तृतीयः सर्गः
तावद् गोष्ठेश्वरी गोष्ठं गते गोकुल-नन्दने ।
सर्वान् गृह-जनान् आह तद्-भक्ष्योत्पादनाकुला ॥१॥
गोकुल-नन्दने गोकुलं गोकुल-पुरं गो-समूहं वा आनन्दयतिईति गोकुल-नन्दनः श्री-कृष्णः तस्मिन् गोष्ठं गो-गृहं गते सति तस्य श्री-कृष्णस्य भक्ष्योत्पादने व्याकुला गोष्ठेश्वरी यशोदा सर्वान् गेह-जनान् आह ॥१॥
निज-निज-करणीये कर्मणि व्यग्र-चित्ता
यद् अपि गृह-जनास् तत्-प्रेम-जालाकुलास् ते ।
तद् अपि सुत-समुद्यत्-स्नेह-पीयूष-पूर-
स्नपित-मतिर् अधीशा तान् समादेदिशीति ॥२॥
यद् अपि तत् तस्य श्री-कृष्णस्य प्रेम-जालाकुलास् ते गृह-जना निज-कर्तव्ये कर्मणि व्याकुलास् तद् अपि अधीशा तान् देदिशीति पुनः पुनर् आदिशति । अत्र हेतुम् आह सुतस्य समुद्यत्-स्नेह-पीयूष-पूरेण स्नपिता मतिर् यस्या सा ॥२॥
दासीः समाहूय जगाद राज्ञी
वत्सास् त्वरध्वं द्रुत-पाक-कृत्ये ।
वत्सः क्रशीयान् क्षुधितः सरामः
स मे समेष्यत्य् अधुना स्व-गोष्ठात् ॥३॥
हे वत्साः ! द्रुत-पाक-कृत्ये यूयं त्वरध्वं शीघ्रं पाक-क्रियायां त्वरा-युक्ता भवथ । स-रामो मे वत्सः स-कृष्णः क्रशीयान् क्षीणः क्षुधितश् च, अधुना गोष्ठात् समेष्यति ॥३॥
शाका मूलानि पुष्प-द्विदल-फल-दलान्य् आर्द्रकं पिष्ट-माषश्
चुक्रं शुण्ठी मरिच-हरिद्रा-शशि-सिता-जीरकं क्षीर-सारः ।
चिञ्चा-हिङ्गु-त्रिजातं सुमथित-वटिकाः सैन्धवं सीरि-शस्यं
तैलं गोधूम-चूर्णं घृत-दधि-तुलसी-धान्य-सत्-तण्डुलाश् च ॥४॥
एतच् च सर्वं पाकाय पाकार्थं पाक-गृहे नीयताम् इति । द्वितीय-श्लोकेनान्वयः । शाका वत्स-प्रियतया नीयताम् इत्य् आदि मूलानि बहु-विधानि पुष्पम् । मुद्गादीनां द्वि-दलानि फलानि दलानि आर्द्रकं वीटीक आद्य्-अर्थं पिष्ट-माषः । चुक्रम् आम्ल-द्रव्यम् । सहस्र-वेधी चुक्रोऽम्ल-वेधसः शत-वेध्यापि । तिन्तिडीकं च चुक्रं च इन्द्रात्म । शुण्ठी हरिद्रा मरिचः शशि कर्पूरः सिता जीरकं क्षीरस्य सारः । चिञ्चा तिन्तिडी त्रिजातं तेज-पत्रं रस-वासो गुरु-त्वक इति केचित् यष्टि-मधु जाती-फलं जती-पत्रीति च सुमथित-वटिकाः सुमथिताः हस्त-चालनेन फेणायित्वा निर्मिता यास् ताः । सैन्धवं लवणम् । सीरि नारिकेलस् तस्य शस्यम् । तुलस्य्-आख्यस्य सूक्ष्म-धान्यस्य सत्-तण्डुलाः ॥४॥
पायसाय व्रजेन्द्रेण प्रातर् वष्कयणी-पयः ।
प्रहितं यत् तद् एतच् च सर्वं पाकाय नीयताम् ॥५॥
पायसाय परमान्नार्थं चिर-प्रसूता बष्कयणी तस्याः पयः व्रजेन्द्रेण प्रातर् यत् प्रहितं तत् ॥५॥
तयेति दिष्टास् ता आसंस् तत्-तत्-कार्येषु सत्वराः ।
साहूय रोहिणीम् आह स्नेह-व्याकुल-मानसा ॥६॥
इत्य् अनेन प्रकारेण यशोदयादिष्टास् ता दास्यस् तत्-तत्-कार्येषु सत्वरा आसन् । तथापि स्नेह-व्याकुल-मानसा सती सा यशोदा रोहिणीम् आहूय इत्य् आह ॥६॥
सखि रोहिणि ताव् अस्मद्-बालकौ मृदुलौ तनू ।
पीड्येते स-बलैर् बालैर् बाहु-युद्धेऽतिचञ्चलैः ॥७॥
आवयोर् बालकौ मृदुलौ तनू कृशौ च बाहु-युद्धे स-बलैर् बालैर् अतिचञ्चलैः
पीड्येते ॥७॥
कति सन्ति न मे गेहे दासा गोपास् तथाप्य् अमू ।
वारिताव् अपि यातस् तौ गो-रक्षायै करोमि किम् ॥८॥
मम गेहे कति गोप-दासा न सन्ति, अपि तु सन्त्य् एव तथापि अमू तौ राम-कृष्णौ वारिताव् अपि गो-रक्षार्थं जातः ॥८॥
दुर्गारण्य-भ्रमण-नटनायासतः सायम् उच्चैश्
चक्राते नाशनम् अपि तथा भोजनेषद्-रुची तौ ।
वत्सौ जातौ तद् इह नितरां दुर्बलौ क्षीण-मूर्ती
दृष्टं हन्तोदरम् अपि तयोः पृष्ठ-लग्नं प्रभाते ॥९॥
दुर्गारण्य-भ्रमण-नटनायासतः सायम् उच्चैश् चक्राते नाशनम् अपि तथा भोजनेषद्-रुची तौ । वत्सौ जातौ तद् इह नितरां दुर्बलौ क्षीण-मूर्ती ऋष्टं हन्तोदरम् अपि तयोः पृष्ठ-लग्नं प्रभाते ॥९॥
द्रुतम् अय रसवत्यां तत् तथा साधयान्नं
प्रचुर-रुचि-यथेमौ प्राश्नतः प्राज्य-तृष्णौ ।
तद् अतिरुचिर-पीष्टा यत्र यत्रास्ति दृष्टा
कुरु सुमुखि तद् एतत् तेमनं चातियत्नात् ॥१०॥
हे सुमुखि रोहिनि ! रसवत्यां रन्धन-गृहे द्रुतम् अय गच्छ । तथान्नं साधय प्राज्य-तृष्णौ इमौ पुत्रौ प्रचुर-रुचिर् यथा स्यात् तथा प्राश्नतः । यत्र यत्रातिरुचिस्त्वया पूर्व-दिने दृष्टा अस्ति, तद् एतद् इदानीं कल्पितं च तेमनं व्यञ्जनम् अतियत्नात् कुरु, सा तद्-रुचिः कीदृशी ? इष्टा अस्माकं काम्या ॥१०॥
तयेति दिष्टा रामस्य माता दासी सुसंस्कृताम् ।
सम्भृताशेष-सम्भारां प्रीत्या रसवतीं ययौ ॥११॥
रामस्य माता दासीभिः सुसंस्कृतां सम्भृतो धृतोऽशेष-सम्भारो रन्धन-सामग्री यत्र तां रसवतीं रन्धनागारं ययौ ॥११॥
सुतेषद्-रुचिता व्यग्रा मिष्टान्नोत्पादनोत्सुका ।
श्री-राधानयनायासीद् व्याकुला गोकुलेश्वरी ॥१२॥
ईषद् रुचिर् यस्य स ईषद् रुचिस् तस्य भाव ईषद् रुचिता तया सुतस्य ईषद् रुचितया व्यग्रा अतस् तद्-रुचये मिष्टान्नोत्पादने उत्सुका सती सा, श्री-राधाया आनयनाय श्री-राधाम् आनेतुं श्री-यशोदा व्याकुलासीत् ॥१२॥
उपनन्देः सुभद्रस्य पत्नीं कुन्दलताभिधाम् ।
यदृच्छयागताम् अग्रे प्रणमन्तीम् अथाह सा ॥१३॥
उपनन्दस्यापत्यम् औपनन्दिस् तस्य सुभद्राख्यस्य पत्नीं कुन्दलतां सा यशोदा आह । कीदृशीं ? यदृच्छया आगतां प्रणमन्तीम् ॥१३॥
अमृत-मधुरम् आस्तां संस्कृतं यत् त्वयान्नं
भवतु स तु चिरायुर् यद् तद्-अन्नस्य भोक्ता ।
इति कलित-वरां दुर्वाससस् तां विदित्वा
स्व-सदनम् अनु राधां रन्धनायाह्वायामि ॥१४॥
हे कुन्दलते ! त्वया श्री-राधया संस्कृतम् अन्नम् अमृताद् अपि मधुरम् आस्तां, तद्-अन्नस्य यो भोक्ता, स चिरायुर् भवतु इति दुर्वाससो मुनेः प्राप्त-वरां तां श्री-राधां विदित्वा अहं स्व-सदनम् अनु स्व-सदने राधां रन्धनायाह्वायामि ॥१४॥
मित-भुग् अपि सुतो मे स्वादु-वैशिष्ट्य-लाभात्
प्रचुर-रुचि स-तृष्णं तत्-कृतान्नं यद् अत्ति ।
तद् इह मम वचोभिः प्रार्थ्य तस्या धवाम्बां
परिजन-सहितां तां राधिकाम् आनयाशु ॥१५॥
मे सुतः मित-भुग् अपि तया राधया कृतान्नं यद् यस्मात् प्रचुर-रुचि स-तृष्णं यथा स्यात् तथात्ति । अद भक्षणे धातुः । तस्याः धवाम्बां श्वश्रूं प्रार्थ्य ताम् आश्व् आनय ॥१५॥
मुहुर् इयम् इह राधां सा तयैवानयन्ती
प्रथमम् इव यद् एतां याचते तन् न दोषः ।
व्रज-भुवि वसतां यत् कृष्ण-रागोन्मदानां
नव-नवम् इव सर्वं नानुसन्धानम् अस्ति ॥१६॥
सेयं यशोदा तया कुन्दवल्ल्या राधाम् आनयन्ती मुहुर् एतां जटिलां प्रथमम् आनयनम् इव यद् याचते तद् दोषो न । कृष्ण-रागेणोन्मत्तानां सर्वं नव-नवम् इव पूर्व-दिवसेऽप्य् एवम् उक्तं कृतम् इत्य् अनुसन्धानं नास्ति ॥१६॥
तद्-वचः-शिशिरोत्फुल्ला कुन्दवल्ल्य् अथ राधिकाम् ।
उत्कासीद् भ्रमरीं कर्तुं मधुसूदन-सङ्गिनीम् ॥१७॥
कुन्दवल्ल्य् एव कुन्दवल्ली सा तत् तस्याः श्री-यशोदायाः वच एव शिशिरः शिशिर-र्तुस् तेनोत्फुल्ला हृष्टैव पुष्पैर् विकसिता सती राधिकां भ्रमरीं राधिका-रूपां भ्रमरीं मधुसूदनः श्री-कृष्णः स एव मधुसूदनो भ्रमरस् तस्य सङ्गिनीं कर्तुम् उत्का उत्कण्ठिता आसीद् बभूव ॥१७॥
ततः सासाद्य जटिलां स्नुषायां कुटिलाम् अपि ।
श्रावयामास सन्देशं व्रजेश्वर्या विचक्षणा ॥१८॥
सा विचक्षणा कुन्दवल्ली स्नुषायां पुत्र-वधू-विषये कुटिलाम् अपि जटिलाम् अपि आसाद्यागत्य व्रजेश्वर्याः सन्देशं श्रावयामास ॥१८॥
आकर्ण्य साज्ञां व्रज-राज-राज्ञ्याः
कृष्णात् स्नुषायाम् अपि शङ्कमाना ।
विचिन्त्य शिक्षाम् अथ पौर्णमास्यास्
तां कुन्दवल्लीं प्रणयाद् अवादीत् ॥१९॥
सा जटिला व्रज-राज-राज्ञ्याः आज्ञाम् आकर्ण्य वध्वां कृष्णात् शङ्कमाना अपि पौर्णमास्याः शिक्षां विचिन्त्य ताम् अवादीत् ॥१९॥
स्नुषेयं मे साध्वी गुण-गरिम-माध्वीक-मधुरा
जनश् छिद्रान्वेषी स खलु चपलो नन्द-तनयः ।
न चाज्ञावज्ञेया व्रज-पति-गृहिण्या भगवती-
वचः पाल्यं वत्से नटति हृदयं किं नु करवै ॥२०॥
हे वत्से पुत्रि ! गुण-गरिमैव माध्वीकस् तेन मधुरा मे स्नुषा । कृष्णः चपलः । जनश् छिद्रान्वेषीति । वधू-प्रेषणे दोषः । यशोदाज्ञा नावज्ञेया इति पौर्णमास्या वचः पाल्यम् इति हृदयं सङ्कटान् नटति । अहं किं करवै ॥२०॥
मातः सत्यं वदति भवती किं च गोपेन्द्र-सूनुर्
नायं ज्ञेयः खल-समुदयैर् यादृशः श्रावितोऽस्ति ।
किन्तु प्रोद्यद्-द्युमणिर् इव सद्-धर्म-पद्मे खलाली-
घूके चायं वृजिन-तिमिरे घोष-सन्तोष-कोके ॥२१॥
कुन्दवल्ल्य् आह—हे मातः ! भवती सत्यं वदति । भवत्यां खल-जनैः यादृशः श्री-कृष्णः श्रावितोऽस्ति । तादृशोऽयं कृष्णः भवत्या न ज्ञेयः । किन्तु प्रोद्यद्-द्युमणिर् इव पद्यादौ वर्तते । यथा प्रोद्यत्-सूर्यः पद्म-प्रकाशकः घूकान्धकरः तमो-नाशकः । कोकः तोष-दाता । तथा श्री-कृष्णः सद्-धर्म-प्रकाशकः खलानाम् आन्ध्य-करः वृजिनस्य नाशकः । घोष आभीर-पल्ली तस्याः सन्तोषकः । तस्मात् सद्-धर्म-शीला ते स्नुषा अस्या आनन्द-जनक एव स स्याद् इति भावः ॥२१॥
माधुर्यं तून्मदयति जगद् यौवतं तस्य तस्माद्
भीतिर् नीतिस् तव नव-वधू-पालनं चापि युक्तम् ।
मा शङ्किष्ठस् तद् अयति यथा दृक्-पथं नास्य साध्व्याश्
छायाप्य् अस्याः स्वयम् अहम् इमां द्राक् तथा तेऽर्पयामि ॥२२॥
तस्य कृष्णस्य माधुर्यं तु जगद् यौवतं जगति युवती-समूहम् उन्मदयति, तु भिन्नो क्रमे अतस् तस्य दोषो नहि । तस्माद् धेतोस् तव भीतिर् नीतिर् एव । नव-वधू-पालनम् अपि च युक्तं तत् तस्मात् कृष्णात् माशङ्किष्ठाः । तत्र हेतुम् आह—अस्याः वध्वाश् छायापि तस्य कृष्णस्य दृक्, यथा न याति न यच्छतितथा ते तुभ्यम् इमाम् अर्पयामि ॥२२॥
त्वं पुत्रि साध्वी प्रथितासि गोष्ठे
त्वय्य् अर्पितेयं सरला वधूस् ततः ।
स लोल-दृष्टः किल नन्द-सूनुर्
नैनां यथा पश्यति तद् विधेयम् ॥२३॥
जटिला कुन्दलताम् आह—हे पुत्रि कुन्दलते ! त्वं गोष्ठे साध्वीति प्रथिता ख्यातासि । इयं सरला वधूस् त्वय्य् त्वय्य् अर्पितास्ति । नन्द-सूनुर् लोल-दृष्टः । तत् तस्मात् यथा एनां वधूं स न पश्यति तथा त्वया विधेयम् ॥२३॥
वधूम् अथाहूय जगाद वत्से
व्रजालयान् नन्द-वधू-समीपम् ।
निष्पाद्य तस्याः प्रियम् एहि तूर्णं
सहानयैवाद्य रविस् त्वयार्च्यः ॥२४॥
वधूम् आहूयाह—हे वत्से ! आलयात् स्व-गृहात् नन्द-वधूर् यशोदा -समीपं निष्पाद्य तस्याः प्रियम् एहि तूर्णं सहानयैवाद्य रविस् त्वयार्च्यः ॥२४॥
राधेति दिष्टा हृदि साभिनन्दिताप्य्
अनिच्छुवद् गन्तुम् उवाच तां सखीम् ।
अस्तीह कृत्यं न च मे यियासुता
गृहं गृहं नेङ्गति यत् कुलाङ्गना ॥२५॥
सा राधा इत्य् अनेन दिष्टा कथिता सती हृद्य् अभिनन्दितापि गन्तुम् अनिच्छुवत् तां सखीं कुन्दवल्लीम् उवाच । मे मम गृहे कृत्यम् अस्ति, तत्र अस्तीह कृत्यं यियासुता गन्तुम् इच्छता नास्ति तत्र हेतुम् आह—यस्मात् कल-वधूः गृहं गृहं नेङ्गति न गच्छति ॥२५॥
कृताग्रहोच्चैः पुनर् आर्ययासौ
कौन्द्या बभाषे कृत-हस्त-कर्षम् ।
भीतासि किं साध्व्य् अहम् अस्म्य् अवित्रीत्य्
उच्चालिता फुल्ल-तनुः प्रत्यस्थे ॥२६॥
कृताग्रहोच्चैः पुनर् आर्ययासौ कौन्द्या बभाषे कृत-हस्त-कर्षं भीतासि किं साध्व्य् अहम् अस्म्य् अवित्रीत्य् उच्चालिता फुल्ल-तनुः प्रत्यस्थे ॥२६॥
कृष्णस्य प्रातर्-आशाय संस्कृतं लड्डुकादिकम् ।
आदाय ललिता-मुख्याः सख्योऽप्य् अनुययुः सखीम् ॥२७॥
श्री-कृष्णस्य प्रातर्-भोजनाय ललिताद्याः सख्यः लड्डुकादिकं नीत्वा सखीं श्री-राधाम् अनुययुः ॥२७॥
वीक्ष्याध्वनि परानन्द-चलद्-वक्षः-पटाञ्चलाम् ।
स-वयस्यां कुन्दवल्ली प्रेम्ना परिजहास ताम् ॥२८॥
परानन्देन चलच् चलायमानं वक्षः पटाञ्चलं यस्यास् तां राधां कुन्दवल्ली प्रेम्ना परिजहास ॥२८॥
मूल्यानीतोपसर्यास् त्रि-चतुर-दिवसान् प्रोष्य सन्ध्यागतस् ते
भर्ता गोभिः स्व-गोष्ठे घटयितुम् अखिलां रात्रिम् एव न्यवात्सीत् ।
वक्षः प्रोद्यन्-नखाङ्कावलि-चितम् अधरः स्पष्ट-दन्त-क्षतो यत्
तत् साध्व्यास् ते सतीत्वं समुचितम् अधुना व्यक्तम् उल्लालसीति ॥२९॥
ते भर्ता त्रि-चतुर-दिवसान् प्रोष्य प्रवासं कृत्वा सन्ध्यायाम् आगतः । स्व-गोष्ठे अखिलां रात्रिं न्यवात्सीत् । किम्-अर्थं प्रवासं कृत्वा ? मूल्येनानीताश् च ता उपसर्याश् चेति ताः प्रथम-गर्भ-धारणे धेनुर् गोभिर् वृषैर् घटयितुं सङ्गमयितुम् । काल्योपसर्या प्रजने इत्य् अमरः । ते वक्षः नख-चिह्नावलिभिश् चितं व्याप्तम् अधरश् च स्पष्टं दन्तानां क्षतं घातो यत्र तादृशः यद् यस्माद् एवं तत् तस्मात् ते समुचितं सतीत्वम् अधुना व्यक्तं सद् अतिशयेनोल्लासं प्राप्नोति ॥२९॥
अन्तर्-गूढ-स्मितोत्फुल्ल-किञ्चित्-कुञ्चित-लोचनाम् ।
स्व-सखीं ललितालोक्य कुन्दवल्लीम् अथाब्रवीत् ॥३०॥
अथान्तर् अन्तः-करणे गूढ-स्मितेन सह उत्फुल्ले किञ्चित्-कुञ्चिते च लोचने यस्यास् ताम् । स्व-सखीं श्री-राधाम् आलोक्य ललिता कुन्दवल्लीम् अब्रवीत् ॥३०॥
करक-फल-धियास्याः कानने धृष्ट-कीरः
स्तनम् अनु विनिविष्टः पक्व-बिम्ब-भ्रमेण ।
अदशद् अधरम् उच्चैस् तन्-नखा-चोटितं तद्
धृदयम् इदम् अमुष्याः किं वृथा शङ्कसे त्वम् ॥३१॥
अस्यास् तेन करको दाडिमस् तस्य फल-धिया उपविष्टः कीरः पक्व-बिम्ब-भ्रमेणाधरम् अदशत् । तत् तस्माद्द् अमुष्याः इदं हृदयं तन्-नखा-चोटितं भवति त्वं किं वृथा शङ्कसे ॥३१॥
सखी-वचः-स्मारित-कृष्ण-सङ्ग-
लीलोच्छलत्-कम्प-तरङ्गिताङ्गीम् ।
तां वीक्ष्य पद्माकरम् ईक्षमाणा
जगौ पुनः कुन्दलता स-हासम् ॥३२॥
सखी-वचसा कृष्ण-सङ्ग-स्मरण-जनित-कम्पां तां श्री-राधिकां वीक्ष्य पद्माकरं तडागम् ईक्षमाणा सती कुन्दलता स-हासं पुनर् जगौ ॥३२॥
आनन्द-कम्पोत्तरलासि मुग्धे
किं भो वृथा पद्मिनि कुन्दवल्ल्याः ।
न देवरस् तां मधुसूदनोऽसौ
भ्राम्यन् पुनः पास्यति भुक्तम् उक्ताम् ॥३३॥
हे पद्मिनि मुग्धे ! वृथा किं किम्-अर्थम् आनन्द-कम्पोत्तरलासि भवसि ? असौ मधुसूदनो भ्रमरो भ्रमन् सन् पुनस् तां किं पास्यति, न पास्यत्य् एव । कीदृशीं ? तेन भ्रमरेण भुक्त्वा मुक्तां त्यक्ताम् । स कीदृशः कुन्दवल्ल्याः कुन्द-पुष्प-लतायाः देवरः देवं कान्तिं शोभां राति ततो मोदं गृह्णाति वा सः । दिवु क्रीडा विजिगीषा व्यवहार-द्युति-स्तुति-मोद-मद-स्वप्न-कान्ति-गतिषु । घञ् राला दान-ग्रहणयोः डः-प्रत्ययः । इयम् उक्तिर् व्यङ्गेन श्री-राधां प्रति । हे पद्मिनि ! मुख-नेत्र-कर-चरण-रूप-पद्मानि । कर-धृत-लीला-पद्मं वा सन्ति यस्यास् तस्याः सम्बोधनम् । अर्थात् हे राधे श्री-कृष्णेन रात्रौ भुक्त-मुक्तां त्वाम् अधुनैव स श्री-कृष्णः किं पास्यति, न पास्यति, न भोक्ष्यत्य् एव । अन्यत् स्पष्टम् ॥३३॥
कर्ण-शर्मद-सन्-नर्म-भर्म-कुण्डल-निर्मितौ ।
कर्मठां कुन्दवल्लीं तां विशाखाह विचक्षणा ॥३४॥
कर्णस्य शर्मदं सुखदं यत् सन्-नर्म शोभन-परिहासस् तद् एव भर्म-कुण्डलं स्वर्ण-कुण्डलं तस्य निर्माणे कर्मठां निपुणां तां कुन्दलतां विशाखा आह ॥३४॥
स्वेनेऽनुरागं परम् उद्वहन्ती
फुल्लापि मृद्वी भ्रमरात् सुलोलात् ।
सत्-पद्मिनीयं सखि कुन्दवल्लि
भृङ्गानुजाद् भी-तरला चकम्पे ॥३५॥
यथा पद्मिनी स्वेन स्वीय-सूर्यं परमानुरागम् उद्वहन्ती सती फुल्ला अपि मृद्वी सुलोलात् भ्रमरात् कम्पति । हे सखि ! इयं सत् पद्मिनी राधा कुन्दवल्ल्यास् तव स्वामी भृङ्ग-सुभद्रस् तस्यानुजात् श्री-कृष्णात् भीर् भयं तरला चकम्पे ॥३५॥
इत्य् उद्दाम-ललाम-नर्म-रचना-भङ्गी सुतुङ्गीभवत्
प्रेमोल्लास-विलास-मन्थर-गतिस् ताभिः समं राधिका ।
भावोद्भाव-विभावितोद्भट-महा-गाढानुरागोदया
कृष्णालोकन-लालसोत्तरलिता प्राप्ता व्रजेन्द्रालयम् ॥३६॥
इत्य् अनेन प्रकारेण उद्दामाभिललामाभिर् मनोहराभिः परिहास-रचनानां भङ्गीभिः सुतुङ्गी-भवतः । प्रेम्ना उल्लास-विलासेन मन्थरा गतिर् यस्या सा भावस्योद्भावनोदयेन विभावितस्य संयुक्तस्य जनितस्य उद्भट-महा-गाढानुरागस्योदयो यस्या सा राधिका सखीभिः समं नन्द-गृहं प्राप्ता ॥३६॥
तत्रागतां चरणयोः प्रणतां स्व-दोर्भ्याम्
उत्थाप्य तां हृदि निधाय मुकुन्द-माता ।
आघ्राय मूर्ध्नि मुदिता जननी परार्धात्
स्निग्धा चुचुम्ब मुखम् अश्रु-मुखी ततोऽस्याः ॥३७॥
जननी परार्धात् स्निग्धा मुकुन्द-माता स्व-चरणे प्रणतां तां राधां स्व-भुजाभ्यां धृत्वोत्थाप्य हृदि निधाय ततो मूर्ध्नि आघ्राय तस्या मुखं चुचुम्बेति । वात्सल्य-रसानुभावः ॥३७॥
प्रत्येकम् आलिङ्ग्य च तद्-वयस्याः
पप्रच्छ साव्याहत-भव्यम् अस्याः ।
व्यग्रा सुतस्याशन-साधने द्राक्
स-स्नेहम् एताः पुनर् आबभाषे ॥३८॥
सा यशोदा ललिताद्या वयस्याः प्रत्येकम् आलिङ्गितास्याः राधायाः अव्याहत-भव्यं मङ्गलं पप्रच्छ सुतस्याशनं भोजनं तस्य व्यग्रा सा पुनर् एता राधाद्या आबभाषे ॥३८॥
विविध-मधुर-भक्ष्योत्पादने लब्ध-
वर्णा व्रज-भुवि किल यूयं विश्रुता मिष्ट-हस्ताः ।
तद् इह कुरुत पुत्र्यः साधु-भक्ष्याणि यत्नाद्
दर-रुचिर् अपि वत्सः स-स्पृहं मे यथात्ति ॥३९॥
हे पुत्र्यः ! यूयं विविध-भक्ष्योत्पादने लब्ध-वर्णा विचक्षणा विश्रुताः ख्याताः । मिष्ट-हस्ताः दर-रुचिर् स्वल्प-रुचिर् अपि मे वत्सः स-स्पृहं यथा अत्ति तथा भक्ष्याणि कुरुत ॥३९॥
उपलावणिकं त्व् एकाः कश्चित् कुरुत दाधिकम् ।
सार्पिष्कम् अपरा यूयं वत्साः शार्करिकं पराः ॥४०॥
एकाः सख्य उपलावणिकम् उपाधिक्येन लवण-निर्मितं, दाधिकं दधि-कृतं,
सार्पिष्कं घृत-पक्वं शार्करिकं खण्ड-निर्मितं कुरुतेत्य् अत्र लवणादेर् यथा योग्य-मिलनेन निर्माणं ज्ञेयम् ॥४०॥
स-रस-रसवती सत्-प्रक्रिया-पण्डितासि त्वम्
इह रसवतीं मे याहि राधे प्रयत्नात् ।
जननि बल-जनन्याधिष्ठितां मिष्टम् अन्नं
रचय सह तयैव व्यञ्जनान्य् उत्तमानि ॥४१॥
हे राधे ! हे जननि ! बल-जनन्या रोहिण्याधिष्ठितां रसवतां पाकशालां त्वं याहि । इह जगति सरस-रसवत्याः सरस-पाकस्य सत्-प्रक्रियायां पण्डितासि पण्डिता भवसि । अतः मिष्टम् अन्नं व्यञ्जनानि च यत्नात् रचय ॥४१॥
बटकम् अमृत-केलिं साधयाति-प्रयत्नात्
सरस-मसृणम् अन्यं पुत्रि कर्पूर-केलिम् ।
मधुरम् अमृत-कोटेर् यत्र कृष्णः सतृष्णस्
त्रिजगति न हि कश्चित् त्वाम् ऋते यस्य वेत्ता ॥४२॥
अमृत-केल्य्-आख्यं कर्पूर-केल्य्-आख्यं बटकं साधय कुरु । कीदृशं ? अमृत-कोटेर् मधुरम् । मसृणं चिक्कणं कोमलं च । यत्र बटके कृष्णः स-तृष्णः यस्य बटकस्य वेत्ता त्रिजगति त्वाम् ऋते कोऽपि न । यं त्वम् एव निर्मातुं जानामि ॥४२॥
यस्याम् उच्चैर् लालसाढ्यः सुतो मे
तां पीयूष-ग्रन्थि-पालीं कृत्वा ।
कर्पूरैलाद्य्-अन्विते पानके त्वं
यत्नात् वत्से धेहि पञ्चामृताख्ये ॥४३॥
हे वत्से राधे ! यस्यां पीयूष-ग्रन्थि-पाल्यां मे सुतः लालसाढ्यः स्यात् तां पीयूष-ग्रन्थि-पालीं कृत्वा एलादि-युक्तं पञ्चामृताख्ये पानके धेहि क्षिप ॥४३॥
त्वं विधेहि ललितेऽम्ब रसालां
त्वं च षाडवम् इहाशु विशाखे ।
त्वं च भोः शिखरिणीं शशिलेखे
पुत्रि चम्पकलते मथितं त्वम् ॥४४॥
हे अम्ब मातः ! ललिते ! त्वं रसानां घन-दुग्ध शर्करा कर्पूरादि-मिलनात् जाता रसाला इति । हे विशाखे ! त्वं षाडवं पानकम् । हे शशिलेखे ! त्वं शिखरिणीम् । निविड-दधि-शर्करा-कर्पूरादि-मिलनात् जातेति शिखरिणीति । हे चम्पकलते ! त्वं मथितं विधेहि ॥४४॥
आमिक्षां त्वं पुत्रि संसाध्य तस्यास्
तत्-तद्-द्रव्यैर् योग-पाक-प्रभेदैः ।
तत्-तद्-भेदान् तुङ्गविद्ये विधेहि त्वं
मत्स्यण्डी-पानकान्य् अम्ब चित्रे ॥४५॥
हे तुङ्गविद्ये ! आमिक्षाम् उष्ण-दुग्धे दधि-योगात् भवति तां संसाध्य कृत्वा तस्याः आमिक्षायाः तत्-तद्-द्रव्यैः सह योगेन पाकस्य प्रभेदैः तत्-तत्-पाकान्न-भेदात् विधेहि । हे चित्रे ! हे अम्ब मातः मत्स्यण्डी मिश्रीति ख्यातस्य खण्ड-विकारस्य पानकानि विधेहि ॥४५॥
त्वं खण्ड-मण्डानि च रङ्गदेवि
त्वं क्षीर-सारान् विविधन् सुदेवि ।
वासन्ति शुभ्रा मृदु-फेणिकास् त्वं
त्वं मङ्गले कुण्डलिकां विधेहि ॥४६॥
हे रङ्गदेवि ! खण्ड-मण्डानि, हे सुदेवि ! त्वं क्षीरसारान् । हे वासन्ति ! शुभ्राः शुक्ल-वर्णा मृदु-फेणिकाः । हे मङ्गले ! त्वं कुण्डलिकां जिलेपीति ख्यातां विधेहि ॥४६॥
कादम्बरि त्वं कुरु चन्द्र-कान्तीस्
त्वं लासिके तण्डुल-चूर्ण-पिण्डीः ।
त्वं शष्कुलीः कौमुदि-भूरि-भेदास्
त्वम् इन्दु-पिण्डानि मदालसेऽम्ब ॥४७॥
कादम्बरि त्वं कुरु चन्द्र-कान्तीस् त्वं लासिके तण्डुल-चूर्ण-पिण्डीः त्वं शष्कुलीः कौमुदि-भूरि-भेदास् त्वम् इन्दु-पिण्डानि मदालसेऽम्ब ॥४७॥
शशिमुखि बटकानि त्वं विधेहि प्रयत्नात्
दधि-बटक-मुखानि प्राज्य-माधुर्य-भाञ्जि ।
प्रणय सुमुखि रम्याः शर्करा-पट्तिकास् त्वं
मणिमति बहु-भेदांस् त्वं च पिष्टान्न-पूपान् ॥४८॥
हे शशिमुखि ! त्वं प्राज्यैः प्रचुरैर् माधुर्यैर् युक्तानि दधि-बटकानि विधेहि । हे सुमुखि ! रम्याः शर्करायाः पट्तिकाः प्रणय कुरु । हे मणिमति ! बहु-भेदान् पिष्टान्नैश् चूर्णान्नैः पूपान् पिष्टकान् ॥४८॥
विधत्स्व भोः काञ्चनवल्लि वत्से
गोधूम-चूर्णोद्भव-लड्डुकानि ।
मनोहराख्यानि मनोरमे त्वं
त्वं मौक्तिकाख्यानि च रत्नमाले ॥४९॥
भो वत्से काञ्चनवल्लि ! त्वं गोधूम-चूर्ण-सम्बन्धि सूत्राकार-घृत-पक्व-VṆ पक्वाख्यानि विधत्स्व कुरु । हे मनोरमे ! त्वं मनोहराख्यानि लड्डुकानि कुरु । हे रत्नमाले ! त्वं मौक्तिकाख्यानि मोतिचूराख्यानि लड्डुकानि कुरु ॥४९॥
सुभृष्ट-निस्तुष-तिलैर् मोदकान् कुरु माधवि[^१५]** ।
तथा तिल-कदम्बाख्यान् स-तिलाः खण्ड-पट्टिकाः ॥५०॥**
तिलस्य भेद-त्रयं मोदकं कदम्बाख्यं तिल-सहित-खण्ड-कृत-चतुष्कोणं च ॥५०॥
लाजान् धानांश् च सम्भृष्टान् पृथुकान् घृत-भर्जितान् ।
कृत्वा विन्ध्ये सिता-क्वाथैः समुद्गान् कुरु मोदकान् ॥५१॥
हे विन्ध्ये ! सम्भृष्टान् लाजान् धान्य-विकारान् धानान् यव-विकारान् पृथुकांश् चिपिटान् अपि घृतेन भर्जितान् कृत्वा सितायाः खण्डस्य क्वाथैः पाके निपात्य मोदकान् कुरु । कीदृशान् ? समुद्गः सम्पुटं तत्-तुल्यान् । किं वा, समुद्गैः मुद्ग-मोदकैः सह कुरु । तान् मुद्ग-मोदकान् अपि कुरु इत्य् अर्थः ॥५१॥
रम्भे करम्भं कुरु शातकुम्भ-
कुण्ड्यां सुरम्भा-फल-शर्कराद्यैः ।
निष्पीड्य पक्वाम्र-रसं मनोज्ञे
सिता-घन-क्षीर-युतं विधेहि ॥५२॥
हे रम्भे ! शातकुम्भस्य स्वर्णस्य कुण्ड्यां सुकदली-फल-शर्कराद्यैः करम्भं कुरु । करम्भो दधि-सक्तव इत्य् अमरः । पक्वाम्रस्य रसं निष्पीड्य मनोज्ञे तं सिता-घन-क्षीर-युतं विधेहि ॥५२॥
उत्थापितं यत् तु मया मथित्वा
प्रातः सुगन्धा पयसो दधीनि ।
तद् इष्ट-गन्धं नवनीत-पिण्डं
हैयङ्गवीनं कुरु भोः किलिम्बे ॥५३॥
हे किलिम्बे ! सुगन्धा पयसो दधीनि मया प्रातर् मथित्वा यन् नवनीत-पिण्डम् उत्थापितं तत् त्वं हैयङ्गवीनं कुरु । हैयङ्गवीनं ह्यो-गो-दोहोद्भवं घृतम् इत्य् अमरः ॥५३॥
स्वयं दुग्ध्वा व्रजेन्द्रेण प्रहितं धवला-पयः ।
पानार्थम् अम्बिके मन्दं त्वम् आवर्तय वत्सयोः ॥५४॥
हे अम्बिके ! वत्सयोः राम-कृष्णयोः पानार्थं धवला-पयः मन्दं यथा स्यात् तथा शृतं पक्वं कुरु ॥५४॥
ऋजीष-दर्वी-निवहैः परीतां
मृद्-दारु-कुण्ड्य्-आदिक-भाजनैश् च ।
चुल्ली-चयाढ्यां मम सिक्त-लिप्तां
तद्-दुग्ध-शालां व्रजताशु बालाः ॥५५॥
हे बालाः ! यूयं मम तत् तां दुग्ध-शालां व्रजत । कीदृशीं ? ऋजीषं पिष्ट-पचनम् इत्य् अमरः । तस्या दर्वी झाझरा इति प्रसिद्धा सच्-छिद्र-दर्वीति तासां निवहैः समूहैः परीताम् । मृन्-निर्मित-दारु-निर्मित-कुण्ड्य्-आदि-भाजनैः परीतां सिक्तां लिप्तां च चुल्ली-चयेनाढ्यां युक्ताम् ॥५५॥
नानोपकरणानि त्वं तानि तानि धनिष्ठिके ।
निष्कास्य तत्-तद्-भाण्डेभ्यः पात्रेष्व् आदाय दापय ॥५६॥
हे धनिष्ठिके ! तानि तानि पूर्वोक्तानि नानोपकरणानि तत्-तद्-भाण्डेभ्यो निष्कास्य बहिष्-कृत्य पात्रेष्व् आदाय दापय ॥५६॥
तत्-तत्-पदार्थांस् त्वरितं तुलस्या
सहानया रङ्गणमालिके त्वम् ।
आनीय कोषालयतोऽस्मदीयाद्
दासी-गणैर् दापय तत्र तत्र ॥५७॥
हे रङ्गणमालिके ! अनया तुलस्या सह अस्मदीयात् कोषालयात् भाण्डार-गृहात् दासी-गणैः करणैः तत्-तत्-पदार्थांस् त्वरितम् आनीय तत्र तत्र दापय ॥५७॥
आम्रातकाम्र-फल-पूर-करीर-धात्री
लिम्पाक-कोलि-रुचकादि-फलानि कामम् ।
तैले चिरं स-लवणे किल सन्धितानि
मूलान्य् अथार्द्रक-मूखानि च रोचकानि ॥५८॥
आम्रातको गौडे “आमडा”इति ख्यातः । आम्रः प्रसिद्धः । आम्रश् चूतो रसालोऽसौ सहकारोऽतिसौरभः इत्य् अमरः । फल-पूरो व्रजे “बिज्जरा”[^१६] आख्यातः । फलपूरो बीजपूर इत्य् अमरः । करीरो व्रजे “टेटि”इति करीलः ख्यातः । धात्री लिम्पाको “लेम्बु”इति ख्यातः । कोलिः कर्कन्धूर् बदरी कोलिः इत्य् अमरः । रुचकादिर् येषां तेषां फलानि[^१७] अथार्द्रकादीनि मूलानि कामं यथेप्सितं लवणे तैले चिरं चिर-कालात् सन्धितानि “आचार”इत्य् आख्यानि । कीदृशानि ? रोचकानि रुचि-कराणि ॥५८॥
मत्स्यण्डिका रस-चिरोषित-पक्व-चिञ्चा
धात्री-रसाल-बदरी शकलानि तद्वत् ।
निष्कास्य भोस् त्वम् इह मन्थनिकाकुलेभ्यः
कृत्वाननेन्दुमुखि काञ्चन-भाजनेषु ॥५९॥
तथा मत्स्यण्डिका मिश्रीति ख्याते रसे चिरोषितानि चिर-कालं व्याप्य स्थितानि तिन्तिडी चिञ्चाम्लिका इत्य् अमरः । पक्व-धात्री पक्वाम्रः पक्व-बदरी एषां शकलानि खण्डानि मन्थनिकानां भाण्डानां कुलेभ्यः समूहेभ्यः निष्कास्य काञ्चन-भाजनेषु कृत्वा, हे इन्दुमुखि ! त्वम् आनय ॥५९॥
शन्दे शुभे भरणि पीवरि मिष्ट-हस्ते
चुल्ली-चयोपरि धृतातुल-मन्थनीषु ।
दुग्धानि भारिक-गणोपहृतानि गोष्ठाद्
वत्साः शनैः श्रपयताशु निधाय यूयम् ॥६०॥
हे शन्दे ! हे शुभे ! हे भरणि ! हे पीवरि ! हे मिष्ट-हस्ते ! हे वत्साः ! यूयं गोष्ठात् भारिक-गणैर् आनीतानि दुग्धानि चुल्ली-समूहोपरि धृतातुल-मन्थनीषु दुग्ध-पाक-पात्रेषु निधाय कृत्वा श्रपयत पचत ॥६०॥
मुद्रिकावापकादीनि भूषणान्य् उत्तरीयकम् ।
यथार्हम् अङ्गाद् उत्तार्य निधय तुलसी-करे ॥६१॥
प्रक्षाल्य पाणि-चरणं सलिलैर् धनिष्ठा
दत्तैर् बलस्य जननीम् अभिवन्द्य मूर्ध्ना ।
प्रेम्ना तया नव-वधूर् इव लाल्यमान-
गान्धर्विका रसवतीम् अथ सा विवेश ॥६२॥
अथ गान्धर्विका राधा रसवतीं विवेश । किं कृत्वा ? यथा-योग्यम् अङ्गात् मुद्रिका आवापको वलयस् तद्-आदीनि भूषणानि, उत्तरीयं च उत्तार्य तुलस्याः करे निधय । आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् इत्य् अमरः । पाणि-चरणं प्रक्षाल्य राम-मातरं मूर्ध्नाभिवन्द्य, तया रोहिण्या नव-वधूर् इव लाल्यमाना सती ॥६१-६२॥
तत्-तत्-कर्मणि लग्नासु हर्षोत्फुल्लासु तास्व् अथ ।
तत्-तत्-कार्ये स्वतो व्यग्रान् दासान् आह व्रजेश्वरी ॥६३॥
व्रजेश्वरी श्री-यशोदा तत्-तत्-पूर्वोक्त-सर्वाणि तासु राधिकादिषु लग्नासु स्व-स्व-कार्ये स्वतो व्यग्रान् अपि दासान् आह ॥६३॥
सायं कलिन्द-दुहितुर् जल-भार-वाहैर्
आनीय बद्ध-वदनासु नवासु चेलैः ।
मन्दानिलेन्दूकर-शीतल-वेदि-मध्ये
स्यन्दालिका धृत-घटालिषु सम्भृतं यत् ॥६४॥
कुङ्कुमागुरु-हिमांशु-पटीरैस्
तत्-पयोद-सुपयः परिवास्य ।
सिक्त-मृष्ट-शशिकान्त-शिलोच्च-
स्नान-वेदिम् अभितो नय वत्स ॥६५॥
हे वत्स ! हे पयोद ! सायं-काले यमुनायाः यत् सुपयः जल-भार-वाहैर् आनीय मन्द-पवनेन तथेन्दु-किरणेन शीतल-वेदि-मध्ये स्यन्दालिका घटाधार-पात्र-विशेषः, तेषु धृत-घटालिषु नवासु चेलैर् बद्ध-वदनासु सम्भृतं यत् तत् सुपयः कुङ्कुम-कृष्णागुरु-कर्पूर-चन्दनैः परिवास्य सुगन्धं कृत्वा आदौ जल-सिक्तां पश्चान् मृष्टां मार्जितां चन्द्रकान्त-निर्मित-स्नान-वेदीम् अभितश् चतुर्-दिक्षु नय ॥६४-६५॥
घट-कुलेऽगुरु-धूम-सुधूपिते
त्वम् अपि पान-कृते सुतयोर् मम ।
विचकिलेन्दु-लवङ्ग-पाटलैः
प्रणय-वारिद वारि सुवासितम् ॥६६॥
हे वारिद ! त्वम् अपि सुतयोः पान-कृते पानार्थम् अगुरु-धूमेन सुधूपिते सुगन्धिते घट-कुले विचकिलं मल्लिका-पुष्पम् इन्दुः कर्पूरः, लवङ्ग-पाटल-पुष्पैर् वारि सुवासितं कुरु ॥६६॥
भो नापितात्मज सुबन्ध-मदीय-गेहात्
कल्याणदाख्य-भिषजा चिर-साधितं यत् ।
नारायणाख्य-वर-तैलम् अशेष-दोष-
शोषं सुपुष्टि-करम् आनय मर्दनार्थम् ॥६७॥
हे सुबन्धाख्य (हे सुगन्धाख्य) ! हे नापितात्मज ! कल्याणदाख्या यस्य तेन भिषजा वैद्येन चिर-कालेन साधितं यन् नारायणाख्य-वर-तैलम् । कीदृशं ? अनेक-दोष-नाशकं सुपुष्टि-करं सुतयोर् मर्दनार्थं तद् आनय ॥६७॥
सुबन्ध-कर्पूरक-नापितौ द्राग्
वत्सौ युवाम् आनयतं सुशीतम् ।
आङ्गीनम् उद्वर्तनम् इष्ट-गन्धं
कैश्यं च पिष्टामलकीय-कल्कम् ॥६८॥
हे सुबन्धाख्य-कर्पूरकाख्यौ नापितौ ! वत्सौ ! युवां सुशीतम् आङ्गीनम् अङ्गेषु हितम् इष्ट-गन्धम् उद्वर्तनम्[^१८] आनयतम् । कैश्यं केशे देयं हितं पिष्टामलकीय-कल्कम्[^१९] आनयतम् ॥६८॥
स्नानीय-चीनेन्दु-निभांशुक-द्वयं
गाङ्गेय-कान्त्य्-उद्गमनीयकं तथा ।
कौशेय-युग्मं पट-वास-वासितं
सारङ्ग भोः सङ्कुचितं कुरु द्रुतम् ॥६९॥
भोः सारङ्ग ! स्नानीयं स्नान-योग्यं चीनं सूक्ष्मम् इन्दु-निभं शुक्ल-वर्णम् अंशुक-द्वयं द्रुतं सङ्कुचितं कुरु । तथा पट-वासेन सुगन्ध-चूर्णेन वासितं कौशेय-युग्मं पट्ट-वस्त्र-युग्मं गाङ्गेय-कान्ति स्वर्ण-वर्णम् उद्गमनीयकं स्नानान्तरं परिधेयं धौत-वस्त्र-युग्मम् । तत् स्याद् उद्गमनीयं यद् धौतयोर् वस्त्रयोर् युगम् इत्य् अमरः ॥६९॥
उष्णीषकं कञ्चुकम् अन्तरीयकं
स-तुन्द-बन्धं त्व् इति यन् नवीनम् ।
बालार्क-हेमारुण-चित्र-वर्णं
वासश् चतुष्कं व्रज-वेश-योग्यम् ॥७०॥
विखण्डिताखण्डित-भूरि-वर्णं
स्यूतं च यद् रौचिक-सौचिकेन ।
भूयिष्ठम् अन्यन् नटवेश-योग्यं
सङ्कोच्य तद्वद् बकुलानय त्वम् ॥७१॥
बालार्क-वर्णम् उष्णीषकं मस्तक-बन्धनं वास एकं, हेम-वर्ण-कञ्चुकं सर्वाङ्ग-परिधेयं द्वितीयं, अरुण-वर्णम् अन्तरीयकम् अधो-वासस् तृतीयं, चित्र-वर्णं तुन्द-बन्धं चतुर्थं, व्रजेऽत्र ग्रामे वेशाय योग्यं नवीनम् । हे बकुल ! त्वम् आनयेति परेण सम्बन्धः । रौचिकाख्य-सौचिकेन सूचि-वृत्तिकेन विशेषेण खण्डितम् अखण्डितं च तत् भूरि-वर्णं बहु-वर्णं स्यूतं सूत्र-द्वारा चातुर्येण निर्मितं भूयिष्ठम् अन्यच् च नटवद् वेश-योग्यं सङ्कुच्यानय ॥७०-७१॥
कस्तूरिकेन्द्व्-अगुरु-कुङ्कुम-चन्दनाद्यैर्
यत्नाच् चतुः-सम-मुखानि विलेपनानि ।
सम्पाद्य पूरय सुवास-विलास-गन्धिन्
रत्नावली-खचित-मौक्तिक-सम्पुटेषु ॥७२॥
कस्तूरिकेन्द्व्-अगुरु-कुङ्कुम-चन्दनाद्यैर् यत्नाच् चतुः-सम-मुखानि विलेपनानि सम्पाद्य पूरय सुवास-विलास-गन्धिन् रत्नावली-खचित-मौक्तिक-सम्पुटेषु ॥७२॥
पिण्ढि गोरोचनां कर्तुं तिलकं तालिकालिके ।
सुचित्र कुरु चित्राय गिरीन्द्र-धातु-वर्णिकाः ॥७३॥
हे तालिके ! अलिके ललाटे तिलकं कर्तुं गोरोचनां पिण्ढि चूर्णां कुरु । हे सुचित्र ! चित्राय गिरीन्द्रस्य धातोर् गैरिकादेः शुक्ल-रक्त-पीत-वर्णादेः पेषणं कृत्वा वर्णिकाः कुरु ॥७३॥
हे पुष्पहास सुमनो मकरन्द यूयं
चाम्पेय-पुण्ड्रक-सुकाञ्चन-यूथिकाद्यैः ।
पुष्पैर् विधाय विविधाः कुरुताशु-मालाः
कालागुरु-द्रव-हिमांशु-सुवासितास् ताः ॥७४॥
हे पुष्पहास ! हे सुमनः ! हे मकरन्द ! यूयं चाम्पेयः पुण्ड्रको माधवी, अतिमुक्तः पुण्ड्रकः स्याद् वासन्ती माधवी-लता इत्य् अमरः । स्वर्ण-यूथिकाद्यैः पुष्पैर् मालाः विधाय विविधाः कृष्णागुरोर् द्रवैः कर्पूरैश् च सुवासिताः कुरुतः ॥७४॥
रत्नावली-खचित-हाटक-भूषणानि
स्नेहान् मदाग्रह-भरेण चिरेण यत्नात् ।
निष्पाद्य सायम् इह काञ्चन-कार-मुख्यैर्
दत्तानि यानि मम रङ्गण-टङ्क-नाद्यैः ॥७५॥
रङ्गण-टङ्गनाख्याद्यैः काञ्चन-कार-मुख्यैः स्नेहान् ममाग्रह-भरेण रत्नावली-खचित-स्वर्ण-भूषणानि चिरेण यत्नान् निष्पाद्य सायं समयं यानि दत्तानि तानि ॥७५॥
सैरिन्ध्र मालिन् मकरन्द भृङ्गिन्
निष्कास्य कोषालयतो भवद्भिः ।
पुष्येण भानोर् अमृतेऽद्य वारे
तैर् एव वत्सौ मम भूषणीयौ ॥७६॥
हे सैरिन्ध्र ! हे मालिन् ! हे मकरन्द ! हे भृङ्गिन् ! भवद्भिः निष्कास्य कोषालयात् निष्कास्याद्य पुष्येण नक्षत्रेण सह भानेः सूर्यस्य वार-योगाद् अमृतेऽद्य दिवसे तैर् भूषणैर् एव मम वत्सौ विभूषणीयौ ॥७६॥
वत्स शालिक विधेह्य् अवतंसं
नीलकण्ठ-नव-पिञ्छ-समूहैः ।
त्वं च मालिक-सितारुण-गुञ्जा-
पुञ्जकैर् विविध-हार-सुगुच्छान् ॥७७॥
हे वत्स शालिक ! नीलकण्ठस्य मयूरस्य नव-पिच्छ-समूहैर् अवतंसं शिरो-भूषणं विधेहि । हे मालिक ! त्वं श्वेतारुण-वर्ण-गुञ्जा-समूहैः विविध-हारेण सह सुगुच्छान् विधेहि । पूर्व-श्लोकोक्त-रत्नालङ्कारं स्वेच्छया मयूर-पिच्छ-कृतं कृष्णेच्छया ॥७७॥
जम्बुल जाम्बूनद-कान्ति-मिष्ट-
ताम्बूल-वल्ली-दल-सञ्चयं त्वम् ।
सुकर्तरी खण्डित-हेय-भागं
विधेहि चीनांशुक-मार्जितं द्राक् ॥७८॥
हे जम्बुल ! त्वं जाम्बूनदस्य स्वर्णस्येव कान्तिर् यस्य तथा-भूतं मिष्ट-ताम्बूल-वल्ल्या दल-समूहं सुकर्तर्या काञ्चीति ख्यातया खण्डितो हेय-भागस् त्याज्य-भागो यस्य तथा-भूतं, चीनांशुकेन सूक्ष्म-वस्त्रेण मार्जितं च विधेहि ॥७८॥
धात्री-दलाभ-खर-यन्त्र-निकृत्त-नव्य-
क्षीरार्द्र-पूग-फल-सूक्ष्म-दलानि कामम् ।
निर्माय तानि घनसार-सुवासितानि
स्निग्धानि वत्स सुविलास विधेहि तूर्णम् ॥७९॥
हे वत्स सुविलास ! धात्री-दलाभानि धात्र्याः पत्राणीव खर-यन्त्रेण निकृत्तानि छिन्नानि नव्यानां क्षीरेण पयसा आर्द्राणां पूग-फलानां सूक्ष्म-दलानि निर्माय यथेष्टं तानि घनसारेण कर्पूरेण सुवासितानि विधेहि ॥७९॥
वस्त्र-शोधित-चूर्णैला-लवङ्ग-खदिरादिभिः ।
भो रसाल-विशालाख्य कुरुतं वीटिकां युवाम् ॥८०॥
भो रसाल ! भो विशालाख्य ! युवां वस्त्र-शोधित एलाच-लवङ्ग-खदिरादयस् तैः सह वीटिकां कुरुतम् ॥८०॥
तं कर्म-सक्तेष्व् अथ तेषु माता
सुतागमाध्वार्पित-नेत्र-युग्मा ।
इत्य् आह गोष्ठागत-भार-वाहान्
कृष्णः किम् आयाति कथं विलम्बः ॥८१॥
तेषु दासेषु तत्-तत्-कर्म-सक्तेषु सत्सु गोष्ठागत-दुग्ध-भार-वाहान् माता इत्य् आह । किम् आह ? कृष्णः किम् आयाति ? तैर् नेत्य् उक्ते कथं विलम्ब इत्य् आह ॥८१॥
ताम् आहुर् एके मृदु-शाद-पल्लवान्
नवीन-वत्सान् किल चारयत्य् असौ ।
अन्ये तदोचुः स हि गो-वृषैर् वृषान्
संयोधयन् क्रीडति बालकैर् वृतः ॥८२॥
एके तां यशोदाम् आहुः, असौ कृष्णो नवीन-वत्सान् मृदु-शाद-पल्लवान् कोमल-घास-पल्लवान् चारयति । शाद्वलः शाद-हरिते इत्य् अमरः । अन्ये गो-वृषैर् वृषान् संयोधयन् क्रीडतीत्य् ऊचुः ॥८२॥
अथाह पुत्रानयनोत्सुकोत्सुकं
सा रक्तकं शक्तम् अमुष्य सेवने ।
त्वं वत्स गत्वा मधुमङ्गलं बलं
तं चञ्चलं चानय मत्-सुतं द्रुतम् ॥८३॥
पुत्रानयने उत्सुका सा अमुष्य कृष्णस्य सेवने शक्तम् उत्सुकं च रक्तकाख्यं दासम् आह—हे वत्स ! त्वं गत्वा मधुमङ्गलं बलदेवं चञ्चलं तं कृष्णं चानय ॥८३॥
प्रहित्य तं साथ महानसं गता
किं किं त्वया साधितम् एतया सह ।
सर्वं तद् एतन् मम तेमनादिकं
सन्दर्शयेत्य् आह बलस्य मातरम् ॥८४॥
अथ सा यशोदा महानसं रन्धन-शालां गत्वा अनया रूप्३ सह किं किं तेमनादिकं त्वया साधितम् एतत् तत् सर्वं मम मां सन्दर्शयेति रोहिणीम् आह । तत्र द्वितीयायां षष्ठी ॥८४॥
ताम् आह सम्मार्जित-वेदिकान्तरे
नवीन-मृद्भाजन-पङ्क्ति-सम्भृतम् ।
सा दर्शयन्ती कृत-तेमनादिकं
राधां प्रशंसन्त्य् अथ तां च रोहिणी ॥८५॥
सा रोहिणी तां रूप्२ प्रशंसन्ती तथा सम्मार्जित-वेदिका-मध्ये नवीन-मृत्तिका-भाजन-पङ्क्तिषु सम्भृतं सम्यग् धृतं कृत-तेमनादिकं दर्शयन्ती तां यशोदाम् आह ॥८५॥
सुमधुरं शशितोऽपि सुसंस्कृतं
निपुणया पचने मृदु राधया ।
प्रवर-मन्थनिकासु सुसम्भृतं
सुमुखि पश्य पुरः सखि पायसाम् ॥८६॥
पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः [भा।पु। १०.२४.२६] इत्य्-आदि-भागवतोक्त-रीत्यादौ कृतं पायसं दर्शयन्ती आह—हे सुमुखि ! हे सखि ! पचने निपुणया मृदु राधया शिशितोऽपि सुमधुरं शुभांशे च शीतल-पायसस्य माधुर्याधिक्यात् सुसंस्कृतं च प्रवर-मन्थनिकासु बृहन्-मृद्-भाण्डेषु सुसम्भृतं पायसं
पश्य । मृत्-पात्रे धृतस्य वस्तुनः आशु रसान्तरानुत्पादनात् ॥८६॥
बल-पुष्टि-करं हृद्यं मधुरं मृदुलं सति ।
मन्थनी सम्भृतं पश्य संयावं च मया कृतम् ॥८७॥
संयावं दुग्ध-पक्व-गोधूम-चूर्णं स-खण्ड-सुगन्धि-द्रव्य-सहितम् ॥८७॥
रम्भा-सीरि-क्षीरसार-शष्कुलीर् विविधाः सखि ।
पश्य पिष्ट-विकारांश् च नाना-भेदान् सुसम्स्कृतान् ॥८८॥
रम्भा कदली । सीरी नारिकेलः । क्षीर-सारः एतैर् बहुविधाः शष्कुलीः गोधूम-चूर्ण-सुसंस्कृतान् नाना-भेदान् पिष्ट-विकारांश् च । “पश्य सीरीशस्य क्षीरसारेण शष्कुलीर् विविधाः पराः”इत्य् अपि पाठः ॥८८॥
पीयूष-ग्रन्थि-कर्पूर-केलिकामृत-केलिकाः ।
अनया संस्कृताः पश्य यद्-विधिर् मे न गोचरः ॥८९॥
अनया संस्कृताः पीयूष-ग्रन्थि-कर्पूर-केल्य्-अमृत-केलिकाः पश्य यस्य विधिर् मम न गोचरः ॥८९॥
केवलो मथित-क्लिन्नो मौद्गोऽयं बटको द्विधा ।
सिता-लवण-संयोगान् मासीयोऽपि द्विधा कृतः ॥९०॥
सिता-संयोगात् केवलः । लवण-संयोगान् मथिते तक्रे क्लिन्ने मग्नश् च एवं मुद्ग-निर्मित-बटको द्विधा मासस्यापि द्विधा मिलित्वा चतुर्-विधः ॥९०॥
चिञ्चाम्रातक-चुक्राम्रैस् तत्-तद्-द्रव्यादि-योगतः ।
ईषन् मधुर-गाढाम्ल-भेदाद् अम्लो द्विषड्-विधा ॥९१॥
चिञ्चा तिन्तिडी आम्रातकः गौडे आमडेति चुक्रः चुक्राख्यः शाक-विशेषः ।
चाङ्गेरी चुक्रिका दन्त-शटाम्बष्ठाम्ल-लोणिका । सहस्र-वेधी चुक्रोऽम्ल-वेतसः शत-वेध्य् अपि ॥ इत्य् अमरः ।
आम्र इति चतुर्विधः स्वतः । द्रव्यादि-योगात् तत्-तत्-त्विञ्चादयः । ईषन्-मधुरः सिताया अल्प-मिलनात् । अतोऽधिक-सितादि-मिलनात् गाढ-मधुरो भवतीति । एवम् अग्रेऽपि आदि-शब्दानाद् बोध्यम् । यद् वा, तत्-तद्-द्रव्यं मुद्ग-मास-बटकस् तस्य योगाच् चतुर्विधः । द्रव्य-योगाच् चतुर्-विधानाम् एव । ईषन्-मधुर-गाढ-मधुर-भेदाद् भेदाष्टकं मिलित्वा द्वादश-विधोऽम्लः ॥९१॥
बद्ध-रम्भा-नव्य-गर्भ-तन्-नव्य-मुकुलांशयोः ।
मान-कन्दाम्बु-कच्वीनां मुखांशस्यालुकस्य च ॥९२॥
बद्ध-रम्भा रम्भा-फलस्य कदली-फलस्य निर्गम-समये मुखं बद्ध्वा गर्भ-मध्ये अतिपुष्णाति । कोमलस्य नव्य-मुकुल-नव्यांशयोः, गौडे मोचा-थोडाख्या, तयोः । तथा मानः, गौडे मान-कचु-ख्यातः कन्दः साकर-कन्दः । अम्बु-कच्वी, गौडे पानि-कचु-प्रसिद्धानां मध्ये ये मुख्या मुखास् तेषाम् अंशस्य खण्डस्य । यद् वा, मुखांशस्य, न तु पश्चाद्-भागस्य आलुकस्य, गौडे आलु इति ख्यातस्य ॥९२॥
कुष्माण्ड-डिण्डिशानां च चक्राभ-खण्ड-जालकम् ।
चणक-क्षोद-पङ्काक्तं घृत-भृष्टं पृथक् पृथक् ॥९३॥
कुष्माण्डः, गौडे कुमुराख्यः । डिण्डिशः, गौडे डिङ्गिलाख्यः सूर्य-कुमुडा इति ख्यातः । एतेषां चक्राकार-खण्ड-समूहं चणक-द्विदल-चूर्ण-पङ्केनाक्तं व्याप्तं घृतेन भृष्टं पृथक् पृथक् पश्य ॥९३॥
चणक-क्षोद-बटकान्य् आज्य-भृष्टानि केवलम् ।
अपराण्य् अम्ल-सत्-तक्र-क्वाथ-क्लिन्नानि लोकय ॥९४॥
व्रजे पाकडाख्यानि चणक-बटकान्य् घृत-भृष्टानि केवलं द्रव्यान्तरायोगात् द्रव्यान्तर-मिलनेनाह । आम्ल-सत्-तक्र-क्वाथयोर् मिलनात् क्लिन्नान्य् अपराणि बटकानि पश्य ॥९४॥
चणक-क्षोद-पिण्डानां स्विन्नानां क्वतिथाम्भसि ।
खण्डानि द्रव्य-पाकादि-भेदान् नाना-विधानि च ॥९५॥
क्वतिथाम्भसि अत्युष्णोदके स्विन्नानां चणक-चूर्ण-पिण्डानां खण्डानि द्रव्य-पाकादीनां भेदान् नाना-विधानि ॥९५॥
बटिका फल-मूलानां पृथक् संयोग-भेदतः ।
त्रिजात-मरिचाद्यैस् तु प्रकारान् बहुधा कृतान् ॥९६॥
त्रिजात-मरिचाद्यैः करणैः बटिका फल-मूलानां पृथक् संयोग-भेदात् बहुधा कृतान् एक-द्रव्यस्य बहु-प्रकारान् त्रिजातेति तेज-पत्र-रस-वास-गुडत्वक् इति । केचित् जाय-फल-दारुचिनी-जायत्रीति वदन्ति ॥९६॥
कर्कारु-ज्योत्स्निकालाबु-फलान्य् आलि पृथक् पृथक् ।
राजिका दधि-योगेन संस्कृतान्य् अनया शुभे ॥९७॥
कर्कारु कुष्माण्डः । कूष्माण्डकस् तु कर्कारुरुर् इत्य् अमरः । ज्योत्स्निका गौडे झिङ्गा इति प्रसिद्धा । ज्योत्स्नी पटोलिका जाली नादेयी भूमि-जम्बुका इत्य् अमरः । अलाबुर् गौडे लाउ इति । घिया इत्य्-आदीनि च फलानि राजिका राइ इत्य् आख्या क्षुद्र-सर्षप-भेदः । दधि-योगेन अनया संस्कृतानि व्रजे रायता इत्य् आख्यानि । क्षवः क्षुताभिजननो राजिका कृष्णिकाऽऽसुरी इत्य् अमरः ॥९७॥
वत्सेप्सित-प्रसूनानि घृत-भृष्टानि केवलम् ।
घृत-भृष्टा दधि-क्लिन्नाः कलिकाः कोविदारजाः ॥९८॥
केवलं घृतेन भृष्टानि वत्सेप्सितानि । वत्सः कृष्णस् तस्य ईप्सितानि प्रसूनानि व्रजे वचसीत्य् आख्यानि केचित् बक-पुष्पाणि । केचिद् वारजाः काञ्चन-पुष्प-कलिका दधि-क्लिन्नाः । कोविदार् कोविदारे चमरिकः कुद्दालो युगपत्रकः इत्य् अमरः ॥९८॥
घृत-भृष्टा दधि-क्लिन्नाः प्रसून-बटिका द्विधा ।
पटोलस्य फलान्य् आज्य-भृष्टानि रुचिदान्य् अलम् ॥९९॥
आज्येन घृतेन भृष्टानि पटोल-फलानि ॥९९॥
वृद्ध-कुष्माण्ड-बटिकाः कच्वी-मानालु-कन्दकैः ।
तिक्त-नालीत-चूर्णाढ्याश् चविकाढ्याः पराः कृताः ॥१००॥
कच्वी गौडे “कचु”इत्य् आख्या । मानो “मान-कचु”इत्य् आख्या । आलुः कन्दकः “साकरकन्द्”-आख्याः, एतैः सह वृद्ध-कुष्माण्ड-बटिकाः कृताः । एतेषां मध्ये केचित् तिक्त-नालीत-चूर्णैर् आढ्याः कृताः । केचिच् चविका गौडे “चै”इत्य् आख्यत्य्-आढ्याः कृताः ॥१००॥
सितैला-मरिचैर् योगाद् दुग्ध-तुम्बी कृतानया ।
तद्-योगाद् अपरं मिष्टं क्षीर-कुष्माण्ड-नामकम् ॥१०१॥
सिता-खण्डः, एला एलाचाख्यः मरिचैश् च योगात् दुग्धेन सह तुम्बी अनया कृता । तद्-योगात् सितैला मरिचैर् योगात् क्षीरेण सह कुष्माण्डस्य पाकात् ॥१०१॥
दधि-शूरणकं मिष्टं धात्री-शूरणकं परम् ।
दध्नैकं भर्जितं चान्यत् कार-बिल्व-फलं द्विधा ॥१०२॥
दधि-शूरणकं गौडे “ओल”इत्य् आख्यं मिष्टं सितादि-योगेन । धात्री-फलेन सह परं शूरणकं दध्नैकम् अन्यत् घृतेन भर्जितम् । कार-बिल्व-फलं “कथबेल”-आख्यं फलं द्विधा सिता-योगेन एकं दधि-योगेनापरं पूर्ववत् दृष्टा ज्ञेयम् । केचित् तु कार-बिल्व-फलं “करला”इति ख्यातं क्षुद्र-बृहद्-भेदेन द्विधा भर्जितम् इत्य् आहुः ॥१०२॥
मृदु-रम्भा-गर्भ-खण्ड-वृद्ध-कुष्माण्ड-खण्डयोः ।
सिता-दधि-युतः पाको मधुराम्लः सुशीतलः ॥१०३॥
मृदु-रम्भा-गर्भं गौडे “गर्भ-थोड”-आख्यस्य खण्ड-वृद्ध-कुष्माण्ड-खण्डयोः
सिता-दधि-युतः पाको मधुराम्लः ॥१०३॥
नालीत-मेथी-शत-पुष्पिका-मिशी-
पटोल-वास्तूक-वितुन्न-मारिषाः ।
प्रकार-संयोग-विभेदतोऽनया
शाकाः सुधा-गर्व-हृतः सुसंस्कृताः ॥१०४॥
नालीतः गौडे नालिताख्यः । मेथी प्रसिद्धः । शत-पुष्पिका गौडे “शलुफा”आख्यः । शत-पुष्पा सित-च्छत्रा इत्य् अमरः । मिशी गौडे “महुरो”इत्य् आख्यः । पटोलः “पटल”-आख्यः । वास्तूकः गौडे “बथुआ”इत्य् आख्यः । वितुन्न-मारिषाः प्रकार-संयोग-विभेदतोऽनया शाकाः सुधा-गर्व-हृतः सुसंस्कृताः ॥१०४॥
कलम्बी-पक्व-चिञ्चाया रस-पक्वा रुचि-प्रदा ।
कृष्ण-नालीत-शाकोऽयम् आमाम्र-फल-युक् शुभः ॥१०५॥
पक्व-चिञ्चा पक्व-चिन्तडी, तस्या रसेन पक्वा । कलम्बी “कमली”इत्य् आख्या रुचि-प्रदाख्या वा कृता । कृष्ण-नालीत-शाकः आमाम्रः अपक्वाम्र-फलेन युतः शुभाख्यः शुभ-रूपो वा ॥१०५॥
मुकुष्टकस्य मुद्गस्य मासस्याप्य् अधुना मया ।
त्रिविधोऽयं सुधा-कूप-निभः सूपो विपाच्यते ॥१०६॥
मुकुष्टकस्य व्रजे मोटाख्यस्य, मकुष्ठक-मयुष्ठकौ वन-मुद्गे इत्य् अमरः । मुद्गस्य मासस्य द्विदल-पाकेन सूपः सुधा-कूप-तुल्यस् त्रिविधोऽयं मया विपाच्यते । मासस्य चणकस्य च चतुर्विधः सुधा-कूप-निभ इति पाठान्तरः ॥१०६॥
पङ्कैः सुमन-चूर्णानां दासीभिर् भृश-मर्दितैः ।
पूर्णेन्दु-मण्डलाकाराः क्रियन्ते रोटिका मया ॥१०७॥
सुमन-चूर्णानां गोधूम-चूर्णानां पङ्कैर् दासीभिर् भृश-मर्दितैर् मर्दनाधिक्येन रोटिकाः कोमलादि-गुण-युता भवन्ति । पूर्ण-चन्द्र-मण्डलाकारा इत्य् अनेन शुक्ल-सुवर्तुलाकार इत्य् अनेनाह्लाद-जनकत्वादिकं रोटिका मया क्रियन्ते । गोधूमः सुमनः समौ इत्य् अमरः ॥१०७॥
क्षालिताश् चीन-चेलेषु निबद्धास् तण्डूला इमे ।
आगते गोष्ठतः कृष्णे पाच्या मे क्वथिताम्भसि ॥१०८॥
इमे तण्डूला आदौ क्षालिताः पश्चाच् चीन-चेलेषु सूक्ष्म-वस्त्रेषु बद्धाः कृष्णे गोष्ठाद् आगते सति क्वथिताम्भसि उष्ण-तोये क्षिप्त्वा मया पाच्या ॥१०८॥
कृतानि क्रियमाणानि कर्तव्यानि तु कानिचित् ।
इत्य् अन्न-व्यञ्जनानि त्वं संसिद्धानि प्रतीहि नौ ॥१०९॥
अन्न-व्यञ्जनानि सिद्धानि नौ आवाभ्याम् इत्य् अनेनात्र विलम्बो नास्तीति प्रतीहि ॥१०९॥
सौरभ्य-सद्-वर्ण-मनोहरं तत्
सा वीक्ष्य सर्वं मुदिता बभूव ।
जिज्ञासमानाम् अथ तद् विधानं
तां रोहिणी विस्मय-पूर्वम् आह ॥११०॥
तत् सर्वं सौरभ्य-सद्-वर्ण-मनोहरं च सा वीक्ष्य मुदिताभूत् । तद् विधानं केन प्रकारेण एतादृशं सौरभ्यादिकं जातम् इति जिज्ञासमानां तां यशोदां रोहिण्य् आह ॥११०॥
सामग्री सैव सामान्या पाकस्य प्रक्रियाप्य् असौ ।
किन्त्व् अपूर्व-गुणे हेतुर् गान्धर्वा हस्त-सौष्ठवम् ॥१११॥
असौ पाक-सामग्री पाक-क्रिया च सामान्या सर्व-साधारण्य् एव, न त्व् अतिचमत्कारिणी । तथाप्य् अत्र सौरभ्याद्य्-असाधारण-गुणे राधिका हस्त-सौष्ठवं हेतुः ॥१११॥
सा तां राधाम् अन्न-संस्कार-सक्तां
प्रस्विद्यन्तीं लज्जया नम्र-वक्त्राम् ।
दृष्ट्वा राज्ञी स्नेह-विक्लिन्न-चित्ता
दासीम् अस्या वीजनायादिदेश ॥११२॥
स्व-गुण-शास्त्रेन स्वभावतश् च नम्र-वक्त्राम् अन्नस्य संस्कारे राधां प्रस्विद्यन्तीं दृष्ट्वा सा राज्ञी यशोदा स्नेह-विक्लिन्न-चित्ता अस्या वीजनाय एतां वीजितुं दासीम् आदिदेश ॥११२॥
ततो गता दुग्ध-गृहं व्रजेश्वरी
तत्रापि ताभिः परिसंस्कृतान्य् असौ ।
सर्वाणि भक्ष्याणि विलोक्य नन्दिता
सुतागमोत्का लघु गोपुरं ययौ ॥११३॥
तद्-अनन्तरम् असौ व्रजेश्वरी दुग्ध-गृहं गता तत्रापि ताभिस् तत्-पाक-कर्तृभिः परिसंस्कृतानि सर्वाणि भक्ष्याणि दृष्ट्वा नन्दिता सा कृष्णागमे उत्कण्ठिता सती लब्ध-नति-विस्तीर्णं गोपुरम् । यद् वा, लघु शीघ्रं यथा स्यात् तथा गोपुरं पुर-द्वारं ययौ । पुर-द्वारं तु गोपुरम् इत्य् अमरः ॥११३॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः कल्य-विलास-वर्णन-मयः सोऽयं तृतीयो गतः ॥
इति श्री-गोविन्द-लीलामृते सद्-आनन्द-विधायिन्यां
प्रातः-काल-विलास-वर्णन-मयस् तृतीयः सर्गः
॥३॥
॥।
(४)