०५

पञ्चमः सर्गः

पूर्वाह्ने धेनु-मित्रैर् विपिनम् अनुसृतं गोष्ठ-लोकानुयातं
कृष्णं राधाप्ति-लोलं तद्-अभिसृति-कृते प्राप्त-तत्-कुण्ड-तीरम् ।
[^२०]**
राधां चालोक्य कृष्णं कृत-गृह-गमनार्ययार्कार्चनायै
दिष्टां कृष्ण-प्रवृत्त्यै प्रहित-निज-सखी-वर्त्म-नेत्रां स्मरामि ॥१॥ **

कृष्णं राधां च स्मरामि । कृष्णं कीदृशं ? पूर्वाह्ने धेनु-मित्रैः सह विपिनम् अनुसृतं विपिने गतं गोष्ठ-लोकैर् अनुयातम् अनुसृतं राधाप्ति-लोलं, राधाया आप्तये राधा-प्राप्त्य्-अर्थं लोलम् । तस्या राधाया अभिसृतिर् अभिसारस् तत्-कृते तद्-अर्थं प्राप्तं तस्या राधायाः कुण्ड-तीरं येन तम् । राधां कीदृशीम् ? कृष्णम् आलोक्य कृतं गृहे गमनं यया ताम् । आर्यया जटिलयार्कः सूर्यस् तद्-अर्चनार्थं दिष्टां प्रेरितां कृष्णस्य प्रवृत्त्यै वार्तार्थं प्रहित-निज-सखीनां मार्गे नेत्रे यस्यास् ताम् । वार्ता प्रवृत्तिर् वृत्तान्त इत्य् अमरः ॥१॥

स मन्द्र-घोषाभिध-शृङ्ग-घोषैः
सङ्घोषयन् घोषम् अपास्त-दोषैः ।
सम्मोहयन् हृद् व्रज-सुन्दरीणां
सम्पोषयन् प्रेम बहिर् जगाम ॥२॥

स कृष्णः मन्द्रो गम्भीरो घोषो यस्य तत्-तद्-अभिधं मन्द्र-घोषाभिधं शृङ्गं तस्य घोषैः शब्दैः । किदृशैः ? अपास्तो दूरीकृतो दोषो जगतां समस्त-दोषो यैस् तैः करणैः घोषम् आभीर-पल्लीं सन्तोषयन्, व्रज-सुन्दरीणां कृत्स्नं मोहयन् प्रेम च सम्पोषयन् बहिर् जगाम ॥२॥

गोमयोत्पलिका-कूटैर् गिरि-शृङ्ग-निभैर् युतम् ।
वासिता वास-मत्तानां षण्डानां सङ्गरोद्धुरम् ॥३॥
कृष्ण-लीलां प्रगायद्भिर् विहसद्भिः परस्परम् ।
गोमयावचय-व्यग्रैः गोप-दासी-शतैर् वृतम् ॥४॥
गो-यान-वत्सावरण-व्यग्र-गोप-शतान्वितम् ।
गोमयोपलिका
[^२१]**-कृद्भिर् जरद्-गोपी-गणैर् युतम् ॥५॥
गवां स्थानी-श्रेणी-स्फूरितम् अभितोऽल्पावृति-चयो-
ल्लसद्-वत्सावास-स्फुरित-तल-वृक्षावलिचितम् ।
करीष-क्षोदस्योच्चय-मृदुल-भूमी-तलम् असौ
व्रजाभ्यर्णं पूर्णं व्रज-धन-जनैर् वीक्ष्य मुमुदे ॥६॥ **

(कुलकम्)

असौ श्री-कृष्णः व्रजस्य धनैर् गोप्भिर् जनैश् च पूर्णं व्रजाभ्यर्णं व्रज-समीपं वीक्ष्य मुमुदे इति चतुर्थेनान्वयः । व्रजाभ्यर्णं कीदृशं व्रजे विटोरा इति ख्यातेः गोमयोपलिका व्रजे उपलाख्या तस्या कूटं समूहो यत्र तैः । कीदृशैः ? गिरि-शृङ्ग-सदृशैर् युतम् । वासिता ऋतुमत्यो गावः, तासां वासेन गन्धेन मत्तानां षण्डानां सङ्गरेण युद्धेन उद्धुरम् । गोमयस्यावचये आहरणे व्यग्रैर् गोप-दासी-शतैर् वृतम् । गो-याने गवां गमन-समये वत्सानाम् आवरणे रक्षणे व्यग्र-गोप-शतैर् अन्वितम् । गोमयेन उपलिका उपलाख्या तां कृद्भिर् वृद्ध-गोपी-गणैर् युतम् । गवां स्थान गो-स्थानं तेषां श्रेणीभिः स्फुरितम् । अल्पावृतीनां चयेन समूहेन उल्लसद्-वत्सावासैः । स्फुरितं तलं यासां ताभिर् वृक्षावलिभिश् चितं व्याप्तम् । करीष-क्षोदस्य शुष्क-गोमय-चूर्णस्य उच्चयेन मृदुलं भूमि-तलं यत्र तत् ॥३-६॥

**तर्णकारोधन-व्यग्र-गोप-यादो-गणान्विताः ।
उच्छलद्-गोपयः पूराः दुग्ध-भाण्डानि कच्छपाः ॥७॥
गो-शकृच्-चयनासक्त-गोपी-वक्त्र-सरोरुहाः ।
सितारुण-चलद्-वत्स-हंस-कोक-कुलाकुलाः ॥८॥
निर्गच्छद्-धवला पङ्क्ति-नदीर् गोपुच्छ-शैबलाः ।
गवालय-सरः-श्रेणीः पश्यन् स मुमुदे हरिः ॥९॥ **

(सन्दानतिकम्)

हरिः गवालय एव सरः सररः तस्य श्रेणीः पश्यन् मुमुदे । सरोवर-विशेषणान्य् आह । निर्गच्छन्त्यो धवला पङ्क्तिर् उपनद्यो याभ्यस् ताः । तर्णकानां बालवत्सानाम् आरोधने व्यग्रा गोप एव यादो गणाः जलजन्तु-समूहास् तैर् अन्विता युक्ताः । उच्छलद्भिर् गवां पयोभिः पूर्यन्ते इति पूराः पूर्णाः उच्छलन्तो गवां पयसां पूराः समूहा यत्र इति वा दुग्ध-भाण्डानाम् आलयः श्रेण्य एव कच्छपाः, यत्र दुग्ध-भाण्डाः, कृष्ण-वर्णा एव भवन्ति, अतः वर्ण-साम्याद् उक्तम् । गवां शकृत् गोमयं तस्य चयने ग्रहणे आसक्तानां गोपीनां मुखान्य् एव सरोरुहाणि यत्र । शुक्लारुण-वर्ण-चलद्-वत्सा एव हंस-चक्रवाक-समूहाः, यत्र ताः गवां पुच्छा एव शैवला यत्र ताः ।

यत्र श्लोक-त्रयेणान्वयो भवेत् तत्र सन्दानितकम् इति । यत्र श्लोक-द्वयेन तत्र युग्मकम् । यत्र चतुर्भिः श्लोकैस् तत्र कुलकम् इति बोध्यम् ॥७-९॥

अनुव्रजन् स्वोर्ध्व-मुखं व्रजेन्दुर्
व्रजेन्द्र-निष्कासित-गो-व्रजं सः ।
व्रजाद् विकर्षन् व्रज-वासि-लोकान्
वनाय वव्राज सखि-व्रजेन ॥१०॥

स व्रजेन्दुः कृष्णः व्रजेन्द्रेण श्री-नन्देन निष्कासितः । गो-समूहं कीदृशं ? स्वोर्ध्व-मुखं, स्वस्मै स्व-दर्शनार्थम् ऊर्ध्वं मुखानि यस्य तम् । अनुव्रजन् व्रज-वासि-लोकान् विकर्षन् सखि-व्रजेन सह व्रजाद् वनाय वव्राज ॥१०॥

रजोऽम्भोभिः शम्भोर् अपि च विधि-दम्भोलि-करयोः
परां शुद्धिं बुद्धीन्द्रिय-चय-निरुद्धिं विदधती ।
लुलाप्य्-आल्या पाल्या रवि-दुहितृ-काल्याथ मिलिता गवां
श्रेणी श्वेनी द्यु-सरिद् इव वेणी-भ्रमम् अधात् ॥११॥

पाल्या पालनीया श्वेत-वर्णा गवां श्रेणी । रवि-दुहितृ-काल्या रवि-दुहिता यमुना तद्वत् काली कृष्ण-वर्णा तथा-भूतया लुलाप्य्-आल्या लुलापीनां महिषीणाम् आल्या श्रेण्या मिलिता सती लुलाप्याला इति पाठे एक-विशेषः । रजोऽम्भोभिः रजो-रूप-जलैः शम्भोर् महादेवस्य विधि-दम्भोलि-करयोः ब्रह्मेन्द्रयोर् अपि परां शुद्धिं बुद्धीन्द्रिय-चयस्य निरुद्धिम् अन्यत्राप्रवृत्तिं च विदधती सती द्यु-सरिद् गङ्गा सैव वेणी-भ्रमं त्रिवेणी-भ्रमम् अधात्, गङ्गा यथा यमुना-सरस्वतीभ्यां मिलिता त्रिवेणी भवति, तथा गवां शुक्लत्वात् गङ्गात्वं, महिषीणां कृष्णत्वात् यमुनात्वं, रजसां धूसरत्वात् सरस्वतीत्वम् उपमा । यथा कथञ्चित् साधर्म्यम् उपमानोपमेययोः इत्य् उपमा । लुलापो महिषो वाहद्विषत्-कासर-सैरिभाः इत्य् अमरः ॥११॥

वनाय गच्छन् वनजेक्षणो हरिर्
यतो यतः सन्निदधे पदाम्बुजम् ।
ततस् ततः सा व्रज-भूः समुत्सुका
प्रकाशयामास हृद्-अम्बुजं स्वकम् ॥१२॥

वनाय गच्छन् हरिर् यत्र पदाम्बुजं सन्निदधे तत्र तत्र सा व्रज-भूः स्वकं हृद्-अम्बुजं श्री-कृष्ण-सुख-गमनार्थं प्रकाशयामास ॥१२॥

तच्-छ्री-पद-स्पर्श-भर-प्रमोदैः
सा फुल्ल-रोमाञ्चित-सर्व-गात्री ।
ननन्द कृत्तानि तृणानि भूयः
खुरैः क्षताङ्गानि च रोहयन्ती ॥१३॥

आदौ गवां गमनेन गवां क्षुरैः कृत्तानि छिन्नानि तृणानि क्षताङ्गानि च, भूयः पुनर् अपि रोहयन्ती सा व्रज-भूः । तस्य श्री-कृष्णस्य पद-स्पर्श-भर-प्रमोदैः फुल्ल-रोमभिर् अञ्चित-सर्व-गात्री ननन्द तदैव तृणाङ्कुरोद्गम-दर्शनात् ॥१३॥

फुल्लाक्षि-पद्मातिजवा-सुसम्भ्रमा
प्रीत्य्-अम्बु-वृष्ट्यैधित-सर्वतो-मुखा ।
वृद्धादि-बालान्त-जनावली-सरिद्
व्रजाचलात् कृष्ण-समुद्रम् आययौ ॥१४॥

वृद्धादि-बालान्तं जनावली आबाल-वृद्ध-जन-श्रेण्य् एव सरिन् नदी व्रज-रूप-पर्वतात् कृष्ण-समुद्रम् आययौ । नदी साधर्म्यम् आह—जनानां कृष्ण-दर्शनेन फुल्लानि नेत्राण्य् एव पद्मानि यत्र सा अतिजवा अतिवेगवती सुसम्भ्रमा सुष्ठु सम्यक् भ्रमो भ्रान्तिर् यस्यां सा किं वा प्रीतिः श्री-कृष्ण-प्रेमानन्दः सैवाम्बु तस्य वृष्टिर् इव सञ्चारस् तया एधितानि वर्धितानि फुल्लानि सर्वतः सर्वेषां मुखान्य् एव सर्वतो-मुखानि जलानि यस्याः । अत्रापि अम्भसोऽनुकरणं प्रीत्य्-अम्बु-वृष्ट्या प्रेमाम्बु-वृष्ट्या एधितं वृद्धं सर्वतो-मुखं जलं यस्याः सा ॥१४॥

क्लिन्नाम्बराक्षि-स्तन-जैः पयः-स्रवैस्
तथा-विधैर् यातृ-मुखाङ्गना-गणैः ।
अम्बा किलिम्बानुगया बलाम्बया
सहागताम्बा सुत-दर्शनोत्सुकाः ॥१५॥

अक्षि-स्तन-जैः पयः-स्रवैर् अश्रु-स्रवैश् च क्लिन्नाम्बरा । तथा-विधैर् यातर उपनन्दादीनां पत्न्यस् तद्-आद्य्-अङ्गनानां गणैः सह तथा अम्बा किलिम्बे अम्बिका च किलिम्बा च धात्रिके स्तन्य-दायिके तेऽनुगे यस्यास् तया बलाम्बया रोहिण्या सह सुत-दर्शनोत्सुका अम्बा श्री-यशोदा आगता ॥१५॥

अन्योन्यासङ्ग-संस्तब्ध-दृष्टि-हिल्लोलम् उल्बनम् ।
कृष्णं रसार्णवं भेजे राधा सुरतरङ्गिणी ॥१६॥

राधिव सुर-तरङ्गिणी गङ्गा सुरते रङ्गिणी वा सा अन्योन्यासङ्गेन परस्पर-मिलनेन संस्तब्धा दृष्टि-रूप-हिल्लोलस् तरङ्गो यस्यास् तथा-भूतम् उल्बनम् च उज्ज्वलं च यथा स्यात् तथा रसार्णवं कृष्णं भेजे । अन्योन्येति पदं श्री-कृष्णस्य वा विशेषेण ॥१६॥

मङ्गला-श्यामला-भद्रा-पाली-चन्द्रावली-मुखाः ।
स्व-स्व-यूथा यूथ-नाथाः सर्वतस् तास् तम् अन्वयुः ॥१७॥

मङ्गलाद्यास् ता यूथ-नाथाः स्व-स्व-यूथैः सह वर्तमानाः सर्वतश् चतुर्दिक्षु तं श्री-कृष्णम् अन्वयुर् अनुगा बभूवुः ॥१७॥

सह धन-जन-वृन्दैर् निर्गते प्राण-नाथे
जन-गति-रव-हान्या स्पन्दनालाप-हीना ।
पशु-खुरज-रजोभिर् धूसरासौ जडाङ्गी
व्रज-वसतिर् अथासीत् प्रोषित-प्रेयसीव ॥१८॥

प्रोषितः प्रवास-गतः प्रेयान् यस्याः सा इव धन-जन-वृन्दैः सह प्राण-नाथे श्री-कृष्णे निर्गते सति असौ व्रज-वसतिर् जडाङ्गी आसीत् द्वयोः साधर्म्यम् आह—नायिका-पक्षे जनेषु लोक-सभानुगतेस् तथा रवस्य शब्दस्य च हान्या । वसति-पक्षे जनानां गमन-रवयोर् हान्या राहित्येन स्पन्दनालाप-हीना । नायिका-पक्षे शरीर-गत-स्पन्दनालाप-रहिता। पक्षे, व्रज-वसति-स्थ-जनानां स्पन्दनालाप-हीना । लालिका धूलि-धूसराः । पक्षे, पशूनां खुर-रजोभिर् धूसरा ॥१८॥

अन्वयत्-पितरौ वीक्ष्य स-व्रजौ वन-सीमनि ।
स्थितेऽस्मिन् वलित-ग्रीवं तस्तम्भे गो-कदम्बकैः ॥१९॥

अस्मिन् वन-सीमनि स्थिते स्थितौ मर्यादायां भावे क्तः । वलित-ग्रीवं वक्र-ग्रीवं यथा स्यात् तथा स-व्रजौ अन्वयन्तौ पितरौ वीक्ष्य श्री-कृष्णः गो-समूहैः सह तस्तम्भे ॥१९॥

अनन्त-शङ्कौ स्व-वन-प्रयाणेऽप्य्
अभद्र-भीतेर् अनिवारयन्तौ ।
अस्राकुलाक्षाव् अपि दर्शनोत्सुकौ
स दुःस्थितोऽभूत् पितरौ समीक्ष्य ॥२०॥

स्वस्य वन-प्रयाणे अभद्र-जन्य-भीतेर् हेतोर् अनन्ताः शङ्का ययोस् तौ तथा बहुधा कथ्यमानाव् अप्य् अनिवारयन्तौ अश्रु-कुलाव् अपि स्वस्य दर्शने उत्सुकौ पितरौ समीक्ष्य तु श्री-कृष्णः दुःस्थितो व्यग्र-चित्तोऽभूत् ॥२०॥

सौरभ्य-लुब्धा तृषितोच्चलन्ती
ह्री-वात्यया बम्भ्रमिताभितोऽपि ।
नेत्रालि-पङ्क्तिर् व्रज-सुन्दरीणां
हरेः पपातैव मुखारविन्दे ॥२१॥

व्रज-सुन्दरीणां नेत्रालि-पङ्क्तिः । ह्री लज्जा सैव वात्या वात-समूहस् तया बम्भ्रमिता पुनः पुनर् अतिशयेन भ्रमितापि तृषिता उच्चलिता वेगवति हरेर् मुखारविन्दे पपातैव ॥२१॥

समीक्ष्य राधा-वदनारविन्दे
श्री-नेत्र-नृत्यन्-मद-खञ्जरीटौ ।
सुमङ्गलां स्वां मनुते स्म यात्रां
तदीय-सन्दर्शन-सत्-फलां सः ॥२२॥

स श्री-कृष्णः राधा-वदनारविन्दे श्री-युक्त-नेत्र-रूप-नृत्यन्-मद-खञ्जनौ वीक्ष्य स्वां यात्रां सुमङ्गलां मनुते स्म । मनुष्याणां पद्मोपरि खञ्जन-दर्शनेन यात्रा सत्-फला भवतीत्य् आह तदीयस्यादि ॥२२॥

स्व-स्व-बालम् अपहाय मातरः
कृष्ण-वक्त्र-धृत-साश्रु-लोचनाः ।
स्तन्य-सिक्त-वसनाः सुवत्सलाः
सर्वतोऽथ परिवव्रुर् अच्युतम् ॥२३॥

अन्य-गोपीनां स्व-स्व-पुत्रान् श्री-कृष्णे अपार-वात्सल्यं श्री-भागवते यद् उक्तं, तद् एवाह—स्व-स्व-बालम् इत्य् आदि ॥२३॥

विमनस्कापि मनसा भावयन्त्य् अथ तच्-छुभम् ।
विहस्तापि स्व-हस्ताभ्यां जननी तम् अलालयत् ॥२४॥

विरोधाभासालङ्कारेणाह । विमनस्कापि मनसा तत् तस्य श्री-कृष्णस्य शुभं भावयन्ती विहस्ता व्यग्रापि स्व-हस्ताभ्यां जननी तं श्री-कृष्णम् अलालयत् ॥२४॥

शतशः सन्ति मे गोपा निपुणाः पालने गवाम् ।
पालयामि स्वयम् इति वत्स कोऽयं दुराग्रहः ॥२५॥

गवाम् पालने निपुणा गोपाः शतशः मे सन्ति । हे वत्स ! स्वयं गाः पालयामीति कोऽयं दुराग्रहः ॥२५॥

बालोऽसि मृदुलस् तत्र विमुक्त-च्छत्र-पादुकः ।
दिनं भ्रमसि कान्तारे जीवेतां पितरौ कथम् ॥२६॥

त्वं बालः मृदुलश् च तत्रापि छत्र-पादुकां विना व्याप्य कान्तारे दुर्गम-मार्गे भ्रमसि पितरौ कथं जीवेताम् । कान्तारो वर्त्म-दुर्गमः इत्य् अमरः ॥२६॥

क्रियमाणाग्रहौ स्वस्य च्छत्रोपानद्-विधारणे ।
वात्सल्य-व्याकुलौ वीक्ष्य पितरौ प्राह केशवः ॥२७॥

केशवः स्वस्य छत्र-पादुकयोर् विधारणे क्रियमाणाग्रहौ माता-पितरौ वीक्ष्याह ॥२७॥

गो-पालनं स्व-धर्मो नस् तास् तु निश्छत्र-पादुकाः ।
यथा गावस् तथा गोपास् तर्हि धर्मः सुनिर्मलः ॥२८॥

नोऽस्माकं गो-पालनं स्व-धर्मः, गो-पालनं कुरु, किन्तु छत्र-पादुकां धृत्वा कुरु । तत्राह—यथा ताः गावः निश्छत्र-पादुकास् तथा गोपा अपि निश्छत्र-पादुकाः गो-पालने यदि भवन्ति तदा सुनिर्मलो धर्मः स्यात् ॥२८॥

धर्माद् आयुर्-यशो-वृद्धिर् धर्मो रक्षति रक्षितः ।
स कथं त्यज्यते मातर् भीषु धर्मोऽस्ति रक्षिता ॥२९॥

विपक्षासुरादिभ्यो बिभेषि । तत्राह—धर्माद् आयुर्-यशो-वृद्धिर् भवति । अनेन धर्मो रक्षितः सन् तं जनं धर्मो रक्षति । हे मातः ! स्व-धर्मो जनैः कथं त्यज्यते ? भीषु विपक्षादि-कृत-भयेषु धर्मो रक्षितोऽस्ति ॥२९॥

राजानं धर्म-गोप्तारं धर्मो रक्षति रक्षितः [म।भा। ३.३१.७] इति ।

सुतस्य साद्गुण्यम् अवेक्ष्य तृप्तौ
ननन्दतुस् तौ हृदि यद्य् अपारम् ।
अनिष्ट-शङ्काकुलिता तथापि
गोपान् समाहूय जगाद माता ॥३०॥

सुतस्य साद्गुण्यम् अवेक्ष्य तृप्तौ ननन्दतुस् तौ हृदि यद्य् अपारम् अनिष्ट-शङ्काकुलिता तथापि गोपान् समाहूय जगाद माता ॥३०॥

सुभद्र मण्डलीभद्र वत्स भो बलभद्रक ।
समर्पितोऽयं युष्मासु बालोऽतिमृदुलश् चलः ॥३१॥

हे सुभद्रादयः ! युष्मासु अयं कृष्णः समर्पितः । अयं बालः, तत्रापि मृदुलस् तत्रापि चलश् चञ्चलः ॥३१॥

यन्त्रणीयः शिक्षणीयः पालनीयश् च वः सदा ।
स्वैरी चेच् चलतां याति कथनीयं तदा मयि ॥३२॥

वो युष्माभिर् एव कुरु, एवम् इत्य्-आदि-प्रकारेण यन्त्रणीयः नियम्यः स्वैरी स्वेच्छाचारी सन् चेद् यदि चलतां याति तदा मयि कथनीयम् ॥३२॥

धृत-खड्ग-धनुर्-बाणैर् भो वत्सा विजयादयः ।
पालनीयोऽप्रमत्तैर् वः सदायम् अभितः स्थितैः ॥३३॥

भो विजयादयः ! अप्रमत्तैः सावधानैर् धृत-खड्ग-धनुर्-बाणैर् अभितः स्थितैः वो युष्माभिर् अयं रक्षणीयः ॥३३॥

अङ्गे सुतस्याथ करेण माता
स्निग्धा स्पृशन्तीश्वर-नाम-मन्त्रैः ।
नृसिंह-बीजैश् च विधाय रक्षां
बबन्ध रक्षा-मणिम् अस्य हस्ते ॥३४॥

माता ईश्वरस्य नाम-घटित-मन्त्रैः नृसिंह-बीजैश् च तस्याङ्गेषु करेण स्पृशन्ती रक्षां विधाय हस्ते रक्षा-मणिम् बबन्ध ॥३४॥

आज्ञा मातः पितर् इति सुतं सम्पतन्तं पदान्ते
दोर्भ्यां धृत्वा हृदि निदधतौ स्तन्य-बाष्पाम्बु-सिक्तम् ।
चुम्बन्तौ तद्-वदन-कमलं मार्जयन्तौ कराभ्यां
जिघ्रन्तौ तं शिरसि पितराव् ऊहतुर् बाष्प-कण्ठम् ॥३५॥

आदौ हे मातर् इत्य् उक्त्वा आज्ञां देहीति वक्तव्ये आज्ञा इति । प्रेमोद्रेकेणोक्त्वा पदान्ते पतन्तं सुतं पश्चात् हे पितर् इति पदान्ते सम्पतन्तं तौ पितरौ दोर्भ्यां हृदि धृत्वा स्तन्य-बाष्पाम्बु-सिक्तं निदधतौ तद्-वदन-कमलं चुम्बन्तौ कराभ्यां मार्जयन्तौ शिरसि जिघ्रन्तौ बाष्प-कण्ठम् ऊहतुः ॥३५॥

भूर् द्यौर् भव्या भवतु भवतो रक्षिता श्री-नृसिंहः
शस्तः पन्था वनम् अपि शुभं भावुका दिग् विदिक् च ।
स्वागम्यः स्वं पुनर् अथ गृहं मङ्गलालिङ्गितस् त्वं
दत्तानुज्ञः स इति मुमुदे वत्सलाभ्यां पितृभ्याम् ॥३६॥

भवतस् तव रक्षिता श्री-नृसिंहो भवतु इत्य् उक्त्वा आशीर्वाद-पूर्वकं पितृभ्यां वन-गमने दत्तानुज्ञः दत्ता अनुज्ञा आज्ञा यस्मै स श्री-कृष्णो मुमुदे । आशीर्वाद-प्रकारम् आह—भवतः भूर् द्यौर् भव्या भवतु शस्तः पन्था भवतु । वनम् अपि शुभं भवतु । दिग् विदिक् च भावुका भवतु । मङ्गलैर् आलिङ्गितः मङ्गल-युक्तस् त्वं पुनः स्वं गृहं स्वागम्यः सुखेनागमनीयः । भावुकं भविकं भव्यं कुशलं क्षेमम् अस्त्रियम् इत्य् अमरः ॥३६॥

यथा पितृभ्यां स तथा बलाम्बाप्य्
अम्बा किलिम्बाद्य्-उपमातृ-युक्तया ।
गोपैश् च गोपी-निवहैश् च लालितो यथा
हरिस् तैः स बलोऽप्य् अभूत् तथा ॥३७॥

पितृ-मातृ-रोहिणी अम्बा किलिम्बा गोप-गोपी-समूहैः । यथा स हरिर् लालितस् तथा स बलोऽपि तैः पित्रादिभिर् लालितोऽभूत् ॥३७॥

व्रजाङ्गनानां तृषिताक्षि-चातकान्
सिञ्चन् कटाक्षामृत-वृष्टि-धारया ।
न्यवेदयत् कानन-यानम् आत्मनस्
ताभिः स्व-दृष्ट्यैव स चानुमोदितः ॥३८॥

व्रजाङ्गनानां तृषित-नेत्र-चातकान् स्व-कटाक्षामृत-धारया सिञ्चन् आत्मनः कानन-गमनम् तत्रैव न्यवेदयत् । ताभिर् अपि स्व-दृष्ट्या एवं स श्री-कृष्णश् चानुमोदितोऽभूत् ॥३८॥

तासां मनो-दीन-कुरङ्ग-सङ्घान्
विलोक्य लोलान् रुचि-पल्लवान् स्वान् ।
निन्ये स्फुटं चारयितुं स्व-सङ्गे
सन्दान्य दृक्-शृङ्खलया स्वयासौ ॥३९॥

असौ श्री-कृष्णस् तासां व्रज-सुन्दरीणां मनो-रूप-दीन-मृग-सङ्घान् लोलान् विलोक्य स्वस्य रुचि-रूप-पल्लवान् चारयितुम् आस्वादयितुं स्व-दृक्-शृङ्खलया सन्दान्य अद्धा स्व-सङ्गे निन्ये । तासां मनांसि श्री-कृष्ण-कान्तिभिर् आकृष्टानि भूत्वा ययुर् इति भावः ॥३९॥

द्वि-त्राः क्षेप्याः सुमुखि घटिकाश् चक्षुषी मुद्रयित्वा
मा गाः खेदं सपदि भविता सङ्गमो नौ वनान्ते ।
आगन्तव्यं मयि करुणया छद्मनाशु स्व-कुण्डं
कृष्णश् चक्रे स्फुटम् अनुनयं राधिकायां दृशेत्थम् ॥४०॥

हे सुमुखि राधे ! चक्षुषी मुद्रयित्वा द्वि-त्राः घटिकाः क्षेप्याः । खेदं मा गाः मा कुरु नाप्नुहि । नौ आवयोर् वनान्ते सङ्गमो भविता । तया केनापि छद्मना आशु स्व-कुण्डम् आगन्तव्यम् इत्थम् अनेन प्रकारेण श्री-कृष्णः राधिकायाम् अनुनयं चक्रे ॥४०॥

ययाचे राधिकाम् आज्ञां स्व-दृशा दैन्य-पूर्णया ।
कातर्यं वमताभूत् तत्-कटाक्षेणानुमोदितः ॥४१॥

दैन्येन पूर्णया दृशा स श्री-कृष्णः राधिकाम् आज्ञां ययाचे । तस्या राधायाः कातर्यं वमता कातर्योद्गारिणा कटाक्षेण अनुमोदितोऽभूत् ॥४१॥

मध्ये-नभः सम्मिलनेऽप्य् अलूनैर्
जवात् प्रविष्टैर् हृदये मिथस् तौ ।
कटाक्ष-बाणैर् अपि मोदम् आप्तौ
प्रेम्नो विचित्रा हि गतिर् दुरूहा ॥४२॥

मध्ये-नभः आकाश-मध्ये उभयोः कटाक्षयोः सम्मिलनेऽपि अलूनैर् अच्छिन्नैः कटाक्ष-बाणैर् जवाद् धृदये प्रविष्टैः । तौ राधा-कृष्णौ मिथः परस्परं मोदं प्राप्तौ । बाण-प्रहारेऽपि मोदाप्तौ कारणम् आह—प्रेम्नो गतिर् दुरूहा विचित्रा च ॥४२॥

राधा-मनो-मीनम् अयं स्व-सङ्गे
स्व-कान्ति-जालेन निबध्य निन्ये ।
रुरोध तच्-चित्त-मरालम् उत्कं
सापि स्व-दृक्-कूणन-पञ्जरान्तः ॥४३॥

यथा अयं श्री-कृष्णः राधा-मनो-रूप-मीनम् स्व-कान्ति-रूप-जालेन निबध्य स्व-सङ्गे निन्ये । तथा सापि तच्-चित्त-रूप-हंसम् उत्कण्ठितं दृशोः कूणनं[^२२] दृष्टि-पातः तद्-रूप-पञ्जर-मध्ये रुरोध ॥४३॥

प्रेरयन्न् अग्रतो धेनूर् आकर्षन् पृष्ठतो व्रजम् ।
स मित्रैर् आवृतोऽरण्यं प्रवेष्टुम् उपचक्रमे ॥४४॥

स अग्रतो धेनूः प्रेरयन् पृष्ठतः व्रजम् आकर्षन् ॥४४॥

तिर्यग्-ग्रीवं पुनः प्रेक्ष्य स-व्रजौ स्नेह-कर्षितौ ।
अन्वायान्तौ पुरस् तिष्ठन्न् अब्रवीत् पितरौ हरिः ॥४५॥

हरिस् तिर्यग्-ग्रीवं यथा स्यात् तथा पुनः प्रेक्ष्य स-व्रजौ स्नेह-कर्षितौ अन्वायान्तौ पितरौ अब्रवीत् ॥४५॥

मातर् नातः परम् इह पुरो गन्तुम् अर्ह्याटवीं वो
व्यावर्तध्वं त्वरितम् इह मे प्रापणीया रसाला ।
तातैषाद्य त्रुटित-शिखरा कन्दुका-क्षेपणी मे
गत्वा घोषं झटिति सुदृढाः पञ्चषाः कारणीयाः ॥४६॥

हे मातर् अग्रेऽटवीं गन्तुम् वो युष्माभिर् अर्ह्या न यूयम् अतो व्यावर्तध्वम् । मे मह्यं रसाला त्वरितम् प्रापणीया । तव गोष्ठ-गमनाभावे रसाला केन प्रापणीया । अन्यद् अपि मे कार्यान्तरं शृणु । मे कन्दुका-क्षेपणी एषा त्रुटित-शिखरा बभूव । हे तात पञ्चषाः पञ्च वा षट् वा अतिदृढाः । कन्दुका-क्षेपण्यः कारणीयाः व्रजे काष्ठ-निर्मित-क्षेपण्य्-आख्यं कन्दूकं क्षिप्त्वा क्रीडन्ति ॥४६॥

वलित-ग्रीवम् ऊर्ध्वास्यं क्षुधितास् तृषिता अपि ।
तस्तम्भिरे पुरो गावः पश्याम्ब मद्-अपेक्षया ॥४७॥

वलित-ग्रीवम् ऊर्ध्वास्यं यथा स्यात् क्षुधितास् तृषिता गावः अपि मद्-अपेक्षया तस्तम्भिरे पश्य ॥४७॥

प्रेषयिष्यामि सद्-भोज्यं भुक्त्वा मध्याह्न एव तत् ।
आगच्छेर् अपराह्ने त्वं तूर्णम् इत्य् आह तं प्रसूः ॥४८॥

तत् सद्-भोज्यं मध्याह्ने भुक्त्वा त्वम् अपराह्ने आगच्छेर् इति प्रसूर् माता तम् आह ॥४८॥

सोऽप्य् अब्रवीत् तां कृत-भोजनौ चेत्
श्रोष्यामि गेहे मुदितौ भवन्तौ ।
भोक्ष्यामि भोज्यं प्रहितं तदा ते
गृहं समेष्यामि न चान्यथाम्ब ॥४९॥

सोऽपि ताम् अब्रवीत् गेहे कृत-भोजनौ मुदितौ भवन्तौ चेत् यदि श्रोष्यामि तदा ते त्वया प्रहितं भोज्यं भोक्ष्यामि । गृहं च समेष्यामि अन्यथा युवयोः भोजनाद्य्-अभावे न भोक्ष्यामि, गृहं च न समेष्यामि ॥४९॥

**कृतावनः काय-मनो-वचोभिः
संसिक्त-देहः स्तन-दृक्-पयोभिः ।
स चुम्बितालिङ्गित आकुलाभ्यां
मुहुर् मुहुर् दृष्ट-मुखः पितृभ्याम् ॥५०॥
उद्यद्-वियोगोष्ण-रवि-प्रतापितैः
सिक्तैर् निज-प्रेक्षण-वीचि-शीकरैः ।
कटाक्ष-धारानल-नालिका-चयैर्
निपीत-लावण्य-सरः-प्रिया-गणैः ॥५१॥
व्रज-त्यागारण्य-यानोत्पन्नाभ्यां नन्द-नन्दनः ।
वैमनस्योन्मनस्याभ्यां व्याग्रोऽसौ प्राविशद् वनम् ॥५२॥ **

(सन्दानतिकम्)

स श्री-नन्द-नन्दनः श्री-कृष्णः आकुलाभ्यां पितृभ्यां कायादिभिः कृतावनः कृतम् अवनं रक्षणं यस्य सः । पुनस् ताभ्यां स्तन-दृक्-पयोभिः संसिक्त-देह आलिङ्गितश् चुम्बितश् च दृष्ट-मुखः एवं-भूतो भूत्वा उद्यद्-वियोगे एव उष्ण-रविर् ग्रीष्म-कालीन-सूर्यस् तेन प्रकर्षेण तापितैः निजस्य श्री-कृष्णस्य प्रेक्षण-रूप-वीचिस् तरङ्गस् तस्य शीकरैर् अम्बु-कणाभिः सिक्तैः प्रिया-गणैः कटाक्षस्य धारा, सैव नल-नालिका नलस्य स-च्छिद्र-तृण-विशेषस्य प्रणालिका तासां चयैः समूहैः करणैर् निपीतो लावण्य-रूपो रसो यस्य तथा-भूतः सन्, व्रज-त्याग-जन्य-वैमनस्यं तथा अरण्ये यानं गमनं तज्-जन्यम् उन्मनस्यं, ताभ्यां व्यग्रः सन् वनं प्राविशत् ॥५०-५२॥

व्रजस्य कृष्णे निहितेक्षणस्या-
खिलेन्द्रियाणां नयनत्वम् आसीत् ।
तस्मिन् वनेनान्तरिते क्षणेन
तेषां समन्तात् सुविलीनताभूत् ॥५३॥

कृष्णे निहितेक्षणस्य व्रजस्य व्रज-जनानाम् अखिलेन्द्रियाणां नयनत्वम् आसीत् दर्शनोत्साहेन अखिलेन्द्रियाण्य् अपि नेत्र-रूपाणि बभूवुः । ते सर्वेन्द्रियैः श्री-कृष्णं ददृशुर् इति भावः । अङ्गानि यस्य सकलेन्द्रिय-वृत्तिमन्ति पश्यन्ति [ब्र।सं। ५.४२] इति नित्य-सिद्धा मुकुन्दवद् इति च प्रमाणम् । यद् वा, नयनत्वं स्व-स्व-कार्य-कारित्वम् । तस्मिन् कृष्णे वनेनान्तरिते सति तेषाम् इन्द्रियाणां क्षणेन समन्तात् सुविलीनता चेष्टा-राहित्यम् अभूत् ॥५३॥

चरत्वतः स्थावरतैव धन्या
वनं प्रयात्य् एष विहाय यन् नः ।
इतीव खिन्नाः स्फुटम् आदधुस् तां
स्तम्भस्य दम्भात् व्रज-वासिनस् ते ॥५४॥

यद् यस्मात् नोऽस्मान् जङ्गमान् विहाय त्यक्त्वा एष श्री-कृष्णः स्थावरं वनं प्रयाति अः तस्माच् चरत्वतः चरतीति चरस् तस्य भावः चरत्वं, तस्मात् जङ्गमत्वात् स्थावरतैव धन्या इति हेतोर् इव स्तम्भस्य दम्भात् छलात् ते व्रज-वासिनः खिन्नाः स्फुटं तां स्थावरताम् आदधुः ॥५४॥

हरेश् चिल्ली-चिल्ली-गिलित-मति-मीलच्-छफरिका
मुखाम्भोजान् म्लानाच् चलित-चल-दृष्टि-भ्रमरिकाः ।
वियोगोद्यत्-पङ्कावलि-पतित-हंसा न विबभुस्
तद्-आभीरी-नद्यो वन-शुचि-हृते जीवन-धने ॥५५॥

तदा वन-रूप-शुचिना निदाघेन जीवन-धने जीवनस्य धनं सर्वस्वं श्री-कृष्णः, किं वा जीवन-रूपः श्री-कृष्णः स एव धनं, तत् जीवन-धनम् एव, नदी-पक्षे जीवन-धनं जल-रूप-धनं तस्मिन् हृते सति आभीरी-रूपा नद्यो न विबभुः, भा दीप्तौ धातुः । कीदृश्यः सत्यः ? हरेश् चिल्ली भ्रूर् एव चिल्ली चिलाख्य-पक्षि-विशेष-स्त्री । तया गिलिता मतिर् विवेक-शीला बुद्धिस् तद्-रूप-मीलच्-छफरिका मत्स्य-विशेषो यासां ताः । म्लानात् मुख-रूपाम्भोजात् चलिता गताश् चल-दृष्टि-रूपा भ्रमरिका भ्रमर्यो यासां ताः । कृष्ण-वियोग-रूपोद्यत्-पङ्कावलिषु पतित-हंसाः प्राणास् त एव हंसा यासां ताः ॥५५॥

अस्यानुरूप-रूपकम् उद्धव-सन्देशे द्रष्टव्यम्—

अक्रूराख्ये हृतवति हठाज् जीवनं मां निदाघे विन्दन्तीनां मुहुर् अविरलाकारम् अन्तर्-विदारम् । सद्यः शुष्यन्-मुख-वनरुहां वल्लवी-दीर्घिकाणां आसाम् आशा-मृदम् अनुसृताः प्राण-कूर्माः वसन्ति ॥ [उ।सं। ९८]

अभ्यासतोऽथ व्रज-वासिनस् ते
विमोहितौ तौ व्रज-पौ गृहीत्वा ।
कृष्णानुगामि-स्व-मनो-विहीनैर्
देहैः परं गेहम् अयुर् निरीहाः ॥५६॥

निरीहाश् चेष्टा-रहिता अपि ते व्रज-वासिनः । विमोहितौ तौ यशोदा-नन्दौ गृहीत्वा कृष्णानुगामि-स्व-मनो-विहीनैर् अपि देहैः सह अभ्यासतः परं केवलं देहाभ्यासं गेहम् अयुर् ॥५६॥

स्वां स्वां सख्योऽपि यूथेशां यत्नाद् आदाय मूर्च्छिताम् ।
निन्युर् गृहं यन्त्र-चञ्चत्-प्रतिमाः प्रतिमाम् इव ॥५७॥

सख्योऽपि मूर्च्छिताम् स्वां स्वां यूथेशां यत्नाद् आदाय गृहीत्वा गृहं निन्युः । काः कम् इव काष्ठादि-निर्मित-यन्त्र-प्रेरिताः प्रतिमाः काष्ठादि-मय-प्रतिमाम् इव । इत्य् अनेन तासां प्रेमाधिक्यं ज्ञेयम् ॥५७॥

कुन्दवल्ल्य् अथ तां राधां स्वयं व्यग्राप्य् अचेतनाम् ।
आदायायाद् व्रजं यत्नाद् विचित्तैस् तत्-सखी-जनैः ॥५८॥

व्यग्रापि कुन्दवल्ली अचेतनां तां राधां यत्नाद् आदायायाद् विचित्तैश् चित्त-रहितैस् तत्-सखी-जनैः सह व्रजम् आयात् ॥५८॥

यद्यप्य् अस्मिन् न्यस्त-चित्ता व्रज-स्था
आ-तद्-दर्शं ज्ञप्ति-शून्यास् तथापि ।
तत्-तत्-कर्माण्य् आचरन्ति स्म यद्वज्
जीवन्-मुक्ता देह-संस्कारतस् ते ॥५९॥

अस्मिन् श्री-कृष्णे न्यस्त-चित्तास् ते व्रज-स्थाः, यद्यपि आ तद्-दर्शं यावत् कृष्ण-दर्शनं न स्यात् तावत्-काल-पर्यन्तं शून्या ज्ञप्तिर् ज्ञानं तत्, तथापि देह-संस्कारात् जीवन्-मुक्ता इव तत्-तत्-कर्माणि कुर्वन्ति स्म ॥५९॥

अत्र विश्वनाथस्य चमत्कार-व्याख्या प्राप्यते—

मद्-विच्छेद-रुजोऽनुभावकम् अहो चेतः प्रियाणाम् अतस् तन् नीत्वा निज-सङ्ग एव विपिनं यामीति याते हरौ । को नः स्याद् विषयोऽन्य इत्य् अनुनयस् तेषां दृशो वेश्म तु स्व-स्व-वर्ष्मभिर् एव संस्कृति-वशान् मुक्तोपमास् तेऽविशन् ॥ [कृ।भा। ७.७५] इति ॥

निर्माणोत्कां स्व-पथि जटिलां गो-शकृत्-पिण्डिकानां
वध्वा वर्त्मन्य् अथ धृत-दृशं व्याकुलां कुन्दवल्ली ।
दृष्ट्वाऽवादीज् जडिम-कलितां राधिकां चेतयन्ती
कृष्णाभ्यर्णं नय-निपुण-धीस् तूर्णम् एनां निनीषुः ॥६०॥

नये नीतौ निपुणा धीर् यस्याः सा कुन्दवल्ली जडिम-युक्तां राधां चेतयन्ती तथा तूर्णं कृष्ण-निकटम् एनां राधां निनीषुः नेतुम् इच्छा यस्या सा । स्व-पथि स्वानां गमन-मार्गे । गो-शकृत् गो-मयं तस्य पिण्डिकानां निर्माणे उत्कण्ठितां वध्वाः राधायाः वर्त्मनि धृत-दृशं व्याकुलां जटिलां दृष्ट्वा ताम् अवादीत् ॥६०॥

नमाम्य् आर्ये स्नुषेयं ते कल्याणी नीयतां पुरः ।
छायाप्य् अस्या न कृष्णस्य दृष्टि-गोचरतां गता ॥६१॥

हे आर्ये ! त्वां नमामि । कल्याणीयं ते स्नुषा नीयताम् । अस्याः छायापि श्री-कृष्णस्य नेत्र-गता नाभूत् ॥६१॥

साब्धि-द्वीपा भवति पृथिवी यस्य नैकस्य मूल्यं
तादृग् दिव्यामित-मणि-मयं पश्य शच्याप्य् अलभ्यम् ।
सर्वाङ्गीनं वसन-सहितं भूषणं दत्तम् अस्यै
गोष्ठेश्वर्या मुदित-मनसा पाक-नैपुण्यतोऽस्याः ॥६२॥

अस्याः पाक-नैपुण्यतः मुदित-मनसा गोष्ठेश्वर्या अस्यै राधायै सर्वाङ्गीनं सर्वाङ्गे देयं वसन-सहितं भूषणं दत्तम् । कीदृशं ? साब्धि-द्वीपा भवति पृथिवी यस्य एकस्यापि मणेर् मूल्यं न भवति । तादृशं दिव्यालौकिकामित-मणि-मयं शच्याप्य् अलभ्यं किं पुनर् अन्यया ॥६२॥

धर्मार्थ-लाभान् मुदिता स्नुषायास्
तयैव कार्यान्तरम् उच्चिकीर्षुः ।
स्वाभीष्ट-सम्पादन-लब्ध-वर्णां
मत्वावदत् तां जटिला स्तुवन्ती ॥६३॥

स्नुषायाः श्री-कृष्णादर्शनात् धर्म-लाभात्, अमूल्य-भूषणादि-प्राप्त्या अर्थ-लाभाच् च मुदिता तया कुन्दवल्ल्या कार्यान्तरं कर्तुम् इच्छुः स्वाभीष्टस्य सम्पादने लब्ध-वर्णां विचक्षणां मत्वा तां कुन्दवल्लीं स्तुवन्ती जटिला अवदत् । लब्ध-वर्णा विचक्षणा इति अमरः ॥६३॥

एह्य् एहि वत्से कुशलं भवत्यास्
त्वच्-छील-निर्मञ्छनम् आशु यामि ।
स्निग्धासि यत् त्वं मयि सस्नुषायां
मद्-आशिषा त्वं सुत-वस्करा स्याः ॥६४॥

हे वत्से ! एह्य् एहीति आदरे भवत्यास् तव कुशलं, तत् तव शीलस्य स्वभावस्य निर्मञ्छनम् यामि । यद् यस्मात् स-स्नुषायां मयि त्वं स्निग्धासि, तत् तस्मात् मद्-आशिषा सुत-वस्करा सप्त-पुत्र-प्रसूता त्वं स्याः ॥६४॥

स्वयं साध्वी प्रगल्भा त्वम् अन्यासां धर्म-पालने ।
आत्मनीव प्रतीतिर् मे त्वयि त्वां प्रार्थये ततः ॥६५॥

त्वं स्वयं साध्वी भूत्वा अन्यासां धर्म-पालने त्वं प्रगल्भासि मम आत्मनीव त्वयि प्रतीतिः । ततस् त्वां प्रार्थये ॥६५॥

धर्मे पत्न्या पालिते तत् पतिः स्याद्
गोमान् पुत्री वित्तवांश् चायुर्-आढ्यः ।
इत्य् आहास्मान् पौर्णमासी स्मृतिज्ञा
सेयं तत् त्वय्य् अर्पिता धर्म-गुप्त्यै ॥६६॥

पत्न्या धर्मे पालिते तत् पतिः गो-पुत्र-धनायुष्मान् स्याद् इति स्मृति-ज्ञा पौर्णमासी अस्मान् आह । तत् तस्मात् सेयं राधा धर्म-गुप्त्यै धर्म-रक्षायै त्वय्य् अर्पिता ॥६६॥

धर्माद् अर्थश् च कामश् चेत्य् आदि सत्यं सतां वचः ।
यतोऽस्याः पालिताद् धर्मात् भूयान् अर्थोऽपि साधितः ॥६७॥

पालिताद् धर्मात् अस्याः भूयान् अर्थोऽपि साधितः स्यात् ॥६७॥

एकः सुतो मे कुशली यथासौ
कुलेऽमले स्यान् न यथा कलङ्कः ।
धर्मं तथास्याः परिपालयन्ती
निर्वाह्य सूर्यार्चनमानयैनाम् ॥६८॥

एकः मे सुतो यथा कुशली स्यात् अमले कुले च कलङ्को यथा न स्यात्, तथास्याः

धर्मं परिपालयन्ती सूर्य-पूजां निर्वाह्य एनाम् आनय ॥६८॥

राधे त्वं ताम्र-कुण्डीम् अरुण-कपिलिका-क्षीर-दध्याज्यम् इज्यं
सार्पिष्कान्नं जवाम् ऐक्षवम् अथ घुसृणं पत्रकं पद्म-मालाम् ।
सार्धं सख्यानयेत्य् आद्य्-उपकरण-चयं पुत्रि गेहाद् गृहीत्वा
गार्ग्या वा केनचिद् वार्चन-पटु-बटुना याहि सूर्यार्चनाय ॥६९॥

हे पुत्रि राधे ! त्वं गेहात् ताम्र-कुण्ड्य्-आद्य्-उपकरण-चयं गृहीत्वा, अनया कुन्दवल्ल्या सख्या सार्धं गार्ग्या वा अर्चन-पटुना केनचिद् ब्राह्मण-बालकेन वा सह सूर्यार्चनाय याहि । अरुण-कपिलाज्यं कीदृशं ? इज्यं पूजार्हम् । सार्पिष्कान्नं स-घृत-तण्डुलं घृत-पक्वान्नं वा जवां जवा-पुष्पम् ऐक्षवम् इक्षु-विकारं खण्ड-शर्करादि घुसृणं केशरं पत्रकं रक्त-चन्दनम् ॥६९॥

चण्डासि साध्वी ललिते त्वयासौ
नैकाकिनी क्वापि सखी विधेया ।
गन्धोऽपि यस्यां किल नन्द-सूनोस्
तस्यै दिशे वोऽञ्जलिर् एव कार्यः ॥७०॥

हे ललिते ! त्वं साध्वी चण्डा प्रगल्भा च भवसि । त्वया ते सखी राधा एकाकिनी क्वापि न विधेया, यस्यां दिशि श्री-कृष्णस्य गन्धोऽप्य् अस्ति, तस्यै दिशे वो युष्माभिर् अञ्जलिर् नमस्कार एव कार्यः, तत्र सर्वथा नैव गन्तव्यम् इति भावः ॥७०॥

अत्यारूढं दिनं वत्से सन्ति गो-मय-राशयः ।
युवयोर् न्यस्त-भारा स्यां निश्चिन्तोत्पलिका-कृतौ ॥७१॥

हे वत्से ललिता-कुन्दल्ल्यौ ! युवयोर् उपरि स्नुषाया रक्षा सूर्य-पूजार्थं न्यस्त-भाराहं स्यां, गोमयैर् उपलिका-कृतौ निश्चिन्ता स्याम् ॥७१॥

ताम् ऊचतुस् ते हृदि सम्प्रहर्षिते
निश्चिन्तम् आर्ये क्रियतां क्रिया निजा ।
आवाम् अवावः सततं भवद्-वधूं
ताराम् इवाक्ष्णः सह-पक्ष्म-लोचके ॥७२॥

ते कुन्दवल्ली-ललिते ताम् जटिलाम् ऊचतुः । हे आर्ये ! निश्चिन्तं निज-क्रिया क्रियतां भवत्येति शेषः । आवाम् भवद्-वधूं पक्ष्मणा सह वर्तमाने सह-पक्षिणी तथा-भूते लोचके नेत्राच्छादके ऊर्ध्वाधो-वर्तिनी चर्मणी अक्ष्णस् ताराम् इवावावः, रक्षां करिष्यावः ॥७२॥

ताः प्रोन्मत्ता अपि जटिलायाः
पीत्वाज्ञा-वाङ्-मधु-मधुराङ्ग्यः ।
आनन्दोत्फुल्लित-तनु-चित्ता
धैर्यं धृत्वा गृहम् अनुजग्मुः ॥७३॥

ता गोप्यो जटिलायाः आज्ञा-वाग् एव मधु तत् पीत्वा प्रोन्मत्ता अपि आनन्दोत्फुल्लित-तनु-चित्ता मधुराङ्ग्यः आनन्दातिशयेन गन्तुम् असमर्था अपि, धैर्यं धृत्वा गृहम् अनुजग्मुः ॥७३॥

आगत्य खट्टोपरि सन्निविष्टां
श्री-राधिकां क्षालित-मार्जिताङ्घ्रिम् ।
दास्यो मुदा पर्यचरन् निजेशां
पादाब्ज-संवाहन-वीजनाद्यैः ॥७४॥

स्व-गृहम् आगत्य खट्टोपरि उपविष्टां निजेशां राधां दास्यः पाद-संवाहन-वीजनाद्यैः पर्यचरन् ॥७४॥

मल्ली-रङ्गण-कर्णिकार-बकुलाऽमोघा-लता-सप्तला
जाती-चम्पक-नाग-केशर-लवङ्गाब्जादि-पुष्पोच्चयम् ।
श्री-वृन्दा-प्रहितं वनाद् अलि-कुलास्पृष्टं दरोज्जृम्भितं
स्वेश्वर्याः पुरतो न्यधाद् वन-सखी श्री-नर्मदा मालिनी ॥७५॥

मल्ली-रङ्गणादि-पुष्प-समूहं वनात् श्री-वृन्दा-देव्याः प्रहितं भ्रमरैर् अस्पृष्टम् अल्प-विकसितं स्वेश्वर्याः राधायाः पुरतः वन-सखी नर्मदा-नाम्नी मालिनी न्यधात् । कर्णिकारः स्वर्ण-वर्ण-पद्माकार-पुष्पम् । कर्णिकारः पुमान् आवथ-पत्रे च द्रुमोत्पले इति मेदिनी । कर्णिकारो मतः पुंसि शामाह्ये च द्रुमोत्पल इति विश्वः । अमोघा लता सप्तला नव-मल्लिका भ्रमरास्पृष्टम् अल्प-विकसितम् इत्य् अनेन पुष्पाणां म्लान-राहित्यं सौगन्ध्य-वर्णयोः परिपूर्णत्वम् आयाति ॥७५॥

कृष्णाङ्ग-कामालय-वैजयन्तिकां
तैर् वैजयन्तीं विरचय्य सा व्यधात् ।
राधा स्व-नैपुण्य-गुणादि-सूचिकां
कर्पूर-कृष्णागुरु-सत्त्व-भाविताम् ॥७६॥

सा राधा तैः पुष्पैर् वैजयन्तीं पञ्च-वर्ण-मयीं मालां विरचय्य कर्पूरादि-सत्त्वैर् वासितां व्यधात् । कीदृशीं ? श्री-कृष्णाङ्ग-रूप-काम-मन्दिरस्य वैजयन्तिकां जय-पताकाम् । श्री-राधायाः स्व-नैपुण्य-गुणादेः तादृक् गुण-जनक-पुण्यस्य सूचिकाम् ॥७६॥

एलेन्दु-जाती-फल-खादिरान्विताः
स्व-पाणि-हृत्-सौरभ-राग-भाविताः ।
कृष्णाक्षि-चित्तानन-चन्द्र-रञ्जिकाः
सा नागवल्ली-दल-वीटिका व्यधात् ॥७७॥

सा राधा नागवल्ली-दलस्य ताम्बूलस्य वीटिकाः व्यधात् । कीदृशीः ? एला इन्दुः कर्पूरः जाती-फलं खादिरः स्वार्थेऽन् खदिर एतैर् अन्विता युक्ताः स्व-पाणेर् हृदयस्य च सौरभ-रागाभ्यां भाविताः श्री-कृष्णाक्षि-चित्तयोः आनन-चन्द्रस्य सत् रञ्जिकाः ॥७७॥

मालाम् एतां तुलसि हरये वीटिकाश् चोपहृत्य
ज्ञात्वा वृन्दा सुबल-मुखतः केलि-सङ्केत-कुञ्जम् ।
आगच्छताशु त्वम् इति ललिता-प्रेरितादाय तान्ताः
कस्तूर्य्-आली-सहित-तुलसी कृष्ण-पार्श्वं प्रतस्थे ॥७८॥

हे तुलसि ! मालां वीटिकाश् च हरये उपहृत्य दत्त्वा वृन्दा सुबल-मुखात् केलि-सङ्केत-कुञ्जं ज्ञात्वा शीघ्रम् आगच्छ इति ललितया प्रेरिता कस्तूर्या सह तुलसी तां मालां ताः वीटिकाश् चादाय कृष्ण-पार्श्वं प्रतस्थे ॥७८॥

श्री-राधिकाप्य् अथ सखी-सहितातिदक्षा
श्री-कृष्ण-चन्द्र-सकलेन्द्रिय-तर्पणानि ।
कर्पूर-केल्य्-अमृत-केलि-मुखानि कामं
कर्तुं समारभत साद्भुत-लड्डुकानि ॥७९॥

श्री-राधा सखी-सहिता कर्पूर-केलि-मुखानि अद्भुत-लड्डुकानि कर्तुं समारभत ॥७९॥

यद् अपि निज-सखी सान्वेषणायास्य याता
स्वयम् अपि च निमग्ना कृष्ण-सम्बन्धि-कृत्ये ।
तद् अपि हरि-मुखेन्दोर् दर्शनोत्काथ मेने
त्रुटिम् अपि युग-लक्षं व्यग्र-राधा-चकोरी ॥८०॥

यद् अपि अस्य श्री-कृष्णस्य अन्वेषणाय सा निज-सखी तुलसी याता, स्वयम् अपि श्री-कृष्ण-सम्बन्धि-कृत्ये लड्डुका-निर्माणे निमग्ना, तद् अपि श्री-कृष्ण-मुख-दर्शनोत्काण्ट्ःइता त्रुटि-कालम् अतिसूक्ष्म-कालम् अपि युग-लक्षं मेने । तत्र हेतुम् आह—व्यग्रा चैषा राधा-चकोरीति ॥८०॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः पञ्चम एष साधु निरगात् पूर्वाह्न-लीलाम् अनु ॥

॥५॥