चतुर्थः सर्गः
अथ व्रजेन्द्रेण कृताग्रहोत्करैः
कृष्णः स्व-गोष्ठात् प्रहितो निजोन्मुखीम् ।
स्तन्याश्रु-विक्लिन्न-पयोधराम्बराम्
अम्बां मिलन्तीं पुरतो ददर्श सः ॥१॥
अथानन्तरं व्रजेन्द्रेण नन्देन कृतैर् आग्रहोत्करैः स्व-गोष्ठात् प्रहितः कृष्णः निजोन्मुखीं विलोकनोत्कण्ठया पुर-द्वारात् पश्यन्तीं स्तन-दुग्धेनाश्रु-जलेन च क्लिन्नानि पयोधराम्बरां च यस्यास् तां पुरतो मिलन्तीम् अम्बां मातरं ददर्श ॥१॥
एह्य् एहि वत्स क्षुधितोऽपि शीघ्रं
नायासि गेहं किम् उ मां दुनोषि ।
राद्धं यद् अन्नादिकम् अप्य् अतीव-
यत्नेन तच् छीतलतां प्रयाति ॥२॥
एह्य् एहीत्य् आदरे हे वत्सेति वात्सल्ये । क्षुधितोऽपि शीघ्रं गेहं नायासि किम् उ ? किं मां दुनोषीति च वात्सल्य-पोषकोऽयं खेदः । अतीव-यत्नेन यद् अन्नादिकं राद्धं संसिद्धं तद् अन्नादिकम् ॥२॥
इतीरयित्वा तनयं तद्-अङ्गं
सम्मार्जयन्ती कर-पल्लवेन ।
सा तद्-वयस्यान् स्व-गृहायनोत्कान्
अभाषत स्नेह-विपाक-दिग्धा ॥३॥
इति तनयं कृष्णम् ईरयित्वा उक्त्वा करेण तद्-अङ्गं सम्मार्जयन्ती स्व-गृह-गमनोत्काण्ठितान् कृष्ण-वयस्यान् स्नेहस्य परिपाकेन दिग्धा युक्ता अभाषत ॥३॥
विना भवद्भिः प्रचुरं न भुङ्क्ते
द्राक् सङ्गमार्थं भवतां समुत्कः ।
यच् चञ्चलोऽयं तद् अनेन वत्साः
जग्धिः सदेष्टा मम मन्दिरे वः ॥४॥
यद् यस्माद् अयं चञ्चलः कृष्णः भवतां द्राक् शीघ्रं मङ्गलार्थं समुत्कः यच् ओऽयं तद् अनेन वत्साः जग्धिः सदेष्टा मम मन्दिरे वः ॥४॥
तद् यात स्व-गृहान् पुत्राः स्नात्वा भूषण-भूषिताः ।
क्षुधार्ताः स्थ द्रुतं भोक्तुम् आगच्छत ममालयम् ॥५॥
उक्तार्थं स्पष्टम् आह—क्षुधार्ता यूयम् अपि स्व-स्व-गृहे स्नात्वा भूषिता ममालयं
भोक्तुम् आगच्छत ॥५॥
गतेषु तेषु हृष्टेषु स-राम-मधुमङ्गलम् ।
सुतम् आदाय निलयं ययौ व्रज-कुलेश्वरी ॥६॥
तेषु बालकेषु गतेषु यशोदा राम-मधुमङ्गल-सहितं कृष्णम् आदाय स्व-गृहं ययौ ॥६॥
तृषित-दृग्-अति-शुष्यच्-चातकीर् वल्लबीनां
निज-मधुरिम-धारा सार-वर्षैर् निषिञ्चन् ।
निज-नयन-चकोरौ पाययंस् तन् मुखेन्दु-
द्युति-मधुर-सुधां स्वं गेहम् आयान् मुकुन्दः ॥७॥
तृषित-दृग्-अति-शुष्यच्-चातकीर् वल्लबीनां निज-मधुरिम-धारा सार-वर्षैर् निषिञ्चन् ।
निज-नयन-चकोरौ पाययंस् तन् मुखेन्दु-द्युति-मधुर-सुधां स्वं गेहम् आयान् मुकुन्दः ॥७॥
तम् आगतं स्नापन-वेदिकान्तरं
भृत्यः समुत्तार्य विभूषणं तनोः ।
सुकुञ्चितं चीन-नवीनम् अंशुकं
सारङ्ग-नामा लघु पर्यधापयत् ॥८॥
सारङ्ग-नामा भृत्यः स्नापन-वेदिकान्तरं मध्यम् आगतं तं दृष्ट्वा तस्य तनोः शरीरात् विभूषणम् उत्तार्य नवीन-सूक्ष्म-सुकुञ्चितं वसनं लघु क्षिप्रं क्षुद्रं वा पर्यधापयत् ॥८॥
तत्रोपविष्टस्य सुखं वरासने
प्रक्षाल्य पत्री चरणाम्बुजे प्रभोः ।
गन्धाम्भसा पत्रक-पाणि-विस्फुरद्-
भृङ्गार-मुक्तेन ममार्ज वाससा ॥९॥
पत्री-नामा भृत्यः तत्र स्नान-वेदिकायां वरासने सुखम् उपविष्टस्य प्रभोश् चरणाम्बुजे पत्रक-नामा भृत्यस् तस्य पाणौ विस्फुरद्-भृङ्गारात् जल-धारात् मुक्तेन गन्धाम्भसा प्रक्षाल्य वाससा ममार्ज ॥९॥
अभ्यज्य नारायण-तैल-लेपैः
प्रत्यङ्ग-नाना-मृदु-बन्ध-पूर्वम् ।
सुबन्ध-नामा क्षुरि-सूनुर् अस्य
प्रेम्णाङ्ग-सम्मर्दनम् आततान ॥१०॥
सुबन्ध-नामा क्षुरि-सूनुर् नापित-पुत्रः नारायण-तैल-समूहैर् अस्य ।शृङ्खलस्य प्रत्यङ्गम् अङ्गम् अङ्गं प्रति-नाना-मृदु-बन्ध-पूर्वं नाना-विध-तैल-मर्दन-प्रकार-पूर्वम् अभ्यज्य प्रेम्णा अङ्गस्य मर्दनम् आततान ॥१०॥
उद्वर्तनेनास्य मुदा सुगन्धः
शीतेन पीतेन सदा सुशीतम् ।
स्निग्धेन मुग्धो नवनीत-पिण्डाद्
उद्वर्तयामास शनैस् तद्-अङ्गम् ॥११॥
मुग्धः सुन्दरः सुगन्ध-नामा भृत्यः नवनीत-पिण्डात् स्निग्धेन कोमलेन च शीतेन शीतलेन पीतेन पीत-वर्णेन पीताख्येन वा, उद्वर्तनेन सतील-पीतेनेति वा पाठः । तस्य निसर्ग-शीतं स्वभाव-शीतलं तद्-अङ्गम् उद्वर्तयामास ॥११॥
धात्री-फलार्द्र-कल्केन केशान् शीत-सुगन्धिना ।
स्निग्धः स्निग्धेन सुस्निग्धान् कर्पूरोऽपि समस्करोत् ॥१२॥
स्निग्धः स्निग्ध-नामा कर्पूरः कर्पूर-नामा च भृत्यः स्निग्धेन (भावे क्तः) स्नेहेन शीत-सुगन्धिना धात्री-फलार्द्र-कल्केन स्निग्धान् केशान् समस्करोत् ॥१२॥
प्रक्षालयन् शीतल-वारि-धारया
शनैस् तद्-अङ्गानि पयोद-दत्तया ।
स्वभाव-शीतोज्ज्वल-कोमलान्य् अलं
चीनांशुकेनात्र ममार्ज रक्तकः ॥१३॥
रक्तकोऽत्र समये वेदिकायां वा पयोद-नाम्ना दत्तया शीतल-वारि-धारया स्वभावत एव शीतलोज्ज्वल-कोमलानि तद्-अङ्गानि प्रक्षालयन् चीनांशुकेन सूक्ष्म-वस्त्रेण ममार्ज ॥१३॥
मन्द-पक्व-परिवासित-कुम्भ-
श्रेणि-सम्भृत-जलैर् अथ दासाः ।
शतकुम्भ-घटिकात्त-विमुक्तैः
स्वेश्वरं प्रमुदिताः स्नपयन्ति ॥१४॥
अथानन्तरं दासाः आदौ मन्द-पक्वासु पश्चात् परिवासित-कुम्भ-श्रेणिषु सम्भृतैः सम्यक् धृत-जलैः, कीदृशैः ? पश्चात् शातकुम्भं सुवर्णं तस्य घटिकासु क्षुद्र-घटेषु आत्तैर् गृहीतैर् –मुक्तैस् त्यक्तैः स्वेश्वरं कृष्णं स्नपयन्ति ॥१४॥
तच्-छ्रीमद्-अङ्गं मृदु-चीन-वाससा
सम्मार्ज्य केशन् अपतोय-बिन्दुकान् ।
कृत्वा च प्रत्युद्गमनीयम् अंशुकं
पत्री हिरण्य-द्युति पर्यधापयत् ॥१५॥
पत्री श्रीमद् अङ्गं मृदु सूक्ष्म-वाससा सम्मार्ज्य, अपगताः तोय-बिन्दवो यस्मात् तथा-भूतान् केशन् कृत्वा च प्रत्युद्गमनीयं वस्त्रं धौत-वस्त्र-युग्मं पीतं पर्यधापयत्, तत् तस्माद् उद्गमनीयं यद् धौतयोर् वस्त्रयोर् युगम् ॥१५॥
तत्रोपविष्टस्य सुमृष्ट-वेदिका-
विन्यस्त-पीठेऽगुरु-धूम-वासितैः ।
जूटं कचै कङ्कतिका-विशोधितैर्
विधाय दाम्ना कुमुदोऽप्य् अवेष्टयेत् ॥१६॥
कुमुदः कुमुद-नामा दासोऽपि मार्जित-वेदिकायां विन्यस्त-पीठे उपविष्टस्य श्री-कृष्णस्यादौ अगुरु-धूप-वासितैः पश्चात् कङ्कतिका-विशोधितैः कचैर् जूटम् एकत्रीकृतं विधाय दाम्ना अवेष्टयेत् ॥१६॥
विधाय गोरोचनयास्य भाले
तमाल-पत्रं मृगनाभि-मध्यम् ।
शृङ्गार-कारी मकरन्द-नामा
लिलेप गात्रानि चतुः-समेन ॥१७॥
मकरन्द-नामा शृङ्गार-कारी वेश-कर्ता अस्य भाले ललाटे गोरोचनया कस्तूरी-मध्यं तमाल-पत्रं तिलकं विधाय चतुः-समेन कस्तूरी-कर्पूरागुरु-कुङ्कुमेन गात्रानि लिलेप ॥१७॥
तस्य श्रीमद्-भुज-युगलयोः कङ्कणे चङ्कनाख्ये
हैमे भ्राजन् मकर-वदने कर्णयोः कुण्डले द्वे ।
मञ्जीरौ श्री-चरण-युगले हंस-हारि-प्रणादौ हारं
तारा-मणिम् अथ हृदि प्रेम-कन्दो युयोज ॥१८॥
तस्य भुज-युगलयोः हैमे च चङ्कनाख्ये कङ्कणे, कर्णयोः मकर इव वदने ययोस् तादृशे द्वे कुण्डले । श्री-चरण-युगले हंसाद् अपि मनोहरौ प्रणादौ ययोस् तौ मञ्जीरौ । हृदि तारावत् प्रकाश-बहुलो मणिर् यत्र तादृशं हारं मुक्ता-मालां प्रेम-कन्दाख्यो युयोज ॥१८॥
तत्र तत्र सुतं माता पश्यन्ती प्रेम-विह्वला ।
त्वरयन्ती कृतौ दासान् स्वयं च विदधे क्रियाम् ॥१९॥
यत्र यत्र स्थले पुरा तैल-मार्दनादौ प्रेरिताः दासास् तत्र तत्र स्थले प्रेम-विक्लवा माता सुतं सुतं पश्यन्ती दासान् कृतौ तत्-तत्-कर्मणि त्वरयन्ती स्वयं च क्रियां तैल-मर्दन-रूपां विदधे ॥१९॥
स्नातानुलिप्तादृत-भूषिताभ्यां
श्रीमद्-बल-श्री-मधुमङ्गलाभ्याम् ।
तथा-विधैस् तत्र तदैव लब्धैः
समं वयस्यैर् विरराज कृष्णः ॥२०॥
तथा श्री-कृष्णवत् स्नातानुलिप्तादृत-भूषिताभ्यां श्री-बलदेव-मधुमङ्गलाभ्यां तदैव लब्धैः प्राप्तैर् आगतैर् वयस्यैश् च समं तत्र श्री-कृष्णो विरराज ॥२०॥
तोयार्द्र-कञ्चुक-सुवेष्टित-तोय-पूर्ण-
भृङ्गार-पालि-विमलासन-पङ्क्ति-युक्ताम् ।
संसिक्त-मृष्ट-वर-धूप-विधूपितां तान्
वेदीं निनाय किल भोजयितुं तदाम्बा ॥२१॥
अम्बा माता तदा तान् श्री-राम-कृष्णादीन् भोजन-वेदीं निनाय । वेदीं कीदृशीं ? तोयेनार्द्रैः कञ्चुकैः आवरक-वस्त्रैः सुवेष्टित-तोय-पूर्ण-भृङ्गार-पालिभिः जलाधार-पात्र-समूहैः सह विमलासन-पङ्क्तिभिर् युक्ताम् । आदौ संसिक्ता क्षालिता पश्चान् मार्जिता च सा वर-धूपेन विधूपिता सुवासिता च ताम् ॥२१॥
श्रीदाम-सुबलौ वामे पुरोऽस्य मधुमङ्गलः ।
दक्षिणे श्री-बलश् चान्ये परितः समुपाविशन् ॥२२॥
अस्य श्री-कृष्णस्य वामे श्रीदाम-सुबलौ पुरोऽग्रे मधुमङ्गलः, दक्षिणे बलदेवः, अन्ये परितः । एषां वाम-दक्षिण-पार्श्वे परितश् चतुर्-दिक्षु इति व्याख्यायां पुलिने भोजन-स्थले इव तेषां श्री-कृष्णाभिमुखत्वं बोध्यम् । उभय-पङ्क्तेः पार्श्व-द्वये वा ॥२२॥
तेषूपविष्टेष्व् अथ पानकानि
स्वर्णेषु पात्रेषु सुसम्भृतानि ।
पानाय चित्रोपहृतानि माता
पुत्राय तेभ्यश् च ददौ क्रमेण ॥२३॥
तेषु राम-कृष्णादिषु उपविष्टेषु माता पुत्रायेति पुत्राभ्याम् इत्य् उक्तौ तयोर् अभेदाद् एक-वचनान्तः, अर्थात् पुत्राभ्यां राम-कृष्णाभ्यां तेभ्यः सखिभ्यश् च क्रमेण पानकानि नारिकेल-जल-सर्वोत्तमेक्षु-रस-विकार-जातादीनि पानाय ददौ ॥२३॥
स्व-स्व-संस्कृत-मिष्टान्नं प्रातर् आशोपयोगि यत् ।
उपजह्रुस् तयाहूता मात्रे गोप्यो मुदान्विताः ॥२४॥
तया यशोदया आहूता गोपः स्व-स्व-कृत-पक्वान्नं मिष्टान्नम् इति वा पाठः । प्रातर् भोजनोपयोगि यत् पक्वान्नं तन्-मात्रे तस्यै यशोदादै उपजह्रुर् ददुः ॥२४॥
श्री-राधया यत्नत एव गेहाद्
आनीत-खण्डोद्भव-लड्डुकानि ।
गङ्गा-जलाख्यान्य् अथ रङ्गदेवी
तद्-इङ्गितेनोपजहार मात्रे ॥२५॥
राधया गेहात् स्व-गृहाद् आनीत-खण्ड-लड्डुकानि तस्या राधाया इङ्गितेन रङ्गदेवी मात्रे उपजहार ॥२५॥
तानि माता बलादिभ्यो विभज्य स्नेहतो ददौ ।
प्रकीर्ण-स्वर्ण-पात्रेषु विनिधाय पृथक् पृथक् ॥२६॥
माता तानि मिष्टान्नानि विस्तृत-स्वर्ण-पात्रेषु पृथक् पृथक् विभज्य विनिधाय बलदेवादिभ्यो ददौ ॥२६॥
आस्वादयन्तं घृत-पक्वम् अन्नं
सुनर्मभिस् तान् अपि हासयन्तम् ।
आलोकयन्तं नयनाञ्चलेन
राधाननं तं ददृशुर् मुदाल्यः ॥२७॥
आल्यः सख्यः तं श्री-कृष्णं मुदा ददृशुः । कीदृशं तं ? घृत-पक्वम् अन्नम् आस्वादयन्तं सुनर्मभिस् तान् सखीन् हासयन्तम्, नयनाञ्चलेन राधाननम् आलोकयन्तम् ॥२७॥
अदो भद्रम् इदं मिष्टम् एतत् स्निग्धं सुचारु तत् ।
तर्जन्या दर्शयन्त्य् अम्बा भुङ्क्स्व वत्सेत्य् अभाषत ॥२८॥
तदा तर्जन्या दर्शयन्ती अभाषत । किम् अभाषत ? अदोऽग्रे स्थितं पद्वान्नं भद्रं हे वत्स ! त्वं भुङ्क्स्व इति, इदम् अन्नम् इष्टम् इत्य् आदि ॥२८॥
यद् यद् इष्टं भवेद् यस्य ज्ञात्वा ज्ञात्वा हसन् हरिः ।
तस्मै तस्मै ददौ तत् तत् स्व-पात्रात् प्रक्षिपन् मुहुः ॥२९॥
हरिर् यस्य बालकस्य यद् यद् अन्नम् इष्टं वाञ्छितं भवति, तत् तत् तस्मै तस्मै स्व-पात्रात् मुहुर् हसन् प्रक्षिपन् ददौ ॥२९॥
वीक्ष्य यत्नान्विताम् अम्बां मन्दम् अश्नन्तम् अच्युतम् ।
परिहास-पटुस् तस्मिन् व्रजेशाम् अवदद् बटुः ॥३०॥
मन्द-भोजिनं कृष्णं वीक्ष्य यत्नान्वितां मातरं च वीक्ष्य तस्मिन् कृष्णे परिहास-पटुर् बटुः व्रजेशाम् आह ॥३०॥
अयं चेद् भूरि नात्त्य् अम्ब देहि मे सर्वम् अद्म्य् असौ ।
मयैवालिङ्गितः पुष्टो भविता भूरि-भोजिना ॥३१॥
अयं श्री-कृष्णश् चेद् भूरि नात्ति, मे मह्यं देहि, सर्वम् अहम् अद्मि, भूरि-भोजिना मया आलिङ्गितोऽसौ कृष्णः पुष्टो भविष्यतीति हास्य-पटुत्वम् अस्य ॥३१॥
नास्य मन्द-रुचेः शक्तिर् घृत-पक्वान्न-भोजने ।
तद् अस्मै लघु-राद्धान्नं व्यञ्जनान्य् अम्ब दापय ॥३२॥
अन्यद् अपि हास्यम् आह—मन्द-रुचेर् अस्य घृत-पक्वान्न-भोजने शक्तिर् नास्ति । तत् तस्मात् अस्मै लघु-राद्धान्न-व्यञ्जनानि लघु यथा स्यात् तथा संसिद्धम् अन्नादिकं दापय । राध् साध् संसिद्धौ धातुः ॥३२॥
अथ कृष्णः स्व-पात्रस्थ-पक्वान्नाञ्जलिभिर् हसन् ।
पञ्चयैः पूरयामास भुङ्क्स्वेति बटु-भाजनम् ॥३३॥
श्री-कृष्णः तस्य पक्वान्ने आग्रहं ज्ञात्वा पञ्च-षैः स्व-पात्रस्थ-पक्वान्नानाम् अञ्जलिभिर् भुङ्क्स्व इत्य् उक्त्वा हसन् बटोर् भाजनं पूरयामास ॥३३॥
ततो वाम-कफोणिं स्वं वादयन् वाम-पार्श्वके ।
सम्यग् भोक्तुं कृतारम्भः प्रहृष्टो बटुर् आह तम् ॥३४॥
ततो वाम-पार्श्वके स्वं वाम-कफोणिं वादयन् सम्यग् भोक्तुं कृतारम्भो बटुस् तं श्री-कृष्णम् आह ॥३४॥
वयस्य पश्य भक्ष्येऽहम् इत्य् अश्नन् कवल-द्वयम् ।
मातर् मे दधि देहीति प्राहिणोत् तां तदाहृतौ ॥३५॥
“भो वयस्य ! अहं भक्ष्ये पश्य”इत्य् उक्त्वा कवल-द्वयं ग्रास-द्वयम् अश्नन्, “हे मातः ! मे दधि देहि”इत्य् उक्त्वा तां तद्-आहृतौ दध्य्-आनयने प्राहिणोत् ॥३५॥
गोपाः पश्यत नृत्यतीह चपलः पक्वान्न-लब्धाशया
कीशेशो दधि-लम्पटोऽयम् इति तान् कृत्वोन्मुखांस् तद्-दिशि ।
तेषां भोजन-भाजनेषु शनकैर् आक्षिप्य भक्ष्यं निजं
सर्वं भुक्तम् इदं मयेति स पुनर् गर्वायमानोऽवदत् ॥३६॥
मातरि दध्य्-आनयनार्थं गतायां सत्यां, “हे गोपाः ! दधि-लम्पटश् चपलः कीशेशो वानर-श्रेष्ठः पक्वान्न-लब्धाशया नृत्यति पश्यत”इत्य् उक्त्वा, तान् गोपान् तद्-दिशि उन्मुखान् कृत्वा, निजं सर्वं भक्ष्यं तेषां गोपानां भोजन-पात्रेषु निक्षिप्य, स पुनः गर्वायमानः सन् “इदं सर्वं मया भुक्तम्”इत्य् अवदत् ॥३६॥
अथागतां तां दधि-पात्र-हस्ताम्
उवाच पश्याम्ब विनैव दध्ना ।
मयोपभुक्तं द्रुतम् एव सर्वं
तत् पायसं दापय भूरि मह्यम् ॥३७॥
हास्य-कारी स ताम् आह दया विनैव मया सर्वं भुक्तम् । भूरि पायसं मह्यं दापय ॥३७॥
हैमेषु पात्रेषु निधाय राधया
नवीन-रम्भा-दल-मन्द-मारुतैः
शीतीकृतं स्वे परिवेशितं करे
तेभ्यो ददौ पायसम् आशु रोहिणी ॥३८॥
भोजनं “मधुरेण समापयेत्”इति गौडे रीतिः । व्रजे परमान्नादौ भुक्त्वा पश्चाद् अन्न-व्यञ्जनादिकं भुङ्क्ते । अत्र आदाव् अन्ते च मधुरं मध्ये लावणं कठिनं चेति रीत्या राधया नवीन-कदली-पत्र-पवनेन शीतीकृतं पायसं स्वे करे रोहिणी-करे परिवेशितं दत्तं रोहिणी तेभ्यो राम-कृष्णादिभ्यो ददौ ॥३८॥
स्यन्दानिकोपरि धृतेषु पुरः सुवर्ण-
स्थाली-चयेष्व् अनुचरैर् विमलादि-मुख्यैः ।
राधार्पितं निज-करे वर-मोदनं सा
तेभ्यस् ततः परिविवेश शनैर् बलाम्बा ॥३९॥
विमलादि-मुख्यैर् अनुचरैः पुरोऽग्रे स्यन्दानिका व्रजे परिखाख्या सेपाया त्रिपदी तद्-उपरि सुवर्ण-स्थाली-समूहेषु धृतेषु सत्सु सा बलाम्बा रोहिणी निज-करे राधार्पितं वर-मोदनं तेभ्यः शनैः परिविवेश ॥३९॥
आनीयानीय गान्धर्वा दत्तानि व्यञ्जनानि सा ।
शाकादीन्य् अम्ल-शेषानि तेभ्योऽदात् क्रमशः शनैः ॥४०॥
आनीयानीय दत्तानि शाकम् आरभ्याम्लान्तानि व्यञ्जनानि सा रोहिणी तेभ्यः शनैर् अदात् ॥४०॥
रम्भोदरस्थ च्छद-वर्ण-लाघवाः
सम्मृष्ट-गोधूम-सुचूर्ण-रोटिकाः ।
घृताभिषिक्ताः परिवेशितास् तया
तेभ्योऽन्य-पात्रेषु निधाय सा ददौ ॥४१॥
तया राधिकया परिवेशिताः सम्मृष्ट-गोधूम-चूर्णस्य रोटिकाः । कीदृशाः ? रम्भा कदली तद्-उदरस्थस्य च्छदस्य पत्रस्येव वर्णाः शुक्ला लाघवाश् च सुमृष्ट-गोधूम-चूर्ण-रोटिका इत्य् आदि विशेषणैः कोमलाः स्वल्प-भाराः सूक्ष्माश् चान्य-पात्रेषु निधाय सा रोहिणी ददौ ॥४१॥
धनिष्ठया यल् ललितादि-संस्कृतं
तत् तद् रसालादिकम् आहृतं पुरः ।
कृत्वा पृथक् पात्र-चये व्रजेश्वरी
स-स्नेहम् एभ्यो ददती मुमोद सा ॥४२॥
यल् ललितादि-संस्कृतं तत् तद् रसालादिकं पृथक् पात्र-चये कृत्वा धनिष्ठया पुरोऽग्रे आहृतं सा व्रजेश्वरी तेभ्यो ददती मुमोद ॥४२॥
हृदय-दयित-मुख-वीक्षण-हृष्टास्
तद्-अति-मधुर-मृदु-कान्ति-विकृष्टाः ।
मुमुदुर् उदित-पृथु-भाव-विहस्ता
रमण-भवनम् अधि ताः पुरु-शस्ताः ॥४३॥
रमण-भवनम् अधि श्री-कृष्ण-भवने पुरु-शस्ताः प्रचूर-मङ्गलास् ता राधाद्या मुमुदुः । कीदृश्यः ? हृदय-दयितस्य कृष्णस्य मुख-वीक्षणेन हृष्टाः । तस्य कृष्णस्यातिमधुर-मृदु-कान्तिभिर् विकृष्टाः, उदित-पृथु-भावेन विहस्ता व्याकुलाः ॥४३॥
अन्नान्य् अथो तानि चतुर्-विधानि
ते पीयूष-सारोद्भव-विक्रिया इव ।
आस्वादयन्तो मधुराणि स-स्पृहं
तां हासयन्तो जहसुश् च नर्मभिः ॥४४॥
अथोऽथानन्तरं मथित्वा अमृतस्य सारं निष्कास्य तद्-उद्भवा विक्रिया विकाराणि इव मधुराणि चतुर्विधान्नानि चर्व्य-चुष्य-लेह्य-पेयानि ते सखायः स-स्पृहं यथा स्यात् तथा स्वादयन्तः नर्म्भिः श्री-कृष्णं हासयन्तश् च जहसुः ॥४४॥
चर्वन्ति चर्व्याणि मृदूनि केचिल्
लेह्यानि चान्ये चटुलं लिहन्ति ।
पिबन्ति पेयानि परे प्रहृष्टाश्
चुष्यन्ति चूष्याण्य् अपरेऽवितृप्ताः ॥४५॥
केचित् मृदूनि चर्व्याणि क्षीर-सारामिक्षा गोधूम-चूर्ण लाज-भ्रष्ट चिपिटक-भृष्टा-तण्डूलादीन् घृतेन भृष्टान् कृत्वा शर्करादिना पाकेन सिद्धानि चर्वन्ति । अन्ये लेह्यानि आस्वादार्हाणि चिपिटक-लाजा-भृष्ट-तण्डुलान्न-पिष्टकादीनि घनावर्त-दुग्ध-दध्य्-आदि-मध्ये निक्षिप्य पनसाम्र-कदली-खण्डादीनां न्यूनाधिक-सम-भागस्य प्रक्षेप-चातुर्येण नाना-विधानि स्वादु-युक्तानि चटुलं यथा स्यात् तथा लिहन्ति, लिह आस्वादने धातुः । परे प्रहृष्टाः सन्तः पेयानि दुग्धादीनि पिबन्ति । अपरे तृप्ति-रहिताः चूष्याणि पक्वाम्रादीनि चुष्यन्ति ॥४५॥
स्वादुङ्कारं कमल-नयनः स-स्पृहं तत्-तद्-अन्नं
हस्त-स्पर्शाद् अमृत-मधुरं मन्द-मन्दं प्रियायाः ।
तद्-वाक्त्राब्ज-प्रहित-नयन-प्रान्त-भृङ्गो निगूढं
प्राश्नन्न् अम्बा-मनसि निविडं स प्रमोदं व्यतानीत् ॥४६॥
निगूढं यथा स्यात् तथा तस्या राधाया वाक्त्राब्जे प्रहितो दत्तो नयनस्य प्रान्त-रूप-भृङ्गो भ्रमरो येन स कमल-नयनः कृष्णः प्रियायाः हस्त-स्पर्शाद् अमृताद् अपि मधुरं तत्-तद्-अन्नं स-स्पृहं स्वादुङ्कारं स्वादुं कृत्वा प्राश्नन्न् अम्बा-मनसि निविडं प्रमोदं व्यतानीत् ॥४६॥
प्रहित-चकित-नेत्र-प्रान्त-दृष्टि-प्रणाली
मिलित-तद्-अतिलावण्यामृतास्वाद-पुष्टा ।
प्रसरद्-अखिल-भावोल्लासम् आच्छादयन्ती
दयित-हृदयम् उच्चै राधिकाप्य् आजहार ॥४७॥
प्रहितस्य प्रेरितस्य चकितस्य नेत्रस्य प्रान्तेन या दृष्टिर् दर्शनं सैव प्रणाली तया मिलितानां तस्य श्री-कृष्णस्यातिलावण्यामृतानाम् आस्वादेन पुष्टा । तेनैव हेतुना प्रसरद्-अखिल-भावानाम् उल्लासम् आच्छादयन्ती सती सा राधापि दयित-हृदयम् आजहार ॥४७॥
अथ बल-जननीं ताम् अन्तराकृत्य नृत्यन्-
मदकल-मदिराक्षीम् अर्पयन्तीं करेऽस्याः ।
मृदु मृदु मधुरान्नं प्रेयसीं प्रेक्ष्य
कृष्णः श्लथ-रुचिर् अशनेऽभूद् उन्मना नागरेशः ॥४८॥
मदोत्कटो मदकल इति मदिरो मत्त-खञ्जन इति च । नृत्यन्तौ मद-कलौ मदोत्कटौ मदिरौ मत्त-खञ्जनाव् इवाक्षिणी यस्यास् ताम् । बलदेव-जननीं ताम् अन्तरा मध्ये कृत्यास्या रोहिण्याः करे मृदु मृदु यथा स्यात् तथा । यद् वा, मृदुतोऽपि मृदु । मधुरान्नम् अर्पयन्तीं प्रेयसीं श्री-राधां प्रेक्ष्य नागरेशः श्री-कृष्ण उन्मनाः सन् अशने मृदु-रुचिर् अभूत् ॥४८॥
सामि-भुक्तं कियत् तेन किञ्चित् त्र्य्-अंशावशेषितम् ।
भक्ष्यं वीक्ष्याशने मन्दं तं चासीद् व्याकुला प्रसूः ॥४९॥
प्रसूर् माता तेन कृष्णेन कियद् भक्ष्यं सामि-भुक्तम् अर्ध-भुक्तम् । किञ्चिद् भक्ष्यं त्र्य्-अंशावशेषितं वीक्ष्य । तं च कृष्णम् अशने भोजने मन्दं वीक्ष्य व्याकुला आसीत् ॥४९॥
यत्नात् संस्कृतम् अन्नादि सर्वं त्यक्तं कथं सुत ।
क्षुधितोऽसि कियद् भुङ्क्ष्व शपथः शिरसो मम ॥५०॥
हे सुत ! अन्नादि सर्वं कथं त्यक्तं ? क्षुधितोऽसि मे शिरसः शपथः कियद् भुङ्क्ष्व ॥५०॥
आनाय्य यत्नाद् वृषभानु-कन्यकां
संस्कारितं सर्वम् इदं सुताऽनया ।
अन्नादि मिष्टं च सुधा-परार्धतस्
तथापि नाश्नासि करोमि किं हता ॥५१॥
यत्नाद् राधाम् आनाय्य, तया संस्कारितं सर्वम् इदं सुधा-परार्धतोऽपि मिष्टान्नादि त्वं नाश्नासि । हताहं किं करोमि ? ॥५१॥
अथ सा रोहिणीम् आह पश्य रोहिणि चञ्चलः ।
दुर्बलः क्षुधितोऽप्य् एष किम् अप्य् अत्ति न मन्द-भुक् ॥५२॥
अथैतत् कथनानन्तरम् अपि भोजने तथा-विध दृष्ट्वा सा यशोदा रोहिणीम् आह—एष पुत्रो दुर्बलः क्षुधितोऽपि मन्द-भुक् सन् किम् अपि नात्ति ॥५२॥
अतः स्नेह-परीताङ्गी लालयन्त्य् अघ-मर्दनम् ।
प्रलम्ब-हन्तुर् अम्बेयं बभाषे तं पुरः-स्थिता ॥५३॥
तद्-अनन्तरं स्नेह-परीताङ्गी रोहिणी अघ-मर्दनं लालयन्ती सती पुरः-स्थिता बभाषे ॥५३॥
यत्नाद् अन्नं साधितं वत्स मिष्टं
मल्ली-मृद्व्या राधयेदं मया च ।
क्षुत्-क्षामोऽसि त्वं च नाश्नासि तत् ताम्
अम्बाम् एतां मां च किं वा दुनोषि ॥५४॥
मल्ली-पुष्पतोऽपि मृद्व्या राधया मया च यत्नात् साधितम् अन्नं मिष्टं क्षुत्-क्षामः क्षुधया क्षीणस् तं नाश्नासि । तत् तस्माद् भोजनाभावात् तां राधाम् एताम् अम्बां मां च किं वा दुनोषि ॥५४॥
जननी तव पश्य खिद्यते सुत
निर्मञ्छनम् अत्र यामि ते ।
भ्रमतो भविता वने श्रमः
कियद् अश्नीहि विधेहि मद्-वचः ॥५५॥
हे सुत ! तव जननी खिद्यते । वने भ्रमतः ते श्रमो भविता कियद् अश्नीहि ? मद्-वचः विधेहि ॥५५॥
भुक्तं मया भूरि गता बुभुक्षेत्य्
उक्त्वा नियम्योच्छलितं विकारम् ।
तं वीक्ष्य मन्दं पुनर् अप्य् अदस् तं
ननन्दतुर् नन्द-सुतं जनन्यौ ॥५६॥
श्री-कृष्णस् ताम् आह—मया भुक्तं मे बुभुक्षा गता इत्य् उक्त्वा उच्छलितं विकारं श्री-राधा-दर्शन-नाम-श्रवण-जन्यं नियम्याच्छाद्य मन्दं यथा स्यात् तथा पुनर् अप्य् भुञ्जानं तं नन्द-नन्दनं वीक्ष्य जनन्यौ ननन्दतुः ॥५६॥
इदम् इदम् अतिमिष्टं वत्स भुङ्क्स्वेति माता
स-शपथम् अथ तत् तद् दर्शयन्त्य् अङ्गुलीभिः ।
सकलम् अभिलषन्ती कर्तुम् अश्रु-प्लुताक्षी
तद्-उदर-गतम् अन्नं सात्मजं वावदीति ॥५७॥
अश्रु-प्लुताक्षी सा यशोदा स-शपथ-दान-पूर्वकम् इदम् अन्नम् अतिमिष्टम् अङ्गुलीभिर् दर्शयन्ती सकलम् अन्नं तद्-उदर-गतं कर्तुम् अभिलषन्ती आत्मजं वावदीति पुनः पुनः वदति ॥५७॥
रसाला-पक्वाम्र-द्रव-शिखरिणी-षाडव-पयः
करम्भामिक्षा-व्यञ्जन-दधि-कला-पूप-बटकान् ।
कृताम्रेडा नेत्र-स्तनज-पयसा क्लिन्न-सिचयाप्य् अतृप्ता
तं तृप्तं मुहुर् अथ सुतं प्राशयद् इयम् ॥५८॥
इयं यशोदा नेत्रजेन जलेन स्तनजेन क्षीरेण च क्लिन्न-सिचया आम्रेडिता द्विर्-उक्तिर् यया सा आम्रेडितं द्विस्-त्रिर्-उक्तम् इत्य् अमरः । अतृप्ता कृष्णं भोजयितुं तृप्ति-रहिता । तृप्तं तं सुतं मुहुः रसालादीन् प्राशयत् । रसाला शिखरिणी रसाला-वृत्ति-भेदयोर् इति विश्वः । पक्वाम्र-द्रवः शिखरिणी षाडवः । रसालादि त्रयं च शर्करा कर्पूर जैत्री मरिचादि द्रव्याणां वृत्त-भेदेन दान-भेदेन दधि-कृतं क्वापि मधु-शर्करादि-मिलनेन रसाला उक्ता । पयः शर्करादि युतं दुग्धं, करम्भो दधि-शक्तवः आमिक्षा उष्ण-दुग्धे दधि-क्षेपेण गौडे छानाख्या-व्यञ्जनं, दधि-फलानि प्रसिद्धानि फलम् आम्रादि बहु-विधं, अपूपः पिष्टकोऽप्य् अनेक-विधो बटकाश् च बहु-विधास् तान् ॥५८॥
भक्ष्यं भोज्यं बहुतर-मिष्टं
लेह्यं पेयं मृदु मधुरं ते ।
भुक्त्वा पीत्वा रसभर-तृप्ताः
सर्वेऽभूवन् वन-गमनोत्काः ॥५९॥
ते श्री-राम-कृष्णादयः । भक्ष्य-भोज्य-लेह्ये-पेयं भुक्त्वा पीत्वा रस-भर-तृप्ताः सन्तः वन-गमनोत्का अभूवन् ॥५९॥
सर्वे सुवासित-मृदा मुख-पाणि-पद्मान्य्
आमृज्य साधु मृदु-लेषिकया च दन्तान् ।
दासैः प्रणीत-कणकादिक-कुण्डिकासु
तैर् दत्त-वारिभिर् अथाचमनं व्यधुस् ते ॥६०॥
अथ ते सर्वे सुवासित-मृदा स्व-मुखानि आमृज्य साधु मृदु-लेषिकया दन्त-शोधिकया सूक्ष्म-काष्ठ्या दन्तान् आमृज्य दासैर् आनीत-कणकादि-कुण्डिकासु तैर् दासैर् दत्त-वारिभिर् आचमनं व्यधुः ॥६०॥
एला-लवङ्ग-घनसार-विमिश्रिताभिर्
जम्बूल-दत्त-वर-खादिर-गोलिकाभिः ।
शीतोज्ज्वलाभिर् अधिवास्य मुदा मुखं ते
सव्येन पूर्णम् उदरं ममृजुः करेण ॥६१॥
जम्बूल-नाम्ना दासेन दत्त-वर-खादिर-निर्मित-गोलिकाभिः । एला-लवङ्ग-कर्पूर-विमिश्रिताभिर् शीतोज्ज्वलाभिर् पाचकत्वादि-गुण-युक्ताभिर् मुखम् अधिवास्य वामेन करेण पूर्णम् उदरं ममृजुः ॥६१॥
रसाल-कर-संस्कृतोपहृत-नागवल्ली स्फुरत्-
सुपक्व-दल-वीटिकाः सुखम् अदन्त एवोत्सुकाः ।
ततः शत-पदान्तरालय-विशाल-पल्यङ्किका-
कुलेष्व् अथ विशश्रमुः परिजनैर् अमी वीजिताः ॥६२॥
रसालस्य करेण संस्कृताः पश्चाद् उपहृताश् च नागवल्ली ताम्बूल-लता तस्याः स्फुरत्-सुपक्व-दल-वीटिकाः । उत्सुकास् ते सुखम् एवादन्तः सन्तः ततः स्थानात् शत-पदानि अन्तरो मध्यं गमन-मार्गो येषां तथा-भूता ये आलया गृहास् तत्र विशाल-पल्यङ्किका-कुलेषु अमी परिजनैर् वीजिता विशश्रमुः । वैद्यक-शास्त्रे—भुक्त्वा पाद-शतं वर-शय्यां विश्रामः कार्यः इति यद् उक्तं तद् एव कृतम् ॥६२॥
तम् इह विश्रमितं परिचारकाः
शिखि-दल-व्यजनैः समवीजयन् ।
अवदलय्य दलं मृदु-वीटिकाः
प्रभुम् अथादयति स्म विलासकः ॥६३॥
सामान्याकारेणोक्त्वा श्री-कृष्णस्याह, परिचारका विश्रमितं तं श्री-कृष्णं मयूर-पुच्छ-व्यजनैः समवीजयन् विलासकः दलं पर्णम् अवदलय्य विभागं कृत्वा मृएदु वीटिकाः निर्माय प्रभुम् आदयति स्म ॥६३॥
निष्क्रम्य धौताङ्घ्रि-करां महानसाद्
दासी-गणैस् तां व्यजनैर् उपासिताम् ।
राधां प्रकोष्ठान्तरगां सखी-जनैर्
विलोकयन्तीं रमणं गवाक्षतः ॥६४॥
आनन्दज-स्वेद-जलैर् व्रजेशया
प्रतीयमानां श्रम-कर्षितेत्य् अलम् ।
भोक्तुं प्रयत्नाद् उपवेश्य सा मुदा
बलाम्बयान्नानि गृहाद् अदापयत् ॥६५॥
महानसात् निष्क्रम्य धौताङ्घ्रि-करां दासी-गणैर् व्यजनैर् उपासितां सखी-जनैः सह प्रकोष्ठान्तरगां गवाक्षतः रमणं विलोकयन्तीं राधां श्री-कृष्ण-दर्शनानन्द-जातैः स्वेद-जलैः श्रम-लक्षण-रूपैः व्रजेशया अलम् अतिशयेन श्रम-कर्षिता इयम् इति प्रतीयमानां तां भोक्तुं सा यशोदा उपवेश्य मुदा प्रयत्नात् बलाम्बया करण-भूतया गृहात् अन्नानि अदापयत् ॥६४-६५॥
तया निदिष्टा घृत-संस्कृतान्नं
दातुं धनिष्ठा हरि-भुक्त-शेषैः ।
सम्मिश्र्य गूढं घृत-संस्कृतान्नैर्
गृहात् तद् आनीय ददाव् अमूभ्यः ॥६६॥
घृत-संस्कृतान्नं दातुं तया निदिष्टा धनिष्ठा गूढं यथा स्यात् तथा हरि-भुक्त-शेषैः सह सम्मिश्र्य घृत-संस्कृतान्नं सम्मिश्र्य तदा गृहाद् आनीय अमूभ्यो राधादिभ्यो ददौ ॥६६॥
अनश्नन्तीं ह्रिया वीक्ष्य वस्त्रावृत-नताननाम् ।
राधिकाम् अवदत् कृष्ण-माता वात्सल्य-विक्लवा ॥६७॥
कृष्ण-माता ह्रिया अनश्नन्तीं राधाम् अवदत् ॥६७॥
जननि मयि जनन्यां किं नु लज्जेदृशीयं
सुत इव मम चेतः स्निह्यति त्वय्य् अतीव ।
अयि तद् अपनयैनां यामि निर्मञ्छनं ते
शिशिरय मम नेत्रे भुङ्क्स्व पश्यामि साक्षात् ॥६८॥
हे जननि ! जनन्यां मयि इयम् ईदृशी लज्जा किं कथं ? सुते श्री-कृष्णे इव त्वयि मम चेतः स्निह्यति तत् तस्माद् एनां लज्जाम् अपनय दूरीकुरु । ते निर्मञ्छनं यामि, मम नेत्रे शिशिरय, भुङ्क्स्व साक्षात् पश्यामि ॥६८॥
यूयं च मे स्थ तनयास् त्व् अनया ह्रिया किं
पुत्र्यः कुरुध्वम् अशनं ललितादयस् तत् ।
इत्य् आग्रहाच् छपथ-दान-शतैश् च माता
मिष्टान्न-मिष्ट-वचनैः समभोजयत् ताः ॥६९॥
यूयं मे तनयाः स्थ, अनया ह्रिया किं ? हे पुत्र्यः ! ललितादयः ! तत् तस्माद् अशनं कुरुध्वम् इत्य् आग्रहादिभिर् माता ताः समभोजयत् ॥६९॥
हृद्य् उद्गतैः सुत कराग्रहणाभिलाषैस्
तद्-भूषणैः सुबहुशः सह यानि यत्नात् ।
निष्पाद्य तन् नव-वधू-प्रतिरूपकाणि
स्नेहाद् धृतानि सदने वर-सम्पुटेषु ॥७०॥
तैर् भूषणैर् अथ धनिष्ठकयोपनीतैस्
ताम्बूल-चन्दन-वराम्बर-नागजैश् च ।
आलीवृतं नव-वधूम् इव तां व्रजेशा
सम्मान्य हार्द-वलिता मुदिता बभूव ॥७१॥
हृद्य् उद्गतैः सुतस्य श्री-कृष्णस्य कर-ग्रहणं विवाहस्, तस्याभिलाषैर् हेतुभिस् तद्-भूषणैः सह बहुशः यत्नात् यानि भूषणानि तस्य कृष्णस्य नव-वधूम् इव सम्मान्य हार्द-वलिता नव-वधू—प्रतिरूपकाणि योग्यानि निष्पाद्य वर-सम्पुटेषु धृतानि तैर् भूषणैः । अथ धनिष्ठया उपनीतैस् ताम्बूलादिभिश् चालि-सहितां तां राधां नव-वधूम् इव सम्मान्य हार्द-वलिता स्नेह-युक्ता व्रजेशा मुदिता बभूव । नागजैः सिन्दूरैः ॥७०-७१॥
राधाहृतं यन् निशि तद् विशाखा
धनिष्ठयादात् सुबलाय गूढम् ।
पीतोत्तरीयं सुबलोऽपि तस्यै
नीलाम्बरं कृष्ण-हृतं तयैव ॥७२॥
प्रत्युषे सम्भ्रमात् राधाहृतं कृष्ण-पीतोत्तरीयं विशाखा धनिष्ठया सुबलाय गूढम् अदात् । कृष्ण-हृतं राधा-नीलाम्बरं सुबलोऽपि तया धनिष्ठया तस्यै विशाखायै अदात् ॥७२॥
तावत् स्व-सेवा-कृति-लब्ध-वर्णाः
स्नेहेन दासाः परिफुल्ल-गात्राः ।
तैर् गन्ध-माल्याम्बर-भूषणैस् ते
विभूषयामासुर् अधीश्वरं स्वयम् ॥७३॥
तावत् स्व-सेवायां या कृतिश् चेष्टा तासु लब्ध-वर्णाः विचक्षणास् ते दासाः, तैः पूर्वोक्तैर् गन्धादिभि स्वप्ं स्वीयम् अधीश्वरं श्री-कृष्णं विभूषयामासुः ॥७३॥
भक्ति-च्छेदाढ्य-चर्चां मलयज-घुसृणैः धातु-चित्राणि बिभ्रद्
भूयिष्ठं नव्य-वासः शिखि-दल-मुकुटं मुद्रिकाः कुण्डले द्वे ।
गुञ्जा-हारं सुरत्न-स्रजम् अपि तरलं कौस्तुभं वैजयन्तीं
केयूरे कङ्कणे श्री-युत-पद-कटकौ नूपुरौ शृङ्खलां च ॥७४॥
वनजेक्षणः कमल-नयनः श्री-कृष्णः मृगदृशां मनो मुष्णन् वनाय गन्तुं भवनान् निर्जगाम इति चतुर्थ-श्लोकेनान्वयः । किं कुर्वन् ? मलयजं चन्दनं घुसृणं कुङ्कुमं तैः स्व-वर्णेतर-वर्णैः । भक्ति-च्छेदेन अङ्गुल्य्-आदिभिर् विभक्तेन “खोर” इत्य्-आख्येनाढ्यां चर्चां तां बिभ्रत् धातुभिश् चित्राणि बिभ्रत् भूयिष्ठं नव्य-वासः नटवर-वेशो वस्त्रस्य वा भूयिष्ठं बाहुल्यं विना न सिद्ध्यति । शिखि-दलेन मयूर-पिच्छेन मुकुटं चूडां, अङ्गुलीषु मुद्रिकाः, कर्णयोर् द्वे कुण्डले, उरसि गुञ्जा-हारम् । गुञ्जाहारं शोभन-रत्नानां स्रजम्, तरलं तरलो हार-मध्यगः इत्य् अमरः । कौस्तुभं मणिं, वैजयन्तीं पञ्च-वर्ण-पुष्प-मालां भुजयोः । कफोण्योर् उपरि केयूरेऽङ्गदे, कङ्कणे मणि-बन्धयोर् वलये, चरण-द्वये श्री-युत-पद-कटकौ नूपुरौ शृङ्खलां च बिभ्रत् ॥७४॥
आत्मैक-दृश्य-गान्धर्वा प्रतिबिम्ब-करम्बितैः ।
दधद् वक्षस्य् अयं हारं गुम्फितं स्थूल-मौक्तिकैः ॥७५॥
अयं श्री-कृष्णः आत्मैक-दृश्यं गान्धर्वायाः श्री-राधायाः प्रतिबिम्बं तेन करम्बितैर् युक्तैः स्थूल-मौक्तिकैर् गुम्फितं हारं वक्षसि दधत् ॥७५॥
शृङ्गं वामोदर-परिसरे तुन्द-बन्धान्तर-स्थं
दक्षे तद्वन् निहित-मुरलीं रत्न-चित्रां दधानः ।
वामेनासौ सरल-लगुडीं पाणिना पीत-वर्णां
लीलाम्भोजं कमल-नयनः कम्पयन् दक्षिणेन ॥७६॥
वामोदर-परिसरे उदरस्य वाम-भागे तुन्द-बन्धान्तर-स्थं शृङ्गं दधानः । तद्वद् दक्षे दक्षिणे रत्न-चित्रां मुरलीं तुन्द-बन्धान्तर-स्थां दधानः । असौ कमल-नयनः वामेन पाणिना पीत-वर्णाम् आसौ सरल-लगुडीं दधानः । दक्षिणेन लीला-कमलं कम्पयन् चालयन् ॥७६॥
वंशी-विषाण-दल-यष्टि-धरैर् वयस्यैः
संवेष्टितः सदृश-हास-विलास-वेशैः ।
गन्तुं वनाय भवनाद् वनजेक्षणोऽयं
मुष्णन् मनो मृगदृशाम् अथ निर्जगाम ॥७७॥
वंश्य्-आदि-धरैः सदृशाः कृष्ण-हास-विलास-वेशैस् तुल्या हास-विलास-वेशा येषां तैर् वयस्यैः संवेष्टितः वनजेक्षणः ॥७७॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
प्रातर् भोजन-केलि-वर्णन-मयः सर्गश् चतुर्थो गतः ॥
॥ श्री-गोविन्द-लीलामृत-सद्-आनन्द-विधायिन्यां चतुर्थ-सर्गः ॥
॥४॥
॥।
(५)