सप्तमः सर्गः
श्री-राधा-तनु-वर्णनम्
नान्दीमुखीम् अनुसृताथ सभां सखीनाम्
आगत्य तां मुरलिकां हृदि निह्नुवाना ।
वृन्दाब्रवीत् क्व नु गतौ व्रज-काननेशौ
सख्यो निवेद्यम् इह नाव् अनयोः पदेऽस्ति ॥१॥
अथानन्तरं वृन्दा तां मुरलिकां हृदि निह्नुवाना गोपयन्ती सती नान्दीमुखीम् अनुसृता नान्दीमुखी-सहिता सती, सखीनां सभाम् आगत्य अब्रवीत् । हे सख्यः ! व्रज-वनेशौ राधा-कृष्णौ क्व कुत्र गतौ ? अनयोः राधा-कृष्णयोः पदे नौ आवयोर् निवेद्यम् अस्ति ॥१॥
ता ऊचुर् एतौ स्मर-सार्वभौम-
पार्श्वं प्रयातौ कलहायमानौ ।
किं तन् निवेद्यं वद तत्[^२४]** सुगोप्यं
चेद् गच्छतं निष्कुत-पट्ट-गेहम् ॥२॥**
ता सख्य ऊचुः—एतौ राधा-कृष्णौ कलहायमानौ कन्दर्प-राज-पार्श्वं प्रयातौ । युवां तन् निवेद्यं वद तम् । सुगोप्यं चेन् निष्कुत-पट्ट-गेहं निष्कुटे कृष्ण-क्रीडालय-युक्तारामे अत्र वने उत्तम-कुञ्ज-गृहं गच्छतम् । गृहारामास् तु निष्कुटाः इत्य् अमरः ॥२॥
वृन्दाह नैतद् भवतीषु गोप्यं
राधा-मनः-प्राण-वपुः-समासु ।
निवेदनीयं सचिवास्व् अवश्यं
किन्त्व् ईशयोः सन्निधि-राजितासु ॥३॥
श्री-राधायां मन-आदि-समासु सचिवासु अन्तरङ्गासु अमात्यासु भवतीषु एतद् गोप्यं न । किन्तु ईशयोः राधा-कृष्णयोः सन्निधि-गतासु सतीषु निवेदनीयम् ॥३॥
क्रीडावसानम् अवधार्य ततः समन्ताद्
द्रष्टुं तयोर् निधुवनान्त-विलासम् उत्काः ।
आगत्य कुञ्जम् अनु मुक्त-कवाट-बन्धाश्
छिद्रेषु दत्त-नयनाः परितः स्थितास् ताः ॥४॥
ततस् ताः सख्यस् तयो राधा-कृष्णयोः क्रीडा-समाप्तिं ज्ञात्वा निधुवनस्य रहस्य-लोलायाः अन्ते यो विलासस् तं द्रष्टुम् उत्सुकाः सत्य आगत्य मुक्त-कवाट-बन्धाः, मुक्ताः कवाट-बन्धाः कुञ्ज-गृहस्य चतुर्-दिक्षु वलयाकृतेश् चतुष्कोणाकृतेर् वा आवरण-भित्तेश् चतुर्द्वार-युक्तानां चतुर्णां कवाटानां बन्धाः स्व-कृत-लता-पाश-निविड-बन्धनानि याभिस् ताः । कुञ्जम् अनु कुञ्जे छिद्रेषु दत्त-नयनह् । परितश् चतुर्दिक्सु स्थितह् ॥४॥
आम्रेडितः स्वाङ्ग-विभूषणाय
तत् कर्तुं प्रवृत्तोऽप्य् अनया निवारितः ।
समुच्छलद्-विभ्रमया तद् अप्य् अमुं
विभूषयन्न् आस तया स भूषितः ॥५॥
अनया श्री-राधया स्वस्याः अङ्ग-विभूषणाय आम्रेडितः द्विस्-त्रिर्-उक्तः । श्री श्री-कृष्णः तत्-तद्-अङ्ग-भूषणं कर्तुं प्रवृत्तोऽप्य् समुच्छलद्-विभ्रमया अनया राधया निवारितः । तद् अपि अमुं राधां विभूषयन्, तया राधया भूषित आस ॥५॥
स पुण्डरीकाच्छ-दलेऽथ कौङ्कुम-
द्रवेण काञ्चित् प्रतिलिख्य पत्रिकाम् ।
दधच् छिरो-वेष्टनके स्वके प्रियाम्
उत्तिष्ठ यावो बहिर् इत्य् अभाषत ॥६॥
स श्री-कृष्णः पुण्डरीकस्य श्वेत-कमलस्य अच्छ-दले निर्मल-पत्रे कुङ्कुमस्य द्रवेण काञ्चित् पत्रिकां प्रतिलिख्य स्वके स्वीये शिरो-वेष्टने मस्तक-बन्धन-वस्त्रे दधत् सन् । हे राधे त्वम् उत्तिष्ठ आवां बहिर् याव इति प्रियां राधाम् अभाषत ॥६॥
सखी-त्रपा-कुण्ठित-निर्गमेच्छां
चौरीम् इव न्याय-जितां गृहीत्वा ।
करे बलात् फुल्ल-विलोचनोऽसौ
कुञ्जालयात् प्राङ्गणम् आससाद ॥७॥
सखीभ्यो या त्रपा लज्जा तया कुण्ठिता निर्गमणेच्छा यस्यास् तां राधां न्याय-जितां चौरीम् इव बलात्कारेण गृहीत्वा फुल्ल-विलोचनोऽसौ कृष्णः कुञ्ज-गृहात् प्राङ्गणम् अगमत् । चौरीम् इव इत्य् अत्र दृष्टान्तस् तु स्थूलओ अधीनांश एव । सूक्ष्मतमस् तु रहस्य-लीलायाश् चौर्य्-आद्य्-अंशे ॥७॥
सङ्कुचत्-फुल्ल-नयनौ प्राण-प्रेष्ठौ पुरः-स्थितौ ।
हृष्यन्त्यः परिवार्याल्यः सखीम् आहुः स-सम्भ्रमम् ॥८॥
सङ्कुचन्ती नयने यस्याः । फुल्ले नयने यस्य तौ पुरः-स्थितौ प्राण-प्रेष्ठौ राधा-कृष्णौ हृष्यन्त्यः सख्यः परिवार्य स-सम्भ्रमं यथा स्यात् तथा सखीं राधाम् आहुः ॥८॥
मुञ्चन्त्या नः कुत्र यातं भवत्या
नास्माभिश् चान्विष्य लब्ध्वा कुतोऽपि ।
धृष्टेनासीत् क्वामुना वा प्रसङ्गो
जातास्मात् ते भाग्यतो नाभिभूतिः ॥९॥
नोऽस्मान् मुञ्चन्त्या भवत्या कुत्र यातम् अस्माभिश् चान्विष्य कुत्रापि न लब्धा त्वम् ।
धृष्टेनामुना क्व प्रसङ्ग आसीत् । अस्मात् कृष्णात् तेऽभिभूतिः पराभवो भाग्यान् नाभूत् ॥९॥
निशम्य तासां परिहास-भङ्गीं
निशाम्य चासौ रति-लक्षणानि ।
कान्तं निजालीः प्रति सूचयन्तं
ह्रियेर्ष्यया चोच्चलिता तदासीत् ॥१०॥
तदासौ राधा तासां सखीनां परिहास-भङ्गीं निशम्य श्रुत्वा निजालीः प्रति रति-लक्षणानि सूचयन्तं कान्तं निशाम्य दृष्ट्वा ह्रिया सखीनां परिहास-जन्यया ईर्ष्यया कृष्णेन रति-लक्षण-सूचन-जन्यया च उच्चलिता आसीत् ॥१०॥
कान्तं हसन्तं कुटिलीकृत-भ्रूश्
चलाधरा गद्गद-रुद्ध-कण्ठी ।
सा तर्जनी-चालनया ततर्ज स्वालीर्
हसन्तीर् अवदच् च भङ्ग्या ॥११॥
सा राधा हसन्तं कान्तं तर्जन्य्-अङ्गुली-चालनया ततर्ज हसन्तीः स्व-सखीर् अवदत् ॥११॥
गृहोन्मुखीं कर्षथ वस्त्र-कर्षं
लीनां क्वचित् सूचयथाश्व् अमुष्मै ।
सङ्गे स्थितां खेदयथामुना मां
सङ्गः कथं वोऽथ मया विधेयः ॥१२॥
किम् आह ? मया वो युष्माकं सङ्गः कथं विधेयः । गृहोन्मुखीं गृहे गन्तुम् उद्यतां मां वस्त्र-कर्षं कुर्वथ । वस्त्रे गृहीत्वा कर्षथेति लीनां माम् अमुष्मै कृष्णाय आशु सूचयथ । सङ्गे स्थितां माम् अमुना कृष्णेन खेदयथ ॥१२॥
अथ श्रीमन्-महाप्रभोः कृपया कवि-कर्णपूर-गोस्वामि-कृतालङ्कार-कौस्तुभाख्य-ग्रन्थे यानि अलङ्कार-लक्षणाणि तानि अस्मिन् ग्रन्तेह् उत्थाप्य तद्-अनुसारेण एतत्-ग्रन्थोक्तालङ्काराणां व्याख्या कर्तव्या । अलङ्काराणां मध्ये यद् अलङ्कारम् आदौ प्राप्स्यामि तद्-अलङ्कारस्य व्याख्या तत्रैव कर्तव्या । पश्चात् तद्-अनुसारेण तद्-अलङ्कारस्यार्थ-ज्ञानं भविष्यति । पुनर् अपि यत्र श्लोके लिखितालङ्कार आयास्यति । तत्र झटिति तल्-लक्षणस्य प्राप्त्य्-अर्थं यस्मिन् श्लोके तल्-लक्षणं व्याख्या चास्ति, तस्य श्लोकस्याङ्को देयः । लक्षणस्य व्याख्याने यत्र ग्रन्थ-कर्तुर् व्याख्या, तत्र अस्यार्थ इति शब्दो देयः । यत्र मत्-प्रभु-श्री-कृष्ण-देव-सार्वभौम-भट्टाचार्य-ठक्कुर-कृत-व्याख्या । तत्र अस्य टीका इति शब्दो देयः ॥
युष्माभिर् ईरित-सुमत्त-भुजङ्ग-वर्यान्
मां चञ्चलात् सपदि कण्टक-वल्लि-सख्यः ।
स्पर्शोत्सुकाद् अपसृतां चकितां रुरुक्षुः
कुञ्जाश् च रक्त-सित-सच्-छत-पत्रिकाश् च ॥१३॥
(व्याजोक्तिः)
श्री-कृष्णात् पलायनं कृत्वा गताया मम लताभिः रक्षाभूद् इति व्याजोक्त्य्-अलङ्कारेणाह युष्माभिर् इति । युष्माभिर् ईरितान् प्रेरितान् मत्त-भुजङ्ग-वर्यान् कामुक-श्रेष्ठान् । भुजङ्गः पन्नगे शिड्गे इत्य् अमरः । शिड्गः कामुकः । कीदृशात् चञ्चलात् स्पर्शोत्सुकाद् । अपसृतां पलायन-परां चकितां च मां सपदि तत्-क्षणात् कुञ्जाश् च रक्त-वर्णाः सिताः शुक्ल-वर्णाः सच्-छत-पत्रिकाश् च एताः कण्टक-वल्ल्य एव सख्यस् ता रुरुक्षुः।
व्याजोक्ति-नामालङ्कारोऽयम् । व्याजोक्ति-लक्षणम्, यथा—प्रकृत-स्थगनं छद्म-व्याजोक्तिर् अनिषेध-भाक् [अ।कौ। का। २९२] । अस्यार्थः—अपह्नुतिस् तु निषेध-पूर्वा, इयं तु न तथेत्य् अनिषेध-भाग् इत्य् उक्तम् । इयं तु च्छद्म-पूर्वैव । अस्य टीका—
यत्र प्रकृतार्थस्य स्थगनं संवरणं तत् तु मिष-मात्रम् । किन्तु प्रकृतार्थ एव वक्तुस् तात्पर्यम् । तत्र व्याजोक्तिः । एषा अनिषेध-भाग् अपह्नुति-स्थले तु प्रकृतार्थस्य निषेध-पूर्वक-संवरणम् । अत्र तु प्रकृतार्थस्य निषेधं विनैव संवरणम् इति भेदो बोध्यः । अत्र प्रकृतस्य कृष्ण-सङ्ग-जन्य-नख-चिह्नस्य स्थगने आच्छादने कण्टकि-लता-कृते स्व-रक्षणं चिह्नं छद्म-मात्रं न तु निषेधः । किन्तु कृष्णाङ्ग-सङ्ग-जन्य-नख-क्षत-कथन एव तात्पर्यम् । एवं बोध्यम् ॥१३॥
कुन्दवल्ल्य् अवदत् सत्यं राधे ते नानृतं वचः ।
यत् तन्-निरोधजं चिह्नं कृष्णाङ्गे दृश्यते स्फुटम् ॥१४॥
एतच् छ्रुत्वा कुन्दवल्ल्य् अवदत् । हे राधे ते वचः सत्यम् अनृतं मिथ्या न । कृष्णाङ्गे तन्-निरोधजं चिह्नं यद् यस्मात् स्फुटं दृश्यते ॥१४॥
**तीक्ष्णैः स्व-कण्टक-नखैश् चटुलाभिर् आभिस्
त्वद्-गोपनाय वपुर् अस्य लता-सखीभिः ।
आचोटितं सखि तद् औपयिकं तद् एतच्
चित्रं त्व् इदं तद् अधिकं यद् इदं तवापि ॥१५॥ **
(रूपकेण विभावनया सङ्गतिः)
हे सखि राधे ! चटुलाभिर् लता-सखीभिः त्वद्-गोपनायास्य श्री-कृष्णस्य वपुः शरीरं तीक्ष्णैः स्वैः कण्टक-नखैर् आचोटितं यत् तद् एतत् कर्म तद् औपयिकम् उचितम् । इदं तु तवापि वपुर् यत् तत् तस्मात् कृष्ण-वपुषोऽधिकं ताभिस् तव रक्षा-कर्त्रीभिस् तैर् नखैर् आचोटितं तद् इदं तव वपुर् आचोटनं चित्रम् ।
रूपक-लक्षणम् । रूपकं तु तत् यत् यत् तादात्म्यं द्वयोः [अ।कौ। २३९] अस्यार्थः—द्वयोर् उपमानोपमेययोस् तादात्म्यं यत् तद् रूपकम् । अतिशयाभेदाद् अपह्नुत-भेदत्वं तादात्म्यं द्वि-प्रकारं—समस्त-वस्तु-विषयम् ऐकदेश-विवर्ति च आरोप्यमानश् चारोप-विषयो यत्र शब्दगौ [अ।कौ। २४०-२४१] तत्र समस्त-वस्तु-विषयम् । अस्य टीका—
यत्र आरोप-विषयस्योपमेयस्य तथारोप्यमाणस्योपमानस्य च द्वयोर् एव बोधक-शब्दो वर्तते । तत्र समस्त-वस्तु-विषयकं रूपकम् ।
आरोप्यमाणः शाब्द आर्थश् च तत्-परम् एक-देश-विवर्तित्वं [अ।कौ। २४२] शाब्दः शब्दोपात्त आर्थः अर्थ-मर्यादया ज्ञेयः । इत्य् एक-देश-विवर्तितवम् ।
यत्र शाब्दः आर्थश् चोभयम् अपि वर्तते । तत्र एक-देश-विवर्ति । यत्र तु केवलं शाब्द एव । तत्र समस्त-वस्तु-विषय-रूपकम् इति भेदः ।
आरोप-विषयाभावेऽप्य् आरोप्यं यदि तद् अन्य-प्रकारं [अ।कौ। २४३] । अत्र टीका—
आरोप-विषयस्योपमेयस्य भावेऽपि यद्य् आरोप्यम् उपमानं वर्तते, तद् अन्यत् रूपकम् उक्तं त्रिविधं रूपकम् । कुत्रापि प्रासङ्गि-प्रकृष्ट-सजातीय-बहु-सङ्गात् । कुत्रापि निःसङ्ग एकम् एव रूपकं प्रधानत्वेन विवक्षितम्, तत्र सजातीय-द्वितीय-रूपकान्तराभावेन निःसङ्गम् । माला-रूपकं तु मालोपमवत् अन्य-प्रकारम् ।
अथ विभावना-लक्षणं—हेतु-रूप-क्रियाऽभावे यत् स्याद् विभावना [अ।कौ। २७१] । अस्यार्थे फलं फल-प्राकट्यम् अभावे निषेधे ।
अथ असङ्गति-लक्षणं—
अत्यन्त-भिन्नाधारत्वे युगपद् भाषणं यदि । धर्मयोर् हेतु-फलओस् तदा सा स्याद् असङ्गतिः ॥ [अ।कौ। ३००]
अस्यार्थः—यद्-आधारो हेतुस् तद्-आधारं फलम् इति नियमः । यथा पाप-पुण्य-कृते एकाधारे एव दुःख-सुखे, तद् अन्यथा-भावाद् असङ्गतिः । तत्रापि युगपद् एव हेतुः हेतु-फलं च, न तु पापादि-कृत-दुःखवत् कालान्तर-व्यवधानम् ।
अथ सङ्कर-लक्षणं—सङ्करस् त्व् अङ्गाङ्ग्-भावः [अ।कौ। ३१७] अस्यार्थः—एषाम् अलङ्काराणाम् अङ्गाङ्गि-भावः सङ्करः । स चानुग्राह्यानुग्राहक-भावेन यथा । अस्य टीका—
अनुग्राह्यानुग्राहक-भावेन व्याप्य-व्यापकेन भावेन भवति । अत्र रूपकेन सहासङ्गतिः ।
विभावनया सह असङ्गतिर् इति सन्देहे सङ्करः । अङ्गाङ्गि-भावेनोभयम् इत्य् अर्थः । अथ रूपकेण सहासङ्गतिः । पक्षे, यथा—कृष्ण-वक्षः-स्थले चिह्नं तथैव तव वक्षः-स्थले चिह्नम् । चिह्न-द्वयस्य भेदाभावात् रूपकम् इदं समस्त-वस्तु-विषयम् । उपमानोपमेययोर् नख-चिह्नयोः शब्दगतत्वात् । एकस्यैव नख-चिह्न-रूपकस्य प्राधान्येन कथनात् । प्रकृष्ट-सजातीय-बहु-रूपकस्य सङ्गाभावाच् च निःसङ्गम् । अत्र रूपकेण सहासङ्गतिस् तु एकाधारे कृष्ण-वक्षसि फल-रूप-नख-चिह्नं तस्य हेतुश् चास्ति । भिन्नाधारे तव वक्षसि फल-रूप-चिह्नम् अस्ति, न तु तस्य हेतुर् इति । तव रक्षार्थं कण्टक-नखैर् लताभिः कृष्ण-वक्षसि कृतं चिह्नम् । भिन्नाधारे तव वक्षसि हेतुं विना तच्-चिह्नं फल-रूपम् असङ्गतिः विभावनया सहासङ्गतिः रूपक-चिह्न-द्वयस्य भेदाभावाद् एव एक-हेतु-जन्य-फल-प्राकट्य-ज्ञानात् रूपकेण सहासङ्गतिर् अङ्गी विभावनया सहासङ्गतिर् अङ्गम् ॥१५॥
**गोपाङ्गणा-गण-रतेर् अतिलम्पटस्य
चन्द्रावलेर् धृतिर् उरस्य् अमलस्य युक्ता ।
यत् त्वं बिभर्षि हृदि ताम् अहिताम् अपीदं
चित्रं परं सखि वदात्र च तत्र हेतुम् ॥१६॥ **
(शब्द-श्लेषः)
गोपाङ्गणा-गणेषु रतिर् यस्य अतिलम्पटस्य अस्य श्री-कृष्णस्य उरसि वक्षसि चन्द्रावलेर् नख-चिह्न-रूप-चन्द्र-श्रेण्य् एव चन्द्रावली चन्द्रावली-नाम्नी श्री-व्रजाङ्गना तस्या धृतिर् अलं युक्ता त्वं ताम् अहितां द्वेष्ट्रीं चन्द्रावली-व्हने तत्र कण्टकैर् वपुर् आचोटने च कारणं वद । शब्दो श्लेषो, यथा । अनेकार्थ-प्रतिपादकता यदि एकार्थअस्य शब्दस्य तदा श्लेषः स कथ्यते । अत्र चन्द्रावली-शब्देन नख-क्षत-श्रेणी तन्-नाम्नी गोपी च शब्द-श्लेषः ॥१६॥
**ताम् आललाप ललिता कुरु मात्र शङ्कां
पुंसः पराद् अतिचलाद् भय-विद्रुतानाम् ।
स्पर्शोत्सुकाद् वपुषि साध्वि कथं सतीनां
दारिद्र्यम् अस्तु वन-कण्टकज-क्षतानाम् ॥१७॥ **
(व्याजोक्तिः)
ललिता तां कुन्दलताम् आललाप । हे साध्वि कुन्दलते ! अतिचलात् स्पर्शोत्सुकात् परात् पुंसो भयेन पलायितानां सतीनां वपुषि वन-कण्टक-जन्य-क्षतानां दारिद्र्यम् अभावः कथम् अस्तु, अपि तु बहु-कण्टक-क्षतं भवत्व् एव । अत्र भयात् पलायमानायास् तस्या स्तने कण्टकज-क्षत-मिषेण नख-क्षतस्यापह्नुति-मिष-मात्रम् । किन्तु नख-क्षत-कथन एव तात्पर्याद् व्याजोक्त्य्-अलङ्कारः । अस्य लक्षणं त्रयोदश-श्लोकस्य टीकायाम् अस्ति ॥१७॥
**प्रत्यङ्गानां वर्णनं श्रोतुम् अस्याः
द्रष्टुं चास्यं भाव-शावल्य-रम्यम् ।
नानोपायांश् चिन्तयत्य् उत्क ईशे
स्वालीं हास्याद् वर्णयामासुर् आल्यः ॥१८॥ **
(समाधिः)
अस्या राधायाः प्रत्यङ्गानां वर्णनं श्रोतुं तथास्या भावानां शावल्येन मिलनेन रम्यम् आस्यं मुख-चन्द्रं च द्रष्टुम् उपायान् चिन्तयति सति उत्के उत्कण्ठिते ईशे कृष्णे तस्य हृदयज्ञा आल्यः सख्यः हास्यात् स्वालीं राधां वर्णयामासुः ।
समाधिर् नामालङ्कारोऽयम् अस्य लक्षणम्, यथा—
कारणान्तर-सहाय्यात् कार्यं यत् सुकरं भवेत् । कर्तुर् विना प्रयत्नेन स समाधिर् इतीर्यते ॥ [अ।कौ। ३०१]
अत्र कर्तुः कृष्णस्य यत्नं विना राधाङ्ग-वर्णनं तथा भाव-शावल्य-रम्यस्य तस्या मुखस्य दर्शन-रूपं च कार्यं सखीनां हास्य-रूप-कारणान्तर-साहाय्यात् सुकरम् अभूत् ॥१८॥
**तृप्त्यै मुरारेर् अथ राधिकाया
माधुर्य-कर्पूर-सुवासितां स्वाम् ।
विधातु-कामाः कविता-रसालां
तया निषिद्धाः कुटिल-भ्रुवापि ॥१९॥
सम्फुल्ल-गोविन्द-मुखारविन्द-
मन्द-स्मित-मन्द-मरन्द-सिक्ताः ।
तद्-इन्गित-ज्ञः क्रमतश् चलक्षीं
तं वर्णयन्त्यो जहसुर् वयस्याः ॥२०॥ **
(युग्मकम्)
वयस्याः स्वां स्वीयां कविता-रसालां कवितैव रसाला तां राधाया माधुर्य-रूप-कर्पूरेण सुवासितां विधातुं कर्तुं कामः कामना यासां ताः । तया राधिकया कुटिल-भ्रुवापि निषिद्धा अपि सम्फुल्लस्य गोविन्द-मुख-पद्मस्य मन्द-स्मितम् एवामन्दो मरन्दो मधु तेन सिक्ताः । तस्य श्री-कृष्णस्य इन्गित-ज्ञस् ता मुरारेस् तृप्त्यै तां राधां वर्णयन्त्यो जहसुः ॥१९-२०॥
भङ्ग्याथ कुन्दवल्लीं तां वर्णयन्त्य इवालयः ।
अप्रस्तुत-प्रशंसाया विषयं स्व-सखीं व्यधुः ॥२१॥
आलयो भङ्ग्या कुन्दवल्लीं वर्णयन्त्य इवाप्रस्तुत-प्रशंसानाम् अलङ्कारस्य विषयं स्व-सखीं राधां व्यधुः ॥२१॥
**ततः सा ललितावादीत् पश्यताल्यो बिभर्त्य् असौ ।
मधुसूदन-सम्भोग-चिह्नानि कुन्दवल्लिका ॥२२॥ **
(स-श्लेषाप्रस्तुत-प्रशंसा)
ललिताह—हे आल्यः ! मधुसूदन-सम्भोग-चिह्नानि कुन्दवल्लिका बिभर्ति । राधा बिभर्ति इत्य् उक्ते सा क्रोधं कृत्वा तां भर्त्सयेत्, ततो गच्छेद् वा । तदा वर्णनं न स्यात् वर्णनाभावे कृष्णस्य सखीनां च वाञ्छा-पूर्तिर् न स्याद् इति कुन्दवल्लिका इत्य् अवादीत् ।
स-श्लेष-प्रस्तुत-प्रशंसा, यथा श्लेष-लक्षणं—अनेकार्थ-प्रतिपादिकता यदि एकार्थस्य तु शब्दस्य तड श्लेषः स कथ्यते [अ।कौ। २५०] । मधुसूदनः कृष्णो भ्रमरश् च श्लिष्टः । कुन्दवल्लिका लता तन्-नाम्नी गोपी च श्लिष्टा ।
अप्रासङ्गिकस्य वाक् प्रासङ्गिक-कथायां स्या अप्रस्तुत-प्रशंसनं [अ।कौ। २५४] । अस्यार्थः—अप्रासङ्गिकस्याप्राकरणिकस्यार्थस्य वाक् कथनं यत् प्रासङ्गिक-कथायां तद् अप्रस्तुत-प्रशंसा स्यात् । कार्य-कारण-सामान्य-विशेषेषु तद् अन्यस्या प्रस्तुतस्य कथनं कार्ये कारण-कथनं कारणे कार्य-कथनं सामान्ये विशेष-कथनं विशेषे सामान्य-कथनं तुल्ये प्रस्तुते तुल्यस्याप्रस्तुतस्य कथनम् इति ।
च-काराद् अन्येषां कथनं च । अत्र पद्ये अप्रासङ्गिकस्य कुन्दवल्ल्याः सम्भोग-चिह्नस्य प्रासङ्गिक-राधाङ्ग-चिह्न-कथायां तुल्यायां कथनम् अत्राप्रस्तुत-प्रशंसा ॥२२॥
भुवि शिव-लिङ्गानीन्दोर्
वलितान्य् एकैकया कलया ।
मन्येऽस्याः कुच-शम्भू
ता दधतस् तज्-जिगीषया प्रचुराः ॥२३॥
(रूपकोत्प्रेक्षा-व्यतिरेकैः सङ्करः)
भुवि पृथिव्याम् । इन्दोर् एकैकया कलया वलितानि शिव-लिङ्गानी सन्ति । अस्याः कुच-रूप-शम्भू स्तनौ ताः कलाः प्रचुरास् ततः स-कलङ्केन्दु-कलातो निष्कलङ्कत्वादि-गुणैः प्रशस्ताः कृत्वा तत् तेषां शिव-लिङ्गानां जिगीषया तानि जेतुम् इच्छया दधतः इत्य् अहं मन्ये ।
रूपकोत्प्रेक्षा-व्यतिरेकैः सङ्करः । अत्र शम्भु-कुचयोर् उपमानोपमेययोस् तादात्म्यं रूपकम् । उपमानोपमेययोः शम्भु-कुच-गत-चन्द्र-नख-चिह्नयोः शब्द-गतत्वात् । अत्र समस्त-वस्तु-विषयम् । एकस्याः कलायाः प्राधान्येन कथनात् प्रकृष्ट-सजातीयान्य-रूपकस्याभावात् निःसङ्गम् ।
रूपक-लक्षणं पञ्चदश-श्लोक-टीकायाम् अस्ति । उत्प्रेक्षा, यथा—
सम्भावनोपमानेनोपमेयोत्कर्ष-हेतुका । उत्प्रेक्षा नूनम् इत्य् आदि-शब्द-द्योत्या । । । । ॥ [अ।कौ। २३७]
उपमेयस्योत्कऋस-हेतुका या उपमानेन सह सम्भावना सा उत्प्रेक्षा । सम्भावना-हेत्व्-अन्तरोपन्यासेन वितर्कणम् । नूनम् इत्य् आदिना । नूनं-मन्ये-शङ्के-इव-ध्रुवं-तु-किं-किमुतेत्य्-आदि । उपमानेन भूस्थ-शम्भुना उपमेयस्य कुच-शम्भु-द्वयस्य उत्कर्ष-हेतुका सम्भावना । तज्-जिगीषया इति हेत्व्-अन्तरोपन्यासेन मन्ये इति शब्द-द्योत्या उत्प्रेक्षात्र ज्ञेया । व्यतिरेको विलक्षणः । विलक्षण इति गुणेन दोषेण च । अस्य टीका वैलक्षण्यम् आधिक्यम् । उपमानात् शम्भु-लिङ्गात् विलक्षणौ कुच-शम्भु-व्यतिरेकः । त्रयाणां सङ्करः ।
सङ्कर-लक्षणं—सङ्करस्य्स् त्व् अङ्गाङ्गि-भावः । रूपकेण शम्भु-कुचयोस् तुल्य-ज्ञाने सत्य् एव । पश्चात् उत्प्रेक्षा-व्यतिरेकाभ्यां कुचयोर् औत्कर्षम् आधिक्यं स्याद् अतोऽत्र रूपकोऽङ्गी उत्प्रेक्षा-व्यतिरेकौ अङ्गे ॥२३॥
हास-विकास-श्री-रद-पङ्क्तिः ।
कृष्ण-मुदे सा प्राह विशाखा ॥२४॥
हासस्य विकासेन श्रीः शोभा दन्त-पङ्क्तौ यस्याः सा विशाखा कृष्णस्य मुदे हर्षाय प्राह ॥२४॥
क्षयिष्णुं तं हित्वा शश-जठरम् इन्दुं मित-कलं
सदा पूर्णानङ्काविगणित-कलानाम् अघभिदः ।
कलाभिर् बह्वीभिः कर-नख-विधूनां निज-तनूम्
अलञ्चक्रेऽस्याः किं स्तन-गिरिश-लिङ्ग-द्वयम् इदम् ॥२५॥
(रूपकोत्प्रेक्षा-व्यतिरेकैः सङ्करः)
क्षयिष्णुं शशो मृगो जठरे यस्य तं मित-कलं तम् इन्दुं हित्वा अघभिदः श्री-कृष्णस्य सदा पूर्णानाम् अनङ्कानाम् अकलङ्कानाम् अविगणिता अनन्ता कलानां येषां तेषां कर-नख-विधूनां बह्वीभिः कलाभिः श्रेणीभिर् अस्याः कुन्दलताया इत्य् उक्ते श्री-राधायाः स्तन-रूप-शिव-लिङ्ग-द्वयं निज-तनूं किम् अलञ्चक्रेऽस्याः, स्व-शोभार्थम् अलञ्चक्रे इत्य् आत्मनेपदस्यार्थः ।
अत्र चन्द्र-नख-चन्द्र-ज्योत्स्नयोस् तादात्म्याच् च रूपकम् । उपमानोपमेययोः शब्दगत्वात् समस्त-वस्तु-विषयं क्षयिष्णु-शश-जठरं मित-कलम् इत्य् आदि प्रकृष्टा-सजातीय-रूपकानेक-सङ्गात् प्रासङ्गि । क्षयिष्णु आदि हेत्व्-अन्तरोपन्यासेन किम् इति पद-द्योत्या ।
उत्प्रेक्षा व्यतिरेकालङ्कारेण शिव-लिङ्गात् गुणेन स्तन-रूप-शिव-लिङ्गयोर् आधिक्यम् । रूपकेण शिव-लिङ्ग-स्तनयोस् तुल्य-ज्ञाने सत्य् एव उत्प्रेक्षा-व्यतिरेकाभ्याम् । स्तनयोर् उत्कर्ष-ज्ञानं स्याद् अतो व्याप्य-व्यापक-भावेन रूपकोऽङ्गी उत्प्रेक्षा-व्यतिरेकाव् अङ्गे, तैः सङ्करः । रूपक-लक्षणं व्याख्या च पञ्चदश-श्लोकस्य टीकायाम्, उत्प्रेक्षा-व्यतिरेकयोर् लक्षणं व्याख्या च त्रयोविंशति-श्लोकस्य टीकायाम् अस्ति ॥२५॥
साभाषत तद्-वाक्-तृप्ता तनु-मध्या ।
कृष्णं सुखयन्ती श्री-चम्पकवल्ली ॥२६॥
तस्या विशाखाया वाक्येन तृप्ता तनु-मध्या क्षीण-मध्या सा चम्पकवल्ली कृष्णं सुखयन्तो अभाषत ॥२६॥
**किं नाग-रङ्गार्पित-लास्य-लाञ्छने
पादाम्बुजे वीक्ष्य हरेः कराम्बुजे ।
तत्-स्पर्धयास्याः कुच-नागरङ्गके
मुदा न्यधत्तां नटनैः क्षतानि ॥२७॥ **
(श्लेष-रूपकोत्प्रेक्षाः)
नागः कालिय-सर्प एव रङ्ग-स्थलं तत्रार्पितं लास्येन नृत्येन लाञ्छनं चिह्नं याभ्यां ते पादाम्बुजे वीक्ष्य तत्-स्पर्धया किं हरेः कराम्बुजे अस्याः कुच-नागरङ्गके नागरङ्गाख्य-फल-विशेषे नटनैः क्षतानि न्यधत्ताम् । नागरङ्ग-शब्दोॠत्र उभयार्थ-वाचित्वात् श्लेषः Ṁ पद-कृत-कर-कृत-चिह्नयोस् तादात्म्यम् अत्र रूपकम् । उपमानोपमेययोः शब्द-गतत्वात् कर-कृत-लाञ्छनानां गुणेनोत्कर्षः । श्लेष-लक्षणं १०म-श्लोके, रूपक-लक्षणं २५म-श्लोके, उत्प्रेक्षा-लक्षणं २३ श्लोके ॥२७॥
स्त्रीषु श्रेष्ठा ।
चित्रा चख्यौ ॥२८॥
चित्रा सखी आह ॥२८॥
चित्रा कनक-लतेयं
श्याम-तमालाश्रिता स्फुटं धत्ते ।
पक्वं श्रीफल-युगलं
तच् चल शाखोपशाखिकोल्लिखितम् ॥२९॥
(उत्प्रेक्षातिशयोक्तिभ्यां संसृष्टिः)
इयं चित्रा मनोहरा कनक-लता श्यामं तमालम् आश्रिता भूत्वा तस्य तमालस्य शाखोपशाखिकाभिर् उल्लिखितं पक्वं श्रीफल-युगलं धत्ते । चित्रा इति हेत्व्-अन्तरोपन्यासेन । स्फुटम् इति पद-द्योत्या । सामान्य-तमालाश्रित-कनक-लतायां तमाल-शाखोपशाखाकृत-चिह्न-युक्त-श्रीफल-युग्मात् श्री-कृष्ण-तमालस्य शाखोपशाखा-रूप-नखेनोलिखितं श्री-राधायाः स्तन-रूप-श्रीफल-युगलस्योत्कर्षम् अत्रोत्प्रेक्षा ।
अतिशयोक्तिर् यथा—निगीर्णस्योपमानेनोपमेयस्य निरूपणम् । यत् स्याद् अतिशयोक्तिः सा [अ।कौ। २५७] अस्य टीका—उपमानेन निगीर्णस्योपमेयस्य यन् निरूपणं सातिशयोक्तिः । निगीर्णं ग्रस्तं तथा चोपमानस्य इव प्रयोगः, न तूपमानेन ग्रस्तोपमेयस्य । अत्र उपमानेन तमाल-शाखोपशाखाकृत-चिह्न-युक्त-श्रीफलेन निगीर्णोपमेयस्य श्री-कृष्ण-कृत-नख-क्षत-युत-राधा-स्तनस्य निरूपणम् अतिशयोक्तिः ।
संसृष्टिर् असौ क्रिया-शब्दार्थोभय-भूः सा क्रमेण प्रदर्श्यते [अ।कौ। ३१६] । अस्यार्थः—शब्दः शब्दालङ्कारः, अर्थोऽर्थालङ्कारः, उभयं शब्दार्थालङ्कारः, एते त्रयः क्रिया-प्रधाना इत्य् अर्थः । अत्र टीका—संसृष्टि-लक्षणम् एतेषाम् अन्योन्य-निरपेक्षत्वेन विश-कलिततयावस्थानं संसृष्टिः । अत्रोल्लिखितम् इति क्रिया-प्रधाना । उत्प्रेक्षातिशयोक्त्योर् निरपेक्षत्वेनावस्थितिः संसृष्टिः ॥२९॥
सभां प्रीणयन्ती सखीं लज्जयन्ती ।
स्व-वाण्या कवीशावदत् तुङ्गविद्या ॥३०॥
कवीशा तुङ्गविद्या सभां श्री-कृष्णादिकाम्, सखीं राधाम् ॥३०॥
अस्या लसत्-तनु-वनीम् अनु भाति काम-
गम्भीर-वेदि-गज-राट् यद् इहास्य भातः ।
कुम्भौ मिषेण कुचयोर् हरि-पाणि-जन्म-
कामाङ्कुश-क्षत-शतौ मद-लेप-चित्रौ ॥३१॥
(रूपकानुमानापह्नुति-श्लेषाणाम् अन्योन्याङ्गाङ्गि-भावात् साङ्कर्यम्)
अस्याः सख्याः लसत्-तनु-वनीम् अनु तनु-वन्यां कामस्य गम्भीर-वेदी अङ्कुशादिना त्वङ्-मांसादि-च्छेदेऽपि व्यथा-ज्ञान-रहितोऽतिमत्तो गज-राट् भाति । अस्य गजस्य कुम्भौ कुचयोर् मिषेण भातः । कीदृशौ कुम्भौ ? हरेः पाणौ जन्म येषां ते हरि-पाणि-जन्मनो नखास् ते एव कामाङ्कुशास् तेषां क्षत-शतं ययोस् तौ । मद-लेपेन मदस्य मृगमदस्य लेपेन चित्रौ । त्वग्-भेदाच् छोणित-स्रावान् मांसस्य कृन्तनाद् अपि । सञ्ज्ञां न लभते यस् तु गजो गम्भीर-वेद्य् असौ ।
अलङ्कार-चतुर्णां मध्ये अत्र रूपकम् । कुचयोर् गज-कुम्भयोस् तादात्म्येन रूपकम् इदं समस्त-वस्तु-विषयम् उपमानोपमेय-बोधक-शब्दयोर् वर्तमानत्वात् । रूपक-लक्षणं—अस्य सर्गस्य पञ्चदश-श्लोके ज्ञेयम् ।
अनुमान-लक्षणम्, यथा—साध्य-साधन-सद्-भावेऽनुमानम् अनुमानवत् [अ।कौ। २९०] । अत्र नखाङ्कुश-जन्य-त्वङ्-मांस-भेदाद् अपि सञ्ज्ञा-राहित्येन गम्भीर-वेदि-गजस्यास्याः स्तनयोर् अनुमानम् ।
अपह्नुति-लक्षणम्, यथा—या तु प्रकृतस्यान्यथाकृतिः सापह्नुतिः [अ।कौ। २४९] । अत्र प्रकृतयोः स्तनयोर् गज-कुम्भत्वेनान्यथाकृतिर् अपह्नुतिः । हरिः कृष्णः सिंहश् चात्र श्लेषः । एषां परस्पराङ्गाङ्गि-भावात् साङ्कर्यम् । अत्र परस्पराङ्गाङ्गि-भावो यथा । कुचयोर् गज-कुम्भत्वेन रूपकं यदि भवति तदैवास्याः स्तनौ गज-स्थितेर् अनुमानं स्यात् । गज-स्थितेर् अनुमाने सत्य् एव स्तनयो रूपकं भवति । अपह्नुत्या स्तनयोर् गज-कुम्भत्वेन निश्चये सत्य् एव हरि-शब्दः श्लिष्टः स्यात् । एवं विवेचनीयम् ॥३१॥
विराजत्-सुदन्तोल्लसत्-सोम-राजी ।
ततोऽतिप्रमोदाज् जगादेन्दुलेखा ॥३२॥
विराजन्तः सुदन्ता एव उल्लसन्त्यौ सोमानां चन्द्राणां राजी पङ्क्ती यस्याः सा इन्दुलेखा जगाद ॥३२॥
अस्यां सुरतरङ्गिण्यां कृष्णोऽक्रीडन् मतङ्गजः ।
तत्-करास्फालनाक्लिष्टोल्लिखितौ स्तन-कोरकौ ॥३३॥
(श्लेषोत्प्रेक्षा-सम्मिश्रक-रूपकम्)
अस्यां सुरतरङ्गिण्यां कृष्ण-रूपो मतङ्गजोऽक्रीडत् । यतोऽस्याः स्तन-चक्रवाकौ कोरकाव् इति पाठे स्तन-रूप-पद्म-कोरकौ । तत् तस्य कृष्णस्य मतङ्गजस्य करयोर् आस्फालनात् प्रसारणात् आ सम्यक् क्लिष्टौ च तौ उल्लिखितौ च स्तः । सुरतरङ्गिणी-शब्दोऽत्र श्लिष्टः । राधा-पक्षे सुरतेषु रङ्गिण्याम् । कोरक-पक्षे गङ्गायाम्, श्लेषोत्प्रेक्षा-सम्मिश्रं रूपकम् । गङ्गायां मतङ्गजस्य मत्त-हस्तिनः क्रीडापेक्षया अस्यां कृष्ण-कृत-क्रीडाया उत्कर्षः । उत्प्रेक्षा-लक्षणं चतुर्विंशति-श्लोकेऽस्ति । कोकात् कुचेषु उल्लिखनस्य उत्कर्षात् श्लेषोत्प्रेक्षयोः सम्मिश्रं सहितम् । अस्या राधायाः स्तनयोः कोरकाभ्यां तादात्म्यम् अत्र रूपकं समस्त-वस्तु-विषयम्, उपमानोपमेययोर् मतङ्गज-कृष्णयोः स्तन-कोरकयोः शब्द-गतत्वात् रूपकम् । लक्षणम् अस्य सर्गस्य पञ्चदश-श्लोके वर्तते ॥३३॥
कृष्ण-कर्णौ सुधा-पूर्णौ रचयन्ती स्वया गिरा ।
वारितापि दृशा सख्या रङ्गदेवी जगाद सा ॥३४॥
सा रङ्गदेवी सलज्जया राधिकया दृशा निवारितापि स्वया गिरा कृष्ण-कर्णौ सुधा-रस-पूर्णौ रचयन्ती सती जगाद ॥३४॥
**तरुणिमा-मणि-पूर्णौ मुद्रितौ हेम-कुम्भौ
निभृतम् उरसि धात्रा गोपितौ बाढम् अस्याः ।
नखर-खनक-चौरैर् लुब्ध-कृष्णेरितैस् तैस्
तत इत इव खातौ तत्र कर्तुं सुरङ्गम् ॥३५॥ **
(रूपकोत्प्रेक्षाभ्याम् अतिशयोक्तिः)
धात्रा अस्य उरसि तरुणिमा-मणिभिर् बाढं पूर्णौ मुद्रितौ च कृत्वा यौ हेम-कुम्भौ निभृतं यथा स्यात् तथा गोपितौ बभूवतुः । तैः प्रसिद्धैः लुब्ध-कृष्णेन प्रेरितैर् नख-रूप-खनक-चौरैस् तत्र स्वर्ण-कुम्भयोः सुरङ्गं छिद्रं कर्तुम् इव इतस् ततः खातौ खनितौ विदारितौ भवतः । खनु अवधारणे । अत्र स्तनयोः स्वर्ण-कुम्भेन नखानां खनक-चौरेण नख-क्षतस्य खातेन तादात्म्य-रूपकम् अत्र हेम-कुम्भ-शब्देनार्थ-मर्यादया स्तनयोः कथनाद् एक-देश-विवर्ति-रूपं रूपकम् । लक्षणं पञ्चदश-श्लोकेऽस्ति । स्तनापेक्षया स्वर्ण-कुम्भस्य नखापेषया खनक-चौरस्य नख-क्षतापेक्षया खातस्य न्यूनत्वेन स्तनादेर् उत्कर्ष उत्प्रेक्षा । उत्प्रेक्षा-लक्षणं त्रयोविंशति-श्लोकेऽस्ति । स्वर्ण-कुम्भस्य स्तनयोस् तथा नख-चौर-कृत-खातेन नख-क्षतस्य निरूपणात् उपमानेन हेम-कुम्भेन निगीर्णस्य उपमेयस्य स्तनस्य निरूपणाद् अतिशयोक्तिः ॥३५॥
गिरिधर-तृप्त्यै शशि-वदनां ताम्
तद् अनु सुदेवी परिहसति स्म ॥३६॥
तद् अनु श्री-रङ्गदेवी-कथानन्तरं सुदेवी तां राधां परिहसति स्म ॥३६॥
वन-प्रिय-प्रियां वित्त सुवर्ण-दाडिमीम् इमाम् ।
पीतां शुक-नख-क्षुण्णं दधतीं सत्-फल-द्वयम् ॥३७॥
(रूपक-श्लेषाभ्याम् अतिशयोक्तिः)
हे सख्यः ! इमां वन-प्रियस्य श्री-कृष्णस्य कोकिलस्य च प्रियां सुवर्ण-दाडिमी-लता नखैः क्षतां खण्डितं सत्-फल-द्वयं दधतीम् । वन-प्रियः पर-भृतः कोकिलः पिक इत्य् अपि इत्य् अमरः । यूयं वित्त जानीतेति । अत्र रूपकम् । नायिकायाः सुवर्ण-दाडिमीत्वेन स्तनयोः फलत्वेन तादात्म्यं स्वर्ण-दाडिमी-शब्देन राधिकायाः सत्-फल-द्वय-शब्देनार्थ-मर्यादया स्तन-द्वयस्य च कथनाद् एक-देश-विवर्ति-रूप रूपकम् । श्लेषः, वनप्रियः कोकिलः कृष्णश् च । श्लेष-लक्षणं षोडश-श्लोकेऽस्ति । दाडिम-फल-रूपोपमानेन उपमेयस्य स्तनस्य निगीर्णं निरूपणम् अत्रातिशयोक्तिः । अतिशयोक्ति-लक्षणम् ऊनत्रिंश-श्लोकेऽस्ति ॥३७॥
स्वावसराप्त्या ताम् अथ हृष्टा ।
चन्द्रमुखी सा वर्णयति स्म ॥३८॥
अष्ट-सखीनां वर्णन-समाप्तौ स्वस्य कथनेऽवसर-प्राप्ता सा चन्द्र-मुखी तां राधाम् ॥३८॥
**लोकोत्तरा हाटक-दाडिमीयं फले
दधानापि पृथग् यद् आभ्याम् ।
सुपक्व-बीजान्य् अलि-विक्षतेन
पिधाय धत्ते कुसुम-द्वयेन ॥३९॥ **
(व्यतिरेकातिशयोक्तिः)
हाटक-दाडिमीयं लोकोत्तरा । यद् यस्मात् दाडिम-फले दधानापि आभ्यां फलाभ्यां पृथग् बीजानि दन्तानि अलि-विक्षतेन कुसुम-द्वयेन ओष्ठाधरेण पिधाय आच्छाद्य धत्ते । व्यतिरेके विलक्षणम् उपमानात् [अ।कौ। २६८] । अस्यार्थः—विलक्षण इति गुणेन दोषेण च । अत्र टीका—वैलक्षण्यम् आधिक्यम् । अत्रान्य-दाडिमी-लता उपमानाद् इयं राधा-दाडिमी लोकोत्तरा । आभ्यां फलाभ्यां स्तनाभ्यां पृथक् कुसुम-द्वयाच्छन्न-बीजानाम् अधरोष्ठाच्छन्न-दन्तानां धारणात् गुणेन विलक्षणम् अधिकं व्यतिरेकः । उपमानेन कुसुम-द्वयेन निगीर्णयोर् उपमेययोर् ओष्ठाधरयोः प्दयोर् अप्रयोगात् । एवं दाडिमी-पदोपमानोपमेयः राधा-पदस्याप्रयोगात् । एवं बीज-पदेन दन्तानाम् उपमेयानाम् अदानात् । एवम् उपमान-कुसुम-पदादीनाम् उपमेयानाम् ओष्ठाधराराधा-दन्तानाम् अदानम् अतिशयोक्तिः । अस्य लक्षणम् ऊनत्रिंश-श्लोकस्य टीकायाम् अस्ति ॥३९॥
नारीणां मूर्धण्या
श्री-ज्येष्ठा सावादीत् ॥४०॥
श्री-युक्ता ज्येष्ठा नाम्नी सखी सा अवादीत् ॥४०॥
**अस्या दृग्-अञ्जनालेपात् पक्व-जम्बू-फलायते ।
कृष्णाधरेऽस्मिन् दन्तोऽस्या बुभुक्षित-शुकायते ॥४१॥ **
(लुप्तोपमा-काव्यलिङ्गे)
कृष्णस्याधरः अस्या दृग्-अञ्जनालेपात् पक्व-जम्बू-फलम् इवाचरतीति पक्व-जम्बु-फलायते। अस्या दन्तः अस्मिन् कृष्णाधरे बुभुक्षित-शुक इवाचरति । अत्र जम्बु-फलम् इव शुक इवाचरतीत्य् अत्र इव शब्दस्य लोपात् लुप्तोपमा । सा उपमा यथा—यथा-कथञ्चित् साधर्म्यम् उपमा [अ।कौ। २१६], सा भवेद् द्विधा पूर्णा लुप्तेति [अ।कौ। २१७], पूर्णा तु धर्मेनैव यथादिभिः उपमानोपमेयाभ्यां [अ।कौ। २१८], इयम् एवेव-वादिभिः युक्ता श्रौती [अ।कौ। २१९], समाद्यैस् तु सा स्याद् आर्थी च [अ।कौ। २२०], तद्-धिते वाक्ये समासे चेत्य् एते षोढा [अ।कौ। २२१], लुप्ता तु लोपतः [अ।कौ। २२२]।
काव्यलिङ्गम्, यथा—पद-वाक्यार्थता हेतोः काव्यलिङ्गं प्रकीर्त्यते [अ।कौ। २८२] । अस्यार्थः—पदार्थ-हेतु-सकाशात् । तथा वाक्यार्थ-हेतु-सकाशात् । यत्र कार्य-सिद्धिस् तत्र काव्य-लिङ्गम् उच्यते । अत्र पक्व-जम्बु-फलम् इवाचरति, तथा शुकम् इवाचरति, वक्यार्थ-हेतुक-कृष्णाधरस्य जम्बु-फल-रूप-कार्य-सिद्धिः । तथास्याः राधाया दन्तस्य बुभुक्षित-शुक-रूप-कार्य-सिद्ध्या काव्यलिङ्गम् ॥४१॥
भ्रुवेरिता हृदीशेन वारितापि दृशेशया ।
राधां तां काञ्चनलता स्पष्ट-वर्णम् अवर्णयत् ॥४२॥
ईशया राधया दृशा वारितापि हृदीशेन कृष्णेन भ्रुवेरिता प्रेरिता काञ्चनलता तां राधां स्पष्ट-वर्णं राधा-नामा गृहीत्वा ॥४२॥
**नाभिर् लोमावलिर् उरसिज-द्वन्द्वम् आस्यं विभाति
श्री-राधायायाम् इति विधि-कृता पश्यतां भ्रान्तिर् एषा ।
सत्यं सान्द्रामृत-मय-सरस्य् एक-नालोत्थम् अब्ज-
द्वन्द्वं शश्वत् कर-परिचयैर् मीलयन् दीव्यतीन्दुः ॥४३॥ **
(अपह्नुतिः)
राधायायां नाभिस् तद्-उपरि रोमावलिः स्तन-द्वन्द्वं तद् आस्यं विभाति । इत्य् एतन् नाभ्य्-आदि पश्यतां जनानां विधि-कृता भ्रान्तिर् एषा सत्यं तु सान्द्रे निविडे आमृत-सरोवरे एक-मृणाले उत्पन्नं पद-द्वयम् इन्दुश् चन्द्रः शश्वत् पुनः पुनः कर-परिचयैः किरण-संयोगैर् मीलयन् मुद्रयन् दीव्यति ।
अपह्नुति-लक्षणं—या तु प्रकृतस्यान्यथाकृतिः सापह्नुतिः [अ।कौ। २४९], अन्यथाकृतिः प्रकृतं निषिध्यान्यस्य स्थापनम् । प्रकृतं नाभि-रोमावली-स्तन-द्वयं मुखं च निषिध्यान्यथाकृतिर् अमृत-सरो-मृणाल-पद्म-चन्द्राणां स्थापनम् अत्रापह्नुतिः ॥४३॥
सा मृगी-लोचना ।
माधवी व्याहरत् ॥४४॥
माधवी नाम्नी गोप्य् आह ॥४४॥
**नाभिः कुण्डं त्रिवलि-विततिर् मेखला चावलग्नं
वेदिर् लोमावलिर् अपि जुहूः श्री-कुचौ भद्र-कुम्भौ ।
कामो यज्वा सुजघन-गलौ पीठ-शङ्खौ बकारेश्
चित्ताकृष्टिः फलम् इह बभौ यज्ञ-शालास्य राधा ॥४५॥ **
(रूपकम्)
अस्य श्री-कृष्णस्य राधा यज्ञ-शाला । साम्यम् आह—नाभिर् होम-कुण्डम् । तद्-उपरि त्रिवलि-विस्तारो मेखला । अवलग्नं मध्य-देशो वेदिः । रोमावलिर् जुहूः । कुचौ मङ्गल-कुम्भौ । कामो यज्वा होता । सुजघनं पीठः । कण्ठः शङ्खः । श्री-कृष्णस्य चित्ताकर्षणं फलम् । अत्र नाभिस् त्रिवल्य्-आदेः कुण्डादिना तादात्म्यं रूपकम् । समस्त-वस्तु-विषयम् उपमानोपमेय-बोधक-शब्दानां वर्तमानत्वात् । प्रासङ्गि-रूपकं च प्रकृष्टा-सजातीय-बहु-सङ्गानां नाभि-त्रिवलि-मेखलादीनां विद्यमानत्वात् ॥४५॥
भानोः कन्यां धन्याम् एताम् ।
सा पश्यन्ती वासन्त्य् आख्यत् ॥४६॥
वासन्ती-नाम्नी सा भानोः वृषभानोः कन्याम् एतां धन्यां श्री-राधां पश्यन्ती आख्यत् आह ॥४६॥
**भ्रू-रोमावल्यौ धनुर्-असि-लते श्री-कटाक्षाः पृषत्का
बाहू पाशौ गल इह दरः श्री-नितम्बो रथाङ्गम् ।
दीव्यद्-गण्डौ कनक-फलके श्री-नखाश् चाङ्कुशाः
श्री-राधा भाति स्मर-नरपतेः शस्त्र-शाला विशाला ॥४७॥ **
(रूपकम्)
कामस्य शस्त्र-गृहं राधा भाति । शस्त्राण्य् आह—भ्रूर् धनुः । रोमावलिः असि-लता खड्गः यथा-सङ्ख्यान्वयः । कटाक्षाः पृषत्का बाणाः । बाहू पाशौ नाग-पाशौ । गलो दरः शङ्खः । नितम्बो रथाङ्गं चक्रम् । गण्डौ सुवर्णस्य फलके ढाल इत्य् आख्ये भ्रू-रोमावल्य्-आदीनां धनुर्-आदिभिस् तादात्म्यं समस्त-वस्तु-विषयं प्रकृष्ट-बहु-सजातीयानां विद्यमानत्वात् प्रासङ्गि । रूपकं लक्षणं पञ्चदश-श्लोकेऽस्ति ॥४७॥
**तद्-वाक्-तृप्ता । वृन्दावादीत् ॥४८॥
राधायाः सुतनुः सुधा-सुरधुनी बाहू विशे सत्-स्तनौ
कोकौ श्री-मुख-नाभि-पाणि-चरणाः पद्मानि वक्रालकाः ।
रोलम्बा मधुर-स्मितं च कुमुदं नेत्रे तथेन्दीवरे
रोमाली जलनीलिकेह लसति श्री-कृष्ण-हृत्-कुन्जरः ॥४९॥ **
(रूपकम्)
सुतनुः शोभन-शरीरम् अमृत-मय-गङ्गा । बाहू विशे मृणाले । सत्-स्तनौ चक्रवाकौ । मुखादीनि कमलानि । वक्रालकाः रोलम्बा भ्रमराः । लोम-श्रेणी जल-नीली । जलनीली तु शैवालम् इत्य् अमरः । इह तनौ कृष्णस्य हृदय-रूप-कुन्जरो लसति । अमृत-मय-गङ्गादिभिर् उपमानै राधा-शरीराद्य्-उपमेयेषु तादात्म्यं रूपकं समस्त-वस्तु-विषयं पूर्ववत् प्रासङ्गिकम् ॥४९॥
पुनः कृष्णेङ्गितज्ञास् ताः श्लोकैर् एकैकशः पृथक् ।
वयस्यां वर्णयामासुः प्रेम्ना तां ललितादयः ॥५०॥
ललितादय एकैकशः श्लोकैस् तां राधाम् ॥५०॥
शङ्खार्धेन्दु-यवाब्ज-कुञ्जर-रथैः सीराङ्कुशेषु-ध्वजैश्
चाप-स्वस्तिक-मत्स्य-तोमर-मुखैः सल्-लक्षणैर् अङ्कितम् ।
लाक्षा-वर्मित-माहवोपकरणैर् एभिर् विजित्याखिलं
श्री-राधा-चरण-द्वयं सुकटकं साम्राज्य-लक्ष्म्या बभौ ॥५१॥
(स्वभावोक्त्य्-उत्प्रेक्षा-रूपक-श्लेषैः साङ्कर्यम्)
सुकटकं शोभनौ पाद-कटकौ नूपुरौ यत्र तत् । पक्षे प्रशस्तं सेना-वसति-स्थलं श्री-राधा-चरण-द्वयं शङ्खादिभिर् अङ्कितम् । लाक्षया यावकेन वर्मितं कवचेनादृतम्, एभिः पूर्वोक्तैः शङ्खादिभिर् आहवो युद्धं तस्योपकरणैः अखिलं विश्वं विजित्य साम्राज्य-लक्ष्म्या बभौ । कुञ्जरो हस्ती । अङ्कुशः । इषुर् बाणः । चापो धनुः । स्वस्तिकः सीरस्य डमर्य्-आकारः । अन्ये स्फुटार्थाः ।
चतुर्णां मध्ये स्वभावोक्तिः स्वभावस्य वर्णनं [अ।कौ। २७६] यद् यत्र शङ्खादयः । चरणस्य सल्-लक्षण-चिह्नानि स्वभाव-सिद्धानि । उत्प्रेक्षा अन्य-युद्धोपकरण-जन्य-साम्राज्य-लक्ष्म्यापेक्षया राधाया उत्कर्ष-रूपा सम्राज्य-लक्ष्मीः । उत्प्रेक्षा-लक्षणं त्रयोविंश-श्लोकेऽस्ति । रूपकं शङ्खादीनां चरण-चिह्न-शङ्खादिभिस् तादात्म्यम् । रूपकम् अत्र प्रासङ्गि प्रकृष्ट-सजातीय-बहु-सङ्गरत्वात् । पञ्चदश-श्लोके रूप-लक्षणम् अस्ति । श्लेषः, शङ्खार्ध-चन्द्रादयः प्रसिद्धा राधायाश् चरण-चिह्न-शङ्खादयश् च । कटक-शब्देन पाद-कटकः । सेना चेत्य् अर्थ-द्वय-कथनात् । कटकः पाद-कटकः, सेना च एषां साङ्कर्यं व्याप्य-व्यापक-भाव-रूपम् । अत्र सङ्कर्यं शङ्खादि-चिह्नानां च स्वभाव-सिद्धत्वे सत्य् एव शङ्खादीनाम् उत्कर्षः सिध्यति, अतः स्वभावोक्ति-व्यापकः । उत्प्रेक्षा एव शङ्खादीनां चरण-चिह्न-शङ्खादिभिस् तादात्म्ये सति शङ्ख-शब्दस्यार्थ-द्वय-कथन-रूपः । श्लेष-लक्षणं भवतीति व्यापक-व्याप्य-भावो बोध्यः । साङ्कर्य-लक्षणं पञ्चदश-श्लोकेऽस्ति ॥५१॥
**यत् कान्त्या लवनाच् छ्रियः किशलये या पल्लवाख्यां न्यधात्
पद्माख्यां नलिने विधाय मलिनी-भावं निशा कोकवत् ।
शोकात् कोकनदाभिधां विलपनै रक्तोत्पले चेत्य् असौ
सा राधा भुवि तत्-पद-द्वयम् इदं केनोपमेयं भवेत् ॥५२॥ **
(व्यतिरेकः)
या राधा यद् यस्य स्वस्याः पद-द्वयस्य कान्त्या किशलयस्य रक्त-वर्ण-कोमल-नवीन-पत्रस्य याः श्रियः शोभास् तासां लवनात् छेदनात् किसलये पल्लवाख्यां पदा हेतुना लवं शोभानां लवश् छेदो यस्य सः । पल्लव इत्य् आख्यां पल्लव इति नाम न्यधात् अस्थापयन् । लूञ् छेदने धातुः । भावेऽप्य-प्रत्ययः । यत् कान्त्या नलिने मलिनी-भविष्यत् विधाय पद्मम् इत्य् आख्यं पदा हेतुना मलिनी-भावो यस्य तत् पद्मम् इत्य् आक्यं न्यधात् । केवल-म-शब्देन मलिनी-भाव एक-देश-ग्रहणम् । यत्-कान्त्या नलिने मलिनी-भविष्यत् विधाय पद्मम् इत्य् आख्यं पदा हेतुना मलिनीभावो यस्य तत् पद्मम् इत्य् आख्यं न्यधात् । केवल-म-शब्देन मलिनी-भाव एक-देश-ग्रहणम् ।यत् कान्त्या रक्तोत्पले च निशायां कोकवत् चक्रवाकवत् शोकात् कोकस्य विलपनम् इव यन् मुद्रितत्व-रूप-विलपनं तद् एव नदो नादस् तस्मात् कोकनदभिधां कोकनदम् इति नाम न्यधात् । रक्तोत्पलं कोकनदम् इति । कोकश् चक्रश् चक्रवाको रथाङ्गाह्वय-नामक इति चामरः । अतः सा राधा तत् तस्या पद-द्वयं च केन वस्तुना उपमेयं भवेत् न केनापीत्य् अर्थः । व्यतिरेको विलक्षण उपमानात् गुणेन दोषेण च [अ।कौ। २६८] । अत्र पल्लव-पद्मोत्पलात् उपमेयं राधा-पद-द्वन्द्वं गुणेन विलक्षणम् ॥५२॥
अपूर्वा श्री-राधा-चरण-कमल-नख-चन्द्रावलिर्
इयं सदा पूर्णा भान्ती हरि-हृदि निरङ्कारुण-रुचिः ।
समुत्फुल्लं तस्येन्द्रिय-कुमुद-वृन्दं विदधती
हठाच् चन्द्रावल्या विरचयति या विस्मृतम् अपि ॥५३॥
(रूपक-विरोध-व्यतिरेक-श्लेषाह्)
इयं श्री-राधा-चरण-नख-चन्द्रावलिर् अपूर्वा । अपूर्वताम् आह—निरङ्का कलङ्क-रहिता अरुण-
वर्णा रुचिः कान्तिर् यस्याः सा । या हरेः श्री-कृष्णस्य हृदि सदा पूर्णा भान्ती तस्य कृष्णस्य इन्द्रिय-रूप-कुमुद-वृन्दं समुत्फुल्लं विदधती सती । तस्य चन्द्रावल्या विस्मृतम् अपि हठाद् विरचयति । अत्र रूपकं राधा-नख-चन्द्रयोस् तादात्म्यम् अत्र समस्त-वस्तु-विषयम् ।
विरोध-द्रव्यस्य द्रव्येण विरोधाभासो बोध्यः । स विरोधाभासो विरोध इति वस्तुनो न विरोधः । विरोध इव भासते इत्य् अर्थः [अ।कौ। २७५] । जाति-गुण-क्रिया-द्रव्याणां जात्यादिभिर् विरोधः । जातिर् जात्यादिभिर् गुणस् त्रिभिर् द्वाभ्यां क्रूपा द्रव्यं द्रव्येणैवेति ते दश । चन्द्रावलिर् इत्य् अत्र चन्द्रस् उ सदा पूर्णो न निष्कलङ्कोऽरुण-रुचिश् च नेति विरोधः । नख-चन्द्रावल्या चन्द्रस्य च वर्ण-गुणाभिन्न-द्रव्यतया तं हठात् चन्द्रावलिं विस्मारयतीत्य् अर्थः । विरोधाभावात् नख-चन्द्र-समूह-निष्ठ-जात्या सह प्रसिद्ध-चन्द्र-रूप-द्रव्यस्य जात्या सह द्रव्यस्य विरोधाभासः । निरङ्कारुण-रुचिर् इत्य् अत्र कलङ्कस्याभावात् । अरुणस्य विद्यमानत्वात् विरोधाभासो गुणेन गुणस्येति । कुमुदं समुत्फुल्लम् इत्य् अत्र कुमुद-पुष्पस्य फुल्लतायां हरेर् इन्द्रिय-कुमुद-फुल्लतायां क्रियाया भिन्नत्वेन विरोधाभासः क्रियया सह क्रियायाः । चन्द्रावल्या विस्मृतिर् इत्य् अत्र चन्द्रावलि-नामा गोपी चन्द्र-श्रेणी च तस्या भिन्नत्वात् द्रव्यस्य द्रव्येण विरोधाभासो बोध्यः । नख-चन्द्रस्य क्षयाभावात् आपूर्णा उपमानात् प्रसिद्धात् चन्द्राद् उपमेय-नख-चन्द्र-विलक्षणः, गुणेनोत्कृष्टः । चन्द्रावलि-शब्दः चन्द्र-श्रेणी चन्द्रावली गोपीति श्लिष्टः ॥५३॥
तारुण्ये नव-राज्ञि नीति-शिथिले राधा-वपुः-पत्तने
वक्षोज-द्वय-दस्युना स-जघनेनाक्रम्य मध्यं बलात् ।
पौष्कल्यं निखिलं हृतं त्रिवलिभिः फुत्कार-भीत्या गुणैर्
बद्ध्वा स्थापितम् इत्य् अवेत्य भयतो गुल्फौ निलीय स्थितौ ॥५४॥
(रूपकोत्प्रेक्षयोः संसृष्टिः)
श्री-राधायास् तारुण्य-जाङ्घ-शोभां वर्णयति तारुण्ये नव-राज्ञीति । शिथिले नीतेर् न्यायात् शिथिले शैथिल्य-युक्ते सति राधाया वपु-रूप-पत्तने देशे स्तन-द्वय-दस्युना जघन-दस्युना च तयोर् मध्य-देशं बलाद् आक्रम्य पौष्कल्यं पुष्टत्वं निखिलं हृतम् । फुत्कार-भीत्या त्रिवलिभिः गुणैर् बद्ध्वा स्थापितम् इत्य् ज्ञात्वा गुल्फौ निलीय स्थितौ । तारुण्यस्य रज्ञा स्तन-जघनयोर् दस्युना त्रिवल्ल्या रज्ज्वा तादात्म्यं रूपकं समस्त-वस्तु-विषयं सजातीय-बहूनाम् अलङ्काराणां सङ्गात् प्रासङ्गि । प्रसिद्ध-राज्ञो गुणापेक्षया राधायास् तारुण्य-वक्षोज-नितम्ब-त्रिवलीनाम् उत्कर्ष उत्प्रेक्षा । संसृष्टि-लक्षणं यथा शब्दार्थोभय-भुवम् अलङ्काराणाम् अखण्डावस्थितिः संसृष्टिः । अत्रालङ्कारयो रूपकोत्प्रेक्षयोर् अखण्डावस्थितिः संसृष्टिः ॥५४॥
**स्व-स्थित्यैव स्तम्भित-स्वर्ण-रम्भा
स्तम्भारम्भे दीव्यतोऽस्या सुजङ्घे ।
धात्रानङ्गोष्णार्त-कृष्णेभ-शीत-
च्छाया-शाला-स्तम्भतां लम्भिते ये ॥५५॥ **
(रूपकोत्प्रेक्षे)
अस्या जङ्घे दीव्यतः । कीदृश्यौ ? स्व-स्थित्या स्तम्भितः स्वर्ण-रम्भाणां स्तम्भ-भावस्यारम्भो याभ्यां ते । धात्रा अनङ्ग एव उष्णः ग्रीष्म-कालस् तेआर्तो यः कृष्णेभः कृष्ण-रूप-गजः, तस्य शीता छाया यत्र तस्या शालाया गृह-रूपाया राधाया स्तम्भतां ये जङ्घे लम्भिते प्रापिते । अत्र रूपकम् । जङ्घयोः स्तम्भत्वेन कृष्णस्येभत्वेन तादात्म्यमत्र समस्त-वस्तु-विषयम् उपमानोपमेययोः शब्दगत्वात् । सजातीय-रूपकान्तराभावेन निःसङ्गं स्वर्ण-कदली-वृक्षात् जङ्घयोर् उत्कर्ष उत्प्रेक्षा ॥५५॥
**अस्या मिषात् प्रसृतयोर् मदनाय हैमा-
लान-द्वयं विधिर् अदाद् अनुमार्थितः किम् ।
यत् कृष्ण-चित्त-मद-मत्त-गजं स चास्मिन्
तन् माधुरी सुदृढ-शृङ्खलया बबन्ध ॥५६॥ **
(रूपकोत्प्रेक्षापह्नुत्य्-अनुमानानि)
अमुना मदनेन प्रार्थितो विधिर् अस्या राधायाः प्रसृतयोर् जङ्घयोर् मिषात् मदनाय हैमालान-द्वयं किम् अदात् ? आलानं करि-बन्धनम् इत्य् अमरः । यद् यस्मात् स मदनः तत् तस्या जङ्घायाः माधुरी सैव सुदृढ-शृङ्खला तया अस्मिन् आलान-द्वये मद-मत्तं श्री-कृष्णस्य चित्त-हस्तिनं बबन्ध ।
अत्र रूपकम् । जङ्घाया आलानेन कृष्ण-चित्तस्य गजेन च तादात्म्यम् अत्र समस्त-वस्तु-विषयम् उपमानोपमेययोः शब्द-गतत्वात् सजातीय-रूपकान्तरस्याभावात् प्रासङ्गि । उत्प्रेक्षात्र आलानात् जङ्घाया उत्कर्षः । अपह्नुति-लक्षणं—या तु प्रकृतस्यान्यथाकृतिः सापह्नुतिः [अ।कौ। २४९] । अत्र जङ्घाया आलानेन अन्यथाकृतिर् अनुमानं श्री-कृष्ण-चित्त-हस्ति-बन्धनं हेतुं कृत्वा जङ्घायाम् आलानत्वं साध्यम् ॥५६॥
जानु-द्वयं न तद् इदं वृषभानु-जायाः
कामस्य ते कनक-सम्पुटिके सुगुप्ते ।
यत् कृष्ण-हृन्-नयन-रत्नम् अनेक-यत्नैः
सम्मुष्य सोऽयम् अनयोर् मुमुदे निधाय ॥५७॥
(अपह्नुति-रूपकोत्प्रेक्षानुमानानि)
राधायास् तद् इदं जानु-द्वयं न किन्तु ते कामस्य सुगुप्ते कनक-सम्पुटिके । सोऽयं मदनः अनेक-यत्नैः कृष्ण-हृन्-नयन-रत्नं सम्मुष्य सञ्चौर्य अनयोः सम्पुटिकयोर् मध्ये निधाय मुमुदे । अत्र प्रकृतस्य जानु-द्वयस्य सम्पुटत्वेन अन्यथाकृतिर् अपह्नुतिः । जानु-द्वयस्य सम्पुटेन तादात्म्यं रूपकं पूर्व-श्लोक-रीत्या समस्त-वस्तु-विषयं प्रासङ्गि च । कृष्ण-हृन्-नयनादि-रत्नाधर-हेतुनान्य-सम्पुटात् जानु-सम्पुटस्य उत्कर्षाद् उत्प्रेक्षा । श्री-कृष्णस्य हृन्-नयनयोर् जानु-द्वये अवस्थितं हेतुं कृत्वा जानु-द्वये सम्पुटं साध्यम् अत्रानुमानम् ॥५७॥
**त्वचि कठिन-करेभ्यः पद्मिनां भीः करेः
स्याज् जलमय-कदलीनां ह्रीश् च काण्डाद् असारात् ।
हरि-करभ-विलासायास-लभ्ये तद् अस्या
निरुपम-मधुरे ते सक्थिनी केन तुल्ये ॥५८॥ **
(व्यतिरेकः)
ये हरिणा श्री-कृष्णेन करभयोर् विलास-रूपायासेन प्रयत्नेन मुष्टी-कृत-कर-द्वयाधो-देशेन मृदु-सेवया लभ्ये । मणि-बन्धाद् आ-कनिष्ठं करस्य करभो बहिः इत्य् अमरः । ते निरुपम-मधुरे अस्या राधायाः सक्थिनी जानूपरि ऊरु-द्वयं केन तुल्ये स्याताम् ?न केनापीत्य् अर्थः । हस्ति-शुण्डेन सह तुलनां देहि । तत्राह—पद्मिनां हस्तिनां त्वचि कठिनेभ्यः करेभ्यः शुण्डेभ्यः तुलना-दाने करेर् भीः स्यात् । कदली-वृक्षेण तुलना दीयताम् इति चेत् । तदा जलमय-कदलीनाम् असारात् काण्डात् कदली-वृक्षाकाराद् धेतोः कदल्या तुल्य-कथने करेर् भीर् भयं ह्रीर् लज्जा च स्यात् । व्यतिरेकोऽत्र । करि-शुण्ड-कदली-रूपोपमानत्वात् उरु-द्वयस्य वैलक्षण्यात् गुणेनाधिक्यात् व्यतिरेकः ॥५८॥
मनोज्ञं श्री-गोवर्धन-कटकम् अञ्चन् न लभते
मुदं यः कालिन्द्याः पुलिन-गुण-लीला-स्मरण-जाम् ।
न तत्रत्यां चास्याः पुलिनम् अनुविन्दन्न् अघरिपुर्
नितम्बं सोऽस्यान्तां समलभत पश्यन्न् उभयजाम् ॥५९॥
(सन्देह-रूपक-लुप्तोपमाः)
यो मधुरिपुः मनोज्ञं श्री-गोवर्धनस्य कटकं नितम्बम् अञ्चन् कालिन्द्याः पुलिन-गुण-लीला-स्मरण-जां मुदं न लभते । अस्याः कालिन्द्याः पुलिनम् अञ्चन् सन् तत्रत्यां गोवर्धन-कटक-भवां मुदं च न लभते । स श्री-कृष्णः अस्या राधाया नितम्बं पश्यन् उभयजां गोवर्धन-कटक-जां कालिन्दी-पुलिन-जां च मुदं समलभत । अत्र व्यतिरेकः । उभयोर् गोवर्धन-दर्शन-ज-पुलिन-दर्शन-जयोर् मुदोर् नितम्ब-दर्शनज-मुदोर् वैलक्षण्यं गुणेनाधिक्यम् ॥५९॥
राधा-श्रोणिर् इयं समान-पुलिनैः सत्या कवेर् गीर् इयं
यद् वेणी यमुना तद् एव पुलिनं काञ्ची मराली-ततिः ।
नो चेत् तत्र हरेर् मनो-नट-वरः श्री-रास-लास्यं कथं
स्वाभिर् वृत्ति-सखी-नटीभिर् अनिशं कुर्वन् न विश्राम्यति ॥६०॥
(रूपकानुमान-व्यतिरेकाः)
श्री-राधाया इयं श्रोणिः पुलिनैः समा इति कवेर् इयं गीः सत्या न अपि तु सत्यैव । श्रोणिः पुलिनैः समेति व्याख्याने रूपकालङ्कारः । पुलिनेन तादात्म्यं न सम्भवेत् यद् यस्मात् श्रोणि-मध्यालम्बिनी वेण्य् एव यमुना श्रोणी-तट-विराजमाना । काञ्ची हंसी-श्रेणी । तत् तस्मात् श्रोणिः पुलिनम् एव चेद् यदि न हरेर् मन एव नटवरः स्वाभिऋ मनो-वृत्ति-रूप-सखी-नटीभिः सह तत्र श्रोण्यां श्री-रास-लास्यं रास-क्रीडायां नृत्य-रस-समूहो रासस् तद्-युक्तं लास्यं वा अनिशं कुर्वन् कथं न विश्राम्यति ? वेण्य्-आदेर् यमुनादिभिस् तादात्म्यात् रूपकम् अत्र समस्त-वस्तु-विषयम् उपमानोपमेययोः शब्द-गतत्वात् । श्री-कृष्ण-मनो-रूप-नटस्य नृत्यं हेतुं कृत्वा पुलिनं साध्यम् अत्रानुमानं पुलिनान् नितम्बस्य वैलक्षण्यं व्यतिरेकः ॥६०॥
वीर्योन्मत्तैर् मदकरि-तनु-स्थूलता हस्त-कुम्भैर्
मैत्रीं कृत्वा शठ-गुरु-नितम्बोरु-वक्षोज-चौरैः ।
पौष्कल्यं मे हृतम् इति भय-क्रोध-शोकादि वास्या
दुःस्थं मध्यं त्वरितम् अकरोत् सिंह-मध्येन सख्यम् ॥६१॥
(रुपकोत्प्रेक्षे)
वीर्योन्मत्तैर् मद-करिणां मत्त-हस्तिनां तनोः स्थूलता शुण्ड-कुम्भ-स्थलैः सह क्रमेण मैत्रीं कृत्वा शठ-गुरवश् ते नितम्बोरु-वक्षोजाश् च तैर् नितम्बोरु-वक्षोजैः चौरैर् मे पौष्कल्यं हृतम् इति हेतोर् भय-क्रोध-शोकादि । अस्या मध्यं मध्य-देशो दुःस्थं दुःखितं सत् हस्ति-हन्ता यः सिंहस् तस्य मध्येन सह त्वरितं सख्यम् अकरोत् । कैशोरावस्थायां मध्यं क्षीणं नितम्बोरु-स्तनाश् च स्थूला भवन्ति । तनादेर् हस्ति-कुम्भादिना मध्यस्य सिंह-मध्येन तादात्म्यं रूपकम् अत्र समस्त-वस्तु-विषयम् । उत्प्रेक्षात्र कुम्भद्य्-अपेक्षया इव इति शब्द-द्योत्यः स्तनादेर् उत्कर्षः ॥६१॥
**अस्या नितम्ब-स्तनयोर् दरिद्रयोः
सन्धिं विधायाहृत-मध्य-सम्पदोः ।
पश्चाद् विधिर् वीक्ष्य कलिं प्रलुब्धयोश्
चकार सीमां त्रिवलि-च्छलेन किम् ॥६२॥ **
(उत्प्रेक्षापह्नुती)
अस्याः श्री-राधाया नितम्ब-स्तनयोर् आदौ दरिद्रयोस् ततः सन्धिं विधाय परस्परं सौहृदं कृत्वा आहृता मध्य-देशस्य सम्पदोः याभ्यां तयोर् लुब्धयोः कलिं कलहं वीक्ष्य पश्चात् सम्पद्-आहरणानन्तरं पुनस् तयोः कलि-निवृत्त्य्-अर्थं त्रिवलि-च्छलेन किं सीमां चकार । अन्य-दरिद्र-कलि-सीमापेक्षया किं-शब्द-द्योत्योत्कर्षोऽत्र उत्प्रेक्षा । नितम्ब-स्तन-त्रिवल्य्-आदेर् लब्ध-सीमादिना अन्यथाकृतिर् अत्रापह्नुतिः ॥६२॥
**बाल्य-मित्र-विरहाद् अवलग्नं
क्षीणताम् उपगतं प्रसमीक्ष्य ।
भङ्ग-भीति-विधुरो विधिर् अस्याः
किं त्रिधावलि-गुणैः प्रबबन्ध ॥६३॥ **
(उत्प्रेक्षा-रूपके)
बाल्यम् एव मित्रं तस्य विरहाद् अवलग्नं मध्यं क्षीणतां प्राप्तम् इति वीक्ष्य विधिर् भङ्ग-भीत्या कातरः सन् त्रिवलि-रज्ज्वा किं प्रबबन्ध । किं पद-द्योत्या ? अन्यापेक्षयास्या मह्य-देश-त्रिवल्यादेर् उत्कर्षोऽत्रोत्प्रेक्षा । त्रिवल्यादे रज्ज्वादि-रूपेण तादात्म्यम् अत्र रूपकम् ॥६३॥
**सुधा-सरस्यां कनकाब्जिनी-दलं
भृङ्गालि-फुल्लाब्ज-विराजद्-अन्तरम् ।
किम् एतद् आभाति न किन्तु राधिका
तुन्दं सरोमावलि-नाभि-भूषितम् ॥६४॥ **
(निश्चयानुसन्देहः)
सुधा-सरोवरए कनक-पद्म-लता-दलम् । तत् कीदृशम् ? भ्रमर-श्रेण्या सह प्रफुल्ल-कमलेन विरजत् अन्तरं मध्यं यस्य तद् एतत् आभातीति सन्देहः, किन्तु नैतत् राधिकायास् तुन्दम् उदर-रोमावलि-सहित-नाभिना भूषितम् आभातीति निश्चयः । निश्चयोऽनु पश्चात् यस्य तादृशः सन्देहः ॥६४॥
**चलदल-दल-जाले कम्पदं हैम-दीव्यत्
कमल-नव-दलालौ जाड्य-दं निर्जयेन ।
तिलकितम् इव रोम-श्रेणि कस्तूरिकाभिस्
तद् इदम् उदरम् अस्या भाति साम्राज्य-लक्ष्म्या ॥६५॥ **
(रूपक-व्यतिरेकोत्प्रेक्षाः)
तद् अस्या उदरं साम्राज्य-लक्ष्म्या भाति । साम्राज्य-लक्ष्मीम् आह । उदरं कीदृशम् ? निर्जयेन चलदलः पिप्पलस् तस्य दल-समूहे कम्पदम् । बोधि-द्रुमश् चलदलः पिप्पलः कुञ्जराशनः इत्य् अमरः । स्वर्णवत् दीव्यत्-कमल-नव-पत्र-श्रेण्यां जाड्यदं च । अतः सकाशात् रोमावलि-श्रेणी-रूपकस् तूरिकाभिस् तिलक्तम् इवाभाति । साम्राज्य-लक्ष्मी-युतस्यैव कस्तूरी-तिलकं भवति । उदरस्य अश्वत्थ-पत्रेण स्वर्ण-पद्मस्य नव-पत्र-श्रेण्या च तादात्म्यम् । रोमालेस् तिलकेन तादात्म्यं रूपकम् । अश्वत्थ-दल-स्वर्ण-पद्म-दलोपमानाद् उदरोपमेये वैलक्षण्याद् अत व्यतिरेकः । अश्वत्थ-दलाद्य्-अपेक्षया उदरादेर् उत्कर्ष उत्प्रेक्षा ॥६५॥
भृङ्गाराम्भोज-माला-व्यजन-शशिकला-कुण्डल-च्छत्र-यूपैः
शङ्ख-श्री-वृक्ष-वेद्यासन-कुसुम-लता-चामर-स्वस्तिकाद्यैः ।
सौभाग्याङ्कैर् अमीभिर् युत-कर-युगला राधिका राजतेऽसौ
मन्ये तत्-तन्-मिषात् स्व-प्रिय-परिचरणस्योपचारान् बिभर्ति ॥६६॥
(स्वभावोक्त्य्-उत्प्रेक्षापह्नुतयः)
भृङ्गारो जल-पात्रम् । शशिकला चन्द्र-रेखा ।श्री-वृक्षो बिल्व-वृक्षः । पूर्वोक्तैः सौभाग्य-चिह्नैः । भृङ्ग-पद्म-माला-व्यजन-चन्द्ररेखा-कुण्डल-च्छत्र-यूप-शङ्ख-श्रीवृक्ष-
वेद्यासन-कुसुम-लता-चामर-स्वस्तिकाद्यैर् युत-कर-कमला असौ राधिका राजते तत्-तन्-मिषात् भृङ्गारादि-च्छलेन कृष्ण-परिचरणस्योपचारान् राधा बिभर्ति ।
स्वभावोक्तिः । स्वभावस्य अर्णनम् अत्र कर-द्वये भृङ्गारादेर् वर्णनम्, कर-स्थ-भृङ्गारादेर् उत्कर्षाद् उत्प्रेक्षा-प्रकृतस्य भृङ्गारादेः प्रिय-परिचर्योपचारत्वेनान्यथाकृतिर् अपह्नुतिः ॥६६॥
श्री-कामाङ्कुश-तीक्ष्ण-चारु-शिखरैर् माणिक्य-पूर्णेन्दुभिः
श्लिष्टाग्रार्ध-विभाग-गन्ध-फलिका-श्रेणी-दलैः शोभिते ।
पद्मे चेद् अभविष्यतां क्वचिद् अपि श्री-राधिका-हस्तयोर्
औपम्यं जित-पल्लवाब्ज-चययोः सम्प्राप्स्यतां ते तदा ॥६७॥
(रूपक-व्यतिरेकातिशयोक्तयः)
शोभा-युक्तैः कामाङ्कुशाद् अपि कामाङ्कुशवद् वा तीक्ष्णानि चारूणि शिखराणि अग्र-भागाः येषां तैर् माणिक्य-सम्बन्धिभिः पूर्णेन्दुभिः श्लिष्टो युक्तोऽग्र-भूतार्ध-विभागो यस्यां तथा-भूतानां गन्ध-फलिकानां चम्पक-कलिकानां श्रेण्याव् एव दलानि तैः शोभिते पद्मे चेद् यदि क्वचिद् अपि देशे अभविष्यतां तदा जितः पल्लव-समूहः पद्म-समूहश् च याभ्यां तयोः श्री-राधिका-हस्तयोर् औपम्यं सम्प्राप्स्यताम् । कामाङ्कुशेन नखाग्रस्य माणिक्य-निर्मित-पूर्ण-चन्द्रेणारक्त-नखस्य चम्पक-कलिकया अङ्गुल्या पद्मेन हस्तस्य तादात्म्य्यं रूपकम् । उपमान-कामाङ्कुश-माणिक्याद्य्-अपेक्षया श्री-राधाया नखादेर् वैलक्षण्यम् अत्र व्यतिरेकः । उपमानेन कामाङ्कुशेन निगीर्णस्य उपमेयस्य राधा-नखाग्रस्य निरूपणम् अत्रातिशयोक्तिः । एवं चन्द्रेण नखस्य पद्मेन करस्य चम्पक-दलैर् अङ्गुलैर् अङ्गुलीनां च निरूपणम् ॥६७॥
**राधा-कराब्ज-नखराः सुखरा बकारेर्
वक्षस्-तटी-गरुड-रत्न-कवाटिकायाम् ।
उत्कीर्ण-चित्र-करणाय रतीश-कारोष्
टङ्काः सुसूक्ष्म-निशिताः स्फुटम् उल्लसन्ति ॥६८॥ **
(रूपकोत्प्रेक्षे)
सुखरा अतितीक्ष्णाः राधायाः कर-नखराः बकारेर् वक्षः-स्थल-रूपेन्द्रनीलमणि-कवाटिकायां क्षुद्र-कवाटे उत्कीर्ण-चित्रं पाषाणादौ क्षोदं कृत्वा हिङ्गुलादि-वर्णकैः पूर्णं चित्रं तत्-करणाय रतीश एव कारुः शिल्पकारी तस्य सुसूक्ष्मा निशिताष् टङ्काः पाषाण-दारकाः स्फुटम् उल्लसन्ति ॥६८॥
मूलेऽधो-वदनं वराटक-युगं चाग्रेऽम्बुजे बिभ्रती
नैते स्वर्ण-मृणालके रतिपतेर् ये पाशताम् आगते ।
कृष्णोत्फुल्ल-तमाल-वेष्टन-पटु-बिल्वत्-कुचाधः-फले
राधा-बाहु-लते इमे कर-युग-श्री-पल्लवे दीव्यतः ॥६९॥
(सन्देह-रूपक-लुप्तोपमाः)
एते मूले मूल-देशे अधो-वदनं वराटक-युगं बीज-कोश-द्वयम् अग्रे अम्बुजे च बिभ्रती दधाने । तद् अपि स्वर्ण-मृणालके मृणालम् एव मृणालकम् एतेन ये रतिपतेः पाशतां प्राप्ते । अतः कृष्ण-रूपोत्फुल्ल-तमालस्य वेष्टने पटू निपुणे । बिल्ववत् आचरत इति बिल्वती बिल्व-तुल्ये कुच-रूपाधः-फले ययोस् ते । कर-युग-रूप-श्री-पल्लवौ ययोस् ते । इमे राधाया बाहु-लते दीव्यतः । बीज-कोशो वराटकः इत्य् अमरः ।
मूले वराटकयोर् धारणेनाग्रे अब्जयोर् धारणेन च स्वर्ण-मृणालस्य कारण-सत्त्वेऽपि न मृणाले इति सन्देहः । बाहु-युगलस्य लतात्वेन तादात्म्यं रूपकम् । पाशताम् इवागते पाशताम् आगते, अत्र लुप्तोपमा ॥६९॥
**कामार्ति-सिन्धु-तरणाय हरेर् विधात्रा
राधा व्यधायि तरणिर् मणि-चित्र-हैमी ।
तत्-क्षेपणी च निहित-शुभ-रोम-राजिर्
न्यस्तं च बाहु-युगलं किम् अरित्र-युग्मम् ॥७०॥ **
(उत्प्रेक्षा-रूपके)
विधात्रा हरेः कामार्ति-समुद्रस्य तरणाय राधा मणिना चित्रा च सा हैमी हेम-निर्मिता तरणिर् नौका व्यधायि । तस्यां नौकायां क्षेपणी शुभ-रोम-राजिर् च निहिता । बाहु-युगलम् अरित्र-युग्मं च न्यस्तं किम् ? नौका-दण्डः क्षेपणी स्याद् अरित्रं केनिपातकः इत्य् अमरः ।
अन्य-नौकापेक्षया कृष्णार्ति-सिन्धु-तरण-हेतुना राधा-नौकाया उत्कर्षाद् उत्प्रेक्षा । राधाया नौकात्वेन रोमावलेः क्षेपणीत्वेन बाहु-युगलस्य अरित्र-युग्मत्वेन तादात्म्यं रूपकम् ॥७०॥
**श्री-राधिका-पार्श्व-मत्तलिके शुभे
सौन्दर्य-कन्ये वृणुतः स्म ये स्वयम् ।
माधुर्य-पुत्रौ हरि-पार्श्व-सद्-वरौ
सव्यापसव्य-क्रम-वैपरीत्यतः ॥७१॥ **
(रूपकम्)
श्री-राधायाः पार्श्वे मत्तलिके प्रशस्ते शुभे सौन्दर्यस्य कन्ये ये कर्तृ-भूते माधुर्यस्य पुत्रौ हरेः पार्श्व-रूप-सद्-वरौ वृणुतः स्म । राधिकायाः वाम-पार्श्वः कृष्णस्य दक्षिण-पार्श्वम्, श्री-राधा-दक्षिण-पार्श्वं कन्या श्री-कृष्ण-वाम-पार्श्वं वरम् इति वैपरीत्यम् । पार्श्वस्य कन्या-वरत्वेन तादात्म्यं रूपकम् । मतल्लिका मचर्चिका प्रकाण्ड-मुद्ध-तल्लजौ । प्रशस्त-वाचकान्य् अमून्य् अयः इत्य् अमरः ॥७१॥
**स्मर-जय-लिपि-युक्ता हाटकी-पट्टिकेयं किम् उ
विधृत-मनोभू-शस्त्रिकं स्वर्ण-पीठम् ।
मदन-भुजग-पाशाधार-तूणं नु हैमं
नहि लसति विराजद्-वेणि राधा-सुपृष्ठम् ॥७२॥ **
(निश्चयान्त-सन्देहः)
इयं किं स्मर-जयस्य या लिपिस् तद्-युक्ता हाटकी स्वर्ण-निर्मिता पट्टिका ? किम् उ विधृता कन्दर्पस्य शस्त्रिका छुरी इति ख्याता यत्र तत् स्वर्ण-पीठम् । नु वितर्के । हेम-निर्मितं मदनस्य नाग-पाशस्याधार-तूणं किम् ? इति सन्देहानन्तरं निश्चयम् आह—नहीति । तदा किं विराजन्ती वेणी यत्र तत् श्री-राधायाः शोभन-पृष्ठं लसति ॥७२॥
**सहज-विनतम् अंस-द्वन्द्वम् अस्याः कवीन्द्रा
गिरिधर-कर-शश्वद्-भारतो नम्रम् आहुः ।
मम तु मतम् अनुच्चैर् अप्य् अदः सर्वम् उच्चैः-
शिरस-गणम् अतीत्योद्भाति तत्-सौभगेन ॥७३॥ **
(व्यतिरेक-विरोधोत्प्रेक्षाः)
अस्याः सहजातः स्वतः विशेषेण नतं स्कन्ध-द्वयं कवि-श्रेष्ठाः कृष्ण-करस्य शश्वद्-भारात् नम्रम् आहुः । मम तु मतम् अदः अंस-द्वन्द्वम् अनुच्चैर् अनुच्चं नम्रम् अपि तत्-सौभगेन कृष्ण-करस्य शश्वद्-भार-जन्य-सौभाग्येन सर्वम् उच्चैः शिरस-गणं वयं सौभाग्यवत्य इत्य् अभिमानेन उच्चैर् उच्चान्य् उन्नतानि शिरांसि मस्तकानि यस्यां ताः ।
किं वा, राज-दन्तादिवत् शिरसोच्चैर् उच्चा उच्चता उच्चैः शिरसस् ता व्रजे श्री-चन्द्रावल्य्-आदि-व्रज-सुन्दर्यः, पुरे श्री-महिष्यः, पर-व्योम्नि श्री-लक्ष्म्यश् च, अन्या या गौरी-शच्य्-आद्या दिव्याङ्गनाः, तासाम् उच्चैः-शिरसाम् अयम् उच्चैः-शिरसः । इदम्-अर्थे अणि चौरा इत्य् अत्राणोऽणित्वादि-स्वरा वृद्धिः, स चासौ गणश् चेति तम् । उच्चैः-शिरस-गणम् अतिक्रम्योद्भाति ।
उपमानत्वात् सहज-नताद् अंश-द्वयात् कृष्ण-कर-भार-जन्य-नत-रूप-विलक्षणो व्यतिरेकः । अनुच्चस्य सर्वोच्चत्वेन विराजमानता विरोध इव भासते, न तु विरोधः। तल्-लक्षणं—द्रव्यं द्रव्येण विरुध्यते । नतं स्कन्ध-द्वयं द्रव्यं तस्य सौभाग्य-जन्योच्चांशेन गुणेन सह विरोधाभासः । सहज-नतस्य अंस-द्वयस्य कृष्ण-कर-भार-सौभाग्य-जन्योत्कर्षाद् उत्प्रेक्षात्र ॥७३॥
**सौन्दर्य-लक्ष्मीर् इह काव्य-लक्ष्मीः
सन्गीत-लक्ष्मीश् च हरेर् मुदेऽस्ति ।
पूर्णेति धातुर् गणनात् तु रेखा-
त्रयेण कण्ठः किम् उ भात्य् अमुष्याः ॥७४॥ **
(उत्प्रेक्षा)
इह कण्ठे सौन्दर्यादि-लक्ष्मी-त्रयी हरेर् मुदे पूर्णास्ति इति विधातुर् गणनाद् अमुष्याः कण्ठो रेखा-त्रयेण किम् उ भाति । अन्य-कण्ठात् पूर्ण-लक्ष्मी-त्रयस्यास्तित्वेन उत्कर्षाद् उत्प्रेक्षा ॥७४॥
**सीमार्थम् उच्चैः शिरसोर् विवादे
बलिष्ठ-नासा-स्तनयोर् विधाता ।
राधा-वपुर् नीवृति-कण्ठ-मध्ये
रेखा-त्रयेनैव चकार सीमाम् ॥७५॥ **
(उत्प्रेक्षा-रूपके)
उच्चैः शिरोऽग्रं ययोस् तयोर् बलिष्ठ-नासा-स्तनयोः श्री-राधायाः वपुर् नीवृति-शरीर-रूप-देशे सीमार्थं विवादे सति विधाता तस्या कण्ठ-मध्ये रेखा-त्रयेनैव सीमां चकार । विधातृ-कर्तृत्वेन हेतुना अन्य-सीमातोऽस्याः सीमाया उत्कर्षाद् उत्प्रेक्षा । राधा-शरीरस्य देशत्वेन त्रिरेखायाः सीमात्वेन तादात्म्यात् रूपकम् ॥७५॥
**व्यर्थीकृता स्वर-गुणैर् गहनं पिकाली
भेजे सुधा च कटुतां जडतां तत-श्रीः ।
यस्य श्रिया दर-ततिश् च समुद्रम् अस्याः
केनोपमान्तु कवयस् तम् इमं सुकण्ठम् ॥७६॥ **
(दीपक-व्यतिरेकौ)
कवयः अस्याः सुकण्ठं केन उपमान्तु उपमां ददातु । अस्य कण्ठस्य स्वर-गुणैर् व्यर्थीकृता पिकाली गहनं वनं भेजे । सुधा कटुतां भेजे । ततं वीणादि-वाद्यं तस्य श्रीश् च जडतां भेजे । यस्य श्रिया दरः शङ्खस् तस्य श्रेणी समुद्रं भेजे ।
दीपक-लक्षणं—कारकैक्ये क्रिया-बह्व्योः व्यत्ययेऽपि च दीपकं [अ।कौ। २६४] । व्यत्ययेऽपि क्रियाया ऐक्ये कारकस्य बहुत्वेऽपि दीपकम्, तद् एवात्र—कटुतां जडतां तत-श्रीः । दर-ततिर् इत्य् अत्र कारकस्य बहुत्वम् । भेजे इत्य् अत्र क्रियाया ऐक्यं दीपकम् । कोकिल-स्वराद्य्-उपमानत्वात् श्री-राधिका-स्वरादीनां विलक्षणत्वेन व्यतिरेकः ॥७६॥
यो बालार्क-विकाशि-सुप्त-मधुप-स्वर्णाम्बुजैक-च्छदो
विश्राम्यत्-पिक-हेम-मन्दिर-गवाक्षाधो-विटङ्कोऽपि यः ।
तौ राधा-मद-बिन्दु-चारु-चिबुकं दृष्ट्वा स्व-साम्योत्सुकौ
श्री-कृष्णाङ्गुलि-सङ्ग-सौभग-गुणैर् न्यक्कृत्य विभ्राजते ॥७७॥
(व्यतिरेकः)
यो बालार्केण विकाशी विकाशवांश् चासौ सुप्त-मधुपेन सहितः स्वर्णाम्बुजस्य एकः छदो दलं चासौ हेम-मन्दिरस्य गवाक्षस्य अधो-वर्ति विटङ्कः पक्षिणां निवासस् तौ कीदृशौ ? स्वस्य राधा-चिबुकस्य साम्ये उत्सुकौ तौ दृष्ट्वा राधाया मद-बिन्दुना मृगमद-बिन्दुना चारु मनोहरं चिबुकम् । श्री-कृष्णाङ्गुलि-सङ्ग-सौभग-गुणैस् तौ न्यक्कृत्य तिरस्कृत्य विभ्राजते । हेम-मन्दिरम् अत्र श्री-राधा-शरीरं गवाक्ष-मुखं चिबुकं पक्षि-गृहम् । विश्राम्यत् पिकोऽत्र कस्तूरी-बिन्दुः । स्वर्ण-कमलस्यैक-दलस्थ-भ्रमरात् स्वर्ण-गृहस्य गवाक्षाधः-स्थ-विटङ्के विश्राम्यत्-कोकिलाच् च कस्तूरी-बिन्दुना सह चिबुकस्य विलक्षणत्वेन व्यतिरेकः ॥७७॥
**बन्धोर् हरेर् जीवतयास्य तत्ता
प्रेम्नो बहिर् बिम्बतया तथास्य ।
राधाधरौष्ठाव् इति बन्धुजीव-बिम्बौ
स्वयं तन् नहि साम्यम् आभ्याम् ॥७८॥ **
(रूपक-व्यतिरेकौ)
बन्धोर् हरेर् अस्य श्री-कृष्णस्य जीवतया तत्ता बन्धुजीवता । अयम् अत्रार्थः श्री-कृष्णस्य जीवनं श्री-राधाया अधरौष्ठयोर् मध्ये स्थितं तस्य प्रतिबिम्ब-रूपाव् एताव् अधरौष्ठौ । तथास्य हरेः प्रेम्णा बहिर् बिम्बतया मण्डलतया । बिम्बोऽस्त्री मण्डलं त्रिषु इत्य् अमरात् । तथा बिम्बता इत्य् अर्थः । तथा च राधा-विषयक-प्रेम्णो बिम्बं हृदयं बहिर् बिम्बं राधाधरौष्ठौ इति यावत् । बन्धुजीव-बिम्बौ स्वयं राधाधरौष्ठौ तत् तस्माद् आभ्यां बन्धुजीव-बिम्बताभ्याम् ओष्ठाधरयोः साम्यं नहि । श्लेषेण बन्धुजीव-पुष्प-बिम्ब-फले च । राधाधरौष्ठौ अधरौष्ठयोर् बन्धुजीव-बिम्बयोस् तादात्म्यं रूपकम् । बन्धुजीव-बिम्बयोर् ओष्ठाधरयोर् विलक्षणत्वेन व्यतिरेकः ॥७८॥
**आनन्द-पूर्णामृत-सत्त्व-मूर्तेः
कृष्णस्य जीवातुतयाप्त-कीर्तेः ।
एतावता वर्णित-सन्-महिम्नो
राधाधरस्यान्य-गुणैः किम् उक्तैः ॥७९॥ **
(स्वभावोक्त्य्-आक्षेपौ)
आनन्दादि-मूर्तेः कृष्णस्य जीवनोपायत्वेन कीर्तिर् यस्य एतावता श्री-कृष्ण-जीवनोपायत्वेन वर्णितः सन्-महिमा यस्य तस्य श्री-राधाधरस्य उक्तैर् अन्य-गुणैः किं किम् अपीत्य् अर्थः । श्री-राधाधरस्य स्वभाव-वर्णनाद् अत्र स्वभावोक्तिः । आक्षेप-लक्षणं—
आक्षेपो वक्तुम् इष्टस्य यो विशेष-विवक्षया । निषेधो वक्ष्यमाणत्वेनोक्तत्वेन च स द्विधा ॥ [अ।कौ। २७०]
अत्र वक्तुम् इष्टस्य राधाधरस्यान्य-महिम्नो वक्ष्यमाणस्योक्तस्य च निषेध-कथनेनाक्षेपः ॥७९॥
राधा-दन्तान् विजित-शिखराफुल्ल[^२५]**-कुन्दाद्य्-अमित्रान्
विश्व-व्याप्तीरित-निज-करान् उन्मदान् वीक्ष्य वेधाः ।
द्राक् चेद् ओष्ठाधर-सुपिहितान् नाकरिष्यत् तदा ते
नाना-वर्णं जगद् अपि सिताद्वैतम् एव व्यधास्यन् ॥८०॥ **
(उदात्त-व्यतिरेकातिशयोक्तयः)
वेधा राधा-दन्तान् वीक्ष्य चेद् यदि द्राक् शीघ्रम् ओष्ठाधराभ्यां सुपिहितान् नाकरिष्यत्। तदा ते दन्ता नाना-वर्णं जगद् अपि सिताद्वैतं शुक्ल-वर्ण-मयम् एव व्यधास्यन् । कीदृशान् ? विजितानि शिखराणि च, पक्व-दाडिम-बीजाभं माणिक्यं शिखरं विदुः, अफुल्लानि कुटनल-भूतानि कुन्दानि च तद्-आदीन्य् एवामित्राणि शत्रवो यैस् तान् । पुनः किं-भूतान् ? विश्व-व्याप्तौ ईरिताः प्रेरिता निज-करा निज-किरणा यैस् तान् । उन्मदान् उन्मत्तान् ।
उदात्त-लक्षणं—समृद्धिर् उदात्तं वस्तुनः परा [अ।कौ। २८४] । अत्र दन्तानां परा समृद्धिर् उदात्तम् । पक्व-दाडिम-बीजाकार-रत्न-कुन्द-पुष्पाद्य्-उपमानत्वात् श्री-राधा-दन्तानां गुणेन वैलक्षण्यं व्यतिरेकः । शिखर-कुन्द-पुष्पाद्य्-उपमानेन उपमेयस्य राधा-दन्तस्य उत्कर्ष-निरूपणम् अत्रातिशयोक्तिः ॥८०॥
**कुन्दाकृतिर् हीर-रुचिर् विचित्र-
श्री-राधिकाया रद-कीर-राजिः ।
या नित्य-कृष्णाधर-बिम्ब-मात्र-
स्वादेन लेभे शिखर-च्छवित्वम् ॥८१॥ **
(रूपक-तद्गुणौ)
श्री-राधाया दन्त-शुक-श्रेणी कुन्द-पुष्पाकृतिः हीर-रुचिर् विचित्रा च, कुन्दाकृतित्वेन कुन्द-पुष्पवत् शुक्लत्वम् । हीर-रुचिर् इत्य् अनेन दीप्तिमत्त्वम् इति मध्य-दन्त-चतुष्टयस्य विचित्रा चित्र-वर्णा इति पार्श्व-स्थ-दन्तस्य दन्त-रूप-कीर-श्रेणी सदा कृष्णाधर-बिम्ब-फल-मात्रास्वादनेन शिखरस्य पक्व-दाडिम-बीजाभ-रत्नस्य कान्तिमत्त्वं लेभे ।
दन्तानां दाडिम-बीज-कुन्दादिभिस् तादात्म्यं रूपकम् । तद्गुण-लक्षणम्, यथा—
उत्कृष्ट-गुण-योगेन समुत्सृज्य निजं गुणम् । वस्तु तद्गुणतां याति तदायं तद्गुणो यथा ॥
श्री-कृष्णाधरस्य रक्तोत्कृष्ट-तद्-गुण-योगेन राधा-दन्त-श्रेणी निजं शुक्ल-गुणम् उत्सृज्य श्री-कृष्णाधरस्य रक्त-गुण-प्राप्त्या तद्-गुणा बभूव इति भावः ॥८१॥
**राधा-रसज्ञारुण-रत्न-दर्वी
कृष्णाय रेजे परिवेशयन्ती ।
सन्-नर्म-सङ्गीत-सुकाव्य-रूपान्
स्व-वाग्-विलासामृत-सद्-विकारान् ॥८२॥ **
(रूपकम्)
श्री-राधाया रसज्ञा जिह्वा सैवारुण-वर्ण-रत्नस्य दर्वी हाता करछीति ख्याता । कृष्णाय सन्-नर्म-सङ्गीत-सुकाव्य-रूपान् स्व-वाग्-विलासामृतस्य सद्-विकारान् मिष्टान्नानीव नाना-वाक्य-भेदान् परिवेशयन्ती रेजे ॥८२॥
**यां कृष्ण-सत्-कीर्ति-विदग्ध-नर्तकीं
राधा-स्व-कण्ठे निलये न्यवीविशत् ।
चकास्ति सूक्ष्मारुण-शाटिकाञ्चलं
तस्या बहिः-स्थं रसना-च्छलेन किम् ॥८३॥ **
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
या यां श्री-कृष्णस्य सत्-कीर्ति-रूपां विदग्धां नर्तकीं श्री-राधा-निलय-रूपे स्व-कण्ठे न्यवीविशत् । तस्या सूक्ष्मारुण-शाटिकाया अञ्चलं रसना-च्छलेन बहिश् चकास्ति । किं श्री-कृष्ण-कीर्तेर् नर्तकीत्वेन राधा-कण्ठस्य रङ्ग-भूमित्वेन रसनाया अरुण-शाटिकाञ्चलत्वेन तादात्म्याद् रूपकम् । प्रकृतानां सत्-कीर्ति-कण्ठ-रसनानां नर्तक्य्-आदि-रूपेणान्यथाकृतिर् अत्रापह्नुतिः । अन्यथाकृतिः प्रकृतं निषिध्यान्यस्य स्थापनम् । श्री-कृष्ण-सत्-कीर्ति-विदग्ध-नर्तक्या निलयत्वेन हेतुना कण्ठादेर् उत्कर्ष-कथनम् उत्प्रेक्षा ॥८३॥
**श्री-कृष्ण-सत्-कीर्त्य्-अभिधान-नाम्नो
सुनव्य-यूनोर् मिथुनस्य धात्रा ।
हिन्दोल-लीलाभिरतस्य चक्रे
राधा-रसज्ञारुण-वस्त्र-दोला ॥८४॥ **
(रूपकोत्प्रेक्षे)
श्री-कृष्णस्य सत्-कीर्तिर् अभिधानं चेति नामनी ययोस् त्वेऽर्थात् सत्-कीर्ति-नामनी तयोस् तस्य मिथुनस्य सुनव्य-यूनोर् इत्य् अनेन सदैव नव्य-युववत् पुनः पुनर् जिह्वायां हिन्दोल-लीलाभिरतत्वेन मिथुनत्वं तथा रसनाया अरुण-वस्त्र-दोलात्वं रूपकम् । श्री-कृष्ण-कीर्ति-नामोच्चारण-हेतुना रसनाया उत्कर्षम् अत्रोत्प्रेक्षा ॥८४॥
**पीयूषाब्धि-तरङ्ग-वर्ण-मधुरं नर्म-प्रहेली-मयं
शब्दार्थोभय-शक्ति-सूचित-रसालङ्कार-वस्तु-ध्वनि ।
भृङ्गी-भृङ्ग-पिकी-पिक-ध्वनि-कलास्व् अध्यापकं राजते
श्री-कृष्ण-श्रवसो रसायनम् इदं श्री-राधिका-भाषितम् ॥८५॥ **
(रूपक-स्वभावोक्ती)
अमृत-समुद्रस्य तरङ्गवत् वर्णेन वर्ण-प्रयोगेण मधुरं मनोहरं नर्म परिहासः प्रहेली वाक्-चातुरी तन्-मयम् । शब्दार्थोभय-शक्त्या शंसितः कथितो रसालङ्कार-वस्तूनां ध्वनिर् यत्र तत् । भृङ्गादि-ध्वनि-कलासु अध्यापकं राधा-भाषितं कृष्ण-कर्णयो रसायनं सत् राजते । राधा-वाक्यस्यामृतेन तादात्म्यं रूपकम् । राधा-वाक्यस्य स्वभाव-वर्णनम् अत्र स्वभावोक्तिः ॥८५॥
**प्रेमाज्य-नर्मालि-सिता-रसावली
माध्वीक-मन्द-स्मित-चन्द्र-सम्युता ।
अस्या मृषेर्ष्या मरिचान्विताद्भुता
वाणी रसालोल्लसतीश-तृप्तिदा ॥८६॥ **
(रूपकम्)
अस्या वाणी रसाला पानक-विशेषः । रसाला घृत-सिता-मधु-कर्पूर-मरिच-मिश्रं जलं भवति । तद् एवाह—प्रेमाज्यं घृतं नर्मालिः सिता रस-श्रेणी मधुरं स्मितं कर्पूरः मिथ्येर्सा-मरिचैर् अन्वितः । ईशः कृष्णस् तस्य तृप्तिदा । वाण्या रसालात्वेन तादात्म्यं रूपकम् ॥८६॥
**सुधा-सरिद् इयं हरेः किम् उ मनो-मरालाश्रयः
सुधा-किरण-कौमुदी-तृषित-दृक्-चकोरी-गतिः ।
सुधा-सित-घनावली सुतनु-चातकी-जीवनी
विराजति न राधिका-स्मित-सुधोर्मिर् उन्मीलति ॥८७॥ **
(रूपक-निश्चयान्त-संशयौ)
इयं किम् उ हरेः सुधा-मय-सरिन् नदी-रूपा यतः हरेर् मनो-मरालस्य हंसस्याश्रयः ? किम् इयं सुधा-किरणश् चन्द्रस् तस्य कौमुदी ज्योत्स्ना, अत एव हरेस् तृषित-दृक्-चकोर्या गतिः सुधायाः सिता शुक्ला निर्मला मेघावली । यतो हरेः सुतनु-चातकी तस्या जीवनी जीवनोपायो विराजति न तदा किं राधा-स्मित इत्य् आदि स्मितस्य नद्य्-आद्य्-उपमानेन तादात्म्यं रूपकम् । सुधा-नद्य्-आदि-रूपेणादौ संशयं पश्चात् राधा-स्मितत्वेन निश्चयः निश्चयान्त-संशयः ॥८७॥
**हरेर् गुणाली-वर-कल्प-वल्ल्यो
राधा-हृदारामम् अनु प्रफुल्लाः ।
लसन्ति या याः कुसुमानि तासां
स्मित-च्छलात् किन्तु बहिः स्खलन्ति ॥८८॥ **
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
श्री-राधाया हृदय-पुष्पोद्याने श्री-कृष्ण-गुण-श्रेणी-रूपाः श्रेष्ठ-कल्प-लता या या प्रफुल्ला लसन्ति । तासां वल्लीनां कुसुमानि स्मित-च्छलात् नु भोः किं बहिः स्खलन्ति ? हृदयादीनाम् आरामादि-रूपेण तादात्म्यं रूपकम् । प्रकृतस्य हृदयादेर् आरामादिना अन्यथाकृतिर् अपह्नुतिः । श्री-कृष्ण-गुणमत्त्वेन हेतुना वल्ल्य्-आदेः स्मितस्य उत्कर्ष उत्प्रेक्षा ॥८८॥
श्री-राधा-वदनं सुधाक्षय-सरः कृष्णार्णवं यत् ततो
निष्क्रम्याञ्चति पञ्चम-स्वर-सुधा-स्रोतस्वतीयं क्वचित् ।
सङ्गीतामृत-वाहिनी तत इतो वाणी-सुधा-निम्नगा
क्वाप्य् आमोद-सुधा-धुनी स्मित-सुधा दिव्या नदी चान्यतः ॥८९॥
(रूपक-तुल्ययोगितानुमान-क्रिया-दीपकानि)
यद् यस्मात् राधा-वदनं सुधाया अक्षय-सरोवरस् ततः श्री-राधा-मुखात् निष्क्रम्य पञ्चम-स्वर एव सुधा-नदी क्वचित् समये श्री-कृष्णार्णवम् अञ्चति गच्छति । क्वचित् सङ्गीत-सुधा-नदी राधा-वदनात् श्री-कृष्णार्णवम् अञ्चति । एवं क्वापि तत इतो वाणी सैव सुधा-नदी । क्वाप्य् आमोदः सौगन्ध्यं तद् एव सुधा-नदी । अन्यतः क्वापि स्मित-सुधैव दिव्या नदी सा सा सा सा सा राधा-मुखात् श्री-कृष्णार्णवम् अञ्चति ।
श्री-राधा-मुखादीनां सुधा-सरोवरत्वादिना तादात्म्यात् रूपकम् । प्रकृतानां चैकदोक्तिर् उच्यते तुल्य-योगिता [अ।कौ। २६६] । प्रकृतानां राधा-वदनादीनां पञ्चम-स्वर-सुधा-नद्य्-आदीनाम् एकदोक्त्या तुल्ययोगितात्र । पञ्चम-स्वर-सुधा-नदीनां निष्क्रमणं हेतुं कृत्वा श्री-राधा-वदने अक्षय-सुधा-सरसोऽनुमानम् । यत्र क्रियाया एकत्वं कारकस्य बहुत्वम्, अथवा क्रियायाम् अनेकत्वं तत्र दीपकं पञ्चम-स्वर-सुधा-नद्य्-आदि-कारकस्यात्र बहुत्वेनाञ्चति क्रियाया ऐक्येन क्रिया-दीपकम् ॥८९॥
राधाया वदनं सुमेरु-शिखरं न्यक्-कृत्य विभ्राजते
यत् तस्मात् स्मित-सत्-सुधा-सुरधुनी कृष्णामृताम्भोनिधिम् ।
दिव्यामोद-सुधा-सुपर्व-तटिनी वाणी-सुधा-स्वर्-नदी
सङ्गीतामृत-जाह्नवी स्वर-सुधा-मन्दाकिनी चाञ्चति ॥९०॥
(क्रिया-दीपकानुमान-रूपक-तुल्ययोगिताः)
श्री-राधाया वदनं सुमेरु-शिखरं तिरस्कृत्य विभ्राजते । न्यक्-कारे हेतुम् आह—प्रसिद्धा गङ्गा जलमयी समुद्रं गच्छति । इयम् अमृतमयी अमृत-समुद्रं गच्छतीति । स्मितम् एव सत्-सुधा-सुरधुनी गङ्गा श्री-कृष्णामृतार्णवम् अञ्चति । दिव्यामोद एव सुधापः सुपर्व-तटिनी देव-नदी श्री-कृष्णामृताम्भोनिधिम् अञ्चति । एवम् अग्रेऽपि । वाणी सैव सुधा-स्वर्-नदी सङ्गीतम् एवामृत-जाह्नवी ।
स्वरो मन्दाकिनी, स्मित-सुधा-सुरधुनीत्य् आदि कारकस्य बहुत्वेन अञ्चति क्रियाया ऐक्यात् क्रिया-दीपकम् । राधा-वदनात् गङ्गादि-नदीनां कृष्णामृत-समुद्र-गमन-हेतुं कृत्वा, राधा-वदनेन सुमेरु-शिखरस्य न्यक्कारः साध्यम् अत्रानुमानम् । स्मितादीनां सुधा-नदीत्वेन रूपकम् । स्मित-सुधा-सुरधुन्य्-आदीनां प्रकृतानाम् एकदोक्त्या तुल्ययोगिता ॥९०॥
**नयन-पथिक-यात्रा-मङ्गलायाघशत्रोर्
विधिर् इह मुख-पद्मं राधिकाया विधाय ।
तद्-अधि निहित-चक्षुः-खञ्जनौ वीक्ष्य लोलौ
निभृतम् अकृत नासा-स्वर्ण-दण्डे निबद्धौ ॥९१॥ **
(रूपकोत्प्रेक्षे)
अघशत्रोर् नयन-पथिकस्य यात्रायां मङ्गलार्थं विधिः राधा-मुख-पद्मं विधाय तद्-अधि मुख-पद्मे निहित-नेत्र-खञ्जनौ लोलौ वीक्ष्य नासा-स्वर्ण-दण्डे निबद्धौ अकृत । यात्रा-समये पदे खञ्जन-दर्शनं सुमङ्गलं मुख-नेत्र-नासानां पद्म-खञ्जन-स्वर्ण-दण्डत्वेन रूपकम् । पद्मदिभ्यो मुखादीनाम् उत्कर्ष उत्प्रेक्षा ॥९१॥
**हरि-नयन-चकोर-प्रीतये राधिकाया
मुख-शशिनम् अपूर्वं पूर्णम् उत्पाद्य धाता ।
नयन-हरिण-युग्मं न्यस्य तस्मिन् सुलोलं
न्यधित तद् अवरोद्धुं पार्श्वयोः कर्ण-पाशौ ॥९२॥ **
(रूपकोत्प्रेक्षे)
श्री-कृष्ण-नेत्र-चकोर-प्रीत्य्-अर्थं धाता पूर्णम् अपूर्वं राधा-मुख-चन्द्रम् उत्पाद्य तस्मिन् सुलोलं नयन-हरिण-युग्मं न्यस्य, तत् हरिण-युग्मं रोद्धुं पार्श्व-द्वये कर्ण-रूप-पाशौ रज्ज्वौ न्यधात् । श्री-कृष्ण-नेत्रयोश् चकोरत्वेन श्री-राधा-मुख-चन्द्रत्वेन नयनस्य हरिणत्वेन रूपकम् । अन्य-चकोराद्य्-अपेक्षया नयनादीनाम् उत्कर्षाद् उत्प्रेक्षा ॥९२॥
**चन्द्रः कलङ्की क्षयितोऽतिविह्वलस्
तत्-पाद-घातैर् मलिनं यथाम्बुजम् ।
सुनिर्मलं सन्तत-पूर्ण-मण्डलं
केनोपमेयं वद राधिकाननम् ॥९३॥ **
(व्यतिरेकः)
चन्द्रः कलङ्की क्षय-रोगो जातोऽस्येति क्षयितस् तेन विह्वलस् तत् तस्य चन्द्रस्य पाद-घातैर् किरणैर् मलिनं यथा अम्बुजं तथा चन्द्रोऽपि कलङ्केन मलिनं सुनिर्मलं सदा पूर्ण-मण्डलं श्री-राधा-वदनं केनोपमेयम् । चन्द्रात् श्री-राधा-मुखं विलक्षणं व्यतिरेकः ॥९३॥
**राधाया जित-हेम-दर्पण-मदं गण्ड-द्वयं सुन्दरम्
लावाण्यामृत-पूर्णितं हि कनक-क्षौण्यां सरो-युग्मकम् ।
यत् ताटङ्क-सुवर्ण-पद्म-कलिकं कस्तुरिका-चित्र-सच्-
छैवालं मकरी-विलास-वलितं कृष्णाति-तृष्णा-हरम् ॥९४॥ **
(रूपकानुमान-व्यतिरेकाः)
श्री-राधाया गण्ड-द्वयं जितो हेम-दर्पण-मदो येन तत् । कनक-पृथिव्यां सरोवर-युगम् । सरो-धर्मम् आह—यत् ताटङ्कौ कर्ण-भूषणे सुवर्णस्य पद्म-कलिके यत्र तत् । कस्तुरिका चित्रम् एव यत् शैवालं यत्र तत् । चित्रित-मकार्या विलासेन युक्त्तम् । श्री-कृष्णस्य तत्रैव या अतितृष्णा तां हरतीति तत् । गण्डयोः सरोज-युग्मत्वेन रूपकम् । श्री-राधा-रूप-कनक-भूमौ श्री-कृष्ण-तृष्णा-हरत्वं हेतुं कृत्वा सरो-युग्मं साध्यम् अत्रानुमानम् । अन्य-सरोवरात् गण्ड-सरो विलक्षणम् अत्र व्यतिरेकः ॥९४॥
**श्री-कृष्ण-श्री-नयन-मधुप-द्वन्द्व-पोषाय
धाता श्री-लावण्यामृत-मय-सरस्य् आनने राधिकायाः ।
उत्पाद्यास्मिन् नयन-युगल-च्छद्मनेन्दीवरे द्वे
श्री-गण्डेन्दू न्यधित स तयोः पार्श्व उत्फुल्लतायै ॥९५॥ **
(रूपकोत्प्रेक्षापह्नुतयः)
धाता श्री-कृष्ण-नेत्र-मधुप-द्वन्द्व-पोषार्थं श्री-राधाया लावण्यामृत-मय-सरोवरअ-रूपे आननेऽस्मिन् नयन-च्छलेन द्वे इन्दीवरे उत्पाद्य स विधिस् तयोर् नयनयोर् उत्फुलतार्थं नयनयोः पार्श्वे पार्श्व-द्वये श्रिया कान्त्या करणेन सहितौ गण्डेन्दू गण्ड-रूप-चन्द्रौ न्यधित ।
श्री-कृष्ण-नयनस्य मधुपत्वेन श्री-राधा-मुखस्य सरसीत्वेन नेत्रयोर् नील-पद्मत्वेन गण्डयोश् चन्द्रत्वेन साम्याद् रूपकम् । अन्य-मधुपादिभ्यः श्री-कृष्ण-नयनादेर् उत्कर्षम् उत्प्रेक्षा । प्रकृतस्य श्री-कृष्ण-नयनादेर् अन्यथाकृतिः प्रकृतं श्री-कृष्ण-नयनादिकं निषिध्यान्यस्य मधुपादेः स्थापनम् अत्रापह्नुतिः ॥९५॥
**निवसति ननु राधा-भाल-शालारकान्तर्
वृत-तनुर् इह कश्चित् कीर-राजः स-तृष्णः ।
रसवद्-अधर-बिम्ब-प्रेक्षणाद् अस्य चञ्चुः
कलयत बत नासा-च्छद्मना निर्गतास्ति ॥९६॥ **
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
श्री-राधाया भाल एव शालारकः पञ्जरस् तस्यान्तर् मध्ये आवृत-तनुः कीर-राजः रस-युक्ताधर-बिम्ब-प्रेक्षणात् स-तृष्णः नासा-च्छलेनास्य चञ्चुर् निर्गतास्ति । कलयत पश्यत । भालस्य पञ्जरत्वेन नासायाः कीर-चञ्चुत्वेन रूपकम् । प्रकृत-नासायाः शुक-चञ्चुत्वेनान्यथाकृतिर् एवापह्नुतिः । चञ्चुतो नासाया उत्कर्ष उत्प्रेक्षा ॥९६॥
**अस्याः सुनासा मदनाद्भुतेषुर्
व्यालोल-चिल्ली-धनुर्-अर्पितोऽपि ।
विवेश मुक्ता-फलकाग्रकोऽपि
द्रुतं हरेर् हृद् धृति-वर्मितं यः ॥९७॥ **
(विरोध-रूपक-विशेषोक्तयः)
अस्याः सुनासा मदनस्याद्भुतेषुः । बाणस्याद्भुतत्वम् आह—य इषुः व्यालोल-भ्रू-धनुर्-अर्पितोऽपि मुक्ता-फलकाग्रकोऽपि हरेर् धृति-रूप-कवचेन वर्मितं कवचितं हृद् हृदयं विवेश ।
विरोधः स विरोधाभासः । नासा-रूप इषुः धनुर् अर्पितः, न तु व्यक्तः । बाणस्य त्यागं विना अन्यस्य कवचाच्छन्न-हृदये प्रवेशो विरोध-सहित इवाभासते, न तु विरोधः । नासा-धनुषोर् भिन्न-द्रव्यत्वेन, क्रियया भिन्नत्वेन च द्रव्यस्य क्रियया सहात्र विरोधाभासः । नासाया इषुत्वेन भ्रूवोर् धनुस्त्वेन रूपकम् । विशेषोक्तिः कारणेषु सत्सु कार्यस्य नोदयः [अ।कौ। २७२]। सा विशेषोक्तिस् त्रिधा—अनुक्त-निमित्तता, उक्त-निमित्तता, अचिन्त्य-निमित्तता च । अत्र मुक्ता-फलस्याग्र-स्थितत्वेन धनुष्य् अर्पितत्वेन बाणस्य कवचाच्छन्न-हृदये प्रवेशाभावस्य कारणे विद्यमानेऽपि प्रवेशाभाव-रूप-कार्यस्यानुदयात् विशेषोक्तिर् इयम् अचिन्त्य-निमित्तता रूपा ॥९७॥
**अमुष्याः श्री-नासा-तिल-कुसुम-तूणो रति-पतेर्
अधो-वक्त्रं पूर्णः कुसुम-विशिखैश् चित्र-मृगयोः ।
मुख-द्वारा तस्मात् स्मित-चय-मिषात् ते निपतिताः
शरव्यत्वं येषाम् अलभत हरेश् चित्त-हरिणः ॥९८॥ **
(रूपकापह्नुति-विभावनाः)
चित्र-मृगयोः आश्चर्य-व्याधस्य रति-पतेः कुसुम-बाणैः पूर्णः अधो-मुखः नासा-रूप-तिल-पुष्पस्य तूणं तस्मात् तूणात् मुख-द्वारा ते विशिखाः स्मित-समूह-च्छलात् निपतिताः । तेषां विशिखानां बाणानां हरेश् चित्त-रूप-हरिणः शरव्यत्वं लक्ष्यत्वम् अलभत ।
नासायाः तूणत्वेन स्मितस्य बाणत्वेन चित्तस्य मृगत्वेन रूपकम् । प्रकृतं नासादिकं निषिध्य-तूणादेः स्थापन-रूपान्यथाकृतिर् अपह्नुतिः । हेतु-रूप-क्रियाभावे फलं यत् सा विभावना । कृष्ण-चित्त-हरिण-वेध-रूप क्रियाया अभावेऽपि वेध-रूप-फलम् अत्र विभावना ॥९८॥
राधाया नयनाञ्जनाधर-रुचा व्याप्तं नु गुञ्जायते
नासा-मौक्तिकम् एतद् इत्य् अविदुषां काव्यं ममैतन् मतम् ।
शश्वत्-कृष्ण-विराजि-रागि-हृदय-श्वासानिलैर् भावितं
तत्-तद्-वर्णतयाशु तत्-परिणतं तेषां हि तत्-तद्-गुणैः ॥९९॥
(लुप्तोपमा-तद्गुणौ)
श्री-राधाया नयनाञ्जनाधरयोः कान्त्या व्याप्तं नासा-मौक्तिकं गुञ्ज इवाचरति गुञ्जायते इत्य् अविदुषाम् अज्ञानां काव्यम् । शश्वत्-कृष्ण-विराजि सदा कृष्णस्य विशेषेण राजता स्थितिर् यत्र तादृशं तत् रागि राग-युतं च हृदयं तस्मात् श्वास-रूपानिलैर् भावितं जनितम्, हि निश्चितम्, तत्-तद्-वर्णतया कृष्णस्य कृष्ण-वर्णतया तेषां तत्-तद्-गुणैः कृष्ण-गुण-रक्त-गुणैः परिणतं तत् मौक्तिकम् एतत् मम मतम् । परिणतम् इति लुप्तोपमा । कृष्ण-रक्त-गुणस्य कथनात् तद्गुणः ॥९९॥
**नयन-युग-विधाने राधिकाया विधात्रा
जगति मदुर-साराः सञ्चिताः सद्-गुणा ये ।
भुवि पतित-तद्-अंशस् तेन सृष्टान्य् असारैर्
भ्रमर-मृग-चकोराम्भोज-मीनोत्पलानि ॥१००॥ **
(विशेषालङ्कारः)
विधात्रा राधाया नयन-युगं विधातुं कर्तुं मधुर-सारा ये सद्-गुणाः सञ्चिताः, तेषां सारं गृहीत्वा राधाया नयन-युगं कृतम् । भुवि पतित-तद्-अंशैर् असारैर् भ्रमरादीनि सृष्टानि । विशेषालङ्कारो, यथा—
आधारस्य प्रसिद्धस्याभावेऽप्य् आधेय-दर्शनम् । एकस्य युगपद्-वृत्तिर् अनेकत्र स्वरूपतः ॥ एकस्यैवातिचित्रस्य वस्तुनः करणेन हि । तत् सामान्यान्य-वस्तूनां करणं स भवेत् त्रिधा ॥ [अ।कौ। ३१२]
स विशेषालङ्कारस् त्रिधा भवेत् । त्रिधा मध्ये तु एकस्यातिविच्त्रस्य वस्तुनो राधा-नेत्र-युगस्य करणेन तत् तस्मात् सामान्य-वस्तूनां भ्रमरादीनां करणे विशेषालङ्कारोऽयम् ॥१००॥
**खञ्जनतीक्षणम् अञ्जन-लिप्तं
कञ्ज-नव-स्मय-भञ्जन-दृप्तम् ।
शं जननाच्युत-रञ्जन-शीलं
सुमुखि तवाण्डज-गञ्जन-लीलम् ॥१०१॥ **
(अनुप्रास-लुप्तोपमे)
हे सुमुखि ! तव अञ्जन-लिप्तम् ईक्षणं खञ्जन इवाचरति खञ्जनति कञ्ज-नवस्य कञ्जेषु नवं सुन्दरं यत् कञ्जं तस्य । यद् वा, कञ्जस्य नवो यः स्मयो गर्वस् तस्य भञ्जने दृप्तं प्रतापवत् । शं सुखं तस्य जननम् उत्पत्तिर् यस्मात् । तम् अच्युतं रञ्जयितुं शीलं यस्य तत् । अण्डजा मत्स्यास् तेषां गञ्जन-लीला यस्य तत् । अनुप्रास्यत इत्य् अर्थेऽनुप्रासो वर्ण-साम्यतः । खञ्जनाञ्जन-भञ्जन-शञ्जन-गञ्जनेति वर्ण-साम्याद् अनुप्रासः । खञ्जनम् इवाचरतीत्य् अत्र लुप्तोपमा ॥१०१॥
**धाता कुण्डल-मीनराज-नटयोर् दाम्पत्य-सिद्ध्यै हरे
राधाया मुख-सत्-सुधा-सरसि तन्-नेत्र-द्वयी-व्याजतः ।
लास्यं शिक्षयितुं झषेश-तनये बाले विधायानयोः
पार्श्वे लोलतया पलायन-भिया श्री-कर्ण-जाले न्यधात् ॥१०२॥ **
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
धाता हरेः कुण्डल-रूपौ मीनराजौ मकरौ ताव् एव नटौ तयोर् दाम्पत्य-सिद्ध्यै स्त्री-पुरुष-भाव-सिद्ध्य्-अर्थं राधा-मुखम् उरसि तत् तस्या नेत्र-च्छलेन नृत्यं शिक्षयितुं झषेशस्य मीन-श्रेष्ठस्य द्वे कन्ये विधाय अनयोर् झषेश-तनययोः पलायन-भिया अनयोः पार्श्व-द्वये कर्ण-रूप-जाले न्यधात् ।
कुण्डलस्य मकरेण नेत्रस्य मीनेन कर्णयोर् जालेन तादात्म्यात् रूपकम् । तादात्म्यम् उपमानोपमेययोर् अभेद-प्रतीतिः । प्रकृतस्य कुण्डलादेर् मीनादिना अन्यथाकृतिर् अपह्नुतिः । अन्य-मीनापेक्षया कुण्डल-नेत्रादीनाम् उत्कर्षम् उत्प्रेक्षा ॥१०२॥
**राधाक्षि-पद्म-द्वय-धाम्नि तिष्ठतः
सदा सृजन्तौ भ्रमर-प्रजापती ।
प्रजावलीं मानसिकीं यतोऽसकौ
कटाक्ष-धारा-मिषतो निरेत्य् उत ॥१०३॥ **
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
भ्रमराव् इव भ्रमरौ नेत्र-मध्य-वर्ति-नीलौ तारा-रूपौ ताव् एव प्रजापती राधाया नेत्र-पद्म-द्वय-धाम्नि मानसिकीं प्रजावलीं सृजन्तौ तिष्ठतः । यतो नेत्र-द्वयत् असकौ असौ, स्वार्थे कः, अक् वा इति, प्रजावली कटाक्ष-धारा-च्छलेन निरेति निर्गच्छति । नेत्रस्य पद्मेन कटाक्षअस्य मानस-प्रजावल्या तादात्म्यात् रूपकम् । प्रकृत-नेत्र-कटाक्षादिकं निषिध्यान्यस्य पद्मादेः स्थापनम् अपह्नुतिः । पद्मान्य-प्रजातो नेत्र-कटाक्षाणाम् उत्कर्ष उत्प्रेक्षा ॥१०३॥
**भ्रुवौ तिरः-प्रसारिण्यौ विष्णुक्रान्ता-लते ध्रुवम् ।
अस्याः कृष्णे ययोर् भातः कुसुमे नेत्रयोर् मिषात् ॥१०४॥ **
(रूपकापह्नुती)
अस्याः भ्रुवौ तिरः-प्रसारिण्यौ वक्रीभूय प्रसारिण्यौ । विष्णुक्रान्ता अपराजिता तस्या लते इति ध्रुवम् । ययोर् लतयोः कृष्ण-वर्णे कुसुमे नेत्रयोर् मिषात् भातः । भ्रुवोर् लतयोर् नेत्रयोः पुषेण तादात्म्यं रूपकम् । प्रकृतयोर् भ्रू-नेत्रयोर् विष्णुक्रान्ता-लता पुष्पत्वेनान्यथा-कृतिर् अपह्नुतिः ॥१०४॥
**किं राहुणा कवलितेन्दु-कले बहिष्ठे
तद्-दन्त-दंश-गलित-स्तिमिताङ्क-लेशे ।
एते न किन्तु कच-चिल्लि-लतान्तराले
श्री-राधिकालिकम् इदं विमलं विभाति ॥१०५॥ **
(निश्चयान्त-सन्देहः)
राहुणा ग्रस्तेन्दु-कला-द्वये तस्य राहोर् दन्त-दंशनात् गलिते स्तिमित-कलङ्क-लेशे । एते बहिष्ठे बहिः-स्थिते इति सन्देहः । तद्-अन्ते निश्चयाम् आह—न इति । किं नु पुनः राधायाः कचः केशः चिल्लि-लता भ्रूस् तयोर् अन्तराले मध्ये इदं विमलम् अलिकं विभाति । तिमितत्वं तैलाभ्यञ्जनेन स्वतश् चिक्कणत्वेन च केश-रूप-राहोर् अन्तर्-गलितत्वेन मध्य-स्थलात् अधः-पतित-कलङ्कस्य भ्रू-द्वयत्वेनोपमा ॥१०५॥
राधालिकं चिल्ल्य्-अलकालि-मञ्जुलं
नवेन्दु-लेखा-मद-हारि दीव्यति ।
उपर्य्-अधः षट्पद-पालि-वेष्टितं
यथा नवं काञ्चन-माधवी-दलम् ॥१०६॥
(उपमा)
चिल्ली अलकालिभिश् च मनोज्ञं राधालिकं राधाया ललाटं नवेन्दुलेखा-मद-हारि दीव्यति । उपमाम् आह—उपर्य्-अधो भ्रमरर् वेष्टितं नवं सुन्दरं काञ्चनस्य माधवी वासन्ती लता तस्या दलं यथा ॥१०६॥
**गुण-मणि-खनिर् अस्या वल्लभः कृष्ण एव
प्रणयिनि भवितास्याः कृष्ण एवानुरागः ।
इति लिपिर् अलिकान्तर्-वैधसीयास्त्य् असौ किं
बहिर् अपि मद-सिन्दूरेन्दु-दम्भात् स्फुटाभूत् ॥१०७॥ **
(रूपकोत्प्रेक्षापह्नुतयः)
गुण-रूप-मणीनां खनिः गुणोत्पादिका भूमिः । कृष्ण एव अस्या वल्लभः प्रियः । प्रणयिनि कृष्ण एवास्या अनुरागश् च भविता भविष्यतीति विधातृ-कृता वैधसी या लिपिर् अलिकान्तर्-ललाट-मध्येऽस्ति । असौ लिपिर् बहिर् अपि मृगमद-सिन्दूरेन्दु-च्छलात् स्फुटाभूत् । मृगमदस्य कृष्ण-वर्णनेन सिन्दूरस्यानुरागेण ललाटस्य चन्द्रेण साम्यम्, मृगमदादीनां वैधसीय-लिपित्वेन तादात्म्यं रूपकम् । विधि-लिप्य्-अपेक्षया मृगमदादीनाम् उत्कर्ष उत्प्रेक्षा । प्रकृत-मृगमदादेर् विधि-लिपित्वेआन्यथाकृतिर् अपह्नुतिः ॥१०७॥
**सीमन्त-रेखाञ्च्य्-अरुणाम्बरावृतं
सैन्दूरम् अस्यास् तिलकं विभाति ।
करावगुण्ठाभिध-मुद्रयावृतं
ताम्रार्घ्य-पात्रं स-शिखं स्मरस्य वा ॥१०८॥ **
(उपमा)
अस्याः सिन्दूर-तिलकं सीमन्त-रेखया युक्तारुणाम्बरावृतं विभाति । किम् इव कामस्य स-शिखं ताम्रार्घ्य-पात्रं करेणावगुण्ठम् उपरि आच्छान्नं कृत्वा या मुद्रातया वृतम् । वा इवार्थे इव-शब्द उपमा-वाचकः । कामस्य कृष्ण-वर्णत्वेन सीमन्त-रेखायाः पार्श्व-द्वय-वर्ति-केश-रचनया अरुणाम्बरस्य कामस्य कर-द्वयेन सिन्दूर-तिलकस्य ताम्रार्घ्य-पात्रेण सीमन्त-रेखायाः सिन्दूर-कृतायाः ताम्रार्ध्य-पात्रस्य शिखरेण साम्यम् ॥१०८॥
**श्री-कृष्ण-हृन्-मत्त-मतङ्गजस्या-
विष्टस्य राधा-कच-काननान्तः ।
तद्-गण्ड-सिन्दूर-मदाभिषिक्तं
वर्त्मास्य सीमन्त-मिषाद् विभाति ॥१०९॥ **
(रूपकापह्नुती)
राधायाः कचाः केशा एव काननम्, तन्-मध्ये आविष्टस्य प्रविष्टस्य श्री-कृष्ण-मनो-रूप-हस्तिनः गण्ड-स्थ-सिन्दूर-मदाद् अभिषिक्तम् । “मदालि-सिक्तम्”इत्य् अपि पाठः । वर्त्म सीमन्त-मिषाद् विभाति । कृष्ण-मनसः हस्तित्वेन कचस्य काननत्वेन सीमन्तस्य वर्त्मत्वेन तादात्म्यम् अभेद-प्रतीती रूपकम् । मनः-कच-सीमन्तानां प्रकृतानां हस्त्य्-आदिनान्यथाकृतिर् अपह्नुतिः ॥१०९॥
श्री-राधाश्रयणात् सुखं निवसतोः केशानन-व्याजतो
ध्वान्तेन्द्वोर् हृदि शङ्कितं न हि गतं निर्वैरिणोर् अप्य् अहो ।
ध्वान्तं यन् निज-सीमनि भ्रमरक-व्यूहं पुरः स्वं भयाद्
इन्दुश् चालिक-सत्-कलाग्रग-निज-व्यूहं स्व-गुप्त्यै न्यधात् ॥११०॥
(रूपकापह्नुत्य्-अनुमानानि)
राधाश्रयणात् सुखं निवसतोः केश-च्छलात् ध्वान्तस्य आनन-च्छलात् इन्दोर् निर्वैरिणोर् अपि द्वयोर् हृदि शङ्कितं न हि गतम् । ध्वान्तम् अन्धकारः स्व-गुप्त्यै स्व-रक्षार्थं निज-सीमनि स्वं भ्रमरका अलकास् तत्र व्यूहः सैन्यं तं पुरोऽग्रे भयान् न्यधात् । इन्दुश् च स्व-गुप्त्यै अलिकं ललाटम् एव सत्-कला सैवाग्रगो निज-व्यूहः सैन्यं तं पुरो भयान् न्यधात् ।
केशस्य ध्वान्तेन आननस्य चन्द्रेण अलकानां सैन्येन ललाटस्य चन्द्र-कलया तादात्म्यं रूपकम् । प्रकृतानां केशादीनाम् अन्धकाराद्य्-आकारेणान्यथाकृतिर् अपह्नुतिः । स्व-स्व-सीमायां सैन्य-स्थापनं हेतुं कृत्वा चन्द्रान्धकारयोर् हृदि शङ्का-साध्यम् अत्रानुमानम् ॥११०॥
**अलक-मधुप-माला भाति या राधिकाया
मुख-कमल-मधूली-पान-लुब्धोपरिष्टात् ।
नयन-हरिण-युग्मारोधनायाघशत्रोर्
मदन-मृग-युनासौ लम्भिता वागुरात्वम् ॥१११॥ **
(रूपकोत्प्रेक्षे)
राधाया मुख-कमल-मधु-पान-लुब्धाया अलक-रूप-भ्रमर-माला भाति । असाव् अलक-भ्रम्र-श्रेणी मदन-व्याधेन नयन-हरिण-युग्मस्य रोधनाय बद्धार्थं वागुरात्वं लम्भिता । वागुरा मृग-बन्धनी इत्य् अमरः । कृष्ण-नेत्रे अलकायां पतिते सती तत्रैव तिष्ठतः, अन्यत्र गमनासामर्थ्यात् । अलकानां मधुपेन वागुरया च नयनस्य हरिणेन मदनस्य व्याधेन तादात्म्यं रूपकम् । राधा-मुख-मधुपान-रूप-हेत्व्-अन्तरस्य दानाद् भ्रमराद्य्-अपेक्षया अलकानाम् उत्कर्ष उत्प्रेक्षा ॥१११॥
**राधा-मनो-वृत्ति-लताङ्कुरा गताः
कृष्णस्य ये भावनया तद्-आत्मताम् ।
सूक्ष्मायताः प्रेम-सुधाभिषेकतस्
ते निःसृता केश-मिषाद् बहिर् ध्रुवम् ॥११२॥ **
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
ये राधाया-मनो-वृत्ति-लताया अङ्कुराः कृष्णस्य भावनया तद्-आत्मतां कृष्णतां गताः, ते प्रेम-सुधाभिषेकात् सूक्ष्मायताः सूक्ष्माश् च आयताः दीर्घाश् चेति तथा-भूताः सन्तः केश-मिषाद् बहिर् निःसृताः । केशस्य मनो-वृत्ति-लताङ्कुरेण तादात्म्यं रूपकम् । प्रस्तुतस्य केशस्य लताङ्कुरेण अन्यथाकृतिर् अपह्नुतिः । अन्य-केशात् कृष्ण-तादात्म्येन हेतुना उत्प्रेक्षा ॥११२॥
**स्व-श्रिया चामरान् पुष्णच्-छितिकण्ठ-कला-पदम् ।
कैश्यं वृन्दावनेश्वर्या विष्णोर् ऐश्यम् इवाबभौ ॥११३॥ **
(श्लेषोपमे)
राधायाः कैश्यं केश-समूहो विष्णोर् ऐश्यम् ईशस्य भाव ऐश्यम् इवाबभौ । उभय-साम्यम् आह—केश-पक्षे, स्व-कान्त्या चामरान्, विष्णु-पक्षे, अमरान् देवान् पुष्णत् शितिकण्ठस्य मयूरस्य कलापं पुच्छं दाति स्वकान्त्या खण्डयति तत् । दोअब-खण्डने । पक्षे महादेवस्य कलाया अर्धाङ्गस्य पदं स्थानम् । शितिकण्ठ-शब्दः श्लिष्टः, कैश्यं विष्णोर् ऐश्यम् इव । इव-शब्द उपमा-वाचकः ॥११३॥
**कृष्णाङ्ग-भासो निचिताः सुसूक्ष्माः
श्री-राधया या मनसा दृशा च ।
ता एव धम्मिल्ल-मिषेण वन्द्याः
पुञ्जीकृता मूर्ध्नि धृता विभान्ति ॥११४॥ **
(उत्प्रेक्षापह्नुती)
राधया मनसा दृशा च करण-भूतया सुसूक्ष्माः कृष्णाङ्ग-भासो या निचिताः निचित्य एकत्रीकृताः, ता एव वन्द्याः वन्दनीयाः पुञ्जीकृता धम्मिल्ल-मिषेण मूर्ध्नि धृता विभान्ति । वन्द्याः कृष्णाङ्ग-भास इति हेतुना धम्मिल्लस्य केश-बन्धस्योत्कर्ष उत्प्रेक्षा । धम्मिल्लस्य कृष्णाङ्ग-भाससान्यथाकृतिर् अपह्नुतिः ॥११४॥
**रत्नावली-कान्ति-सरस्वती-युता
मुक्ता-प्रसूनावलि-गङ्गयान्विता ।
निज-श्रियासौ यमुनायिता स्वयं
वेणी त्रिवेणीव बभौ नत-भ्रुवः ॥११५॥ **
(रूपकोत्प्रेक्षोपमाः)
नत-भ्रुवो राधाया वेणी रत्न-कान्त्या सरस्वती, मुक्ता-पुष्प-श्रेण्या गङ्गा । स्वयं वेणी निज-श्रिया यमुनायिता । सरस्वती-गङ्गा-यमुना त्रिवेणीव बभौ । वेण्याः त्रिवेण्य् अपेक्षयोत्कर्ष उत्प्रेक्षा । त्रिवेणी इव इति उपमा ॥११५॥
**विलास-विस्रस्तम् अवेक्ष्य राधिका-
श्री-केश-पाशं निज-पुच्छ-पिञ्छयोः ।
न्यक्कारम् आशङ्क्य ह्रियेव भेजिरे
गिरिं चमर्यो विपिनं शिखण्डिनः ॥११६॥ **
(उत्प्रेक्षा)
राधाया विलासेन विस्रस्तं केश-पाशं समीक्ष्य चमर्यो निज-पुच्छस्य मयूराः पिञ्छस्य न्यक्कारम् आशङ्क्य ह्रिया गिरिं कामनं च भेजिरे । केश-पशस्य चामर-पुच्छाद्य्-उत्कर्ष उत्प्रेक्षा ॥११६॥
**राधायाः कुङ्कुमानां परिमल-विततिर् निर्जिहीतेऽखिलाङ्गान्
नभि-भ्रू-केश-नेत्राद् अगुरु-मृगमदालिप्त-नीलोत्पलानाम् ।
वक्षः-श्रोत्रास्य-नासा-कर-पद-युगलाद् इन्दु-लिप्ताम्बुजानां
कक्ष-श्रेणी-नखेभ्यो मलयज-रस-संसिक्त-सत्-केतकीनाम् ॥११७॥ **
(दीपक-स्वभावोक्ती)
राधाया अखिलाङ्गात् कुङ्कुमानां परिमल-विततिः सुगन्ध-श्रेणी निर्जिहीते निर्गता भवति । नभि-भ्रू-केश-नेत्राद् अगुरु-कस्तूरी-लिप्त-पद्मानां कक्षादिभ्यश् चन्दन-सिक्त-केतकीनां परिमल-ततिर् निर्जिहीते । कुङ्कुमानां नीलोत्पलानाम् अम्बुजानां केतकीनाम् इत्य् आदि कारकस्य बहुत्वं निर्जिहीते इति क्रियैक्यम् अत्र दीपकम् । अङ्ग-गन्धस्य स्वभाव-कथनात् स्वभावोक्तिः ॥११७॥
**कृष्णेन्द्रियाह्लादि-गुणैर् उदारा
श्री-राधिका राजति राधिकेव ।
सर्वोपमानावलि-मर्दि-शीलान्य्
अङ्गानि वाङ्गानि च भान्त्य् अमुष्याः ॥११८॥ **
(अनन्वयालङ्कारः)
कृष्णेन्द्रियम् आह्लादयितुं शीलं येषां तादृशा ये गुणास् तैर् उदारा राधिका इव राधिका राजति । सर्वोपमानावलिं मर्दयतीति तच्-छीलं येषां तानि अमुष्याः राधाया अङ्गानि, वा इव अङ्गानि, भान्ति । एकस्यैवोपमानोपमेयत्वेऽनन्वयोपमा [अ।कौ। २३३] । अत्र राधाया एव उपमानोपमेयत्वम् ॥११८॥
**श्री-राधिकानन्य-समा लसत्य् असौ
माधुर्य-सम्पत्तिर् इवाघविद्विषः ।
माधुर्य-सम्पत्तिर् अपीयम् उच्चकैः
श्री-राधिकेवानुपमा विराजते ॥११९॥ **
(उपमेयोपमा)
अघविद्विषो माधुर्य-सम्पत्तिर् इवासौ राधिका लसति । न अन्या समा यस्याः सा अनन्य-समा । इयं कृष्ण-माधुर्य-सम्पत्तिर् अपि उच्चकैर् अनुपमा श्री-राधिकेव विराजते । विपर्यास उपमानोपमेययोर् द्वयोर् उपमेयोपमा [अ।कौ। २३४] । माधुर्य-सम्पत्तिः कृष्ण-राधिकयोर् द्वयोर् उपमेयोपमानयोर् अत्र विपर्यासः । आदौ माधुर्य-सम्पत्तिर् इव राधा । पश्चाद् विपर्यासः—रादिकेव माधुर्य-सम्पत्तिः ॥११९॥
**प्रेमा प्रमाण-रहितोऽनुपमा गुण-श्रीः
सौन्दर्य-सम्पद् असमा रुचिरं च शीलम् ।
तारुण्यम् अद्भुततमं सखि राधिकायाः
कृष्णः कथं न भविता वशगो गुणज्ञः ॥१२०॥ **
(सद्-योग-समुच्चयः)
गुणज्ञः कृष्णः राधिकाया वशगः कथं न भविता ? अत्र कारणम् आह—अस्याः प्रमाण-रहितः प्रेमा, गुण-श्रीर् अनुपमा, असमा सौन्दर्य-सम्पत्, शीलं रुचिरम्,
तारुण्यम् अद्भुततमम् ।
एकस्मिन् यत्र साधके साधकान्तर-निर्देशः स समुच्चय इष्यते [अ।कौ। २८६] । एष च सद्योगासद्योग-सदसद्योग-भेदात् त्रिधा । अत्र एक साधके राधिकाया प्रेम-गुण-श्री-सौन्दर्य्-सौशील्य-तारुण्यानां साधकान्तर-निर्देशानां योगेन सद्-योगः समुच्चयः ॥१२०॥
**पातिव्रत्यं क्व नु पर-वधूत्वापवादः क्व चास्याः
प्रेमोद्रेकः क्व च पर-वशत्वादि-विघ्नः क्व चायं
क्वैषोत्कण्ठा क्व नु बकरिपोर् नित्य-सङ्गाद्य्-अलब्धिः
मूलं कृष्ट्वा कषति हृदयं कापि शल्य-त्रयी नः ॥१२१॥ **
(सद्-असद्-योग-समुच्चयः)
कापि शल्य-त्रयी नोऽस्माकं मूलं कृष्ट्वा धृत्वा हृदयं कषति हिनस्ति । कष हिंसायां धातुः । शल्य-त्रयम् आह—अस्या राधायाः पातिव्रत्यं क्व, पर-वधूत्वापवादः क्व । अत्यन्तासम्ब्भावनायां क्व-द्वयम् । यत्रेदृशं पातिव्रत्यं तत्र पर-वधूत्वापवादस्य सम्भावना सर्वथैव न भवति इत्य् एकम् । प्रेमोद्रेकः क्व पर-वशत्वादि-विघ्नः क्व । पूर्ववत् यत्र प्रेमोद्रेकस् तत्र विघ्न-सम्भावनाभावो द्वितीयम् । एषा उत्कण्ठा क्व कृष्ण-नित्य-सङ्गाद्य्-अभावः क्व । अत्र सदैव मिलनाभावः तृतीयम् । पातिव्रत्य-प्रेमोद्रेकोत्कण्ठानां त्रयं सत्, अपवाद-विघ्न-सङ्गाभावानां त्रयम् असत् । सद्-असद्-योगेऽत्र समुच्चयः ॥१२१॥
का कृष्णस्य प्रणय-जनि-भूः श्रीमती राधिकैका
कास्य प्रेयस्य् अनुपम-गुणा राधिकैका न चान्या ।
जैह्म्यं केशे दृशि तरलता निष्ठुरत्वं कुचेऽस्या
वाञ्छा-पूर्त्यै प्रभवति सदामुष्य राधैव नान्या ॥१२२॥[^२६]** **
(चतुर्विध-परिसङ्ख्या)
कृष्णस्य प्रणयोत्पत्ति-भूमिः का ? एका श्रीमती राधिका । अत्र प्रश्न-पूर्वकम् आख्यानाख्या परिसङ्ख्या एक-विधा । अस्य कृष्णस्य का प्रेयसी अनुपम-गुणा ? राधिकैका, अन्या न । इत्य् अनेन तत् सामान्याया अन्य-प्रेयस्या व्यापोहनं दूरीकरणम् अत्र परिसङ्ख्या द्वितीया । अस्याः केशे जैह्म्यं कौटिल्यं हृदि न इति । अन्यासां हृदि कौटिल्यं केशे न इति तस्य व्यापोहनस्य प्रश्नं विना व्यङ्गत्वेन परिसङ्ख्या तृतीया । एवं दृशि तरलता कुचे निष्ठुरत्वं ज्ञेयम् । हरेर् वाञ्छा-पूर्त्यै एका राधिका प्रभवति नान्या । अत्र—
प्रश्न-पूर्वकम् आख्यानं तत्-सामान्य-व्यपोहनम् । तस्य तस्यापि च ज्ञेये व्यङ्गत्वे स्याद् अथापरम् । अप्रश्न-पूर्वं वाच्यं परिसङ्ख्या चतुर्विधा ॥ [अ।कौ। २९३] ॥१२२॥
प्रफुल्ल-पुन्नाग-कृताश्रया सदा
प्रफुल्लिताङ्गी मधुसूदनाश्रया ।
आमोद-पूर्णा वर-पत्र-भङ्गिका
वृन्दावनेऽसौ लसतीह राधिका ॥१२३॥
(समासोक्तिः)
इह वृन्दावनेऽसौ राधिका लसति । कीदृशी ? प्रफुल्लः पुन्नाग एव कृत आश्रयो यया सा । पुन्नागः कृष्णः । माधवी लता । पक्षे नाग-केशरश् च । मधुसूदनः कृष्णः भ्रमरश् च आश्रयो यस्याः सा । वर-पत्र-भङ्गे गण्डे चित्र-विशेषो यस्याः सा । पक्षे, श्रेष्ठः पत्रस्य भङ्गो यस्याः सा ।
विशिष्टैर् विशेषणैर् एव विशेष्यस्यान्यथा स्थितिः, सा समासोक्तिः [अ।कौ। २५१] । अत्र विशेष्यस्य राधिका-शब्दस्यान्यथा स्थितिर् माधवी-लता-रूपेण ॥१२३॥
**न दीक्षास्याः शिक्षा श्रवण-पठने वा गुरु-मुखात्
तथापीयं राधा त्रि-जगद्-अबला-विस्मय-भुवाम् ।
कलाम्भोधेः शौरेर् अपि परम-सन्तोषण-कृतां
कलानाम् आचार्या व्रज-मृग-दृशाम् अप्य् अजनि सा ॥१२४॥ **
(विभावना)
अस्या गुरु-मुखात् दीक्षा न शिक्षा न श्रवणं न पठनम्, न च तथापि सेयं राधा त्रि-जगद्-अबलानां विस्मय-भुवां कलानां कलाम्भोधेः कृष्णस्यापि परम-सन्तोषण-कृतां व्रज-मृग-दृशाम् अपि कलानाम् आचार्या अजनि ।
विभावना विना-हेतुउं कार्योत्पत्तिर् निगद्यते [सा।द।] । गुरोर् दीक्षादि-हेतु-रूप-क्रियाऽभावे यत् स्याद् विभावना ॥१२४॥
**तृणी-कृत-त्यक्त-कुलीन-नारी-
धर्मापि दूरोज्झित-भर्तृकापि ।
सती च याभीप्सित-सच्-चरित्रा
राधा विधात्रारचि चित्र-शीला ॥१२५॥ **
(विशेषोक्तिः)
विधात्रा राधा चित्र-शीला अरचि । चित्र-शीलताम् आह—या तृणीकृतश् चासौ त्यक्तश् च कुलीन-नारीणां धर्मो यया तथा-भूता भूत्वापि सती । दूरे उज्झितस् त्यक्तो भर्ता यया तादृशा भूत्वापि सती च, येनाभीप्सितं सच्-चरित्रं यस्याः सा च । विशेषोक्तिः कारणेषु सत्सु कार्यस्य नोदयः [अ।कौ। २७२] कुल-नारी-धर्म-त्यागे भर्तृ-त्याग-रूप-कारणे सत्य् अपि, असती असच्-चरित्रा इति कार्यस्यात्र नोदयः ॥१२५॥
**प्रजागर-स्वप्न-सुषुप्तिषु
श्री-गान्धर्विकायाः सततं हि नान्या ।
मनो-वपुर्-वाग्-अखिलेन्द्रियाणां
कृष्णैक-तानत्वम् ऋतेऽस्ति वृत्तिः ॥१२६॥ **
(तुल्य-योगिता)
गान्धर्विकाया राधाया जागर-स्वप्न-सुषुप्ति-दशा-त्रयेषु मनो-वपुर्-वाग्-अखिलेन्द्रियाणां वृत्तिः कृष्णैक-तानत्वं विना हि निश्चितं सततं नान्यास्ति । एक-तानोऽनन्य-वृत्तिर् इत्य् अमरः । वृत्तिस् तद्-आकारेण परिणतिः । प्रकृतानां चैकदोक्तिर् उच्यते तुल्ययोगिता [अ।कौ। २६६] । च-काराद् अप्रकृतानाम् । अत्र प्रकृतानां जागरादिषु मनो-वपुर्-वाग्-अखिलेन्द्रियानाम् एकदा कृष्णैक-तानत्वेन उक्तिः तुल्य-योगिता ॥१२६॥
**शफर-मृग-चकोरी-खञ्जनाम्भोज-भृङ्गी
निकर-मदन-वाण-श्रेणी नीलोत्पलानि ।
हरि-धृति-धन-चौरै राधिकायाः प्रवीणैः
सहज-नयन-लीला-नर्तनैर् निर्जितानि ॥१२७॥ **
(तुल्य-योगिता)
श्री-राधायाः सहजैर् नयनयोर् लीलया नर्तनैः । कीदृशैः ? प्रवीणैः हरि-धृति-धनानां चौरैः शफरादीनां निकरं समूहं तथा मदन-बाण-श्रेणी-नीलोत्पलानि च निर्जितानि । अप्राप्ति-पूर्ववत् तुल्ययोगिता । प्रकृतानां शफरादीनाम् एकदा नयन-लीला-नर्तनैर् निर्जितस्योक्तिस् तुल्ययोगिता ॥१२७॥
**चकोर-वापीह-सरोजिनीनां
पालिर् नभोऽरण्य-जलानि दीना ।
ह्रियेव भेजे कथम् अत्र हेतुं
कृष्णैक-ताने वद राधिके नः ॥१२८॥ **
(पर्यायोक्तिः)
चकोरश् च वापीहश् चातकश् च सरोजिनी च तासां पालिः श्रेणी दीना सती नभोऽरण्य-जलानि ह्रियेव कथं भेजे । अत्र हेतुं हे कृष्ण एक-ताने हे राधिके नोऽस्मान् त्वं वद । तव यथा कृष्णैक-तानता तथा चन्द्र-मेघ-सूर्येषु चकोर-चातक-कमलिनीनाम् एकतानता नेति हेतुः प्रतीतः ।
पर्याय-लक्षणम्, यथा—विना वाचक-वाच्यत्वं यत्र वस्तु प्रतीयते पर्यायोक्तं तत् [अ।कौ। २८३] । चकोरस्य चन्द्रे चातकस्य मेघे पद्मस्य सूर्ये एकतानता तथा न, यथा तव कृष्णे इत्य् आदि वाचक-वाच्य-शब्दं विनैव राधिकायां कृष्णैकतानता-रूप-प्रतीतिर् अत्र पर्यायोक्तिः ॥१२८॥
**राधे चकोरावलि-चातकाली-
सरोजिनीनां हृदि योऽतिगर्वः ।
सदैक-तानत्व-भवः स लुप्तः
कृष्णैक-तानत्वम् अवेक्ष्य तेऽभूत् ॥१२९॥ **
(पर्यायोक्तम्)
हे राधे चातकादिषु सदैक-तानत्व-भवोऽतिगर्वः, स गर्वस् ते कृष्णैक-तानत्वम् अवेक्ष्य लुप्तोऽभूत् । अत्रापि स गर्वो लुप्तोऽभूद् इत्य् उवाच । हे राधे तव यथा कृष्णैकतानत्वं तथा चातकादीनां नेति । वाच्य-शब्दं विनैव राधायाः कृष्णैकतानस्याधिक्य-प्रतीतिः पर्यायोक्तिः ॥१२९॥
गीर्-भूर्-लीला-युवतिषु वरैः सद्-गुणैः सार-भूतास्
ताभ्यः सा श्रीस् तत इह महा-प्रेम-गोपाङ्गनास् ताः ।
ताभ्यश् चन्द्रावली-मुख-लसद्-यूथ-नाथा अमूभ्यः
श्री-राधास्यां बत हि नितरां सोऽपि कृष्णः स-तृष्णः ॥१३०॥
(सारानुमानाभ्यां सङ्करः)
युवतिषु मध्ये वरैः सद्-गुणैर् गीर्-भूर्-लीलाः शक्तयः सार-भूताः । ताभ्यः सा श्रीर् लक्ष्मीः सार-भूता । तत इह व्रजे महत्-प्रेम यासां ता गोपाङ्गनाः सार-भूताः । ताभ्यश् चन्द्रावल्य्-आदि-यूथ-नाथास् ताभ्यः यद् यस्मात् अस्यां सोऽपि कृष्णः नितराम् अतिशयेन स-तृष्णः ।
सारः सावधिर् उत्कर्षो यद् भवेद् उत्तरोत्तरं [अ।कौ। २९९] । अत्र श्री-राधावधिर् उत्कर्षः सारः । स-तृष्णं कृष्णं हेतुं कृत्वा राधायां सारः साध्य इत्य् अनुमानम् । आभ्यां सङ्करः अङ्गाङ्गि-भावः । यतः श्री-राधा उत्तरोत्तर-सावधिर् उत्कर्षः सारः । तृष्णा आसक्तिर् अनुराग इत्य् अर्थः । कृष्णः श्री-राधिकानुरागवान् सर्व-शक्ति-सार-दर्शनात् । इति हेतुः । अतः श्री-कृष्ण-तृष्णानुमानम् । अत्र सारोऽङ्गी अनुमानोऽङ्गम् । एवम् अनुमानम् अङ्गि यथा, श्री-राधायां स-तृष्ण-कृष्णानुमानं विना उत्तरोत्तर-सावधिर् उत्कर्ष-ज्ञानं न भवेत् ॥१३०॥
**चन्द्रावली-प्रणय-रूप-गुणैः प्रयत्न-
व्यक्ती-कृतैर् व्यरचयत् स्व-वशं बकारिम् ।
श्री-राधिका तु सहज-प्रकटैर् निजैस् तैर्
व्यस्मारयत् तम् इह ताम् अपि हा कुतोऽन्याः ॥१३१॥ **
(व्याघातालङ्कारः)
चन्द्रावली प्रयत्नेन व्यक्तीकृतैः प्रणय-रूप-गुणैर् बकारिं स्व-वशं व्यरचयत् । राधा तु सहज-प्रकटैर् निजैस् तैर् गुणैः तं कृष्णं स्व-वशं व्यरचयत् । तां चन्द्रावलीम् अप् व्यस्मारयत् । हा इत्य् आश्चर्ये । अन्या स्त्रियः कुतो गणनायाम् ?
यद् वस्तु साधितं येन करणेन तद् अन्यथा । तेनैव यदि तस्य स्यात् तदा व्याघात इष्यते ॥ [अ।कौ। ३१५]
अत्र चन्द्रावल्या प्रयत्न-साध्यः कृष्ण-वशीकारः राधयान्यथा सहज-गुणैः कृत इति व्याघातः ॥१३१॥
**न दोष-लेशोऽपि गुणैर् लसन्त्यां
श्री-राधिकायाम् इति गीर् न सत्या ।
केशेषु कौटिल्यम् उरोज-कुम्भे
काठिन्यम् अक्ष्णोश् च यद् अस्ति लौल्यम् ॥१३२॥ **
(व्याज-स्तुतिः)
गुणैर् लसन्त्यां राधायां दोष-लेशोऽपि न इति गीर् वाणी न सत्या । तद् एवाह—केशेष्व् इत्य् आदि । मुखे स्तुतिः निन्दा वा हृदये व्याज-स्तुतिः स्यात् तत् तद् अन्यथा [अ।कौ। २७७] । अत्र राधायाः केशे कौटिल्यम् इति मुखे निन्दा हृदयेऽन्यथा स्तुतिः । केशे कौटिल्यस्य स्तुति-विषयत्वात् । एवं कुचे काठिन्यं नेत्रे लौल्यं ज्ञेयम् ॥१३२॥
**दृशौ चकोर्यौ सखि राधिकायाः
कृष्णाननेन्दोः स्मित-कौमुदीनाम् ।
पानान् मुखाम्बुरुहं यद् अस्मिन्
कृष्णाक्षि-भृङ्गौ पततः स-तृष्णौ ॥१३३॥ **
(अनुमानम्)
हे सखि ! राधिकाया दृशौ कृष्णाननेन्दोः स्मित-कौमुदीनां पानाद् धेतोश् च कार्यौ, मुखं चाम्बुजम्, यद् यस्मात् अस्मिन् राधा-मुखे कृष्णस्याक्सि-भृङ्गौ स-तृष्णौ सन्तौ पततः । कृष्ण-मुख-चन्द्र-चन्द्रिका-पानं हेतुं कृत्वा राधा-दृशि चकोरत्वं साध्यम् इत्य् अनुमानम् । एवं कृष्ण-नेत्र-भ्रमरस्य पतनं हेतुं कृत्वा राधा-मुखे पदत्वं साध्यम् इति चानुमानम् ॥१३३॥
**विनाप्य् आकल्पैः श्री-वृषरवि-सुता कृष्ण-सविधे
मुदोत्फुल्ला भावाभरण-वलितालीः सुखयति ।
विना कृष्णं तृष्णाकुलित-हृदयालङ्कृति-चयैर्
युताप्य् एषा म्लाना मलिनयति तासां तनु-मनः ॥१३४॥ **
(विनोक्तिः)
कृष्ण-निकटे वृषभानुजा आकल्पैर् भूषाभिर् विनापि मुदा हर्षेणोत्फुल्ला भाव-रूपाभरणेन युता च सती आलीः सखीः सुखयति । कृष्णं विना सालङ्कारापि म्लाना तासां सखीनां तनु-मनः मलिनयति ।
विनोक्तिः सा विनैकेनान्यस्य चेत् सद्-असत्-कृतिः [अ।कौ। २७९] । आकल्पैर् विना कृष्ण-निकटे राधा फुल्ला सत्-कृतिः । कृष्णं विना सालङ्कारा राधा म्लाना असत्-कृतिर् अत्र विनोक्तिः ॥१३४॥
**कृष्णः पुरः स्फुरति पार्श्व-युगे च पश्चाच्
चित्तस्य वृत्तिषु दृशोर् विषये च शश्वत्
श्री-गण्डयोश् च कुचयोस् तरले यतोऽस्याः
श्री-राधिका तद् इह कृष्ण-मयीति सत्यम् ॥१३५॥ **
(पर्यायः)
यतोऽस्याः पुरः पार्श्व-युगादिषु तरले हार-मध्यग-रत्ने च कृष्णः स्फुरति, तत् तस्मात् कृष्णमयी राधा इति सत्यम् ।
क्रमेणैकम् अनेकस्मिन् भवति क्रियतेऽथवा । अपि चानेकम् एकस्मिन् अद्वत् पर्यायम् ईष्यते ॥
अनेकस्मिन् पुरः पार्श्व-युगादौ एकस्य स्फूर्तिर् अत्र पर्यायः ॥१३५॥
कृष्णस्य सौन्दर्य-भरैर् विनिर्जितः
कामोऽस्य किञ्चित् प्रतिकर्तुम् अक्षमः ।
राधाम् इह प्रीति-मतीं विनिर्णयंस्
तां बाधतेऽद्धा तद्-अगोचरेऽबलाम् ॥१३६॥
(प्रत्यनीकम्)
कृष्ण-सौन्दर्यातिशयैर् पराभूतः कामः कृष्णस्य किञ्चित् प्रतिकर्तुम् असमर्थः तस्य कृष्णस्य असमक्षे असौ कामः इह कृष्णे प्रीति-मतीं राधां सम्बाधते ।
अपकार्यापकारार्थम् असमर्थेन तत्-प्रियम् । हिनस्ति यत् तदीयोक्तिः प्रत्यनीकं स्तवो यदि ॥ [अ।कौ। ३०५]
अत्रापकारी कामः । कृष्णापकारार्थम् असमार्थेन तदीयां राधाम् अबलां तत् तस्य कृष्णस्यागोचरे बाधते यत्, तदेव तदीय-वृन्दाया उक्तिः स्तव-रूपा प्रत्यनीकम् ॥१३६॥
**स्पृशति यदि मुकुन्दो राधिकां तत्-सखीनां
भवति वपुषि कम्प-स्वेद-रोमाञ्च-बाष्पम् ।
अधर-मधु मुदास्याश् चेत् पिबत्य् एष यत्नाद्
भवति बत तद् आसां मत्तता चित्रम् एतत् ॥१३७॥ **
(असङ्गतिः)
मुकुन्दो यदि राधां स्पृशति, तदा तस्या सखीनां वपुषि कम्पादयः सात्त्विक-विकारादयो भवन्ति । एष कृष्णः अस्या अधर-मधु चेत् पिबति, तदा आसां सखीनां मत्तता भवति । एतच् चित्रम् ।
अत्यन्त-भिन्नाधारत्वे युगपद् भाषणं यदि । धर्मयोर् हेतु-फलयोस् तदा सा स्याद् असङ्गतिः ॥ [अ।कौ। ३००]
राधाङ्ग-स्पर्शन-तद्-अधर-मधु-पान-रूप-हेतुः, तत्-सखीनाम् अङ्ग-रूपाभिन्नाधारे हेतु-जन्यं फलं ययोस् तयोर् धर्मयोः । राधा-स्पर्शाधर-पान-कम्पादि-मत्तता-रूपयोर् युगपद् भाषणम् अत्रासङ्गतिः ॥१३७॥
**कृष्णो वरीयान् पुरुषेषु सद्-गुणैः
श्री-राधिका स्त्रीषु गुणैः वरीयसी ।
सङ्गं विधातुस् त्व् अनयोः परस्परं
धातुर् नरीनर्ति गुणज्ञता-यशः ॥१३८॥ **
(समालङ्कारः)
पुंषु सद्-गुणैः कृष्णो श्रेष्ठः । राधा सद्-गुणैः स्त्रीषु श्रेष्ठा । अनयोः सङ्गं विधातुर् धातुर् गुणज्ञता यशः अतिशयं पुनः पुनर् वा नृत्यति । श्लाघ्यत्वेन भवेद् योग्यो यदि योगस् तदा समं [अ।कौ। ३०२] । अत्र राधा-कृष्णयोः श्लाघ्यो योग्यो योगः समम् ॥१३८॥
**इयं कृष्णाद् अङ्क-स्रजम् उरुम् उपादाय रुचिरां
वदान्यास्मै राधा सपदि मणि-मालाम् इह ददौ ।
निपीयास्याः कृष्णस् त्व् अधर-मधु दन्त-क्षतम् अधाद्
गृहीत्वाभ्यामान्यो दर तद् अवलोकं तनुम् अदुः ॥१३९॥ **
(परिवृत्तिः)
इयं राधा कृष्णाद् रुचिरां मनोहराम् उरुं श्रेष्ठाम् अङ्क-स्रजम् अङ्का नखाङ्कास् तेषां स्रजं मालां पुष्प-मालां वा अङ्के क्रोडे वक्षसि स्थितां मालां वा, अङ्क-रूपाम् अङ्केनालिङ्गन-रूपां मालां वा, उपादाय गृहीत्वा वदान्या राधा अस्मै श्री-कृष्णाय रुचिरां मणि-मालां दन्त-क्षत-रूपां कण्ठस्थं हारं वा ददौ । वदान्यो दातृ-महतोर् इत्य् अमरः । कृष्णस् तस्या अधर-मधु निपीय दन्त-क्षतम् अदात् । आल्यः आभ्यां राधा-कृष्णाभ्यां दर ईषत् तद्-अवलोकं गृहीत्वा तनुम् अदुः दत्तवत्यः । दर्शनेन पुलकादि-युक्तां चक्रुर् इत्य् अर्थः । मणि-माला स्मृता हारे स्त्रीणां दन्त-क्षतान्तरे इति विश्वः ।
समासमाभ्यां नियमः परिवृत्तिर् उदीर्यते [अ।कौ। २८०] अर्थयोर् अर्थानां वा समेनासमेन वा नियमः[^२७] परिवृत्तिः । अङ्क-स्रज-मणि-मालाभ्यां तथाधर-मधु-दन्त-क्षताभ्यां दर तद्-अवलोक-तद्-अनुदानाभ्याम् असमाभ्यां नियमः आदान-प्रदान-रूपः परिवृत्तिर् अत्र ॥१३९॥
**अन्यैव सौन्दर्य-समृद्धिर् अस्या
भङ्गी तथान्या वपुषो दृशोश् च ।
स्वान्तस्य चोल्लास-भरस् तथान्यो
राधैव सान्या प्रिय-सङ्गमेन ॥१४०॥ **
(द्वितीयातिशयोक्तिः)
प्रिय-सङ्गेन अस्याः सौन्दर्य-समृद्धिर् अन्यैव । तथा वपुषो दृशोश् च भङ्गी अन्यैव । मनसोल्लास-भरश् चान्यः । सा राधापि अन्यैव । तद् एवान्यतया यदि निरूप्यते, तदा सातिशयोक्ति-द्वितीया [अ।कौ। २५८] भवति । अत्र राधा सौन्दर्यादेर् अन्यतया निरूपणं द्वितीयातिशयोक्तिः ॥१४०॥
**स्व-सौरभामोदित-दिग्-वितानां
कौमल्य-सौन्दर्य-मरन्द-पूर्णाम् ।
पङ्केजनीं त्वां सखि चञ्चरीको
हित्वा कथं धावति केतकीं ताम् ॥१४१॥ **
(अप्रस्तुत-प्रशंसा)
सौरभ-युतां कौमल्यादि-पूर्णां पङ्केजनीं तां राधां पद्मं च हित्वा मधुसुदनः कृष्णः भ्रमरश् च तां केतकीं कौमल्य-सौन्दर्य-मकरन्द-रहिता स-कण्टकां नायिकां पुष्पं च कथं धावति ।
अप्रासङ्गिकस्य वाक् प्रासङ्गिक-कथायां स्याद् अप्रस्तुत-प्रशंसनं [अ।कौ। २५४] अप्रासङ्गिकस्याप्राकरणिकस्यार्थस्य वाक् कथनं यत् प्रासङ्गिक-कथायां तद् अप्रस्तुत-प्रशंसा स्यात्— कार्य-कारण-सामान्य-विशेषेषु तद्-अन्य-गीः । प्रस्तुतेषु च तुल्ये च तुल्यगीः पञ्चधैव तत् ॥ [अ।कौ। २५५] तद् अप्रस्तुत-प्रशंसनं प्रस्तुतेषु कार्यादिषु तद्-अन्य-गीः कारणादि-निरुक्तिः, च-काराद् अन्येषाम् अप्रस्तुत-प्रसङ्ग-तुल्ये प्रस्तुते तुल्यस्याप्रस्तुतस्य गीश् चेति पञ्चधा। कार्ये कारण-कथनम्, कारणे कार्य-कथनम्, सामान्ये विशेष-कथनम्, विशेषे सामान्य-कथनम्, तुल्ये तुल्यस्याप्रस्तुतस्य कथनम् इत्य् अर्थः ।
अत्र प्रासङ्गिक-राधा-गुण-कीर्तन-कथा-रूप-कारणे अप्रासङ्गिकस्य राधां त्यक्त्वा अन्य-नायिकायां कृष्ण-गमनाभाव-रूप-कार्यस्य कथनम् अप्रस्तुत-प्रशंसनं नामालङ्कारः ॥१४१॥
माधव्याः श्रीर् माधवेनैव रम्या
माधव्यैवोत्फुल्ला या माधव-श्रीः ।
इत्य् अन्योन्य-श्री-समुल्लास-हेतू
एतौ यद्वद् यामिनी-यामिनीशौ ॥१४२॥
(अप्रस्तुत-प्रशंसान्योन्य-समासाभ्याम् अङ्गाभ्यां सङ्करः)
माधवेन कृष्णेन वसन्त-ऋतुना च माधव्या राधायाः माधवी-लताश् च श्रीः रम्या भवति । एवम् उत्फुल्लया माधव्या एव माधवः श्रीर् उत्फुल्ला भवति । इत्य् अनेन प्रकारेणान्योन्य-श्रियोः समुल्लासे हेतुर् एतौ माधवी-माधवौ एतयोर् मिलन-कर्तुः प्रशंसाम् आह । युञ्जतो धातुर् अभिज्ञता आसीत् । अप्रासङ्गिकस्य वाक्-प्रासङ्गि-कथायां स्याद् अप्रस्तुत-प्रशंसनम् ।
कार्य-कारण-सामान्य-विशेषेषु तद्-अन्य-गीः । प्रस्तुतेषु च तुल्ये च तुल्यगीः पञ्चधैव तत् ॥ [अ।कौ। २५५]
पञ्चधा मध्ये विशेषे सामान्य-कथनं माधवी-माधवयोर् अस्य श्रियोः कारणं माधवो माधवी च इति प्रासङ्गिक-विशेष-कथायां धातुर् अभिज्ञता-रूपा प्रासङ्गिक-सामान्य-कथनम् अत्र प्रस्तुत-प्रशंसनं नामालङ्कारः ।
अन्योन्य-लक्षणं—क्रिययान्योन्य-कारणं वस्तु-द्वयं तद् अन्योन्यं [अ।कौ। २९५] वस्तु-द्वयं यदि क्रियया अन्योन्य-कारणं तदा अन्योन्यम् इत्य् उच्यते । क्रियया मिलनादिना माधवेन माधव्या श्री-माधव्या माधव-श्रीः रम्या स्यात् । वस्तु-द्वयम् अत्र राधा-कृष्णयोः श्रीः समुल्लासश् च तयो रम्यता कारणम् अन्योन्यम् ।
सम-लक्षणं—श्लाघ्यत्वेन भवेद् योग्यो यदि योगस् तदा समं [अ।कौ। ३०२] । अत्र माधव-माधव्योर् योगो योग्यः । श्लाघ्यश् चात्र समः । सङ्करस् त्व् अङ्गाङ्गि-भावः । अलङ्काराणाम् अङ्गाङ्गि-भावः सङ्करः स तु बहु-प्रकारः । अङ्गाभ्याम् अन्योन्य-समाभ्याम् अङ्गी अप्रस्तुत-प्रशंसनम् अत्र विशेषे सामान्य-कथन-रूपाप्रस्तुत-प्रशंसनस्य कथनाद् एव वस्तु-द्वयस्यान्योन्य-कारणम् अन्योन्यं भवेद् इति तथा माधव-माधव्योर् योग्यः श्लाघ्यश् च योग-रूप-समश् च सम्भवेद् इति ॥१४२॥
**दृष्ट्वा राधां निपुण-विधिना सुष्ठु केनापि सृष्टां
धाता ह्रीलः सदृशम् अनया यौवतं निर्मिमत्सुः ।
सारं चिन्वनसृजद् इह तत् स्वस्य सृष्टेः समास्या
नैकाप्य् आसीद् अपि तु समभूत् पूर्व-सृष्टिर् निरर्था ॥१४३॥ **
(विषमः)
केनापि निपुण-विधिना सुष्ठु सृष्टां राधां दृष्ट्वा धाता ह्रीणः लज्जितः सन् अनया सदृशं यौवतं निर्मिमित्सुः निर्माणं कर्तुम् इच्छुः स्वस्य सृष्टेः सारं चिन्वन् तत् यौवनम् असृजत् । अस्याः समानैकापि आसीत् । अपि तु पूर्व-सृष्टिर् निरर्था समभूत् ।
विषम-लक्षणं—
अत्यन्त-वैसादृश्येन योगो यद् अतिदुर्घटः । कर्तुः क्रिया-फलाभावः प्रत्युतानर्थ-सम्भवः ॥ गुण-क्रियाभ्यां ते एव कार्य-कारणयोश् च यत् । परस्परं विरुध्येते विषमः स चतुर्विधः ॥ [अ।कौ। ३०३]
अस्याः समा एकापि नासीद् इत्य् अनेन । पूर्व-सृष्टिर् निरर्था समभवद् इत्य् अनेन च । अत्र धातुः पूर्व-सृष्टि-रूप-क्रिया-फलाभावः । निरर्थ-रूपानर्थ-सम्भवोऽत्र विषमः ॥१४३॥
**निर्माय राधा-वदनं विधात्रा
दृष्ट्वाम्बुजेन्दू बहु-दोष-पूर्णौ ।
अशुद्धतां व्यञ्जयता तयोस्
तौ कृतौ द्वि-रेफाङ्कम् असी-विलिप्तौ ॥१४४॥ **
(प्रतीपः)
विधात्रा अस्या वदने विनिर्मिते अम्बुजेन्दू बहु-दोष-पूर्णौ दृष्ट्वा अशुद्धाक्षरं यथा मसी-लिप्तं करोति तथा तयोर् अम्बुज-चन्द्रयोर् अशुद्धतां सूचयता विधात्रा तौ पद्म-चन्द्रौ पद्मे द्विरेफः भ्रमरः चन्द्रे मृगाङ्क-रूप-मसी-विलिप्तौ कृतौ ।
प्रतीप-लक्षणं—
उपमानस्य धिक्कार उपमेय-स्तुतौ यदि । प्रतीपम् उपमानस्य धिक्कृत्यै चोपमेयता ॥ [अ।कौ। ३१०]
उपमानयोर् अम्बुजेन्द्वोर् धिक्कारः । उपमेयस्य राधा-वक्त्रस्य स्तुतौ प्रतीपः ॥१४४॥
**राधा-गुणानां गणनाति-गानां
वाणी-वचः-सम्पद-गोचराणाम् ।
न वर्णनीयो महिमेति यूयं
जानीथ तत्-तत्-कथनिर् अलं नः ॥१४५॥ **
(आक्षेपः)
राधा-गुणानां महिमा न वर्णनीयः इति यूयं जानीथ नोऽस्माभिस् तत्-तत्-कथनैर् अलं व्यर्थम् । अत्र हेतु-गर्भ-विशेषणम् आह । गणनाम् अतिक्रम्य गच्छन्तीति गणनातिगास् तेषाम् अन्यस्य का वार्ता वाणी सरस्वती तस्या वचः सम्पदोऽगोचराणाम् ।
आक्षेपो वक्तुम् इष्टस्य यो विशेष-विवक्षया । निषेधो वक्ष्यमाणत्वेनोक्तत्वेन च स द्विधा ॥ [अ।कौ। २७०]
वक्तुम् इष्टस्य राधा-गुण-महिम्नो विशेषं वक्तुम् इच्छया उक्तो निषेधोऽत्र आक्षेपालङ्कारः ॥१४५॥
इत्थं सालङ्कार काव्यैः सहासं
कृष्णः कान्तां वर्णिताङ्गीं सखीभिः ।
पश्यन् फुल्लत् सङ्कुचद् भुग्न नेत्रां
नेत्र श्रुत्योस् तृप्तिम् उच्चैर् अवाप ॥१४६॥
इत्थं सखीभिः सहासं यथा स्यात् तथा सालङ्कार-काव्यैर् वर्णिताङ्गीं कान्ताम् उल्लासेन फुल्लल्-लज्जया सङ्कुचत्-क्रोधेन भुग्नं च नेत्रं यस्यास् ताम् । पश्यन् कृष्णः नेत्र-श्रुत्योर् उच्चैस् तृप्तिम् अवाप ॥१४६॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
श्री-राधा तनु वर्णनामय इतः सर्गोऽयम् एकादशः ॥
॥११॥ ॥।
(१२)