्य् आख्यया व्रजे प्रसिद्धः । धात्री आमलकी । राजादनैः प्रियालैः । राजादनं प्रियालः स्यात् इत्य् अमरः । पनसाद्यैः प्रसिद्धैः । विकङ्कतैः स्यात् स्वादु-कण्टकः, विकङ्कतस् सुवा-वृक्षो ग्रन्थिलो व्याघ्र-पादपि ।
क्षारको जारकः क्लीबे कलिका कोरकः पुमान् । स्याद् गुच्छकस् तु स्तवकः कुट्मलो मुकुलोऽस्त्रियाम् ॥ इत्य् अमरात् ।
जालकैः कलिकाभिः सह ताल-बीजैश् च कोमल-ताल-बीजैः ॥८३॥
इह रवि-मणि बद्ध-प्रान्त-भूम्य्-उष्म-दीप्यद्-
दिन-कर-करजालैर् म्लानिम् आशङ्क्य वां किम् ।
प्रणयतत निजाङ्गैश् छादयन्त्यो भवन्तौ
कलयतम् अग-वल्ल्यः पल्लवैर् वीजयन्ती ॥८४॥
इह वने सूर्यकान्त-मणि-बद्ध-भूमेर् उष्मणा दीप्यद्-दिनकरस्य किरण-समूहैर् वां युवयोर् म्लानिम् आशङ्क्य किं ? वृक्षा वल्ल्यश् च प्रायेण ततैर् विस्तृतैर् निजाङ्कैर् भवन्तौ छादयन्त्यः पल्लवैर् वीजयन्ती ॥८४॥
बहु-प्रजेयं कदली निजात्मजैर्
वृताभितस् तैः सुत-वस्करा यथा ।
तान् लालयन्ती च्छद-पाणिना बभौ
धयन्त्य् अधोऽञ्चत्-सुमनः-स्नुत-स्तनम् ॥८५॥
सुत-वस्करा सप्त-पुत्रीवती सा इव बहु-प्रजा कदली तैर् निजात्मजैर् वृता तान् आत्मजान् पत्र-रूप-पाणिना हस्तेन लालयन्ती अधोऽञ्चन्तं गच्छन्तं सुमनः स्नुत-स्तनं तान् धयती बभौ । घेट् पाने धातुः ॥८५॥
सुदीर्घ-नासेति सुपक्त्रिमाम्रे
विन्यस्त-चञ्चुं पिकम् आकलय्य ।
स्मेराननाः प्रेक्ष्य पुरो निजालीः
प्रियां हरे पश्य विनम्र-वक्त्राम् ॥८६॥
हे हरे ! सुदीर्घ-नासा नासिकाकारः पार्श्व-विशेषो यत्र तत्र सुपक्वाम्, विन्यस्त-चक्षुं कोकिलं दृष्ट्वा राधा-मुखे चुम्बनासक्तस्य तव मुख-संयोगं मत्वा पुरः स्मेरानना निज-सखीर् वीक्ष्य प्रियां विनम्र-मुखीं पश्य ॥८६॥
मल्ली-वल्ली-मतल्ली-ततिभिर् इह लसल्-लोल-लोलालि-माला
चिल्लीभिश् चारु-तल्ली-तट-भुवि विदधत्-साधु-हल्लीश-केलिम् ।
क्रुध्यत्-कन्दर्प-मल्ली-कृत-कुसुम-चयेषत्-स्मिताभिस् तमालः
सोऽयं श्री-गोप-पल्ली-पति-सुत इव सद्-वल्लरीभिश् चकास्ति ॥८७॥
इह चारु-तल्ली मनोहर-क्षुद्र-सरस् तस्यास् तट-भुवि स प्रसिद्धोऽयं पुरो-वर्त्य् अङ्गुली निर्दिष्टस् तमालः । मल्ली-वल्लीनां ततिभिः सह चकास्ति । मतल्लिका मचर्चिका प्रकाण्ड-मुद्ग[^२८]-तल्लजौ । प्रशस्त-वाचकान्य् अमूनि इत्य् अमरः । कः काभिर् इव गोप-पल्ली-पति-सुतो भगवान् सद्-वलरीभिर् एताभिर् इव कथं-भूताभिः लसन्ती लोलाल् लोला लोल-लोला अतिलोला अतिसतृष्णा अतिचञ्चला वा या अलि-माला भ्रमर-श्रेणी सैव चिल्ली भ्रूः । भ्रूर् इव यासां ताभिर् मल्लीभिः ।
गोपी-पक्षे—सैव चिल्ली यासां ताभिः । लोलश् चल-सतृष्णयोः इत्य् अमरः । पुनः किं-भूताभिः क्रुध्यता कन्दर्पेण मल्ली-कृतोऽमल्लोऽतिसुकुमारोऽपि विरहिणां धैर्य-ध्वंस-समर्थो मल्लः कृतो मल्ली-कृतः कुसुम-चय एवेषत् स्मितं स्मितम् इव यासां ताभिः ।
पक्षे स इवेषत् स्मितं यासां ताभिः । किं कुर्वन् ? साधु मनोहरं हल्लीशक-केलिं स्त्रीणां मण्डली-नृत्य-केलिं, वल्ली-पक्षे पवन-कृताल् लोलनं नृत्यं विदधत् सन् ॥८७॥
निशम्य वाचं मधुमङ्गलस्य
राधा-मुकुन्दौ स्मित-शोभितास्यौ ।
वृन्दा-वितीर्णान् श्रवणे न्यधात्तां
शिरीष-पुष्प-स्तवकान् परस्परम् ॥८८॥
वृन्दया वितीर्णान् दत्तान् शिरीष-पुष्प-स्तवकान् । परस्परं राधा-कृष्णौ श्रवणे न्यधात्ताम् ॥८८॥
करारविन्देन पराग-पांशुलान्
कृष्णः प्रियाया अलकान् व्यतुस्तयत् ।
साप्य् अस्य चूडोपरि केकि-चन्द्रकान्
विकाशि-दोर्-मूलम् अथालकान् अपि ॥८९॥
कृष्णः प्रियाया अलकान् परागेण पुष्प-रजसा पांशुलान् धूसरितान् व्यतस्तयन् निर्धूलीकान् करोति । सा राधापि अस्य श्री-कृष्णस्य मयूर-चन्द्रकान् अलकान् अपि पराग-पांशुलान् प्रकाशि-दोर्-मूलं यथा स्यात् तथा निर्धूलिकान् चकार ॥८९॥
प्रियाम् आह हृदि स्पृशन् प्रिये
निदाघ-तापैर् उपतापितोऽभितः ।
पलायमानः कुच-शैल-दुर्गकं
समाश्रितः शैत्य-गुणोऽस्ति किं तव ॥९०॥
कृष्णः प्रियां हृदि स्पृशन् आह—हे प्रिये ! निदाघ-तापैर् उपतापितः । अतः पलायमानः शैत्य-गुणस् तव कुच-शैल-दुर्गकं समाश्रितः सन्न् अस्ति किं ? ॥९०॥
कान्ते सुधांशु-मणि-बद्ध-नगालबाले
तद्-वक्त्र-शुभ्र-किरणोदय-जाम्बु-पूरे ।
स्नात्वा निपीय सलिलं विगतोष्ण-तापास्
तत्-सेतु-मूर्ध्नि विलसन्ति खगाः सकान्ताः ॥९१॥
हे कान्ते प्रिये ! सुधांशु-मणिभिश् चन्द्रकान्त-मणिभिर् बद्धे नगानां वृक्षाणाम् आलवाले जलाधारे त्वद्-वक्त्र-चन्द्रस्य उदयेन जातो जल-पूरो यत्र । स कान्ताः खगाः स्नात्वा पश्चात् सलिलं निपीय, विगतोष्ण-तापाः सन्तस् तस्यालवालस्य सेतु-मूर्ध्नि विलसन्ति ॥९१॥
राधा-कृष्णौ प्राह ततस् तौ सुबलोऽपि
प्रावृड्-मञ्जुं पश्यतम् अग्रे वन-भागम् ।
विद्युन्-मेघौ वाम् इह मत्वा प्रणयान्धौ
नृत्यत्य् आरान् मत्त-मयूर-व्रज एषः ॥९२॥
सुबलः प्रावृषा वर्ष-र्तुना मञ्जुं वन-भागम् अग्रे पश्यतम् इति राधा-कृष्णौ प्राह वां युवां विद्युन्-मेघौ मत्वा मत्त-मयूर-व्रजो नृत्यति ॥९२॥
मल्ली-मतल्ली-कुल-पालिकानाम्
अङ्के निषण्णान् भ्रमरान् सुलोलान् ।
स्व-सौरभैः पश्यतम् आत्त-गर्वाः
कर्षन्त्य् अमुष्मिन् गणिका हसन्त्यः ॥९३॥
अमुष्मिन् वन-भागे वर्ष-र्तौ वा मल्लीर् मतल्ल्यः प्रशस्त-मल्ल्यस् ता एव कुल-पालिकाः कुल-स्त्रियस् तासाम् अङ्के क्रोडे निषण्णान् स्थितान् सुलोलान् तासु सुष्ठु स-तृष्णान् चुम्बनादावत्यासत्त्या चञ्चलान् वापि भ्रमरा भृङ्गा एव भ्रमराः कामुकास् तान् । आत्त-गर्वाः प्राप्त-गर्वा हसन्त्यो गणिका वेश्याः स्व-सौरभैः कर्षन्ति पश्यतम् । कुल-स्त्री कुल-पालिका इति, गणिका यूथिकाम्बष्ठा इति, वार-स्त्री गणिका वेश्या इत्य् अमरः । भ्रमरः कामुके भृङ्गे इति विश्वः ॥९३॥
अस्मिन् भृङ्गालि-ललिता वर्षावर्षोर्जिताटवी ।
घन-मेघावृता भाति यूथी यूथी-कृतालिका ॥९४॥
अस्मिन् वन-भागे अटवी भाति । कीदृशी ? वर्षासु वर्ष-र्तौ वर्षाभिर् वृष्टिभिर् ऊर्जिता वृद्धा, स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा इत्य् अमरः । पुनः कीदृशी ? भृङ्ग-श्रेणीभिर् ललिता मनोहरा घनीभूत-मेघैर् आवृता यूथीभिर् यूथी-पुष्पैः करणैः यूथी-कृता एकत्री-कृता अलयो यया सा ॥९४॥
अभ्रम् अभ्रावृतं चास्मिन् भवनं भुवनाप्लुतम् ।
ककुभः ककुभैः फुल्लैर् व्याप्ता नीप-कदम्बकैः ॥९५॥
अस्मिन् वने ऋतौ वा अभ्रम् आकाशम् अभ्रेण मेघेनावृतम् । भुवनं जगद् इदं भुवनेन जलेनाप्लुतम् । ककुभो दिशः ककुभैर् अर्जुन-वृक्षैस् तथा नीपाः कदम्बास् तेषां समूहैर् नीप-कदम्बयोः पुष्पस्य क्षुद्र-स्थूल-भेदाद् भेदोऽपि ज्ञेयः, तैर् व्याप्ताः ॥९५॥
आलालपीतीह मुदा पिकाली दात्यूह-मालापि च कोकवीति ।
संरारटीत्य् अत्र हि चातकालिः शालूर-वीथीः परिरोरवीति ॥९६॥
इह पिक-श्रेणी आलालपीति पुनः पुनर् अतिशयेन वा लपति । दात्यूहो डाहुक इत्य् आख्यस् तेषां श्रेणी कोकवीति । कु-शब्दे । चातकाली संरारटीति । शालूरो भेकः, तेषां वीथी परिरोरवीति । भेके मण्डूक-वर्षाभू-शालूर-प्लव-दर्दुराः इत्य् अमरः । सर्वत्र पुनः पुनर् अतिशयो वा अर्थयितव्यः ॥९६॥
विरारवीत्य् अत्र बकालिर् एषा शिखावल-श्रेण्य् अपि दन्ध्वनीति ।
कोयष्टिकालि प्रणिनानदीति प्रसंस्वनीत्य् अत्र च मद्गु-पङ्क्तिः ॥९७॥
बकालिर् विरारवीति । शिखावल-श्रेणी मयूर-श्रेणी दन्ध्वनीति । कोयष्टिकालि पानि-कुक्कुटीत्य् आख्य-पक्षि-श्रेणी प्रणिनानदीति मद्गु-पङ्क्तिः मरालीति प्रसिद्धा प्रसंस्वनीति । अत्रापि पूर्ववत् पुनः पुनर् अतिशयं वा शब्दं करोतीत्य् अर्थः ॥९७॥
घनावली नील-निचोल-संवृता
बलाकिका-मौक्तिक-हार-धारिणी ।
बलारि-कोदण्डक-मण्डना-पुरः
प्रावृट्-सखीवेच्छति वां निषेवितुम् ॥९८॥
प्रावृट् वर्षा सखीव वां निषेवितुम् इच्छति । उभय-साम्यम् आह—घनावली सैव नील-वस्त्रं तेनावृता । बलाकिका बक-श्रेण्य् एव मौक्तिक-हारस् तं धरति या सा । बलारिष्ट-कोदण्डम् इन्द्र-धनुस् तद् एव नील-पीत-रक्तादि-वर्णत्वात् नाना-विध-रत्न-मण्डनं यस्या सा ॥९८॥
कदम्बैः प्रालम्बान् कुटज-कुसुमैर् गर्भक-
वरान् किरीतान् केतक्या दल-समुदयै रङ्गण-युतैः ।
स्फुटद्-यूथी-पुष्पैर् अपि विविध-हारान् स-ककुभैर्
असौ प्रावृड्-लक्ष्मीश् चरण-कमलेष्व् अर्पयति वाम् ॥९९॥
असौ प्रावृट् लक्ष्मीर् वा यवयोश् चरण-कमलेषु प्रालम्बादीन् अर्पयति । कदम्बैः प्रालम्बान् ऋजु-लम्बान् मालादीन् । कुटज-कुसुमैः कुडचि इति ख्यातैर् गर्भक-वरान्, केश-मध्ये तु गर्भकः इत्य् अमरः । केतक्या किरीटान् । रङ्गण-युतैर् दल-समुदयैः स-ककुभैर् अर्जुन-पुष्पैर् सह स्फुटत्-यूथी-पुष्पैर् अपि विविध-हारान् ॥९९॥
घुषृण-मद-विलिप्तोरोजयोः पक्व-तालैर्
लसद्-अलक-ततीनां पक्व-जम्बूफलैः सा ।
त्वयि तव दयितायाः स्वङ्गुली-पर्वकाणाम्
उपमितिम् अभिधत्ते पक्व-खर्जूरकैश् च ॥१००॥
सा प्रावृट् लक्ष्मीस् त्वयि त्वन्-निमित्ते विषये वा तव दयितायाः कुङ्कुम-मृगमद-लिप्तयोः कुचयोर् उपमितिम्, पक्व-तालैर् लसद्-अलक-ततीनाम् उपमितिं, पक्व-जम्बू-फलैः स्वङ्गुली-पर्वकानाम् उपमितिं पक्व-खर्जूरकैर् अभिधत्ते ॥१००॥
कृष्णं विना सुलीलः को वा व्रजम् ऋते क्व वा लीला भण्यत ।
इति दात्यूहैः को वा को वा क्व वा क्व वा विरुतैः ॥१०१॥
कृष्णं विना सुलील-शोभन-लीला-कर्ता को नः कोऽपीत्य् अर्थः । व्रज-वनं विना क्व वा कुत्र लीला न क्वापीत्य् अर्थः । दात्यूहैर् विरुतैर् विशिष्ट-शब्दैः को वा को वा क्व वा क्व वा इति भण्यते ॥१०१॥
कृष्णं शश्वत्-स्वलीला-घनरस-वितरैः प्रावृषं संसृजन्तं
हित्वा के वा पयोदाः क्वचिद् अपि च कदाप्य् अम्बु-वृष्टिं ददानाः ।
प्रावृट्-कालः स को वा षड्-ऋतुषु गणितो मास-युग्म-प्रमाणः
केका-नादैः प्रहर्षाद् इति दिशि दिशि तान् तं च निन्दन्ति भेकाः ॥१०२॥
शश्वत् स्वस्य लीलया घन-रसस्य घनी-भूत-दास्य-सख्य-वात्सल्य-शृङ्गारादि-रसस्य वितरैर् वितरणैर् दानैर् प्रावृषं वृष्टिं वर्षा-कालं च संसृजन्तम् । कृष्णं हित्वा पयोदा मेघाः के वा कीदृशाः क्वचिद्-देशे कदा कस्मिन् वर्षादि-कालेऽप्य् अम्बु-वृष्टिं, न त्व् अन्य-वृष्टिं ददानाः । षड्-ऋतुषु मध्ये गणितो मास-युग्म-प्रमाणः । स प्रावृट्-कालः को वा प्रहर्षात् भेकाः केका-नादैस् तान् पयोदान् तं च प्रावृट् कालो निन्दन्ति । वर्षा-कालीय-मेघ-समूह-कृत-जल-वृष्टितोऽपि कृष्ण-लीला-वृष्टीनाम् आधिक्यं तापादि-हारित्वं सुखादि-जनत्वं चानुभूय तान् तं च गर्हयन्ति ॥१०२॥
वर्षायते मधु-स्रावो मधुपाली घनायते ।
पुरः कदम्ब-बाटीयं पश्य तं दुर्दिनायते ॥१०३॥
मधुना स्रावः क्षरणं वर्षम् इवाचरति वर्षायते मधुपानाम् आली भ्रमर-श्रेणी वर्ण-साम्यात् घन इवाचरति घनायते । इयं कदम्ब-बाटी दुर्दिनम् इवाचरति । मेघच्छन्नेऽह्नि दुर्दिनम् इत्य् अमरः ॥१०३॥
स्व-प्रेष्ठयासौ विलसन् शिखण्डी
शिखण्डिनीर् वीक्ष्य पुरः समेताः ।
आच्छादयंस् तां निज-पिञ्छ-तत्या
नृत्यत्य् असौ ताः पुरतो विधाय ॥१०४॥
इत्थं पुष्णन् प्रावृषेण्यां श्रियं तां
राधा शम्पालिङ्गितः कृष्ण-मेघः ।
आली चक्षुश् चातकान् सुष्ठु धिन्वन्
विश्वं सिञ्चत्य् एष लीलामृतैः स्वैः ॥१०५॥
असौ शिखण्डी मयूरः स्वस्य प्रेष्ठया प्रियया सह विलसन् पुरः समेता मिलिताः शिखण्डिनीर् वीक्ष्य ताः शिखण्डिनीः पुरतो विधाय निज-पिञ्छ-तत्या तां स्व-प्रेष्ठाम् । राधैव शम्पा विद्युत् तया लिङ्गितः कृष्ण-मेघः प्रावृषेण्यां तां श्रियम् इत्थं पुष्णन् आलीनां चक्षुश् चातकान् धिन्वन् प्रीणन् स्वैर् लीलामृतैर् विश्वं सिञ्चति । भावार्थे प्रावृष एन्य-प्रत्ययः ॥१०४-१०५॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गो द्वादश एष सुष्ठु निरगान् मध्याह्न-लीलाम् अनु ॥
॥१२॥
॥।
(१३)