षष्ठः सर्गः
प्रविष्टोऽथ वनं पश्चात् पश्यन् वलित-कन्धरम् ।
उज्जिजृम्भे हरिर् वीक्ष्य निवृत्तान् व्रज-वासिनः ॥१॥
अथानन्तरं हरिर् वक्र-कन्धरं यथा स्यात् पश्चात् भागं पश्यन् निवृत्तान् व्रज-राज-मुखान् व्रज-वासिनो वीक्ष्य वनं प्रविष्टः सन् उज्जिजृम्भे हर्षोत्फुल्लोऽभूत् ॥१॥
कृष्ण-मत्तेभ उन्मुक्तो घोष-दृग्-दृढ-शृङ्खलात् ।
उच्छ्वसंश् चपलः स्वैरी काननेऽन्य इवाभवत् ॥२॥
घोष-निवासिनां दृग् एव दृढ-शृङ्खलं तस्माद् उन्मुक्तः कृष्ण-मत्तेभ उच्छ्वसन् उत्प्लुत्य गच्छन् श्वस-प्लुत-गतौ धातुः । अन्य इव कानने चपलः स्वैरी स्वेच्छाचारी चाभवत् । अनेन घोष-वासिनां प्रेमाधीनत्वं स्वत एव आयातम् ॥२॥
श्री-कृष्ण-सच्-चित्र-पटे विमोचिते
व्रजाक्षि-बन्धाद् वन-चित्र-कारिणा ।
प्रादुर्बभूवुर् नयनोत्सवानि
तद्-विहार-चित्राणि शुभान्य् अनेकधा ॥३॥
वन-रूप-चित्र-कारिणा कर्त्रा व्रजाक्षि-बन्धात् श्री-कृष्ण एव सच्-चित्र-पटस् तस्मिन् विमोचिते सति शुभानि मङ्गलानि नयनोत्सवानि नयनानाम् उत्सवो येभ्यस् तानि चित्राणि अनेकधा अनेक-विधानि तत् तस्य श्री-कृष्णस्य विहार-रूप-चित्राणि प्रादुर्बभूवुः । व्रजाक्षि-बन्धात् मुक्त इत्य् अनेन तेषां गौरवेण तादृशी लीला न भवति ॥३॥
नृत्यन्ति गायन्ति हसन्ति गोपाः
कूर्दन्ति नन्दन्ति परिस्खलन्ति ।
नर्माणि तन्वन्ति लसन्त्य् अथैते
बन्धाद् विमुक्ताः कलभोत्तमा वा ॥४॥
गोपाः नृत्यन्ति नर्माणि तन्वन्ति एते गोपाला बन्धाद् विमुक्ताः । कलभोत्तमाः करि-शावक-श्रेष्ठाः । वा इवार्थे । हस्ति-बालका बन्धाद् विमुक्ताः, यथा यथेष्टयाचरन्ति तथेत्य् अनेन यथेष्टाचरणां सेवनांशे च दृष्टान्तः ॥४॥
स्थितिं स्थिरां मातृ-पुरो बकारेर्
एकेऽङ्गनास्व् अस्य दृशं च लोलाम् ।
सङ्घट्ट-दृष्टाम् अनुकुर्वतेऽन्ये
चेष्टां गिरं च स्खलितां जनानाम् ॥५॥
माता-प्रेयस्योर् अग्रे श्री-कृष्णस्य यादृशं स्थिति-दृष्ट्योः स्थैर्यं चाञ्चल्यं च । मातृ-पुरो मातॄणाम् अग्रे अस्य बकारेः स्थितिं स्थिरां, दृशं च स्थिराम् । तथा अङ्गनासु प्रेयसीषु स्थितिं लोलां दृशं च लोलां वात्सल्य-मधुर-भाव-जन्याम् । एके सखायः अनु कुर्वते । अनु तत्-सदृशीं स्थितिं स्थिरां दृशं च स्थिरां लोलां च कुर्वते । अन्ये सखायः जनानां तद्-भिन्न-जनानाम् अग्रे श्री-कृष्णस्य सङ्घट्टां क्वापि समये लोला क्वापि क्वापि समये समां स्थिरां स्थितिं दृशं च यथा दृष्टि-गोचरीं तादृशीम् अनु कुर्वते । तथा मातृ-प्रेयस्य्-आदीनाम् अग्रे वात्सल्यादि-भार-वशात् क्वापि समये श्री-कृष्णस्य स्खलितां गिरं चेष्टां च अनुकुर्वते ।
ननु व्रज-परिकराणां चेष्टा-मात्रम् अपि श्री-कृष्ण-सुख-तात्पर्यकम् एव । ये श्री-कृष्ण-सुख-तात्पर्यक-चेष्टावन्तो, न ते परिकरा एव, न पूर्व-श्लोकोक्त-नृत्यादिकं श्री-भागवतोक्तं सुख-करं च । अत्रोक्त-श्री-कृष्णस्य स्थित्य्-आदेर् अनुकरणेन श्री-कृष्णस्य का प्रीतिर् भवेत् ? उच्यते श्री-कृष्णाविष्ट-चित्तानां व्रज-सुन्दरीणां मधुर-रसवतीनां श्री-कृष्णस्य परोक्षे रास-लीलायां कस्याश्चित् पूतनायन्त्याः कृष्णायन्त्य् अपिबत् स्तनम् [भा।पु। १०.३०.१५] इत्य् आदि भयानकासुर-वधादि-लीलानुकरणं कृष्णाकर्षकं कृष्ण-सुखदं चाभूत् । श्री-कृष्ण-सखीनां श्री-कृष्ण-सन्निधौ परमानन्द-मयं श्री-कृष्णस्य स्थिर-चाञ्चल्यादि-लीलानुकरणं सख्य-रसस्य परम-पुष्टि-करम् असङ्ख्य-श्री-कृष्ण-सुखदं भवेद् एवेति किम् आश्चर्यम् ॥५॥
केचिद् वृक्ष-लतावृताः प्रचपलापाङ्गैः स्मितार्द्रं मनाग्
उद्घाट्याम्बर-संवृताननम् अमुं गोपाल-योषायिताः ।
पश्यन्तो व्यहसन् परे च धवला लेखायमाना मुदा
व्यालम्ब्याङ्घ्रि-करैर् महीं विलुलित-ग्रीवोर्ध्व-कर्णाननाः ॥६॥
केचिद् गोपा गोपालानां योषित इवाचारिताः । आचरणम् आह—वृक्ष-लताभिर् आवृताः । स्मितेनार्द्रम् अम्बरेण आवृतं च मुखं मनाग् उद्घाट्य अमुं श्री-कृष्णं प्रचपलापाङ्गैः पश्यन्तो व्यहसन् । परे च गोपा अङ्घ्रि-करैर् महीं व्यालम्ब्य धवला लेखायमाना गवाकारा भूत्वा गाव इव आचरिताः । विवलित-वक्री-कृत-ग्रीवाश् च ते ऊर्ध्व-कर्णाननाश् च भूत्वा अमुं श्री-कृष्णं च पश्यन्तो व्यहसन् । श्रेणी लेखास् ते राजय इत्य् अमरः ॥६॥
वितण्डा-पण्डिताः केचित् तत्-तच्-छब्दार्थ-खण्डनैः ।
दण्डादण्डि-रणैर् अन्ये दोर्-दण्ड-सङ्गरैः परे ॥७॥
क्षिप्तानेकास्त्र-काण्डौघैर् दण्ड-भ्रमण-कौशलैः ।
लास्यैर् हास्यैः परे दास्यैस् तोषयामासुर् अच्युतम् ॥८॥
वितण्डा पर-मत-खण्डनं तत्र पण्डिताः केचित् गोपाः । तत् तत् कृष्णादिभिर् उक्तं यद् यत् तेषां तेषां शब्दार्थानां खण्डनैः । दण्डेन दण्डं सन्ताड्य वृत्तै रणैर् दण्डादण्डि-रणैः । दोर्-दण्डाभ्यां हस्त-रूप-दण्डाभ्यां सङ्गरैर् युद्धैः क्षिप्तैर् अनेकास्त्रैः काण्डौघैश् दण्ड-भ्रमण-कौशलैः । लास्यैर् नृत्यैर् हास्यैर् दास्यैस् तेऽच्युतं तोषयामासुः । काण्डोऽस्त्री दण्ड-बाणार्व-वर्गावसर-वारिषु इत्य् अमरः ॥७-८॥
अथागतं कृष्णम् अवेक्ष्य वृन्दा
वृन्दाटवीं तद्-विरहात् विषण्णाम् ।
वृन्दं च साऽबोधयद् आकुलानां
वृन्दावन-स्थावर-जङ्गमानाम् ॥९॥
वृन्दा आगतं श्री-कृष्णम् अवेक्ष्य तत् तस्य कृष्णस्य विरहात् विषण्णां वृन्दाटवीम् । तथा श्री-कृष्ण-विरहात् आकुलानां वृन्दावन-स्थावर-जङ्गमानाम् वृन्दं चाबोधयत् ॥९॥
अटवि सखि समायान् माधवोऽसौ समन्तात्
विसृज विरह-घूर्नां तूर्णम् उल्लालसीहि ।
स्व-गुण-गण-विकाशैः स्वेश्वरीं स्मारयामुं
सफलय निज-लक्ष्मीं चानयोः सद्-विलासैः ॥१०॥
हे सखि अटवि असौ माधवः श्री-कृष्णः वसन्तश् च समायात् विरहोज्जन्यां घूर्णां विसृज तूर्णम् उल्लालस-युक्ता भव । स्वेश्वरीं श्री-राधां स्व-गुण-गण-विकाशैर् अमुं श्री-कृष्णं स्मारय । अनया राधा-कृष्णयोः सद्-विलासैः निज-लक्ष्मीं सफलय ॥१०॥
प्रबुध्यध्वं वल्ल्यो विकसत नगाः कूर्दत मृगाः
पिका भृङ्गैर् गानं कुरुत शिखिनो नृत्यत मुदा ।
अधीध्वं भोः कीराः स्थिर-चर-गणा नन्दत चिरं
समायातो युष्मान् सुखयितुम् असौ वः प्रियतमः ॥११॥
हे वल्ल्यः ! प्रबुध्यध्वम् । हे नगाः कूर्दत प्लुत्य गच्छत एवम् अग्रेऽपि ते स्फुटार्थाः । असौ प्रियतमः श्री-कृष्णः वो युष्मान् सुखयितुं समायातः ॥११॥
ततः स्व-विच्छेद-दवाग्नि-मूर्च्छितां
समीक्ष्य तां चेतयितुं प्रियाटवीम् ।
कृष्णाम्बुदः स्वागमनं च शंसितुं
ववर्ष वंशी-निनदामृतान्य् असौ ॥१२॥
असौ कृष्णाम्बुदः स्व-विरह-मूर्च्छितां प्रियाटवीं वीक्ष्य तां चेतयितुं स्वागमनं च शंसितुं वंशी-निनादामृतानि ववर्ष ॥१२॥
वंशी-निनादामृत-वृष्टि-सिक्ता
कृष्णाङ्ग-सङ्गानिल-वीजताथ ।
श्री-वृन्दयाल्या च सुचेतितोच्चैर्
वृन्दाटवी सा सहसोन्मिमील ॥१३॥
वृष्टि-सिक्ता वायु-वीजता सुचेतिता च सा वृन्दाटवी सा उन्मिमील ॥१३॥
सत्त्व-धर्म-विपर्यासैर् वेणु-नादामृतोत्थितैः ।
स्व-सात्त्विक-विकारैश् च तदाभूद् व्याकुलाटवी ॥१४॥
वेणु-नादामृतोत्थितैः सत्त्वानां प्राणिनां धर्म-विपर्यासैः जङ्गमानां स्थावर-धर्मैः स्थावराणां जङ्गम-धर्मैः स्व-सात्त्विक-विकारैश् चाटवी व्याकुला व्याप्ताभूत् ॥१४॥
प्रोद्यद्-वेपथुर् उच्चलं स्थिर-चरैः स्तब्धा जडैर् जङ्गमैः
प्रस्विन्ना स्रवद्-अश्रु-जाल-सलिलैः श्वेता प्रसूनोत्करैः ।
साश्रुः पुष्प-मधु-द्रवैः स्वर-भिदा युक्ता खगाली रवै
रोमाञ्चालि युता लताङ्कुर-चयैर् वृन्दाटवी सा बभौ ॥१५॥
व्याकुलताम् आह । सा वृन्दाटवी बभौ । कथं ? तत्राह—उच्चलद्भिः स्थिर-चरैः प्रोद्यद्-वेपथुः कम्पो यस्याः सा । जडैर् जङ्गमैः स्तब्धा । स्रवद्-अश्रु-समूह-जलैः प्रस्विन्ना स्वेद-युक्तः । प्रसूनोत्करैः श्वेता विवर्णा पुष्प-मधु-स्रवैः साश्रुः। पक्षि-समूह-शब्दैः स्वर-भेद-युक्ता । लताङ्कुर-चयैः रोमाञ्च-युक्तैः॥१५॥
मण्डिता विशतैकेन जाग्रतान्येन साटवी ॥
माधवेनाबभौ द्रष्टुं तं शोभा श्रीर् इवागता ॥१६॥
सा वृन्दाटवी एकेन विशता माधवेन कृष्णेनान्येन जाग्रता माधवेन वसन्तेन च मण्डिता सती तं श्री-कृष्णं द्रष्टुम् आगता शोभा श्रीर् इवाबभौ । अत्र चाभावो न्यून-पदत्वम् ॥१६॥
कूजद्-भृङ्ग-विहङ्ग-पञ्चम-कलालापोल्लसन्ती हरेश्
च्योतत्-पक्त्रिम-सत्-फलोत्कर-रसोल्लासाटवी साभवत् ।
सम्फुल्लन्-नलिनी-विलासि-विहसद्-वल्ली-मतल्ली-नटी
लास्याचार्य-मरुद्-गणातिमुदिता सर्वेन्द्रियाह्लादिनी ॥१७॥
साटवी हरेः सर्वेन्द्रियाह्लादिनी अभवत् । कीदृशी ? कूजद्-भ्रमर-पक्षिणां पञ्चमः स्वरः उच्चैः स्वरस् तस्य कला वैदग्ध्यं यत्र तेनालापेन उल्लसन्ती उल्लास-युक्ता अनेन कर्णेन्द्रिय-सुखदा । च्योतता क्षरता पक्त्रिमाणां सुपक्वानां फलानाम् आम्रादीनाम् उत्कर-रसोल्लासो यस्या अनेन रसनेन्द्रिय-सुखदा सम्फुल्लन्-नलिन्यां विकसित-पङ्कजे विलसितुं शीलं यस्य तथा-भूतश् चासौ विहसद्-वल्ली विकसत्-पुष्प-युक्ता लता, सैव मतल्ली प्रशस्ता नटी तस्या लास्यस्य नर्तनस्याचार्यो यो मरुद्-गणः तेनातिमुदिता इत्य् अनेन च घ्राणेन्द्रिय-नेत्रेन्द्रियाणां सुखदा ॥१७॥
पुष्पैर् हास्यं भ्रमरैर् गानं
पर्णैर् लास्यं मधुभिः पानम् ।
दधतस् तरवः स्व-फलैः खानं
कुर्वन्त्य् अभ्यागत-हरि-मानम् ॥१८॥
तरवो वृक्षाः पुष्पैर् हास्यं दधतः पर्णैः खानं भोजनम् अभ्यागतश् चासौ हरिश् च तस्य मानं कुर्वन्ति ॥१८॥
अलि-गायक-चुम्बित-कुसुमास्यं
पल्लव-पट-वृत-विवृत-सुहास्यम् ।
दधती रहसि विदधती लास्यं
व्यवृणुत वल्ली-ततिर् अपि दास्यम् ॥१९॥
वल्ली-ततिर् अपि इत्य् अत्रापि शब्देनाभ्यास-गत-हरि-मानं दास्यं व्यवृणुत । किं कुर्वती ? अलि-गायकैश् चुम्बितं कुसुम-रूप-मुखं दधती । कीदृशं ? तत् पल्लव-रूप-पटेन वृतम् आवृतं विवृतं विकसितं सुहास्यं यत्र । रहसि लास्यं विदधती ईदृशी चेष्टा एव वल्ली-रूप-नायिकानां दास्यम् एतादृश-वल्ली-दर्शनेन कृष्ण-सुखोत्पत्ते ॥१९॥
स्व-रमण-सहितानां वेणु-नादाहृतानां
तृण-कवल-मुखानां चञ्चलालोकनानि ।
हरिर् अथ हरिणीनां वीक्ष्य राधा-कटाक्षैः
स्मृति-पथम् अधिरूढैर् विव्यथे विद्ध-मर्मा ॥२०॥
स्व-रमण-सहितानां हरिणीनां चञ्चलालोकनानि वीक्ष्य स्मृति-पथम् अधिरूढैर् राधा-कटाक्षैः विद्ध-मर्मा हरिर् विव्यथे ॥२०॥
प्रेम्णानृत्यत् फुल्ल-मयूरी-तति-युक्तः
कृष्णालोकान् मत्त-मयूर-व्रज आरात् ।
स्निग्धे राधा-केश-कलापे रति-मुक्ते
यत् सत्-पिञ्छैर् आशु मुरारेः स्मृतिर् आसीत् ॥२१॥
कृष्णालोकात् मयूरीभिः मयूर-व्रज आरात् समीपे प्रेम्णा अनृत्यत् । यद् यस्य मयूर-व्रजस्य सत्-पिञ्छैर् रतेर् मुक्ते स्खलिते स्निग्धे राधायाः केश-कलापे तद्-विषये मुरारेर् आशु स्मृतिर् आसीत् ॥२१॥
मद-कल-कलविङ्की-मत्त-कादम्बिकानां
सरसि च कल-नादैः सारसानां प्रियायाः ।
वलय-कटक-काञ्ची-नूपुरोद्यत्-स्वनोर्मी-
भ्रम-चुलुकित-चित्तोऽभ्यागतां तां स मेने ॥२२॥
सरसि वीनां पक्षिणां रावैः शब्दैः मद-कल-कलविङ्की मदोत्कट-चटकी तासां मत्त-कादम्बिकानां हंसीनां सारसानाम् अपि शब्दैः प्रियायाः राधायाः वलयादीनां स्वनोर्मी-भ्रमेण । चुलुकितं ग्रस्तं चित्तं यस्य स श्री-कृष्णः आगतां तां राधां मेने । चटकी-शब्देन वलय-शब्द-ज्ञानं हंसी-शब्देन कटक-शब्द-ज्ञानं विविध-पक्षिणः शब्देन काञ्ची-ज्ञानं सारसानां प्रियायाः शब्देन नूपुर-शब्द-ज्ञानम् । यद् वा, आरवाराव-संराव-विरावा इत्य् अमरः । विरावैः शब्दैः तत्र सारसानां तत्-प्रियायाश् चेति पृथग् उपमेति ॥२२॥
उपरि-चपल-भृङ्गं पद्मम् ईषत्-प्रकाशं
वर-परिमल-पूरं शश्वद् आलोक्य कृष्णः ।
स्मित-शवल-कटाक्षं पद्म-गन्धं प्रियाया
मुखम् इदम् इति मत्वा ताम् उपेतां विवेद ॥२३॥
अत्र यथा-क्रमं ज्ञेयं कृष्ण ईषत् प्रकाशो यस्य तद्-उपरि चपल-भ्रमरो यस्य तद् वर-परिमलस्य दूर-गामि-सुगन्धस्य पूरः समूहो यस्य तत् पद्मं शश्वद् आलोक्य प्रियायाः स्मित-हसति-कटाक्ष-सुगन्धं च मुखम् इदम् मत्वा तां प्रियाम् आगतां विवेद ॥२३॥
रुचक-करक-बिल्वैर् नागरङ्गैः सुपक्वैः
प्रतिदिशम् अनुदृष्टैर् हर्ष-तर्षाकुलोऽसौ ।
सपदि लसद्-उरोज-भ्रान्ति-सम्भ्रान्त-चेता
वपुष इह विभुत्वं राधिकायाः शशङ्के ॥२४॥
रुचकैः बीज-पूरैर् व्रजे विजोराख्यैः । फल-पूरो बीज-पूरो रुचको मातुलुङ्गके इत्य् अमरः । करकैर् दाडिमैः बिल्वैर् नागरङ्गैः नारङ्गीति ख्यातैः । सुपक्वैर् इत्य् अनेन वर्ण-साम्य-युक्तम् । प्रति दिशं दिशं प्रति । ननु दृष्टैर् हेतुभिर् हर्ष-तर्षाकुलः कृष्णः राधिकायाः स्तन-भ्रान्त्या भ्रान्त-चेताः स इह राधा-वपुषो विभुत्वं सर्व-व्यापकत्वं शशङ्के ॥२४॥
यतो यतः पतति विलोचनं हरेस्
ततस् ततः स्फुरति तद्-अङ्ग-संहतिः ।
न चाद्भुतं तद् इह तु यद् व्रजाटवी
मुदे हरेर् अलभत राधिकात्मताम् ॥२५॥
यत्र यत्र हरेर् विलोचनं पतति, तत्र तत्र तस्या राधायाः अङ्गस्य संहतिः समूहः स्फुरति । व्रजाटवी हरेर् मुदे आनन्दार्थं यद् अलभत तत् त्व् इह व्रजाटव्याम् अद्भुतं न ॥२५॥
तैर् उद्दीपित-भावाली वात्ययोच्चालितं मनः ।
शशाक न स्थिरी-कर्तुं काश-पुष्प-निभं हरिः ॥२६॥
हरिस् तं राधाङानुभवैर् उद्दीपित-भावाली सैव वात्या वायु-समूहस् तेन उच्चालितं मनः स्थिरी-कर्तुं न शशाक किम् इव । काशस्य तृण-विशेषस्य पुष्पम् इव ॥२६॥
वृन्दावन-स्थिर-चरान् स्वालोक-प्रेम-विह्वलान् ।
प्रेम्ना हृष्ट-मनाः कृष्णः प्रेक्ष्य तान् मुमुदे भृशम् ॥२७॥
वृन्दावनीय-स्थावर-जङ्गमान् स्वस्य श्री-कृष्णस्यालोकेन प्रेम-विह्वलान् तान् वीक्ष्य श्री-कृष्णः प्रेम्नाकृष्ट-मनाः सन् भृशं मुमुदे ॥२७॥
सख्यः किं कुशलं लताः क्षिति-रुहाः क्षेमं सखायः शिवं
मृग्यः किं भविकं मृगाः शकुनिकाः भव्यं शकुन्ताः शुभम् ।
भृङ्ग्यः शं भ्रमराः सुखं स्थिर-चराः स्व-श्रेयसं वः सदा
प्रेम्णेत्थं वन-सङ्गतान् सरभसं पप्रच्छ सर्वान् हरिः ॥२८॥
हे सख्यः लताः ! वो युष्माकं किं कुशलं ? किं प्रश्ने । हे सखायः क्षिति-रुहाः वृक्षाः ! वः क्षेमम् । हे मृग्यः ! वः किं शिवं ? हे मृगाः ! वः भविकम् । हे शकुनिकाः ! वः भव्यम् । हे शकुन्ताः पक्षिणः ! वः शुभम् । हे भृङ्ग्यः ! वः शं सुखम् । हे भ्रमराः ! वः सुखम् । हे स्थिर-चराः ! वः सदा स्व-श्रेयसं स-रभसं स-हर्षम् इत्थं सर्वान् हरिः पप्रच्छ ॥२८॥
प्रचार्य गाश् चारयितुं क्षुधार्ता
गोवर्धन-क्ष्माभृद्-उपत्यकायाम् ।
मनोऽनुधावद् दयितां निवर्तयन्
समं वयस्यैर् विजहार कृष्णः ॥२९॥
गोवर्धन-पर्वतस्योपत्यकायां गोवर्धनस्य समीप-वर्ति-भूमौ क्षुधार्ताः गाश् चारयितुं प्रचार्य दयितां राधाम् अनुधावन् मनः निवर्तयन् वयस्यैः समं कृष्णो विजहार ॥२९॥
स्व-कल्पितैर् लोक-चय-प्रसिद्धैर्
हरिर् विहारैर् वन-शोभया च ।
शशाक राधा-विरहातितप्तं
स तां प्रधावन् न मनो निरोद्धुम् ॥३०॥
स हरिः स्व-कल्पितैर् लोक-समूहेषु च प्रसिद्धैर् विहारैर् वन-शोभया च राधा-विरहातितप्तं तां राधां प्रधावन् मनः निरोद्धुं न शशाक ॥३०॥
तान् वीक्ष्य कृष्णः कृपयार्द्र-चित्तस्
तैस् तैर् विहारैश् च मिथो नियुद्धैः ।
श्रान्तान् क्षुधार्तान् अथ भोजनेच्छून्
इयेष सम्भोजयितुं वयस्यान् ॥३१॥
तैस् तैः पूर्वोक्तैर् विहारैर् मिथः परस्परं नियुद्धैर् बाहु-युद्धैश् च श्रान्तान् क्षुधार्तान् । भोजनेच्छून् वयस्यान् वीक्ष्य तान् सम्भोजयितुम् इयेष इच्छाञ्चकार ॥३१॥
तावद् धनिष्ठा घृत-पक्वम् अन्नं
प्रातः कृतं यल् ललितादिभिस् तत् ।
दत्तं रसाला-सहितं जनन्या
दासीभिर् आदाय समाजगाम ॥३२॥
ललिताभिः प्रातः कृतं यत् घृत-पक्वम् अन्नं तत् रसालादिभिः सह जनन्या दत्तं धनिष्ठा-दासीभिर् आदाय गृहीत्वा तावत् तदा समाजगाम ॥३२॥
तां वीक्ष्य हृष्टः स हरिर् बभाषे
किं मे धनिष्ठे पितरौ सुखं स्तः ।
सुस्नातम् आभ्यां विहितेश-पूजा
प्रतोष्य सर्वान् वद किं नु भुक्तम् ॥३३॥
तां धनिष्ठां वीक्ष्य स हरिर् बभाषे नु भो धनिष्ठे ! मे पितरौ सुखं स्तः आभ्यां सुस्नातम् ईश-पूजा विहिताकृता सर्वान् प्रतोष्य भुक्तं किम् ? ॥३३॥
साप्य् आह तं तौ तव मङ्गलार्थं
स्नातार्चितेशौ द्विज-सात्कृतार्थौ ।
सम्भोज्य सर्वान् अथ भुक्तवन्तौ
भोज्यानि च प्रेषयतः स्म तुभ्यम् ॥३४॥
तव मङ्गलार्थं स्नातौ च तौ अर्चितेशौ च द्विजेभ्यः सात्कृतं दत्तम् अर्थं याभ्यां तौ सर्वान् सम्भोज्य भुक्तवन्तौ तुभ्यम् भोज्यानि च प्रेषयतः स्म । पुरा वन-प्रवेश-समये मातरं प्रति श्री-कृष्णेनोक्तं त्वया प्रहितं भोज्यं तदाहं भक्ष्यामि भवन्तौ यदि कृत-भोजनौ मुदितौ च श्रोष्यामि । तत्राप्य् उक्तं मे पितरौ सुखं स्तः आभ्यां सुस्नातम् इत्य् आदि । प्रश्नानन्तरं धनिष्ठया उक्तं तव मङ्गलार्थं स्नान-भोजनादिकं कृतम् इत्य् अनेन पित्रोर् भोजनादिकम् अपि कृष्ण-सुख-तथापिअकम् । एवं सखा प्रेयस्य्-आदीनां नृत्य-गीतादि सर्वैव चेष्टा कृष्ण-सुखार्थम् एव कृष्णस्य तु अचिन्त्यैव शक्तिर् यया अनन्त-दास-सखा-पितृ-मातृ-प्रेयस्य्-आदीनाम् अनन्त-सुखार्थम् अनन्त-चेष्टादिकं सिद्ध्यति ॥३४॥
राधा-सङ्ग-द्रुमारोहोत्कण्ठितालम्बनार्थिनी ।
तां परालम्बनां मेने चित्त-वृत्ति-लता हरेः ॥३५॥
हरेश् चित्त-वृत्ति-रूपा लता राधया सह सङ्ग-रूप-वृक्षारोहणोत्कण्ठिता कीदृशी आलम्बनार्थिनी परालम्बनं तां धनिष्ठां मेने ॥३५॥
इतस् ततः सञ्चरतीर् गवालीः
स्व-वेणु-नादैर् अथ सङ्कलय्य ।
जगाम ताः पाययितुं वयस्यैः
सञ्चालयन् मानस-जाह्नवीं सः ॥३६॥
इतस् ततः सञ्चरतीर् गवालीः सङ्कलय्य एकत्रीकृत्य ताः गाः पयः पाययितुं सञ्चालयन् वयस्यैः सह स मानस-गङ्गां जगाम ॥३६॥
पाययित्वा जलं गास् ताः शीतं स्वादु सुनिर्मलम् ।
स्वयं गोपाः पपुः सस्नुर् विजह्रुः सलिले चिरम् ॥३७॥
गाः जलं पाययित्वा स्वयं गोपास् च जलं पपुः सलिले सस्नुः स्नानं कृत्वा चिरं विजह्रुः ॥३७॥
उपपुलिनम् अथासौ तांस् तद्-अन्नं वयस्यान्
दधि-मथित-रसाल-सन्धिताम्रादि-युक्तम् ।
स्वयम् अपि च समश्नन् स्वादयन् हासयंश् च
स्व-परित उपविष्टान् भोजयामास कृष्णः ॥३८॥
असौ श्री-कृष्णस् तद्-अन्नं दधि-मथितं रसाला च आचार इति ख्यातं सन्धितं यदा आम्रादि तद्-युक्तं च स्वयं समश्नन् । स्वस्य परितश् चतुर्-दिक्षु उपविष्टान् वयस्यान् हासयन् भोजयामास ॥३८॥
ततः सखीन् आह हरिः सहार्या
यूयं क्षणं चारयताग्रतो गाः ।
अहं सखिभ्यां सह माधवीयां
वन-श्रियं द्रष्टुम् इह भ्रमामि ॥३९॥
ततो भोजनानन्तरं हरिः सखीन् आह । क्षणं सहार्या बलदेव-सहिता यूयं गाश् च चारयत अहं सखिभ्यां मधुमङ्गल-सुबलाभ्यां सह माधवीयां वसन्त-सम्बन्धिनीं वन-श्रियं द्रष्टुम् इह भ्रमामि ॥३९॥
दासीर् धनिष्ठावदद् आशु यात
यूयं गृहीत्वाखिल-भाजनानि ।
पुष्पाणि नारायण-सेवनार्थं
सञ्चित्य पश्चाद् अहम् आगतास्मि ॥४०॥
धनिष्ठा दासीर् अवदत् यूयं भोजनानि गृहीत्वा यात-पुष्पाणि सञ्चित्य ॥४०॥
फुल्लं गन्ध-फली-द्वन्द्वम् अवतंसोचितं तदा ।
आदायागत्य कृष्णस्य वृन्दार्पितवती करे ॥४१॥
वृन्दा तद्-आदाव् आगत्य कृष्णस्य करे फुल्लं गन्ध-फली-द्वन्द्वं चम्पक-पुष्प-द्वन्द्वम् अर्पितवती ॥४१॥
तद्-आलोकात् प्रिया-कान्ति-स्मृत्य्-उत्कण्ठावतो हरेः ।
एजत्-करात् तद् आदाय तच्-छ्रुत्योर् निदधे बटुः ॥४२॥
तत् तस्य गन्ध-फली-द्वन्द्वस्यालोकात् प्रियायाः श्री-राधायाः कान्तेः स्मृत्या उत्कण्ठावतः श्री-कृष्णस्य प्रेम्णा एजत् करात् कम्पित-करात् बटुस् तदा आदाय गृहीत्वा तत् श्रुत्योः कृष्ण-कर्ण-द्वये निदधे ॥४२॥
वृन्दां धनिष्ठां सुबलं बटुं च
षाड्गुण्य-विज्ञान् सचिवान् स कृष्णः ।
उपाय दक्षान् उपलभ्य मेने
राधाङ्ग-सङ्गोत्तम-राज्य-लब्धिम् ॥४३॥
स उक्त-प्रकारः कृष्णः वृन्दादि षाड्गुण्य-विज्ञान् सचिवान् आमात्यान् उपाय-दक्षान् उपलभ्य राधाया अङ्ग-सङ्ग एष उत्तम-राज्यं तस्य लब्धिं मेने । सन्धिर् ना विग्रहो यानम् आसनं द्वैधम् आश्रयम् इति षाड्गुण्यः ॥४३॥
मधुमङ्गल-हस्तं स प्रगृह्य वाम-पाणिना ।
वृन्दा-धनिष्ठा-सुबलैः ससार सुमनः-सरः ॥४४॥
स कृष्णः वाम-पाणिना मधुमङ्गल-हस्तं प्रगृह्य वृन्दादिभिः सह कुसुम-सरोवराख्य-सुमनः-सरः ससार, सृ गतौ ॥४४॥
कुसुमित-तरु-वल्ली-वीथि-कुञ्जैर् लसन्तीं
स्थल-जल-विहगालि-व्यूह-कोलाहलैश् च ।
स कुसुम-सरसीं तां वीक्ष्य राधागमोत्कस्
तद्-अभिसृति-विचारं स्वानुगैर् आचचार ॥४५॥
स तां कुसुम-सरसीं राधाया आगमनार्थम् उत्कण्ठा यस्य सः । तद्-अभिसृतौ तस्या आगमने विचारम् आचचार । कीदृशीं ? कुसुमित-वृक्ष-लतानां वीथिभिः कुञ्जं लतादि-पिहितं स्थानं तैः । स्थल-चर-जल-चर-पक्षिणां भ्रमराणां च यो व्यूह एक-जातीय-पक्षि-समूहस् तेषां कोलाहलैश् च लसन्तीम् ॥४५॥
प्रयाति वृन्दा सुबलो बटुर् वा
राधान्तिकं चेज् जटिला स-शङ्का ।
एभिः समं वा कलहं विदध्याद्
वधूं निरुन्ध्याद् अथवा गृहान्तः ॥४६॥
श्री-कृष्ण आह—वृन्दादीनां मध्ये एकोऽपि यदि राधान्तिकं प्रयाति तदा स-शङ्का जटिला एभिः समं कलहं विदध्यात्, गृह-मध्ये वा वधूं निरुन्ध्यात् ॥४६॥
आकर्षणीं वा मुरलीं नियुञ्ज्यां
सर्वाः समेष्यन्ति च गोप-रामाः ।
तद्-इष्ट-लीलादि-रसो न सिद्ध्येत्
परस्परेर्ष्या-मद-मान-वाम्यात् ॥४७॥
राधाम् आनेतुम् आकर्षणीं मुरलीं वा नियुञ्ज्यां, मुरली-ध्वनिं श्रुत्वा सर्वाः गोप-रामाः समेष्यन्ति । आगच्छन्तु तेन किं ? तत्राह तासां परस्परेर्ष्या-मद-मान-वाम्यात्
तत् तया राधया सह इष्ट-लीलादि-रसो न सिद्ध्येत् ॥४७॥
ततो धनिष्ठे व्रज कुन्दवल्लीं
प्रतीति-कृत् सा जटिला यद् अस्याम् ।
तद्-वञ्चना-चञ्चु-मतिः सदा नौ
स्निग्धार्थिता सा ध्रुवम् आनयेत् ताम् ॥४८॥
ततो हेतोर् हे धनिष्ठे ! त्वं कुन्दवल्लीं व्रज । सा जटिला यद् यस्मात् अस्यां कुन्दवल्ल्यां प्रतीति-कृत् । तत् तस्या जटिलायाः वञ्चने चञ्चुर् निपुण-मतिर् यस्याः सा । कीदृशी ? नौ आवयोः सदा स्निग्धा सार्थिता सती तां राधाम् आनयेत् ॥४८॥
अथाह वृन्दा भवता यद् उक्तं
सत्यं हि तच् चेत् सुमनोऽवचेतुम् ।
राधा सखी काचिद् इहागता स्याज्
ज्ञेयस् तदास्यास् तद्-उदन्त आदौ ॥४९॥
वृन्दा आह । भवता यद् उक्तं तत् सत्यम् । सुमनोऽवचेतुम् पुष्पाहरणार्थं चेद् यदि काचित् राधा सखीहागता स्यात्, तदादौ तद्-उदन्तस् तस्या राधाया उदन्तः वार्ता अस्या राधा-सखीतो ज्ञेयः । वार्ता प्रवृत्तिर् वृत्तान्त उदन्त इत्य् अमरः ॥४९॥
अथागता सा तुलसी स्व-सख्या
कृष्णं सखिभ्यां सह तत्-सखीभ्याम् ।
प्रियागमोपाय-विचार-लग्नं
पुरः स्फुरन्तं मुमुदे समीक्ष्य ॥५०॥
स्व-सख्या कस्तूर्या सहागता सा श्री-राधा-निर्मित-ताम्बूल-माला-हारिणी तुलसी सखिभ्यां सुबल-मधुमङ्गलाभ्यां तथा तत् तस्या राधायाः सखीभ्याम् वृन्दा-धनिष्ठाभ्यां च सह श्री-राधागमनोपाय-विचारेषु लग्नं पुरोऽग्रे स्फुरन्तं श्री-कृष्णं समीक्ष्य मुमुदे ॥५०॥
स्वप्नेऽपि तत्-सन्निधिम् अत्यजन्तीं
तां राधया ते जहृषुः समेताम् ।
निश्चित्य सर्वेऽप्य् अथ माधवोऽभूत्
तद्-दर्शनोत्कोऽध्वनि दत्त-दृष्टिः ॥५१॥
स्वप्नेऽपि तत् तस्या राधयाः सन्निधिम् अत्यजन्तीं, अतः राधयाः समेताम् आगतां तं तुलसीं ते कृष्णादयः निश्चित्य जहृषुः । माधवस् तस्या राधाया दर्शनोत्सुकः सन् अध्वनि दत्त-दृष्टिर् अभूत् ॥५१॥
ततः सा तुलसी न्यस्य हृष्टा बटु-करे स्रजम् ।
उद्घाट्य पुटिकां वीटीं सुबलस्य करे ददौ ॥५२॥
हृष्टा सा तुलसी पुटिकाम् उद्घाट्य बटु-करे स्रजम् न्यस्य सुबलस्य करे वीटीं ददौ ॥५२॥
राधा-करामोद-समृद्ध-सौरभं
तच्-छिल्प-नैपुण्य-भरं तथाद्भुतम् ।
ताम् उद्गिरन्तीं भ्रमरालि-कर्षिणीं
स्रजं विलोक्याभवद् उन्मना हरिः ॥५३॥
राधा-करयोर् आमोदाद् दूर-गामि-सौगन्ध्यं तद्-रूप-समृद्ध्या सम्पत्त्या सौरभम् उद्गिरन्तीं तथा तत् तस्या राधाया अद्भुतम् शिल्प-नैपुण्य-भरम् उद्गिरन्तीं ताम् स्रजं विलोक्य हरिर् उन्मना सन्दिग्ध-चित्तोऽभूत् । माला वीटी प्रेषणेन श्री-राधा गमनाभावात् ॥५३॥
कण्ठे स्रजं ताम् अथ वैजयन्तीं
हसन् न्यधाच् छ्री-मधुमङ्गलोऽस्य ।
राधा-कर-स्पर्श-सुखाद् इवासौ
तत्-स्पर्शतः कण्टकिताङ्ग आसीत् ॥५४॥
मधुमङ्गलोऽस्य कण्ठे ताम् स्रजं न्यधात् । असौ श्री-कृष्णस् तस्या स्पर्शात् कण्टकिताङ्ग आसीत् ॥५४॥
आगत्य कुञ्जे परिहास-लीनां
सम्भावयंस् तां दयितां मुकुन्दः ।
तद्-आस्य-वीक्षोत्कलिकाकुलात्मा
तया हसन्त्या सह संललाप ॥५५॥
मुकुन्द आगत्य कुञ्जे परिहास-लीनां तां राधां सम्भावयन् तस्या राधाया आस्य- वीक्षायाम् उत्कण्ठाकुल आत्मा मनो यस्य सः । हसन्त्या तया तुलस्या सह ललाप । संलापो भाषणं मिथः ॥५५॥
सख्यास् ते कुशलं सखीश कुशलं कुत्रेयम् आत्मालये
किं नायाति वनं कृतौ स्व-गुरुणा दिष्टाथ किं चेष्टते ।
मथ्नात्य् अम्बु-घटं ततः किम् अभवन् निर्भर्त्स्य रुद्धा गृहे
युक्त्या चानय वृन्दया न जटिला वञ्च्याह हा धिग् विधिम् ॥५६॥
श्री-कृष्ण आह—हे सखि ! हे सख्या राधायाः कुशलम् । साह—हे ईश ! कुशलम् । इयम् राधा कुत्र ? साह—आत्मालये । स आह—वनं किं नायाति ? साह—स्व-गुरुणा श्वश्र्वा कृतौ दधि-मथने दिष्टा आज्ञप्ता, ततो नायाति । स पुनर् आह—किं चेष्टते ? साह अम्बु-घटं मथ्नाति । स पुनर् आह—ततः किम् अभवत् ? साह—दधि-भ्रान्त्या जल-मथनात् तस्या वैषम्यं वीक्ष्य तां निर्भर्त्स्य श्वश्र्वा गृहे रुद्धा कृता । स पुनर् आह—वृन्दया सह युक्त्या तां वञ्चयित्वा ताम् आनय । जटिला वञ्च्या न भवति । कृष्ण आह—हा खेदे विधिम् धिक् ॥५६॥
सदा राधातिदौर्लभ्य-स्फूर्त्या मत्वा बभूव सः ।
हासोक्तिम् अपि सत्यां तां विषण्णात्मा स्मराकुलः ॥५७॥
तां परिहासोक्तिम् अपि सत्यां मत्वा स्मराकुलः स श्री-कृष्णः सदा राधाया अतिदौर्लभ्य-स्फूर्त्या विषण्णात्मा बभूव ॥५७॥
कृष्णं विषण्णम् आलोक्य व्याकुला तुलसी स्वयम् ।
दृशा वृन्दा-धनिष्ठाभ्यां भर्त्सिताह स-सम्भ्रमम् ॥५८॥
विषण्णम् कृष्णम् आलोक्य स्वयम् व्याकुला तुलसी तत्रापि वृन्दा-धनिष्ठाभ्यां दृशा भर्त्सिता सती स-सम्भ्रमम् आह ॥५८॥
मा गाः खेदं व्रजानन्द यामि निर्मञ्छनं तव ।
आगतां विद्धि दयितां परिहासः कृतो मया ॥५९॥
मा गाः खेदं व्रजानन्द यामि निर्मञ्छनं तव आगतां विद्धि दयितां परिहासः कृतो मया ॥५९॥
ताम् आगताम् अथ निशम्य दिदृक्षुर् एनाम्
औत्सुक्य-चञ्चल-मना व्रज-राज-सूनुः ।
उत्तार्य चम्पक-युगं निज-कर्णयोस् तत्
तस्याः समर्प्य करयोर् मुदितोऽवदत् ताम् ॥६०॥
ताम् राधाम् आगताम् श्रुत्वा एनाम् दिदृक्षुर् औत्सुक्येन उत्साहेन चञ्चलं मनो यस्य स नन्द-सूनुः निज-कर्णयोश् चम्पक-युगम् उत्तार्य तस्याः करयोः समर्प्य मुदितस् ताम् अवदत् ॥६०॥
क्वेयं क्वेयं निह्नुता वा किम्-अर्थं
रुष्टा सा चेन् नापराधो ममास्ति ।
चेन् नर्मैतद् दून-चित्ते न युक्तं
हा हा शीघ्रं दर्शयामूं प्रियां मे ॥६१॥
क्व कुत्र इयम् ? वीप्सा औत्सुक्यावेग-वशात् । सा निह्नुत्यास्तीति चेन्, न । किम्-अर्थम् ? अम्बा निह्नुता चेद् यदि संरुष्टा इत्य् अपि न ममापराधो नास्ति चेद् यदि नर्म परिहासः एतत् परिहासनं दून-चित्ते दुःखित-चित्ते मयि न युक्तं मेऽमूं शीघ्रं दर्शय ॥६१॥
प्रियावलोकनोत्कण्ठं काल-देशार्थ-तत्त्ववित् ।
आनिनीषुर् द्रुतं राधां बभाषे तुलसी हरिम् ॥६२॥
काल-देशार्थ-तत्त्ववित् राधाम् आनिनीषुस् द्रुतं तुलसी प्रियावलोकनोत्कण्ठं हरिम् बभाषे ॥६२॥
सा ते कान्ता कमल-नयन त्वन्-मुखालोकनोत्का
सूर्यार्चायै सपदि जटिला-प्रेषिता कुन्दवल्ल्या ।
त्वाम् आयान्ती प्रथमम् इह मां प्राहिणोत् त्वत्-प्रवृत्त्यै
क्रीडा-कुञ्जं त्वम् उपदिश तं यत्र ताम् आनयामि ॥६३॥
हे कमल-नयन ! ते सा कान्ता तव मुखावलोकनोत्का कुन्दवल्ल्या सह जटिला-प्रेषिता त्वाम् आयान्ती राधा । त्वत्-प्रवृत्तैस् तव वार्तार्थं च मां प्राहिणोत् । त्वत्-क्रीडा-कुञ्जम् उपदिश यत्र ताम् आनयामि । निकुञ्ज-कुञ्जौ वा क्लीबे लतादि-पिहितोदरे इत्य् अमरः ॥६३॥
तच् छ्रुत्वोच्छ्वसित-स्वान्तः प्रीतो गुञ्जावलीं हरिः ।
तुलस्यै दत्तवान् कण्ठाद् उत्तार्य पारितोषिकम् ॥६४॥
तत् श्रुत्वा उत् श्वसित-स्वान्त उत्साह-युक्त-चित्तो हरिः तुलस्यै पारितोषिकम् परितोषेण देयं गुञ्जावलीम् ॥६४॥
लीला-निकुञ्ज-कलनाय तदाथ वृन्दा
कृष्णावलोकित-मुखी तुलसीं बभाषे ।
तत्-कुण्ड-तीर-गतम् आनय राधिकां तां
कन्दर्प-केलि-सुखदाख्य-निकुञ्जम् आशु ॥६५॥
तदा लीला-निकुञ्ज-कलनाय कृष्णेनावलोकितं मुखं यस्याः सा वृन्दा तुलसीं बभाषे । तत् तस्या कुण्ड-तीरं कन्दर्प-केलि-सुखदाख्यं निकुञ्जं तां राधाम् आनय ॥६५॥
अहं च केलि-सामग्रीं समग्रयितुम् उत्सुका ।
राधा-कुण्डं त्वया सार्धं प्रयातास्मि द्रुतं सखि ॥६६॥
अहं च केलि-सामग्रीं समग्रयितुम् सम्पादयितुम् उत्सुका त्वया सह कुण्डं प्रयातास्मि कुण्ड-तीर-निकुञ्जं दृष्ट्वा तस्माद् गत्वा ताम् आनय । अहं सामग्रीं सम्पादयिष्यामीति भावः ॥६६॥
तावत् कृत्वा प्रिय-सहचरीं स्वस्य चन्द्रावलीं तां
सङ्केत-स्थाम् व्रज-पति-सुतं नेतुम् आगत्य तत्र ।
गुञ्जा-हारं हरि-हृदि सखी-दत्तम् आधाय शैब्या
दृष्ट्वा वृन्दा-सहित-तुलसीं विव्यथे क्षुब्ध-चित्ता ॥६७॥
तावत् तस्मिन् समये शैब्या स्वस्य प्रिय-सहचरीं तां चन्द्रावलीं सङ्केत-स्थाम् कृत्वा कृष्णं नेतुम् तत्रागत्य सखी-दत्तम् गुञ्जा-हारं हरि-हृदि आधाय दत्ता वृन्दा-सहित-तुलसीं दृष्ट्वा सा क्षुब्ध-चित्ता सती विव्यथे ॥६७॥
कृष्णस्याग्रे वृन्दया संलपन्त्या
आलोकात् तत्-प्रेष्ठ-सख्यास् तुलस्याः ।
राधां मत्वा सागतां दुःखिता तां
शैब्या स-व्याज्यं तदा व्याजहार ॥६८॥
कृष्णस्याग्रे वृन्दया सह संलपयन्त्या तस्या राधायाः प्रेष्ठ-सख्यास् तुलस्या आलोकनात् सा शैब्या राधाम् आगतां मत्वा दुःखिता शैब्या तां तुलसीं स-व्याज्यं छल-सहितं व्याजहार ॥६८॥
कुर्वन्त्याद्य तया दुर्गा-व्रतोद्याप महोत्सवम् ।
तां निमन्त्रयितुं राधां प्रेषितास्मि वयस्यया ॥६९॥
दुर्गाया व्रतस्य कुर्वन्त्याद्य तया ओद्याप महोत्सवम् तां निमन्त्रयितुं राधां प्रेषितास्मि वयस्यया ॥६९॥
साद्य लब्धा मयान्विष्य न गृहे नापि कानने ।
दिष्ट्या लब्धासि तुलसि कथ्यतां कुत्र ते सखी ॥७०॥
मयाद्य अन्विष्य गृहे सा राधा न लब्धा काननेऽपि न लब्धा । हे तुलसि दिष्ट्या त्वं लब्धासि । कुत्र ते सखी वदेति शेषः ॥७०॥
ततः सा तुलसी ज्ञात्वा शैब्यां कौटिल्यम् आश्रिताम् ।
अवदत् तां स-कौटिल्यं शठे शाठ्यं हि यन् नयः ॥७१॥
ततः सा तुलसी ज्ञात्वा शैब्यां कौटिल्यम् आश्रिताम् अवदत् तां स-कौटिल्यं शठे शाठ्यं हि यन् नयः ॥७१॥
कुर्वाणया व्रत-महोत्सवम् अम्बिकायाः
सा श्यामया स्व-सुहृदाद्य निमन्त्र्य नीता ।
वृन्दाटवी-परिवृढा स्व-गृहं तथास्याम्
भारोऽप्य् अधायि विनयैः स-सखी-कुलायाम् ॥७२॥
अम्बिकाया व्रत-महोत्सवं कुर्वाणया स्व-सुहृदा श्यामया निमन्त्र्याद्य सा राधा वृन्दाटवी-परिवृढा वृन्दावनेश्वरी स्व-गृहं नीता । स-सखी-कुलायाम् तस्यां राधायां विनयैर् व्रत-कार्यार्थं भारोऽप्य् अधायि एतेन तस्माद् अन्यत्र गमनं क्षणम् अपि न भावीति ध्वनिः ॥७२॥
ततो ललितया पुष्प-फल-माल्य-समृद्धये ।
वृन्दां नेतुं प्रेषिता तां गृहीत्वा चलितास्म्य् अहम् ॥७३॥
ललितया पुष्पादि-समृद्धये वृन्दां नेतुं प्रेषिताहं तां वृन्दां गृहीत्वा चलितास्मि ॥७३॥
इति तां तुलसी भङ्ग्या प्रतार्य कुटिलाम् अपि ।
ययौ वृन्दा-धनिष्ठाभ्याम् उदासीनेव माधवे ॥७४॥
माधवे उदासीनेव सा तुलसी तां शैब्यां वृन्दा-धनिष्ठाभ्याम् सह ययौ ॥७४॥
पुनर् विवक्षुस्[^२३]** तां शैब्यां कृष्णः कुञ्चित-चक्षुषा ।
निवार्याह स्वम् औदास्यं तुलस्यां व्यञ्जयन्न् इव ॥७५॥**
कृष्णः पुनर् वक्तुम् इच्छुः शैब्यां कुञ्चित-चक्षुषा निवार्य तुलस्यां स्वं स्वीयम् औदास्यं व्यञ्जयन्न् इवाह ॥७५॥
मा किञ्चिद् वद यात्व् एषा स्व-सख्याः कुशलं वद ।
क्वेयम् आस्ते किं कुरुते प्रिया चन्द्रावली मम ॥७६॥
मा किञ्चिद् वद । एषा तुलसी यातु । स्व-सख्याः चन्द्रावल्याः कुशलं वद । कुत्र मम प्रियेयं चन्द्रावली आस्ते । किं कुरुते ? ॥७६॥
सातिहृष्टाथ तं प्राह निरुद्धापि धवाम्बया ।
दुर्गार्चाच् छद्मनानीता यत्नाच् चन्द्रावली मया ॥७७॥
शैब्या चातिहृष्टा सती तं श्री-कृष्णं प्राह । धवाम्बया करालया श्वश्र्वा निरुद्धापि मया दुर्गा-पूजा-च्छलेन चन्द्रावली आनीता ॥७७॥
सखी-स्थल्य्-उपशल्ये तां त्वत्-सङ्गोत्कलिकाकुलाम् ।
संरक्ष्य पद्मया तूर्णं त्वाम् अन्वेष्टुम् इहागता ॥७८॥
सखी-स्थली गोवर्धन-निकटे सखीस्वरा इत्य् आख्या तस्या उपशल्ये समीप-वर्ति-स्थल-विशेषः । तां पद्मया सह संरक्ष्य अहं त्वाम् अन्वेष्टुम् इहागतास्मीति शेषः ॥७८॥
**चिन्तितोऽन्तर् बहिर् हृष्यन् प्रत्युत्पन्न-मतिर् हरिः ।
अवदद् वञ्चयन् शैब्यां च्छद्मनानन्दयन्न् इव ॥७९॥
अहं तद्-दर्शनोत्कण्ठा दिष्ट्या नीतेयम् आल्य् असौ ।
गौरी-तीर्थं लम्भयैनां गुरूणां वञ्चन-क्षमम् ॥८०॥
यावत् प्रमद-राधाख्ये गाः सञ्चारयतो वने ।
अवधार्यागतोऽहं स्यां गवां सम्भालने सखीन् ॥८१॥ **
(युग्मकम्)
अन्तर् मनसि चिन्तितः बहिर् हृष्यन् स हरिः शैब्याम् अतिहृष्टा शैब्या-वञ्चनं श्लोक-षट्केनाह—हे सखि शैब्ये ! अहं तस्या दर्शनोत्कण्ठः । इयम् असौ आली दिष्ट्या भाग्येन मम भाग्येन नीता त्वयेति शेषः । गुरूणां वञ्चन-क्षमं गौरी-तीर्थम् एनां लम्भय प्रापय ॥७९-८०॥
कियत्-काल-पर्यन्तं ? तद् आह—प्रमद-राधाख्ये प्रकर्षेण मदो हर्षो मया सह राधाया यत्र अतस् तद्-आख्ये सार्थ-नामापि परमादली इति ख्याते वने गाः सञ्चारयतः सखीन् गवां सम्भालने रक्षणे अवधार्य निश्चित्य सावधानीकृत्य यावद् आगतः स्यां तावत् गौरी-तीर्थम् एनां लम्भयेति पूर्वेण अन्वयः ॥८१॥
**तम् आहाथ बटुर् भङ्ग्या द्रुतं कृष्ण धनिष्ठया ।
व्रजेन्द्रेन यद् आज्ञप्तं तत् कुरुष्वेति सोऽब्रवीत् ॥८२॥
आम् आर्य वसुदेवेन दूतोऽत्र प्रहितः प्रगे ।
गुप्तं प्रस्थापिताश् चौराः कंसेन कानने गवाम् ॥८३॥ **
(युग्मकम्)
भवितव्यं सावधानैः सर्वैर् गो-पालकैर् इति ।
तद् आदिष्टं तात-पादैर् मयीदानीं धनिष्ठया ॥८४॥
बटुर् भङ्ग्या तं कृष्णम् आह—हे कृष्ण ! व्रजेन्द्रेन धनिष्ठया यद् आज्ञप्तं तत् कुरुष्वेति स कृष्णोऽब्रवीत्—हे आर्य मधुमङ्गल ! आं स्मृतम् आं दानं निश्चय-स्मृत्योर् इति मेदिनी । वसुदेवेन प्रगे अत्र व्रजे दूतः प्रहितः । दूत-वाक्यम् आह—कंसेन गवाम् चौराः गुप्तं कानने प्रस्थापिताः । हे नन्दराज ! सर्वे गोपालकाः सावधानैर् भवितव्यम् । इति तत् दूत-कथनम् । तात-पादैः पितृ-चरणैः । अत्र बहु-वचनं पाद इति पदं च दत्तं नन्दस्य गौरवार्थम् अर्थात् प्रीता तेन धनिष्ठया मयीदानीम् ॥८२-८४॥
तत्-प्रत्यूहैर् विलम्बश् चेत् कदाचित् सम्भवेन् मम ।
नोद्वेगः सखि कार्यस् ते आगन्ताहं द्रुतं ध्रुवम् ॥८५॥
हे सखि शैब्ये ! तत्-प्रत्यूहैर् गो-रक्षण-रूप-विघ्नैः कदाचित् मम विलम्बश् चेत् सम्भवेत्, ते त्वया नोद्वेगः कार्यः । अहं द्रुतं शीघ्रं निश्चितम् आगन्ता आगमिष्यामि ॥८५॥
इति प्रतार्य तां शैब्यां गो-दिशं स-सखोऽव्रजत् ।
मुरारिस् त्वरया हृष्टा सापि चन्द्रावलीं प्रति ॥८६॥
इत्य् अनेन प्रकारेण तां शैब्यां प्रतार्य मुरारिः स-सखो गो-दिशम् अव्रजत् । सा शैब्या चन्द्रावलीं प्रति ययौ ॥८६॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गः सम्प्रति षष्ठ एष निरगात् पूर्वाह्न-लीलाम् अनु ॥
॥६॥
॥।
(७)